विष्णुधर्मोत्तरपुराणम्/खण्डः ३/अध्यायाः ०७१-०७५

← अध्यायाः ६६-७० विष्णुधर्मोत्तरपुराणम्
अध्यायाः ७१-७५
वेदव्यासः
अध्यायाः ७६-८० →

3.71
वज्र उवाच ।।
ग्रहाणां देवता प्रोक्ता यास्त्वया पूर्वमेव तु ।।
तासां स्वरूपनिर्माणं कथयस्वामितद्युते ।। १ ।।
मार्कण्डेय उवाच ।।
पूर्वमेव मया प्रोक्तं रूपं वह्न्यम्बुनाथयोः ।।
तथा च कथितं तुभ्यं विष्णुदेवेन्द्रयोः पुरा।।२।।
चतुर्मूर्तेः कुमारस्य रूपं ते वच्मि यादव ।।
कुमारश्च तथा स्कन्दो विशाखश्च गुरुस्तथा ।। ३ ।।
कुमारः षण्मुखः कार्यः शिखण्डकविभूषणः ।।
रक्ताम्बरधरः कार्यो मयूरवरवाहनः ।। ४ ।।
कुक्कुटश्च तथा घण्टा तस्य दक्षिणहस्तयोः ।।
पताकावैजयन्ती च शक्तिः कार्या च वामयोः ।। ५ ।।
स्कन्दो विशाखश्च गुहः कर्तव्यश्च कुमारवत् ।।
षण्मुखास्ते न कर्तव्या न मयूरगतास्तथा ।। ६ ।।
चतुरात्मा हि भगवान्वासुदेवः सनातनः ।।
प्रादुर्भूतः कुमारस्तु देवसेनानिनीषया ।। ७ ।।
अष्टादशभुजा कार्या भद्रकाली मनोहरा ।।
आलीढस्थानसंस्थाना चतुःसिंहे रथे स्थिता ।। ८ ।।
अक्षमाला त्रिशूलं च खङ्गं चर्म च यादव ।।
बाणचापे च कर्तव्ये शङ्खपद्मौ तथैव च ।। ९ ।।
सुक्स्रुचौ च तथा कार्यौ तथा वेदीकमण्डलू ।।
दण्डशक्ती च कर्तव्ये कृष्णाजिनहुताशनौ ।। 3.71.१० ।।
हस्तानां भद्रकाल्यास्तु भवेच्छान्तिकरः करः ।।
एकश्चैव महाभाग रत्नपात्रधरो भवेत् ।। ११ ।।
हंसयानेन कर्तव्यो न च कार्यश्चतुर्मुखः ।।
ब्रह्मोक्तमपरं रूपं सर्वं कार्यं प्रजापतेः ।। १२ ।।
विनायकस्तु कर्तव्यो गजवक्त्रश्चतुर्भुजः ।।
शूलकं चाक्षमालां च तस्य दक्षिणहस्तयोः ।। १३ ।।
पात्रं मोदकपूर्णं तु परशुश्चैव वामतः ।।
दन्तश्चास्य न कर्तव्यो वामो रिपुनिषूदन ।। १४ ।।
पादपीठकृतः पाद एक आसनगो भवेत् ।।
पूर्णमोदकपात्रं तु कराग्रे तस्य कारयेत ।। १५ ।।
लम्बोदरस्तथा कार्यः स्तब्धकर्णश्च यादव ।।
व्याघ्रचर्माम्बरधरः सर्पयज्ञोपवीतिवान् ।। १६ ।।

विश्वकर्मा

विश्वकर्मा नु कर्तव्यः सूर्यरूपधरः प्रभुः ।।
स दशपाणिर्द्विभुजस्तेजोमूर्तिधरो भवेत् ।। १७ ।।
विश्वं करोति वै यस्माद्विश्वकर्मा ततः स्मृतः ।।
विश्वकृद्भगवान्विष्णुर्विश्वकर्मा स उच्यते ।। १८ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे कुमारभद्रकालीचतुर्वक्त्रगजवक्त्रविश्वकर्मरूपनिरूपणो नामैकसप्ततितमोऽध्यायः ।। ७१ ।।
3.72
।। वज्र उवाच ।। ।।
वसूनां देव मे रूपं तथैवाङ्गिरसं शुभम् ।।
विश्वेषां चैव देवानां रुद्राणामपि देवताः।।१।।
भृगूणामथ साध्यानां चादित्यानां तथैव च ।।
मरुतां च तथा रूपमाचक्ष्व सुरपूजित।। २।।
मार्कडेय उवाच ।।
प्राजापत्येन रूपेण धरो नाम वसुर्भवेत् ।।
वैष्णवेन च रूपेण ध्रुवो नाम प्रकीर्तितः।।३।।
सोमश्चान्द्रेण रूपेण वायव्येन तथाऽनिलः ।।
आग्नेयेनानलः कार्यः प्रभासो वारुणेन च।।४।।
विश्वेदेवास्तथा कार्याः शक्ररूपधराः सुराः।।
तिर्यग्ललाटेनाक्ष्णा च नागराजो विवर्जितः ।। ५ ।।
जीवरूपेण कर्तव्या देवाश्चाङ्गिरसस्तथा ।।
माहेश्वरेण रुद्राश्च साध्याक्षा वैष्णवेन तु ।। ६ ।।
आदित्याः सूर्यरूपेण चेति द्वादश यादव ।।
पृथक्क्रियायां तेषां तु नवार्कसदृशाः स्मृताः ।।७।।
विण्विन्द्रवरुणाः कार्याः यथा पूर्वं मयेरिताः ।।
कर्तव्याः शुक्ररूपेण मरुतो नाम देवताः ।। ८ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे वसुरूपनिर्माणो नाम द्विसप्ततितमो ऽध्यायः ।। ७२ ।।
3.73
।। वज्र उवाच ।।
अन्येषामपि देवानां रूपनिर्मोणमेव च ।।
कथयस्व महाभाग त्वं हि सर्वविदुच्यसे ।। १ ।।
मार्कण्डेय उवाच ।।
प्राजापत्येन रूपेण कर्तव्यः कश्यपः प्रभुः ।।
अदितिर्दितिर्दनुः काष्ठा दनायुः सिंहिका मुनिः।।२।।
कद्रूः क्रोधा दरा प्राधा विनता सुरभिः खशा ।।
सर्वाः सुरूपाः कर्तव्या द्विभुजाः पूर्वमातरः ।। ३ ।।
अदितिश्च दितिश्चैव विनता सुरभिस्तथा ।।
दृष्टिरासां तु कर्तव्या सौम्या यादवनन्दन ।। ४ ।।
अनेनैव तु रूपेण सर्वा वै देवमातरः ।।
कर्तव्या यादवश्रेष्ठ रूपनिर्माणकर्मणा ।। ५ ।।
कश्यपस्यापराः पत्न्यः कार्या व्याकुललोचनाः ।।
विष्णुरूपधरः कार्यो ध्रुवो ग्रहगणेश्वरः ।। ६ ।।
चक्ररश्मिकरः श्रीमान्द्विभुजः सौम्यदर्शनः ।।
भविष्यमनुरूपेण कार्योऽगस्त्यो महामुनिः ।। ७ ।।
रूपं तदेवं कथितं भृग्वादीनां महात्मनाम् ।।
शुक्रपुत्रौ जयन्तश्च कर्तव्यो रूपसंयुतः ।। ८ ।।
चापबाणकरः श्रीमान्द्विभुजः सौम्यदर्शनः ।।
बलो यमसुतः कार्यश्चर्मशूलधरः प्रभुः ।। ९ ।।
पुष्करश्च तथा कार्यः पद्मपत्रसमप्रभः ।।
खड्गं च पुस्तकं चोभौ करयोस्तस्य कारयेत ।। 3.73.१० ।।
चन्द्रपुत्री तथा ज्योत्स्ना रूपेणाप्रतिमा भुवि ।।
वामपार्श्वे तु कर्तव्या सर्वाभरणभूषणा ।। ११ ।।
सुरूपरूपः कर्तव्यो रत्नपात्रकरो विभुः ।।
द्विदंष्ट्रायुक्तवदनो धनादिर्नलकूबरः ।।१२।।
धनदस्य तु रूपेण मणिभद्रं विदुर्बुधाः ।।
न कार्या शिबिका तस्य सभार्यो नरवाहनः ।। १३ ।।
वायुपुत्रस्तु कर्तव्यो वायुरूपः पुरोजवः ।।
अतीव रूपवान्कार्यो वर्चाः सोमसुतः प्रभुः ।। १४ ।।
लीलाकमलपाणिस्तु वर्चस्वी येन जायते ।।
नन्दी कार्यस्त्रिनेत्रस्तु चतुर्बाहुर्महाभुजः ।। १५ ।।
सिन्दूरारुणसङ्काशो व्याघ्रचर्माम्बरच्छदः ।।
त्रिशूलभिन्दिपालौ च करयोस्तस्य कारयेत् ।। १६ ।।
शिरोगतं तृतीयन्तु तर्जयन्तं तथा परम ।।
आलोकमानं कर्तव्यं दूरादागामिकं जनम् ।। १७ ।।
अनेनैव च रूपेण वीरभद्रं विदुर्बुधाः ।।
उपरिष्टात्प्रवक्ष्यामि धर्मरूपमहं तव ।। १८ ।।
अर्थः कार्यस्तु रूपेण धनदस्य महात्मनः ।।
कामदेवस्तु कर्तव्यो रूपेणाप्रतिमो भुवि ।। १९ ।।
अष्टबाहुः स कर्तव्यः शङ्खपद्मविभूषणः ।।
चापबाणकरश्चैव मदादञ्चितलोचनः ।। 3.73.२० ।।
रतिः प्रीतिस्तथा शक्तिर्मदशक्तिस्तथोज्ज्वला ।।
चतस्रस्तस्य कर्तव्याः पत्न्यो रूपमनोहराः ।। २१ ।।
चत्वारश्च करास्तस्य कार्या भार्यास्तनोपगाः ।।
केतुश्च मकरः कार्यः पञ्चबाण मुखो महान् ।। २२ ।।
करेण कटिगेनाथ निद्रां वामेन कारयेत् ।।
दक्षिणे तु तथा पार्श्वे तस्याः सङ्कर्षणो भवेत् ।। २३ ।।
वासुदेवस्तथा वामे मैकानेशा तथा सुतः ।।
रूपं लक्ष्म्याः प्रवक्ष्यामि उपरिष्टात्तवानघ ।। २९४ ।।
चतुर्भुजा च कर्तव्या तथा देवी सरस्वती। ।।
अक्षमाला त्रिशूलं च पुस्तकं च कमण्डलुम् ।। २५ ।।
तस्या करेषु कार्याणि यथावद्यदुनन्दन ।।
कार्या सकलशा देवी वारुणी चातिसुन्दरी ।। २६ ।।
लम्बोदरी तु कर्तव्या रक्ताम्बरपयोधरा ।।
शूलहस्ता महाभागा भुजप्रहरणा तथा ।। २७ ।।
बृहद्रथा च कर्तव्या बहुबाहुस्तथैव सा ।।
चामुण्डा कथिता सैव सर्वसत्त्ववशङ्करी ।। २८ ।।
तथैवान्त्रमुखी शुष्का शुष्का कार्या विशेषतः ।।
बहुबाहुयुता देवी भुजगैः परिवेष्टिता ।। २९ ।।
कपालमालिनी भीमा तथा खट्वाङ्गधारिणी ।।
शिवा दूती तु कर्तव्या शृगालवदना शुभा ।। 3.73.३० ।।
आलीढस्थानसंस्थाना तथा राजंश्चतुर्भुजा।।
असृक्पात्रधरा देवी खड्गशूलधरा तथा ।। ३१ ।।
चतुर्थं तु करं तस्यास्तथा कार्यं तु सामिषम् ।।
देवतुल्येन चिह्नेन यथारूपेण मातरः ।। ३२ ।।
कर्तव्या देवनामाङ्का या मया ते पुरोदिताः ।।
असृक्पात्रकराः कार्याः सामिषैश्च तथा करैः ।। ३३ ।।
नृत्यमाना महाभागा यासां रूपं तु नोदितम्।।
पूर्वा गजगता बाला रक्तवर्णा तु दिग्भवेत् ।। ३४ ।।
करेणुगा बृहत्कन्या पद्माभा पूर्वदक्षिणा ।।
रथस्था दक्षिणा पीता तथा स्यात्प्राप्तयौवना ।। ३५ ।।
उष्ट्रगा कृष्णपीता च वरुणा याम्यपश्चिमा ।।
यौवनाद्विच्युता कृष्णा पश्चिमा तुरगस्थिता ।। ३६ ।।
आसन्नपलिता नीला वडवा यदुनन्दन ।।
श्वेता नरभृता वृद्धा तथा भवति चोत्तरा ।। ३७ ।।
अतिवृद्धा वृषस्था च शुक्ला पूर्वोत्तरा भवेत् ।।
अधस्तात्पृथिवी तुल्या चोर्ध्वा गगनसंस्थिता ।। ३८ ।।
कालः करालवदनो नित्यगश्च विभीषणः ।।।
पाशहस्तश्च कर्तव्यः सर्पवृश्चिकरोमवान् ।। ३९ ।।
ज्वरस्त्रिपादः कर्तव्यस्त्रिनेत्रैर्वदनैस्त्रिभिः ।।
भस्मप्रहरणो रौद्रस्त्रिबाहुर्व्याकुलेक्षणः ।। 3.73.४० ।।
धन्वन्तरिश्च कर्तव्यः सुरूपः प्रियदर्शनः ।।
करद्वयगतं चास्य सामृतं कलशं भवेत् ।। ४१ ।।
सामवेदस्तु कर्तव्यः किं तु श्ववदनः प्रभुः ।।
अथ वा देवरूपेण वेदाः कार्या विचक्षणैः ।। ४२ ।।
ऋग्वेदस्तु स्मृतो ब्रह्मा यजुर्वेदस्तु वासवः ।।
सामवेदस्तथा विष्णुः शम्भुश्चाथर्वणो भवेत् ।। ४३ ।।
शिक्षा प्रजापतिर्ज्ञेया कल्पो ब्रह्मा प्रकीर्तितः ।।
सरस्वती व्याकरणं निरुक्तं वरुणः प्रभुः ।। ४४ ।।
छन्दो क्षितिस्तथैवाग्निर्ज्योतिषं भगवान्रविः ।।
मीमांसा भगवान्सोमो न्यायमार्गः समीरणः ।। ४५ ।।
धर्मश्च धर्मशास्त्राणि पुराणं च तथा मनुः ।।
इतिहासं प्रजाध्यक्षो धनुर्वेदं शतक्रतुः ।। ४६ ।।
आयुर्वेदस्तथा साक्षाद्देवो धन्वन्तरिः प्रभुः ।।
फलवेदं मही देवी नृत्यशास्त्रं महेश्वरः ।। ४७ ।।
सङ्कर्षणः पाञ्चरात्रं रुद्रः पाशुपतं तथा ।।
पातञ्जलमनन्तश्च सांख्यश्च कपिलो मुनिः ।। ४८।।
अर्थशास्त्राणि सर्वाणि धनाध्यक्षः प्रकीर्तितः ।।
कलाशास्त्राणि सर्वाणि कामदेवो जगद्गुरुः ।। ४९ ।।
अन्यानि यानि शास्त्राणि यत्कर्तॄणि प्रचक्षते।।
स चैव देवता तस्य शास्त्र काव्यस्य देहवत्।।3.73.५०।।
रूपं तु कालावयवस्य कार्यं स्वदेवतारूपपसमं रिपुघ्न ।।
एतं तवोक्तं सुरसत्तमानां रूपं मया ते यदुवंशचन्द्र ।। ५१।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे देवतारूपनिर्माणो नाम त्रिसप्ततितमोऽध्यायः ।। ७३ ।।
3.74
वज्र उवाच ।।
लिङ्गस्य रूपनिर्माणं कथयस्व ममानघ ।। १ ।।
मार्कण्डेय उवाच ।।
लिङ्गे हि पूजितं पूजा कृता तु जगतो भवेत् ।।
भोगोस्य वृत्तः कर्तव्यो भागमष्टास्रमेव तु ।। २ ।।
चतुरस्रं तथा भागं कर्तव्यं भूरिदक्षिणम ।।
वृत्तं दृश्यं त कर्तव्यं अष्टास्रं पिण्डिकागतम् ।। ३ ।।
चतुरस्रं तु कर्तव्यं ब्रह्मपीठगतं तथा ।।
अधस्ताद्भद्रपीठस्य ब्रह्मपीठं विदुर्बुधाः ।। ४ ।।
लिङ्गोपरिष्टात्तु गता पुरस्ताल्लेखा सुवृत्ता तु तथैव कार्या ।।
ऊर्ध्वायता बुद्धिगुणा तथास्या या ब्रह्मसूत्रे विबुधैः प्रदिष्टा।।५।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे लिङ्गरूपनिर्माणो नाम चतुःसप्ततितमो ऽध्याय ।।७४।।
3.75
वज्र उवाच ।।
व्योमरूपं समाचक्ष्व सर्वधर्मभृतां वर।।
व्योम्नि तु पूजिते पूजा कृता स्याज्जगतो भवेत्।। १ ।।
मार्कण्डेय उवाच ।।
चतुरस्रं भवेन्मूले ततो वृत्तं महाभुज ।।
ततोल्पचतुरस्रं च चतुरस्रं ततो भवेत् ।। २ ।।
ततोल्पचतुरस्रं च मेरुवत्संस्थितं ततः ।।
भद्रपीठमिदं प्रोक्तं व्योमभागं तृतीयकम् ।। ३ ।।
सर्वेषां भद्रपीठानामेतल्लक्षणमुच्यते ।।
सम्भवश्चतुरस्रं तु मध्यभागं प्रकीर्तितम् ।। ४ ।।
भद्रपीठं ततो भागं तत्र पद्म निवेशयेत् ।।
शुभाष्टपत्रं तन्मध्ये कर्णिकायां दिवाकरम् ।।८५।।
पत्रेषु कल्पयेत्तत्र दिक्पालाँश्च यथादिशम् ।।
भद्रपीठमधस्तात्तु पृथिवीं परिकल्पयेत् ।। ६ ।।
अन्तरिक्षं तथा स्तम्भमूर्द्ध्वभागं ततो विदुः ।।
तत्र सन्निहिताः सर्वे भवन्ति त्रिदशोत्तमाः ।। ७ ।।
सर्वदेवमयं व्योम कथितं ते महाभुज ।।
तस्य सम्पूजनं कृत्वा सर्वान्कामानवाप्नुयात ।। ८ ।।
व्योम्नः स्वरूपं कथितं मयैतद्व्योम्नस्तु पूजा करणात्समग्रम् ।।
सम्पूजितं स्याज्जगदेकवीर चराचरं यादववंशमुख्य।।९।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे व्योमरूपनिर्माणो नाम पञ्चसप्ततितमोऽध्यायः।।७५।।