लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः ०५९

← अध्यायः ५८ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)
अध्यायः ५९
[[लेखकः :|]]
अध्यायः ६० →

श्रीनारायणीश्रीरुवाच-
नारायण हरे कान्त श्रीपते परमेश्वर ।
नारदः केन योगेन गानविद्यां हि लब्धवान् ।। १ ।।
तुम्बुरोश्च समानत्वं कदा काले उपेयिवान् ।
पूर्वकल्पकथां चैतां वद मे श्रीनरायण ।। २ ।।
श्रीपुरुषोत्तम उवाच-
शृणु त्वं शिवराज्ञीश्रि विस्तरात्तां कथां शुभाम् ।
नारदस्तत आरभ्य वैकुण्ठाच्च विनिर्ययौ ।। ३ ।।
निरुच्छ्रासेन विमनास्तुम्बुरोर्गौरवं स्मरन् ।
तताप वर्षसाहस्रं तपोराशिस्ततोऽभवत् ।। ४ ।।
तदाऽन्तरीक्षे शुश्राव भारतीमशरीरिणीम् ।
किमर्थं नारद चैतत्तपस्तपसि दुश्चरम् ।। ५ ।।
उलूकं पश्य गत्वा त्वं यदि गाने रता मतिः ।
मानसोत्तरशैले वै गानबन्धुरितिश्रुतम् ।। ६ ।।
गच्छ शीघ्रं प्रपश्यैनं गानवित् त्वं भविष्यसि ।
इत्युक्तो नारदः शीघ्रं गानबन्धुं जगाम ह ।। ७ ।।
कामरूपधरः पक्षी कामस्वरोऽतिदैवतः ।
शिक्षयति स्म गानं च पक्षिणो देहिनोऽपि च ।। ८ ।।
गन्धर्वाः किन्नरा यक्षास्तथा चाप्सरसां गणाः ।
समासीनास्तु परितो गानबन्धुं तदाभवन् ।। ९ ।।
गानविद्यां समापन्नाः शिक्षितास्तेन पक्षिणा ।
स्निग्धकण्ठस्वरास्तत्र गायन्ति स्म क्रमात्तदा ।। 3.59.१ ०।।
मुनिं नारदमालोक्य गानबन्धुरुवाच ह ।
नमस्ते मुनिशार्दूल स्वागतं तेऽभिवन्दनम् ।। ११ ।।
किमर्थ भगवाँश्चात्र कृपया वा यदृच्छया ।
दातुं वा दर्शनं पुण्यं वद किं करवाणि ते ।। १२।।
नारदस्तं तदा प्राह शृणूलूक यथातथम् ।
महाद्भुतं मम वृत्तं पुरा जातं वदामि ते ।। १३।।
अतीते कल्पके तत्राऽतीते युगे त्वहं हरेः ।
सन्निधावगमँस्तत्र गानं कर्तुं समुत्सुकः ।। १४।।
लक्ष्मीसमन्वितो विष्णुः समाहूय च तुम्बुरुम् ।
मां विनिर्धूय संहृष्टो ह्यशृणोद् गानमुत्तमम् ।। १५।।
तेनाऽहमतिदुःखार्तस्तपस्तप्तुं गतोऽभवम् ।
विष्णोर्माहात्म्ययुक्तस्य गानयोगस्य वैभवम् ।। १६।।
सञ्चिन्त्याऽहं तपो घोरं तप्तवान् वै ततः परम् ।
दिव्यवर्षसहस्रान्ते त्वामुद्दिश्याऽम्बरीं गिरम् ।। १७।।
अशृणवं गानबन्ध्वभिधं याहि मतिर्यदि ।
गाने चेद् वर्तते तर्हि ह्युलूकं पश्य मा चिरम् ।। १ ८।।
इत्यहं प्रेरितश्चात्र त्वत्समीपमुपागतः ।
शिष्यं मां त्वं ततो मत्वा प्रशिक्षय प्रपालय ।। १९ ।।
श्रुत्वैवं गानबन्धुश्च नारदं प्राह कोविदः ।
अत्याश्चर्यमयीं गाथां विष्णुभक्त्याश्रयां शुभाम् ।। 3.59.२० ।।
भुवनेशइतिख्यातो राजाऽभूत् पूर्वकल्पके ।
अश्वमेधसहस्रैश्च वाजपेयाऽयुतेन च ।। २१ ।।
गवां कोट्यर्बुदेनैव सुवर्णपद्मकोटिभिः ।
वाससां रथहस्तीनां कन्याऽश्वानां परार्धकैः ।। २२।।
दानं दत्वा हि विप्रेभ्यः साधुभ्योऽपालयद्धराम् ।
अगापयन्निजां कीर्तिं गायकेभ्योऽप्यहर्निशम् ।। २३ ।।
ये न गायन्ति तान् कारागारे धृत्वाऽवरुध्यति ।
मम गानमकुर्वाणो वध्यो मे-इतिशासनम् ।। २४।।
मम गानं प्रकुर्वन्तु स्त्रियो नराश्च नित्यशः ।
सूतमागधसंघाश्च गीतं कुर्वन्तु मे मुहुः ।। २५।।
इत्याज्ञप्य स राजा वै राज्यं स्वं पर्य्यपालयत् ।
तस्य नृपस्य साम्राज्ये हरिमिश्रइतिश्रुतः ।। २६।।
ब्राह्मणो विष्णुभक्तोऽभूद् गीतिं करोति वै हरेः ।
नदीपुलीनमासाद्य प्रतिमां श्रीहरेः शुभाम् ।।२७।।
अभ्यर्च्याऽपि च नैवेद्यं जलं दत्वा ह्यगायत ।
अतीव स्नेहसंयुक्तस्तालवर्णलयान्वितम् ।। २८ ।।
अथ राज्ञः समादेशकर्ता चारः समागतः ।
आज्ञापयामास तं च गातुं राज्ञो यशस्तदा ।। २९ ।।
विप्रश्च वैष्णवः सोऽपि नाऽङ्गीचकार तद्वचः ।
ततश्चारो ब्राह्मणं तं गृहीत्वा राजसन्निधौ ।। 3.59.३० ।।
नीत्वा न्यवेदयद् राजा भर्त्सयामास तं द्विजम् ।
राज्यान्निर्यातयामास हृत्वा सर्वं धनादिकम् ।। ३१ ।।
विप्रो वनान्तरे गत्वाऽभजच्छ्रीपरमेश्वरम् ।
राजा चाऽऽयुःक्षयेनैव कालधर्ममुपेयिवान् ।। ३ २।।
यत्रलोके गतस्तत्र कुंभीपाके पपात ह ।
क्षुधया च तृषा व्याप्तस्तिरस्कारैः प्रतोदितः ।। ३३ ।।
भुक्त्वा दुःखानि बहुधा ततः स्वर्गमुपागतः ।
किन्तु तत्र विमाने यत्प्राप्तं भोज्यं जलामृतम् ।। ३४।।
दृश्यमात्रं जायते तल्लीयते ग्रहणक्षणे ।
नैव पेयं तथा भोज्यं नृपदेवस्य जायते ।। ३५ ।।
तेन खिन्नः शुशोचापि स्वर्गतस्यापि मे त्विह ।
क्षुत्तृट्प्रवर्तते भोज्यं पेयं स्पृष्टं विलीयते ।। ३६ ।।
मया पापं कृत 'किं यत्फलं त्वेतत्प्रभुज्यते ।
इत्येवं चिन्तयानस्य व्योमवाणी ह्यजायत ।।३७।।
त्वया राजन्महत्पातं कृतमज्ञानमोहतः ।
हरिमिश्रं द्विजं कृष्णपरायणं हि गायकम् ।। ३८।।
तव गानमकुर्वन्तं दत्तवान् दण्डमुल्बणम् ।
त्वया हृतं धनं तस्य विवासितश्च राज्यतः ।। ३९ ।।
सक्षुधातृट्समवेतो वणे तपः करोति वै ।
भक्तोऽयं वै हरेः राजँस्त्वया प्रदुःखितः कृतः ।।3.59.४० ।।
तेन पापेन ते राजन् भोज्यं पेयं विलीयते ।
दानयज्ञादिकं सर्वं निष्फलं ते प्रजायते ।।४१ ।।
गीतवाद्यसमोपेतं गायमानं हरिश्रितम् ।
हरिमित्रं सुभक्तं त्वं दुःखितं चाऽकरोर्यतः ।।।४२।।।
नष्टस्ते स्वर्गलोकोऽपि गच्छ पर्वतकोटरम् ।
धूलीं खादन् वस तत्र यावन्मन्वन्तरं भवेत् ।।४३ ।।
कर्दमी नाम कीटस्त्वं ततः कालान्तरे पुनः ।
पापभोगं प्रभुक्त्वैव मानुष्यं त्वं गमिष्यसि ।।४४।।
इत्येवं स च राजा वै भ्रष्टः स्वर्गाच्च कोटरम् ।
आययौ कर्दमे जातः कर्दमी जलभूस्थले ।।४५।।
उलूकोऽहं तत्र चापि जिज्ञासार्थं गतोऽभवम् ।
मया पृष्टः स वृत्तान्तं जगाद पूर्वपादितम् ।।४६।।
भगवद्भक्तद्रोहस्य फलं कर्दमभक्षिताम् ।
जगादाऽपि ततश्चाहं निर्ययौ तस्य गह्वरात् ।। ४७।।
व्योममार्गे दृष्ट्ववोश्च विमानं पार्षदान्वितम् ।
गीतियुक्तं यत्र चास्ते ब्राह्मणो हरिमित्रकः ।।४८ ।।
देवैश्च पार्षदैश्चापि स्तूयमानो विमानके ।
विष्णुलोकं ययौ श्रीमान् मया सोऽपि विलोकितः ।।४९।।
हरेर्गानस्य पुण्यं तद् वैकुण्ठं प्रति सद्गतिः ।
तदैश्वर्यप्रभावेण मनो मे समुपागतम् ।। 3.59.५० ।।
गानविद्यां प्रति ततः किन्नरैः समुपाविशम् ।
षष्टिं वर्षसहस्राणां गानयोगेन मे ततः ।।५ १ ।।
जिह्वा वैशद्यमापन्ना ततो गानमशिक्षयम् ।
ततोऽपि बहुकालेन गानं चाऽशिक्षयं मुहुः । ।५२।।
गानयोगसमायुक्ता गता मन्वन्तरा दश ।
गानाचार्योऽभवं पूर्वे गन्धर्वाणां च योषिताम् ।।५३ ।।
किन्नराणां गायकानां सर्वेषां नरयोषिताम् ।
अप्सरसां तथाऽऽचार्यश्चाऽभवं पूर्वकल्पके ।।५४।।
गायकानां तदा संघा मामाचार्यमुपागताः ।
ये त्विदानीं नारदाऽत्र वर्तन्ते समुपस्थिताः ।।५५।।
ते तु शिष्यप्रशिष्याणां शाखासहस्रयोगिनः ।
वंशवंशानुवंश्याश्च वर्तन्ते मम शिष्यकाः ।।५६ ।।
तपसा नैव शक्या वै गानविद्या हि नारद ।
तस्माच्छ्रुतेन सम्पन्नो मत्तस्त्वं गानमाप्नुहि ।।५७।।
इत्युक्तो नारदो लक्ष्मि प्रणिपत्य नमस्य माम् ।
शिक्षाक्रमेण चोलूकात् तत्र गानमशिक्षत ।।५८।।
कथायां स्त्रीसहसंगे गीते द्यूते च भोजने ।
व्यवहारे द्रव्यलाभे चाये व्यये निजार्थके ।।५९।।
त्यक्तलज्जो जनो याति जयं लज्जायुतो न वै ।
न कुंचितेन गूढेन वस्त्रप्रावरणादिभिः ।।3.59.६ ०।।
हस्तविक्षेपभावेन व्यादितास्येन चैव ह ।
निर्यातजिह्वायोगेन न गेयं हि कथंचन ।।६१।।
न गायेदूर्ध्वबाहुत्वे नोर्ध्वदृष्टिः कथंचन ।
स्वांगं निरीक्षमाणेन परं सम्प्रेक्षता तथा ।।६२।।
संघट्टे च तथोत्थाने कटिस्थाने न शस्यते ।
ह्रासो रोषस्तथा कम्पस्तथाऽन्यत्र स्मृतिः पुनः ।।६३।।
नैतानि शस्तरूपाणि गानयोगे महामते ।
नैकहस्तेन शक्यं स्यात् तालसंघटनं मुने ।।६४।।
क्षुधार्तेन भयार्तेन तृषार्तेन तथैव च ।
गानयोगो न कर्तव्यो नान्धकारे कथञ्चन ।।६५।।
एवमादीनि चाऽन्यानि प्रमादाऽऽलस्यकानि च ।
न कर्तव्यानि वै रंगे गायता च विजानता ।।६६।।
एवं शिक्षां समगृह्य विधिना नारदो मुनिः ।
अशिक्षत तथा गीतं दिव्यं वर्षसहस्रकम् ।६७।।
ततः समस्तसम्पन्नो गीतप्रस्तरकादिषु ।
विपञ्च्यादिषु सम्पन्नः सर्वस्वरविभागवित् ।।६८।।
अयुतानि च षट्त्रिंशत् सहस्राणि शतानि च ।
स्वराणां भेदयोगेन ज्ञातवान् मुनिसत्तमः ।।६९।।
ततो गन्धर्वसंघाश्च किन्नराणां तथैव च ।
मुनिनां सह संयुक्ताः प्रीतियुक्तास्ततोऽभवन् ।।3.59.७०।।
गानबन्धुं मुनिः प्राह प्राप्य गानमनुत्तमम् ।
त्वां समासाद्य सम्पन्नस्त्वं हि गीतिविशारदः ।।७१ ।।
गुरो तव प्रपूजायां किमाचार्य! करोमि ते ।
गानबन्धुस्ततः प्राह ब्रह्मणो दिवसे खलु ।।७२।।
नश्यन्ति मनवस्तत्र चतुर्दश तथा त्वहम् ।
जीवामीति वरं देहि दक्षिणां हि ममेप्सिताम् ।।७३।।
तावन्मे त्वायुषो भावस्तावन्मे परमं शुभम् ।
मनसा वाञ्छितं मे स्याद् दक्षिणा नारदात्र वै ।।७४।।
नारदस्तं तदा प्राह भवत्वेवं ततोऽपि च ।
कल्पान्तरे भवानेव गरुडश्च भविष्यति ।।७५।।
स्वस्ति तेऽस्तु महाप्राज्ञ भगवद्वाहनः शुभः ।
गमिष्यामि नमस्तेऽस्त्वित्युक्त्वा श्रीनारदो ययौ ।।७६।।
नारायणस्य वैकुण्ठं लक्ष्मि यत्र वसाम्यहम् ।
ममाऽग्रे गायनं चक्रे बहुधैव सुगीतिकम् ।।७७।।
तच्छ्रुत्वाऽहमवोचं तं गानाऽसम्पन्नमेव ह ।
तुम्बुरोर्न विशिष्टोऽसि गीतैरद्यापि नारद ।।७८।।
गानबन्धुं समासाद्य गानार्थज्ञो भवान् ननु ।
यदा विशिष्टो भविता तदा तुष्टोऽपि माधवः ।।७९।।
भविष्यामि क्षितौ भाव्ये मानवे चाऽवतारिणि ।
तदानीं मां समासाद्य कारयेथा यथातथम् ।।3.59.८०।।
तदा त्वां गीतसम्पन्नं करिष्यामि महाव्रतम् ।
तुम्बुरोश्च समं चापि तथाऽतिशयसंयुतम् ।।८१ ।।
तावत्कालं यथायोगं देवगन्धर्वयोनिषु ।
शिक्षस्व त्वं यथान्यायं स्वस्ति तेऽस्तु सुराष्ट्रके ।।८२।।
श्रुत्वा नारायणवाक्यं प्रणम्य नारदो हरिम् ।
स्कन्धे विपञ्चीमासाद्य सर्वलोकान् चचार ह ।।८३।।
वारुणं याम्यमाग्नेयमैन्द्रं कौबेरमित्यपि ।
वायव्यं च तथैशानं सदः संप्राप्य नारदः ।।८४।।
गायमानो हरिं सम्यग् वीणावादनदक्षकः ।
गन्धर्वाप्सरसां संघैः पूज्यमानस्ततस्ततः ।।८५।।
ब्रह्मलोकं समासाद्य रात्रिं निनाय काल्पिकीम् ।
प्रातः पुनश्चात्र कल्पे ब्रह्मलोकेऽजमन्दिरे ।।८६।।
हाहाहूहूश्च गन्धर्वौ गीतवाद्यविशारदौ ।
ब्रह्मणो गायकौ दिव्यौ नित्यगायनतत्परौ ।।८७।।
तत्र ताभ्यां समासाद्य गायमानो हरिं प्रभुम् ।
गृहीतपारितोषश्च प्रणम्य च पितामहम् ।।८८।।
चचार स यथाकामं प्रययौ तुम्बुरोर्गृहम् ।
वीणामादाय तत्रस्थो ह्यगायताऽप्यशिक्षत ।।८९।।
स्वरकल्पास्तु तत्रस्थाः षड्जाद्याः सप्त ये मताः ।
तान्समग्राँस्तुम्बुरोर्वै नारदः समशिक्षत ।।3.59.९०।।
सप्तस्वरांऽगनाश्चापि नारदः समशिक्षत ।
किन्तु गायनकाले वै वीणायोगे हि चांगनाः ।।९१।।
तन्त्र्यः प्रपेदिरे नैव यथायोग्योद्भवानि वै ।
ततोऽश्वपट्टसरसि लोमशस्याऽऽश्रमे पुनः ।।९२।।
गानं चकाराऽनिष्पन्नं तदाऽहं श्रीनरायणः ।
अवदं त्वां प्रियां नित्यदिव्यरूपां हि पद्मजे ।।९३।।
सरस्वतीं चाऽवदं च शिक्षयस्व हि नारदम् ।
विणागानसमायोगे तथेत्युक्त्वा ततः परम् ।।९४।।
सम्प्रहासा शिक्षयामासिथ लक्ष्मीः सरस्वती ।
ततो ब्रह्मप्रियाणां वै सन्निधौ गानमाचरत् ।।९५।।
उक्तोऽसौ गायमानोऽपि न स्वरं वेत्सि वै मुने ।
ततः स्वरांगनाः प्राप्य तन्त्रीयोगं च नारदम् ।।९६।।
आहूयाऽहं गानयोगमशिक्षयं त्वनुत्तमम् ।
ततोऽतिशयमापन्नस्तुम्बुरोर्मुनिसत्तमः ।।९७।।
ततो ननर्त गात्वैव प्रणिपत्य च मां मुहुः ।
मयोक्तो नारदस्तत्र सर्वज्ञोऽसि ममान्तिकं ।।९८।।
गायस्व ज्ञानयोगेन जगौ चापि स नारदः ।
तुष्टोऽहं नित्यसान्निध्यं दत्तवानत्र चाक्षरे ।।९९।।
क्षेत्रे कुंकुमवाप्यां स वर्तते नारदो मुनिः ।
प्राप्योत्तमं पारितोषिकं प्रसन्नेन चार्पितम् ।। 3.59.१० ०।।
मयैव तुम्बुरोश्चापि श्रेष्ठत्वं चापि चार्पितम् ।
अथ कालान्तरे कृष्णगृहे गास्यति नारदः ।। १०१ ।।
एष वो ब्रह्मपत्न्योऽत्र प्रोक्तो गीतिक्रमो मुनेः ।
गाता क्रमेण चानेन मम सालोक्यमाप्नुयात् ।। १ ०२।।
कर्मणा मनसा वाचा नारायणपरायणः ।
गायन् शृण्वन् मामुपैति तद्वै गेयं परं मतम् ।। १ ०३।।
उलूकोऽपि गरुडोऽयं वर्ततेऽश्वसरोवरे ।
गानबन्धुर्महाभागः पार्षदो गानकृन्मम ।। १ ०४।।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने श्रेष्ठभक्तदृष्टान्ते वधूगीतायां नारदस्य गानशिक्षाऽर्जनगरुडाख्याननिरूपणनामा नवपञ्चाशत्तमोऽध्यायः ।। ५९ ।।