लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)/अध्यायः ०९६

← अध्यायः ९५ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)
अध्यायः ९६
[[लेखकः :|]]
अध्यायः ९७ →

श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये देवि श्रीकृष्णः फाल्गुने प्रभुः ।
प्रथमं स्वविमानेन ध्रुवस्वर्गमुपाययौ ।। १ ।।
यत्र वै वैष्णवो भक्तो राजा ध्रुवोऽस्ति सर्वदा !
यदाधारं लोकचक्रं प्रवर्तते भ्रमत्यपि ।। २ ।।
वीक्ष्य विशालं दिव्यं च सर्वलोकोत्तरं शुभम् ।
विमानं श्रीहरेस्तूर्णं ध्रुवश्चाभ्याययौ द्रुतम् ।। ३ ।।
ससैन्यः सर्वदेवैश्च सवाद्यः सहितो हरिम् ।
कृष्णं सम्मानयामास स्वागतं व्यचरन्मुदा ।। ४ ।।
प्रणम्य धन्यभाग्योऽसीत्याह कृत्वा च दण्डवत् ।
निन्ये नारायणं नैजे महासौधे तु कानके ।। ५ ।।
यत्र विष्णुध्रुवपूज्यो वर्तते सम्पदां प्रदः ।
विष्णुर्नारायणं नत्वा चकार दण्डवत्तदा ।। ६ ।।
पादसंवाहनं चक्रे शुभासनविराजिनः ।
हरेः सेवां ध्रुवश्चापि चक्रे जलामृतार्पणैः ।। ७ ।।
आवासदानकैः सर्वार्पणैभागवतोत्तमः ।
षोडशाद्युपचारैः संप्रपूज्याऽऽरार्त्रिकं व्यधात् ।। ८ ।।
वैष्णवी कमला देवी लक्ष्म्यादीनां प्रपूजनम् ।
ध्रुवपत्नी शाश्वती च ब्रह्मप्रियादिपूजनम् ।। ९ ।।
अन्या महामहाभक्तानिकाश्चापि प्रपूजनम् ।
हरेश्चक्रुस्तथा ध्रुवप्रजाः पुपूजुरच्युतम् ।। 4.96.१० ।।
उपदा विविधाश्चापि ददुः श्रीपरमात्मने ।
दिव्यसौवर्णरत्नाढ्यभूषाहारधनानि च ।। ११ ।।
भोजयामासुरीशेशं सर्वोगिसहितं? च ते ।
सर्वार्पणविधानेन देवा देव्यः प्रसेवनम् ।। १२।।
चक्रुः श्रीबालकृष्णस्य सर्वावतारधारिणः ।
ध्रुवराज्ये महाराज्ये भ्रामयामासुरच्युतम् ।। १ ३।।
प्रजाश्च श्रीहरिं सम्यक् प्रपूज्य मनुमाप्नुवन् ।
नामधुन्यं जगृहुश्च दध्युर्नारायणं हृदि ।। १४।।
कृष्णः प्रपावयित्वैव ध्रुवलोकं ततस्ततः ।
द्रुतं विमानमारुह्य सप्तर्षिलोकमाययौ ।। १५।।
प्रथमं श्रीहरिः श्रेष्ठं वसिष्ठस्याऽऽलयं ययौ ।
अरुन्धतीयुतर्षिश्च स्वागतं प्राचरद्धरेः ।। १ ६।।
पुष्पचन्दनपीयूषामृताऽक्षतयवांकुरैः ।
पुपूज परमात्मानं पुपूजाऽरुन्धती ह्यपि । । १७। ।
कृष्णसार्थं समस्तं च पुपूजारुन्धती सती ।
वासिष्ठाश्च सुरादेव्यः प्रजाश्चानर्चुरच्युतम् । । १८।।
वेदमन्त्रैरार्षयोगैर्हरेः प्रपूजनं व्यधुः ।
भोजयामासुरिष्टान्नामृताद्यं बहुधा कृतम् ।। १९।।
आरार्त्रिकं प्रचक्रुश्च गृहे गृहे तथर्षयः ।
सम्मानं संव्यधुश्चापि सेवां व्यधुर्महादृताः ।।4.96.२० ।।
आशीर्वादान् सामगीर्भिर्ददुर्नारायणाय ते ।
भृगुश्च भार्गवाश्चापि निन्युर्नारायणेश्वरम् ।। २१ ।।
निजालयेषु चानर्चुर्भोजयामासुरीश्वरम् ।
अङ्गिराश्चाप्यांगिरसा निन्युर्नारायणं ततः ।।२२।।
तेऽप्यानर्चुर्हरिकृष्णं बहूपकरणादिभिः ।
मरीचिश्चापि मारीचा निन्युर्नारायणं गृहम् ।।।२३।।
अत्रिस्तथा तदात्रेया निन्युर्नारायणं मुदा ।
पुपूजुर्भोजयामासुरुपदाश्च न्यधुः पुरः ।। २४।।।
पुलस्त्यश्चापि पौलस्त्या निन्युर्नारायणं गृहम् ।
पुलहः पौलहाश्चापि निन्युर्निजालयान् हरिम् ।।२५।।।
पुपूजुः परया भक्त्या श्रीप्रभुम्माधवीपतिम् ।
उपदाश्च न्यधुस्त्वग्रे भोजयामासुरीश्वरम् ।।२६।।।
महैश्वर्यैर्हरेः सेवां चक्रुस्ते ऋषिपुंगवाः ।
हरिर्विदाय संगृह्य बद्रिके द्रुतमेव ह ।।२७।।
क्रतोर्लोकं निभाल्यैव कृतपूजादरः प्रभुः ।
आशिषः कृतवे दत्वा शनेर्लोकमुपाययौ ।।२८।।
शनिना कृतपूजश्च दत्वा तस्मै मनुं निजम् ।
वैष्णवं तं सूर्यपुत्रं युक्त्वाऽऽशीर्भिस्ततो द्रुतम् ।।२९।।
गुरोर्लोकं विशालं वै समाययौ हरिः स्वयम् ।
बृहस्पतिर्हरेश्चाभिषेकं व्यधात् तु सामगैः ।।4.96.३०।।
अपूजयत् प्रभुं दिव्यैरुपचारैः समृद्धिभिः ।
मनुं जग्राह हरितो भोजयामास वै ततः ।।३ १ ।।
उत्तमाभिरुपदाभिस्तोषयामास माधवम् ।
विदायं प्रददौ प्रस्थापयामास ततोऽच्युतम् ।।२२।।।
हरिस्तूर्णं मंगलस्यालयं तत उपाययौ ।
मंगलः पूजयामास प्रभुं रत्नादिभिस्ततः ।।३३।।
आययौ भगवान् शुक्रालयं विमानतो द्रुतम् ।
शक्रस्तु बहुधा चक्रे स्वागतं पूजनादिभिः ।।३४।।
ततो हरिर्द्रुतं बुधालयं वै समुपाययौ ।
बुधः सम्पूज्य मुदितो भोजयामास माधवम् ।।३५।।
विदायं प्रददौ चाथ हरिर्नक्षत्रमण्डलम् ।
आययौ स्वविमानेन रोहिण्यादिगृहेषु वै ।। ३६।।
ताः सर्वा वै दक्षपुत्र्यो नारायणं यथायथम् ।
पुपूजुः सेवयामासुर्भोजयामासुरच्युतम् ।। ३७।।
हरेः पत्नीगणाँश्चापि सन्तुष्टासहितानपि ।
पूजयामासुरत्यर्थं नारीयोग्योपचारकैः ।।३८।।
ततः श्रीभगवान् सूर्यलोकं समाययौ द्रुतम् ।
आदित्यः स्वर्णवर्णस्तं हिरण्मययुतः पुमान् ।।३९।।
पुपूज परमात्मानं सर्वद्रवैः सुवर्णजैः ।
विभूषणैरमृतैश्च दिव्यान्नैरम्बरादिभिः ।।4.96.४०।।
पूषाऽर्यमा विवस्वाँश्च त्वष्टा विष्णुर्भगस्तथा ।
पर्जन्यो वरुणो धाता शक्रो मित्रोंऽशुरित्यपि ।।४१ ।।
पुपूजुः परमात्मानं श्रेष्ठर्द्धिसम्पदादिभिः ।
राजाधिराजवेषाँश्च ददुर्नारायणाय ते ।।४२।।
स्वस्वराज्येषु सर्वत्र निन्युर्नारायणं मुदा ।
मुकुटान् कटकान् हारान् कुण्डलानि ददुश्च ते ।।४३।।
मणिरत्नमयी रम्याः शृंखलाश्च ददुस्तथा ।
अक्षयान्यपि पात्राणि महामृतप्रदान्यपि ।।४४।।
ददुस्ते हरये लक्ष्म्यादिभ्यश्च सूर्ययोषितः ।
छाया संज्ञाऽश्विनी चापि हिरण्या च प्रभादिकाः ।।४५।।
भोजयामासुरीशेशं विदायं प्रददुस्ततः ।
अथ श्रीभगवान् शीघ्रमाययौ चान्द्रभूमिकाम् ।।४६।।
चन्द्रलोके सोमराजश्चकार स्वागतं हरेः ।
पूजां सेवां चकारापि भोजनान्यमृतानि च ।।४७।।
ददौ वस्त्राणि रम्याणि रसान् पीयूषसंभृतान् ।
मणीन् रत्नानि रम्याणि ददौ कृष्णाय चन्द्रमाः ।।४८।।
तत्पत्न्यश्च ददुर्भूषादिकं योषिद्भ्य आदृताः ।
विदायं प्रददुश्चापि ततः कृष्णनरायणः ।।४९।।
तत्तल्लोकप्रजाभ्यश्च मनुं स्वकं ददौ मुदा ।
नामधुन्यं ददौ चापि ततस्तु मानसोत्तरम् ।।4.96.५०।।
पर्वतं चाययौ चैत्रे पूर्वे महेन्द्रमन्दिरम् ।
नगर्याममरावत्यां देवेन्द्रोऽभ्रामयत् प्रभुम् ।।५१ ।।
सर्वशृंगारयुक्तायां दिव्यायां देववन्दितम् ।
देवैश्च देवताभिश्च शच्याऽप्सरोभिरर्चितः ।।५२।।
पावयित्वा देववर्गानिन्द्रसभामुपाययौ ।
इन्द्रः पुपूज बहुभिश्चोपचारैः समृद्धिभिः ।।५३।।
तस्मै स प्रददौ रत्नहारान् दिव्याँस्तथोपदाः ।
इन्द्रभोगान् समस्ताँश्च महेन्द्रः प्रभवे ददौ ।।५४।।
भोजयामास सर्वाश्च सेवयामास भावनैः ।
रक्षयामास सौधे स्वे प्रभुं श्रीपुरुषोत्तमम् ।।५५।।।
सिद्धचारणगन्धर्वाः सिषेविरे हरिं स्त्रियः ।
विदायं प्राप्य भगवान् अग्नेस्तेजोवतीं पुरीम् ।।५६।।
ययौ स्वेन विमानेन बद्रिकेऽग्निमहालयम् ।
अग्नयः श्रीहरिं नत्वा कृत्वा स्वागतमुत्तमम् ।।५७।।
प्रपूज्य भ्रामयामासुर्नगरे स्वे गृहे गृहे ।
अर्चयामासुरत्यर्थं भोजयामासुरादरात् ।।५८।।
मणिरत्नादिहाराँश्च ददुः कृष्णाय तेऽनलाः ।
स्वाहाद्याः स्त्रीजनान् सर्वानानर्चुः स्वर्णभूषणैः ।।५९।।
चान्दनैर्गन्धिभिः श्रेष्ठैर्द्रवैरमृतवर्षिभिः ।
विदायं प्राप्य भगवान् ययौ संयमनीं पुरीम् ।।4.96.६० ।।
यत्र वैवस्वतस्तस्य प्रजाः पुपूजुरादरात् ।
यमाः पुपूजुरीशेशं यमराजः पुपूज च ।।६१।।
याम्या यमानुगाश्चापि पुपूजुः परमेश्वरम् ।
हरिस्तु स्वविमानेन वीक्षितुं नारकान् ययौ ।।६२।।
कृष्णवायोः प्रसंगेन नारका मोक्षमाप्नुवन् ।
नैकोऽपि दण्डवाँस्तत्र दण्ड्यः कुण्डेऽस्ति शेषितः ।।६३।।
नावशिष्टस्तदा तत्र पापी कश्चिद् यमालये ।
सर्वे मोक्षं गताः स्वर्गं गताः कृष्णकृपावशात् ।।६४।।
यमेन पूजितः कृष्णो विदायं प्राप्य सत्वरम् ।
रक्षोवतीं पुरीं रक्षोभृतां निर्कतिपालिताम् ।।६५।।
आययौ स्वविमानेन निर्ऋतिः स्वागतं व्यधात् ।
रक्षोगणाश्च देवेशं पुपूजुर्निर्ऋतेः प्रजाः ।।६६।।
तेभ्यो दत्वा मनुं कृष्णो लब्ध्वा विदायमुत्तमम् ।
आययौ स्वविमानेन वारुणीं सुखिनीं पुरीम् ।।६७।।
वरुणो भगवन्तं तं पुपूज परमर्द्धिभिः ।
भोजयामास बहुधा रसानमृतसंभवान् ।।६८।।
सिषेविरे च बहुधा ततो विदायमार्पयत् ।
हरिस्तूर्णं विमानेनाऽऽययौ तु वायवीं पुरीम् ।।६९।।
गन्धवतीं चातिरम्यां प्रभञ्जनेन पालिताम् ।
प्रभञ्जनो हरेः श्रेष्ठं पूजनं सार्थमाचरत् ।।4.96.७०।।
ददौ कृष्णाय रत्नानि विदायं प्रददौ तथा ।
हरिश्चोत्तरभागस्थां कौबेरीं नगरीं ययौ ।।७१।।
विभावरीं च सोमस्य नगरीं बहुशोभनाम् ।
ययौ तूर्णं कुबेरेण पूजितस्तत्र माधवः ।।७२।।
बहुरत्नैर्बहुधनैर्भूषाम्बरादिभिस्तथा ।
सर्वकोशैः पूजितश्च ययावीशानपत्तनम् ।।७३।।
ईशानः स्वयशोवत्यां पुर्यामभ्रामयद्धरिम् ।
अपूजयद् दिव्यरसैः सगणः सगणं प्रभुम् ।।७४।।
विदायं प्रददौ चापि कृष्णः कान्तिमतीं पुरीम् ।
आययौ मेरुभागस्थां निशानाथादिसेविताम् ।।७५।।
बह्वीभिश्चाप्सरोभिश्च सर्वदेवगणैर्युताम् ।
सर्वथा वैष्णवीं रम्यां तारकाभिर्निवासिताम् ।।७६।।
तत्र निशाकरः कृष्णं पुपूज बहुभाववान् ।
भोजयामास बहुधा भ्रामयामास पत्तने ।।७७।।
विदायं प्रददौ चापि कृष्णो मेरुनिवासिनाम् ।
गृहे गृहे समस्तानां व्यस्तानां च ययौ तदा ।।७८।।
आहूतः पावनार्थं स्वमन्दिराणि हरिर्ययौ ।
प्रियव्रतोत्तानपादौ सम्राजौ परमात्मनः ।।७९।।
स्वागतं बहुसम्मानं चक्रतुः पूजनादिकम् ।
भोजयामासतुश्चापि ददुरनर्घ्यसन्मणीन् ।।4.96.८०।।
धर्मदेवो रुचिश्चापि दक्षः क्रतुर्महर्षयः ।
पुपूजुः परमात्मानं ससार्थं चोपदादिभिः ।।८१ ।।
खेचरी वसुचारी च ब्रह्मेशो ब्रह्मजीवधीः ।
सुषेणः शाश्वतः पृष्टः सुपुष्टश्च महाबलः ।।८२।।
त एते चारणा दिव्या निन्युर्नारायणं गृहम् ।
पुपूजुः परया प्रीत्या रन्नहारादिभिस्तदा ।।८३।।
मन्त्रज्ञो मन्त्रवित् प्राज्ञो मन्त्रराट् सिद्धिशोभनः ।
सिद्धेशः परमः सिद्धः सिद्धा निन्युर्हरिं गृहम् ।।८४।।
पूजयामासुरत्यर्थं भोजयामासुरमृतम् ।
यक्षो यक्षेशकश्चापि जृंभको मणिभद्रकः ।।८९।।
पूर्णप्रभद्रको माली शितिकुण्डलकस्तथा ।
नरेन्द्रश्चेति यक्षाश्च निन्युर्नारायणं गृहम् ।।८६।।
पुपूजुः परया प्रीत्या ददुर्दिव्योपदास्तथा ।
विणाज्ञः किन्नरस्तत्र सुरसेनः प्रमर्दनः ।।८७।।
अतीशयः सप्रयोगी गीतज्ञश्चेति किन्नराः ।
निन्युर्नारायणं नैजावासेष्वपूऽजयन् मुदा ।।८८।।
विद्याधरश्च विबुधो विद्याराशिर्विदाम्बरः ।
प्रबुद्धश्च कृतज्ञश्च श्रीज्ञस्तत्त्वधरादयः ।।८९।।
विद्याध्राः श्रीहरिं निन्युनिजावासेष्वपूजयन् ।
गायनैर्नर्तनैर्भावैर्वाद्यप्रकारकैस्तथा ।।4.96.९०।।
ते संप्रसादयामासुः श्रीपतिं श्रीजनैर्युतम् ।
वामदेवो महाजम्भः सुग्रीवो मर्दकस्तथा ।।९१।।
बाष्कली पिंगलः कुंभश्चैते भक्तास्तु तामसाः ।
निन्युर्नारायणं दैत्याः पुपूजुः परमेश्वरम् ।।९२।।
गरुत्मान् खगतिर्नागमर्दनो विष्णुवाहनः ।
एते हिरण्यवर्णाभा गरुडाः परमेश्वरम् ।।९३।।
निन्युर्नैजगृहाण्येवाऽऽनर्चुः श्रीपतिमीश्वरम् ।
उर्वशी मेनका रंभा रतिश्चापि तिलोत्तमा ।।९४।।
सुमुखी सुस्तनी शान्ता कामुकी शारदानना ।
अलम्बुषाद्या अप्सरोगणा निन्युर्हरिम् पतिम् ।।९५।।
निजावासेषु कान्तेशं पुपूजुः कामगौरवैः ।
सिषेविरे समालिङ्ग्य पावित्र्यं प्रापुरीश्वरात् ।।९६।।
गायनं नर्तनं चक्रुः चक्रुः सेवां च योषिताम् ।
भोजयामासुरत्यर्थं शृंगाराणि व्यधापयन् ।।९७।।
रामयामासुरात्मेशं कान्तं सस्वजिरे दृढम् ।
सुरभिः सर्वतोभद्रा सुशीला श्रीप्रदा तथा ।।९८।।
नन्दिनी चेति गावश्च दिव्यरूपधरास्तदा ।
कामदुघा हरिं निन्युर्मेरौ निजाश्रमेष्वपि ।।९९।।
पुपूजुः कामरूपेशं महाभिषेकपूर्वकम् ।
भोजयामासुरिष्टं वै मिष्टं क्षीरमयामृतम् ।। 4.96.१ ००।।
अथाऽरुणाऽनपाया च विमनुष्या वराम्बरा ।
मिश्रकेश्यसिपर्णा चाऽलंबुषा शुचिका तथा ।। १० १।।
मारीचिश्चाद्रिका विद्युत्पर्णा क्षेमा च लक्ष्मणा ।
मनोभवाऽसिता पुण्डरीकाऽजगन्धिनी तथा ।। १ ०२।।
सुबाह्वी सुप्रिया चापि सुभुजा सुदती रमा ।
सुरसा सुमुखी हंसपादी सूताऽभया जया ।। १ ०३।।
हंसा च कमला भासी सुभगा च सरस्वती ।
अरूपा मनुवंती च सुकेशी पर्णिनी तथा ।। १ ०४।।
सहजा पुञ्जिकस्थली घृताची च कृतस्थली ।
विश्वाची पूर्वचित्तिश्च प्रम्लोचा शारदी दया ।। १ ०५।।
माणिकी चानुम्लोचा मंजुला हंसी च शान्तिदा ।
युवतीत्वं हरये ता ददू रेमे रतिप्रियः ।। १ ०६।।
सिषेविरे स्वालयेषु सर्वस्वार्पणभावनैः ।
तथा कृष्णप्रियाणां च सेवां चक्रुः समन्विताः ।। १ ०७।।
ननर्तुः श्रीहरेरग्रे चक्रुर्वल्लभकीर्तनम् ।
आशीर्वादान् जगृहुश्चोपदा न्यधुर्हरेः पुरः ।। १ ०८।।
भीमसेनश्चोग्रसेनः सुपर्णो वरुणस्तथा ।
सूर्यवर्चा धृतराष्ट्रो गोमान् भीमश्च पत्रवान् ।। १ ०९।।
अर्कपर्णः प्रयुतश्च चित्ररथश्च वैकलिः ।
शालिशिराः सुबाहुश्च हंसो मध्यश्च दारुणः ।। 4.96.११ ०।।
ज्योतिष्टमः सदाचारो वरेण्यश्च वरूथकः ।
वसुरुचिः सुरुचिश्च विश्वावसुश्च भानुकः ।। १११ ।।
बह्वी सिद्धस्तु पूर्णश्च पूर्णांशः शतगौणकः ।
सुचन्द्रश्चेति गान्धर्वाः पुपूजुः परमेश्वरम् ।। ११ २।।
निन्युर्नारायणं नैजसौधेष्वानर्चुरच्युतम् ।
उपदाः प्रददुः सर्वे भोजयामासुरच्युतम् ।। ११ ३।।।
दिव्या मेरोरण्यानी तथा च वनदेवताः ।
ओषधयस्तथा दिव्या समूर्ताः परमेश्वरम् । । १ १४।।
पुपूजुः फलपुष्पाद्यैः सद्रसैर्भोजनामृतैः ।
तेभ्यो मेरुनिवासिभ्यः स्वमनुं माधवो ददौ ।। १ १६।।
नामधुन्यं ददौ नैजमाशीर्वादान् ददौ तथा ।
ततः स्वस्य विमानेन भुवर्लोकमुपाययौ । । ११ ६।।
वैशाखमासे भगवान् बद्रिके भक्तवत्सलः ।
वियच्चराः सुरास्तत्र पूजयामासुरच्युतम् ।। १ १७।।
आवहः प्रवहश्चेति सवहोऽनुवहस्तथा ।
परावहो विवहश्च परिवहश्च वायवः ।। १ १८।।
निजासु रम्यनगरीष्वानयन् परमेश्वरम् ।
पुपूजुः परया प्रीत्या भोजयामासुरच्युतम् ।। १ १९।।
भूतप्रेतपिशाचाश्च कूष्माण्डाश्च विनायकाः ।
वीरा वेतालकाश्चापि भुवर्लोकनिवासिनः ।। 4.96.१ २०।।।
पुपूजुः परमात्मानं जगृहुश्च मनुं हरेः ।
दिव्यमुक्ता बभूवुस्ते हरिर्भूतलमाययौ ।। १२१ ।।
कुंकुमवापिकाक्षेत्रं ज्येष्ठमासे निजालयम् ।
विरराम हरिर्बद्रि सर्वभक्तप्रपूजितः ।। १ २२।।
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने स्वर्गलोके मेरौ भुवर्लोके च भगवतो भ्रमणं कुंकुमवापिकां प्रत्यागमनं चेत्यादिनिरूपणनामा षण्णवतितमोऽध्यायः ।। ९६ ।।