शतपथब्राह्मणम्/काण्डम् १२/अध्यायः ४/ब्राह्मण ४

१२.४.४.

अथ प्रातर्भस्मान्युद्धृत्य, गोमयेनालिप्य, अरण्योरेवाग्नी समारोह्य प्रत्यवस्यति। मथित्वा गार्हपत्यम्, उद्धृत्याहवनीयम्, आहृत्यान्वाहार्यपचनम्, अग्नये पथिकृतेऽष्टाकपालं पुरोडाशं निर्वपेत्। तस्यावृत्। ता एव सप्तदश सामिधेनीरनुब्रूयात्। वार्त्रघ्नावाज्यभागौ। विराजौ संयाज्ये। अथैते याज्यानुवाक्ये – वेत्था हि वेधो अध्वनः पथश्च देवांजसा। अग्ने यज्ञेषु सुक्रतो – इति। अथ याज्या – देवानामपि पन्थामगन्म यच्छक्नवाम तदनु प्रवोढुम्। अग्निर्विद्वान्त्स यजात्सेदु होतासो अध्वरान्त्स ऋतून्कल्पयाति इति। अग्निर्वै पथिकृत्। पथामपि नेता। स एवैनं यज्ञपथमपिनयति। एतदेव तत्र कर्म॥१२.४.४.१॥

तदाहुः – यस्याग्नयः संसृज्येरन्। कि तत्र कर्म। का प्रायश्चित्तिरिति। स यदि परस्तादहं न भीयात्। तद्विद्यात्। परस्तान्मा शुक्रमागन्नुप मां देवाः प्राभूवन् श्रेयान् भविष्यामि इति। यद्यु अस्य हृदयं व्येव लिखेत अग्नये विवचयेऽष्टाकपालं पुरोडाशं निर्वपेत्. तस्यावृत्। ता एव सप्तदश सामिधेनीरनुब्रूयात्। वार्त्रघ्नावाज्यभागौ। विराजौ संयाज्ये। अथैते याज्याऽनुवाक्ये – वि ते विष्वग्वातजूतासो अग्ने भामासः शुचे शुचयश्चरन्ति। तुविम्रक्षासो दिव्या नवग्वा वना वनन्ति धृषता रुजन्तः इति। अथ याज्या – त्वामग्ने मानुषीरीडते विशो होत्राविदं विविचिं रत्नधातमम्। गुहा संतं सुभग विश्वदर्शतं तुविष्वणसं सुयुजं घृतश्रियम् इति। अथो ह यो द्विषतो भ्रातृव्याद्व्याविवृत्सेत। तत्काम एतया यजेत। वि हैवास्माद्वर्तते। एतदेव तत्र कर्म॥१२.४.४.२॥

यद्वयमितोदहं न भीयात्। तद्विद्यात्। अभि द्विषंतं भ्रातृव्यं भविष्यामि, श्रेयान् भविष्यामीति। यद्यु अस्य हृदयं व्येव लिखेत्। अग्नये संवर्गायाष्टाकपालं पुरोडाशं निर्वपेत्। तस्यावृत्। ता एव सप्तदश सामिधेनीरनुब्रूयात्। वार्त्रघ्नावाज्यभागौ। विराजौ संयाज्ये। अथैते याज्यानुवाक्ये – परस्या अधि संवतोऽवराँ२ऽ अभ्यातर. यत्राहमस्मि ताँ२ऽ अव इति। अथ याज्या – मा नो अस्मिन्महाधने परावर्ग्भारभृद्यथा। संवर्गं संरयिं जय इति। अथो ह यो द्विषतो भ्रातृव्यात् संविवृक्षेत। तत्काम एतया यजेत। सं हैवास्मात् वृंक्ते। एतदेव तत्र कर्म॥१२.४.४.३॥

तदाहुः – यस्य वैद्युतो दहेत्। किं तत्र कर्म। का प्रायश्चित्तिरिति। तद्विद्यात्। उपरिष्टान्मा शुक्रमागन्नुप मां देवाः प्राभूवन् श्रेयान् भविष्यामि इति। यद्यु अस्य हृदयं व्येव लिखेत्। अग्नयेऽप्सुमतेऽष्टाकपालं पुरोडाशं निर्वपेत्. तस्यावृत्। ता एव सप्तदश सामिधेनीरनुब्रूयात्। वार्त्रघ्नावाज्यभागौ। विराजौ संयाज्ये। अथैते याज्याऽनुवाक्ये – अप्स्वग्ने सधिष्टव सौषधीरनुरुध्यसे। गर्भे सञ्जायसे पुनः इति। अथ याज्या – गर्भो अस्योषधीनां गर्भो वनस्पतीनाम्। गर्भो विश्वस्य भूतस्याग्ने गर्भो अपामसि इति। शांतिमेवाभ्यामेतद्वदति। यजमानस्य प्रजायै पशूनामहिंसायै। एतदेव तत्र कर्म॥१२.४.४.४॥

तदाहुः - यस्याग्नयोऽमेध्यैरग्निभिः संसृज्येरन्। किं तत्र कर्म। का प्रायश्चित्तिरिति। अग्नये शुचयेऽष्टाकपालं पुरोडाशं निर्वपेत्। तस्यावृत्। ता एव सप्तदश सामिधेनीरनुब्रूयात्। वार्त्रघ्नावाज्यभागौ। विराजौ संयाज्ये। अथैते याज्याऽनुवाक्ये – अग्निः शुचिव्रततमः शुचिर्विप्रः शुचिः कविः। शुची रोचत आहुतः इति। अथ याज्या – उदग्ने शुचयस्तव शुक्रा भ्राजंत ईरते। तव ज्योतींष्यर्चयः इति। शांतिमेवाभ्यामेतद्वदति। यजमानस्य प्रजायै पशूनामहिंसायै। एतदेव तत्र कर्म॥१२.४.४.५॥

तदाहुः - यस्याहवनीयमनुद्धृतमादित्योऽभ्यस्तमियात्। किं तत्र कर्म। का प्रायश्चित्तिरिति। एते वै रश्मयो विश्वे देवाः। तेऽस्मादपप्रयन्ति। तदस्मै व्यृध्यते। यस्माद्देवा अपप्रयन्ति। तामनुव्यृद्धिं यश्च वेद। यश्च न। ता उभावाहतुः। अनुद्धृतमस्याभ्यस्तमगादिति। तत्रेत्थं कुर्यात्। हरितं हिरण्यं दर्भे प्रबध्य पश्चाद्धर्तवै ब्रूयात्। तदेतस्य रूपं क्रियते। य एष तपति। अहर्वा एषः। तदह्नो रूपं क्रियते। पवित्रं दर्भाः। पवयत्येवैनं तत्। अथेध्ममादीप्य प्रांचं हर्तवै ब्रूयात्। ब्राह्मण आर्ष उद्धरेत्। ब्राह्मणो वा आर्षेयः सर्वा देवताः। सर्वाभिरेवैनं तद्देवताभिः समर्द्धयति। तमुपसमाधाय प्रतिपरेत्य गार्हपत्य आज्यमधिश्रित्य उद्वास्योत्पूयावेक्ष्य चतुर्गृहीतमाज्यं गृहीत्वा समिधमुपसंगृह्य प्राङुदाद्रवति। अथाहवनीये समिधमभ्याधाय दक्षिणं जान्वाच्य जुहोति – विश्वेभ्यो देवेभ्यः स्वाहा इति। स यथा ब्राह्मणमावसथवासिं क्रुद्धं यंतमुक्षवे हतोपमन्त्रयेत। एवमेवैतत् विश्वान्देवानुपमन्त्रयते। जानन्ति हैनम्। उप हैनमावर्तंते। एतदेव तत्र कर्म॥१२.४.४.६॥

तदाहुः – यस्याहवनीयमनुद्धृतम् आदित्योऽभ्युदियात्। किं तत्र कर्म। का प्रायश्चित्तिरिति। एते वै रश्मयो विश्वे देवाः। तेऽस्मादूषिवांसोऽपप्रयंति। तदस्मै व्यृध्यते। यस्माद्देवा अपप्रयंति। तामनुव्यृद्धिं यश्च वेद। यश्च न। ता उभावाहतुः। अनुद्धृतमस्याभ्युदगादिति। तत्रेत्थं कुर्यात्। रजतं हिरण्यं दर्भे प्रबध्य पुरस्ताद्धर्तवै ब्रूयात्। तच्चंद्रमसो रूपं क्रियते। रात्रिर्वै चंद्रमाः। तद्रात्रे रूपं क्रियते। पवित्रं दर्भाः। पवयत्येवैनं तत्। अथेध्ममादीप्य अन्वंचं हर्तवै ब्रूयात्। ब्राह्मण आर्षेय उद्धरेत्। ब्राह्मणो वा आर्षेयः सर्वा देवताः। कर्वाभिरेवैनं तद्देवताभिः समर्द्धयति। तमुपसमाधाय प्रतिपरेत्य गार्हपत्य आज्यमधिश्रित्य उद्वास्योत्पूयावेक्ष्य यथागृहीतमाज्यं गृहीत्वा समिधमुपसंगृह्य प्राङुदाद्रवति। अथाहवनीये समिधमभ्याधाय दक्षिणं जान्वाच्य जुहोति – विश्वेभ्यो देवेभ्यः स्वाहा इति। सोऽसावेव हंधुः। न ह वै तत्र काचनार्तिः। न रिष्टिर्भवति। यत्रैषा प्रायश्चित्तिः क्रियते। एतदेव तत्र कर्म॥१२.४.४.७॥