वामनपुराणम्/एकविंशतितमोऽध्यायः

  1. प्रथमोऽध्यायः
  2. द्वितीयोऽध्यायः
  3. तृतीयोऽध्यायः
  4. चतुर्थोऽध्यायः
  5. पञ्चमोऽध्यायः
  6. षष्ठोऽध्यायः
  7. सप्तमोऽध्यायः
  8. अष्टमोऽध्यायः
  9. नवमोऽध्यायः
  10. दशमोऽध्यायः
  11. एकादशोऽध्यायः
  12. द्वादशोऽध्यायः
  13. त्रयोदशोऽध्यायः
  14. चतुर्दशोऽध्यायः
  15. पञ्चदशोऽध्यायः
  16. षोडशोऽध्यायः
  17. सप्तदशोऽध्यायः
  18. अष्टादशोऽध्यायः
  19. एकोनविंशतितमोऽध्यायः
  20. विंशतितमोऽध्यायः
  21. एकविंशतितमोऽध्यायः
  22. द्वाविंशतितमोऽध्यायः
  23. त्रयोविंशतितमोऽध्यायः
  24. चतुर्विंशतितमोऽध्यायः
  25. पञ्चविंशतितमोऽध्यायः
  26. षड्विंशतितमोऽध्यायः
  27. सप्तविंशतितमोऽध्यायः
  28. अष्टाविंशतितमोऽध्यायः
  29. नवविंशतितमोऽध्यायः
  30. त्रिंशत्तमोऽध्यायः
  31. एकत्रिंशत्तमोऽध्यायः
  32. द्वात्रिंशत्तमोऽध्यायः
  33. त्रयस्त्रिंशत्तमोऽध्यायः
  34. चतुस्त्रिंशत्तमोऽध्यायः
  35. पञ्चत्रिंशत्तमोऽध्यायः
  36. षड्त्रिंशत्तमोऽध्यायः
  37. सप्तत्रिंशत्तमोऽध्यायः
  38. अष्टत्रिंशत्तमोऽध्यायः
  39. नवत्रिंशात्तमोऽध्यायः
  40. चत्वारिंशत्तमोऽध्यायः
  41. एकचत्वारिंशत्तमोऽध्यायः
  42. द्विचत्वारिंशत्तमोऽध्यायः
  43. त्रिचत्वारिंशत्तमोऽध्यायः
  44. चतुश्चत्वारिंशत्तमोऽध्यायः
  45. पञ्चचत्वारिंशत्तमोऽध्यायः
  46. षड्चत्वारिंशत्तमोऽध्यायः
  47. सप्तचत्वारिंशत्तमोऽध्यायः
  48. अष्टचत्वारिंशत्तमोऽध्यायः
  49. नवचत्वारिंशत्तमोऽध्यायः
  50. पञ्चाशत्तमोऽध्यायः
  51. एकपञ्चाषत्तमोऽध्यायः
  52. द्विपञ्चाषत्तमोऽध्यायः
  53. त्रिपञ्चाषत्तमोऽध्यायः
  54. चतुष्पञ्चाषत्तमोऽध्यायः
  55. पञ्चपञ्चाषत्तमोऽध्यायः
  56. षट्पञ्चाषत्तमोऽध्यायः
  57. सप्तपञ्चाषत्तमोऽध्यायः
  58. अष्टपञ्चाषत्तमोऽध्यायः
  59. नवपञ्चाषत्तमोऽध्यायः
  60. षष्टितमोऽध्यायः
  61. एकषष्टितमोऽध्यायः
  62. द्विषष्टितमोऽध्यायः
  63. त्रिषष्टितमोऽध्यायः
  64. चतुष्षष्टितमोऽध्यायः
  65. पञ्चषष्टितमोऽध्यायः
  66. षड्षष्टितमोऽध्यायः
  67. सप्तषष्टितमोऽध्यायः
  68. अष्टषष्टितमोऽध्यायः
  69. नवषष्टितमोऽध्यायः
  70. सप्ततितमोऽध्यायः
  71. एकसप्ततितमोऽध्यायः
  72. द्विसप्ततितमोऽध्यायः
  73. त्रिसप्ततितमोऽध्यायः
  74. चतुस्सप्ततितमोऽध्यायः
  75. पञ्चसप्ततितमोऽध्यायः
  76. षट्सप्ततितमोऽध्यायः
  77. सप्तसप्ततितमोऽध्यायः
  78. अष्टसप्ततितमोऽध्यायः
  79. नवसप्ततितमोऽध्यायः
  80. अशीतितमोशऽध्यायः
  81. एकाशीतितमोऽध्यायः
  82. द्व्यशीतितमोऽध्यायः
  83. त्र्यशीतितमोऽध्यायः
  84. चतुरशीतितमोऽध्यायः
  85. पञ्चाशीतितमोऽध्यायः
  86. षडशीतितमोऽध्यायः
  87. सपाशीतितमोऽध्यायः
  88. अष्टाशीतितमोऽध्यायः
  89. नवाशीतितमोऽध्यायः
  90. नवतितमोऽध्यायः
  91. एकनवतितमोऽध्यायः
  92. द्विनवतितमोऽध्यायः
  93. त्रिनवतितमोऽध्यायः
  94. चतुर्नवतितमोऽध्यायः
  95. पञ्चनवतितमोऽध्यायः
  96. षण्णवतितमोऽध्यायः

नारद उवाच
पुलस्त्य कथ्यतां तावद् देव्या भूयः समुद्भवः।
महत्कौतूहलं मेऽद्य विस्तराद् ब्रह्मवित्तम।। २१.१

पुलस्त्य उवाच
श्रूयतां कथयिष्यामि भूयोऽस्याः संभवं मुने।
शुम्भासुरवधार्थाय लोकानां हितकाम्यया।। २१.२

या सा हिमवतः पुत्री भवेनोढा तपोधना।
उमा नाम्ना च तस्याः सा कोशाञ्जाता तु कौशिकी।। २१.३

संभीय विन्ध्यं गत्वा च भूयो भूतगणैर्वृता।
शुम्भं चैव निशुम्भं च वधिष्यति वरायुधैः।। २१.४

नारद उवाच
ब्रह्मंस्त्वया समाख्याता मृता दक्षात्मजा सती।
सा जाता हिमवत्पुत्रीत्येवं मे वक्तुमर्हसि।। २१.५

यथा च पार्वतीकोशात् समुद्भूता हि कौशिकी।
यथा हतवती शुम्भं निशुम्भं च महासुरम्।। २१.६

कस्य चेमौ सुतौ वीरौ ख्यातौ शुम्भनिशुम्भकौ।
एतद् विस्तरतः सर्वं यथावद् वक्तुमर्हसि।। २१.७

पुलस्त्य उवाच
एतत्ते कथयिष्यामि पार्वत्याः संभवं मुने।
श्रृणुष्वावहितो भूत्वा स्कन्दोत्पत्तिं च शाश्वतीम्।। २१.८

भगवंस्तत्प्रसादेन देव्याश्चरितमुत्तमम् ।
श्रुतं विस्तारतो ब्रूहि पार्वत्याः समभवं मुने ॥ २१.९

रुद्रः सत्यां प्रणष्टायां ब्रह्मचारिव्रते स्तितः।
निराश्रयत्वमापन्नस्तपस्तप्तुं व्यवस्थितः।। २१.११

स चासीद् देवसेनानीर्दैत्यदर्पविनाशनः।। २१.११

ततो निराकृता देवाः सेनानाथेन शंभुना।
दानवेन्द्रेण विक्रम्य महिषेण पराजिताः।। २१.१२

ततो जग्मुः सुरेशानं द्रष्टुं चक्रगदाधरम्।
श्वेतद्वीपे महाहंसं प्रपन्नाः शरणं हरिम्।। २१.१३

तानागतान् सुरान् दृष्ट्वा ततः शक्रपुरोगमान्।
विहस्य मेघगम्भीरं प्रोवाच पुरुषोत्तमः।। २१.१४

किं जितास्त्वसुरेन्द्रेण महिषेण दुरात्मना।
येन सर्वे समेत्यैवं मम पार्श्वमुपागताः।। २१.१५

तद् युष्माकं हितार्थाय यद् वदामि सुरोत्तमाः।
तत्कुरुध्वं जयो येन समाश्रित्य भवेद्धि वः।। २१.१६

य एते पितरो दिव्यास्त्वग्निष्वात्तेति विश्रुताः।
अमीषां मानसी कन्या मेना नाम्नाऽस्ति देवताः।। २१.१७

तामाराध्य महातिथ्यां श्रद्धया परयाऽमराः।
प्रार्थयध्वं सतीं मेनां प्रालेयाद्रेरिहार्थतः।। २१.१८

तस्यां सा रूपसंयुक्ता भविष्यति तपस्विनी।
दक्षकोपाद् यया मुक्तं मलवज्जीवितं प्रियम्।। २१.१९

सा शंकरात् स्वतेजोंऽशं जनयिष्यति यं सुतम्।
स हनिष्यति दैत्येन्द्रं महिषं सपदानुगम्।। २१.२०

तस्माद् गच्छत पुण्यं तत् कुरुक्षेत्रं महाफलम्।
तत्र पृथूदके तीर्थे पूज्यन्तां पितरोऽव्ययाः।। २१.२१

महातिथ्यां महापुण्ये यदि शत्रुपराभवम्।
जिहासतात्मनः सर्वे इत्थं वै क्रियतामिति।। २१.२२

पुलस्त्य उवाच
इत्युक्त्वा वासुदेवेन देवाः शक्रपुरोगमाः।
कृताञ्जलिपुटा भूत्वा पप्रच्छुः परमेश्वरम्।। २१.२३

देवा ऊचुः
कोऽयं कुरुक्षेत्र इति यत्र पुण्यं पृथूदकम्।
उद्भवं तस्य तीर्थस्य भगवान् प्रब्रवीतु नः।। २१.२४

केयं प्रोक्ता महापुण्या तिथीनामुत्तमा तिथिः।
यस्यां हि पितरो दिव्याः पूज्याऽस्माभिः प्रयत्नतः।। २१.२५

ततः सुराणां वचनान्मुरारिः कैटभार्दनः।
कुरुक्षेत्रोद्भवं पुण्यं प्रोक्तवांस्तां तिथीमपि।। २१.२६

श्रीभगवानुवाच
सोमवंशोद्भवो राजा ऋक्षो नाम महाबलः।
कृतस्यादौ समभवदृक्षात् संवरणोऽभवत्।। २१.२७

स च पित्रा निजे राज्ये बाल एवाभिषेचितः।
बाल्येऽपि धर्मनिरतो मद्भक्तश्च सदाऽभवत्।। २१.२८

पुरोहितस्तु तस्यासीद् वसिष्ठो वरुणात्मजः।
स चास्याध्यापयामास साङ्गान् वेदानुदारधीः।। २१.२९

ततो जगाम चारण्यं त्वनध्याये नृपात्मजः।
सर्वकर्मसु निक्षिप्य वसिष्ठं तपसां निधिम्।। २१.३०

ततो मृगयाव्याक्षेपाद् एकाकी विजनं वनम्।
वैभ्राजं स जगामाथ अथोन्मादनमभ्ययात्।। २१.३१

ततस्तु कौतुकाविष्टः सर्वर्तुकुसुमे वने।
अवितृप्तः सुगन्धस्य समन्ताद् व्यचरद् वनम्।। २१.३२

स वनान्तं च ददृशे फुल्लकोकनदावृतम्।
कह्लारपद्मकुमुदैः कमलेन्दीवरैरपि।। २१.३३

तत्र क्रीडन्ति सततमप्सरोऽमरकन्यकाः।
तासां मध्ये ददर्शाथ कन्यां संवरणोऽधिकाम्।। २१.३४

दर्शनादेव स नृपः काममार्गणपीडितः।
जातः सा च तमीक्ष्यैव कामबाणातुराऽभवत्।। २१.३५

उभौ तौ पीडितौ मोहं जग्मतुः काममार्गणैः।
राजा चलासनो भूम्यां निपपात तुरङ्गमात्।। २१.३६

तमभ्येत्य महात्मानो गन्धर्वाः कामरूपिणः।
सिषिचुर्वारिणाऽभ्येत्य लब्धसंज्ञोऽभवत् क्षणात्।। २१.३७

सा चाप्सरोभिरुत्पात्य नीता पितृकुलं निजम्।
ताभिराश्वासिता चापि मधुरैर्वचनाम्बुभिः।। २१.३८

स चाप्यरुह्य तुरगं प्रतिष्ठानं पुरोत्तमम्।
गतस्तु मेरुशिखरं कामचारी यथाऽमरः।। २१.३९

यदाप्रभृति सा दृष्टा आर्क्षिणा तपती गिरौ।
तदाप्रभृति नाश्नाति दिवा स्वपिति नो निशि।। २१.४०

ततः सर्वविदव्यग्रो विदित्वा वरुणात्मजः।
तपतीतापितं वीरं पार्थिवं तपसां निधिः।। २१.४१

समुत्पत्य महायोगी गगनं रविमण्डलम्।
विवेश देवं तिग्मांशु ददर्श स्यन्दने स्थितम्।। २१.४२

तं दृष्ट्वा भास्करं देवं प्रणमद् द्विजसत्तमः।
प्रतिप्रणमितश्चासौ भास्करेणाविशद् रथे।। २१.४३

ज्वलज्जटाकलापोऽसौ दिवाकरसमीपगः।
शोभते वारुणिः श्रीमान् द्वितीय इव भास्करः।। २१.४४

ततः संपूजितोऽर्घाद्यैर्भास्करेण तपोधनः।
पृष्टश्चागमने हेतुं प्रत्युवाच दिवाकरम्।। २१.४५

समायातोऽस्मि देवेश याचितुं त्वां महाद्युते।
सुतां संवरणस्यार्थे तस्य त्वं दातुमर्हसि।। २१.४६

ततो वसिष्ठाय दिवाकरेण निवेदिता सा तपती तनूजा।
गृहागताय द्विजपुंगवाय राज्ञोऽर्थतः संवरणस्य देवाः।। २१.४७

सावित्रिमादाय ततो वसिष्ठः स्वमाश्रमं पुण्यमुपाजगाम।
सा चापि संस्मृत्य नृपात्मजं तं कृताञ्जलिर्वारुणिमाह देवी।। २१.४८

तपत्युवाच
ब्रह्मन् मया खेदमुपेत्य यो हि सहाप्सरोभिः परिचारिकाभिः।
दृष्टो ह्यरण्येऽमरगर्भतुल्यो नृपात्मजो लक्षणतोऽभिजाने।। २१.४९

पादौ शुभौ चक्रगदासिचिह्नौ जङ्घे तथोरू करिहस्ततुल्यौ।
कटिस्तथा सिंहकटिर्यथैव क्षामं च मध्यं त्रिबलीनिबद्धम्।। २१.५०

ग्रीवाऽस्य शङ्खाकृतिमादधाति भुजौ च पीनौ कठिनौ सुदीर्घौ।
हस्तौ तथा पद्मदलोद्भवाङ्कौ छत्राकृतिस्तस्य शिरो विभाति।। २१.५१

नीलाश्च केशाः कुटिलाश्च तस्य कर्णौ समांसौ सुसमा च नासा।
दीर्घाश्च तस्याङ्गुलयः सुपर्वाः पद्भ्यां कराभ्यां दशनाश्च शुभ्राः।। २१.५२

समुन्नतः षड्भिरुदारवीर्यस्त्रिभिर्गभीरस्त्रिपु च प्रलम्बः।
रक्तस्तथा पञ्चसु राजपुत्रः कृष्णश्चतुर्भिस्त्रिभिरानतोऽपि।। २१.५३

द्वाभ्यां च शुक्लः सुरभिश्चतुर्भिः दृश्यन्ति पद्मानि दशैव चास्य।
वृतः स भर्ता भगवान् हि पूर्वं तं राजपुत्रं भुवि संविचिन्त्य।। २१.५४

ददस्व मां नाथ तपस्विनेऽस्मै गुणोपपन्नाय समीहिताय।
नेहान्यकामां प्रवदन्ति सन्तो दातुं तथाऽन्यस्य विभो क्षमस्व।। २१.५५

देवदेव उवाच
इत्येवमुक्तः सवितुश्च पुत्र्या ऋषिस्तदा ध्यानपरो बभूव।
ज्ञात्वा च तत्रार्कसुतां सकामां मुदा युतो वाक्यमिदं जगाद।। २१.५६

स एव पुत्रि नृपतेस्तनूजो दृष्टः पुरा कामयसे यमद्य।
स एव चायाति ममाश्रमं वै ऋक्षात्मजः संवरणो हि नाम्ना।। २१.५७

अथाजगाम स नृपस्य पुत्रस्तमाश्रमं ब्राह्मणपुंगवस्य।
दृष्ट्वा वसिष्ठं प्रणिपत्य मूर्ध्ना स्थितस्त्वपश्यत् तपतीं नरेन्द्रः। २१.५८

दृष्ट्वा च तां पद्मविशालनेत्रां तां पूर्वदृष्टामिति चिन्तयित्वा।
पप्रच्छ केयं ललना द्विजेन्द्र स वारुणिः प्राह नराधिपेन्द्रम्।। २१.५९

इयं विवस्वद्‌दुहिता नरेन्द्र नाम्ना प्रसिद्धा तपती पृथिव्याम्।
मया तवार्थाय दिवाकरोऽर्थितः प्रादान्मया त्वाश्रममानिनिन्ये।। २१.६०

तस्मात् समुत्तिष्ट नरेन्द्र देव्याः पाणिं तपत्या विधिवद् गृहाण।
इत्येवमुक्तो नृपतिः प्रहृष्टो जग्राह पाणिं विधिवत् तपत्याः।। २१.६१

सा तं पतिं प्राप्य मनोऽभिरामं सूर्यात्मजा शक्रसमप्रभावम्।
रराम तन्वी भवनोत्तमेषु यता महैन्द्रं दिवि दैत्यकन्या।। २१.६२