लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः १९३

← अध्यायः १९२ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)
अध्यायः १९३
[[लेखकः :|]]
अध्यायः १९४ →

पुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं ब्रह्मघ्नस्य प्रमोक्षणम् ।
आसीद् वाटासीनराख्ये ग्रामे राजीवभूपतिः ।। १ ।।
राज्ञी तस्याऽभवत् साध्वी नाम्ना कुन्दनदेविका ।
पुत्री पुत्रवती धर्मपरायणा तपस्विनी ।। २ ।।
भक्ता मे श्रीहरेश्चापि व्रतध्यानपरायणा ।
असूर्यम्पश्या चाऽस्पृश्या नरान्तरैः क्वचिद् रमे ।। ३ ।।
पतिव्रत्यपरा देवपूजास्नानादितत्परा ।
चातुर्मास्यव्रतकर्त्री हर्युत्सवविधायिनी ।। ४।।
दानधर्मपरा चापि परोपकारशालिनी ।
साधुसत्कारसेवार्थं कृतसर्वस्वमंगला ।। ५ ।।
दीनानाथगवां सेवाविधात्री सूर्यपूजिका ।
कन्यकामानकर्त्री च ममाराधनतत्परा ।। ६ ।।
अतिथ्यभ्यागतादिभ्यो भोजनाम्बरदायिनी ।
तीर्थकर्त्री स्वामिनश्च पादपूजापरा सदा ।। ७ ।।
एवं संस्कारसम्पन्ना नित्यमालाप्रजापिनी ।
देवदर्शनरक्ता च नित्यं कथाश्रवान्विता ।। ८ ।।
क्षेमं च कुशलं चापि वेत्ति या स्वप्रजासु वै ।
अहिंसाधर्मनिरता सत्यव्रतपरायणा ।। ९ ।।
यस्याः पुण्येन राष्ट्रं वै शोभते मोदते बहु ।
प्रजाश्चास्या निरातंका निरामयाः सुसम्पदः ।। 3.193.१ ०।।
अथ लक्ष्मि सुवर्णे वै सुगन्धो न कृतो यथा ।
तथा सुवर्णभार्यायामपि स्वामी त्वधोगतिः ।। ११ ।।
राजाऽस्याः स्वपतिः क्रूरो न देवान् मनुते स्वचित् ।
धर्मकर्मादिकं व्यर्थं जानात्येवाऽभिमानवान् ।। १२।।
न विप्रान्न च साधूँश्च गणयत्येव धार्मिकान् ।
अवमानं करोत्येव पूज्यानां त्वविवेकवान् ।। १ ३।।
न स्नानं नैव दानं च न पूजां नापि सद्व्रतम् ।
न तीर्थं नापि सत्कारं सत्कर्मापि करोति सः ।। १४।।
देवद्रव्यं विप्रधनं साधुधनं च धार्मिकम् ।
नाणकं परकीयं यल्लभ्यते बलतोऽपि वा ।। १५।।
आहरत्येव लुब्धात्मा नैव मुञ्चति कस्यचित् ।
स्तैन्याद् बलात् कराल्लुञ्चायाश्च युद्धात् प्रपीडनात् ।। १ ६।।
कपटाच्छद्मतो लब्धं सर्वं न्याय्यं स वेत्ति वै ।
अन्यायं न्यायमेवाऽयं जानाति नृपकर्म तत् ।। १७।।
प्रजानां यद्धनं सर्वं क्षेत्रं भूमिर्गृहादिकम् ।
व्यापारा आयभागाश्च प्रजाश्च मे धनं हि तत् ।।१८।।
पुत्राः पुत्र्यो धेनवश्च वृषभा वाजिनो गजाः ।
यानवाहनपशवः सर्वं राज्ञश्च वेत्ति सः ।। १९।।
राज्यं राज्ञो न चान्यस्य जडं वा चेतनात्मकम् ।
पृथ्वीपतिर्यतो राजा पार्थिवाश्च नृपस्य वै ।।3.193.२० ।।
पृथ्वीं भुंक्ते यतो राजा ततो भुंक्ते हि पार्थिवान् ।
सर्वांश्चापि विकाराँश्चेत्येवं मनुते भूपतिः ।।२१ ।।
विशेषताऽस्य विप्रेषु द्वेषश्चासीत्तु जन्मतः ।
विप्रा वृथा नयन्त्येव लड्डुकान् दक्षिणास्तथा ।।२२।।
वृथा भिक्षाटनाश्चेति विप्राः प्रत्यक्षलुण्टकाः ।
मत्वैवं ब्राह्मणान् दृष्ट्वा निष्कासयति दूरतः ।।२३।।
दण्डयत्येव बहुधा भिक्षितं चाहरत्यपि ।
शृणु लक्ष्म्येकदा विप्रास्तीर्थंकरास्तु विंशतिः ।।२४।।
बहुचराप्रभक्तास्ते वाटासीनरमाययुः ।
मार्गे विश्रान्तिलाभार्थं राज्ञ्या ते सत्कृतास्तदा ।।२५।।
भोजनाम्बरपानाद्यैर्दक्षिणादानवाहनैः ।
राज्ञा ज्ञातं धनं तेषामग्रेऽपि चास्ति वै तदा ।।२६।।
राज्ञा दत्तं च विपुलं तीर्थमिषेण तत्परम् ।
लोभेन नृपतिः श्रुत्वाऽऽह्वयद् विप्रान् स्वसन्निधौ ।। २ ७।।
लुलुण्ट तद्धनं सर्वं विप्राणां स ततोऽपि च ।
कारागारे रुषा सर्वान् न्यवासयच्च तद्दिने ।। २८।।
अथ विप्रास्तु संक्रुद्धाः शापं ददुस्तदोल्बणम् ।
राज्यं तव विनष्टं स्यात् कुटुम्बादिविवर्जितः ।। २९।।
आरण्यकः कापटी च भव क्षुद्रो हि भिक्षुकः ।
फलं विंशतिवर्षाणि भुक्त्वा च पाशवीं तनुम् ।।3.193.३० ।।
प्राप्य दुःखानि सर्वाणि भुंक्ष्व नास्तिक निर्दय ।
शापो दत्तो दिने विप्रै रात्रौ वटोदराधिपः ।।३ १ ।।
ससैन्यस्त्वाययौ युद्धेनोपाहरत् समस्तकम् ।
राज्ये निजं देशपालं नियोज्य निगडे स्थितान् ।।३२।।
विप्रान् विमोचयित्वा च राज्ञ्यै प्रादाय जीविकाम् ।
नृपतेश्च कुटुम्बं च संरक्ष्य तत्र वै ततः ।।३ ३ ।।
राजीवं धर्तुमेवाऽप्यन्वेषयामास यद्यपि ।
किन्तु स्वनगरं त्यक्त्वा गुप्तमार्गेण सत्वरम् ।।३४।।
निर्ययौ राजीवभूपो नर्मदावनभूस्थलीम् ।
विप्राणां शापदोषेण विंशतिवत्सराणि सः ।। ३५।।
अरण्ये पाशवं दुःखं लब्धवान् क्षुद्रतान्वितम् ।
अथ राज्ञी भजते स्म सपुत्रपुत्रिका तु माम् ।।३६।।
कुन्दनदेवीतिनाम्ना ख्याता कृष्णपरायणा ।
अरण्यस्थोऽपि राजीवो दुःखितो हि स्वपापतः ।।३७।।
पापं बहुतरं चक्रे लुण्टनं पशुमारणम् ।
एवं वने प्रवसतश्चैको विप्रस्तु नर्मदाम् ।।३८।।
स्नातुं गच्छन् वने तत्र मिलितोऽस्य समीपगः ।
राजीवश्चापि विप्रं तं पप्रच्छ वद मेऽधुना ।।३९।।
क्व यासि किं तवाऽग्रेऽस्ति देहि सर्वं च मेऽत्र वै ।
विप्रः प्राह ममाऽग्रेऽस्ति पाथेयं च धनं मनाक् ।।3.193.४० ।।
यात्रामात्रोपभोगार्थं न दास्ये ते वनेचर ।
एवं विवदतोस्तत्र तयोर्युद्धमजायत ।।४१ ।।
राजीवेन हतो विप्रो पाषाणैर्मर्दितो हृदि ।
विप्रोऽयं नर्मदातीरे प्रेतस्तत्र व्यजायत ।।४२।।
राजानं प्राणहन्तारं ववल्गे ब्रह्मघातिनम् ।
राजा शापेन दुर्भाग्योऽधिकोऽथ रक्षसाऽर्दितः ।।४३।।
विचित्तोन्मत्तजडवद् बभ्रामारण्यभूमिषु ।
अथापि कुन्दनदेवी ब्रह्मशीलपरायणा ।।४४।।
निद्रायामेकदाऽरण्ये ददर्श तं तु दुःखिनम् ।
क्षुधातृषातिसन्तप्तं राक्षसाविष्टयुन्मदम् ।।४५।।
पाशवीं वृत्तिमापन्नं राक्षसीं रीतिमास्थितम् ।
मृतं पशुं च वा पतत्रिणं खादन्तमित्यपि ।।४६।।
स्मरन्तं चोच्चरन्तं च कुन्दना कुन्दनेति च ।
कृष्णवर्णं रोमशं च रूक्षजटाधरं तथा ।।४७।।
अन्यमिव ज्ञायमानं विवृत्ताखिलतत्त्वकम् ।
शबरं वा पारधिं वा घातकं श्वपचं च वा ।।४८।।
तद्वद् विलोक्यमानं वै भयदं दर्शनादपि ।
अतिदुर्गन्धिशरीरं मलिनं जरठं यथा ।।४९।।
कुन्दना कुन्दना चेति व्याहरन्तं मुहुर्मुहुः ।
एतादृशं पापमूर्ति वनेचरं प्रवीक्ष्य सा ।।3.193.५० ।।
क्षणं विचारमकरोत् स्वप्ने कोऽयं भवेदिति ।
अथ सा भयमापन्ना प्राह कस्त्वं वनान्तरे ।।५१ ।।
स चाह राजीवनामा कुन्दनापतिरस्म्यहम् ।
पीडितः शापपापेन रक्षसाऽपि विशेषतः ।।।५२।।
समुद्धरेत् कुन्दना मां तदा मे सद्गतिर्भवेत् ।
यावच्छृणोति निद्रायां कुन्दना नृपनोदितम् ।।।५३।।
तावन्निद्रा गता राज्ञ्याः प्रातः सा प्रबुबोध ह ।
उत्थिता शोकमापन्ना पतिदुःखेन दुःखिता ।।५४।।
हस्तामलकवद दृश्यं वीक्षमाणा त्वरान्विता ।
स्नात्वा पुपूज साध्वी मां श्रीपतिं कष्टहारिणीम् ।।५५।।
शोकातिशोकवदनोत्तप्तातितप्तमानसा ।
उच्चार्याश्रुकृताविलनेत्रा तुष्टाव मां सती ।।५६।।
नाथ त्वं पूर्णकामोऽसि नाऽऽप्तव्यं वे हि शिष्यते ।
तथाप्यत्र हि संसारे कथमायासि मे वद ।।५७।।
भक्तेच्छापूरणार्थं चेन्मम वाञ्छां प्रपूरय ।
यदि भक्ताऽस्मि ते शिष्या दासी वेति च मन्यसे ।।५८।।
मोक्षणीयोऽरण्यदुःखाद् राजीवो रक्षसा धृतः ।
यदि पापप्रभोगेण कर्मनाशोऽस्ति सर्वथा ।।५९।।
दयालो ते दयालुत्वं व्यर्थं व्यर्थस्तवाऽऽगमः ।
व्यर्था भक्तिश्च ते सर्वाऽर्थार्थिनोऽर्थाऽप्रपूरणात् ।।3.193.६०।।
नारी त्वर्थार्थिनी ह्यस्मि तथापि तव दासिका ।
अनादिश्रीकृष्णनारायणोद्धारं विधापय ।।६१ ।।
यदि पापिकृते कृष्ण कृपा ते नैव जायते ।
मम पुण्यं ददाम्यस्मै तेन त्वं तं समुद्धर ।।६२।।
यदि ब्रह्मप्रदण्डेन दग्धे दया न तेऽस्ति चेत् ।
मयि कृत्वा दयां कृष्ण मत्पतिं पातुमर्हसि ।।६३।।
यदि भूसुरहन्तुस्तु दण्डः पूर्णो विधीयते ।
तदा तद्दण्डमधुना मयि योक्तुं समर्थये ।।६४।।
तस्य त्वर्धांगना चास्मि चार्धशुभाशुभार्थिनी ।
मम भक्तेर्जन्यपुण्यं त्वर्धं तस्य प्रतिष्ठतु ।।६५।।
तस्य पापं चार्धकर्म ममाऽत्रापि प्रतिष्ठतु ।
एवं नारायणविष्णो न्यायेन नियमेन च ।।६६।।
अपि योग्यविनिमयेनापि तं पातुमर्हति ।
आसुराणां स्वयं हन्ता मुक्तिदोऽपि भवस्यतः ।।६७।।
राजीवस्यापि भगवन् सुखकृद् भव केशव ।
भक्ताया मम शान्त्यर्थं मदर्थितं विभावय ।।६८।।
भामाकृते यथा पारिजातोद्यमस्त्वयोह्यते ।
भामाऽहं तव दास्यस्मि मत्पारिजातमर्थये ।।६९।।
कल्पे कल्पे त्वया कृष्ण भामा तुष्टा विधीयते ।

पारिजातप्रदानेन भामा तुष्टा विधेहि माम् ।।3.193.७०।।
भक्त्या त्वां तोषयाम्यत्र त्वं दानेन प्रतोषय ।
सेवया स्त्री नरश्चार्थप्रदानेन परस्परम् ।।७१ ।।
प्रसादयतः सर्वत्र तथा त्वं कर्तुमर्हसि ।
सनाथाया अपि नाथ ह्यनाथां स्थितिमीक्षसे ।
कुन्दना कुन्दना चेति राजीवोऽरण्यके वदन् ।।७२।।
उद्धारं त्वर्थयत्येव समुद्धर कृपां कुरु ।
यावन्नोद्धारयसे त्वं चाऽनशने वसाम्यहम् ।।७३ ।।
इत्युक्त्वा कुन्दनादेवी लक्ष्मि चानशनं व्यधात् ।
एकासना निर्जला च निराहारा निराशया ।।७४।।
जितनिद्रा जिताहारा मरणे कृतनिश्चया ।
नेत्रे प्रमील्य हृदये ध्यानस्था सा बभूव ह ।।७५।।
आवर्तयति मालायां मां जपे त्वनिवर्तिनी ।
धारणाध्यानवृत्तिभ्यां मां बबन्ध हृदन्तरे ।।७६।।
न चचाल क्षणं क्वापि महावेगदृढीकृता ।
राजीवमोक्षणं कांक्षमाणा मत्परमाऽभवत् ।।७७।।
अहं तस्या मनो ज्ञात्वा पतिमोक्षार्थमेव तु ।
आन्तरस्थो बहिस्तूर्णमुपाययौ सुरूपवान् ।।७८।।
शंखचक्रगदापद्मधरो लक्ष्मीरमान्वितः ।
सर्वाऽऽभरणभूषाढ्यस्तथा पार्षदसेवितः ।।७९।।।
प्रसन्नवदनः शान्तो वरदानप्रतत्परः ।
तेजःपरिधिसंव्याप्तविग्रहो दिव्यभूषणः ।।3.193.८०।।
एवंविधं तु मामग्रे स्थितं सा कुन्दनाऽऽन्तरात् ।
मया सम्बोधिता तूर्णं समाधेर्बहिरागता ।।८ १ ।।
वीक्ष्य मां परमात्मानं समुत्थाय सती द्रुतम् ।
पपात पादयोर्मे द्राक् समाश्लिषच्च वक्षसि ।।८८२।।
मम स्पर्शनमात्रेण दिव्यदृष्टिर्व्यजायत ।
व्यलोकयद्वने नैजं पतिं स्वप्ने विलोकितम् ।।८३।।
शीघ्रं मां लम्बहस्तेन व्यदर्शयत्पतिं निजम् ।
दुःखिनं रक्षसा व्याप्तं मोक्षयितुं तदाऽऽर्थयत् ।।८४।।
अहं तत्रैव सहसा पत्युर्मोक्षार्थमेव ह ।
गरुडे संस्थितो भूत्वा नीत्वा साकं च कुन्दनाम् ।।८५।।
यत्राऽऽरण्ये वर्तते स राजीवस्तत्र पक्षिणा ।
आगच्छं चावतीर्याऽथाऽम्बरात् साकं तया रमे ।।८६।।
राजीवं तु भ्रमन्तं स्वकमण्डलुजलेन वै ।
अप्रोक्षयं ततस्तत्र रक्षो यो वल्गितोऽभवत् ।।८७।।
जलं पीत्वाऽथ तूर्णं वै दिव्यदेहो बभूव ह ।
मां स्तुत्वा मत्प्रतापेन विमानेन दिवं ययौ ।।८८।।
राजीवोऽपि तदा स्वस्थमना सुष्ठुप्रभानवान् ।
भूत्वा ज्ञात्वा निजां पत्नीं मां तथा परमेश्वरम् ।।८९।।
ननाम पादयोर्मे वै प्रणनाम च दण्डवत् ।
कुन्दनादेविका तस्मै सर्वं वृत्तं न्यवेदयत् ।।3.193.९०।।
ततो मया पुनर्वार्भिः प्रोक्षितः पावनोऽभवत् ।
पापानां नाशनं चक्रेऽपाययं वारि मत्करैः ।।९१ ।।
गरुडे तं समारोप्याऽऽनयं वाटासनं पुरम् ।
राज्ञ्या मन्त्रो दापितश्च राजा त्यक्त्वाऽभिमानकम् ।।९२।।
जग्राह मम मन्त्रं च कण्ठीं च तौलसीं तथा ।
वैष्णवो भगवद्भक्तोऽभवच्चास्तिकभावनः ।।९३।।
पुत्राः पुत्र्यस्तथा सर्वाः प्रजाः प्रसन्नतां गताः ।
अथ क्षेमं तथा तेषां कुशलं सम्विधाय च ।।९४।।
अन्ते ममाऽक्षरे लोके गमनार्थं वचो मम ।
दत्वा तिरोभवं शीघ्रं वटोदरनृपं प्रति ।।९५।।
अगच्छं ब्राह्मणो भूत्वा भिक्षामिषेण तत्र ह ।
याचितोऽथ स राजा वै भास्करविक्रमाभिधः ।।९६।।
वद विप्र प्रदास्ये ते यदिच्छाविषयं तव ।
जगाद मह्यं च ततोऽर्थयं राजीवरक्षणम् ।।९७।।
वाटासीनस्य राज्यं प्रत्यर्पयितुं पुनः पुनः ।
राजेश्वरस्तथोदारो नृपस्तथास्त्विति द्रुतम् ।।९८।।
उक्त्वा पत्रं प्राहिणोच्च प्रधानं प्रति तद्विधम् ।
राज्यं प्रदापयामास राजीवाय द्विजोऽप्यहम् ।।९९।।
पुना राज्ञ्यै नृपतये दत्वा मे दर्शनं तथा ।
तिरोभावं गतश्चाहं ततः कालान्तरे रमे ।। 3.193.१० ०।।
राजीवं कुन्दनादेवीं तथा पुत्रान् सुपुत्रिकाः ।
वैष्णवं तत्कुटुम्बं च धामाऽक्षरं समानयम् ।। १०१ ।।
एवं मया पुरा भक्त्या पत्न्याश्चाराधनेन वै ।
पापोऽपि ब्रह्महाश्चापि राजीवो रक्षितो वनात् ।। १ ०२।।
राक्षसान्मोचितश्चापि राक्षसोऽपि प्रमोचितः ।
राजीवनृपतेः सर्वे कुटुम्बं मोचितं ह्यघात् ।। १ ०३।।
कुन्दनायाः प्रतापेन व्रतेनाऽनशनेन वै ।
ममाऽऽराधनभक्त्या च राज्यं स्वं प्रापितं पुन ।। १ ०४।।
एवं लक्ष्मि मम भक्त्या भुक्तिर्मुक्तिर्भवेदिह ।
पठनाच्छ्रवणाच्चाऽस्य भुक्तिं मुक्तिं लभेत्तथा ।। १ ०५।।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वाटासीनारनृपतेर्ब्रह्मघ्नस्य राक्षसाभिभूतस्य हृतराज्यस्य कुन्दनदेवीराज्ञ्याः परमभक्त्या भगवद्दर्शनं दुःखमोक्षणं चेत्यादिनिरूपणनामा त्रिनवत्यधिकशततमोऽध्यायः ।। १९३ ।।