विष्णुधर्मोत्तरपुराणम्/खण्डः ३/अध्यायाः ०२६-०३०

← अध्यायाः २१-२५ विष्णुधर्मोत्तरपुराणम्
अध्यायाः २६-३०
वेदव्यासः
अध्यायाः ३१-३५ →

3.26
।। मार्कण्डेय उवाच ।। ।।
पताकस्त्रिपताकश्च तथा वैकर्तरेमुखः ।।
अर्धचन्द्रो ह्यटालश्च गुरुतुण्डस्तथापरः ।। १ ।।
मुष्टिश्च शिखिराख्यश्च कपित्थः खटकामुखः ।।
सूच्यर्धः पद्मकोशश्च मृगशीर्षो मृगस्य च ।। २ ।।
लाङ्गूलः कालपद्मश्च चतुरो भ्रमरस्तथा ।।
हंसास्यो हंसपक्षश्च संदंशो मुकुलस्तथा ।। ३ ।।
असंयुताः करा ह्येते द्वाविंशतिरुदाहृताः ।।
अथ संयुक्ततो हस्तान्गदतस्तान्निबोध मे ।। ४ ।।
अंजलिश्च कपोतश्च कर्कटः स्वस्तिकस्तथा ।।
खटको वर्धमानश्च उत्सङ्गो निषिधस्तथा ।। ५ ।।
दोलः पुष्पपुटश्चैव तथा मकर एव च ।।
गजदन्तोऽवहित्थश्च वर्धमानस्तथैव च ।। ६ ।।
एते वै संयुता हस्ता मया प्रोक्तास्त्रयोदश ।।
नृत्तहस्तार्युपश्चैव भूयो नाम्नि निबोधत ।। ७ ।।
चतुरस्रस्तथा वृत्तस्तथा लघुमुखौ स्मृतौ ।।
तथा चैव तु विज्ञेयौ ह्यरालखटकामुखौ ।। ८ ।।
आविद्धवक्रसंव्यास्वौ रेचितावर्द्धरेचितौ ।।
अवहित्थः पल्लवितो नितम्बः केशवर्धनौ ।। ९ ।।
लताख्यौ करिहस्तौ च पक्षोद्योताऽर्थवर्धितौ ।।
ज्ञेयौ गरुडपक्षौ च दण्डपक्षौ तथैव च ।।।3.26.१०।।।
ऊर्ध्वमण्डलजौ चैव पार्श्वमंडलाजावपि ।।
पार्श्वार्धमण्डलौ चैव उरोमण्डलकौ तथा।।११।।
इष्टस्वस्तिककावन्यौ तथा वै पद्मकौशिकौ ।।
अल्लिपल्लवसंज्ञौ च तथा चोल्वनसंज्ञितौ ।। १२ ।।
ललितौ वलितौ चैव ज्ञेया नृत्यकराः सदा ।।
अतः परं प्रवक्ष्यामि कराणां कर्मलक्षणम् ।। १३ ।।
प्रसारिताग्रा सहिता यस्याङ्गुल्यो भवन्ति हि ।।
कुञ्चितश्च तथाङ्गुष्ठः स पताक इति स्मृतः ।। १४ ।।
एष प्रहारग्रहणे रोधने स्यात्प्रतापने ।।
चलिताङ्गुलिरप्येष वायुवृष्टिनिरूपणे ।। १५ ।।
ऊर्ध्वगश्च तथोत्साहे छत्रादिष्वप्यधोमुखः ।।
पुष्करप्रहितस्ताले समः प्रचलिताङ्गुलिः ।। १६ ।।
पक्ष्मोत्क्षेपे रेचितक उत्क्षिप्तश्चैव धारणे ।।
अस्यैकानामिका वक्रा त्रिपताका तथा भवेत् ।। १७ ।।
आवाहने प्रयुञ्जीत मुकुटाभिनयेऽप्युत ।।।
अचलाङ्गुलिरप्येष लघुपक्षिनिरूपणे ११८ ।।
तयानासिकया कार्यं तथैवाश्रुप्रमार्जनम् ।।
मङ्गलस्पर्शनं कार्यं शिरसश्च निवेशनम् ।। १९ ।।
श्रोत्रसंवरणं चैव कार्यं भूमिमुखेन तु ।।
भुजङ्गानामाभिनयं भ्रमराणां तथैव च ।। 3.26.२० ।।
त्रिपताका यदा हस्ते भवेत्पृष्ठावलोकिनी ।।
तर्जनी तु तदा ज्ञेयः कर्तरीमुखसंज्ञकः।।२१।।
कार्योऽयं परिवारेषु भिन्नश्च पतनेषु च।।
अनामिका तु साङ्गुष्ठा अर्धचन्द्रे करे भवेत्।।२२।।
बालचन्द्राभिनयने बालस्यात्तरवस्तथा।।
मेखलां जघनं चैव कुर्याच्चानेन कुण्डलम्।।२३।।
खण्डप्रदेशिनी कार्या अङ्गुल्यः कुंचितास्तथा।।
शेषा भिन्नोर्ध्ववलिता म्ररालेङ्गुलयः करे ।। २४ ।।
गाम्भीर्यसत्त्वशौंडीर्यकेशसंग्रहणादिषु ।।
स्वेदस्य चापनयने शेषे चैष करो भवेत् ।। । ।। २५ ।।
म्ररालः शुकतुण्डश्च वक्रितानामिकाङ्गुलिः ।।
नाहन्त्वमित्यथैतेन नित्यं चाभिनयेद्बुधः ।। २६ ।।
अङ्गुल्यो यस्य हस्तस्य तलमध्येऽग्रसंस्थिताः ।।
तासामुपरिताङ्गुष्ठः स मुष्टिरिति संज्ञितः ।। २७ ।।
एष प्रहारे व्यायामे निर्दयस्तनपीडने ।। ।
सन्धारणेऽसियष्ट्योश्च ग्रहणे कुन्तदण्डयोः ।। २८ ।।
ऊर्ध्वाङ्गुष्ठोऽयमेव स्यात्करः शिखरसंज्ञितः ।।
एष रश्मिग्रहे कार्यश्चापाङ्कुशधनुर्ग्रहे ।।२९।। ।
मुष्टिमध्यगतोङ्गुष्ठः कपित्थ इति कीर्तितः ।।
अनेनाभिनयः कार्यो मध्ये चक्रे शरे तथा ।। 3.26.३० ।।
उत्क्षिप्तवक्रा तु यदानामिका सकनीयसी ।।।
अस्यैव तु कपित्थस्य ततः स्यात्खटकामुखः ।।३१।।
होत्रे छत्रग्रह चैव कर्षणे व्यजने तथा ।।
स्रग्दामधारणे कार्यो ह्यसङ्कोचोस्य संग्रहः ।।३२।।।
प्रसृता तर्जनी चात्र यदा सूचीमुखस्तदा ।।
निष्पादने चाभिनयेन्नेत्रशक्रमहेशयोः ।। ३३ ।।
अस्याङ्गुल्यस्तु विपुलाः सहांङ्गुष्ठेन कुञ्चिताः ।।।
ऊर्ध्वाहंसनखस्यैव स भवेत्पद्मकोशकः ।। ३४ ।।
श्लिष्टोङ्गुष्ठो निम्नमध्यः पताकोहिशिरो भवेत् ।।
सलिलस्य प्रदाने तु कार्या तेन च सूचनम् ।। ।। ३५ ।।
अधोमुखीनां सर्वासामङ्गुलीनां यदा भवेत् ।।
कनिष्ठाङ्गुष्ठका चोर्ध्वा तदा स्यान्मृगशीर्षकः ।। ३६ ।।
सूचिते च्छेदिते कार्यं शक्या स्वोच्चालने तथा ।।
त्रेताग्निसंस्थिता मध्या तर्जन्यङ्गुष्ठयोर्यदा ।। ३७ ।।
काङ्गुले नामिका वक्रा तथा चोर्ध्वा कनीयसी ।।
अनेन खलु कर्तव्यं फलानां तु निरूपणम् ।। ३८ ।।
आवर्त्यन्ते करतले यस्याङ्गुल्यः करस्य वै ।।
पार्श्वागतविकीर्णाश्च कोलपद्म इति स्मृतः ।। ३९ ।।
प्रतिषेध कृते योज्यो नास्ति शून्येषु चाप्यथ ।।
तिस्रः प्रसारिताङ्गुल्यस्तथा चोर्ध्वा कनीयसी ।। 3.26.४० ।।
तस्या मध्याश्रितोङ्गुष्ठः करः स चतुरः स्मृतः ।।
वचसां विनियोगे च माध्ये चैव प्रयोजयेत्।।४१।।
अनेनैव तथा कार्यं वर्णानां तु निरूपणम् ।।
ऊर्ध्वस्थे च नवे च्श्वेतं रक्ते स्यादर्धमण्डलम् ।।४२।।
मण्डलं न भवेत्पीतं नीलं च मृदितं भवेत् ।।
स्वभावस्थेन कृत्स्नं च शेषा वर्णास्तथैव च ।। ४३ ।।
मध्यमाङ्गुष्ठसन्देशो वक्रा चैव प्रदेशिनी ।।
ऊर्ध्वमन्याः प्रकीर्णाश्च भ्रमरश्च तदा भवेत् ।। ४४ ।।
पद्मादिग्रहणे कार्यं कर्णपूरे तथाप्ययम् ।।
तर्जनीमध्यमाङ्गुष्ठा त्रेताग्निस्था निरन्तरम् ।। ।। ४५ ।।
भवेयुर्हंसवक्त्रस्य शेषा ह्यन्याः प्रसारिताः ।।
श्लक्ष्णलाघवनिःसारमार्दवेषु प्रयोजयेत् ।। ४६ ।।
तिर्यक् पिण्डीकृता यस्मिनुन्नता च कनिष्ठिका ।।
अङ्गुष्ठः कुञ्चितस्त्वेवं हंसपक्ष इति स्मृतः ।। ४७ ।।
गण्डसंश्रयमेतेन भोजनः सपरिग्रहः ।।
स्पर्शे चैवानुलापार्थे कार्ये संवाहने तथा ।। ४८ ।।
तर्जन्यङ्गुष्ठसंदंशस्त्वरालस्य यदा भवेत् ।।
निर्भुग्नतलमध्यश्च ससन्दंश इति स्मृतः ।। ४९ ।।
संदंशस्त्रिविधो ज्ञेयस्त्वग्रहो मुखजस्तथा ।।
तथा पार्श्वकृतश्चैव तस्य कर्माणि मे शृणु ।। 3.26.५० ।।
सन्दंशग्रहणे कार्यः शल्योद्धारे तथाग्रजः ।।
आलेखारञ्जने चैव तर्जनीपीडने तथा ।। ५१ ।।
यज्ञोपवीती पार्श्वस्थः शिरःसंदर्शने तथा ।।
समागताग्राङ्गुलिको मुक्तलः पद्मकोशकः ।। ५२ ।।
देवार्चाकरणे कार्यो बलो पद्मनिरूपणे ।।
असंयुताः करा ह्येते यथावत्कीर्तिता मया ।। ५३ ।।
पताकाभ्यां तु हस्ताभ्यां सस्फुटोञ्जलिरुच्यते ।।
देवतानां गुरूणां च पितॄणां चेष्यते पुनः ।। ५४ ।।
अन्योन्यपार्श्वसक्ताभ्यां कराभ्यां स्यात्कपोतकः ।।
शीते भये च कार्योऽयं विनियोगगमे तथा ।। ५५ ।।
अङ्गुल्यो यस्य हस्तस्य अडुल्यन्तरनिःसृताः ।।
स कर्कट इति ज्ञेयः कर्तव्यस्तु विजृम्भिते ।। ५६ ।।
मणिबन्धन विन्यस्तावरालौ वर्धमानकः ।।
उत्तानौ नतपार्श्वस्थौ स्वस्तिकः परिकीर्तितः ।। ५७ ।।
विस्तीर्णं सर्वमेतेन ऋतवो गगनं घनम् ।।
समुद्रश्चाभिनेयः स्याद्भूमिश्च मनुजेश्वर ।। ५८ ।।
खटकः खटके न्यस्य खटका वर्धमानकः ।।
शृङ्गारार्थे प्रयोक्तव्यः प्रणामकरणेषु च ।। ५९ ।।
अरालौ तु विपर्यस्तावुत्तानौ वर्धमानकौ ।।
उत्सङ्ग इति विज्ञेयः स्पर्शस्य ग्रहणे परः ।। 3.26.६० ।।
मुक्तलं तु यदा हस्तं कपित्थं परिवेष्टयेत् ।।
स विज्ञेयस्तदा हस्तो निषधो नाम नामतः ।। ६१।।
संक्षिप्ते चैव निक्षिप्ते तथा कार्यः प्रपीडिते ।।
पताकौ लम्बितौ हस्तौ दोलेति परिकीर्तिताः ।। ।। ६२ ।।
ध्यानादिदाने कर्तव्यो भक्ष्यादिकरणेषु च ।।
द्वितीयपार्श्वसंश्लिष्टः पूर्वः पुष्पपुटः स्मृतः ।। ६३ ।।
पूर्वाणि चाभिनेयानि करणानेव पार्थिव ।।
पताकौ तु यदा हस्तौ मूर्तहस्तावधोमुखौ ।। ६४ ।।
उपर्युपरि विन्यस्तौ तदा समकरः करः ।।
सिंहव्याघ्रमृगाद्यानां कर्तव्योऽभिनयो भवेत् ।।६५।।
अञ्चितौ कूर्परासा तु यदा स्यात्सर्पशीर्षके ।।
गजदन्तस्तथा नाम्ना कार्यः शैलनिबर्हणे ।।६६।।
शुकतुण्डौ करौ कृत्वा वक्षस्यभिमुखाञ्चितौ ।।
शनैरधोमुखौ विद्धाववहित्थ इति स्मृतः।।६७।।
दौर्बल्यश्च सिते कार्यो गात्राणां च निदर्शने।।
ज्ञेयो वै वर्धमानस्तु हंसपक्षौ पराङ्मुखौ ।। ६८ ।।
जालवातायनादीनां प्रयोगस्तेन चेष्यते ।।
संयुतानां कराणां तु लक्षणं कथितं मया ।। ६९ ।।
एवं ज्ञेयाः कराः सर्वे नानारससमुद्भवाः ।।
अत ऊर्ध्वं प्रवक्ष्यामि नुस्तुहस्तमपाश्रयम् ।। 3.26.७० ।।
वक्षसोऽष्टांगुलस्थौ तु प्राङ्मुखौ खटकामुखौ ।।
समानकूर्परासौ तु चतुरस्रो प्रकीर्तितौ।।७१।।
हंसपक्षौ स्मृतौ हस्तौ व्यावृत्तौ तालवृन्तवत् ।।
उद्वृत्ताविति विज्ञेयावथ व. तालवृन्तकौ ।। ७२ ।।
चतुरस्रीकृतौ हस्तौ हंसपक्षीकृतौ तथा ।।
तिर्यङमुखावूर्ध्वतलौ ज्ञेयौ लघुमुखाविति ।। ७३ ।।
तावेव मणिधन्वांतावरालकचितौ करौ ।।
ज्ञेयावभिनये त्वेतौ ह्यरालखटकामुखौ ।। ७४ ।।
भुजौ सकूर्पराग्रौ तु कुटिलावर्तितौ करौ ।।
अधोमुखतलाविद्धावाविद्धाविति कीर्तितौ ।। ७५ ।।
सर्पशीर्षौ यदा हस्तौ भवतां स्वस्तिक स्थितौ ।।
तिर्यक्प्रसारितास्यौ च ज्ञेयौ सूचीमुखाविति ।। ७६ ।।
रेचितौ चापि विज्ञेयौ हंसपक्षाद्भुतभ्रमौ ।।
प्रसारितोत्तानतलौ रचितावेव सं ज्ञितौ ।। ७७ ।।
चतुरस्रो भवेद्वामः सव्यहस्तश्च रेचितः ।।
विज्ञेयो नाट्यतत्त्वज्ञैरेवं रेचितसंज्ञितः ।। ७८ ।।
अञ्चितौ कूर्पराभ्यां तु त्रि पताकौ यदा करौ ।।
किंचित्तिर्यग्गतावेतावावहित्थ प्रकीर्तितः ।। ७९ ।।
मणिबन्धननिर्मुक्तौ शिथिलौ पल्लवौ स्मृतौ ।।
बाहु शीविनिष्क्रान्तौ नितम्बौ परिकीर्तितौ ।। 3.26.८० ।।
अंसदेशे प्रवृत्तौ तु परिपार्श्वोत्थितौ तथा ।।
विज्ञेयौ केशबंधाख्यौ करावाचार्यसम्मतौ ।। ८१ ।।
तिर्यक्प्रसारितावेव पार्श्वसंस्थौ तथैव च ।।
लताख्यौ तु करौ ज्ञेयौ नृत्ताभिनयनं प्रति ।। ८२ ।।
समुन्नता लताहस्तः पार्श्वात्पार्श्वविलोडितः ।।
द्वितीयः खटकाख्यश्च करिहस्तः प्रकीर्तितः ।। ८३ ।।
कटिशीर्षनिविष्टाग्रौ त्रिपताकौ यदा करौ ।।
पक्षावञ्चितकौ वामे तदा ज्ञेयौ प्रयोक्तृभिः ।। ८४ ।।
तावेव तु परावृत्तौ पक्षाघातौ कराविति ।।
अधोमुखतलाविद्धौ ज्ञेयौ गरुडपक्षकौ ।। ८५ ।।
तथा प्रसारितभुजौ दण्डपक्षाविति स्मृतौ ।।
तौ चोर्ध्वमण्डलौ ज्ञेयौ गुरुदेशविवर्तनात् ।। ८६ ।।
तावेव पार्श्वविन्यस्तौ विज्ञेयौ पार्श्वमण्डलौ ।।
वेष्टितावेष्टितौ हस्तौ तयोर्मण्डलकौ स्मृतौ ।। ८७ ।।
तावेव मणिबन्धान्तौ स्वस्तिकाकृतिसंज्ञितौ ।।
स्वस्तिकाविति विख्यातौ विख्यातौ च प्रकी र्णकौ ।। ८८ ।।
द्वावेव पद्मकोशाभौ पद्मकोशाविति स्मृतौ ।।
करावुद्धे जिताग्रौ तु विज्ञेयावलिपल्लवौ ।। ८९ ।।
ऊर्ध्वप्रसारितौ विद्धौ विज्ञेयावुल्वणाविति ।।
पल्लवौ तु शिरोदेशे सम्प्राप्तौ ललिताविति ।। 3.26.९० ।।
कूर्परस्वस्तिकन्यस्तौ ललितावलितौ स्मृतौ ।।
संयुता वियुताश्चैव नृत्तहस्ताः प्रकीर्तिताः ।। ९१ ।।
नानार्थरससंयुक्तं प्रयोगकालसंश्रयम् ।।
विज्ञेयं नृत्तहस्तानां तेन नाभिहितं मया ।। ९२।।
आधिग्रस्ते जगन्ते च नियमस्थे जगर्दिते ।।
मत्ते प्रमत्ते चिन्तायां नाभिनेयः करो भवेत् ।। ९३ ।।
उद्वेष्टं समवेष्टं च विचेष्टितविवर्तिते ।।
कर्मेदं नृत्तहस्तानां विज्ञेयं च चतुर्विधम् ।। ९४ ।।
कार्या ललितसंचारा नृत्तहस्तापरा बुधैः।।
लालित्यमेव विज्ञेयं वृत्तस्य प्रतिबोधनम् ।।९५।।
देशं कालं प्रयोगं च ह्यर्थयुक्तिमवेक्ष्य च ।।
हस्ता एते प्रयोक्तव्या स्त्रीणां नॄणां च नर्तके ।। ९६ ।।
हस्ता मयैते कथिता नृवीर सर्वं करायत्तमिदं हि नृत्तम् ।।
यत्नश्च कार्यस्तु करेषु तस्माच्चातुर्यलास्याभिनयोपपन्नम् ।।९७ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे नृत्तहस्तव्यवस्थावर्णनो नाम षड्विंशतितमो ऽध्यायः ।। २६ ।।
3.27
मार्कण्डेय उवाच ।।
वाचिकश्च तथा हार्यस्त्वाङ्गिकस्सात्त्विकस्तथा ।।
चतुष्प्रकारोऽभिनयः कीर्तितो नाट्यकोविदैः ।। ।। १ ।।
वाचिको वचसा प्रोक्तः शृणु हार्यं नराधिप ।।
चतुर्विधं तु विज्ञेयं प्रस्तोलङ्कार एव च ।। २ ।।
तथाङ्गरचना चैव ज्ञेया सज्जीवमेव च ।।
मृदा वा दारुणा वापि वस्त्रेणाप्यथ चर्मणा ।। ३ ।।
लोहैरनुकृतिर्वापि प्रस्त इत्यभिधीयते ।।
देवदानवयक्षाणां गजाश्वमृगपक्षिणाम् ।। ४ ।।
कार्याणि प्रतिशीर्षाणि नाट्यज्ञैः प्रस्तकर्मणा ।।
अलङ्कारस्तु विज्ञेयो माल्याभरणवाससाम् ।। ५ ।।
नानाविधः समायोगे ह्यङ्गोपाङ्गविनिर्गतः ।।
तच्च कार्यो नयो बुद्ध्वा नियोगं जातिमेव च ।। ६ ।।
आधिपत्यं तथा स्थानं देशे च नृपसत्तम ।।
अतोङ्गरचना तुभ्यं वक्ष्यामि नृप वर्णजाम् ।। ७ ।।
श्वेतो रक्तस्तथा पीतः कृष्णो हरितमेव च ।।
मूलवर्णाः समाख्याताः पञ्च पार्थिवसत्तम।। ८ ।।
एकद्वित्रिसमायोगाद्भावकल्पनया तथा ।।
सङ्ख्यैवांतरवर्णानां लोके कर्तुं न शक्यते ।। ९ ।।
अत्यर्थसमयोगित्वाल्लोकेऽहं नृपपुंगव ।।
विभागं सम्प्रवक्ष्यामि वर्णयोः श्यामगौरयोः ।। 3.27.१० ।।
द्विप्रकारा छविर्यस्मात्सर्वस्येह प्रकीर्तिता ।।
गौरी पञ्चविधा तत्र श्यामा द्वादशधा भवेत् ।। ।। ११ ।।
रुक्मगौरी दन्तगौरी स्फुटचन्दनगौर्यपि ।।
शरद्घनचन्द्रकवद्गौरी पञ्चविधा स्मृता ।।१२।।
रक्तश्याम्या भवेत्पूर्वं मुद्गश्यामा निरन्तरम्।।
ततो दूर्वांकुरश्यामा पाण्डुश्यामा च पार्थिव ।।१३ ।।
ततश्च हरितश्यामा पीतश्यामा ततो भवेत् ।।
ततः प्रियङ्गुकश्यामा कपिश्यामा च पार्थिव ।। ।।१४।
ततो नीलोत्पलश्यामा चाषश्यामा ततः परम्।।
ततो रक्तोत्पलश्यामा घनश्यामा तथा परा।।१५।।
द्रव्यानुरूपवर्णैस्तु तासां व्यक्तिरुदाहृता ।।
रङ्गव्यतिकरैः शोभामधिकृत्य महीयते ।।१६।।
वक्ष्यामि वर्णान्देवानां मत्वापतु विनिश्चयम् ।।
तत्र येषां न वक्ष्यामि ते कार्या गौरवर्णकाः ।।१७।।
श्यामस्तु वासुकिः कार्यो नागा गौरास्तु द्वापरे।
दैत्याश्च दानवाश्चैव राक्षसा गुह्यकानुगाः ।।१८ ।।
पिशाचा जलसङ्काशा सम्मितानि तु वर्णतः।।
षट्सु द्वीपेषु पुरुषाः कर्तव्याः कनकप्रभाः ।। ।। १९ ।।
जम्बूद्वीपस्य वर्षेषु मुक्त्वैकं भारतं नृप ।।
भारतेषु तथा कार्या नानादेशभवास्तथा ।। ।। 3.27.२० ।।
पुलिन्दा दाक्षिणात्याश्च प्रायशो वर्णतोऽसिताः ।।
शकाश्च यवनाश्चैव पह्लवा वाह्लिकाश्च ये ।। २१ ।।
प्रायेण गौराः कर्तव्याः उत्तरापथसम्भवाः ।।
पाञ्चालाः शूरसेनाश्च तथा ये चात्र मागधाः ।। २२ ।।
अङ्गा वङ्गाः कलिङ्गाश्च प्रायशो वर्णतोऽसिताः ।।
चन्द्रवर्णा द्विजाः कार्या राजन्याः पद्मसन्निभाः ।। २३ ।।
आपाण्डुरास्तथा वैश्याः श्यामा शूद्राश्च वर्णतः ।।
नानावर्णाः स्मृता भूता गन्धर्वाप्सरसस्तथा ।। २४ ।।।
राजानः पद्मवर्णाभा ये चापि सुखिनो जनाः ।।
कुकर्माणो ग्रहग्रस्ता व्याधितास्तप आश्रिताः ।। २५ ।।
आयस्तकर्मणश्चैव असिताः कुलजालयः ।।
वर्णः प्रत्यक्षदृष्टस्य कर्तव्यः सदृशस्तथा ।। २६ ।।
देवगन्धर्वसिद्धानां कुमाराणां च पार्थिव ।।
श्मश्रु तेषां न कर्तव्यं ये च दीक्षां समाश्रिताः ।। २७ ।।
दिव्या ये पुरुषाश्चैव तथा विद्याधराश्च ये ।।
शृङ्गारिणो नरेन्द्राश्च चित्रश्मश्रुधरास्तथा ।। २८ ।।
शुद्धं तु लिङ्गिनां कार्यं तथामात्यपुरोधसाम् ।।
मध्यस्था ये च पुरुषा ये च दीक्षां समाश्रिताः ।। २९ ।।
अनिर्णीतप्रतिज्ञानां दुःखितानां तपस्विनाम् ।।
मुनीनां चिरबद्धानां दीर्घं श्मश्रु प्रकीर्तितम् ।। 3.27.३० ।।
धर्मप्रवृत्तेर्वंशश्च भवेच्छूद्रो नराधिप ।।
वणिजां कंचुकीयानां ब्राह्मणानां तथैव च ।। ३१ ।।
राज्ञां विचित्रो वेशः स्याद्वेश्यास्त्रीणां च यादव ।।
यथालिङ्गं भवेद्वेशस्तथान्येषां तु लोकतः ।। ३२ ।।
त्रिविधा मुकुटा ज्ञेया देवपार्थिवसंश्रयाः ।।
देवानां पार्थिवानां च कर्तव्यास्तु किरीटकाः ।। ३३ ।।
देवानां सप्तशिखराः पञ्चभिर्भूभृतां तथा ।।
त्रिभिश्च शिखरैः कार्या महिषीयुवराजयोः ।। ३४ ।।
सेनाध्यक्षस्य कर्तव्यस्तथैकशिखरो नृप ।।
दैत्यदानवयक्षाणां पन्नगानां सरक्षसाम् ।। ३५ ।।
एकपट्टास्तु विस्तीर्णा कर्तव्या मुकुटाः शुभाः ।।
विद्याधराणां सिद्धानां वानराणां तथैव च ।।३६।।
ग्रन्थिमन्तस्तु कर्तव्या मुकुटास्तु प्रयोक्तृभिः ।।।
देवदानवगन्धर्वाः कृष्णपक्षाः प्रकीर्तिताः ।। ३७ ।।
दैत्यदानवयक्षाश्च पिशाचनागराक्षसाः ।।
हरिश्मश्रुकचाः कार्यास्तथा पिङ्गेक्षणा नृप ।। ३८ ।।
कञ्चुकीयाश्च कर्तव्यास्तथा शुक्लशिरोरुहाः।।
अमात्यकञ्चुकीयानां तथा श्रेष्ठपुरोधसाम्।।३९।।
वेष्टनापट्टबद्धानि प्रतिशीर्षाणि कारयेत्।।
पिशाचोन्मत्तभूतानां तापसानां तथैव च।।3.27.४०।।
अनिस्तीर्णप्रतिज्ञानां लम्बकेशं भवेच्छिरः।।
बालानामपि कर्त्तव्यं शिखिण्डकविभूषणम् ।।४१।।
जटाजूटयुतं कार्यं मुनीनामपि पार्थिव ।।
चेटानामपि कर्त्तव्यं त्रिशिरः खण्डमेव च।।४२।।
विदूषकस्य खलतिः स्यात्काकपदमेव च।।
शेषाणामुक्तयोगेन शेषजातिसमाश्रयम्।।४३।।
सज्जीव इति यत्प्रोक्तं तस्य वक्ष्यामि लक्षणम्।।
प्रवेशस्तु तिरश्चां वै सज्जीव इति संज्ञितः।।४४।।
तेषां प्रस्तेन कर्तव्या प्रकृतिः पुरुषांतरा।।
तथैवायुधहस्तानां कर्तव्या हेतयः शुभाः ।।४५।।
एवं लोकोपचारेण स्वबुद्ध्या विभवेन च ।।
नाट्योपकरणानीह यथावत्परिकल्पयेत् ।। ४६ ।।
हेतिप्रमोक्षो न तु रङ्गमध्ये कार्यो भवेत्पार्थिववंशमुख्य ।।
आहार्यमेतत्कथितं समासाद्वक्ष्याम्यतश्चाङ्गिकमेव तुभ्यम् ।। ४७ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे आहार्याभिनयो नाम सप्तविंशोऽध्याय. ।। २७ ।।
3.28
मार्कण्डेय उवाच ।।
अतः परं प्रवक्ष्यामि सामान्याभिनयं तव ।।
तस्मिन्कार्यः प्रयत्नस्तु नाट्यान्तरप्रतिष्ठितम् ।। १ ।।
शब्दं स्पर्शश्च रूपं च रसो गन्धस्तथैव च ।।
इन्द्रियाणींद्रियार्थास्तु भावेनाभिनयेद् बुधः ।। २ ।।
कृत्वा साचीकृतां दृष्टिं शिरः किंचिन्नतं भवेत् ।।
तर्जनीकर्णदेशे तु शब्दन्त्वभिनयेद्बुधः ।। ३ ।।
किञ्चिदाकुञ्चिते नेत्रे कृत्वोत्फुल्ला त्वनामिकाम् ।।
एकश्वासो भवेच्चापि गन्धमेवं विनिर्दिशेत् ।।४।।
इन्द्रियार्थास्तु पञ्चैते त्रिविधाः परिकीर्त्तिताः ।।
इष्टास्तथा ह्यनिष्टाश्च मध्यस्था नृपसत्तम ।। ५ ।।
गात्रप्रह्लादनेनेह तथा पुलकितेन च ।।
नितान्तास्रक्रियाभिश्च सर्वमिष्टं निरूपयेत् ।। ६ ।।
परावृत्तेन शिरसा तथा चानेन चक्षुषा ।।
नेत्रनासाञ्चितत्वेन ह्यनिष्टमिति निर्दिशेत् ।। ७ ।।
मध्यस्थेनैव भावेन मध्यस्थकरणं भवेत् ।।।
आत्मानुभावी योऽर्थः स्यादात्मस्थ इति संज्ञितः ।। ८ ।।
परार्थवर्णनं यच्च परस्थेति च कीर्तितम् ।।
उत्तानौ तु करौ कृत्वा स्वस्तिकौ पार्श्वसंस्थितौ ।। ९ ।।
उद्वाहितेन शिरसा तथा चोर्ध्वनिरीक्षणम् ।।
प्रभातं गगनं रात्रिः प्रदोषं दिवसं तथा ।। 3.28.१० ।।
ऋतून्घनान्धरां चैव विस्तीर्णाश्च जलाशयान् ।।
दिशोग्रहान्सुनक्षत्राद्यच्चान्यत्स्वगतं नृप ।। ११ ।।
तस्य त्वभिनयः कार्यो नानादृष्टिसमन्वितः ।।
एभिरेव करैर्भूयः स्तनैश्च शिरसा तथा ।। १२ ।।
अधोनिरीक्षितेनाथ भूमिष्ठान्सम्प्रयोजयेत् ।।
चन्द्रं ज्योत्स्नां मुखं वायुं स्पर्शेनाभिनयेद्बुधः ।। १३ ।।
वस्त्रावगुण्ठनात्सूर्यं रजोधूमानलांस्तथा ।।
भूमितापमथोष्णं च कुर्याच्छ्वासाभिलापतः ।। १४ ।।
ऊर्ध्वकेकरदृष्ट्या तु मध्या ह्वस्थं दिवाकरम् ।।
उदयास्तगतं चैव विस्मयार्थे प्रदर्शयेत् ।। १५ ।।
चन्द्रं विस्मितया दृष्ट्या तथा ताराश्च दर्शयेत् ।।
सुखस्पृश्यानि सर्वाणि रोमांचं न तु दर्शयेत् ।। १६ ।।
दुःखानि च तथोद्वेगं मुखस्य तु विकूणनैः ।।
गम्भीरोदात्त संयुक्तानर्थान्सौष्ठवसंयुतान्।।१७।।
यज्ञोपवीतदेशस्थमवालं हस्तमादिशेत् ।।
हारावहारयागेषु स्रग्दामस्य च दर्शने ।। १८ ।।
भ्रमरेण प्रदेशिन्या दृष्टेः परिगमेन च ।।
अलंपद्माकपीडायाः सर्वार्थग्रहणं भवेत् ।। १९ ।।
श्रव्यं श्रवणयोगेन दृश्यं दृष्टिविलोकनैः ।।
आत्मसंस्थं परस्थं वा मध्यस्थं वा विनिर्दिशेत् ।। 3.28.२० ।।
विद्युदुल्काघनरवो विस्फुलिङ्गविषस्तथा ।।
प्रतोदोऽक्षिनिमेषश्च तेभिनेयाः प्रयोक्तृभिः ।। २१ ।।
मुखावगुण्ठनं कार्यं भ्रमरादिनिवारणे ।।
कृत्वा स्वस्तिकसंस्थानौ पद्मकोशावधोमुखौ ।। २२ ।।
सिंहर्शवानरादीनां कर्तव्यं तु निरूपणम् ।।
स्वस्तिकौ त्रिपताकौ तु गुरूणां पादवन्दने ।। २३ ।।
खटकास्वस्तिकौ चापि प्रतोदग्रहणे भवेत् ।।
एकाद्यानां दशान्तानां संख्या त्वंगुलिभिर्भवेत् ।। २४ ।।
दशाख्या च शताख्या च स्थानसंख्या ततः परम् ।।
पताकाभ्यां तु हस्ताभ्यां वाचा चाभिनयो भवेत् ।। २५ ।।
छत्रध्वजपताकाश्च विज्ञेया दण्डधारणात् ।।
नाना प्रहरणं चैव विज्ञेयमिह वारणैः ।। २६ ।।
एकचित्तो ह्यधोदृष्टिः शिरः किञ्चिन्नतं भवेत् ।।
सव्यहस्तश्च संदंशस्मिते व्याने वितङ्किते ।। २७ ।।
उद्वाहितं शिरः कृत्वा हंसपक्षं प्रदक्षिणम् ।।
अपत्यरूपणे कार्यमुश्वायं च प्रयोक्तृभिः ।। २८ ।।
अरालं च शिरः स्थाने समुद्वाह्या च वामतः ।।
गते निवृत्ते ध्वस्ते च श्रान्तं वाक्यं नियोजयेत् ।। २९ ।।
जितेन्द्रियतया युक्तं प्रसन्नवदनं तथा ।।
विचित्रकुसुमालोकां शरदं तु निरूपयेत् ।। ।।। 3.28.३० ।।
गात्रस्य कम्पनात्तज्ज्ञैस्तथा चान्याभिलाषितः ।।
हेमन्तस्त्वभिधेयः स्यात्पुरुषैर्मध्यमाधमैः ।।३१।।
शिरोदन्तौष्ठकम्पेन गात्रसंकोचकेन ।च ।।
कूजितैश्च ससीत्कारैः शीतस्याभिनयो भवेत् ।। ३२ ।।
प्रसादजननारम्भैरुपभोगैः ससम्भ्रमैः ।।
वसन्तस्त्वभिनेतव्यो नानापुष्पप्रदर्शनात्।। ।।। ३३ ।।
स्वेदापमार्जनाच्चापि भूमिपातोपजीविनः ।।
उष्णस्य वायोः स्पर्शश्च ग्रीष्मस्याभिनयो भवेत् ।। ३४ ।।
गम्भीरनादश्रवणात्प्रावृष्यभि नयो भवेत ।।
वचसाभिनयः कार्यो ऋतूनां सुखदुःखयोः ।। ३५ ।।
स्वभावाभिनये स्थानं पुंभिः कार्यं तु वैष्णवम् ।।
आयुतं चावहित्यं च स्त्रीभिः कार्यं स्वभावतः ।। ३६ ।।
धैर्यशीलाङ्गसम्पन्नं पुरुषाणां विचेष्टितम् ।।
मृतशीलाङ्गहारैस्तु स्त्रीणां कार्यं विचेष्टितम् ।। ३७ ।।
आलिङ्गन तु कर्तव्यं स्मितरोमाञ्चसंयुतम् ।।
रोमाञ्चेन तु हर्षः स्यात्क्रोधमुद्वृत्तचक्षुषा ।। ३८ ।।
ईर्ष्या क्रोधस्तु कर्तव्यो माल्याभरणवर्जितम् ।।
शिरसा कम्पनं चैव मर्मभंगैस्तथैव च ।। ३९ ।।
अधोमुखः सनिःश्वासो दुःखं सन्दर्शयेन्नरः ।।
भूमिहस्ताभिघातेन स्त्रीणां स्याद्रुदितेन तत् ।।। 3.28.४० ।।
आनन्देतिसमुद्भूतं रुदितं द्विविधं स्मृतम् ।।
हृष्टेन चाप्यहृष्टेन तं मुखेन निरूपयेत् ।। ४१ ।।
सम्भ्रमावेगचेष्टाभिः पुरुषाणां भयं भवेत् ।।
त्रातुरन्वेषणादेव उच्चैराक्रन्दितेन च ।। ४२ ।।
नरालिङ्गनतश्चैवं भयं कार्यं भवेत्स्त्रियः ।।
त्रिपताकांगुलीभ्यां तु चलिताभ्यां प्रयोजयेत् ।। ४३ ।।
शुकश्च शारिका चैव सूक्ष्मा ये चैव पक्षिणः ।।
शिखिसारसहंसाद्याः स्थला ये च स्वभावतः ।। ४४ ।।
पक्षाङ्गहारैर्द्विविधैस्तैषामभिनयो भवेत्।।
भूताः पिशाचा यक्षाश्च दानवा राक्षसास्तथा ।। ४५ ।।
अङ्गहारैर्विनिर्देश्याः प्रत्यक्षा न भवन्ति ये ।।
प्रत्यक्षा अभिनेयाः स्युस्तथोद्वेगैः सविस्मयैः ।। ४६ ।।
देवान्प्रणामकरणैः प्रत्यक्षे तु नराधिप ।।
परोक्षे विविधैश्चिह्नैस्तथानुकरणैः शुभैः ।। ४७ ।।
सव्योत्थितेन हस्तेन त्वरालेन शिरः स्पृशेत् ।।
नरेभिवादनं ह्येतत्कपोलेन तथा स्त्रियाः ।। ४८ ।।
महाजनं सखिवरं विटधूर्तजनं तथा ।।
परिमण्डलसंज्ञेन हस्तेनाभिनयेद्बुधः ।। ४९ ।।
प्रवृत्तान्प्रांशुयोगेन वृक्षांश्चैव समुत्थितान् ।।
प्रसारिताभ्यां बाहुभ्यामुत्क्षिप्ताभ्यां प्रदर्शयेत् ।। 3.28.५०।।
( समूहं सुमहत्सेनां बहुविस्तीर्णमेव च ।।
पताकाभ्यां तु हस्ताभ्यां चोत्क्षिप्ताभ्यां प्रदर्शयेत् ।।)
शौर्यं च धैर्यदर्पं च गर्वमौदार्यमुच्छ्रयम् ।।
ललाटस्थानसंस्थेन त्वरालेन प्रदर्शयेत् ।। ५१ ।।
प्रज्ञो देहामदाविद्धौ करौ तु मृगशीर्षकौ ।।
विस्तीर्णप्रद्रुतोत्क्षेपौ योज्यौ यत्स्यादुपावृतम्।। ।। ५२ ।।
अधोमुखोत्तानतलं हस्तं किंचित्प्रसारितम् ।।
कृत्वा चाभिनयो द्वे च बिलग्राहं गृहं गृहम् ।। ५३ ।।
कामार्ताञ्ज्वरितांश्चैव शापोपहतचेतसः ।।
तेषामभिनयः कार्य उच्छ्वासैः कम्पनैस्तथा ।।५४।।
प्रत्यक्षाभिनयः कार्यो दोलायाः परिदोलने ।।
आकाशरचनानीह वक्ष्याम्यात्मगतानि च ।। ५५ ।।
अपवारितकं चैव जनान्तिकमथापि च ।।
परसम्भाषणं यत्स्यात्तदाकाशवचः स्मृतम् ।। ५६।।
अन्यैरश्रवणीयं तु जनान्ति कमिहोच्यते।।
अपवारितकं कर्णे पुनरुक्तं प्रचक्षते।।५७।।
हस्तमन्तरितं कृत्वा त्रिपताकं प्रयोक्तृभिः।
जनांतिकं प्रयोक्तव्यमपवारितकं तथा।।।५२।।
स्वप्नायते चाभिनये वाचा गद्गदया भवेत् ।।
वृद्धानां योजयेत्षाठ्यं गद्गदस्खलिताक्षरम् ।।५९।।
असमाप्ताक्षरं चैव बालानां तु कलस्वनम्।।
दीर्घोच्छ्वासयुतं ग्लानं व्याधितानां तु योजयेत् ।। 3.28.६० ।।
उच्छ्वासेन तु दीर्घेण मृत्युकालं तु नाटयेत्।।
गात्रनिस्पंदभावेन मृतस्याभिनयो भवेत ।।
सात्त्विकाभिनयं वक्ष्ये रसभावेषु पार्थिव ।।६१।।
एतावदेवाभिनये तु तुभ्यं शक्यं मया पार्थिवमुख्य वक्तुम् ।।
नाट्यं हि विश्वस्य यतोऽनुकारं कृत्स्नं ततो वक्तुमशक्यमीश ।। ६२।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे सामान्याभिनयो नामाष्टाविंशतितमोऽध्यायः ।।२८।।
3.29
मार्कण्डेय उवाच ।।
अतः परं प्रवक्ष्यामि गीतानां लक्षणं तव ।।
स्वभावेनोत्तुङ्गगतौ कार्यं जानुकटीसमम् ।। १ ।।
युद्धचारी प्रचारेषु जानुस्तनसमं न्यसेत् ।।
ज्वरान्ते च क्षुधान्ते च तपःश्रान्ते रुजान्विते ।। २ ।।
विकृते चावहित्थे च तथौत्सुक्यसमन्विते ।।
शृङ्गारे चैव शोके च स्वच्छन्द गमने तथा ।। ३ ।।
एतेष्वेव तु सर्वत्र स्थिरा कार्या गतिर्बुधैः ।।
अस्वस्थे कम्पिते नैव भये वित्रासिते तथा ।। ४ ।।
आवेगे चैव हर्षे च कार्यं यच्च त्वरान्वितम् ।।
अनिष्टश्रवणे चैव क्षेपे चाद्भुतदर्शने ।। ५।।
अपि चात्ययिके कार्ये तथा चैवारिमार्गणे ।।
अपराधानुसारेण श्वापदानुगतौ तथा ।। ६ ।।
एवंविधेषु कार्येषु गतिं शीघ्रां प्रयोजयेत् ।।
गतिः शृङ्गारिणी कार्या स्वस्थकामितसम्भवे ।। ७ ।।
दूतीदर्शितमार्गस्तु हृद्यवेशपरिक्रमे ।।
ससौष्ठवसमायुक्तैर्लयतालवशोनुगैः ।। ८ ।।
पादयोरनुगौ चापि हस्तौ कार्यौ प्रयोक्तृभिः ।।
प्रच्छन्नकामिते गच्छन्न चात्यर्थं विभूषितः ।। ९ ।।
कृष्णवासाः पदैर्मंदैः शब्दाशङ्की मुहुर्मुहुः ।।
वेपमानशरीरश्च शङ्कितः प्रस्खलन्मुहुः ।। 3.29.१० ।।
अङ्गस्वभावनेपथ्यो रौद्रस्तु त्रिविधो मतः ।।
रुधिरक्लिन्नदेहस्तु पद्मांत्राङ्गधरस्तथा ।। ११ ।।
बह्वायुधधरो रौद्रनेपथ्येन प्रकीर्तितः ।।
रूक्षो निर्भर्त्सनकथो निर्घृणस्तु स्वभावतः ।। १२ ।।
विविधस्यापि रौद्रस्य चतुस्तालान्तरागतिः ।।
अहृद्या तु मही यत्र श्मशानरणसङ्कुला ।।१३।।
आसन्ना च विकृष्टा च तत्र बीभत्सिका गतिः ।।
गतिर्वीरे च कर्त्तव्या पादविक्षिप्तसंयुता ।। १४ ।।
विस्मये चैव हर्षे च विक्षिप्तपदविक्रमा ।।
गतिः स्थिरपदा प्रोक्ता तथैव करुणारसे ।। १५ ।।
न तत्र सौष्ठवं कार्यं न प्रमाणं तथाविधम् ।।
विघूर्णितशरीरा च स्तब्धा च शिथिला गतिः ।। १६ ।।
गाढप्रहारिते कार्या गतिः पिण्डितविग्रहा ।।
द्रुता भयानके कार्या स्तब्धा कार्यवशादथ ।। १७ ।।
सत्त्वे तु विकृते दृष्टे गतिर्विस्फुरितेक्षणा ।।
तापसानां भवेन्मन्दा युगमात्रेक्षणा गतिः ।।। १८ ।।
हस्तसंस्पर्शनान्मन्दाप्यन्धकारे गतिर्भवेत् ।।
रथस्थस्यापि कर्त्तव्या गतिर्मन्दपदैरथ ।।१९।।
समपादं बुधस्थानं कृत्वा रथगतिं व्रजेत्।।
धनुर्गृहीत्वा हस्तेन तथा चैकेन कूबरम् ।। 3.29.२० ।।
सूतश्चास्य भवेदेव प्रतोदग्रहणाकृतिः ।।
विमानस्थस्य कर्तव्या गतिरानंदिनी भवेत् ।। २१ ।।
आरोहाश्चावरोहाश्च ऊर्ध्वाधोवीक्षणैर्गतैः ।।
मण्डलावर्तनैः कार्यमाकाशगमनं तथा ।। २२ ।।
ऋज्वागतोन्नतैः पादैर्भ्रश्यमानस्तु खाद्भवेत् ।।
उच्छ्रितारोहणं कार्यमपक्रान्तपदैरथ ।। २३ ।।
तथावतरणं कार्यं शंकितैरिव संहितैः ।।
उत्क्षिप्तपदसञ्चारा सलिले च गतिर्भवेत् ।। २४ ।।
उत्क्षिप्तहस्तसञ्चारा पादपारोहणे भवेत् ।।
सूचीविद्धैरपक्रान्तैः पदैः पार्श्वगतैरथ ।। २५ ।।
अङ्कुशग्रहणान्नागं खलीनग्रहणाद्भयम् ।।
प्रग्रह ग्रहणादेव अन्येषां कारयेद्गतिम् ।। २६ ।।
अश्वयाने गतिः कार्या वैशाखस्थानकेन ह ।।
पन्नगानां गतिः कार्या पदैः स्वस्तिकसंयुतैः ।। ।।। २७ ।।
विटस्यापि तु कर्तव्या गतिर्ललितविक्रमा ।।
कंचुकीयस्य कर्तव्या कम्पिता स्खलिता गतिः ।।२८।।
विष्टम्भनगतिप्राणा कृशस्यापि गतिर्भवेत् ।।
व्याधिग्रस्तस्य च तथा तपःश्रान्तस्य चैव हि ।। २९ ।।
दीर्घाध्वनि गतस्यापि शनैर्मन्दपरिक्रमा ।।
मत्तस्य तु गतिः कार्या स्खलिता पार्श्वयोर्द्वयोः ।। 3.29.३० ।।
उन्मत्तस्यापि कर्तव्या गतिस्त्वभिनयक्रमा ।।
असम्बद्धप्रलापी स्यान्मलिनो लोमशस्तथा ।। ३१ ।।
विकलानां गतिः कार्या यथा कार्यानुरूपतः ।।
स्थूलदेहस्य कर्तव्या गतिर्देहानुकर्षिणी ।। ३२ ।।
विदूषकस्य कर्तव्या गतिर्हास्यप्रदा तथा ।।
स्वभावजातं विन्यस्य कुटिलं वामके करे ।। ३३।।
गतौ रमेत चेटानां दृष्टिश्चार्यविचारिणी ।।
नानादेशसमुद्भूता पुरुषाणां स्वभावतः ।। ३४ ।।
श्वापदानां पशूनां च गतिः कार्या नराधिप ।।
शेषाणामर्थयोगेन स्थानकानि प्रयोजयेत् ।। ३५ ।।
धैर्योपपन्ना गतिरुत्तमानां मध्या गतिर्मध्यमसंमितानाम् ।।
द्रुता गतिश्च प्रचुराधमानां लयत्रयं सत्त्ववशेन योज्यम् ।। ३६ ।।
रंगे विकृत्ता तु नृपप्रधान गतागतैः पादगतिप्रचारः ।।
कार्या वशादेव गृहस्य नित्यं समीक्ष्य रङ्गं तु यथानुरूपम् ।। ३७ ।।
स्त्रीणां गतिः स्याल्ललितप्रचारा धीरा नराणां च तथोद्धता स्यात् ।।
गति प्रचारोऽर्थवशेन योज्यश्चैतावदुक्तं तव राजसिंह।।३८।।
वयोनुरूपः प्रथमस्तु वेशो वेशानुरूपश्च गतिप्रचारः ।।
गतिप्रचारानुगतं च नाट्यं नाट्यानु रूपोऽभिनयश्च कार्यः ।। ३९ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे गतिप्रचारवर्णनो नामैकोनत्रिंशत्तमोऽध्यायः ।। २९ ।।
3.30
मार्कण्डेय उवाच ।।
हास्यशृंगारकरुणारौद्रघोरभयानकाः ।।
बीभत्साद्भुतशान्ताख्या नव नाट्ये रसाः स्मृताः ।। १ ।।
शान्तो रसः स्वतन्त्रोत्र पृथगेव व्यवस्थितः ।।
शृङ्गाराद्धि भवेद्धास्यो रौद्राच्च करुणोदयः ।।२।।
वीराच्चैवाद्भुतोत्पत्तिर्बीभत्साच्च भयानकः ।।
एतेषामङ्गवर्णाश्च सात्त्विकोभि नयः स्मृतः ।। ३ ।।
शान्तस्वभाववर्णस्तु रसः प्रोक्तो नराधिप ।।
शृङ्गारस्तु भवेच्छ्यामो रक्तो रौद्रः प्रकीर्तितः ।। ४ ।।
सितो हास्यश्च विज्ञेयः कृष्णश्चैव भयानकः ।।
गौरो वीरस्तु विज्ञेयः पीतश्चैवाद्भुतः स्मृतः ।। ५ ।।
कापोतः करुणश्चैव नीलो बीभत्समेव च ।।
हास्यः प्रमथदेवस्तु शृङ्गारो विष्णुदैवतः ।। ६ ।।
रौद्रो रौद्राधिदेवश्च करुणो यमदैवतः ।।
बीभत्सस्य महाकालः कालदेवो भयानकः ।। ७ ।।
वीरो महेन्द्रदेवः स्यादद्भुतो ब्रह्मदैवतः।। शा
न्तस्य देवो विज्ञेयः परः पुरुष एव तु।।८।।
शान्तस्य तु समुत्पत्तिर्नृप वैराग्यतः स्मृता।।
स चाभिनेयो भवति लिङ्गग्रहणतस्तथा।।९।।
सर्वभूतदयाध्यानमोक्षमार्गप्रर्तनैः।।
नास्ति यत्र सुखं दुःखं न द्वेषो नापि मत्सरः।।3.30.१०।।
समः सर्वेषु भूतेषु स शान्तः प्रथितो रसः।।
हास्यस्य तु समुत्पत्तिरसम्बद्धप्रलापतः ।। ११ ।।
असम्बद्धात्तथा वेशाद्भवतीति विनिश्चयः ।।
आत्मस्थश्च परस्थश्च द्विविधः स च कीर्तितः ।। १२ ।।
आत्मस्थश्च स्वयं हासात्परस्थः परहासनात् ।।
उत्तमाधममुख्यानां त्रिविधः स भवेत्तदा ।। १३ ।।
ईषद्विकम्पितैर्गण्डैः कटाक्षैस्सौष्ठवान्वितैः ।।
अलक्षितद्विजं चैव उत्तमानां स्मितं भवेत् ।। १४ ।।
तथा दर्शितदन्तन्तु मध्यमानां प्रकीर्तितम् ।।
सास्रं तदधमानां स्यात्सस्वनं च महीभुजाम् ।। १५ ।।
शृङ्गारो द्विविधः प्रोक्तः सम्भोगाद्विरहात्तथा ।।
विप्रलम्भकृतस्यात्र निर्वेदोऽभिनयक्रियः ।। १६ ।।
विप्रलम्भे तु निर्दिष्टाः कामावस्थास्तथा दश ।।
चक्षुःप्रीतिर्विनिर्दिष्टा प्रथमायां नराधिप ।। १७ ।।
मनसश्च तथा सङ्गो द्वितीयायां प्रकीर्तितः ।।
स्मरणं च तथा प्रोक्तं तृतीयायां निरन्तरम् ।। १८ ।।
निद्राभेदश्चतुर्थ्यां तु पंचम्यां तनुता तथा ।।
व्यावृत्तिविषयेभ्यस्तु षष्ठ्यां प्रोक्ता नराधिप ।। १९ ।।
लज्जाप्रणाशः सप्तम्यामुन्मादस्तदनन्तरम् ।।
नवम्यां तु तथा मूर्च्छा दशम्यां मरणं भवेत् ।।3.30.२०।।
द्वयोरुज्ज्वलयोस्तत्र सम्भोगाभिनयो भवेत ।।
सुखप्रायेष्टसंपन्नो यत्र माल्यानुलेपकः ।। २१।।
पुरुषप्रमदायुग्मं शृंगार इति संज्ञितः ।।
शोकाद्भवति राजेन्द्र तथैव करुणो रसः ।। २२ ।।
त्रस्तगात्राद्विनिःश्वासपरिदेवितरोदनैः ।।
मुखवैवर्ण्य शोषैश्च तस्येहाभिनयो भवेत् ।। २३ ।।
क्रोधाद्भवति रौद्रस्य रसस्य तु समुद्भवः ।।
रक्तत्वनेत्रभ्रुकुटिक्रोधामर्षैः ससाहसैः ।। २४ ।।
पीडनैः शस्त्रसङ्घातैस्तस्येहाभिनयो भवेत ।।
जुगुप्सया भवति बीभत्सस्य समुद्भवः ।। २५ ।।
नासाविघूर्णनात्तस्य चोद्वेगेन तथैव च ।।
आश्चर्येण समुत्पत्तिरद्भुतं तत्प्रकीर्तितम् ।। २६ ।।
प्रस्फुरिताक्षिरोमाञ्चैरङ्गुलीभ्रमणादिभिः ।।
स्वेदेन चाभिनेयः स्यादद्भुतस्तु तथा रसः ।। २७ ।।
नाट्यस्य मूलं तु रसः प्रदिष्टो रसेन हीनं न हि वृत्तमस्ति ।।
तस्मात्प्रयत्नेन रसाश्रयस्य वृत्तस्य यत्नं पुरुषेण कार्यम् ।। २८ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे रसवणर्नो नाम त्रिंशत्तमोऽध्यायः ।। ३० ।।