लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः १०५

← अध्यायः १०४ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)
अध्यायः १०५
[[लेखकः :|]]
अध्यायः १०६ →

श्रीनारायणीश्रीरुवाच-
धर्माणां कर्मणां चापि मूलं मे वद माधव ।
यदाश्रयात् प्रपुष्टिं संप्रयाति मानवो वृषे ।। १ ।।
श्रीपुरुषोत्तम उवाच-
शृणु श्रीशिवराज्ञीश्रि! धर्ममूलं सनातनम् ।
नारायणे यथा लक्ष्मीः श्रीकृष्णे राधिका यथा ।। २ ।।
अनादिश्रीकृष्णनारायणे त्वं मयि राजसे ।
विष्णौ लक्ष्मीर्यथा चास्ते गोपाले कम्भरा यथा ।। ३ ।।
सावित्र्यजे हरे दुर्गा सिद्धिर्विनायके यथा ।
तथा विवाहिता पत्नी धर्ममूलं हि देहिनाम् ।। ४ ।।
पितृदेवाऽतिथीनां च स्वजनस्य गृहस्य च ।
वंशस्य वंशशाखानां मूलं पत्नी विवाहिता ।। ५ ।।
अलंकृत्योदकपूर्वां कन्यां दद्याच्छुभे वरे ।
वरारोहां युवतीं चाऽनङ्गवासशरीरिणीम् ।। ६ ।।
अभिप्रेता च या यस्य कन्याऽभिप्रेत एव यः ।
तयोर्मुदा विवाहो वै कर्तव्यो हितकृद्धि सः ।। ७ ।।
ब्राह्मणानां सतां चापि सात्त्विकानां विधिर्ह्ययम् ।
धनेन बहुधा क्रीत्वा प्रसह्य हरणं च वा ।। ८ ।।
न कर्तव्यं क्वचिल्लग्नं केनचित् सुखमिच्छती ।
निःश्वासाभिहतं सर्वं दह्यत्येव हि योषितः ।। ९ ।।
जातस्त्रीव्यञ्जनां भार्यामुद्वहेच्छ्रेय इच्छता ।
उद्भिन्नयौवनां पुष्टामुद्वहेत्पुष्टयौवनः ।। 3.105.१ ०।।
राजस्वल्यं विना नैव क्षतां कुर्यान्निजांगनाम् ।
अथवा चेत् कामुकी सा स्नेहस्पृश्या निसर्गजा ।। १ १।।
स्वयं पतिं प्रगच्छेच्चेद् रमणे नैव दूषणम् ।
पत्नीच्छामन्तरा नोपयच्छेत् नारीचलो भवन् ।। १२।।
कामुकः स्वैरवृत्तश्च धर्मं हन्ति गृहाश्रयम् ।
प्रसह्याऽधर्म एवास्ते स्नेहकार्यो वृषो मतः ।। १३।।
शृणु लक्ष्मि महाराष्ट्रे क्षत्रियो जांघलामखः ।
आसीत् वव्रे स कन्यां द्वादशवर्षां सुरूपिणीम् ।। १४।।
अजातयौवनभावां धर्महृदययोगिनीम् ।
सद्विवेकयुतां राजस्वल्योत्तरं पतिं प्रति ।। १५।।
कामधर्मं चेहमानां नान्यथा सा सतीव्रता ।
धर्मं कृत्वा पुरश्चास्ते पतिसेवापरा सदा ।। १६।।
कामुकश्च पतिस्तां वै प्रसह्य कामतृप्तये ।
स्प्रष्टुमियेष सा प्राह कान्त! धर्मः प्रबाधते ।। १७।।
नाऽहं योग्या भवाम्यत्र विना धर्ममृतुं पते ।
स्पर्शसेवां करोम्यत्र कामसेवां प्रवर्जय ।। १८।।
इत्युक्तोऽपि पतिधर्ममनावेक्ष्य हि कामुकः ।
प्रसह्य पत्नीं जग्राह सती निःश्वासमाचरत् ।। १९।।
निश्वासान्मूर्तिमानग्निः प्रादुर्बभूव तत्क्षणम् ।
अज्वालयत् पतिं सौधं स्मृद्धिं चोपस्कराणि च ।।3.105.२०।।
सती शुशोच बहुधा पत्यौ नष्टे पतिव्रता ।
सस्मार धर्मं धर्मोऽपि तदा साक्षाच्चतुर्भुजः ।।२१।।
आययौ मा शुचश्चेति प्राह बालामनिन्दिताम् ।
धर्मरक्षाकृते बाले प्रसन्नोऽस्मि वृषोऽस्म्यहम् ।।२२।।
वरं वरय भद्रं ते मा धर्माच्चल भामिनि! ।
धर्मो रक्षति रक्षितो नाशितो नाशयत्यपि ।।२३।।
तेन नाशितवानस्मि ततो नाशोऽस्य चाऽभवत् ।
त्वया वै रक्षितस्तेन त्वं चाऽबाधा प्रजीवसि ।।२४।।
वह्निस्त्वां न ददाहाऽत्र गृहे बाले बलान्मम ।
वरं वृणु यथेष्टं वै ददाम्यद्य हि मा चिरम् ।।२५।।
श्रुत्वा बाला कुन्दधर्मानाम्नी तदा वरं पतिम् ।
वव्रे कुटुम्बकं पत्युश्चापि सञ्जीवितं गृहम् ।।२६।।
सर्वोपस्करसंयुक्तं धर्मज्ञानयुतं पतिम् ।
धर्मदेवस्तथाऽस्त्वाह द्रुतं सञ्जीवितः पतिः ।।२७।।
कुटुम्बसहितः सर्वगृहोपकरणान्वितः ।
धर्मज्ञानयुतश्चापि मुमुदे चातिभाववान् ।।२८।।
प्रशशंस परं धर्मं पत्न्याः ऋतुजयच्छनम् ।
धर्मो ययौ ततः पूजां लब्ध्वाऽथो जांगलामखः ।।२९।।
पत्नीधर्मं सदा सम्पालयामास यथोदितम् ।
सती सत्यवती प्राप दग्धमपि निजं पतिम् ।।3.105.३ ०।।
इत्येवं चास्ति मर्यादा पत्नीच्छानिर्मिता सदा ।
तां रक्षन् जायते पुण्यं चान्यथा पातकं मतम् ।।३ १ ।।
शृणु लक्ष्मि तथा चान्यद् युवतीकन्यकावृषम् ।
त्रीणि वर्षाण्युदीक्षेत कन्या ऋतुमती सती ।।३२।।
चतुर्थे त्वथ सम्प्राप्ते स्वयं भर्तारमर्जयेत् ।
प्रजा न हीयते तस्या रतिश्चापि न हीयते ।।३३।।
अतोऽन्यथा वर्तमाना भवेद्वाच्या जनस्य सा ।
तस्माद् रजस्वलाधर्मं विवाहयेन्न रक्षयेत् ।।३४।।
असपिण्डा निजमातुरसगोत्रा च या पितुः ।
इत्येतामनुगच्छेत मानवो नियमो ह्ययम् ।।३५।।
पाणेर्ग्रहणपूर्वं तु याचन्ते वै जना मुहुः ।
वरः श्रेष्ठो मिलेद् दद्यात्तस्मै विहाय चाऽपरम् ।।३६।।
नाऽनिष्टाय प्रदद्याद्वै न हीनाय न रोगिणे ।
नाऽरये न बिभत्साय न दद्यात् क्रूरकर्मणे ।।३७।।
नाऽधार्मिकाय दद्याद्वै हिंसकाय तथा न च ।
न ह्येव भार्या क्रेतव्या न विक्रय्या कथंचन ।।३८।।
यत्रेष्टं तत्र देया स्यान्निःशुल्का संविभूषिता ।
मृते पत्यौ प्रदातव्या यत्रेष्टं योषितः खलु ।।३९।।
विवाहितेन चेत् त्यक्ता दातव्या त्वपराय सा ।
भार्यया च परित्यक्तो भार्यामन्यां समुद्वहेत् ।।3.105.४०।।
मृतायामपि भार्यायां भार्यामन्यां समुद्वहेत् ।
देवरं प्रविशेद्वापि देवरो वा विशेत् स्त्रियम् ।।४१।।
द्वयोश्चेदानुकूल्यं स्यादेष धर्मः सनातनः ।
अपितृजां चाऽमातृजां विन्देत् मानवीं सतीम् ।।४२।।
अग्निं देवं पितरं वा गां परिक्रम्य सर्वथा ।
वृद्धानां सन्निधौ यद्वा मालां समर्प्य वै मिथः ।।४३।।
हस्तयोर्मेलनं वापि कृत्वा नत्वा परस्परम् ।
मण्डपे मन्दिरे वापि विवाहयेत् गुरोः पुरः ।।४४।।
अविरोधेन लोकानां कुटुम्बिनां नृपस्य च ।
प्रजानां चाऽविरोधेन द्वयोर्ग्रहो विवाहनम् ।।४५।।
प्रकाशं यद्द्वयोरैक्यं चाऽविरोधेन शोभनम् ।
हृदययोः साक्षिताऽत्र धर्मः सोऽपि पुरातनः ।।४६।।
अप्रकाशे गर्भवत्ता निन्दिता पितृवर्जिता ।
दासीनामिव वंशो न गणनां याति धार्मिकीम् ।।४७।।
नियोगादपि जायन्ते पुत्रास्ते पितृलोकिताः ।
ब्रह्मक्षत्रा वंशकरा धर्मः सोऽपि पुरातनः ।।४८।।
साधूनां पुनराचारो गरीयान् धर्मलक्षणः ।
पित्राऽऽज्ञप्ता स्वय वृत्ता भर्त्रा योगमुपागता ।।४९।।
साध्वाचारेण सा जाता विवाहिता हि सा मता ।
भार्यापत्योर्हि सम्बन्धश्चामृत्युश्चिरशोभनः ।।3.105.५०।।
रतिसाधारणो नैषस्तस्माद्धर्मः सनातनः ।
सतिमात्रार्थसम्बन्धः स्त्रीपुंसोर्नहि धार्मिकः ।।५१।।
दायभागेऽपि पुत्रो वै गण्यते वंशभागवान् ।
पुत्रो न स्यात्तदा पुत्री दायभागाधिकारिणी ।।५२।।।
पुत्रः पुत्री समौ बोध्यौ दायभागेऽतिकारिणौ ।
बहवोऽपि सुता यस्य पुत्र्योऽपि च तथाविधाः ।।५३।।
तस्यापि दायभागे स्युः पुत्राः पुत्र्योऽधिकारिणः ।
समभागाः प्रदातव्या एष धर्मः सनातनः ।।५४।।
विवाह्य दायभागं चाऽदत्त्वा सम्प्रेषयन्ति ये ।
कन्याभागप्रभोक्तारः पतन्ति नरके हि ते ।।५५।।
जीवितार्थाय विक्रीय कुमारं वा कुमारिकाम् ।
भुंजते तद्धनं ते तु भुंजते पिशितं तयोः ।।५६।।
अन्योऽप्यथ न विक्रेयो मनुष्यः किं पुनः प्रजाः ।
वश्यां कुमारीं बलतो विक्रीणीयान्न कश्चन ।।५७।।
धर्मबुद्ध्या चार्पयेद्वै जामात्रे यौतकान्विताम् ।
मातुश्च यौतकं यत् स्यात् कुमारीभाग एव सः ।।५८।।
दौहित्र एव तद्रिक्थमपुत्रस्य पितुर्हरेत् ।
पुत्रदौहित्रयोरेव विशेषो नास्ति धर्मतः ।।५९।।
पितृभिर्भ्रातृभिश्चापि श्वशुरैरथ देवरैः ।
पूज्या भूषयितव्या च बहुकल्याणमिप्सुभिः ।।3.105.६०।।
पूज्या लालयितव्याश्च स्त्रियो नित्यं गृहस्थिताः ।
रमण्यो यत्र तुष्यन्ति वसन्ति तत्र सम्पदः ।।६१।।
सिद्धयः प्रतिवर्षन्ति सर्वान् कामान् ददत्यपि ।
यत्र नार्योऽवमन्यन्ते सर्वास्तत्राऽफलाः क्रियाः ।।६२।।
नैव भान्ति न वर्धन्ते वंशाः श्रिया विवर्जिताः ।
स्त्रीहेतुकः सदा श्रेष्ठो धर्मो द्युसत्यलोकदः ।।६३।।
उत्पादनमपत्यस्य जातस्य परिपालनम् ।
प्रीत्यर्थो लोकयात्राया यापनं स्त्रीजने स्थितम् ।।६४।।
नास्ति यज्ञस्तादृशो वै न श्राद्धं नोपवासनम् ।
धर्मो युगलसौहार्दसमो द्युमोक्षदोऽपरः ।।६५।।
पिता रक्षति कौमारे भर्ता रक्षति यौवने ।
पुत्राश्च स्थविरे पान्ति स्त्रीरक्षैवं पुरातनी ।।६६।।
श्रिय एताः स्त्रियो नाम सत्कार्या भूमिमिच्छता ।
पालिताऽनुगृहिता च स्त्री श्रीरेव प्रकाशते ।।६७।।
अथ लक्ष्मि स्त्रियै देयो दायभागोऽपि सम्मतः ।
पुत्रपुत्रीसमोभागस्तद्धनं योषितः सदा ।।६८।।
भर्त्रा तच्च धनं दत्तं यथेष्टं भोक्तुमर्हति ।
स्त्रीणां तत्पतिदायाद्यं ह्युपभोगफलं मतम् ।।६९।।
एकस्य बहुभार्यत्वे ब्राह्मणी सर्वथोत्तमा ।
स्नानं प्रसाधनं भर्तुर्दन्तधावनमञ्जनम् ।।3.105.७०।।
हव्यं कव्यं देवपूजां भोजनं ब्राह्मणी चरेत् ।
अन्नं पानं च माल्यं च वासांस्याभरणानि च ।।७१ ।।
ब्राह्मण्येतानि दद्यात् स्वभर्त्रे सा हि गरीयसी ।
अथवा चानुकूल्यं तु यथा भवेद्धि योषिताम् ।।७२।।
अक्लेशेन प्रमोदेन स्नेहेन चानुवृत्तितः ।
तथा सेवेत विप्रा वा क्षत्रिया वाऽपरापि वा ।।७३।।
पत्युराज्ञां समगृह्य नान्यथा तु कथंचन ।
गर्भशुद्धिश्च विज्ञेया गुणरूपनिसर्गकैः ।।७४।।
अपत्यं प्रतिबिम्बं वै पितुर्मातुश्च वा भवेत् ।
तत्स्वभावमपत्यं तद्विज्ञेयं शुद्धवंशजम् ।।७५।।
तत्र यत्र पृथग्भावो गर्भाऽशुद्धिर्हि सा मता ।
निषेके संकरीभावे वैरुप्यं बालके भवेत् ।।७६।।
सान्निध्येऽनिष्टवस्तूनां सांकर्यं जायते हृदि ।
बीजे संक्रमते तच्च गर्भे तद्भाव उद्भवेत् ।।७७।।
गर्भदानं ततोऽदृश्ये रहस्ये विध्नवर्जिते ।
शान्तशब्दे शान्तलोके शान्तपश्वादिभाषणे ।।७८।।
सुशान्तसर्वतत्त्वेषु विधातव्यं न चान्यथा ।
शुद्धवंशप्रसूतिः सा भवेदत्र न संशयः ।।७९।।
अन्यशब्दस्पर्शरूपरसस्वभावदूषणम् ।
प्रक्रमते बीजदाने प्रतिमादर्शनादपि ।।3.105.८०।।
तस्मात् पतिमुखं दृश्यं नान्यद् दृश्यं तदा मतम् ।
प्रसन्नहृदयाभ्यां च भाव्यं न तु क्रुधा रुषा ।।८१ ।।
न च मालिन्यभावेन भाव्यं सुगन्धिसंभृता ।
प्रसन्नमनसा भाव्यं भाव्यं सत्त्वगुणेन च ।।८२।।
एकाग्रमनसा भाव्यं दात्रा धात्र्या च सर्वथा ।
स वंशः शुद्ध एव स्यात् स्मर्तव्यं नेतरत् तदा ।।८३।।
नारायणो हरिः कृष्णः परमेशः परात्परः ।
स्मर्तव्यो दम्पतीभ्यां वै बीजदाने न चाऽपरः ।।८४।।
यत्स्मृतिस्तद्गुणा भावाः प्रक्रमन्ते प्रकृतयः।
तस्माच्छ्रेष्ठः पतिर्देवो देवदेवो जनार्दनः ।।८५।।
शृणु लक्ष्मि कथयामि कथां पुरातनीं शुभाम् ।
पुलस्त्यो वेधसः पुत्रो ददौ दानं यदाऽऽर्तवम् ।।८६।।
तदा प्रीतिः पुलस्त्यस्य भार्या सस्मार राक्षसम् ।
निर्ऋतं रावणस्तेन रक्षोधर्मा व्यजायत ।।८७।।
यदाऽऽर्तवे प्रसस्मार विष्णुं नारायणं हरिम् ।
तद्भावभावितो जातो भक्तः पुत्रो विभीषणः ।।८८।।
पार्वतीशंकरौ पूर्वे सस्मरतुर्बलान्वितम् ।
सेनापतिं सुतं दैत्यनाशकं विजयप्रदम् ।।८९।।
स्कन्दस्तेनाऽभवद् विघ्ननाशार्थं गणपोऽभवत् ।
वैराजस्त्रिगुणान् स्मृत्वोत्पादयामास वै त्रिकम् ।। 3.105.९०।।
ब्रह्मविष्णुमहेशाख्यं यथा स्मृतिस्तथा जनिः ।
चरौ फले प्रसादे च बीजे चाशीर्वचस्यपि ।।९१ ।।
यादृक् स्मरणं रोहेद्वै तादृशी जायते प्रजा ।
यद्भावना भवेद् भक्तिः फलं तद्भावभावितम् ।।९२।।
कल्पवृक्षे हरेर्मूर्तौ गुरौ पत्यौ स्त्रियां सति ।
औषधे मन्त्रे तपसि यथा भावस्तथा फलम् ।।९३।।
विद्यायामुद्यमे युद्धे कृषौ भृत्यक्रियाविधौ ।
भौतिकाभ्युदये वेगे यादृग्यत्नस्तथा फलम् ।।९४।।
नृपे साधौ हरौ पित्रोः श्रेष्ठिनि स्वामिनि क्रमे ।
देवे पितरि सन्तुष्टे यथा कृपा तथा फलम् ।।९५।।
शत्रौ नियामके सर्पे विप्रे शस्त्रिणि तापसे ।
कलहे रोधने नाशे यथा रोषस्तथा फलम् ।।९६।।
भक्तौ योगे प्रार्थनायां सेवायां दैवकर्मसु ।
शास्त्रे भोग्ये दीर्घकार्ये यथा शान्तिस्तथा फलम् ।।९७।।
धर्मे लग्ने मृधे दाने वचने विघ्नसारणे ।
चौर्ये मोक्षे देशकाले यथा शैघ्र्यं तथा फलम् ।।९८।।
काव्ये न्याये चोपदेशे चाज्ञायां चान्तिमे क्षणे ।
संहारे चापदि प्रारंभे यथाधीस्तया फलम् ।।९९।।
क्षेत्रे स्वर्गे स्त्रियां शिष्ये पुत्रे कार्ये ह्युपार्जने ।
मन्त्रे शास्त्रे रचनायां यथा बीजं तथा फलम् ।। 3.105.१ ००।।
कीर्तौ रतौ वृषे वंशे सुखे श्रमे च भोजने ।
कोशेऽतिथौ गृहे स्वर्गे यथा भार्या तथा फलम् ।। १० १।।
तस्माल्लक्ष्मि सदा भार्या पातिव्रत्यपरायणा ।
विशेषतो हि धर्माणां मूलं भवति सर्वथा ।। १ ०२।।
पुरुषार्था हि चत्वारश्चोपायाः साधनानि च ।
यात्राः सर्वाः प्रवर्तन्ते सिद्ध्यन्ति निजयोषिता ।। १ ०३।।
क्षेत्रं वै सर्वधर्माणां वाटिका पुत्रसम्पदाम् ।
कल्पलता सुखानां च भार्या भवति मूलिका ।। १ ०४।।
मन्दुरा सा मनोऽश्वानामाश्रया प्राणपक्षिणाम् ।
नौः सा संसारिणां पत्नी यानं सा स्वर्गिणां तथा ।। १०५।।
यज्ञे वंशे सुखे दुःखे पुण्ये महोत्सवे सवे ।
गृहे कार्ये धने ख्यातावर्धांगना निजात्मिका ।। १ ०६।।
पठनाच्छ्रवणाल्लक्ष्मि तथा धर्मसमाश्रयात् ।
भुक्तिर्मुक्तिर्भवेच्चापि नार्या नरस्य सर्वथा ।। १ ०७।।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने सर्वधर्मकर्मणां मूलं विवाहिता पत्नीति जांघलामखस्य क्षत्रियस्य कुन्दधर्मपत्न्याः सरधर्मे चमत्कारः कन्यादानयोग्यता वरयोग्यता दायभागयोग्यता बीजशुद्धिरित्यादिनिरूपणनामा पञ्चाधिकशततमोऽध्यायः ।। १०५ ।।