पृष्ठ १/१७७

आनुमानिकः, त्रि, (अनुमानाय हितः । अनुमान

+ ठक् । युक्तिसिद्धः । सांख्यमते प्रधानं प्रकृतिः ।)
अनुमानसम्बन्धीयः । अनुमानविषयीभूतः ॥

आनुरक्तिः, स्त्री, (आ + अनु + रन्ज + क्ति ।) अनु-

रागः । (आसक्तिः । अनुरक्तिः ॥)

आनुविधित्सा, स्त्री, (आ + अनु + वि + धा + सन्

+ अङ् + टाप् ।) उपकृतेरप्रत्युपकारेच्छा । इति
पुराणम् ॥

आनूपः, पुं, (अनूप + अण् ।) अनूपदेशस्थजन्तु-

मात्रं । तच्च खङ्गिमहिषवराहादि । एषां मांस-
गुणाः । गुरुत्वं । उष्णत्वं । मधुरत्वं । स्निग्धत्वं ।
शुक्रकारित्वं । वायुनाशित्वञ्च । इति राजवल्लभः ॥
अनूपदेशजलगुणाः । घनत्वं । गुरुत्वं । पिच्छि-
लत्वं । मधुरत्वं । श्लेष्मजनकत्वं । स्निग्धत्वं । अग्नि-
नाशित्वं । प्रमेहश्लीपदच्छर्द्दिगलगण्डादिरोग-
कारित्वञ्च । इति राजनिर्घण्टः ॥ अनूपदेशस्थ-
जन्तोर्लक्षणं तन्मांसस्य गुणाश्च ।
“कुलेचराः प्लवाश्चापि कोशस्थाः पादिनस्तथा ।
मत्स्या एते समाख्याताः पञ्चधानूपजातयः ॥
आनूपा मधुराः स्निग्धा गुरवो वह्निमर्द्दनाः ।
श्लेष्मलाः पिच्छिलाश्चापि मांसपुष्टिप्रदा भृशं ॥
तथाभिष्यन्दिनस्ते हि प्रायोऽपथ्यतमाः स्मृताः” ॥
इति भावप्रकाशः ॥
(“सृमरश्चमरः खङ्गो महिषो गवयो गजः ।
न्यङ्कुर्वराहश्चानूपा मृगाः सर्व्वे रुरुस्तथा” ॥
“गुरूष्णो मधुरो नातिधान्वानूपनिषेवणात्” ।
इति चरकः ॥ तथाच हारीतः ॥
“आनूपास्तेषु विज्ञेयाः श्लेष्मना वातकोपनाः” ।
आनूपवर्गस्तु पञ्चविधः । यथा । “कूलचराः प्लवाः
कोशस्थाः पादिनो मत्स्याश्चेति” इति सुश्रुतः ॥
बहुजलयुक्ते, त्रि ।)

आनृशंस्यं, क्ली, (अनृशंसस्य भावः । अनृशंस +

ष्यञ् ।) अनिष्ठुरता ॥ (अक्रौर्य्यं । अहिंसत्वं । का-
रुण्यं । यथा मनुः १ । १०१, ३ । ५४, ३ । ११२ ।
“आनृशंस्यात् ब्राह्मणस्य भुञ्जते हीतरे जनाः” ।
“अर्हणं तत्कुमारीणामानृशंस्यं च केवलम्” ॥
“मोजयेत् सह भृत्यैस्तावानृशंस्यं प्रयोजनम्” ॥)

आन्तरीक्षं, क्ली, (अन्तरीक्ष + अण् ।) अन्तरीक्षं ।

गगनं । इति द्विरूपकोषः ॥ (यथा महाभारते ।
“उत्पातांस्त्रिविधान् प्रापुर्नारदो भगवानृषिः ।
दिव्यांश्चैवान्तरीक्षांश्च पार्थिवांश्च पितामह” ॥)
अन्तरीक्षमववस्तुनि त्रि ॥ (यथा रामायणे ।
“स्वस्ति तेऽस्त्वान्तरीक्षेभ्यः पार्थिवेभ्यः पुनः पुनः” ॥)

आन्तिका, स्त्री, (अन्तिक + अण् + टाप् ।) अन्तिका ।

ज्येष्ठा भगिनी ॥ इति द्विरूपकोषः ॥

आन्त्रिकः, त्रि, (अन्त्र + ठक् ।) अन्त्रे भवः । अन्त्र-

सम्बन्धीयः ॥

आन्दोल त् क् दोलने । (अदन्तचुरा ०-उभ ०-अक ०

सेट् ।) इति कविकल्पद्रमः ॥ आन्दुदोलत् । इति
दुर्गादासः ॥

आन्दोलनं, क्ली, (आन्दोल + ल्युट् ।) चलनं ।

कम्पनं ॥ (“किन्त्वासामरविन्दसुन्दरदृशां द्राक्-
चामरान्दोलनादुद्वेल्लद्भुजवल्लिकङ्कणझनत्कारः
क्षणं वार्य्यताम्” । इति कालिदासः । पुनः पुन-
रभ्यासः । मुहुरालोचनम् ।)

आन्दोलितं, त्रि, (आन्दोल + क्त ।) कृतान्दोलनं ।

तत्पर्य्यायः । चलितं २ कम्पितं ३ धूतं ४ वेल्लितं
५ । इति हेमचन्द्रः ॥

आन्धसिकः, त्रि, (अन्धस् + ठक् ।) पाचकः । सूप-

कारः । इत्यमरः ॥

आन्वयिकः, त्रि, (अन्वय + ठक् ।) प्रशस्तकुलजः ।

सत्कुलोद्भवः । तत्पर्य्यायः । कौलः २ । इति त्रि-
काण्डशेषः । अन्वयसम्बन्धी ॥ (कुलीनः । दिव्य-
भावरतः । कुलाचारी । साधकः । “और्द्धस्रोत-
सिकः शैवः कौल आन्वयिकः स्मृतः” । इति
त्रिकाण्डशेषः ।)

आन्वीक्षिकी, स्त्री, (श्रवणादनु ईक्षा पर्य्यालोचना

प्रयोजनमस्याः । अनु + ईक्षा + ठञ् + ङीप् ।)
तर्कविद्या । न्यायविद्या । इत्यमरः ॥ दुर्गा । यथा,
“आत्मवेदनशीलत्वादन्वीक्षणपराथवा ।
अन्वीक्षां कुरुते यस्मात्तस्मादान्वीक्षिकी स्मृता” ॥
इति देवीपुराणे ४५ अध्यायः ॥ (अध्यात्मविद्या,
प्रत्यक्षपरोक्षाभ्यामीक्षितस्य अर्थस्यानु पश्चात्
ईक्षणं अन्वीक्षा सा प्रयोजनं यस्याः सा आन्वी-
क्षिकी अनुमानविद्या न्यायदर्शनवैशिषिका-
दिका । इयं हि त्रयीवार्त्तादिविद्याचतुष्टयान्त-
र्गता आत्मविज्ञानहेतुका धर्म्मार्थसंसाधिका रा-
जभिरवश्यं रक्षणीया सती विद्येति कथ्यते ॥
यथा, कामन्दकीयनीतिसारे ।
“आन्वीक्षिकी त्रयी वार्त्ता दण्डनीतिश्च शाश्वतो ।
विद्याश्चतस्र एवैता लोकसंस्थितिहेतवः” ॥
“आन्वीक्षिक्यात्मविज्ञानं धर्म्माधर्म्मौ त्रयीस्थितौ ।
अर्थनर्थौ च वार्त्तायां दण्डनीतौ नयानयौ” ॥
इति ।)

आप ऌ न औ कि ष्यापने । (चुरा० पक्षे भ्वादि०-

स्वादि० वा-उभ०-पर०-सक०-सेट् ।) इति कवि-
कल्पद्रुमः ॥ ऌ आपत् । न आप्नोति कीर्त्ति-
र्ब्रह्माण्डं । औ आप्ता । कि आपयति आपति ।
स्वराज्यं प्राप्स्यते भवान् । इति गणकृतानित्य-
त्वात् । इति दुर्गादासः ॥ (पालने ।
“स्वे स्वेऽन्तरे सर्व्वमिदमुत्पाद्यापुश्चराचरम्” ।
इति मनुः । (अभि) अभिलाषे ।
“नान्यदत्तमभीप्सामि स्थानमम्ब ! स्वकर्म्मणा ।
इच्छामि तदहं स्थानं यन्न प्राप पिता मम” ॥
इति विष्णुपुराणम् । (प्रति + अव) प्रतिग्रहणे ।
“तां प्रत्यवापुरविलम्बितमुत्तरन्तो
धौताङ्गलग्ननवनीलपयोजपत्रैः” । इति ।
शिशुपालबधे । (प्र) उपगमने ।
“ते च प्रापुरुदन्तन्तं बुबुधे चादिपूरुषः” ।
इति रघुवंशे १० । ६ । इत्यादि ।)

आपः, पुं, (आप् + घञ् ।) अष्टवसुमध्ये वसुविशेषः ।

इति जटाधरः ॥

आपः [स्] क्ली, (आप् + असुन् ।) जलं । पापं ।

इत्युणादिकोषः ॥

आपक्वं, त्रि, (आङ् + पच् + क्त ।) ईषत्पक्वकला-

यादि । तत्पर्य्यायः । पौलिः २ अभ्यूषः ३ । इत्य-
मरः ॥ रुटी इति केचित् ॥ (यथा ऋतुसंहारे ॥
“आपक्वशालिललितानतगात्रयष्टिः
प्राप्ता शरन्नवबधूरिव रम्यरूपा” ॥ १ ॥)

आपगा, स्त्री, (अपां समूहः आपं । तस्य समूहे

इत्यण् । तत आपेन जलसमूहेन गच्छति प्रचल-
तीति । आप् + गम् + ड + टाप् ।) नदी ।
इत्यमरः । (यथा रामायणे ।
“आपगाः कृतपुण्यास्ताः पद्मिन्यश्च सरांसि च” ॥
“आपगाश्च महानूपाः सानुमन्तश्च पर्ब्बताः” ॥
तथाच माघे २ । १०० ।
“सम्भूयाम्भोधिमभ्येति महानद्या नगापगा” ॥)

आपणः, पुं, (आङ् + पण + अच् ।) पण्यविक्रय-

शाला । दोकान इति भाषा । तत्पर्य्यायः । निषद्या
२ विपणिः ३ पण्यवीथिका ४ । इत्यमरः ॥ वतुष्कं
हट्टे इत्यन्ये । आपणादिद्वयं हट्टे विपण्यादिद्वयं
हट्टगृहे इति केचित् । इत्यमरटीकायां भरतः ।
(यथा रामायणे ।
“माल्यापणेषु राजन्ते नाद्य पण्यानि वै तथा” ।
तथा महाभारते ।
“भक्ष्यमाल्यापणानाञ्च ददृशुः श्रियमुत्तमां” ॥)

आपणिकः, पुं, (आङ् + पण् + इकन् । अथवा आ-

पण + ठक् ।) बणिकः । इत्युणादिकोषः ॥ दोकानि
मुदि व्यवसायी इत्यादि भाषा । (पण्यानां क्रयवि-
क्रयादिविषयके, त्रि ॥)

आपतिकः, पुं, (आङ् + पत् + इकन् ।) श्येनपक्षी ।

वाज इति भाषा । दैवायत्ते त्रि । इत्युणादिकोषः ॥

आपत्, [द्] स्त्री, (आङ् + पद् + क्विप् ।) विपत् ।

विपत्तिः । इत्यमरः ॥ यथा ।
“आपत्सु मूढो द्युतिमान्यः सम्यक् प्रतिपद्यते
कर्म्माण्यवश्यकार्य्याणि तमाहुः पुरुषं बुधाः” ॥
इति वह्निपुराणम् ॥ ० ॥ किञ्च ।
“आपदि किं शरणोयं शरणीयं चरणयुगलम-
म्बायाः । तच्छरणं किं कुरुते ब्रह्मादीनपि किङ्क-
रान् कुरुते” ॥ इत्युद्भटः ॥ ० ॥ मनुः ११ । २९-३० ।
“विश्वैश्च देवैः साध्यैश्च ब्राह्मणैश्च महर्षिभिः ।
आपत्सु मरणाद्भीतैर्व्विधेः प्रतिनिधिः कृतः” ॥
“प्रभुः प्रथमकल्पस्य योऽनुकल्पेन वर्त्तते ।
न साम्परायिकं तस्य दुर्म्मतेर्व्विद्यते फलम्” ॥
इत्येकादशीतत्त्वम् ॥
“आपत्काले तु विप्रेण भुक्तं शूद्रगृहे यदि ।
मनस्तापेन शुद्ध्येत्तु द्रुपदां वा शतं जपेत्” ॥
इति प्रायश्चित्ततत्त्वम् ॥ ० ॥
“आपदर्थे धनं रक्षेत् दारान् रक्षेत् धनैरपि ।
आत्मानं सततं रक्षेत् दारैरपि धनैरपि” । इति ।
“जानीयात् प्रेषणे भृत्यान् बान्धवान् व्यसनागमे ।
मित्रञ्चापदि काले च भार्य्याञ्च विभवक्षये” ॥
इति च चाणक्यम् ॥ २९ ॥ २१ ॥

आपत्तिः, स्त्री, (आङ् + पद् + क्तिन् ।) दोषः ।

इति हेमचन्द्रः ॥ प्रापणं । आपत् । इति मेदिनी ॥

आपत्प्राप्तः, त्रि, (आपदं प्राप्तः । २ या तत्पुरुषः ।)

पृष्ठ १/१७८
:विपद्ग्रस्तः । तत्पर्य्यायः । आपन्नः २ । इत्यमरः ॥

आपद्, स्त्री, (आङ् + पद् + क्विप् ।) विपत्तिः ।

इत्यमरः ॥ (यथा हितोपदेशे ।
“आपदामापतन्तीनां हितोऽप्यायाति हेतुतां” ।)

आपदा, स्त्री, (आ + पद् + अङ् + टाप् ।) विपत्तिः ।

इति रायमुकुटः ॥

आपनं, क्ली, (आप् + ल्युट् ।) प्रापणम् ॥ मरीचं । इति

शब्दचन्द्रिका ।

आपनिकः, पुं, (आङ् + पन् + इकन् ।) इन्द्रनील-

मणिः । किरातः । इत्युणादिकोषः ॥

आपन्नः, त्रि, (आङ् + पद् + क्तः ।) आपद्ग्रस्तः ।

तत्पर्य्यायः । आपत्प्राप्तः २ । इत्यमरः ॥ प्राप्तः ।
इति मेदिनी ॥ (यथा भागवते, --
“आपन्नः संसृतिं घोरां यन्नाम विवशो गृणन् ।
ततः सद्यो विमुच्येत यद्बिभेति स्वयं भयं” ॥
यथा हितोपदेशे, --
“बलीयसाभियुक्तस्तु नृपोऽनन्यप्रतिक्रियः ।
आपन्नः सन्धिमन्विच्छेत्कुर्व्वाणः कालयापनं” ॥)

आपन्नसत्त्वा, स्त्री, (आपन्नं प्राप्तं सत्त्वं गर्भरूपेण

जन्तुरनया ।) गर्भवती । इत्यमरः ॥
(“सममापन्नसत्त्वास्ता रेजुरापाण्डुरत्विषः” ।
इति रघुः १० । ५० ।
“नार्य्याश्चापन्नसत्त्वायास्तथातिद्रुतमश्नतः” ॥
इति सुश्रुतः ॥)

आपमित्यकं, क्ली, (मेङ् प्रणिदाने उदीचां माङो

व्यतीहारे इति क्त्वा । कुगतीति समासः । समासे-
ऽनञिति ल्यबादेशः । मयतेरिदन्यतरस्यामिर्तात्वं
अपमित्य निर्वृत्तं । अपमित्ययाचिताभ्यां कक्कना-
विति कक् ।) विनिमयात् प्राप्तं । इत्यमरः ॥
वदल करिया लओया द्रव्य इति भाषा ।

आपवः, पुं, (आपोर्वरुणस्यापत्यं पुमान् । आपु + अप-

त्यार्थे अण् ।) वशिष्ठमुनिः । इति महाभारतं ॥
(“तत्ते शापात् विनिर्मुक्ता आपवस्य महात्मनः” ।
इति महाभारते । तथा च हरिवंशे, --
“यं लेभे वरुणः पुत्त्रं पुरा भास्वन्तमुत्तम् ।
वशिष्ठं नाम स मुनिः ख्यात आपव इत्युत” ॥)

आपस्तम्वः, पुं, धर्म्मशास्त्रप्रयोजकमुनिविशेषः ।

“मन्वत्रिविष्णुहारीतयाज्ञवल्क्योशनोऽङ्गिराः ।
यमापस्तम्बसंवर्त्ताः कात्यायनवृहस्पती ॥
पराशरव्यासशङ्खलिखिता दक्षगोतमौ ।
शातातपो वशिष्ठश्च धर्म्मशास्त्रप्रयोजकाः” ॥
इति याज्ञवल्क्यवचनं ॥

आपस्तम्भिनी, स्त्री, (आपः स्तभ्नातीति । आपस् +

स्तम्भ + णिनि ।) लिङ्गिनीलता । इति राज-
निर्घण्टः ॥

आपाकः, पुं, (आङ् + पच् + घञ् ।) कुम्भकारमृत्-

पात्रदहनस्थानं । इति जटाधरः ॥ पोयान् इति
भाषा ।

आपातः, पुं, (आङ् + पत् + घञ् ।) पतनं । तत्कालः ।

इति मेदिनी ॥ पातनं । इति शब्दचन्द्रिका ॥
(यथा हितोपदेशे ।
“आपातरमणीयानां संयोगानां प्रियैः सह” ।
“आपातरम्या विषयाः पर्य्यन्तपरितापिनः” ।
तथा च मनुः ११ । ९ ।
“मध्वापातो विषास्वादः स्वधर्म्मप्रतिरूपकः” ।)

आपानं, क्ली, (आपीयते अस्मिन् । आङ् + पा +

अधि + ल्युट् ।) मद्यपानार्थसभा । तत्पर्य्यायः ।
पानगोष्ठिका २ । इत्यमरः ॥ मद खावार चक्र
इति भाषा ॥ (यथा महाभारते, वनपर्ब्बणि २८०
अध्याये ।
“गन्धर्व्वाप्सरसो भद्रे ! मामापानगत सदा” ।
१३ । तत्रैव २ अध्याये ।
“आपाने पानकलिता दैवेनाभिप्रणोदिताः” ।
“ददर्श यदुवीराणामापाने वैशसं महत्” ।)

आपालिः, पुं, (आङ् + पल् + इन् ।) केशकीटः ।

इति जटाधरः ॥ उकुन इति भाषा ।

आपिञ्जरं, क्ली, (ईषत् पिञ्जरम् ।) स्वर्णं । इति

राजनिर्घण्टः ॥
(“आपिञ्जरा बद्धरजःकणत्वा-
न्मञ्जर्य्युदारा शुशुभेऽर्ज्जुनस्य” ॥
इति रघुः १६ । ५१ । स्वर्णशब्देऽस्य गणादयो
वक्तव्याः ॥)

आपीडः, पुं, (आङ् + पीड् + पचाद्यच् ।) शिखा-

स्थितमाल्यं । तत्पर्य्यायः । शेखरः २ । इत्यमरः ॥
(यथा रघुवंशे १८ । २८ ।
“तस्मिन् कुलापीडनिभे निपीडं
सम्यक् महीं शासति शासनाङ्कां” ॥)

आपीतं, क्ली, (आङ् + पा + क्त ।) माक्षिकधातुः ।

इति राजनिर्घण्टः ॥ (यथा रामायणे ।
“आपीतवर्णवदनं प्रसुप्तमिव भूमिपं” ।)

आपीनं, क्ली, (ओ प्यायी वृद्धौ । आङ् + प्याय +

क्त । प्यायः पी निष्ठायां सोपसर्गस्य नः ।) ऊधः ।
गरुर पालान् । इति भाषा । इत्यमरः ॥ (यथा
रघुवंशे २ । १८ ।
“आपीनभारोद्वहनप्रयत्नात्
गृष्टिर्गुरुत्वाद्वपुषो नरेन्द्रः” ॥)

आपीनः, त्रि, (आङ् + प्याय + क्त ।) ईषत्स्थूलः ।

सम्यक्स्थूलः ॥

आपीनः, पुं, कूपः । इति वोपदेवः ॥

आपूपिकं, क्ली, (अपूपानां समूहः । अपूप + ठक् ।)

अपूपसमूहः । बहुपिष्टकं । इत्यमरः ॥

आपूपिकः, त्रि, (अपूपाः पण्यमस्य । अपूप +

ठक् ।) पिष्टकजीवी । पिष्टकविक्रयकर्त्ता । तत्-
पर्य्यायः । कान्दविकः २ भक्ष्यकारः ३ । इत्यमरः ॥
मयरा हालुइकर रुटिओयाला । इत्यादि भाषा ॥

आपूप्यः, पुं, (अपूप + यञ् ।) शक्तुः । चूर्णकः ।

इति त्रिकण्डशेषः ॥ छातु मयदा वेसन इत्यादि
भाषा ।

आपूर्त्तिः, स्त्री, (आङ् + पॄ + क्तिः ।) ईषत्पूरणं ।

सम्यक्पूरणं ॥

आपूषं, क्ली, (आ + पूष् वृद्धौ + करणे घञ् ।) रङ्गं ।

इति राजनिर्घण्टः ॥ रां इति भाषा ॥ (रङ्गशब्दे-
ऽस्य गुणादयो ज्ञातव्याः ॥)

आपृच्छा, स्त्री, (आङ् + प्रच्छ + अङ् + ततः टाप् ।)

आभाषणं । आलापः । इति हेमचन्द्रः ॥

आपोक्लिमं, क्ली, लग्नात् तृतीयषष्ठनवमद्वादशलग्नं ।

इति ज्योतिःशास्त्रं ॥

आप्तः, त्रि, (आप + क्तः ।) प्रत्ययितः । विश्वस्तः ।

इत्यमरः ॥ (यथा मानवे ७ । ८० ।
“सांवत्सरिकमाप्तैश्च राष्ट्रादाहारयेत् वलिं” ।)
प्राप्तः । लब्धः । (तेभ्यः किमाप्तं मया । इति कालि-
दासः ।) सत्यं । इति हेमचन्द्रः ॥ (हितः । कुशलः ।
“कुमारभृत्याकुशलैरनुष्ठिते
भिषग्भिराप्तैरथ गर्भभर्म्मणि” ।
इति रघुवंशे ३ । १२ । सन्निकृष्टः । आत्मीयः ।
“असपिण्डं द्विजं प्रेतं विप्रो निर्हृत्य बन्धुवत् ।
विशुध्यति त्रिरात्रेण मातुराप्तांश्च बान्धवान्” ॥
इति मनुः ३ । १२ । “आप्तान् स्वन्निकृष्टान् सहो-
दरभातृमगिन्यादीन्” इति तट्टीका । बहुः ।
अधिकः । यथा मनुः ।
“यजेत राजा क्रतुभिर्व्विविधैराप्तदक्षिणैः” ।
“राजा नानाप्रकारान् बहुदक्षिणान् अश्वमेधा-
दियज्ञान् कुर्य्यात्” । इति तट्टीका ।

आप्तः, पुं, (आप् + क्त ।) भ्रमप्रमादविप्रलिप्साकरणा-

पाटवरूपदोषचतुष्टयरहितः । स च ऋष्यादिः ।
इति स्मृतिः । आप्तास्तावत् ॥
“रजस्तमोभ्यां निर्म्मुक्तास्तपोज्ञानबलेन ये ।
येषां त्रैकालममलं ज्ञानमव्याहतं सदा ॥
आप्ताः शिष्टा विबुद्धास्ते तेषां वाक्यमसंशयं ।
सत्यं वक्ष्यन्ति ते कस्मादसत्यं नीरजस्तमाः” ॥
इति चरकः ॥)

आप्तगर्व्वः, त्रि, (आप्तः प्राप्तः गर्व्वो येन सः ।

प्राप्ताहङ्कारः ॥)

आप्ता, स्त्री, जटा । इति हारावली ॥

आप्तिः, स्त्री, (आप् + क्ति ।) सम्बन्धः । योगः ।

लाभः । प्राप्तिः । इति हेमचन्द्रः ॥

आप्तोक्तिः, स्त्री, (आप्तस्य भ्रमप्रमादादिशून्यजनस्य

उक्तिः ।) सिद्धान्तवाक्यं । तत्पर्य्यायः । राद्धं २
सिद्धकतं ३ अभ्योतः ४ समयः ५ आगमः ६ ।
इति हेमचन्द्रः ॥

आप्यं, त्रि, (अपां विकारः तस्य विकारैत्वणत्वात्

स्वाथे ष्यञ् ।) जलविकारजं । फेनादि । तत्पर्य्यायः ।
अम्मयं २ । इत्यमरः ॥ (यथा हरिवंशे ।
“आप्याः प्रभूता ऋभवः पृथुकाश्च दिवौकसः ।
लेखा नाम महाराज पञ्च देवगणाः स्मृताः” ॥
“तस्मादाप्यो रसः परस्परसंसर्गात् परस्परानु-
ग्रहात् परस्परानुप्रवेशाच्च सर्व्वेषु सर्व्वेषां सा-
न्निध्यमस्त्युत्कर्षापकर्षात्तु ग्रहणं” । इति सुश्रुतः ॥)

आप्यं, क्ली, वाप्यवृक्षः । इत्यमरटीकायां रायमुकुटः ।

कुड इति भाषा ॥

आप्यायनं, क्ली, (आङ् + प्याय् + ल्युट् ।) तर्पणं ।

प्रीणनं । तृप्तिः । इति राजनिर्घण्टः ॥ (यथा
महाभारते, --
“पितृप्रसादमिच्छेयं तव चाप्यायनं पुनः” ।
यथा मनुः, ३ । २१३, ३ । २०३ ।
“लोकस्याप्यायनेयक्तान् श्राद्धदेवान् द्विजोत्तमान् ।”
पृष्ठ १/१७९
:“देवकार्य्याद्विजातीनां पितृकार्य्यं विशिष्यते ।
देवं हि पितृकार्य्यस्य पूर्ब्बमाप्यायनं स्मृतं” ॥)

आप्यायितः, त्रि, (आङ् + प्याय् + णिच् + क्तः ।)

तृप्तः । प्रीतः । बर्द्धितः । यथा, --
“एषा सूर्य्यस्य वीर्य्येण सोमस्याप्यायिता तनुः ।
पौर्णमास्यां स दृश्येत सम्पूर्णो दिवसक्रमात्” ॥
इति कौर्म्मे ४० अध्यायः ॥ आनन्दितः । इति
लोकप्रसिद्धं ॥ (यथा हितोपदेशे ।
“आप्यायितोऽहं भवतामनेन वचनामृतेन” ॥)

आप्रच्छनं, क्ली, (आङ् + प्रच्छ + ल्युट् ।) गमनागम-

नादिसमये सुहृदादेरालिङ्गनारोग्यप्रश्नस्वागता-
दिनानन्दनं । इत्यमरः ॥

आप्रच्छन्नं, क्ली, (आङ् + प्र + छद् + क्त ।) आप्र-

च्छनं । तत्पर्य्यायः । आनन्दनं २ सभाजनं ३ ॥
इति हेमचन्द्रः ॥

आप्रपदं, क्ली, (प्रपदं पादाग्रं । तत्पर्य्यन्तं ।) पादाग्रपर्य्यन्तं ॥

आप्रपदीनं, त्रि, (आप्रपदं पदाग्रान्तं व्याप्नोतीति ।

आङ् + प्र + पद + ख ।) पादाग्रपर्य्यन्तपतित-
वस्त्रादि । इत्यमरः ॥ (“आप्रपदीनां कण्ठे यम-
दोलामिब गुणकुसुममालामारूढाम्” । इति
हर्षचरिते ५ म उच्छ्वासः ।)

आप्लवः, पुं, (आङ् + प्लु + अप् ।) स्नानं । इत्यमरः ॥

आप्लवव्रती, [न्] पुं, (आप्लवते प्लुङ् + अच्, आप्लव-

श्चासौ व्रती च । आप्लवः स्नानं तत्र व्रती नित्यस्ना-
यीति मुकुटः ।) आप्लुतव्रती । स्नातकब्राह्मणः ।
इत्यमरटीकायां भरतः ॥

आप्लावः, पुं, (आङ् + प्लुङ् + घञ् । जलप्रक्षेपः, जल-

सेचनं, जलमध्ये सम्यगवगाहनं, जलप्लावनं, ज-
लानां सर्व्वतः समुच्चलनं ।) स्नानं । इत्यमरः ॥

आप्लुतः, पुं, (आङ् + प्लुङ् + क्तः ।) आप्लुतव्रती । स्ना-

तकः । इति मेदिनी ॥

आप्लुतः, त्रि, (आङ् + प्लु + क्त ।) स्नातः । कृतस्नानः ।

इति मेदिनी ॥ (आप्लुतः सर्व्वपापेभ्यः स गङ्गायां
व्यमुच्यत । इति भारते ।) स्नाने क्ली इति हेम-
चन्द्रः ॥ (आर्द्रीकृतः । सिक्तः । पञ्चतन्त्रे, --
“अन्ये जर्ज्जरितकलेवरा रुधिराप्लुताः” । इति)

आप्लुतव्रती, [न्] पुं, (आप्लुतस्य स्नातकस्य व्रत-

मस्यास्तीति । आप्लुतव्रत + इनि ।) समाप्तवेदा-
ध्ययनस्नानशीलः । ब्रह्मचर्य्यं त्यक्त्वा यो गृहाश्रमं
गतः सः । समाप्तवेदाध्ययनो यः स्नानशील आ-
श्रमान्तरं न गतः सोऽपि । आप्लुतं स्नानं तत्र
व्रती नित्यस्नायी इति व्युत्पत्तिः । इत्यमरटीकायां
भरतः ॥

आघा, [न्] पुं, (आप् + वुन् ।) वायुः । इति सिद्धा-

न्तकौमुद्यामुणादिवृत्तिः ॥

आफूकं, क्ली, अफेनं । इति वैद्यकं ॥ आफिं इति

भाषा । (अस्य गुणानाह । भावप्रकाशे ॥
“आफूकं शोषणं ग्राहि श्लेष्मघ्नं वातपित्तलं” ।)

आबद्धः, पुं, (आङ् + बन्ध + क्तः ।) दृढबन्धनं । प्रेम ।

अलङ्कारः । इति विश्वमेदिन्यौ ॥ (यथा मेघदूते ९ ।
“गर्भाधानक्षणपरिचयान्नूनमाबद्धमाला” ॥)
योत्त्रं । इति मेदिनी ॥

आबन्धः, पुं, (आबध्यतेऽनेन आङ् + बन्ध + घञ् ।)

योत्त्रं । इत्यमरहेमचन्द्रौ ॥ योत्दडी इति भाषा ।
भूषणं । प्रेम । बन्धनं । इति हेमचन्द्रः ॥
(यथा अमरुशतके । ३८ ॥
“गते प्रेमाबन्धे प्रणयबहुमाने विगलिते” ।)

आबलिः, स्त्री, आलिः । श्रेणी । इत्यमरः ॥ (समूहः,

आबली ।)

आबिद्धः, त्रि, (आङ् + व्यध् + क्तः ।) वक्रः । क्षिप्तः ।

इत्यमरः । पराहतः । इति मेदिनी ॥ मूर्खः ।
इति शब्दरत्नावली ॥

आबिधः, पुं, बेधनास्त्रं । इत्यमरः ॥ भोमर तुरपन

इत्यादि भाषा ।

आबिलः, त्रि, (आ + बिल + क ।) अनच्छः । अनि-

र्म्मलः । इत्यमरः ॥

आबिलकन्दः, पुं, मालाकन्दः । इति राजनिर्घण्टः ॥

आबुत्तः, पुं, (आप् + क्विप् + आपमुत्तनोति । अन्ये-

भ्योपीति ड ।) नाट्योक्तौ भगिनीपतिः । इत्यमरः ॥

आभरणं, क्ली, (आभ्रियतेऽनेन । भृञ भरणे । ल्युट् ।)

भूषणं । अलङ्कारः । इत्यमरः ॥ (तच्चतुर्व्विधं, आ-
बेध्यं बन्धनीयं, क्षेप्यं, आरोप्यं चेति । तत्र
आबेध्यं कुण्डलादि, बन्धनीयं कुसुमादिकं, क्षेप्यं
नूपुरादिकं, आरोप्यं हारादि । यदुक्तं, --
“स्याद्भूषणं त्वाभरणं चतुर्धा परिकीर्त्तितं ।
आबेध्यं बन्धनीयञ्च क्षेप्यमारोप्यमेव तत्” ॥
(यथा मनुः, ७ । २२२ ।
“वाहनानि च सर्व्वाणि शास्त्राण्याभरणानि च” ।
यथा कुमारसम्भवे । ५ । ४४ ॥
“किमित्यपास्याभरणानि यौवने
धृतं त्वया वार्द्धकशोभि वल्कलं” ॥)

आभा, स्त्री, (आङ् + भा + अङ् + टाप् ।) शोभा

कान्तिः । इति हेमचन्द्रः ॥ दीप्तिः । ज्योतिः ॥
(वातरोगभेदः । ववुले । यथा भावप्रकाशे वात-
व्याधौ त्रिकशूलचिकित्सा, --
“आभा ववुलपर्य्यायः कथितः कोविदैरिह” ।)

आभातिः, स्त्री, (आङ् + भा + क्तिन् दीप्तिः, ज्यो-

तिः ।) छाया । इति राजनिर्घण्टः ॥

आभाषणं, क्ली, (आङ् + भाष् + ल्यट् ।) आलापः ।

कथनं । इत्यमरः ॥ (यथा रघुवंशे । २ । ५८ ॥
“सम्बन्धमाभाषणपूर्ब्बमाहुः” ।)

आभासः, पुं, (आङ् + भास् + पचाद्यच् ।) सदृशः ।

प्रतिविम्बं । इति वेदान्तः ॥ दीप्तिः । अभिप्रायः ॥
(प्रतिविम्बादिवदवास्तवस्वरूपमविद्याकार्य्यं, मृ-
षाबुद्धिः । यथा अध्यात्मरामायणे, --
“आभाषस्तु मृषाबुद्धिरविद्याकार्य्यमुच्यते ।
अविच्छिन्नं तु तद्ब्रह्म विच्छेदस्तु विकल्पतः ॥
आभासत्वपरं विम्बभूतमेवं त्रिधा चितिः ।
साभासबुद्धेः कर्त्तृत्वमवच्छिन्ने विकारिणि” ॥
तथा च पञ्चदशी ६ -- ७ ।
“चित्राधारेण वस्त्रेण सदृशा इव कल्पिताः ।
पृथक् पृथक् चिदाभासश्चैतन्याध्यस्तदेहिनां ॥
कल्प्यन्ते जीवनामानो बहुधा संसरत्न्यमी ।
वस्त्राभासे स्थितान् वर्णान् यद्वदाधारवस्त्रगान्” ॥)

आभास्वरः, पुं, (आङ् + भास् + वरच् ।) चतुःषष्टि-

सङ्ख्यकगणदेवताविशेषः । इत्यमरः ॥ (यदुक्तं, आ-
भास्वराश्चतुःषष्टि । यद्वा, --
“आत्मा ज्ञाता दमो दान्तः शान्तिर्ज्ञानं शमस्तपः ।
कामः क्रोधो मदो मोहो द्वादशाभास्वरा इमे” ॥)

आभिजनः, पुं, (अभिजनादागतः । अभिजन + अण् ।)

अभिजनस्य भावः । कुलसम्बन्धीयः । गाँइ पदवी
इत्यादि भाषा ॥ (यथा कुमारसम्भवे, १ । २६ ।
“तां पार्ब्बतीत्याभिजनेन नाम्ना
बन्धुप्रियां बन्धुजनो जुहाव” ॥)

आभिजात्यं, क्ली, (अभिजात + ष्यञ् ।) अभिजातस्य

भावः । कौलिन्यं । पाण्डित्यं ॥ (महावंशजनन-
जनितमर्य्यादा । यथा रामायणे, --
“आभिजात्यं हि ते मन्ये यथा मातुस्तथैव च” ॥)

आभिधा, स्त्री, (अभि + धा + अङ् + टाप् ।) शब्दः ।

इति शब्दरत्नावली ॥

आभिधातकं, क्ली, (अभिधा + तक् + अच् ।) शब्दः ।

इति शब्दरत्नावली ॥

आभिरूप्यं, क्ली, (अभिरूप + ष्यञ् ।) अभिरूपस्य

भावः । यथा, --
“अर्च्चकस्य तपोयोगादर्च्चनस्यातिशायनात् ।
आभिरूप्याच्च विम्बानां देवः सान्निध्यमृच्छति” ॥
इति तिथ्यादितत्त्वधृतहयशीर्षपञ्चरात्रीयवचनं ॥

आभीरः, पुं, (आ समन्तात् भियं राति । रा दाने

आत इति कः ।) गोपः । इत्यमरः ॥ आहिर इति
भाषा । स च ब्राह्मणादम्बष्ठायां जातः । इति
मनुः ॥

आभीरपल्लिः, स्त्री, (आभीराणां पल्लिः ।) गोप-

पल्ली । इत्यमरटीकायां रायमुकुटः ॥ गोयाला-
पाडा इति भाषा ॥

आभीरपल्ली, स्त्री, (आभीराणां पल्ली ।) गोपगृह-

समूहः । गोपग्रामः । गोपगृहं । गोपस्थानं ।
तत्पर्य्यायः । घोषः २ । इत्यमरः ॥

आभीरी, स्त्री, (आभीरपुंयोगादितिजातेरिति च

ङीष् ।) गोपस्त्रीजातिः । गोपपत्नी । तत्पर्य्यायः ।
महाशूद्री २ । इत्यमरः ॥ आहिरिणी इति
भाषा ॥

आभीलं, क्ली, (आ समन्तात् भियं लाति जनयति ।

आङ् + भी + ला + क ।) कष्टं । कृच्छ्रं । इत्यमरः ॥
(भयावहः, भीतिजनकः । यथा मेदिनी, --
“आभीलं न द्वयोः कृच्छ्रे वाच्यलिङ्गं भयानके” ॥
यथा महाभारते, --
“रात्रौ निशीथे स्वाभीले गतेऽर्द्धसमये नृप ।
प्रचारे पुरुषादानां रक्षसां घोरकर्म्मणाम्” ॥)

आभीलः, त्रि, (आङ् + भी + ला + क ।) कष्टयुक्तः ।

इत्यमरः ॥ भयानकः । इति मेदिनी ॥

आभीक्ष्णं, क्ली, (अभीक्ष्ण + ष्यञ् ।) अत्यर्थं । नित्यं ।

तद्युक्तक्रियायां त्रि । इति शब्दरत्नावली ॥

आभेरी, स्त्री, रागिणीविशेषः । इति हलायुधः ॥

आभोगः, पुं, (आङ् + भुज + घञ् ।) परिपूर्णता ।

इत्यमरः ॥ (यथा मेघटूते, उत्तरमेघे २१ ।
“गण्डाभोगात्कठिनविषमामेकवेणीं करेण” ।
पृष्ठ १/१८०
:यथा शाकुन्तले । “अकथितोऽपि ज्ञायत एव
यथायमाभोगस्तपोवनस्य” ॥)
वरुणस्य छत्रं । यत्नः । इति मेदिनी ॥ कविनाम-
युक्तगानसमापककविता । भणिता इति भाषा ।
यथा, --
“यत्रैव कविनाम स्यात् स आभोग इतीरितः” ।
इति सङ्गीतदामोदरः ॥

आभ्युदयिकं, त्रि, (अभ्युदयः प्रयोजनम् अस्य । अभ्यु-

दय् + ठक् ।) अभ्युदयनिमित्तश्राद्धादि । यथा ।
अथाभ्युदयिकश्राद्धं । तत्र गोभिलः । आभ्युदयिके
श्राद्धे युग्मानाशयेत् प्रदक्षिणमुपचारः ऋजवो
दर्भाः यवैस्तिलार्थः । सम्पन्नमिति तृप्तिप्रश्नः ।
दधिवदराक्षतमिश्राः पिण्डाः नान्दीमुखाः पितरः
प्रीयन्तामिति दैवे वाचयित्वा नान्दीमुखेभ्यः पि-
तृभ्यः पितामहेभ्यः प्रपितामहेभ्यो मातामहेभ्यः
प्रमातामहेभ्यो वृद्धप्रमातामहेभ्यश्च प्रीयन्तां न
स्वधाञ्च प्रयुञ्जीत इति । अभ्युदयो विवाहादिस्त-
दर्थं श्राद्धं आभ्युदयिकं । आभ्युदयिके अभ्युदय-
निमित्तके । अभ्युदयः इष्टलाभः । स च भूत-
भविष्यद्भेदेन द्विबिधः । तत्र भूतं पुत्त्रजन्मादि
भविष्यत् विवाहादि । एवञ्च श्राद्धविवेकादौ
श्राद्धभेदगणने वृद्धिश्राद्धत्वेन कर्म्माङ्गत्वेन च
यदुभयत्वमुक्तं तदुभयमेवात्राभ्युदयिकत्वेनोपपन्नं
तेनाभिलापे आभ्युदयिकश्राद्धमिति प्रयोज्यं । अत्र
यवैस्तिलार्थ इत्यनेन पार्ब्बणश्राद्धप्राप्ततिलस्थाने
यवविधानात् आभ्युदयिकस्यापि पार्ब्बणप्रकृतित्वं
प्रतीयते । अन्यथा तिलार्थ इत्युपादानं व्यर्थं
स्यात् । ततश्च पार्ब्बणप्रकृतिकत्वेन पित्र अयुग्म-
ब्राह्मणप्राप्तौ तन्निराशाय पितृपक्षे ब्राह्मणयुग्म-
त्वोपदेशः दैवे युग्मत्वस्य पार्ब्बणप्राप्तत्वान्नतदर्थो-
पदेशः ।
“अपसव्यं ततः कृत्वा पितॄणामप्रदक्षिणं” ।
इति याज्ञवल्क्यवचनेन देवकर्म्मानन्तरं पितृ-
कर्म्मकरणे प्राप्तवामोपचारनिराशाय प्रदक्षिण-
मुपचारः तेन देवपितृकर्म्मकरणाय दक्षिणावर्त्तेन
गन्तव्यं । द्विगुणभुग्नत्वनिराशाय ऋजवो दर्भा
इति ऋजुत्वोपदेशः । तृप्ताः स्थ इत्यनेन तृप्तिप्रश्ने
सम्पन्नमिति प्रष्टव्यं । योग्यत्वात् सुसम्पन्नमिति
प्रोक्ते इति वक्ष्यमाणछन्दोगपरिशिष्टवचनाच्च सु-
सम्पन्नमित्युत्तरं । एतद्दर्भमयब्राह्मणपक्षेप्यबाधि-
तत्वाद्वाच्यं । दधिवदराक्षतमिश्रा इत्यनेन दध्या-
दिमिश्रणमावश्यकं । अक्षतो यवः ।
“अक्षताश्च यवाः प्रोक्ता भृष्टा धाना भवन्ति ते” ।
इति भट्टनारायणधृतात् । अतएव वक्ष्यमाणछन्दो-
गपरिशिष्टवचने अक्षतमनुक्त्वा संयोज्य यवकर्क्क-
न्धुदधिभिरिति निःसन्दिग्धमुक्तं । स्वधावाचनप्रश्न-
निवृत्तये नान्दीमुखाः पितरः प्रीयन्तामित्युप-
देशः । तत्र स्वधां वाचयिष्ये इति पितृपक्षएव
प्रत्रः अतएव तन्निष्टत्तये दैव इति आदौ देवपक्षे
नान्दीमुखाः पितरः प्रीयन्तामिति प्रश्नः । उत्तरञ्च
प्रीयन्तामिति । ततः पितृपक्षे स्वधावाचनस्थानी-
यत्वेन वृद्धप्रमातामहेभ्यश्च इति चकारनिर्देशेन
च स्वधोच्यतामितिवत् प्रत्येकमेव प्रीयन्तामिति
पृच्छेत् प्रत्युत्तरञ्च अस्तु स्वधा इतिवत् तन्त्रेणैव
प्रीयन्तामिति । अत्र नान्दीमुखाः पितर इत्यादि
नान्दीमुखेभ्यः पितृभ्य इति निर्देशेन च नान्दी-
मुखं पितृगणमिति विष्णुपुराणेन च मातामहे-
भ्यश्च तथा नान्दीमुखेभ्य एव च इति व्रह्मपुराणेन
च नान्दीमुखपदश्रुतेस्तद्विशेषणविशिष्टस्यैवाभ्यु-
दयिके देवतात्वं ततश्चात्रापि प्रीयन्तामितिवन्ना-
न्दीमुखेभ्यः पितामहेभ्य इति वाच्यं । न तु नान्दी-
मुखविशेषणशून्यं पितामहेभ्यः प्रीयन्तामिति
पितृदयितोक्तं युक्तम् । नान्दीमुखेभ्यः पितृभ्य
प्रीयन्तामित्यत्रान्वितस्य नान्दीमुखेभ्य इत्यस्य
पितामहेभ्य इत्यादावनन्वयित्वेन प्रागुक्तयुक्त्या
प्राप्तस्य नान्दीमुखविशेषणस्य पितामहेभ्य इत्या-
दावपि प्राप्तेः । एतेनात्र मैथिलोक्तं तन्त्रता-
विधानमपि निरस्तं । पार्ब्बणवत् स्वधाः
प्राप्तेः तन्निराशाय न स्वधां प्रयुञ्जीतेति अत्र
विशेषादभिलापे मन्त्रे च स्वधापदनिवृत्तिः ।
अभिलापे नम इति ब्रूयात् । “अमुकामुकगोत्रै-
तत् तुभ्यमन्नं स्वधा नमः” । इति ब्रह्मपुराणे श्राद्धे
स्वधा नमः पदयोस्त्यागबोधकत्वेन विकल्पाद-
त्राभ्युदयिके स्वधानिषेधान्नम एवान्वेति । पितॄ-
नप्यत्र देववदित्यनेनापि पार्ब्बणोक्तविश्वदेव-
पक्षीयनम एव प्रतीयते न तु मैथिलोक्तं स्वाहेति ।
श्राद्धे तथा प्रयागे प्रमाणाभावात् । एवमाश्वला-
यनगृह्ये यवोसीति मन्त्रे तु पुष्ट्या इति श्रुतेर्मन्त्र-
मात्रे स्वधापदस्थाने पुष्टिपदप्रयोगः । इति श्राद्ध-
तत्त्वं । अन्यत् नान्दीमुखशब्दे द्रष्टव्यं ॥

आमं, त्रि, (आम्यते ईषत्पच्यते । आ + अम +

कर्म्मणि घञ् ।) पाकरहितं । काँचा इति भाषा ।
तत्पर्य्यायः । अपक्वं २ असिद्धं ३ असृतं ४ ।
इति रत्नमाला ॥
(“आमपक्वक्रमं हित्वा नातिसारे क्रिया यतः” ।
इति वैद्यकचक्रपाणिसंग्रहः ॥
“मज्जत्यामागुरुत्वाद्विट् पक्वातूत्प्लबते जले ।
विनातिद्रवसङ्घातशैत्यश्लेष्मप्रदूषणात् ॥
परीक्ष्यैवं पुरा सामं निरामं वा सदोषिणां ।
विधिनोपाचरेत्सम्यक् पाचनेनेतरेण वा” ॥
चिकित्सा यथा, --
“चित्रकं पिप्पलीमूलं द्वौ क्षारौ लवणानि च ।
व्योषं हिङ्खजमोदाञ्च चव्यञ्चैकत्र चूर्णयेत् ॥
गुडिका मातुलुङ्गस्य दाडिमस्य रसेन वा ।
कृता विपाचयन्त्यामन्दीपयन्त्याशु चाननं” ॥
इति चित्रकाद्यगुडिकाः । इति चरकः ॥)

आमं, क्ली, षट्प्रकाराजीर्णरोगमध्ये रोगविशेषः ।

तस्य कारणरूपे ।
“आमं विदग्धं विष्टब्धं कफपित्तानिलैस्त्रिभिः ।
अजीर्णं केचिदिच्छन्ति चतुर्थं रसशेषतः ॥
अजीर्णं पञ्चमं केचिन्निर्दोषं दिनपाकि च ।
वदन्ति षष्ठं चाजीर्णं प्राकृतं प्रतिवासरं ॥
तत्रामे गुरुतोत्क्लेदः शोथो गण्डाक्षिकूटगः ।
उद्गारश्च यथाभुक्तमविदग्धः प्रवर्त्तते” ॥
इति निदानं ॥ अन्यच्च ।
भुक्तमन्नावशेषं यत् रसं भूयस्त्वपाचितं ।
गतमामाशये यस्मात्तस्मादामं तदुच्यते ॥
अन्नमन्नरसं केचित् केचिच्च मलसञ्चयं ।
प्रथमां दोषटुष्टिञ्च आममित्यभिधीयते” ॥
अपक्वं । यथा, --
“शस्यं क्षेत्रगतं प्राहुः सतुषं धान्यमुच्यते ।
आमं वितुषमित्युक्तं स्विन्नमन्नमुदाहृतं” ॥
इति श्राद्धतत्त्वधृतवशिष्ठवचनं ॥ रोगविशेषः
तल्लक्षणादि अजीर्णशब्दे द्रष्टव्यं ॥
(“उष्मणोऽल्पबलत्वेन धातुमाद्यमपाचितं ।
दुष्टमामाशयगतं रसमामं प्रचक्षते ॥
आमेन तेन संपृक्ता दोषादूष्याश्च दूषिताः ।
सामाइत्युपदिश्यन्ते ये च रोगास्तदुद्भवाः ॥
स्रोतोरोधबलभ्रंशगौरवानिलमूढताः ।
आलस्यापक्तिनिष्ठीवमनोभेदारुचिक्लमाः ॥
लिङ्गं मलानां सामानां निरामाणां विपर्य्ययः” ।
इति चरकः ॥
“आमेऽजीर्ने तु बन्धश्चेत् क्षाराम्लं लघु शस्यते ।
पुष्पकासीशमिश्रं वा क्षीरेण लवणेन च ।
सदाडिमरसं सर्पिः पिबेद्वातेऽधिके सति” ॥
इति च चरकः ॥)

आमः, पुं, (अम + घञ् ।) रोगमात्रं । रोगभेदः । इति

मेदिनी ॥ मलवैषम्यरोगः । इति राजनिर्घण्टः ॥
(“पिबेत् स परिकर्त्तामे मले वा दाडिमाम्बुना ।
विडेन लवणं पिष्टं विल्वं चित्रकनागरं” ॥
इति चरकः ।)

आमगन्धि, क्ली, (आमस्यापक्वस्य गन्धैव गन्धो

यत्र ।) चिताधूमादिगन्धयुक्तं । अपक्वमांसादि-
गन्धविशिष्टं । तत्पर्य्यायः । विस्रं २ विश्रं ३ ।
इत्यमरः ॥

आमण्डः, पुं, (आमण्डयतीति । आ + मडि + पचा-

द्यच् ।) एरण्डवृक्षः । इति राजनिर्घण्टशब्दरत्ना-
वल्यौ ॥ (एरण्डशब्देऽस्य गुणादयो व्याख्येयाः ।)

आमनस्यं, क्ली, (अमनसो भावः । ब्राह्मणादित्वात्

ष्यञ् ।) पीडा । दुःखं । इत्यमरः ॥

आमन्त्रणं, क्ली, (आ + मन्त्र + भावे ल्युट् ।) सम्बो-

धनं । इति हेमचन्द्रः ॥ आप्रच्छनं । इति जटा-
धरः ॥ निमन्त्रणं । इति स्मृतिः ॥ निमन्त्रण-
विशेषः । यदकरणे प्रत्यवायो नास्ति । यथा “इह
शयीत भवान्” । इति मुग्धबोधव्याकरणं ॥

आमयं, क्ली, (आमं रोगं यात्यनेन । आम + या +

ड ।) कुष्ठनामौषधिः । इतिराजनिर्घण्टः ॥ कुड
इति भाषा ।

आमयः, पुं, (अम रोगे + भावे + घञ् । मीञ्

हिंसायां करणे अच् वा ।) रोगः । इत्यमरः ॥
(“तद्युक्तं विविधैर्योगैर्निहन्यादामयान् बहून्” ।
इति सुश्रुतः ॥
“तत्र व्याधिरामयो गद आतङ्को यक्ष्माञ्वरो
विकारो रोग इत्यनर्थान्तरं” । इति चरकः ॥)

आमयावी, [न्] त्रि, (आमयोऽस्त्यस्य आमयस्योप-

संख्यानं इति दीर्घश्चेति विनिः ।) रोगी । इत्यमरः ॥
पृष्ठ १/१८१

आमर्षः, पुं, (मृष + घञ् + नञ्समासः । अन्येषा-

मपीति दीर्घः ।) क्रोधः । इत्यमरटीकायां भरतः ॥
(“निरुद्योगं निरामर्षं निर्वीर्य्यमरिनन्दनं” ।
इति रामायणे ।)

आमलकं, क्ली, (आ + मल + क्वुन् शिल्पिसंज्ञयोः ।

आमलक्याः फलं । फलेलुगिति विकारावयवप्रत्य-
यस्य लुक् ॥) आमलकीविशेषः । काठ आमला-
इति भाषा । तत्पर्य्यायः । काष्ठधात्रीफलं २ क्षुद्रा-
मलकं ३ क्षुद्रजातीफलं ४ । अस्य गुणाः । कषा-
यत्वं । कटुत्वं । शीतत्वं । पित्तास्रदोषनाशित्वञ्च ।
इति राजनिर्घण्टः ॥
(“तद्वदामलकं शीतमम्लं पित्तकफापहं” ।
इति वाभटः ॥
“विद्यादामलके सर्व्वान् रसान् लवणवर्ज्जितान् ।
स्वेदमेदःकफोत्क्लेदपित्तरोगविनाशनं” ॥
इति चरकः ॥)

आमलकः, पुं, (आङ् + मल + क्कुन् ।) वासकवृक्षः ।

इति शब्दचन्द्रिका ॥ (यथा मार्कण्डेयपुराणे ।
“भल्लातकानामलकांस्तिन्दुकांश्च महाफलान्” ।)

आमलकी, स्त्री, (आङ् + मल + क्कन् + जातेरिति

ङीष् ।) स्वनामख्यातफलवृक्षविशेषः । आमला
इति भाषा । तत्पर्य्यायः । तिष्यफला २ अमृता ३
वयस्था ४ वयःस्था ५ कायस्था ६ । इत्यमरस्त-
ट्टीका च ॥ श्रीफला ७ धात्रिका ८ शिवा ९
शान्ता १० धात्री ११ अमृतफला १२ वृष्या १३
वृत्तफला १४ रोचनी १५ । इति राजनिर्घण्टः ॥
कर्षफला १६ तिष्या १७ इति रत्नमाला ॥
अस्या गुणाः । हरीतकीगुणवद्गुणत्वं । विशे-
षेण शुक्रकारित्वं । शीतवीर्य्यत्वं । अम्लत्वात् वायु-
नाशित्वं । शैत्यमाधुर्य्यात् पित्तनाशित्वं । कषाय-
रूक्षत्वात् कफनाशित्वं । सर्व्वफलाधिकगुणत्वं ।
भोजनाद्यमध्यान्ते प्राशस्त्यं । निरत्ययत्वं । दोष-
हरत्वञ्च ॥ अस्य मज्जगुणाः । तृष्णाच्छर्दिकफ-
वायुनाशित्वं । लघुत्वं । कषायत्वं । बलकारित्वञ्च ।
इति राजवल्लभः ॥ अपि च । लघुत्वं । दाहवमि-
मेहशोषनाशित्वं । रसायनत्वं । कटुत्वं । रुचि-
करत्वं । रक्तदोषनाशित्वं । श्रमविबन्धाध्मान-
विष्टम्भदोषप्रशमनकारित्वञ्च । अस्य मज्जनो
विभीतकमज्जवद्गुणत्वञ्च । इति राजनिर्घण्टः ॥
(अस्या नामानि गुणाश्च ।
“त्रिष्वामलकमाख्यातं धात्री तिष्यफलामृता ।
हरीतकीसमञ्जात्रीफलं किन्तु विशेषतः ॥
रक्तपित्तप्रमेहघ्नं परं वृष्यं रसायनम् ।
हन्ति वातं तदम्लत्वात् पित्तं माधुर्य्यशैत्यतः ॥
कफं रूक्षकषायत्वात् फलं धात्र्यास्त्रिदोषजित् ।
यस्य यस्य फलस्येह वीर्य्यं भवति यादृशं ॥
तस्य तस्यैव वीर्य्येण मज्जानमपि निर्द्दिशेत्” ।
इति भावप्रकाशः ॥
“तान् गुणांस्तानि कर्म्माणि विद्यादामलकीष्वपि ।
यान्युक्तानि हरीतक्यां वीर्य्यस्य तु विपर्य्ययः” ।
इति धरकः ॥)
तच्छुष्कफलगुणाः । कफपित्तनाशित्वं । अम्लत्वं ।
स्वादुद्रव्यद्वारा पाके पित्तनाशित्वञ्च । इति राज-
वल्लभः ॥ तस्या उत्पत्तिर्यथा । सख्यावूचतुः ।
“उक्तस्त्वया महेशानि तुलसीविल्वसम्भवः ।
अनयोस्तुल्य एकः कः शिवविष्णुप्रियस्तरुः ॥
तदावां श्रोतुमिच्छावः शिवसुन्दरि कथ्यतां” ।
देव्युवाच ।
“अस्ति विल्वतुलसीतरुतुल्यः
पुण्य एक उत विष्णुशिवार्हः ।
नामतोऽमलक इत्यपि सख्यौ
रोपितः कमलयाथ मयापि ॥
कदाचित् देवयात्रायां प्रभासे पुण्यतीर्थके ।
सर्व्वे देवाः समायाता दिने पुण्ये च कुत्रचित् ॥
तत्राहञ्च स्वयं लक्ष्मीरेकस्थाने समागते ।
तत्रावयोर्मतिर्जाता शिवविष्णुप्रपूजने ॥
अहं श्रियमवोचञ्च सामुद्रि शृणु मे मतिं ।
स्वकल्पितेन द्रव्येण पूजयेऽहं हरिं प्रभुं ॥
मामुवाच ततो लक्ष्मीर्गद्गदाक्षरभाषिणी ॥
ममाप्येवं मतिर्जाता त्वमवोचः स्वयं यथा ।
स्वकल्पितेन द्रव्येण पूजयेऽहं त्रिलोचनं” ॥
देव्युवाच ।
“सजये विजये देवि ! नावेवम्भूतयोस्तदा ।
नयनेषु सुजातानि अमलाश्रुजलानि च ॥
तानि नौ नयनेभ्यश्च निपेतुर्मुवि हे सखि ! ।
ततो जाता द्रुमाः पृथ्व्यां चत्वारो विमलप्रभाः ॥
ख्याता आमलकी नाम्ना जाता कादमलाद्यतः ।
श्यामलच्छदवृन्दास्ते कर्व्वूरस्कन्धमूलकाः ॥
शिराग्रथितपत्राली पत्रमालाकपत्रका ।
विल्वस्य च तुलस्याश्च ये गुणाः कथिताः सखि ॥
ते ते गुणाः सर्व्वएव आमलक्यां समाहिताः ।
पत्रमालादलैरस्याः शिवविष्णु सुरेश्वरौ ॥
सर्व्वथा पूजितौ स्यातां सख्यौ नास्त्यत्र संशयः ।
माघे मासि सितायां तामेकादश्यां समुद्भवां ॥
शुभामामलकीं दृष्ट्वा समेताः सर्व्वदेवताः ।
ऋषयस्ते सशिष्याश्च हर्षमापुः परं तदा ॥
शिवाच्युबस्वरूपाञ्च ददृशुस्तुष्टुवुस्तदा” ॥ * ॥
अस्या नमस्कारमन्त्रादिः ।
“नमाम्यामलकीं देवीं पत्रमालाद्यलङ्कृतां ।
शिवविष्णुप्रियां दिव्यां श्रीमतीं सुन्दरप्रभां ॥
एतेन खलु मन्त्रेण सर्व्वा अस्याः क्रिया मताः ।
एतामुद्दिश्य तीर्थानि त्रीण्युक्तानि मनीषिभिः ॥
विल्ववृक्षवदेवेह पृथिव्यां कर्म्मणां स्थले ।
सिषित्तुस्तामामलकीं सर्व्वतीर्थजलैर्द्विजाः ॥
अथ सर्व्वसुराणाञ्च मुनीनाञ्च तदाग्रतः ।
मया संपूजितः कृष्णः श्रीश्च शम्भुमपूजयत् ॥
तदा जयजयध्वानो बभूव क्षितिमण्डले ।
आकाशे पुष्पवृष्टिश्च शङ्खशब्दाश्च पुष्कलाः ॥
दृष्ट्वा ह्यामलकी देवी दधारानन्दमुत्तमं ।
तेन धात्रीति नाम्नापि राजत्यामलकी शुभा ॥
नमस्कृत्य ह्यामलकीं गता देवा द्विजास्तथा ।
ब्रह्मविष्णुशिवाश्चापि तत्राधिष्ठानमास्थिताः ॥
जाता ह्यामलकी देवी परमानन्ददायिनी ।
मान्या स्थाप्या च पूज्या च प्रणन्तव्या सखोत्वियं” ॥
इति वृहद्धर्म्मपुराणे आमलकीप्रादुर्भावः १२
अध्यायः ॥ * ॥ एकादश्यां तत्र विष्णुप्रीतिर्यथा ।
“तुष्यत्यामलकैर्विष्णुरेकादश्यां विशेषतः ।
श्रीकामः सर्व्वदा स्रानं कुर्व्वीतामलकैर्न्नरः” ॥
इति गारुडे २१५ अध्वायः ॥

आमवातः, पुं, (आमोऽपाकहेतुः वातः ।) स्वनामख्यात-

रोगविशेषः । तस्य निदानपूर्ब्बिकां संप्राप्तिमाह ।
“विरुद्धाहारचेष्टस्य मन्दाग्नेर्निश्चलस्य च ।
स्निग्धं भुक्तवतो ह्यन्नं व्यायामं कुर्व्वतस्तथा ॥
वायुना प्रेरितो ह्यामः श्लेष्मस्थानं प्रधावति ।
तेनात्यर्थमपक्वोऽसौ धमनीभिः प्रपद्यते ॥
वातपित्तकफैर्भूयो दूषितः सोऽन्नजो रसः ।
स्रोतांस्यभिष्यन्दयति नानावर्णोऽतिपिच्छिलः ॥
जनयत्यग्निदौर्ब्बल्यं हृदयस्य च गौरवं ।
व्याधीनामाश्रयो ह्येष आमसंज्ञोऽतिदारुणः ॥
विरुद्धाहारचेष्टस्य विरुद्धाहारः क्षीरमत्स्यादि ।
विरुद्धा चेष्टा मुक्त्वा व्यायामादि । तद्युक्तस्य ।
निश्चलस्य निर्व्व्यापारस्य । “स्निग्धं भुक्तवतो ह्यन्नं
व्यायामं कुर्व्वतः” इति मिलितो हेतुः । श्लेष्म-
स्थानं आमाशयसन्ध्यादि । तेन श्लेष्मस्थानगतेन
अत्यर्थं अपक्वः । पित्तस्थानगमने तु पक्वोऽभ-
विष्यदित्यभिप्रायः । असौ आमः धमनीभिः
प्रपद्यते धमनोमार्गैश्चलति । भूयो दूषितः अति-
शयेन दूषितः । सोऽन्नजो रसः । आमः स्रो-
तांसि अभिष्यन्दयति संस्तभ्य रसवहशिराव-
रोधं कृत्वा स्रोतांसि गुरूणि करोति । नानावर्णः
वातादिजनितवर्णभेदान्नानावर्णः ॥ * ॥ आमस्य
लक्षणमाह ।
“अजीर्णात् यो रसो जातः सञ्चितो हि क्रमेण तै ।
आमसंज्ञां स लभते शिरोगात्ररुजाकरः” ॥
अजीर्णात् भुक्तादजीर्णात् ॥ * ॥ आमवातस्य सा-
मान्यलक्षणमाह ।
“युगपत् कुपितावेतौ त्रिकसन्धिप्रवेशकौ ।
स्तब्धञ्च कुरुते गात्रमामवातः स उच्यते” ॥
एतौ वातकफौ । त्रिकसन्धिप्रवेशकौ वेदनयेति
बोद्धव्यौ ॥ * ॥ तन्त्रान्तरे तस्य लक्षणान्तरमाह ।
“अङ्गमर्दोऽरुचिस्तृष्णास्यालस्यं गौरवं ज्वरः ।
अपाकः शूलताङ्गानां आमवातस्य लक्षणम्” ॥ * ॥
अस्यैवातिवृद्धस्य लक्षणमाह ।
“स कष्टः सर्व्वरोगाणां यदा प्रकुपितो भवेत् ।
हस्तपादशिरोगुल्फत्रिकजानूरुसन्धिषु ॥
करोति सरुजं शोथं यत्र दोषः प्रपद्यते ।
स देशो रुज्यतेऽत्यर्थं व्याबिद्ध इव वृश्चिकैः ॥
जनयेत् सोऽग्निदौर्ब्बल्यं प्रसेकारुचिगौरवम् ।
उत्साहहानिं वैरस्यं दाहञ्च बहुमूत्रतां ॥
कुक्षौ कठिनतां शूलं तथा निद्राविपर्य्ययं ।
तृट्छदिश्रममूर्च्छाश्च हृद्ग्रहं विडविबद्धतां ॥
जाड्यान्त्रकूजमानाहं कष्टांश्चान्यानुपद्रवान्” ।
यदा प्रकुपितो भवेत् प्रकर्षेण कुपितः स्यात्तदा
वक्ष्यमाणानुपद्रवान् करोति । तानाह हस्तेत्यादि ।
यत्र दोषः दुष्ट आमः प्रद्यते गच्छति । जाड्यं
अकर्म्मण्यत्यं । अन्यानुपद्रवान् कलायखञ्जत्वादीन्
पृष्ठ १/१८२
:॥ * ॥ तस्यैव विशिष्टानि लक्षणान्याह ।
“पित्ताद्दाहं सरागञ्च सशूलं पवनात्मकं ।
स्तिमितं गुरुकण्डूकं कफजुष्टं तमादिशेत्” ॥
गुरुकण्डूकं बहुकण्डूकम् ॥ * ॥ तस्यासाध्यत्वादि-
कमाह ।
“एकदोषानुगः साध्यो द्विदोषो याप्य उच्यते ।
सर्व्वदेहचरः शोथः सकष्टः सान्निपतिकः” ॥ * ॥
अथ आमवातस्य चिचित्सा ।
“लङ्घनं स्वेदनं तिक्तं दीपनानि कटूनि च ।
रेचनं स्रेहनमपि वस्तयश्चाममारुते ॥
रूक्षस्वेदो विधातव्यो वालुकापुटकैरिह ।
उपनाहाश्च कर्त्तव्यास्तेऽपि स्नेहविवर्जिता ॥ * ॥
वास्तूकमत्र वृन्ताकं पटोलं कारवेल्लकं ।
कोरदूषा यवाः पथ्याः षष्टिकाः शालयोऽनवाः” ॥
अनवाः पुराणाः ।
“लावकानां तथा मांसं हितं तक्रेण संस्कृतं ।
हितश्च यूषः कौलत्थः कलायश्चणक्स्य च” ॥ * ॥
“चित्रकं कटुका पथ्या नागरातिविषामृताः ।
चूर्णिताः कोष्णतोयेन पिबेदामानिलापहाः । १ ।
शटी शुण्ठी शिवासोग्रा देवाह्वातिविषामृताः ।
क्वथिताः प्रपिवेदामवाती रूक्षञ्च भोजयेत् ॥
देवाह्वा देवदारु । २ ।
आमवातगजेन्द्रस्य शरीरवनचारिणः ।
एकएव निहन्तायमेरण्डस्नेहकेशरी । ३ ।
एरण्डस्नेहयुक्तां हरीतकीं भक्षयेद्विधिवत् ।
आमानिलार्त्तियुक्तो युक्तो वृद्ध्या च गृध्रस्या । ४ ।
श्वेतं पुनर्नवामूलं तेन तैलं प्रसाधयेत् ।
आमवातरुजं हन्ति पादाभ्यञ्जनमर्द्दनात् । ५ ।
आरग्वधस्य पत्राणि भृष्टानि कटुतैलतः ।
आमवातप्रशान्त्यर्थं खादेद्भक्तावृतानि च । ६ ।
शुण्ठीगोक्षुरकक्वाथः प्रातः प्रातर्निषेवितः ।
आमवाते कटीशूले पाचनं रुक्प्रणाशनं । ७ ।
कटीशूले पिबेत्तैलं एरण्डफलसम्भवं ।
महौषधगुडच्योश्च क्वाथं मागधिकायुतं ॥
विशोध्यैरण्डवीजानि पिष्ट्वा क्षीरे विपाचयेत् ।
तत्पायसं कटीशूले गृध्रस्यां परमौषधं । ८ ।
रास्ना वातारिमूलञ्च वासकः सदुरालभः ।
शटीदारुबलामुस्तनागरातिविषाभयाः ॥
श्वदंष्ट्राव्याधिघातश्च मिषिधान्यं पुनर्णवा ।
अश्वगन्धामृता कृष्णा वृद्धदारः शतावरी ॥
वचा सहचरश्चैव चविका वृहतीद्वयं ।
समभागानि सर्व्वाणि रास्नात्र त्रिगुणा मता ॥
पिबेत् कषायमेतेषामष्टभागावशेषितं ।
क्षिप्त्वा नागरचूर्णञ्च प्रक्षेपोऽत्र यथामलं ॥
सर्व्वेषु वातरोगेषु सामेषु तु विशेषतः ।
पक्षाघातेऽर्दिते कम्पे कुब्जे सन्धिगतेऽनिले ॥
जानुजङ्घास्थिपीडासु गृध्रस्याञ्च हनुग्रहे ।
उरुस्तम्भे वातरक्ते विसूच्यां क्रोष्टुशीर्षके ॥
हृदामये च दुर्नाम्नि योनिशुक्रामयेषु च ।
पुंसां मेढ्रगते वाते स्त्रीणां बन्ध्यामये तथा ॥
योषितां गर्भदं मुख्यं नास्त्यस्मात् परमौषधं ।
महारास्नादिकः क्वाथो वेधसायं विनिर्म्मितः” ।
महारास्नादिक्वथः । ९ । “अजमोदामरिच-
पिप्पलीविडङ्गसुरदारुचित्रकशताह्वाः । सैन्धव-
मागधिमूलं भागा नवकस्य पलिकाः स्युः ॥ शुण्ठी
दशपलिका स्यात् पलानि तावन्ति वृद्धदारस्य ।
अभया पलानि पञ्च श्लक्ष्णं चूर्णं विधापयेदेषां ॥
समगुडवटकानदतश्चूर्णं वा कोष्णवारिणा पिबतः ।
नश्यन्त्यामानिलजाः सर्व्वे रोगाः सुदारुणाः शीघ्रं ॥
आनाहशूलतूनी प्रतितूनी गृध्रसी गुल्मः । कटि-
पृष्ठपरिष्फुटनं स्फुटनं चैवास्थिजङ्घयोस्तीव्रं ॥
श्वयथुस्तथाङ्गसन्धिषु ये चान्येऽप्यामवातजा रोगाः
सर्व्वे प्रयान्ति शान्तिं तमैव सूर्य्यांशुविध्वस्तं ॥
अजमोदादिचूर्णमोदकः । १० ।
“आमवाते हितोऽतीव पथ्यादिर्गुग्गुलुर्मतः” ।
तथैव योगराजाख्यश्चरकादिचिकित्सकैः । ११ ।
नागरस्य पलान्यष्टौ घृतस्य कुडवं तथा ।
क्षीराढकसमायुक्तं खण्डस्यार्द्धशतं पलं ॥
व्योषत्रिजातकद्रव्यात् प्रत्येकञ्च पलं पलं ।
निःक्षिपेच्चूर्णितं तत्र खादेदग्निबलं यथा ॥
आमवातप्रशमनं धातुपुष्टिकरं परं ।
बल्यमायुष्यमोजस्यं बलीपलितनाशनं” ॥
शुण्ठीखण्डः । १२ ।
“मेथिकायाः पलान्यष्टौ शुण्ठ्या अष्ट पलानि च ।
तयोश्चूर्णं पटे पूतं दुग्धे मृद्वग्निना पचेत् ॥
दुग्धाढकयुगे गव्यं घृतमष्टपलं क्षिपेत् ।
तत्तावत्सुपचेत् यावत् भवेदतिघनं पयः ॥
पुनः पचेत् शनैस्तत्र दत्त्वाढकमितां सितां ।
ततः प्राके सुविज्ञाते ज्वलनादवतारयेत् ॥
मरिचं पिप्पली शुण्ठी कणामूलं सचित्रकं ।
यवानी जीरको धान्यं कारवी शतपुष्पिका ॥
जातीफलं शटीत्वक् च पत्रकं भद्रमुस्तकं ।
गृह्णीयात् पलमेतेषां सर्व्वेषाञ्च पृथक् पृथक् ॥
षडक्षं नागरं तत्र मरिचं च षडक्षकं ।
एषां चूर्णं परिक्षिप्य सर्व्वं संमिश्र्य रक्षयेत् ॥
एतत्तु भेषजं प्रोक्तं मेथिकापाकसंज्ञकं ।
भक्षयेत् पलमात्रं तत् यथा चाग्निबलं तथा ॥
आमवातं निहन्त्येतत् सर्व्वांश्च पवनामयान् ।
ज्वरांश्च विषमान् हन्ति पाण्डुरोगं सकामलं ॥
हन्त्युन्मादमपस्मारं प्रमेहान् वातशोणितं ।
अम्लपित्तं शीतपित्तं शिरःपीडां दृगामयं ॥
पदरं सूतिकारोगं हन्यादेतन्न संशयः ।
वपुषः पुष्टिकृद्बल्यं वीर्य्यवृद्धिकरं परं” ॥
मेथिकापाकः । १३ ।
“रसो रसोनस्य पिचुप्रमाणः
क्षिपेच्च तत्राक्षमितं घृतं गोः ।
पिबेटुभे तेन दहत्यवश्यं
शिखीव तूलं हि महामवातं” ॥
सामान्यवातव्याधिचिकित्सायां हि लिखितं रसी-
नाष्टकमामवाते अतिगुणदं । १४ ।
“सैन्धवं श्रेयसी रास्ना शतपुष्पा यवानिका ।
स्वर्जिका मरिचं कुष्ठं शुण्ठी सौवर्च्चलं विडं ॥
वचाजमोदा जरणः पौष्करं मधुरं कणा ।
एतान्यर्द्धपलांशानि सूक्ष्मकल्कानि कारयेत् ॥
प्रस्थमेरण्डतेलस्य प्रस्थोऽम्बु शतपुष्पजं ।
काञ्जिकं द्विगुणं दत्त्वा मस्तु च द्विगुणं तथा ॥
एतत् संभृत्य संभारं शनैर्मृद्वग्निना पचेत् ।
सिद्धमेतत् प्रयोक्तव्यमामवातहरं परं ॥
पाने चाम्भञ्जने वस्तौ कुरुतेऽग्निबलं भृशं ।
वातार्त्ते वंक्षणे शूले कटीजानूरुसन्धिजे ॥
तथा हृत्पार्श्वजे शूले शस्तं श्लेष्मणि पीडिते ।
अन्यांश्चानिलजान् रोगान् नाशयत्याशु देहिनां”
वृहत्सैन्धवाद्यं तैलं । १५ ।
“दधिमत्स्यगुडक्षीरपोतकीमाषपिष्टकं ।
वर्जयेदामवातार्त्तो गुडमांसमनूपजं” ॥
इत्यामवाताधिकारः । इति भावप्रकाशः ॥
(आत्रेयौवाच ।
“लक्षणं शृणु पुत्त्र ! त्वं समासेन वदाम्यहं ।
गुर्व्वन्नाहारपुष्टेन मन्दाग्नेश्च व्यवायिनः ॥
तर्पितैः कन्दशाकैस्तु आमोवायुसमीरितः ।
श्लेष्मस्थाने प्रपच्यैव जायते बहुवेदनः ॥
आमातिसारो वर्त्तेत सन्धौ शोफः प्रजायते ।
जडत्वञ्चैव गात्राणां बलासपतनं मुखे ॥
पृष्ठमन्यात्रिकेजातवेदनार्त्तोऽपि सीदति ।
अङ्गं वैकल्यमायाति आमवाते भिषग्वर” ! ॥
चिकित्सा यथा ॥ * ॥
“तस्य नो स्नेहनं कार्य्यं पाचनञ्च विधीयते ।
आमं संक्षयते प्राज्ञैः चतुर्धा भेदलक्षणैः” ॥
विष्टम्भ्यामलक्षणं यथा ॥ * ॥
“विष्टम्भी गुल्मकृन्मेही आमः पक्वाम एव च ।
सर्व्वाङ्गगो भवेच्चान्यो वक्ष्ये तस्यापि लक्षणं ॥
विष्टम्भो गुरु चाध्मानं वस्तिशूलञ्च जायते ।
तस्यापि पाचनं कार्य्यं स्नेहनञ्चैव कारयेत्” ॥
गुल्मशङ्क्यामलक्षणं यथा ॥ * ॥
“जठरं गर्ज्जते यस्य गुल्मवत् परिपीड्यते ।
कटीदेशे जडत्वञ्च आमगुल्माभिशङ्कितः ॥
तस्यादौ लङ्घनानि स्युर्ज्ञात्वा देहबलाबलं ।
पाचनं नैव कर्त्तव्यं गुल्मपाके विमूर्च्छति ॥
पाचिते चापि गुल्मामे तदाशु मरणं ध्रुवम्” ।
स्नेह्यामलक्षणं यथा ॥ * ॥
“यस्य च स्निग्धता गात्रे जाड्यं मन्दाग्निको वली ।
स्नेहामो विजलो यस्य स्नेहीवामः प्रकीर्त्तितः ॥
तस्य नो स्नेहनं कार्य्यञ्चोपवासञ्च कारयेत् ।
पाचनञ्चैव कर्त्तव्यमामञ्चैवातिसारयेत्” ।
आमस्य लक्षणं यथा ॥ * ॥
“यस्य शोफाननं जाड्यं तथा चैव घनोदरं ।
अरुच्यामातिसारश्च सचासाध्यो विजानता ॥
प्रत्याख्येया क्रिया कार्य्या जीवितस्यापि संशये ।
पाचनं पाचितं ज्ञात्वा तस्माच्चूर्णानि दापयेत्” ।
चिकित्सा यथा ॥ * ॥
“आमवाते कणायुक्तं दशमूलीजलं पिबेत् ।
गुडूची नागरं पथ्या चूर्णमेतद्गुडान्वितं ॥
धान्यनागरराजाम्लदेवदारुवचाभयाः ।
पाचनञ्चामवाते च श्रेष्ठमेतत्सुखावहं” ॥)

आमातीसारः, पुं, (आमरोगेण कृतः अतीसारः ।)

षट्प्रकारातीसारमध्यें रोगविशेषः । तस्य
पृष्ठ १/१८३
:संप्राप्तिरूपे ।
अन्नाजीर्णात् प्रद्रताः क्षोभयन्तः
कोष्ठं दोषा धातुसंधान् मलांश्च ।
नानावर्णं नैकशः सारयन्ति
शूलोपेतं षष्ठमेनं वदन्ति ॥
संसृष्टमेभिर्दोषैस्तु न्यस्तमप्स्ववसीदति ।
पुरीषं भृशदुर्गन्धि पिच्छिलं चामसंज्ञितं” ॥
इति निदानं ॥
(चिकित्सा यथा, --
“न तु संग्रहणं दद्यात् पूर्ब्बमामातीसारिणे ।
दोषाह्यादौ रुध्यमाना जनयन्त्यामयान् बहून् ॥
शोथपाण्ड्वामयप्लीहकुष्ठगुल्मोदरज्वरान् ।
दण्डकालसकाध्मानग्रहण्यर्शोगदांस्तथा ॥
क्षीणधातुबलार्त्तस्य बहुदोषोऽति निस्रुतः ।
आमोऽपि स्तम्भनीयः स्यात् पाचनान्मरणं भवेत्”
इति वैद्यचक्रपाणिसंग्रहः ॥ * ॥
“अभया मस्तुना पिष्टा मधुशर्करयान्विता ।
आमातीसारं शमयेद् गुडामलकमेव च ॥
वत्सकं जीरके द्वे च दध्ना पिष्टन्तु दापयेत् ।
आमातिसारशमनं वस्तिशूलं नियच्छति” ॥
इति हारीतः ॥ * ॥ “तस्य रूपाणि विज्जल-
मामविप्लुतमवसादितं । रूक्षं द्रवं सशब्दमशब्दं
वा विबद्धमूत्रवातमतिसार्य्यते पुरीषं वायुश्चान्तः-
कोष्ठस्य सशब्दशूलः तिर्य्यक् चरति विबद्ध इत्या-
मातिसारः” ।
“आमे परिणते यस्तु विबद्धमतिसार्य्यते ।
सशूलपिच्छमल्पाल्पं बहुशः सप्रवाहिकं ॥
तं मूलकानां यूषेण वदराणामथापि वा ।
उपोदकायाः क्षोरिण्या यवाण्या वास्तुकस्य वा ॥
सुवर्च्चलायाश्चञ्चोर्व्वा शाकेनावल्गुजस्य वा ।
शठ्याः कर्कारुकाणां वा जीवन्त्याश्चिर्भटस्य वा ॥
लोणीकायाः सपाठाया शुष्कशाकेन वा पुनः ।
दधिदाडिमसिद्धेन बहुस्नेहेन भोजयेत्” ॥
इति चरकः ॥)

आमात्यः, त्रि, (अमात्य एव स्वार्थे अण् ।) अमात्यः ।

मन्त्री । इति द्विरूपकोषः ॥ बलाध्यक्षः ।

आमानस्यं, क्ली, (न प्रशस्तं मानसं यस्य सः अमा-

नसस्तस्य भावः । अमानस + ष्यञ् ।) आमनस्यं ।
पीडा । दुःखं । इति शब्दरत्नावली ॥

आमान्नं, क्ली, (आमञ्च तत् अन्नञ्चेति कर्मधारयः ।)

अपक्वान्नं । काँचाचाउल इति भाषा । तद्दानमन्त्रो
यथा, --
“आमान्नं ते प्रयच्छामि फलताम्बूलसंयुतं ।
सघृतं परमं दिव्यं मया भक्त्या निवेदितं” ॥
इति वृहन्नन्दिकेश्वरपुराणोक्तदुर्गोत्सवपद्धतिः ॥ * ॥
बलात् चाण्डालादिस्वामिकापक्वान्नभोजनप्राय-
श्चित्तं यथा । चाण्डालान्नं भुक्त्वा त्रिरात्रमुपवसेत्
सिद्धं भुक्त्वा पराकः । इति बलाद्भोजनविषयं ।
इति प्रायश्चित्तविवेकः ॥ त्रिरात्रमामान्नविषयं ।
परत्र सिद्धमित्युक्तेः । पराकमाह मनुः ।
“यतात्मनोऽप्रमत्तस्य द्वादशाहमभोजनं ।
पराको नाम कृच्छ्रोऽयं सर्व्वपापापनोदनः” ॥
“तेनात्रामान्ने सिद्धान्नप्रायश्चित्ततुरीयभागविधा-
नादज्ञानादावपि तत्तुरीयकल्पना इति” । इति
प्रायश्चित्ततत्त्वं ॥ * ॥ आमान्नद्वारा कर्त्तव्यश्राद्धानि ।
यथा, --
“आपद्यनग्नौ तीर्थे च चन्द्रसूर्य्यग्रहे तथा ।
आमश्राद्धं द्विजैः कार्य्यं शूद्रेण तु सदैव हि” ॥
इति श्राद्धतत्त्वधृतप्रचेतोवचनं ॥ अपि च ।
योगिनीतन्त्रे ।
“निरग्नेरामश्राद्धे तु अन्नं न क्षालयेत् क्वचित् ।
वृद्धौ च क्षालयेदन्नं संक्रमे ग्रहणेषु च” ॥
इति तिथ्यादितत्त्वम् ॥ * ॥

आमाशयः, पुं, (आमस्य आशयः षष्ठीतत्पुरुषः ।)

अपक्वस्थानं । तत्तु नाभिस्तनयोर्म्मध्यभागः । इति
शब्दचन्द्रिका ॥ (यथा महाभारते, --
“पक्वाशयस्त्वधोनाभ्यामूर्द्ध्वमामाशयः स्थितः” ।
यथा च सुश्रुते, --
“पक्वामाशययोर्मध्ये शिराप्रभवा नाभिर्नाम” ॥ * ॥
“नाभिस्तनान्तरं जन्तोराहुरामाशयंबुधाः” ।
“आमाशयस्तु तदधः” इति भावप्रकाशः ॥
“तत्रामाशयः पित्ताशयस्योपरिष्टात् तत्प्रत्यनी-
कत्वादूर्द्ध्वगतित्वात्तेजसश्चन्द्र इवादित्यस्य स चतु-
र्व्विधस्याहारस्याधारः” । “आमाशयः श्लेष्मणः” ।
इति सुश्रुतः ॥)

आमिक्षा, स्त्री, (आमिष्यते मिषु सेचने बाहुलकात्

सक् ।) शृतोष्णदुग्धे दधियोगसम्भवा या । क्षीरसा
इति ख्याता । छाना इति केचित् । इत्यमरः ॥
तत्पर्य्यायः । दधिकूर्च्चिका २ पयस्या ३ क्षीर-
सन्तालिका ४ । इति राजवल्लभादयः ॥
(“ग्राहिणी वातला रूक्षा दुर्ज्जरा तक्रकूर्च्चिका” ।
इति सुश्रुतः अत्र हि तक्रकुर्च्चिका शब्देनामि-
क्षोच्यते इति पर्य्यायान्तरदृष्टत्वात् ॥)

आमिषं, क्ली, पुं, (आमिष्यते भुज्यते मिष् श्लेषणे

घञ् संज्ञापूर्ब्बकत्वान्न गुणः ।) मांसं । इत्यमरः ॥
भोग्यवस्तु । संभोगः । उत्कोचः । इति मेदिनी ॥
सुन्दराकाररूपादि । लोभसञ्चयः । इति हेम-
चन्द्रः ॥ लाभः । काभगुणः । रूपं । भोजनं ।
इति हारावलो ॥

आमिषप्रियः, पुं, (आमिषं प्रियं यस्य सः ।)

कङ्कपक्षी । इति राजनिर्घण्टः ॥ मांसाभि-
लाषिणि त्रि ॥

आमिषाशी, न्, त्रि, (आमिषं अश्नाति आमिष +

अश् + णिनि ।) मत्स्यमांसभोजनशीलः । तत्प-
र्य्यायः । शौष्कलः २ । इत्यमरः ॥

आमिषी, स्त्री, (आमिषवदाकारोऽस्त्यस्या जटाया-

मिति अर्शआदित्वादच् गौरादीत्वात् ङीष् च ।)
मिषी । जटामांसी । इति केचित् । इत्यमर-
टीकायां भरतः ॥

आमीक्षा, स्त्री, (आमिष्यते, मिषु सेचने बाहु-

लकात् सक् ।) आमिक्षा । आवर्त्तिते तप्ते क्षीरे
दधियोगात् या वटिकाकारा विकृतिर्जायते सा ।
इति पुरुषोत्तमः ॥

आमुक्तः, त्रि, (आङ् + मुच् + क्तः ।) पिनद्धः । परि-

हितवस्त्रादिः । इत्यमरः ॥ परिहितकवचव्यक्तिः ॥

आमुपः, पुं, (आम + वप् + क ।) कण्टकयुक्तवंश-

विशेषः । इति शब्दचन्द्रिका ॥ वेउडवाँश ।
इति ख्यातः ।

आमुष्यायणः, त्रि, (अमुष्य अपत्यम् + फक् । अलुक् ।)

ख्यातवंशोद्भवः । सत्कुलजातः । इति त्रिकाण्डशेषः ॥

आमूलं, क्ली, (मूलपर्य्यन्तं आमूलं । अव्ययीभावः ।)

मूलपर्य्यन्तं ॥ (प्रारम्भावधि । यथा, शाकुन्तले ।)
“आमूलशुद्धसन्तति कुलमेतत् पौरवं प्रजाबन्ध्ये” ।)

आमोदः, पुं, (आङ् + मुद् + घञ् ।) अतिदूरगामि-

गन्धः । इत्यमरः ॥ गन्धः । हर्षः । इति मेदिनी ॥
सुमहद्गन्धः । इति शब्दरत्नावली ।
(यथा रघुवंशे । १ । ४३ ।
“आमोदभुपजिघ्रन्तौ स्वनिःश्वासानुकारिणम्” ।)

आमोदनं, क्ली, (आङ् + मुद् + ल्युट् ।) आमोद-

करणं । हर्षणं ॥ प्रीणनं । आनन्दनं ।

आमोदितः, त्रि, (आ + मुद् + णिच् + क्त । यद्वा

आमोदः सञ्जातोऽस्य तारकादित्वादितच् ।) आ-
नन्दितः । सुगन्धितः । सद्गन्धयुक्तः । यथा, --
“पारिजातप्रसूनोत्थगन्धामोदितदिङ्मुखे” ।
इति शिवरात्रिव्रतकथा ॥ आनन्दितः । आमोद-
शब्दादितप्रत्ययेन निष्पन्नः ॥

आमोदी, [न्] त्रि, (आमोद + णिनि ।) मुखवासनः ।

इत्यमरः ॥ कर्पूरादिवटिकाकृतमुखगन्धः । इति
सारसुन्दरी ॥ मुखवासनवटिकादिः । आमोद-
युक्तः कर्पूरादिरामोदी । इति भरतः ॥ नानाद्रव्य-
रचित एकैकश एव वा कर्पूरादिभिर्मुखोपयोग्य-
मुखवासनवटिकादिः । इति सर्व्वस्वं । गन्धयुक्तः ।
हर्षविशिष्टः ॥ (यथा भर्तृहरिः ।
“नवकुटजकदम्बामोदिनो गन्धवाहाः” ।)

आम्नायः, पुं, (आङ् + म्ना + घञ् + युक् ।) श्रुतिः ।

वेदः । (यथा महावीरचरिते ।
“तृतीयो ह्येष मेध्योऽग्निराम्नायः पञ्चमोऽथवा” ।
उत्तरचरिते ।
“समांसो मधुपर्क इत्याम्नायं बहुमन्यमानाः” ।)
संप्रदायः । गुरुपरम्पराप्राप्तोपदेश इति यावत् ॥
इत्यमरः ॥ निगमः । उपदेशः । इति मेदिनी ॥
कुलं । आगमः । इति हेमचन्द्रः ॥ कुलक्रमः । इति
शब्दरत्नावली ॥ (उपदेशः, शिक्षादानं, तन्त्र-
शास्त्रं, अभ्यासः, आम्रेडनं, आलोचनं ।)

आम्बिकेयः, पुं, (अम्बिकाया अपत्यं स्त्रीभ्यो ढक् ।)

धृतराष्ट्रो राजा । इति त्रिकाण्डशेषः ॥ (यथा
महाभारते ।
“परं श्रेयः पाण्डवेया मयोक्तं
न मे तच्च श्रुतवानाम्बिकेयः” ।)
कार्त्तिकेयः ।

आम्रः, पुं, (अम्यते अम गत्यादौ अमितभ्योदीर्घश्चेति

रक् दीर्घश्च ।) फलवृक्षविशेषः । आम आँव इति
भाषा । तत्पर्य्यायः । चूतः २ रसालः ३ । अति-
सौरभश्चेत् सहकारः ४ । इत्यमरः ॥ कामशरः ।
कामवल्लभः ६ कामाङ्गः ७ कीरेष्टः ८ माधवद्रुमः
९ भृङ्गाभीष्टः १० सीधुरसः ११ मधूली १२
पृष्ठ १/१८४
:कोकिलोत्सवः १३ वसन्तदूतः १४ अम्लफलः १५
मोदाख्यः १६ मन्मथालयः १७ मध्वावासः १८
सुमदनः १९ पिकरागः २० नृपप्रियः २१ प्रि-
याम्बुः २२ कोकिलावासः २३ । इति राजनिर्घण्टः ।
माकन्दः २४ षट्पदातिथिः २५ मधुव्रतः २६
वसन्तद्रुः २७ पिकप्रियः २८ स्त्रीप्रियः २९ गन्ध-
बन्धुः ३० अलिप्रियः ३१ । इति शब्दरत्नावली ॥
मदिरासखः ३२ । इति जटाधरः ॥ बालाम्रफल-
गुणाः । वायुरक्तपित्तकारित्वं । इति राजव्रल्लभः ॥
अपिच । कषायत्वं । अम्लरसत्वं । सुगन्धित्वं ॥
कफामयनाशित्वं । अस्रकरत्वं । पित्तप्रकोपवायु-
रक्तदोषपटुत्वादिरुचिप्रदत्वञ्च । तच्च बद्धास्थिता-
दृक् । इति राजनिर्घण्टः ॥ * ॥ मध्याम्रगुणः ।
पित्तकारित्वं ॥ * ॥ पक्वाम्रगुणाः । वर्णरुचि-
मांसशुक्रबलकारित्वं । पित्ताविरोधित्वं । वायु-
नाशित्वं । हृद्यत्वं । गुरुत्वं । अनुलोमनत्वं । इति
राजवल्लभः ॥ अपिच । त्रिदोषशमताकारित्वं ।
स्वादुत्वं । पुष्टिजनकत्वं । अधिकधातुप्रचयकारित्वं ।
तृप्तिकान्तिकारित्वं । तृष्णाश्रमशमनत्वञ्च । इति
राजनिर्घण्टः ॥ * ॥ मधुयुक्ताम्रगुणाः । क्षयरोग-
प्लीहवातश्लेष्मरोगनाशित्वं ॥ * ॥ घृतयुक्ताम्रगुणाः ।
वातपित्तनाशित्वं । अग्निबलवर्णकारित्वञ्च ॥ * ॥
दुग्धयुक्ताम्रगुणाः । शीतलत्वं । स्वादुत्वं । गुरुत्वं ।
स्निग्धत्वं । भेदकत्वं । वातपित्तहारित्वं । शुक्ररक्तब-
लवर्द्धकत्वञ्च ॥ * ॥ तत्फलास्थिगुणाः । तृष्णाच्छ-
र्द्दिमेहातीसारनाशित्वं । इति राजबल्लभः ॥ * ॥
तत्त्वग्गुणः । कषायत्वं ॥ * ॥ तन्मूलगुणाः ।
सुगन्धित्वं । कषायत्वं । रुचिकारित्वं । संग्राहित्वं ।
शीतलत्वञ्च ॥ * ॥ तत्पुष्पगुणौ । रुचिकारित्वं ।
अग्निदीपनत्वञ्च ॥ * ॥ आम्रपेषीगुणाः । काषा-
यत्वं । अम्लत्वं । भेदकत्वं । कफवातनाशित्वञ्च ॥ * ॥
कृत्रिमपक्वाम्रगुणः ॥ अम्लरसहानेर्मधुरत्वाच्च
पित्तनाशित्वं ॥ * ॥ चुषिताम्रगुणाः ॥ परमरुचि-
बलवीर्य्यकारित्वं । लघुत्वं । शीतलत्वं । शीघ्र-
पाकित्वं । वातपित्तहारित्वं । सारकत्वञ्च ॥ * ॥
तद्गालितरसगुणाः । बलकारित्वं । गुरुत्वं । वात-
हरत्वं । सारकत्वं । हृद्यत्वं । तृप्तिजनकत्वं । अति-
शयष्टंहणत्वं । कफवर्द्धकत्वञ्च ॥ * ॥ तत्खण्ड-
गुणाः ॥ गुरुत्वं । रोचकत्वं । गुरुपाकित्वं । मधु-
रत्वं । वृंहणत्वं । बलकारित्वं । शीतलत्वं । वातना-
शित्वञ्च ॥ * ॥ अतिशयाम्रभक्षणगुणाः ॥ मन्दाग्नि-
बिषमज्वररक्तामयबद्धगुदोदरनयनामयकारित्वं ।
“एतदम्लाम्रविषयं न तु मधुराम्रपरं । मधुरस्य
परं नेत्रहितत्वादिगुणत्वात् ॥ यद्यतिशयभक्षणं
करोति तदा शुण्ठीजलानुपानं । अथवा सौवर्च्चलेन
सह क्षीरं प्रयोक्तव्यं” ॥ * ॥
तत्पल्लवगुणाः । रुचिकारित्वं । कफपित्तनाशि-
त्वञ्च ॥ * ॥ तथा च राजनिर्घण्टः ।
“आम्रमामं जलं स्विन्नं मर्द्दितं दृढपाणिना ।
सिताशीताम्बुसंयुक्तं कर्पूरमरिचान्वितं ॥
प्रपाणकमिदं श्रेष्ठं भीमसेनेन निर्म्मितं ।
सद्यो रुचिकरं बल्यं शीघ्रमिन्द्रियतर्पणम्” ॥
(तत्रादावाम्रस्य नामानि गुणाश्च ।
“आम्रः प्रोक्तो रसालश्च सहकारोऽतिसौरभः ।
कामाङ्गो मधुदूतश्च माकन्दः पिकवल्लभः ॥ * ॥
आम्रपुष्पमतीसारकफपित्तप्रमेहनुत् ।
असृग्दुष्टिहरं शीतं रुचिकृद्ग्राहि वातलम् ॥
आम्रं बालं कषायाम्लं रुच्यं मारुतपित्तकृत् ।
तरुणन्तु तदत्यम्लं रूक्षं दोषत्रयस्रकृत् ॥
आम्रमामं त्वचाहीनमातपेऽतिविशोषितम् ॥
अम्लं स्वादुकषायं स्याद्भेदनं कफवातजित् ॥ * ॥
पक्वन्तु मधुरं वृष्यं स्निग्धं बलसुखप्रदम् ॥
गुरु वातहरं हृद्यं वर्ण्यं शीतमपित्तलम् ।
कषायानुरसं वह्लि-श्लेष्म-शुक्र-विबर्द्धनम् ॥ * ॥
तदेव वृक्षसम्पक्वं गुरुवातहरं परम् ।
मधुराम्लरसं किञ्चित् भवेत् पित्तप्रकोपनम् ॥ * ॥
अम्रं कृत्रिमपक्वञ्च तद्भवेत् पित्तनाशनम् ॥ * ॥
रसस्याम्लस्य हीनस्तु माधुर्य्याच्च विशेषतः ॥
उषितं तत्परं रुच्यं बल्यं वीर्य्यकरं लघु ॥
शीतलं शीतपाकि स्याद्वातपित्तहरं सरम् ॥ * ॥
तद्रसो गालितो बल्यो गरुर्वातहरः सरः ।
अहृद्यस्तर्पणोऽतीव वृंहणः कफवर्द्धनः ॥ * ॥
तस्य खण्डं गुरुपरं रोचनं चिरपाकि च ।
मधुरं वृंहणं बल्यं शीतलं वातनाशनम् ॥
वातपित्तहरं रुच्यं वृंहणं बलवर्द्धनम् ॥ * ॥
वृष्यं वर्णकरं स्वादु दुग्धाम्रं गुरु शीतलम् ॥ * ॥
मन्दानलत्वं विषमज्वरञ्च
रक्तामयं बद्धगुदोदरञ्च ।
आम्रातियोगो नयनामयं वा
कंरोति तस्मादति तानि नाद्यात् ॥
एतदम्लाम्रविषयं मधुराम्लपरं न तु ।
मधुरस्य परं नेत्रहितन्त्वाद्या गुणा यतः ॥
शुण्ठ्याम्भसोऽनुपानं स्यादाम्राणामतिभक्षणे ।
जीरकं वा प्रयोक्तव्यं सह सौवर्च्चलेन च” ॥ * ॥
आम्रवीजस्य गुणाः ।
“आम्रवीजं कषायं स्याच्छर्द्द्यतीसारनाशनम् ।
ईषदम्लञ्च मधुरं तथा हृदयदाहनुत्” ॥ * ॥
आम्रनवपल्लवस्य गुणाः ॥
“आम्रस्य पल्लवं रुच्यं कफपित्तविनाशनम्” ॥ * ॥
इति भावप्रकाशः ॥
“अपक्वमाम्रं फलमेव शस्तं
संग्राहि पित्तासृजि कोपनञ्च ।
तथा विपक्वं मधुरन्तु चाल्पं,
भेद्यं सपित्तामयनाशनञ्च” ॥
इति हारीतः ॥
“वातपित्तास्नकृद्बालं बद्धास्थिकफपित्तकृत् ॥
गुर्व्वाम्रं वातजित् स्वाद्वम्लं कफशुक्रकृत्” ।
इति वाभटः ॥
“रक्तपित्तकरं बालमापूर्णं पित्तवर्द्धनम् ।
पक्वमाम्रं जयेद्वायुं मांसशुक्रबलप्रदम्” ॥ * ॥
“आम्रामलकलेहाश्च वृंहणा बलबर्द्धनाः ।
रोचनास्तर्पणाश्चोक्ताः स्नेहमाधुर्य्यगौरवात्” ॥
इति चरकः ॥
“पित्तानिलकरं बालं पित्तलं बद्धकेशरम् ॥
हृद्यं वर्णकरं रुच्यं रक्तमांसबलप्रदम् ।
कषायानुरसं स्वादु वातघ्नं वृंहणं गुरु ॥
पित्ताविरोधि सम्पक्वमाम्रं शुक्रविवर्द्धनम् ।
वृंहणं मधुरं बल्यं गुरु विष्टभ्य जीर्य्यति” ॥
इति सुश्रुतः ॥)

आम्रगन्धकः, पुं, (आम्रगन्ध + कन् ।) समष्ठिल-

वृक्षः । इति राजनिर्घण्टः ॥

आम्रपेषी, स्त्री, (आम्रस्य पेषी ।) शुष्काम्रखण्डं ।

आम्षी इति भाषा । अस्या गुणाः । अम्लत्वं ।
कषायत्वं । उष्णत्व । भेदकत्वं कफवातनाशित्वञ्च ।
इति राजवल्लभः ॥

आम्रातः, पुं, (आम्र + अत् + अच् ।) आम्रातकः ।

इति शब्दमाला ॥ (अस्य गुणाः । यदुक्तं ।
“आम्रातमम्लं वातघ्नं गुरूष्णं रुचिकृत् परम् ।
पक्वन्तु तुवरं स्वादुरसपाकं हिमं स्मृतम् ।
तर्पणं श्लेष्मनं स्निग्धं वृष्यं विष्टम्भि वृंहणम् ।
गुरु बल्यं मरुत्पित्तक्षतदाहक्षयास्रजित्” ।
“राजाम्रष्टङ्क आम्रातः कामाह्वो राजपुत्त्रकः ।
राजाम्रन्तुवरं स्वादु विशदं शीतलं गुरु ॥
ग्राहि रूक्षं विबन्धाध्मवातकृत् कफपित्तनुत्” ।
इति भावप्रकाशः ॥ तथा च चरके ।
“मधुरं वृंहणं बल्यमाम्रातं तर्पणं गुरु ।
सस्नेहं श्लेष्मलं शीतं वृष्यं विष्टभ्य जीर्य्यति” ॥)

आम्रातकः, पुं, (आम्रं तद्रसम् आ ईषत् अतति

माति । अत सातत्यगमने कृञादित्वात् वुन् ।)
वृक्षविशेषः । आम्डा इति भाषा । तत्पपर्य्यायः ।
पीतनः २ कपीतनः ३ । इत्यमरः ॥ वर्षपाकी ४ ।
इति रत्नमाला ॥ पीतनकः ५ कपिचूडा ६ अभ्र-
वाटिकः ७ भृङ्गीफलः ८ रसाढ्यः ९ तनुक्षीरः १०
कपिप्रियः ११ अम्बरातकः १२ अम्बरीयः १३
कपिचूडः १४ । इति जटाधरः ॥ तदपक्वफलगुणाः ।
कषायत्वं । अम्लत्वं । हृत्कण्ठहर्षणत्वञ्च । तत्पक्व-
फलगुणाः । मधुराम्लत्वं । स्निग्धत्वं । पित्तकफ-
नाशित्वञ्च । इति राजनिर्घण्टः ॥ अपिच । तृप्ति-
बलविष्टम्भाजीर्णकारित्वम् । गुरुत्वञ्च । इति राज-
वल्लभः ॥ आम्रावर्त्तः । इति राजनिर्घण्टः ॥ (यथा
मार्कण्डेयपुराणे ।
“आम्रानाम्रातकान् भव्यान्
नारिकेलान् सतिन्दुकान्” । इति ।
अस्य पर्य्यायो गुणाश्च ।
“आम्रातकः पीतनश्च मर्कटाम्रः कपीतनः ॥
आम्रातमम्लं वातघ्नं गुरूष्णं रुचिकृत्सरम् ।
पक्वन्तु तुवरं स्वादु रसे पाके हिमं स्मृतं ॥
तर्पणं श्लेष्मलं स्निग्धं वृष्यं विष्टम्भि वृंहणं ।
गुरु बल्यम्मरुत्पित्तक्षतदाहक्षयास्रजित्” ॥
इति भावप्रकाशः ॥
“आम्रातकफलं वृष्यं सस्नेहं श्लेष्मवर्द्धनं” ।
इति सुश्रुतः ॥)

आम्रावर्त्तः, पुं, (आम्रस्य आवर्त्तः ।) आम्र

शुष्करसः । तत्पर्य्यायः । आम्रातकः २ । आम्सत्व
इति भाषा । अस्य गुणाः । तृष्णाच्छर्द्दिवातपित्त-
हरत्वम् । सारकत्वम् । रुचिकारित्वम् । सूर्य्यां-
पृष्ठ १/१८५
:शुभिः पाकात् लघुत्वञ्च । “पक्वस्य सहकारस्य-
कटे विस्तारितो रसः । घर्म्मशुष्को मुहुर्दत्त
आम्रातक इति स्मृतः” ॥ इति राजनिर्घण्टः ॥
(यदुक्तम् ।
“आम्रावर्त्तस्तृषाच्छर्द्दिवातपित्तहरः सरः ।
रुच्यः सूर्य्यांशुभिः पाकाल्लघुश्च स हि कीर्त्तितः” ।)

आम्रेडितं, क्ली, (आङ् + म्रेडि + क्तः ।) द्विस्त्रि-

रुक्तम् । इत्यमरः ॥ दुइ तिन् वार वला इति
भाषा । (उन्मत्तेन यथा कथितस्य पुनः पुनः कथनं
क्रियते एवं कथितस्य द्विस्त्रिवारकथनम् ।)

आम्लवेतसः, पुं, (आम्लोऽम्लरसयुक्तो वेतसः ।)

अम्लवेतसवृक्षः । इति राजनिर्जण्टः ॥
(अम्लवेतसशब्देऽस्य विशेषो ज्ञेयः ॥)

आम्ला, त्रि, (आ सम्यक् अम्ला अम्लरसयुक्ता ।)

तिन्तिडीवृक्षः । इति शब्दरत्नावली ॥ श्रीवल्ली ।
इति राजनिर्घण्टः ॥

आम्लिका, स्त्री, (आम्ला + कन् ।) तिन्तिडीवृक्षः ।

इत्यमरटीकायां रायमुकुटः ॥ अम्लोद्गारः । इति
शब्दमाला ॥ (यथा चरके ।
“आम्लिकायाः फलं पक्वं तस्मादल्पान्तरं गुणैः” ॥)

आम्लीका, स्त्री, (अम्ल + ठक् ।) तिन्तिडीवृक्षः ।

इत्यमरटीका ॥

आयः, पुं, (आङ् + या + ड ।) धनागमः । प्राप्तिः ।

लाभः । (यथा मनुः । ८ । ४१९ ।
“अहन्यहन्यवेक्षेत कर्म्मान्तान् वाहनानि च ।
आयव्ययौ च नियतावाकरान् कोषमेव च” ॥)
स्त्र्यगाररक्षकः । इति हलायुधः ॥ (ज्योतिष-
प्रसिद्धमेकादशभवनम् ।)

आयःशूलिकः, त्रि, (अयःशूलेन अर्थानन्विच्छति ।

अयःशूलदण्डाजिनाभ्यां ठक्ठञाविति ठक् ।)
तीक्ष्णकर्म्मा । क्षिप्रकारी । इति भूरिप्रयोगः ॥
(यदुक्तम् ।
“तीक्ष्णोपायेन योऽन्विच्छेत्स आयःशूलिको जनः” ।)

आयतः, त्रि, (आङ् + यम् + क्तः ।) दीर्घः । इत्यमरः ॥

लम्बा इति भाषा । (विस्तृतः । विशालः । आ-
कृष्टः । यथा पञ्चतन्त्रे ।
“तन्तवोऽप्यायता नित्यं तन्तवो बहुलाः समाः” ।)

आयतच्छदा, स्त्री, (आयताः च्छदा यस्याः सा ।)

कदलीवृक्ष । इति त्रिकाण्डशेषः ॥

आयतनं, क्ली, (आङ् + यत + ल्युट् ।) यज्ञस्थानं । देव-

स्थानं । तत्पर्य्यायः । चैत्यं २ । इत्यमरः ॥
यथा रामायणे, --
“येभ्यः प्रणमसे पुत्त्र ! चैत्येष्वायतनेषु च” ।
“समित्कुशपवित्राणि वेद्यश्चायतनानि च ।
स्थण्डिलानि च विप्राणां शैला वृक्षा ह्रदाः क्षुपाः” ॥
आश्रयः, विश्रामस्थानं । यथा चाणक्यः ।
“नासमीक्ष्य परं स्थानं पूर्ब्बमायतनं त्यजेत्” ॥
कुमारसम्भवे, ७ । ५ ।
“स्नेहस्तदेकायतनं जगाम” ।
भद्रासन भिटा इत्यादिख्यातो वास्तुदेशः ।
याज्ञवल्क्यः, --
“आरामायतनग्रामनिपानोद्यानवेश्मसु” ।) व्याधिनिदानम् ।)

आयतिः, स्त्री, (आङ् + यम् + क्तिन् ।) उत्तरकालः ।

भविष्यत्कालः ।
(यथा मनुः, ७ । १६९, ७ । १७८ ।
“यदावगच्छेदायत्यामाधिक्यं ध्रुवमात्मनः ।
तदात्वे चाल्पिकां पीडां तदा सन्धिं समाश्रयेत्” ।
“आयतिं सर्व्वकार्य्याणां तदात्वञ्च विचारयेत्” ॥)
प्रभावः । कोषदण्डजं तेजः । इत्यमरः ॥ दैर्घ्यं ।
सङ्गः । इति विश्वहेमचन्द्रौ ॥ प्रापणं । इति
धरणी ॥ (राजतरङ्गिणी ।
“प्रतापमायतिं शोभां हेमन्ताहस्य वारिदः ।
स्मृतिशेषां करोत्येव लोभश्च पृथिवीभुजां” ॥)

आयत्तः, त्रि, (आङ् + यम् + क्तः ।) अधीनः । बशी-

भूतः । इत्यमरः ॥ (यथा पञ्चतन्त्रे, --
“तत् भद्र ! स्वयत्नायत्तो ह्यात्मा सर्व्वस्य” ।)

आयत्तिः: स्त्री, (आङ् + यत् + क्तिन् ।) दिनं । स्नेहः ।

वशित्वं । सामर्थ्यं । सीमा । इति विश्वः हेम-
चन्द्रश्च ॥ शयनं । दैर्घ्यं । प्रभावः । भविष्यत्कालः ।
इति धरणी ॥ (न्यायपथावलम्बिता । अधीनता ।)

आयल्लकं, क्ली, उत्कण्ठा । इति हेमचन्द्रः ॥

आयसं, क्ली, (अयस् + अण् ।) लौहं । इति

भरतः राजनिर्घण्टश्च ॥ अयोनिर्मितादौ, त्रि ॥
(यथा महाभारते, --
“आयसं हृदयं मन्ये तस्य दुष्कृतकर्म्मणः” ।
यथा मनुः, ८ । ३१५ ।
“शक्तिं चोभयतस्तीक्ष्णामायसं दण्डमेव वा” ।
रघुवंशे, १७ । ६३ ।
“स चकर्ष परस्मात् तदयस्कान्त इवायसम्” ।
(अयोजनितार्थे यथा, --
“विपाके कटु शीतञ्च सर्व्वश्रेष्ठं तदायसम्” ॥
इति वैद्यकचक्रपाणिसंग्रहे ॥)

आयसी, स्त्री, (अयसा निर्म्मिता । अयस् + अण् +

ङीप् ।) लौहमयकवचः । तत्पर्य्यायः । अङ्गरक्षिणी
२ जालिका ३ जालप्राया ४ । इति हेमचन्द्रः ॥

आयस्तः, त्रि, (आङ् + यस् + कर्त्तरि क्तः ।) तेजितः ।

क्षिप्तः । क्लेशितः । कुपितः । हतः । इति मेदिनी ॥
(प्रयत्नशीलः, कार्य्योत्सुकः, यत्नसिद्धः, कष्टसिद्धः ।)

आयातं, त्रि, (आङ् + या + क्तः ।) आगतं । यथा,

“हंसयुक्तविमानाग्रे साक्षसूत्रकमण्डलुः ।
आयाता ब्रह्मणः शक्तिर्ब्रह्माणी साभिधीयते” ॥
इति मार्कण्डेये देवीमाहात्म्यम् ॥

आयानं, क्ली, (आङ् + या + ल्युट् ।) स्वभावः । इति

जटाधरः ॥ आगमनं ॥ (यथा महाभारते, --
“आयाने वासि विदितो रामस्य विदितात्मनः” ।

आयामः, पुं, (आङ् + यम् + घञ् ।) दैर्घ्यं । इत्यमरः ॥

(यथा रामायणे, --
“योजनायमविस्तारमेकैको धरणीतलम्” ।
मेघदूते, पूर्ब्बमेघे । ५८ ।
“तेनोदीचीं दिशमनुसरेस्तिर्य्यगायामशोभी” ।)

आयासः, पुं, (आङ् + यस् + घञ् ।) श्रान्तिः । तत्-

पर्य्यायः । श्रमः २ क्लमः ३ क्लेशः ४ परिश्रमः ५
प्रयासः ६ व्यायामः ७ । इति हेमचन्द्रः ॥ (अति-
यत्नः । प्रयत्नः । यथा साहित्यदर्पणे, --
“रत्यायासमनस्तापक्षुत्पिपासादिसम्भवा” ।
महाभारते, --
“शोकहर्षौ तथायासः सर्व्वं स्नेहात् प्रवर्त्तते” ।
रामायणे, --
“नैवायासं क्वचित् भद्रे प्राप्ससे न च विप्रियं” ।)

आयुः, पुं, क्ली, (एति इण् गतौ छन्दसीण इत्युण् ।)

जीवितव्याप्यकालः । इति जटाधरः ॥ (जीवनं,
प्राणाः । यथा महाभारते, --
“अहं केशरिणः क्षेत्रे वायुना जगदायुना ।
जातः कमलपत्राक्षो हनूमान्नाम वानरः” ।
स्वनामख्यातश्चन्द्रवंशीयो राजा, स च नहुषस्य
पिता । यथा महाभारते, --
“नहुषो नाम राजर्षिर्व्यक्तं ते श्रोत्रमागतः ।
तत्रैव पूर्ब्बपूर्ब्बेषामायोर्वंशधरः सुतः” ।
पुरूरवसः पुत्त्रः स्वनामख्यातो राजा ।
यथा हरिवंशे, --
“बुधस्य तु महाराज विद्वान् पुत्त्रः पुरूरवाः” ।
“तस्य पुत्त्रा बभूवुस्ते सप्त देवसुतोपमाः ।
दिवि जाता महात्मान आयुर्धीमानमावसुः” ।
हृदस्य पुत्रः स्वनामख्यातोऽसुरः ।
यथा हरिवंशे, --
“हृदस्य पुत्त्रो ह्यायुर्वै शिविः कालस्तथैव च” ।)

आयुः, [स्] क्ली, (एति गच्छतीति इण् + उसि +

णिच्च ।) जीवितकालः । परमायुः । इत्यमरः ॥ तत्-
पर्य्यायः । विजीवितं २ नित्यगः ३ अनुबन्धः ४ ।
“पुरुषाः सर्व्वसिद्धाश्च चतुर्वर्षशतायुषः ।
कृते त्रेतादिकेऽप्येवं पादशो ह्रसति क्रमात्” ॥
इति वैद्यकं ॥
“अरोगाः सर्व्वसिद्धार्थाश्चतुर्व्वर्षशतायुषः ।
कृते त्रेतादिषु ह्येषामायुर्ह्रसति पादशः” ॥
इति मनुः १ । १८३ ॥ घृतं । इति राजनिर्घण्टः ॥
(“नाभिस्थः प्राणपवनः स्पृष्ट्वा हृत्कमलान्तरं ।
कण्ठाद्वहिर्विनिर्याति पातुं विष्णुपदामृतं ॥
पीत्वा चाम्बरपीयुषं पुनरायाति वेगतः ।
प्रीणयन् देहमखिलं जीवयन् जठरानलम् ॥
शरीरप्राणयोरेवं संयोगादायुरुच्यते” ।
इति शार्ङ्गधरः ॥
“शरीरेन्द्रियसत्त्वात्मसंयोगो धारि जीवितं ।
नित्यगश्चानुबन्धश्च पर्य्यायैरायुरुच्यते” ॥ इति ।
“वर्षशतं खल्वायुषः प्रमाणमस्मिन् काले । सन्ति
पुनरधिकोनवर्षशतजीविनो मनुष्याः । तेषां
विकृतिवर्ज्ज्यैः प्रकृत्यादिबलविशेषैरायुषो लक्ष-
णतश्च प्रमाणमुपलभ्य वयसस्त्रित्वं विभजेत” ।
“तन्त्रेण तत्रायुरुक्तं स्वलक्षणतो यथावदिहैव
तत्र शरीरमानसाभ्यां रोगाभ्यामनभिद्रुतस्य
विशेषेण यौवनवतः समन्वागतबलवीर्य्यपौरुष-
पराक्रमस्य ज्ञानविज्ञानेन्द्रियेन्द्रियार्थबलसमुदाये
वर्त्तमानस्य परमर्द्धिरुचिरविविधोपभोगस्य स-
मृद्धसर्व्वारम्भस्य यथेष्टविचारणात् सुखमायु-
रुच्यते” । इति च ।
“असुखमतो विपर्य्ययेण हितैषिणः पुनर्भूताना-
म्परस्वादुपरतस्य सत्यवादिनः शमपरस्य परी-
पृष्ठ १/१८६
:क्ष्यकारिणोऽप्रमत्तस्य त्रिवर्गं परस्परेणानुपहत-
मुपसेवमानस्य पूजार्हसम्पूजकस्य ज्ञानविज्ञानोप-
शमशीलस्य वृद्धोपसेविनः सुनियतरागरोगेर्ष्या-
मदमानवेगस्य सततं विविधप्रदानपरस्य तपो-
ज्ञानप्रशमनित्यस्याध्यात्मविदस्तत्परस्य लोकमि-
मञ्चासुञ्चापेक्षमाणस्य स्मृतिमतो हितमायु-
रुच्यते” । इति च ॥
“अहितमतो विपर्य्ययेण प्रमाणमायुषस्त्वर्थेन्द्रिय-
मनोबुद्धिचेष्टादीनां विकृतिलक्षणैरुपलभ्यते अ-
निमित्तैरिदमस्मात् क्षणान्मुहूर्त्ताद्दिवसात्त्रिपञ्च-
दश-सप्तदश-द्वादशाहात् पक्षान्मासात् षण्मा-
सात् संवत्सराद्वा स्वभावमापत्स्यते इति । तत्र-
स्वभावः प्रवृत्तेरुपरमो मरणमनित्यतानिरोध-
इत्येकोऽर्थः । इत्यायुषः प्रमाणमतो विपरीतम-
प्रमाणम्” । इति च ॥
“वर्षशतं खल्वायुषः प्रमाणमस्मिन् काले तस्य नि-
मित्तं प्रकृतिगुणात्मसम्पत् सात्मोपसेवनञ्चेति” ।
इति च चरकः ॥)

आयुक्तः, त्रि, (आङ् + युज् + क्तः ।) कर्म्माध्यक्षः ।

तत्पर्य्यायः । नियोगी २ कर्म्मसचिवः ३ व्यापृतः ४ ।
इति हेमचन्द्रः ॥

आयुधः, पुं, (आयुध्यते अनेनेति । आङ् + युध् + क ।)

अस्त्रं । इत्यमरः ॥ (आयुधानां त्रयो भेदाः । प्रहर-
णानि, पाणिमुक्तानि, यन्त्रमुक्तानि चेति । तत्र
प्रहरणानि खड्गादीनि, पाणिमुक्तानि चक्रादीनि,
यन्त्रमुक्तानि शरादीनि । “धृतायुधो यावदहं
तावदन्यैः किमायधैः” । “किं वक्ष्यत्ययमेवमद्य
विमुखं मामुद्यतेऽप्यायुधे” । इति चौत्तरचरिते ।)

आयुधधर्म्मिणी, स्त्री, (आयुधस्येव धर्भ्मो विद्यते

यस्याः । आयुधधर्म्म + इन् + ङीप् ।) जयन्ती-
वृक्षः । इति शब्दचन्द्रिका ॥

आयुधागारं, क्ली, (आयुधानां, आगारं । षष्ठीतत् ।)

अस्त्रगृहं । सेलाखाना इति ख्यातं । इति महा-
भारते राजधर्म्मः ॥ तत्र नियुक्तस्य लक्षणं यथा,-
“स्थापनाजातितत्त्वज्ञः सततं प्रतिजागृता ।
राज्ञः स्यादायुधागारे दक्षः कर्म्मसु चोद्यतः” ॥
इति मात्स्ये १८९ अध्यायः ॥ (यथा मनुः ९ । २८० ।
“कोष्ठागारायुधागारदेवतागारभेदकान् ।
हस्त्यश्वरथहर्त्तॄंश्च हन्यादेवाविचारयन्” ॥)

आयुधिकः, पुं, (आयुधेन जीवति, आयुध + ठक् ।)

अस्त्रजीवी । तत्पर्य्यायः । शस्त्राजीवः २ काण्ड-
पृष्ठः ३ आयुधीयः ४ । इत्यमरः ॥ (यथा महा-
भारते १६ । ७ । ३६ ।
“न पादरक्षैः संयुक्ताः नान्तरायुधिका ययुः” ।

आयुधीयः, पुं, (आयुध + छ ।) आयुधिकः । इत्य-

मरः ॥ (योद्धा । यथा मनुः ७ । २२२ ।
“अलङ्कृतश्च सम्पश्येदायुधीयं पुनर्जनं” ।
उत्तरचरिते ६ । “तर्ज्जयन्ति विस्फुरितशस्त्राः
कुमारमायुधीयश्रेणयः” ।)

आयुर्द्रुव्यं, क्ली, (आयसो द्रव्यम् ।) औषधं । इति रत्नमाला ॥

आयुर्व्वेदः, पुं, (आयुरनेन विन्दति वेत्ति वेत्यायुर्व्वेदः ।

आयस् + विद् + करणे घञ् ।) अष्टादशविद्या-
न्तर्गतधन्वन्तरिप्रणीतविद्याविशषः । वैद्यकशास्त्रं ।
चिकित्साशास्त्रं । तत्तु अथर्व्ववेदान्तर्गतं । यथा,
“विधाताथर्व्वसर्व्वस्वमायुर्व्वेदं प्रकाशयन् ।
स्वनाम्ना संहितां चक्रे लक्षश्लोकमयीमृजुं” ॥
इति भावप्रकाशः ॥
चरणव्यूहमते ऋग्वेदस्योपवेदः आयुर्व्वेदः । अथ-
र्व्ववेदस्य शस्त्रशास्त्राण्युपवेदः ॥ * ॥ अथायुर्व्वेदस्य
विवरणम् ।
“ऋग्यजुःसामाथर्व्वाख्यान् दृष्ट्वा वेदान् प्रजापतिः ।
विचिन्त्य तेषामर्थं चैवायुर्व्वेदं चकार सः ॥
कृत्वा तु पञ्चमं वेदं भास्कराय ददौ विभुः ।
स्वतन्त्रसंहितां तस्मात् भास्करश्च चकार सः ॥
भास्करश्च स्वशिष्येभ्य आयुर्व्वेदं स्वसंहितां ।
प्रददौ पाठयामास ते चक्रुः संहितास्ततः ॥
तेषां नामानि विदुषां तन्त्राणि तत्कृतानि च ।
व्याधिप्रणाशवीजानि साध्वि मत्तो निशामय ॥
धन्वन्तरिर्द्दिवोदासः काशीराजोऽश्विनीसुतौ ।
नकुलः सहदेवोऽर्किश्च्यवनो जनको बुधः ॥
जावालो जाजलिः पैलः करथोऽगस्त्य एव च ।
एते वेदाङ्गवेदज्ञाः षोडश व्याधिनाशकाः ॥
चिकित्सातत्त्वविज्ञानं नाम तन्त्रं मनोरमम् ।
धन्वन्तरिश्च भगवान् चकार प्रथमे सति ॥
चिकित्सादर्पणं नाम दिवोदासश्चकार सः ।
चिकित्साकौमुदीं दिव्यां काशीराजश्चकार सः ॥
चिकित्सासारतन्त्रञ्च भ्रमघ्नं चाश्विनीसुतौ ।
तन्त्रं वैद्यकसर्व्वस्वं नकुलश्च चकार सः ॥
चकार सहदेवश्च व्याधिसिन्धुविमर्द्दनं ।
ज्ञानार्णवं महातन्त्रं यमराजश्चकार सः ॥
च्यवनो जीवदानञ्च चकार भगवानृषिः ।
चकार जनको योगी वैद्यसन्देहभञ्ञनं ॥
सर्व्वसारं चन्द्रसुतो जावालस्तन्त्रसारकं ।
वेदाङ्गसारं तन्त्रञ्च चकार जाजलिर्मुनिः ॥
पैलो निदानं करथस्तन्त्रं सर्व्वधरं परं ।
द्वैधनिर्णयतन्त्रञ्च चकार कुम्भसम्भवः ॥
चिकित्साशास्त्रवीजानि तन्त्राण्येतानि षोडश
व्याधिप्रणाशवीजानि बलाधानकराणि च ॥
मथित्वा ज्ञानमन्थानैरायुर्व्वेदपयोनिधिं ।
ततस्तन्त्राण्युज्जहरुर्नवनीतानि कोविदाः ॥
एतानि क्रमशो दृष्ट्वा दिव्यां भास्करसंहितां ।
आयुर्व्वेदं सर्व्ववीजं सर्व्वं जानामि सुन्दरि ॥
व्याधेस्तत्त्वपरिज्ञानं वेदनायाश्च निग्रहः ।
एतद्वैद्यस्य वैद्यत्वं न वैद्यः प्रभुरायुषः ॥
आयुर्व्वेदस्य विज्ञाता चिकित्सासु यथार्थवित् ।
धर्म्मिष्ठश्च दयालुश्च तेन वैद्यः प्रकीर्त्तितः” ॥
इति ब्रह्मवैवर्त्ते ब्रह्मखण्डे १६ अध्यायः ॥ * ॥
तस्य लक्षणम् यथा, --
“आयुर्हिताहितं व्याधिनिदानं शमनं तथा ।
विद्यन्ते यत्र विद्वद्भिः स आयुर्व्वेद उच्यते” ॥
तस्य निरुक्तिर्यथा, --
“अनेन पुरुषो यस्मात् आयुर्विन्दति वेत्ति च ।
तस्मान्मुनिवरैरेष आयुर्वेद इति स्मृतः” ॥
इति भावप्रकाशः ॥ * ॥ अन्यत् रोगशब्दे वेद-
शब्दे वैद्यशब्दे च द्रष्टव्यम् ॥
(“हिताहितं सुखं दुःखमायुस्तस्य हिताहितं ।
मानञ्च तच्च यत्रोक्तमायुर्व्वेदः स उच्यते” ॥
“तस्यायुषः पुण्यतमो वेदो वेदविदां मतः ।
वक्ष्यते यन्मनुष्याणां लोक्रयोरुभयोर्हितः” ॥
“किमायु कस्मादायुर्व्वेदः किञ्चायुर्व्वेदः शाश्वतो
ऽशाश्वत इति । कानि चास्याङ्गानि कैश्चायमध्ये-
तव्यः किमर्थञ्चेति” ।
“तत्र भिषजा पृष्टेनैवञ्चतुर्णामृक्सामयजुरथर्व्व-
वेदानामात्मनोऽथर्ब्बवेदे भक्तिरादेश्या वेदोह्या-
थर्व्वणः स्वस्त्ययनबलिमङ्गलहोमनियमप्रायश्चि-
त्तोपवासमन्त्रादिपरिग्रहाच्चिकित्सां प्राह चि-
कित्सा चायुषो हितायोपदिश्यते बेदञ्चोपदि-
श्यायुर्वाच्यं तत्रायुश्चेतनाप्रवृत्तिजीवितमनुबन्धो-
धारि चेत्येकोऽर्थः, तदा आयुर्व्वेदयत्यायुर्व्वेदः कथ-
मुच्यते स्वलक्षणतः सुखासुखतो हिताहिततः
प्रमाणाप्रमाणतश्च यतश्चायुष्यानायुष्याणि द्रव्य-
गुणकर्म्माणि वेदयत्यतोऽप्यायुर्व्वेदः तत्रायुष्याणि
अनायुष्याणि च द्रव्यगुणकर्म्माणि केबलेनोप-
देक्ष्यन्ते” ।
“तानिन्द्रः सहस्रदृगमरगुरुवरोऽब्रवीत् स्वागतं
ब्रह्मविदां ज्ञानतपोधनानां ब्रह्मर्षीणामस्ति भुवो-
ग्लानिरप्रभावत्वं वैस्वर्य्यं वैवर्ण्यञ्च ग्राम्यवासकृत-
मसुखमसुखानुबन्धं च । ग्राम्यो हि वासो मूल-
मशस्तानां तत्कृतं पुण्यकृद्भिरनुग्रहः प्रजानां
स्वशरीरमरक्षिभिः कालश्चायमायुर्व्वेदोपदेशस्य
ब्रह्मर्षीणामात्मनः प्रजानाञ्चानुग्रहार्थमायुर्व्वेद-
मश्विनौ मह्यं प्रयच्छतां प्रजापतिरश्विभ्यां ।
प्रजापतये ब्रह्मा प्रजानामल्पमायुर्ज्जराव्याधि-
बहुलमसुखमसुखानुबन्धं अल्पत्वादल्पतपोदम-
नियमदानाध्ययनसञ्चयं मत्वा पुण्यतममायुः-
प्रकर्षकरं जराव्याधिप्रशमनं ऊर्ज्जस्करममृतं
शिवं शरण्यमुदात्तं भवन्तो मत्तः श्रोतुमर्हन्त्युप-
धारयितुं प्रकाशयितुञ्च प्रजानुग्रहार्थमार्षं ब्रह्म
च मैत्रीं कारुण्यमात्मनश्चानुत्तमं पुण्यमुदारं
ब्राह्ममक्षयं कर्म्मेति” । इति चरकः ॥
“तानुवाच भगवान् स्वागतं वः । सर्व्वत्र वा
मीमांस्या अध्याप्याश्च भवन्तो वत्साः ! इह
खल्वायुर्व्वेदो नाम यदुपाङ्गमथर्व्ववेदस्यानुत्पाद्यव
प्रजाः श्लोकशतसहस्रमध्यायसहस्रञ्च कृतवान् स्व-
यम्भूः । ततोऽल्पायुष्ट्वमल्पमेधस्त्वञ्चावलोक्य नराणां
भूयोऽष्टधा प्रणीतवान् ॥ तद्यथा ॥ शल्यं शालाक्यं
कायचिकित्सा भूतविद्या कौमारमृत्यमगदतन्त्रं
रसायनतन्त्रं वाजीकरणतन्त्रमिति” ॥
“वत्स ! सुश्रुत ! इह खल्वायुर्व्वेदप्रयोजनं व्या-
ध्युपसृष्टानां व्याधिपरिमोक्षः स्वस्थस्य रक्षणञ्च ।
आयुरस्मिन् विद्यतेऽनेन वा आयुर्विन्दतीत्यायु-
र्वेदः । तस्याङ्गवरमाद्यमागमप्रत्यक्षानुमानोपमानै-
रविरुद्धमुच्यमानमुपधारय । एतद्ध्यङ्गं प्रथमं
प्रागभिघातव्रणसंरोहादयज्ञशिरःसन्धानाच्च” ।
“तदिदं शाश्वतं पुण्यं स्वर्ग्यं यशस्यमायुष्यं वृत्ति-
करञ्चेति” ॥
पृष्ठ १/१८७
:“ब्रह्मा प्रोवाच ततः प्रजापतिरधिजगे तस्मा-
दश्विनावश्विभ्यामिन्द्र इन्द्रादहं मया त्विह प्रदेय-
मर्थिभ्यः प्रजाहितहेतोः” ॥ इति सुश्रुतः ॥)

आयुर्व्वेदी, [न्] त्रि, (आयुर्व्वेदो ज्ञातव्यत्वेन विद्यते

यस्य । आयुर्व्वेद + इनि ।) आयुर्व्वेदज्ञः । चिकित्-
सकः । वैद्यः । इति हेमचन्द्रः राजनिर्घण्टश्च ॥

आयुर्योगः, पुं, (ज्रायुषो जीवितकालस्य योगो

भवत्यस्मात् ।) औषधं । इति राजनिर्घण्टः ।

आयुष्मान्, [त्] त्रि, (आयुस् + मतुप् ।) चिरजीवी ।

दीर्घायुः । तत्पर्य्यायः । जैवातृकः २ । इत्यमरः ॥
(यथा मनुः, २ । १२५, ३ । २६३ ।
“आयुष्मान् भव सौम्येति वाच्यो विप्रोऽभिवादने” ।
“आयुष्मन्तं सुतं सूते यशोमेधासमन्वितं” इतिच ॥)

आयुष्मान्, पुं, विस्कुम्भादिसप्तविंशतियोगान्तर्गत-

तृतीययोगः । तत्र जातफलं । “यस्यायुष्मान् जन्म-
काले धनुष्मान् याने यानं तस्य देशेषु कार्य्यं ।
कुर्य्यान्न्यूनं क्रीडनं पुष्पवाट्यां दासैर्व्वासैरन्वितो
गर्व्वितश्च” ॥ इति दीपिका ॥
(“आयुष्मान् सत्त्ववान् साध्यो द्रव्यवानात्मवानपि”
इति सुश्रुतः ॥)

आयुष्यं, त्रि, (आयुष् + यत् ।) पथ्यं । इति राज-

निर्घण्टः ॥ आयुर्हितकारकं ॥ (मनुः । ४ । १०६ ।
“धन्यं यशस्यमायुष्यं स्वर्ग्यं चातिथिपूजनं” ।
तत्रैव २ । ५१ ।
“आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखम्” ।
“आयुष्यं भोजनं जीर्णे वेगानाञ्चाविधारणं ।
ब्रह्मचर्य्यमहिंसा च साहसानाञ्च वर्ज्जनं” ॥
इति सुश्रुतः ॥
“आयुष्या दीपनी चैव चक्षुष्या व्रणशोधिनी” ।
इति हारीतः ।)

आयुष्यसूक्तं, क्ली, (आयुष्यञ्च तत्सूक्तञ्चेति । कर्म्म-

धारयः ।) नान्दीश्राद्धादौ वसुधारासम्पातनान-
न्तरपाठ्यो वैदिकमन्त्रविशेषः ।
सामगानां तन्मन्त्रो यथा, --
ॐ आयुर्विश्वायुर्विश्वं विश्वमायुरसिमहि । प्रजा-
न्त्वष्टरधिनिधेह्यस्मै शतं जीवेम शरदो वयन्ते ।
आयुषे मे पवस्व वर्च्चसे मे पवस्व विदुः पृथिव्या
दिवो जनित्र्या शृण्वन्त्वापोधःक्षरन्ती सोमो
होद्गाय ममायुषे मम ब्रह्मवर्च्चसाय यजमान-
स्यर्द्ध्या अमुष्य राज्याय । अमुष्य स्थाने यदर्थं वृद्धि-
स्तस्य षष्ट्यन्तनाम प्रयोज्यं । इति रघुनन्दनभट्टा-
चार्य्यकृतश्राद्धप्रयोगतत्त्वं ॥ * ॥
यजुर्विदां तन्मन्त्रो यथा, --
ॐ आयुष्यं वर्च्चस्यं रायष्पोषमौद्भिदं इदं हिरण्यं
वर्च्चस्व जेत्रायाविशतादुमां । न तद्रक्षां¤सि न
पिशाचास्तरन्ति वेदानामोजः प्रथमजं¤ ह्येतत् ।
यो बिभर्त्ति दाक्षायण्यं¤ हिरण्यं¤ सहदेवेषु
कृणुते दीर्घमायुः समनुष्येषु कृणुते दीर्घमायुः ।
यदा बध्रान्दाक्षायणां¤ हिरण्यं¤ शतानीकाय
सुमनस्यमानाः । तन्न आवध्रामि शतसारदया
युष्माञ्जरदष्टिर्यथासं” । इति तत्कृतयजुर्व्वेदीय-
श्राद्धप्रयोगतत्त्वं ॥

आयुस्करः, त्रि, (आयुस् + कृ + क ।) परमायुर्ज-

नकः ॥ (आयुर्वृद्धिजनकः ।
“सहामलकशुक्तिभिर्दधिसरेण तैलेन वा
गुडेन पयसा घृतेन यवशक्तुभिर्वा सह ।
तिलेन सहमाक्षिकेण पलनेन सूपेन वा
वपुस्करमरुस्करं परममेध्यमायुस्करं” ॥
इति वाभटः ॥)

आयोगः, पुं, (आङ् + युज् + घञ् ।) गन्धमाल्यो-

पहारः । व्यापारः । रोधः । इति हेमचन्द्रः ॥
(यथा रामायणे, --
“सरलैः कर्णिकारैश्च किंशुकैश्च सुपुष्पितैः ।
स देशो भ्रमरायोगः प्रदीप्त इव लक्ष्यते” ॥)

आयोगवः, पुं, (अयोगव एव स्वार्थे अण् ।) शूद्रा-

द्वैश्यायां जातो जातिविशेषः । इति हेमचन्द्रः ॥
तस्य कर्म्म काष्ठतक्षणं । (यथा मनुः १० । १२,
१० । १६ ।
“शूद्रादायोगवः क्षत्ता चण्डालश्चाधमो नृणां ।
वैश्यराजन्यविप्रासु जायन्ते वर्णसङ्कराः” ॥
“आयोगवोऽयं क्षत्ता च चाण्डालश्चाधमो नृणां ।
प्रातिलोम्येन जायन्ते शूद्रादपसदास्त्रयः” ॥)

आयोजनं, क्ली, (आङ् + युज् + ल्युट् ।) उद्योगः ।

आहरणं । द्रव्यासादनं । यथा, --
“कुत्रचित् तण्डुलाः सन्ति क्व च स्थाली क्व चेन्धनं ।
तेषामायोजनं कुर्व्वन् मुख्यः कर्त्ताभिधीयते” ॥
इति गोयीचन्द्रधृतकारिका ॥

आयोधनं, क्ली, (आङ् + युध + ल्यट् ।) युद्धं । बधः ।

इति मेदिनी ॥ (रघुवंशे, ६ । ४२ ।
“आयोधने कृष्णगतिं सहाय-
मवाप्य यः क्षत्रियकालरात्रिं” ।
भट्टिः, “आयोधने स्थायुकमस्त्रजातम्” ।
रघुः, ५ । ७१ । “आयोधनाग्रसरतां त्वयि वीर !
याते ।)

आरं, क्ली, (आङ् + ऋ + भावे घञ् ।) मुण्डायसं ।

मुण्डलोहं । इति राजनिर्घण्टः ॥ पित्तलं । इत्य-
मरटीका ॥ कोणः । प्रान्तभागः । इत्यानन्दलह-
रीटीका ॥ (चक्राङ्गकाष्ठभेदः । यथा महाभारते,
“आरान्तरेनावपतत् संक्षिप्याङ्गं क्षणेन ह” ।
“यस्त्रिषष्टिशतारण्यं वेदार्थं स परः कविः” ॥)

आरः, पुं, (आङ् + ऋ + कर्त्तरि संज्ञायां घञ् ।)

मङ्गलग्रहः । शनिः । पित्तलं । इति हेमचन्द्रः ॥
वृक्षभेदः । तत्पर्य्यायः । मधुराम्लफलः २ । इति
रत्नमाला ॥ रेफल इति ख्यातः ॥

आरकूटः, पुं क्ली, (आरं कूटयति स्तूपीकरोति

पचाद्यच् ।) पित्तलं । इत्यमरः ॥ (यथा नैषधे ।
“अकाञ्चने काञ्चननायिकाङ्गके किमारकूटाभर-
णेन न श्रियः” ।)

आरक्षं, त्रि, (आरक्षतीति । आङ् + रक्ष + अच् ।)

रक्षायुक्तं । इति शब्दरत्नावली ॥ रक्षणीयं । इति
विश्वः ॥

आरक्षः, पुं, (आङ् + रक्ष + अच् ।) गजकुम्भसन्धिः ।

इति त्रिकाण्डशेषः ॥

आरग्वधः, पुं, (आ + रगे शङ्कायां क्विप । आरग

रोगशङ्कामपि हन्ति अच् बधादेशश्च ।) वृक्ष-
विशेषः । सोनालु सोँदालि इति ख्यातः । तत्-
पर्य्यायः । राजवृक्षः २ सम्पाकः ३ चतुरङ्गुलः ४
आरेवतः ५ व्याधिघातः ६ कृतमालः ७ सुव-
र्णकः ८ । इत्यमरः ॥ मन्थानः ९ रोचनः १० दीर्घ-
फलः ११ नृपद्रुमः १२ हिमपुष्पः १३ राजतरुः १४
कण्डुघ्नः १५ ज्वरान्तकः १६ अरुजः १७ स्वर्ण-
पुष्पः १८ स्वर्णद्रुः १९ कुष्ठसूदनः २० कर्णा-
भरणकः २१ महाराजद्रुमः २२ कर्णिकारः २३
स्वर्णाङ्गः २४ । इति राजनिर्घण्टः ॥ प्रग्रहः २५ ।
इति रत्नमाला ॥ अस्य गुणाः । अतिमधुरत्वं ।
शीतलत्वं । शूलज्वरकण्डुकुष्ठमेहकफविष्टम्भना-
शित्वञ्च । इति राजनिर्घण्टः ॥ अपि च । ज्वर-
हृद्रोगवातरक्तोदावर्त्तरोगे अतिशयपथ्यत्वं । मृदु-
त्वञ्च । अस्य फलगुणाः । मधुरत्वं । शुक्रकारित्वं ।
वातपित्तहारित्वञ्च । इति राजवल्लभः ॥ आमल-
तास इति हिन्दीभाषा ।
“आरग्वधो राजकृक्षः सम्पाकश्चतुरङ्गुलः ।
आरेवतव्याधिघातकृतमालसुवर्णकाः ॥
कर्णिकारो दीर्घफलः स्वर्णाङ्गः स्वर्णभूषणः ।
आरग्वधो गुरुः स्वादुः शीतलः स्रंसनोत्तमः ॥
ज्वरहृद्रोगपित्तास्रवातोदावर्त्तशूलनुत् ।
तत्फलं स्रंसनं रुच्यं कुष्ठपित्तकफापहं ॥
ज्वरे तु सततं पथ्यं कोष्ठशुद्धिकरं परं” ।
इति भावप्रकाशः ॥
(व्यवहारो यथा, --
“बाले वृद्धे क्षते क्षीणे सुकुमारे च मानवे ।
योज्योमृद्वलपायित्वाद्विशेषाच्चतुरङ्गुलः” । * ॥
ग्रहणप्रणाली यथा ॥ * ॥
“फलकाले फलन्तस्य ग्राह्यं परिणतञ्च यत् ।
तेषां गुणवतां भारं सिकतासु निधापयेत् ॥
सप्तरात्रात् ससुद्धृत्य शोषयेदातपे मिषक् ।
ततो मज्जानमुद्धृत्य शुचौ भाण्डे निधापयेत्” । * ॥
संयोगविशेषे गुणा यथा ॥ * ॥
“द्राक्षारसयुतो देयो दाहोदावर्त्तपीडिते ।
चतुर्व्वर्षसुखं बाले यावद्द्वादशवार्षिके । * ॥
चतुरङ्गुलमज्ज्ञस्तु प्रसृतं वाथवाञ्जलिं ।
सुरामण्डेन संयुक्तमथवा कोलसीधुना ॥
दधिमण्डेन वा युक्तंरसेनामलकस्य वा ।
कृत्वा शीतकषायं तं पिबेत् सौवीरकेण वा” ॥
इति चरकः ॥)

आरट्टः, पुं, (आङ् + रट् + टच् ।) देशविशेषः ।

त्रिकाण्डशेषे क्षत्रियवर्गे आरट्टजशब्ददर्शनात् ॥
तत्र आरट्टजोऽपि पाठः ॥ (यथा भारते, --
“पञ्चनद्यो वहन्त्येता यत्र पीलवनान्युत ।
शतद्रुश्च विपाशा च तृतीयैरावती तथा ॥
चन्द्रभागा वितस्ता च सिन्धुषष्ठा वहिर्गिरेः ।
आरट्टा नाम ते देशा नष्टधर्म्मा न तान् व्रजेत्” ॥
“पञ्च नद्यो वहन्त्येता यत्र निःसृत्य पर्ब्बतात् ।
आरट्टा नाम वाहीका न तेष्वार्य्यो द्व्यहं वसेत्” ॥)

आरट्टजः, पुं, (आरट्टदेशे जायते आरट्ट + जन +

डः ।) आरट्टदेशोद्भवघोटकः । इति जटाधरः
पृष्ठ १/१८८
:त्रिकाण्डशेशभूरिप्रयोगौ च ॥ (आरट्टदेशोत्पन्ने,
त्रि । यथा महाभारते, --
“सीधोः पानं गुरुतल्पावमर्द्दो
भ्रूणहत्या परवित्तापहारः ।
येषां धर्म्मस्तान् प्रति नास्त्यधर्म्म-
आरट्टजान् पञ्चनदान् धिगस्तु” ॥)

आरणिः, पुं, (आङ् + ऋ + अणिच् ।) आवर्त्तः ।

तत्पर्य्यायः । कुलहण्डकः २ । इति हारावली ॥
पाकमारा जल इत्यादि भाषा ॥

आरण्यपशुः, पुं, (अरण्ये भवः । अरण्य + ष्यञ् + स

चासौ पशुश्चेति कर्म्मधारयः ।) अरण्यजातपशुः ।
स च सप्तधा यथा । महिषः १ वानरः २ ऋक्षः
३ सरीसृपः ४ रुरुः ५ पृषतः ६ मृगः ७ । इति
तिथ्यादितत्त्वे पैठीनसिः ॥

आरण्यमुद्गा, स्त्री, (अरण्यमुद्गस्येवाकारः पर्णे यस्याः ।

ततः स्वार्थे अण् ।) मुद्गपर्णे । मुगानी इति
भाषा । इति राजनिर्घण्टः ॥

आरण्यराशिः, पुं, (अरण्ये भवः आरण्यः अत्र सिंह

एव स एव राशिः ।) सिंहराशिः । मकरप्रथ-
मार्द्धः । मीनमेषवृषराशयः । इति दीपिका ॥

आरतिः, स्त्री, (आङ् + रम् + क्तिन् ।) विरतिः । नि-

वृत्तिः । इत्यमरः ॥ (उपरमः, नीराजनम् ।)

आरनालं, क्ली, (आर्च्छति आङ् + ऋ + अच् आरः ।

नल गन्धे ज्वलतीति णः नालः । आरः नालो
गन्धो यस्य ।) काञ्जिकं । इति हेमचन्द्रः ॥
“आरनालन्तु गोधूमैरामैः स्यान्निस्तुषीकृतैः ।
पक्वैर्व्वा सन्धितैस्तत्तु सौवीरसदृशं गुणैः” ॥
इति राजनिर्घण्टः ॥
(“लाक्षा हरिद्रा मञ्जिष्ठा कल्कैस्तैलं विपाचयेत् ।
षड्गुणेनारनालेन दाहशीतज्वरापहं” ॥ * ॥
लाक्षादितैले ॥ * ॥ इति वैद्यकचक्रपाणिसंग्रहः ॥)

आरनालकं, क्ली, (आरनालम् एव स्वार्थे कः ।)

काञ्जिकं । इत्यमरः ॥ कांजि इति भाषा ।

आरब्धं, त्रि, (आङ् + रभ् + क्तः ।) कृतारम्भं । आरम्भे

क्ली । यथा, --
“आरब्धं मलमासात् प्राक् यत् कर्म्म न समापितं ।
आगते मलमासेऽपि तत् समाप्यं न संशयः” ॥
इति मलमासतत्त्वं ॥ * ॥ आरब्धकर्म्मण्यशौचा-
भावो यथा, --
“व्रतयज्ञविवाहेषु श्राद्धे होमेऽर्च्चने जपे ।
आरब्धे सूतकं न स्यादनारब्धे तु सूतकं” ॥
इति तिथ्यादितत्त्वं ॥

आरम्भः, पुं, (आङ् + रभि + घञ् ।) प्रथमकृतिः ।

तत्पर्य्यायः । प्रक्रमः १ उपक्रमः २ अभ्यादानं ३
उदॄतः ४ आरम्भः ५ । इत्यमरः ॥ अभ्यादानादि-
त्रयमारम्भमात्रे । प्रक्रमादिपञ्च आरम्भमात्रे
इत्येके ॥ केचित्तु प्रक्रमादिद्वयं प्रथमारम्भे ॥
अभ्यादानादित्रयं आरम्भमात्रे । इति बहुभिरुक्त-
मपि न साधु यतः प्रथमकृतिरेव आरम्भः तत्पूर्ब्ब-
द्वयं आरम्भे शेषत्रयं आरब्धे इत्याहुः । इति
मरतः ॥ त्वरा । उद्यमः । बधः । दर्पः । इति मेदिनी ॥
प्रन्तावना । इति त्रिकाण्डशेषः ॥ आद्यकृतिः ।
यथा, --
“मीनादिस्थो रविर्येषामारम्भप्रथमक्षणे ।
भबेत्तेऽब्दे चान्द्रमासाश्चैत्राद्या द्वादश स्मृताः” ॥
आरम्भप्रथमक्षणे आद्यकृत्याद्यसमये । इति मल-
सामतत्त्वम् ॥ पारिभाषिकारम्भो यथा, --
“आरम्भो वरणं यज्ञे सङ्कल्पो व्रतजापयोः ।
नान्दीश्राद्धं विवाहादौ श्राद्धे पाकपरिष्क्रिया” ॥
इति तिथ्यादितत्त्वम् ॥ (यथा मेघदूते । ३७ । --
“मृत्यारम्भे हर पशुपतेरार्द्रनागाजिनेच्छाम्” ।
साहित्यदर्पणे । प्रमथपरिच्छेदे ।
“ग्रन्थारम्भे निर्विघ्नेन प्रारिप्सितपरिसमाप्ति-
कामः” । रघुवंशे । १ । १५ ।
“आगमैः सदृशारम्भ आरम्भसदृशोदयः” ।)

आरवः, पुं, (आङ् + रु + अच् ।) शब्दः । इत्यमरः ॥

(यथा रामायणे । “वानराश्चक्रुरारवं” ।)

आरवी, स्त्री, आरवनामकम्लेच्छदेशीयभाषा । यथा,

“ज्येष्ठाश्लेषा मघा पूर्ब्बा रेवती भरणीद्वये” ।
विशाखार्द्रोत्तराषाढशतभे पापवासरे ॥
लग्रे स्थिरे सचन्द्रे च पारसीमारवीं पठेत्” ।
इति गणपतिमुहूर्त्तः ॥

आरा, स्त्री, (आङ् + ऋ + अच् + टाप् ।) चर्म्म-

भेदकास्त्रं । तत्पर्य्यायः । चर्म्मप्रभेदिका २ । इत्य-
मरः ॥
“उद्यम्यारामग्रकायोत्थितस्य” । इति माघः ।)

आराग्रं, क्ली, (आरायाः अग्रं षष्ठीतत् ।) अर्द्धचन्द्रा-

द्यस्त्रमुखं ।
“अर्द्धचन्द्रखुरप्रादिधाराग्रं मुखमुच्यते” ।
“आराग्रन्तु मुखन्तेषां पुष्पपत्रादिभेदतः” ॥ इति
हलायुधः ॥

आरात्, व्य, (आ राति । रा दाने बाहुलकादाति-

प्रत्ययः ।) दूरं । निकटः । इत्यमरः ॥
(यथा, उत्तरचरिते ।
“मेघमालेव यश्चायमारादपि विभाव्यते” । इति
“तमर्च्यमारादभिवर्त्तमानम्” । इति रघौ २ । १० ।

आरातिः, पुं, (आङ् + रा + क्तिन् ।) अरातिः ।

शत्रुः । इति भरतः द्विरूपकोषश्च ॥

आरात्रिकं, क्ली, (आङ् + रात्रि + कन् ।) नीराजन-

निमित्तदीपः । नीराजना । नीराजनपात्रञ्च ।
आरति इति भाषा । तथाच हरिभक्तिविलासे ।
“ततश्च मूलमन्त्रेण दत्त्वा पुष्पाञ्जलित्रयं ।
महानीराजनं कुर्य्यात् महावाद्यजयस्वनैः ॥
प्रज्वालयेत्तदर्थञ्च कर्पूरेण घृतेन वा ।
आरात्रिकं शुभे पात्रे विषमानेकवर्त्तिकं” ॥
अन्यच्च ।
“आदौ चतुष्पादतले च विष्णो
र्द्वौ नाभिदेशे मुखमण्डलैकं ।
सर्व्वेषु चाङ्गेष्वपि सप्तवारा-
नारात्रिकं भक्तजनस्तु कुर्य्यात्” ॥

आराधनं, क्ली, (आङ् + राध् + ल्युट् ।) साधनं ।

प्राप्तिः । तोषणं । इत्यमरः ॥ पचनं । इति मे-
दिनी ॥ (यथा तैराग्यशतके तृष्णादृषणे ५ ।
‘मन्त्राराधनतत्परेण मनसा नीताः श्मशाने निशाः’ ।
उत्तरचरिते । प्रथमाङ्के ।
“स्नेहं दयाञ्च सौख्यञ्च यदि वा जानकीमपि ।
आराधनाय लोकानां मुञ्चतो नास्ति मे व्यथा” ॥
कुमारसम्भवे १ । ५९ ।
“आराधनायास्य सखीसमेतां
समादिदेश प्रयतां तनूजाम्” ।)

आराधना, स्त्री, (आङ् + राध् + णिच् + युच् +

स्त्रीत्वात् टाप् ।) साधना । तत्पर्य्यायः । सेवा २
भक्तिः ३ परिचर्य्या ४ प्रसादना ५ शुश्रूषा ६
उपास्तिः ७ वरिवस्याः ८ परिष्टिः ९ उपचारः
१० । इति हेमचन्द्रः ॥

आरामः, पुं, (आरम्यतेऽत्र, आङ् + रम् + आधारे

घञ् ।) उपवनं । इत्यमरः ॥ वागान् इति भाषा ।
(यथा, मनुः, -- ८ । २६२ । ८ । २६४ ।
“क्षेत्रकूपतडागानामारामस्य गृहस्य च” ।
“गृहं तडागमारामं क्षेत्रं वा भीषया हरन्” ॥)

आरामशीतला, स्त्री, (आरामत्वात् शीतला स्निग्धा ।)

सुगन्धिपत्रिविशेषः । वब्बर्य्यादिवर्गे लिखिता ।
तत्पर्य्यायः । आनन्दी २ शीतला ३ सुगन्धिनी ४
रामा ५ महानन्दा ६ गन्धाढ्या ७ रामशीतला
८ । अस्या गुणाः । तिक्तत्वं । शीतलत्वं । पित्त-
हारित्वं । दाहशोथप्रशमनत्वं । विस्फोटव्रणरोप-
णत्वञ्च । इति राजनिर्घण्टः ॥ (यथा वैद्यके ।
“आरामशीतला तिक्ता शीतला पित्तहारिणी” ।)

आरालिकः, त्रि, (अरालं कुटिलं चरति इति ठक् ।)

सूपकारः । पाचकः । इत्यमरः ॥

आरावः, पुं, (आङ् + रु + घञ् ।) शब्दः । इत्यमरः ॥

(यथा महाभारते ।
“आरावं मातृवर्गस्य भृगूणां क्षत्रियैर्बधे” ।
“आरावः सुमहांश्चासीत्” ।)

आरुः, पुं, (ऋ + उण् ।) वृक्षभेदः । कर्कटः । शूकरः ।

इति मेदिनी ॥

आरूः, पुं, (ऋच्छति अर्यते वा । ऋ + ऊ + णिच्च ।)

पिङ्गलवर्णः । तद्युक्ते त्रि । इत्युणादिकोषः ॥

आरूकं, क्ली, (आरू + कन् ।) हिमाचले प्रसिद्धौ-

षधीविशेषः । आड इति भाषा । तत्पर्य्यायः ।
वीरसेनं २ वीरं ३ वीरारुकं ४ । तत्पत्रपुष्पादि-
भेदतः चतुर्जातिः । तेषां गुणाः । मधुरत्वं । हि-
मत्वं । अर्शःप्रमेहगुल्मास्रदोषनाशित्वञ्च । इति
राजनिर्घण्टः ॥ (यथा चरके ॥
“अम्लं परुषकं द्राक्षा वदर्य्याण्यारूकाणि च” ॥)

आरूढः, त्रि, (आङ् + रुह् + कर्त्तरि क्तः ।) कृता-

रोहणः । वृक्षादिर उपर चडा व्यक्ति इति
भाषा । यथा, --
“राम रामेति रामेति कूजन्तं मधुराक्षरं ।
आरूढकविताशाखं वन्टे वाल्मीकिकोकिलं” ॥
इति रामायणपाठस्य पूर्ब्बपाठ्यश्लोकः ॥
(यथा स्मृतिः ।
“आरूढो नैष्ठिकं धर्म्मं यस्तु प्रच्यवते पुनः ।
प्रायश्चित्तं न पश्यामि येन शुध्येत् स आत्महा” ॥
गीता ।
“योगारूढस्य तस्यैव शमः कारणमुच्यते” ।)
पृष्ठ १/१८९

आरेवतं, क्ली, (आरेवयति निस्तारयति मलं सार-

कत्वात् । रेवृ प्लवगतौ । णिच् + विच् ॥ अतति ।
अत + अच् । तत आरेव् चासौ अतश्चेति ।)
पारावतवृक्षफलं । इति राजनिर्घण्टः ॥
(“मूलकं शुष्कमात्रञ्च वर्षाभूः पञ्चमूलकं ।
आरेवतफलञ्चांप्सु पक्त्वा तेन घृतं पचेत्” ॥
इति सुश्रुतः तैद्यकचक्रपाणिसंग्रहश्च ॥)

आरेवतः, पुं, (आरेवयति रेचयति मलं सारकत्वात्

आङ् + रेव् + णिच् + विच् + अतच् ।) आरग्वध-
वृक्षः । इत्यमरः ॥

आरोग्यं, क्ली, (अरोगस्य भावः । ष्यञ् ।) व्याध्यभावः ।

तत्पर्य्यायः । अनामयं २ । इत्यमरः ॥ पाटवं ३
लाघवं ४ वार्त्तं ५ । इति राजनिर्घण्टः ॥ (“आ-
रोग्यं तत् सुखावहं” । इति शार्ङ्गधरः ॥
“धर्म्मार्थकाममोक्षाणामारोग्यं मूलमुत्तमम्” ।
“सुखसंज्ञकमारोग्यम्,”
“वेदाध्ययनशब्दाश्च सुखो वायुः प्रदक्षिणः ।
पथि वेश्मप्रवेशे तु विद्यादारोग्यलक्षणम् ॥”
इति चरकः ॥
“सुखमात्रं समासेन सद्वृत्तस्यैतदीरितं ।
आरोग्यमायुरर्थो वा नासद्भिः प्राप्यते नृभिः” ॥
इति सुश्रुतः ॥)

आरोग्यशाला, स्त्री, (आरोग्यार्था शाला । मध्यपद-

लोपिकर्म्मधारयः ।) आरोग्यदानगृहं । चिकित्-
सालयः । यथा, --
“धर्म्मार्थकाममोक्षाणामारोग्यं साधनं यतः ।
अतस्त्वारोग्यदाता च नरो भवति सर्व्वदः ॥
आरोग्यशालां कुर्व्वीत महौषधपरिच्छदां ।
विदग्धवैद्यसंयुक्तां बह्वन्नरससंयुतां ॥
वैद्यस्तु शास्त्रवित् प्राज्ञो दृष्टौषधपराक्रमः ।
ओषधीमूलतत्त्वज्ञः समुद्धरणकालवित् ॥
बलवीर्य्यविपाकज्ञः शालिमांसौषधीगणे ।
त्यागिवद्देहिनां तद्वदनुकूलः प्रियंवदः” ॥
इति वैद्यकं ॥

आरोपः, पुं, (आङ् + रुह् + णिच् + घञ् ।) मिथ्या-

ज्ञानं । यथा । “असर्पभूते रज्जौ सर्पारोपवत्
वस्तुन्यवस्त्वारोपः अध्यारोपः” । इति वेदान्त-
सारः ॥ मिथ्याविष्करणं । यथा । “असूया तु
दोषारोपो गुणेष्वपि” । इत्यमरः ॥
(यथा साहित्यदर्पणे । १० म परिच्छेदे ।
“आरोपाध्यवसानाभ्यां प्रत्येकं ता अपि द्विधा” ।
“रूपितं रोपितारोपो विषये निरपह्ववे” ॥
“यत्र कस्यचिदारोपः परारोपणकारणं” ।)

आरोपणं, क्ली, (आङ् + रुह् + णिच् + ल्युट् ।)

न्यासः । संस्थापनं ॥ (शस्यादीनां रोपणं । शरा-
सनादौ ज्यादीनां संयोजनं, उन्नमनं, समुत्थापनं,
यथा साहित्यदर्पणे । १० म परिच्छेदे ।
“यत्र कस्यचिदारोपः परारोपणकारणम्” ।
रामायणे । आदिकाण्डे ।
“यद्यस्य धनुषो रामः कुर्य्यादारोपणं मुने” ।)

आरोपितं, त्रि, (आङ् + रुह् + णिच् + क्तः ।) कृता-

रोपणं । निहितं । न्यस्तं । इति हलायुधः ॥
कल्पितं ॥ (यथा कुमारसम्भवे ३ । ३५ ।
“तं देशमारोपितपुष्पचापे” । काव्यप्रकाशे ।
“समस्तवस्तुविषयं श्रौता आरोपिता यदा” ।)

आरोहः, पुं, (आङ् + रुह् + घञ् ।) दैर्ध्यं । वरस्त्रि-

याः श्रोणिः । इत्यमरः ॥ (यथा माघे “आरोहै-
र्निविडवृहन्नितम्बविम्बैः” ।) अवरोहः । आरो-
हणं । गजारोहः । समुच्छ्रयः । इति मेदिनी ॥
(“आरोहमिव रत्नानां प्रतिष्ठानमिव श्रियः” ।
इति रामायणे ।) परिमाणविशेषः । नितम्बः ।
इति हेमचन्द्रः ॥ (आरोहति यः । आङ् + रुह्
+ अच् । निषादी । यथा, हरिवंशे, --
“अश्वाश्च पर्य्यधावन्त हतारोहा दिशो दश” ।)

आरोहकः, त्रि, (आङ् + रुह् + ण्वुल् ।) आरोहण-

कर्त्ता ॥

आरोहणं, क्ली, (आरुह्यतेऽनेन । आङ् + रुह् +

ल्युट् ।) सोपानं । सिडि इति भाषा । (भावे
ल्युट् ।) समारोहः । नीचादूर्द्ध्वगमनमिति यावत् ।
(यथा कुमारसम्भवे १ । ३९ ।
“आरोहणार्थं नवयौवनेन
कामस्य सोपानमिव प्रयुक्तम्” ।)
प्ररोहणं । अङ्कुरादिजननमिति यावत् । इति
मेदिनी ॥

आर्किः, पुं, (अर्कस्यापत्यं । अर्क + इञ् ।) अर्कपुत्त्रः ।

शनैश्चरः । इति ज्योतिःशास्त्रं ॥ (वैवस्वतमनुः,
सुग्रीवः, कर्णश्च ।)

आर्गलः, पुं स्त्री, (अर्गल एव स्वार्थे अण् ।) अर्गलः ।

इति द्विरूपकोषः ॥ खिल इति भाषा ।

आर्ग्वधः, पुं, आरग्वधवृक्षः । इति शब्दचन्द्रिका ॥

(“आरग्वधशब्देऽस्य गुणादयो ज्ञातव्याः” ।)

आर्घा, स्त्री, (आङ् + अर्घ् + अच् ।) पीता दीर्घतुण्डा

षट्पदसन्निभा मक्षिका । इति राजनिर्घण्टः ॥

आर्घ्यं, क्ली, (आर्घया मक्षिकया विहितम् । आर्घा

+ यत् ।) आर्घानाममक्षिकोत्पन्नमधु । तस्य
गुणाः । अतिशयचक्षुर्हितकारित्वं । कफपित्तास्र-
दोषनाशित्वञ्च । इति राजनिर्घण्टः ॥ (यदुक्तं, --
“मधूकवृक्षानिर्यासं जरत्कार्व्वाश्रमोद्भवाः ।
स्रवन्त्यार्घ्यं तदाख्यातं श्वेतकं मालवे पुनः ॥
तीक्ष्णतुण्डास्तु याः पीता मक्षिकाः षट्पदोपमाः ।
आर्घास्तास्तत्कृतं यत् तदार्घ्यमित्यपरे जगुः” ॥
यथा सुश्रुते, --
“आर्घ्यं मध्वतिचक्षुष्यं कफपित्तहरं परं ।
कषायं कटु पाके च बल्यं तिक्तमवातकृत्” ॥
इदं हि अष्टविधमधुजातिमध्ये परिगणितम् ।
“पौत्तिकं भ्रामरं क्षौद्रं माक्षिकं छात्रमेव च ।
आर्घ्यमौद्दालिकं दालमित्यष्टौ मधुजातयः” ॥)

आर्त्तः, त्रि, (आङ् + ऋ + क्तः ।) पीडितः । असुस्थः ।

यथा, --
“आर्त्तानां मार्गमाणानां प्रायश्चित्तानि ये द्विजाः ।
जानन्तो न प्रयच्छन्ति तेऽपि तद्दोषभागिनः” ॥
इति प्रायश्चित्ततत्त्वं ॥ (दुःखितः, कातरः, शोका-
भिभूतः, उद्वेजितः, विरक्तः, अपकृतः, उत्पी-
डितः । यथा शाकुन्तले, प्रथमाङ्के ।
“आर्त्तत्राणाय वः शस्त्रं न प्रहर्त्तुमनागसि” ।
“द्वेष्योऽपि सम्मतः शिष्टस्तस्यार्त्तस्य यथौषधम्” ।
इति रघौ । १ । २८ । (तथा च चरके ॥
“नाश्विनावार्त्तं भेषजेनोपपादयेतां” । इति ॥

आर्त्तगलः, पुं, (आर्त्त इव गलति पचाद्यच् ।) नील-

झिण्टी । तत्पर्य्यायः । बाणः २ बाणा ३ दासी ४
अर्त्तगलः ५ । इत्यमरस्तट्टीका च ॥
(“दासे आर्त्तगलश्च सः” । इति भावप्रकाशः ॥)

आर्त्तवं, क्ली, (ऋतुरस्य प्राप्तः, अण् यद्वा ऋतुरेव ।

प्रज्ञादिभ्यश्चेत्यण् ।) स्त्रीरजः । इत्यमरः ॥ पुष्पं ।
इति मेदिनी ॥ (यथा मनुः, ३ । ४८ ।
“तस्मात् युग्मासु पुत्त्रार्थी संविशेदार्त्तवे स्त्रियं” ।
“नोपगच्छेत् प्रमत्तोऽपि स्त्रियमार्त्तवदर्शने” ॥
अथार्त्तवस्य स्वरूपमाह ।
स्त्रीणां रस एव मासेनार्त्तवं भवतीत्थुक्त्वा पुन-
राह शुश्रुत एव ।
“मासेनोपचितं काले धमनीभ्यस्तदार्त्तवं ।
ईषद्विवर्णकृष्णञ्च वायुर्योनिमुखं नयेत्” ॥
गर्भग्रहणयोग्यस्यार्त्तवस्य लक्षणमाह ।
“शशासृक्प्रतिमं यच्च यद्वा लाक्षारसोपमं ।
तदार्त्तवं प्रशंसन्ति यद्वासो न विरञ्जयेत्” ॥
आर्त्तवस्य वर्णद्वयाभिधानं । वातादिप्रकृतिभेदेन
वर्णभेदात् । यद्वासो न विरञ्जयेत् । यद्वासो लग्नं
प्रक्षालितं तद्वासस्त्यजति न तु विकृतरक्तं कुर्य्यात्” ।
इति भावप्रकाशः ॥
“मासान्निष्पिच्छदाहार्त्ति पञ्चरात्रानुबन्धि च ।
नैवातिबहुलात्यल्पमार्त्तवं शुद्धमादिशेत् ॥
गुञ्जाफलसवर्णञ्च पद्मालक्तकसन्निभं ।
इन्द्रगोपकसङ्काशमार्त्तवं शुद्धमेव तत्” ॥
इति चरकः, --
“शशासृक्प्रतिमं यत्तु यद्वा लाक्षारसोपमं ।
तदार्त्तवं प्रशंसन्ति यद्वासो न विरञ्जयेत् ॥
विधिमुत्तरवस्त्यन्तं कुर्य्यादार्त्तवशुद्धये ॥
स्त्रीणां स्नेहादियुक्तानां चतसृष्वार्त्तवादिषु ।
कुर्य्यात् कल्कान् पिचूंश्चापि पथ्यान्याचमनानि च ॥
ग्रन्थिभूते पिबेत् पाठां भूषणं वृक्षकाणि च ।
दुर्गन्धे पूयसङ्काशे मज्जतुल्ये तथार्त्तवे ॥
पिबेद्भद्रश्रियः क्वाथञ्चन्दनक्वाथमेव च” ।
“आर्त्तवं शोणितन्त्वाग्नेयमग्नीषोमीयत्वाद्गर्भस्य
पाञ्चभौतिकञ्चापरजीवरक्तमाहुराचार्य्याः” ॥
“एवं मासेन रसः शुक्रीभवति स्त्रीणाञ्चार्त्तव-
मिति” ॥ इति शुश्रुतः ॥)

आर्त्तवः त्रि, (ऋतुः प्राप्तोऽस्य । अण् ।) ऋतूद्भवः ।

इति मेदिनीकरहेमचन्द्रौ ॥ यथा रामायणे,
“आर्त्तवान्युपभुञ्जाना पुष्पाणि च फलानि च”
रघौ ८ । ३६ ।
“अभिभूय विभूतिमार्त्तवीं
मधुगन्धातिशयेन वीरुधाम्” ।)

आर्त्तवी, स्त्री, वाजिनी । घोटकी । इति राज-

निर्घण्टः ॥

आर्त्तिः, स्त्री, (आङ् + ऋ + क्तिन् ।) पीडा । धनु-

ष्कोटिः । इत्यमरटीकायां भरतः ॥ रोगः । इति
पृष्ठ १/१९०
:राजनिर्घण्टः ॥ (यथा मेघटूते, पूर्ब्बमेघे । ५४ ।
“आपन्नार्त्तिप्रशमनफलाः सम्पदो ह्युत्तमानाम्” ।
सुश्रुते, --
“दाहातिसारपित्तासृङ्मूर्च्छामद्यविषार्त्तिषु” ।)

आर्द्रं, त्रि, (अर्द्द + रक् दीर्घश्च ।) सजलवस्तु । भिजा

इति भाषा । तत्पर्य्यायः । सार्द्रं २ क्लिन्नं ३ स्ति-
मितं ४ तिमितं ५ समुन्नं ६ उत्तं ७ । इत्यमरः ॥
(तच्च द्विविधं यदुक्तं, --
“आर्द्रं द्रव्यं द्विधा प्रोक्तं सरसं नीरसं तथा ।
सदुग्धं गुप्तरसकं द्विधा नीरसमुच्यते ॥
वास्तूकं सार्षपं शाकं निर्गुण्ड्येरण्डमार्षकम् ।
धुस्तूराद्यमिदं सर्व्वमार्द्रं सरसमुच्यते ॥
वटाश्वत्थकरीराद्यमार्द्रद्रव्यं तु नीरसं ।
सदुग्धं तु द्विधा प्रोक्तं मृदु तीक्ष्णमिति क्रमात् ।
शातला वज्रसीहुण्डसौरिण्याद्यास्तु तीक्ष्णकाः ।
दुग्धिकार्कक्षीरिण्याद्या मृदुदुग्धाः प्रकीर्त्तिताः” ॥
यथा रघुवंशे, “आर्द्राक्षतारोपणमन्वभूतां” ।
मेघदूते उत्तरमेघे २५ ।
“तन्त्रीमाद्रां नयनसलिलैः सारयित्वा कथञ्चित्”) ॥

आर्द्रकं, क्ली, (अर्द्दयति कफं आद्रं । ततः कन् । यद्वा

आर्द्रयति जिह्वायां । क्वन् ।) कटुमूलविशेषः । आदा
इति भाषा । तत्पर्य्यायः । शृङ्गवेरं २ इत्यमरः ॥
कटुभद्रं ३ कटूत्कटं ४ । इति केचित् ॥ गुल्ममूलं ५
मूलजं ६ कन्दरं ७ वरं ८ महीज ९ सकतेष्टं १०
अनूपजं ११ अपाकशाकं १२ चान्द्राख्यं १३ राहु-
च्छत्रं १४ सुशाककं १५ शार्ङ्गं १६ आर्द्रशाकं १७
सच्छाकं १८ । इति रात्रनिर्घण्टः ॥ अस्य गुणाः ।
कफवातविबन्धानाहशूलपित्तनाशित्वं । हृद्यत्वं ।
रुचिशुक्रकारित्वञ्च । इति राजवल्लभः ॥ अपिच ।
उष्णत्वं । कटुत्वं । विपाके शीतलत्वं । लघुत्वं ।
अग्निदीपनत्वं । शोथकण्ठामयनाशित्वञ्च । इति
राजनिर्घण्टः ॥ लवणार्द्रकगुणाः । भोजनाग्रे
पथ्यत्वं । जिह्वाकण्ठविशोधनत्वं । अग्निसन्दी-
पनत्वं । हृद्यत्वं, --
“वातपित्तकफेभानां शरीरवनचारिणां ।
एक एव निहन्तास्ति लवणार्द्रककेशरी” ॥
इति द्रव्यगुणः, --
“आर्द्रकं शृङ्गवेरं स्यात् कटुभद्रं तथार्द्रिका ।
आर्द्रिका भेदिनी गुर्व्वी तीक्ष्णोष्णा दीपनी तथा ।
कटुका मधुरा पाके रूक्षवातकफापहा ।
ये गुणाः कथिताः शुण्ठ्यास्तेऽपि सन्त्यार्द्रकेऽखिलाः ।
भोजनाग्रे सदा पथ्यं लवणार्द्रकभक्षणं ।
अग्निसन्दीपनं रुच्यं जिह्वाकण्ठविशोधनं ॥
कुष्ठे पाण्ड्वामये कृच्छ्रे रक्तपित्ते व्रणे ज्वरे ।
दाहे निदाघशरदोर्नैव पूजितमार्द्रकं” ॥
इति भावप्रकाशः ॥
(तद्वदार्द्रकमेतच्च, इति वामटः ॥
“रोचनं दीपनं वृष्यमार्द्रकं विश्वभेषजं ।
वातश्लेष्मविबन्धेषु रसस्तस्योपदिश्यते” ॥
इति चरकः ॥
“कफानिलहरं स्वर्य्यं विबन्धानाहशूलनुत् ।
कटूष्णं रोचनं हृद्यं वृष्यञ्चैवार्द्रकं स्मृतम्” ॥
इति सुश्रुतः ॥)

आर्द्रपटी, [न्] पुं, (आर्द्रपट + इनि ।) आर्द्ररक्तवस्त्रा-

वृतकर्त्तृकशत्रुनाशफलकाभिचारकर्म्मविशेषः ।
यथा । “अथार्द्रपटी । प्रणवो हृदयं भगवति चा-
मुण्डे रक्तवाससे अप्रतिहतरूपपराक्रमे अमुक-
बधाय विचेतसे वह्निवल्लभा । आर्द्ररक्तपटेनावृतः
समुद्रगामिनीनदीतटे ऊषरभूमौ वा दक्षिणा-
मुख ऊर्द्ध्वबाहुर्ज्जपेत् यावत् पटः शुष्यति तावत्
प्राणाः शुष्यन्ति शत्रोः” । इति तन्त्रसारः ॥
आर्द्रपटविशिष्टे, त्रि ॥

आर्द्रमाषा, स्त्री, माषपर्णी । इति राजनिर्घण्टः ॥

माषाणी इति भाषा ।

आर्द्रशाकं, क्ली, (आर्द्रं शाकमस्य ।) आर्द्रकं । इति

राजनिर्घण्टः ॥

आर्द्रा, स्त्री, (आर्द्र + टाप् ।) अश्विन्यादिसप्तविंशति-

नक्षत्रान्तर्गतषष्ठनक्षत्रं । अस्य रूपं । पद्माकृत्यु-
ज्ज्वलैकतारकामयं । अस्या अधिष्ठात्री देवता
शिवः । इति कालिदासः ॥ मणितुल्यैकतारात्मकं ।
इति केचित् ॥ तत्र जातफलं ।
“क्षुधाधिको रुक्मशरीरकान्तिः
कलिप्रियः कोपयुतोऽविनीतः ।
प्रमूतिकाले च भवेत् किलार्द्रा
नचार्द्रचेताः शरणागतेऽपि” ।
इति कोष्ठीप्रदीपः ॥

आर्द्रालुब्धकः, पुं, (आद्रायां तन्नान्मा प्रसिद्धनक्षत्रे

लुब्धक इव ।) केतुग्रहः । इति हलायुधः ॥

आर्द्रिका, स्त्री, (आर्द्रक + टाप् ।) आर्द्रकं । इति

भावप्रकाशः ॥
(“आर्द्रिका तिक्तमधुरा मूत्रला न च पित्तकृत्” ॥
इति वाभटः ॥)

आर्य्यः, त्रि, (अर्त्तुं प्रकृतमाचरितुं योग्यः । अर्य्यते

वा ॥ ऋ + ण्यत् ।) सत्कुलोद्भवः । इत्यमरः ।
पूज्यः । श्रेष्ठः । बुद्धः । इति शब्दरत्नावली ॥
सङ्गतः । इत्यजयः ॥ (मान्यः, उदारचरितः, शा-
न्तचित्तः । यथा, रामावणे, ३ काण्डे ।
“योऽहमार्य्येण परवान् भ्रात्रा ज्येष्ठेन भाविनि” ।
न्यायपथावलम्बी, प्रकृताचारशीलः, सततकर्त्तव्य-
कर्म्मानुष्ठाता । यदुक्तं,
“कर्त्तव्यमाचरन् काममकर्त्तव्यमनाचरन् ।
तिष्ठति प्राकृताचारे स तु आर्य्य इति स्मृतः” ॥
धार्म्मिकः । धर्म्मशीलः । यथा, मनुः, १० । ७५७ ।
“आर्य्यरूपमिवानार्य्यं कर्म्मभिः स्वैर्व्विभावयेत्” ।
उचितः । यथा, रामायणे, --
“मार्गमाय्यं प्रपन्नस्य नानुमन्येत कः पुमान्” ॥
नाट्योक्तौ सम्मानसूचकमिदं नाम प्रायेण मान्य-
जनाह्वाने व्यवह्रियते । यथा, सातित्वदर्पणे, षष्ठ-
परिच्छेदे ।
“स्वेच्छया नाममिर्विप्रैर्विप्र आर्य्येति चेतरैः” ।
“वाच्यौ नटीसूत्रधारावार्य्यनाम्ना परस्परं” ॥)

आर्य्यः, पुं, (अर्त्तुं सदाचरितुं योग्यः । ऋ + ण्यत् ।)

स्वामी । बुद्धः । इति हेमचन्द्रः ॥ सुहृत् । इत्यजयः ।
(श्रेष्ठवर्णः । म्लेच्छेतरजातिः । यदुक्तं महाभारते ।
“म्लेच्छाश्चान्ये बहुविधाः पूर्ब्बं ये निकृता रणे ।
आर्य्याश्च पृथिवीपालाः” । इति । स्वनामख्यातः
सावर्णमनोः पुत्त्रः । यथा, हरिवंशे ।
“वरीयांश्चावरीयांश्च संमतो धृतिमान् वसुः ।
चरिष्णुरार्य्यो धृष्णुश्च राजः सुमतिरेव च ।
सावर्णस्य मनोः पुत्त्राः भविष्या दश भारत !” ॥)

आर्य्यकं, क्ली, पिण्डपात्रादिपितृकार्य्यं । इति त्रि-

काण्डशेषः ॥

आर्य्यकः, पुं, (आर्य्य + स्वार्थे कन् ।) पितामहः । मा-

तामहः । इति शब्दमाला ॥ (यथा रामायणे, --
“अद्य ते कतिचिद्रात्र्यश्च्युतस्यार्य्यकवेश्मनः” ।
“आर्य्यकस्ते तु कुशली युधाजिन्मातुलस्तव” ॥
महाभारते, --
“आर्य्यकेण च दृष्टः स पृथाया आर्य्यकेण च ।
तदा दौहित्रदौहित्रः परिष्वक्तः सुपीडितम्” ॥
पूज्यव्यक्तिमात्रम् । स्वनामख्यातो नागश्रेष्ठः,
यथा महाभारते, --
“आर्य्यकश्चोग्रकश्चैव नागः कलशपोतकः” ।)

आर्य्यका, स्त्री, (आर्य्यक + टाप् । उदीचामात इति

पक्षे इत्त्वाभावः ।) श्रेष्ठा स्त्री । इति वोपदेवः ॥

आर्य्यपुत्त्रः, पुं, (आर्य्यस्य पुत्त्रः । षष्ठीतत्पुरुषः ।) भर्त्ता ।

स्वामी । इति हेमचन्द्रः ॥ (यथा रामायणे, --
“आर्य्यपुत्त्र ! पिता माता भ्राता पुत्त्रस्तथा स्नुषा ।
स्वानि पुण्यानि भुञ्जानाः स्वं स्वं भाग्यमुपासते” ॥)
गुरुपुत्त्रः । मान्यस्य पुत्त्रः ।

आर्य्यमिश्रः, त्रि, (आर्य्यः श्रेष्ठो मिश्रश्च ।) गौरवितः ।

इति त्रिकाण्डशेषः ॥ (माननीयः, पूज्यः । यथा
रामायणे, २ काण्डे ।
“समक्षमार्य्यमिश्राणां साधूनां गुणवर्त्तिनाम्” ।
उत्तरचरिते, प्रस्तावनायां ।
“अद्य खलु भगवतः कालप्रियनाथस्य यात्राया-
मार्य्यमिश्रान् विज्ञापयामि” ।)

आर्य्या, स्त्री, (ऋ + ण्यत् + स्त्रियां टाप् ।) पार्ब्बती ।

इति त्रिकाण्डशेषः । छन्दोविशेषः । तस्या लक्षणम् ।
“यस्याः पादे प्रथभे द्वादशमात्राः स्थितास्तृतीयेऽपि ।
अष्टादश द्वितीये चतुर्थके पञ्चदश सार्य्या” ॥
इति श्रुतबोधः ॥ अपिच ।
“लक्ष्मैतत्सप्तगणा गोपेता भवति नेह विषमे जः ।
षष्ठो जश्च न लघुर्वा प्रथमेऽर्द्धे नियतमार्य्यायाः ॥
षष्ठे द्वितीयलात्परकेल्ले मुखलाच्च स यतिपदनियमः ।
चरमेऽर्द्धे पञ्चमके तस्मादिह भवति षष्ठो लः” ॥
सा नवधा ।
“पथ्या विपुला चपला भुखचपला जघनचपला च ।
गीत्युपगीत्युद्गीतय आर्य्यागीतिश्च नवधार्य्या” ॥
इति छन्दोमञ्जरी ॥ श्रेष्ठा स्त्री ॥

आर्य्यावर्त्तः, पुं, (आर्य्या आवर्त्तन्तेऽत्र आर्य्य +

आ + वृत् + आधारे घञ् ।) बिन्ध्यहिमाचल-
यीर्मध्यदेशः । तत्पर्य्यायः । पुण्यभूमिः २ । इत्य-
मरः ॥ यथा, --
“आसमुद्रात्तु वै पूर्ब्बादाससुद्रात्तु पश्चिमात् ।
तयोरेवान्तरं गिर्य्यारार्य्यावर्त्तं विदुर्बुर्धाः” ॥
इति मानवे २ । २२ ॥ अपि च, अमरे । --
पृष्ठ १/१९१
:“आर्य्यावत्तः पुण्यभूमिर्मध्यं बिन्ध्यहिमागयोः” ।

आर्य्यिका, स्त्री, (आर्य्य + स्वार्थे कन् + अत इत्वं ।)

श्रेष्ठा स्त्री । इति वोपदेवः ॥

आर्षः, पुं, (ऋषे रिदं । ऋषि + अण् ।) विवाह-

विशेषः । यत्र वरात् गोद्वयं गृहीत्वा तेनैव सह
कन्यादानं । यथा, याज्ञबल्क्यः, --
“यज्ञस्थायर्त्विजे दैव आर्ष आदाय गोयुगं ।
चतुर्द्दश प्रथमजः पुनात्युत्तरजश्च षट्” ॥
(यथा मनुः, ३ । २९ ।
“एकं गोमिथुनं द्वे वा वरादादाय धर्म्मतः ।
कन्याप्रदानं विधिवदार्षो धर्म्मः स उच्यते” ॥)
ऋषिप्रणीते त्रि ॥ (यथा मनुः १२ । १०६ ।
“आर्षं धर्म्मोपदेशञ्च वेदशास्त्रविरोधिना ।
यस्तर्केणानुसन्धत्ते स धर्म्मं वेद नेतरः” ॥

आर्षभिः, पुं, (ऋषभस्यापत्यम् । ऋषभ + इञ् ।)

ऋषभपुत्त्रः । स तु भरतराजचक्रवर्त्ती । इति
हेमचन्द्रः ॥

आर्षभी, स्त्री, (ऋषभस्य वृषस्य प्रिया । ऋषभ +

अण् + ङीप् ।) कपिकच्छवृक्षः । इति राजनि-
र्घण्टः ।
(मध्यममार्गे नक्षत्रविशेषाणां संज्ञाविशेषः । यथा,
“तथा द्वे चापि फल्गुन्यौ मघा चैवार्षभी मता” ।
कपिकच्छुशब्देऽस्या गुणादयो ज्ञातव्याः ॥)

आर्षभ्यः, पुं, (ऋषभस्य प्रकृतिः । ऋषभ + ञ्य ।)

षण्डोपयुक्तवृषः । तत्पर्य्यायः । षण्डतायोग्यः २ ।
इत्यमरः ॥ षाँडेर उपयुक्त एँडे इति भाषा ॥

आर्हतः, पुं, (अर्हन् जिन एव । अर्हत् + अण् ।)

जिनविशेषः । तत्पर्य्यायः । वादवादी २ । इति
हेमचन्द्रः ॥

आलं, क्ली, (आलयति भूषयतीति । आ + अल् +

अच् ।) हरितालं । इत्यमरः ॥ अनल्पे त्रि । इति
हेमचन्द्रः ॥ (यथा वैद्यकरसेन्द्रसारसंग्रहे ॥)
(“हरितालं तालमालमालं शैलूषभूषणम् ।
पिञ्जकं रोमहरणं तालकं पीतमित्यपि” ॥)

आलगर्द्दः, पुं, (अलगर्द्द एव । स्वार्थे अण् ।) अलगर्द्दः ।

जलसर्पः ।

आलम्बः, पुं, (आङ् + लवि + घञ् ।) अवलम्बः ।

आश्रयः ॥ (शरणं । गतिः । “इह हि पततां
नास्त्यालम्बो न चापि निवर्त्तनम्” । इति शान्ति-
शतके ३ । २ ।) अधोलम्बनम् । यथा, रामायणे, --
“शोभते किञ्चिदालम्बैः शालयः कनकप्रभाः” ॥)

आलम्बनं, क्ली, (आङ् + लम्ब + ल्युट् ।) अवलम्बनं ।

विभावविशेषः । यथा, --
“आलम्बनोद्दीपनाख्यौ तस्य भेदावुभौ स्मृतौ ।
आलम्बनं नायकादिस्तमालम्ब्य रसोद्गमात्” ॥
इति साहित्यदर्पणे ३ य परिच्छेदः ।

आलम्भः, पुं, (आङ् + लभि + घञ् ।) मारणं ।

वधः । इत्यमरः ॥ (यथा स्मृतिः, “अश्वालम्भं
गजालम्भं” । मेधदूते पूर्ब्बमेघे । ४६ ।
“व्यालम्बेथाः सुरभितनयालम्भजां मानयिष्यन्” ।
छेदनम् । कर्त्तनम् । मनुः ११ । १४४ ।
“कृष्टजानामोषधीनां जातानां च स्वयं वने ।
वृथालम्भेऽनुगच्छेत् गां दिनमेकं पयोव्रतः” ॥
स्पर्शः । आलिङ्गनम् । यथा मनुः २ । १७९ ।
“द्यूतञ्च जनवादञ्च परिवादं तथाऽनृतं ।
स्त्रीणां च प्रेक्षणालम्भमुपघातं परस्य च” ॥)

आलम्भ्या, स्त्री, (आङ् + लभि + ण्यत् ।) बधार्ह्या ।

हननीया । इति वोपदेवः ॥

आलयः, पुं, (आलीयतेऽस्मिन् । आ + ली + आधारे

अच् ।) गृहं । इत्यमरः ॥ (यथा कुमारे १ । १ ।)
“हिमालयो नाम नगाधिराजः” नैषधे, “तत्रा-
मरालयमरालमरालकेशी” । रामायणे ३ काण्डे ।
“न हि दुष्टात्मनामार्य्या निवसन्त्यालये चिरं” ।
लयपर्य्यन्ते, क्ली । भागवते १ अध्याये ५ । “पिवत
भागवतं रसमालयम्”) ॥

आलवालं, क्ली, (आ समन्तात् जलस्य लवमालाति

आ + लव + ला + क ।) तरुमूलसेचनार्थस्वल्प-
जलाधारः । चारमादा इति भाषा । तत्पर्य्यायः ।
आवालं २ आवापः ३ । इत्यमरः ॥ (रघुवंशे
१ । ५१ ।
“विश्वासाय विहङ्गानामालवालाम्बुपायिनाम्” ।
माघे । “विपुलालवालभृतवारिदर्पणः” ।)

आलसः, त्रि, (अलस + स्वार्थे अण् ।) अलसः ।

आलस्ययुक्तः । इति द्विरूपकोषः ॥

आलस्यं, क्ली, (अलस + ष्यञ् ।) अलसस्य भावः ।

अलसता । तत्पर्य्यायः । तन्द्रा २ कौसीद्यं ३ । इति
हेमचन्द्रः ॥ मन्दता ४ मान्द्यं ५ कार्य्यप्रद्वेषः ६ ।
इति राजनिर्घण्टः ॥ (यदुक्तं । “आलस्यं श्रमग-
र्भाद्यैर्जाड्यं जृम्भासितादिकृत्” इत्युक्तलक्षणो
व्यभिचारिभावभेदः । सुश्रुते ।
“सुखस्पर्शप्रसङ्गित्वं दुःखद्वेषणलोलता ।
शक्तस्य चाप्यनुत्साहः कर्म्मण्यालस्यमुच्यते” ॥)

आलस्यः, त्रि, (अलस एव । अलस + स्वार्थे ष्यञ् ।)

अलसयुक्तः । तत्पर्य्यायः । मन्दः २ तुन्दपरिमृजः ३
शीतकः ४ अलसः ५ अनुष्णः ६ । इत्यमरः ॥

आलातं, क्ली, (अलातमेव । अलात + स्वार्थेअण् ।)

अलातं । अङ्गारः ॥

आलानं, क्ली, (आलीयतेऽत्र । आङ् + ली + ल्युट् ।

विभाषा लीयतेरित्यात्त्वम् ।) गजबन्धनस्तम्भः ।
इत्यमरः ॥ गजबन्धनरज्जुः । इति नीलकण्ठः ॥
(रघुवंशे १ । ७१ ।
“अरुन्तुदमिवालानमनिर्वाणस्य दन्तिनः” ।
कादम्बरी । “इभमदमलिनमालानस्तम्भयुगलमुप-
हसन्तमिवोरुदण्डद्वयेन” ।
रघुवंशे ४ । ६९, ४ । ८१ ।
“गजालानपरिक्लिष्टैरक्षोटैः सार्द्धमानताः” ।
“तद्गजालानतां प्राप्तैः सह कालागुरुद्रुमैः” ॥)
बन्धनं । इति रायमुकुटः ॥ रज्जुः । इति मेदिनी ॥

आलापः, पुं, (आङ् + लप् + घञ् ।) कथोपकथनं ।

सम्भाषणं । तत्पर्य्यायः । आभाषणं २ । इत्यमरः ।
(साहित्यदर्पणे, प्रथमपरिछेदः ।
“काव्यालापाश्च ये केचित् गीतकान्यखिलानि च” ।)

आलाप्यः, त्रि, (आङ् + लप् + कर्म्मणि ण्यत् ।)

आलापयोग्यः । आलापनीयः ॥

आलावर्त्तं, क्ली, (आलमत्यर्थमावर्त्तते इति आल +

आ + वृत् + अच् ।) वस्त्रनिर्म्मितव्यजनं । इति
हेमचन्द्रः ॥ कापडेर पाखा इति भाषा ।

आलावुः, स्त्री, अलावुः । इति शब्दरत्नावली ॥ लाउ

इति भाषा । (अलावुशब्देऽस्या विशेषो ज्ञेयः ॥

आलावूः, स्त्री, अलावुः । इति शब्दरत्नावली ॥

आलास्यः, पुं, (आलं पर्य्याप्तं आस्यं मुखं यस्य सः ।)

कुम्भीरः । इति हेमचन्द्रः ॥

आलिः, स्त्री, (आलयति भूषयति । आ + अल भूषणे ।

अच इः ।) वयस्या । (यथा कुमारसम्भवे । ५ । ८३ ।
(“निवार्य्यतामालि किमप्ययं वटुः,
पुनर्विवक्षुः स्फुरितोत्तराधरः” ।)
(आलति निर्वापयति जलं । अल वारणे । सर्व्वधा-
तुभ्य इन् ।) सेतुः । (अल्यतेऽनया । अल् + इञ् ।)
पंक्तिः । इति मेदिनी अमरश्च ॥ सन्ततिः । इति
शब्दरत्नावली ॥

आलिः, पुं, (आलति दंशने समर्थो भवति । आ +

अल् + बाहुलकात् इण् ।) वृश्चिकः । भ्रमरः ।
इति हारावली अमरटीका च ॥

आलिः, त्रि, (आङ् + अल् + इण् ।) विशदाशयः ।

निर्म्मलान्तःकरणः । इति मेदिनी ॥ अनर्थः । इति
हेमचन्द्रः ॥

आलिङ्गनं, क्ली, (आङ् + लिङ्ग + ल्युट् ।) प्रीतिपूर्ब्बक-

परस्पराश्लेषः । कोलाकोली इति भाषा । तत्-
पर्य्यायः । अङ्गपालिः २ श्लिषा ३ । इति त्रिकाण्ड-
शेषः ॥ परिरम्भः ४ परीरम्भः ५ परिष्वङ्गः ६
संश्लेषः ७ उपगूहनं ८ । इत्यमरः ॥ तत्सप्तधा
यथा । आमोदालिङ्गनं १ मुदितालिङ्गनं २ प्रेमा-
लिङ्गनं ३ आनन्दालिङ्गनं ४ रुच्यालिङ्गनं ५ मदना-
लिङ्गनं ६ विनोदालिङ्गनं ७ । इति कामशास्त्रम् ॥
(“आलिङ्गनान्यधिकृताः स्कुटमापुरेव” ।
इति माघः ॥ यथा मेघटूते उत्तरमघे ९ ।
“यत्र स्त्रीणां प्रियतमभुजालिङ्गनोच्छूसितानां” ।)

आलिङ्गी, [न्] पुं, (आ + लिङ्ग + इनि ।) आलिङ्ग्यः ।

मृदङ्गविशेषः । इत्यमरटीकायां स्वामी शव्द-
रत्नावली च ॥

आलिङ्ग्यः, पुं, (आ + लिङ्ग + ण्यत् ।) यवाकृतिमृदङ्गः ।

इत्यमरः ॥ मादोल इति भाषा । यथा शब्दार्णबे ॥
“चतुरङ्गुलहीनोऽङ्ठ्यान्मुखे चैकाङ्गुलेन यः ।
यवाकृतिः स आलिङ्ग्य आलिङ्ग्य स हि वाद्यते” ॥

आलिञ्जरः, पुं, (अलिञ्जर + अण् ।) अलिञ्जरः । इति

त्रिकाण्डशेषः ॥ जाला इति भाषा ।

आलिन्दः, पुं, (अलिन्द + अण् ।) अलिन्दः । वहि-

र्द्वारप्रकोष्ठः । गृहान्तरशय्यार्थवेदिका । इति
रायमुकुटः शब्दरत्नावली च ॥ गृहैकदेशः । इत्य-
मरमाला ॥

आलिन्दकः, पुं, (आलिन्द एव स्वार्थे कः ।) आलिन्दः ।

इति शब्दरत्नावली ॥

आलिम्पनं, क्ली, (आङ् + लिम्प + ल्युट् ।) मङ्गला-

लेपनं । आलिपना इति भाषा । तत्पर्य्यायः । आत-
र्पणं २ आदीपनं ३ मण्डोदकं ४ । इति त्रिकाण्ड-
शेषः ॥
पृष्ठ १/१९२

आली, स्त्री, (आलि + ङीष् ।) सखी । पङ्क्तिः ।

वृश्चिकः । इत्यमरटीकायां भरतादयः ॥ सेतुः ।
इति शब्दरत्नावली ॥ (श्रेण्यर्थे यथा कुमारे ६ । ४९ ।
“तोयान्तर्भास्करालीव रेजे मुनिपरम्परा” ।)

आलीढं, क्ली, (आङ् + लिह् + क्तः ।) धन्विनां दक्षिण-

जङ्घाप्रसारवामपादसंकोचरूपावस्थानं । इत्यमरः ।
(यथा, रघौ ३ । ५२ ।
। “अतिष्ठदालीढविशेषशोभिना
वपुःप्रकर्षेण विडम्बितेश्वरः” ।
(तल्लक्षणं यथा, चिन्तामणिधृतम् ।
“नमिता पूर्ब्बजङ्घा च पश्चिमा प्रगुणा भवेत् ।
असमो मध्यकायश्च स्यादालीढस्य लक्षणम्” ॥)

आलीढं, त्रि, (आङ् + लिह + क्त ।) अशितं । भुक्तं ।

इति मेदिनी ॥ (क्षतः, रघुवंशे, २ । ३७ ।
“सेनान्यमालीढमिवासुरास्त्रैः” ।)

आलीढकं, क्ली, (आलीढ एव स्वार्थेकः ।) तर्णकानां

स्थलीषु क्रीडनं । इति हारावली ॥ वाछुरेर खेला
इति भाषा । आटीलकमिति क्वचित् पाठः ॥

आलीनकं, क्ली, (आलीन + कन् ।) रङ्गं । इति हेम-

चन्द्रः ॥ रां इति भाषा ।

आलु, क्ली, (आङ् + लु + डु ।) भेलकः । स्वनामख्यात-

मूलविशेषः । इति मेदिनी ॥ अस्य गुणाः । रक्त-
पित्तनाशित्वं । गुरुत्वं । स्वादुत्वं । शीतलत्वं ।
स्तनदुग्धशुक्रकारित्वञ्च । इति द्रव्यगुणः ॥

आलुः, स्त्री, (आलाति । आङ् + ला + डु ।) स्वल्प-

वारिधानिका । घटी झारीइत्यादि भाषा । तत्प-
र्य्यायः । कर्करी २ गलन्तिका ३ । इत्यमरः ॥

आलुः, पुं, पेचकः । इति शब्दरत्नावली ॥ कासालुः ।

इति राजनिर्घण्टः ॥

आलुकं, क्ली, (आलु + स्वार्थेकन् ।) मूलविशेषः

आलु इति भाषा । इति राजवल्लभः ॥ एलवालुकं ।
इति राजनिर्घण्टः ॥ तद्विवरणं यथा, --
“आलुकमप्यालूकं तत् कथितं वीरसेनश्च ।
काष्ठालुकशङ्खालुकहस्त्यालुकानि कथ्यन्ते ॥
पिण्डालुकमध्वालुकरक्तालुकानि व्यक्तानि” ।
काष्ठालुकं काठिन्ययुक्तकटारु । शङ्खालुकं श्वेतता-
युक्तशङ्खालु । हस्त्यालुकं दीर्घतायुक्तमहाशरीरं ।
पिण्डालुकं वर्त्तुलसुथनी । मध्वालुकं मधुरतायुक्त-
रोमान्वितदीर्घसुथनी । रक्तालुकं रतारू तरण्डा
इति च । एषां गुणाः ।
“आलुकं शीतलं सर्व्वं विष्टम्भि मधुरं गुरु ।
सृष्टमूत्रमलं रूक्षं दुर्ज्जरं रक्तपित्तनुत् ॥
कफानिलकरं बल्यं वृष्यं स्तन्यविवर्द्धनम्” ।
इति भावप्रकाशः ॥
(“आलुकानि च सर्व्वाणि तथा सूप्यानि लाक्ष्मणं ।
स्विन्नं निष्पीडितरसं स्नेहाढ्यं नातिदोषणम्” ॥
इति वाभटः ॥
“विदारीकन्दशतावरीविसमृणालशृङ्गाटककशेरु-
कपिण्डालुकमध्वालुकहस्त्यालुककाष्ठालुकशङ्ख्या-
लुकरक्तालुकेन्दीबरोत्पलकन्दप्रभृतीनि” ॥
“रक्तपित्तहराण्याहुः शीतानि मधुराणि च ।
गुरूणि बहुशुक्राणि स्तन्यवृद्धिकराणि च” ॥
इति सुश्रुतः ॥)

आलुकः, पुं, (आलाति पृथ्वीं कामरोगं वा आङ् +

ला + डु + संज्ञायां कन् ।) कासालुः । इति राज-
निर्घण्टः ॥ शेषनागः । इति हेमचन्द्रः ॥

आलुकी, स्त्री, दीर्घाकारसूक्ष्मरक्तालुः । अरुई इति

नाम । यथा, भावप्रकाशे ॥
“रक्तालुभेदो या दीर्घा तन्वी च प्रथितालुकी ।
आलुकी बलकृत् स्निग्धा गुर्व्वी हृत्कफनाशिनी ।
विष्टम्भकारिणी तैले तलितातिरुचिप्रदा” ॥

आलेख्यं, क्ली, (आङ् + लिख् + ण्यत् ।) चित्रं । इति

हेमचन्द्रः ॥ (यथामाघे, २ । ६७ ।
“इति संरम्भिणो वाणीर्बलस्यालेख्यदेवताः” ।
“निशीथदीपाः सहसा हतत्विषो
बभूवुरालेख्यसमर्पिता इव” । रघवंशे ३ । १५ ।)

आलेख्यशेषः, त्रि, (आलेख्यं चित्रमेव शेषो यस्य सः ।)

मृतः । इति हेमचन्द्रः ॥ (यथा रघुवंशे, १४ । १५ ।
“वाष्पायमाणो बलिमन्निकेत-
मालेख्यशेषस्य पितुर्व्विवेश” ।)

आलोकः, पुं, (आङ् + लुक् + घञ् ।) दर्शनं । देखा

इति भाषा । द्योतः । आलो इति भाषा । शान्ति-
शतके, ४ । ६ ।
“आलोकाय निशासु चन्द्रकिरणाः सख्यं कुरङ्गैः
सह” । मेघदूते पूर्ब्बमेघे ३८ ।
“रुद्धालोके नरपतिपथे सूचिभेद्यैस्तमोभिः” ।
यथा शाकुन्तले, प्रथमाङ्के ।
“यदालोके सूक्षं व्रजति सहसा तद्विपुलतां” ।
(यथा, रामायणे ४ काण्डे । ५० । २४ ।
“आलोकं ददृशुर्धीरा नीराशा जीविते यदा” ।
वन्दिभाषणं । स्तुतिरिति यावत् । इति मेदिनी ॥
(रघुवंशे । २ । ९ ।
“उदीरयामासुरिवोन्मदाना-
मालोकशब्दं वयसां विरावैः” ॥)

आलोकनं, क्ली, (आङ् + लोक् + ल्युट् ।) दर्शनं ।

इत्यमरः ॥ (रघुवंशे, ७ । ५ । “ततस्तदालोकन-
तत्पराणां,” कुमारसम्भवे । २ । ४५ ।
“भुवनालोकनप्रीतिः स्वर्गिभिर्नानुभूयते” ।
माघे, ११ । ३३ ।
“व्रजति हि सफलत्वं बल्लभालोकनेन” ।)

आलोचनं, क्ली, (आङ् + लुच् + ल्युट् ।) दर्शनं ।

विवेचनं ॥ (यथा हेमचन्द्रः, “रहस्यालोचनं
मन्त्रः” । सांख्यमते निर्विकल्पकं ज्ञानं निर्द्धर्म्मकं
शुद्धवस्तुविषयकं प्राथमिकं ज्ञानं । यदुक्तं ।
“अस्ति ह्यालोचनं ज्ञानं प्रथमं निर्वकल्पकम् ।
बालमूकादिविज्ञानसदृशं शुद्धवस्तुजम् ॥
ततःपरं पुनर्वस्तु धर्म्मैर्जात्यादिभिर्यथा” ।
“बुद्ध्यावसीयते सापि प्रत्यक्षत्वेन सम्मता” ।
“शब्दादिषु पञ्चानामालोचनमात्रमिष्यते वृ-
त्तिः” ॥ सांख्यकारिका ।)

आवनेयः, पुं, (अवन्या अपत्यं अवनी + ढक् ।) मङ्ग-

लग्रहः । इति ज्योतिःशास्त्रं ॥ (यथा काशी-
खण्डे । १७ अध्याये ।
“उत्पत्तिं चास्य वक्ष्यामो भूसुतोऽयं यथाभवत् ।
पुरा तपस्यतः शम्भोर्दाक्षायण्या वियोगतः ॥
भालस्थलात्पपातैकः स्वेदविन्दुर्महीतले ।
ततः कुमारः संजज्ञे लोहिताङ्गो महीतलात् ॥
स्नेहसम्बर्द्धितः सोऽथ धात्र्या धात्रीस्वरूपया ।
माहेय इत्यतः ख्यातिं पराभयं गतस्ततः” ॥)

आवपनं, क्ली, (ओप्यते स्थाप्यतेऽत्र । आङ् + वप् +

आधारे ल्युट् ।) द्रव्यस्थापनपात्रं । भाण्डं । इत्य-
मरः ॥ सम्यक्क्षुरिकर्म्म । सम्यग्वीजतन्तुवपनं ॥
(यथा महाभारते, आदिपर्ब्बणि ।
“प्रभुरग्निः प्रतपने भूमिरावपने प्रभुः ।
प्रभुः सूर्य्यः प्रकाशित्वे सतां चाभ्यागतः प्रभुः” ॥
“अग्निर्हिमश्च भैषज्यं भूमिरावपनं महत्” ।)

आवरणं, क्ली, (आङ् + वृ + ल्युट् ।) फलकं । इति

हेमचन्द्रः ॥ ढाल इति भाषा । आच्छादनं । ढाका
इति भाषा ॥ (यथा महाभारते, आदिपर्ब्बणि ।
“विचित्राणि च वासांसि प्रावारावरणानि च” ।
“सूर्य्ये तपत्यावरणाय दृष्टेः
कल्पेत लोकस्य कथं तमिस्रा” । इति रघुः ।
५ । १३ । मनुः । ३ । १६३ ।
“स्रीतसां भेदको यश्च तेषाञ्चावरण रतः” ॥)

आवरणशक्तिः, स्त्री, (आवरणे शक्तिः ।) माया-

शक्तिः । यथा । “स्वल्पोऽपि मेघो बहुयोजन-
विस्तीर्णमादित्यमण्डलं अवलोकयितृजननयनप-
थपिधायकतयाच्छादयतीव तथैवाज्ञानं परि-
च्छिन्नमपि आत्मानमपरिच्छिन्नमसंसारिणं अव-
लोकयितृबुद्धिपिधायकतयाच्छादयतीव तादृशं
सामर्थ्यं” ॥ इति वेदान्तः ॥

आवर्त्तं, क्ली, (आङ् + वृत् + घञ् ।) माक्षिकधातुः ।

इति राजनिर्घण्टः ॥ (आवर्त्तनं । चक्राकारेण-
भ्रमणं ।)

आवर्त्तः, पुं, (आङ् + वृत् + घञ् ।) जलभ्रमः । इत्य-

मरः ॥ घूर्णा इति भाषा । (रघुवंशे ६ । ५२ ।
“नृपं तमावर्त्तमनोज्ञनाभिः” ।)
चिन्ता । आवर्त्तनं । इति मेदिनी ॥ मेघनायक-
चतुष्टयान्तर्गतमेघाधिपविशेषः । इति पुराणं
ज्योतिषञ्च । (यथा मेघदूते पूर्ब्बमेघे ६ ।
“जातं वंशे भुवनविदिते पुष्करावर्त्तकानाम्” ।)
राजावर्त्तनामोपरत्नं । इति राजनिर्घण्टः ॥

आवर्त्तकी, स्त्री, (आवर्त्त इव कायति प्रकाशते ।

आवर्त्त + कै + क + ङीष् ।) लताविशेषः । भग-
तवल्ली इति कोकणे प्रसिद्धा । तत्पर्य्यायः । तिन्दु-
किनी २ विभाण्डी ३ विषाणिका ४ रङ्गलता ५
मनोज्ञा ६ रक्तपुष्पी ७ मरुत्ताली ८ पीतकीला ९
चर्म्मरङ्गा १० । अस्या गुणाः । कषायत्वम् ।
अम्लत्वम् । शीतवीर्य्यकारित्वम् । पित्तनाशित्वञ्च ।
भद्रदन्तिकावृक्षः । इति राजनिर्घण्टः ॥

आवर्त्तनं, क्ली, (आङ् + वृत् + ल्युट् ।) दुग्धादेरा-

लोडनं । आओटान इति भाषा । धातुद्रव्यस्य
द्रवीकरणं । इत्यमरटीका ॥ गलान इति भाषा ।
सूर्य्यस्य पश्चिमदिगवस्थितच्छायायाः पूर्ब्बदिग्गम-
नारम्भकालः । “आवतनात्तु पूर्ब्बाह्नो ह्यपराह्न-
स्ततःपरं” इति स्मृतिः ॥