← अध्यायः १०२ वराहपुराणम्
अध्यायः १०३
[[लेखकः :|]]
अध्यायः १०४ →


त्र्यधिकशततमोऽध्यायः

होतोवाच

तद्वच्च शर्कराधेनुं शृणु राजन् यथार्थतः ।
अनुलिप्ते महीपृष्ठे कृष्णाजिनकुशोत्तरे ॥ १ ॥
धेनुं शर्करया राजन्कृत्वा भारचतुष्टयम् ।
उत्तमा कथ्यते सद्भिश्चतुर्थांशेन वत्सकम् ॥ २ ॥
तदर्धं मध्यमा प्रोक्ता कनिष्ठा भारकेण तु ।
तद्वद्वत्सं प्रकुर्वीत चतुर्थांशेन तत्त्वतः ॥ ३ ॥
अथ कुर्यादष्टशतैरूर्ध्वं नृपतिसत्तम ।
स्वशक्त्या कारयेद्‌धेनुं तथात्मानं पीडयेत् ॥ ४ ॥
सर्वबीजानि संस्थाप्य चतुर्दिक्षु समन्ततः ।
सुवर्णस्य मुखं शृङ्गे मौक्तिकैर्नयने तथा ॥ ५ ॥
गुडेन तु मुख काये जिह्वा पिष्टमयी तथा ।
कम्बलं पट्टसूत्रेण कण्ठाभरणभूषिताम् ॥ ६ ॥
इक्षुपादां रौप्यखुरां तवनीतस्तनीं तथा ।
प्रशस्तपत्रश्रवणां सितचामरपभूषिताम् ॥ ७ ॥
पञ्चरत्नसमायुक्तां वस्त्रेणाच्छादितां तथा ।
गन्धपुष्पैरलंकृत्य ब्राह्मणाय निवेदयेत् ॥ ८ ॥
श्रोत्रियाय दरिद्राय साधुवृत्ताय धीमते ।
वेदवेदाङ्‌गविदुषे साग्निकाय कुटुम्बिने ।
अदुष्टाय प्रदातव्या न तु मत्सरिणे द्विजे ॥ ९ ॥
अयने विषुवे पुण्ये व्यतीपाते दिनक्षये ।
एषु पुण्येषु कालेषु थथाविभवशक्तितः ॥ १० ॥
सत्पात्रञ्च द्विजं दृष्ट्‍वा आगतं श्रोत्रियं गृहे ।
तादृशाय प्रदातव्या पुच्छदेशे विमृष्य च ॥ ११ ॥
पूर्वाभिमुखमास्थाय अथवा स उदङ्मुखः ।
गां पूर्वाभिमुखीं कृत्वा वत्समुत्तरतो न्यसेत् ॥ १२ ॥
दानकाले तु ये मन्त्रास्तान्पठित्वा समर्पयेत् ।
सम्पूज्य विधिवद्विप्रं मुद्रिकाकर्णभूषणैः ॥ १३ ॥
स्वशक्त्या दक्षिणा देया वित्तशाठ्यविवर्ज्जितः ।
हस्ते तु दक्षिणां दत्त्वा गन्धपुष्पसचन्दनाम् ।
धेनुं समर्पयेत्तस्य मुखञ्च च विलोकयेत् ॥ १४ ॥
एकाहं शर्कराहारो ब्राह्मणस्त्रिदिनं वसेत् ।
सर्वपापहरा धेनुः सर्वकामप्रदायिनी ॥ १५ ॥
सर्वकामसमृद्धस्तु जायते नात्र संशयः ।
दीयमानं प्रपश्यन्ति ते यान्ति परमां गतिम् ॥ १६ ॥
य इदं शृणुयाद् भक्त्या पठते वापि मानवः ।
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥ १७ ॥
इति वाराहपुराणे शर्कराधेनुमाहात्म्यं
नाम त्र्यधिकशततमोऽध्यायः ।