पृष्ठ २/८७१

नालीकिनी, स्त्री, (नालीकमस्त्यस्या इति ।

नालीक + इनिः । ङीप् ।) पद्मसमूहः । इति
शब्दरत्नावली ॥

नालीव्रणः, पुं, (नालीगतो व्रणः ।) नाडीव्रणः ।

इति शब्दरत्नावली ॥

नाविकः, पुं, (नावा तरतीति । नौ + “नौद्व्यच-

ष्ठन् ।” ४ । ४ । ७ । इति ठन् । नौरस्त्यस्येति ।
“व्रीह्यादिभ्यश्च ।” ५ । २ । ११६ । इति ठन्
वा ।) कर्णधारः । इत्यमरः । १ । १० । १२ ॥
(यथा, महाभारते । ८ । ७७ । ७५ ।
“भिन्ननौका यथा राजन् ! द्बीपमासाद्य निर्वृताः ।
भजन्ति पुरुषव्याघ्र ! नाविकाः कालपर्य्यये ॥”)

नाव्यं, त्रि, (नावा तार्य्यम् । नौ + “नौवयो-

धर्म्मेति ।” ४ । ४ । ९१ । इति यत् ।) नौका-
गम्यदेशादि । इत्यमरः । १ । १० । १० ॥ (यथा,
रघुः । ४ । ३१ ।
“मरुपृष्ठान्युदम्भांसि नाव्याः सुप्रतरा नदीः ।
विपिनानि प्रकाशानि शक्तिमत्त्वाच्चकार सः ॥”
नवस्य भावः । नव + ष्यञ् ।) नवत्वञ्च ॥

नाशः, पुं, (नश + भावे घञ् ।) पलायनम् ।

निधनम् । (यथा, महाभारते । १ । १२० । १६ ।
“पित्र्यादृणादनिर्मुक्तस्तेन तप्ये तपोधनाः ।
देहनाशे ध्रुवो नाशः पितॄणामेष निश्चयः ॥”)
अनुपलम्भः । अदर्शनम् । इति मेदिनी । शे,
९ ॥ परिध्वस्तिः । इति हेमचन्द्रः । २ । २३८ ॥
जीवानां नाशहेतुर्यथा, --
“सङ्गात् संजायते कामः कामात् क्रोधोऽभि-
जायते ।
क्रोधाद्भवति सम्मोहः सम्मोहात् स्मृतिविभ्रमः ॥
स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशात् प्रणश्यति ॥”
इति श्रीभगवद्गीता ॥
कुलनाशकारणं यथा, --
“अनृतात् पारदार्य्याच्च तथाभक्ष्यस्य भक्षणात् ।
अश्रौतधर्म्माचरणात् क्षिप्रं नश्यति वै कुलम् ॥
अश्रोत्रिये वेददानात् वृषलेषु तथैव च ।
विहिताचारहीनेषु क्षिप्रं नश्यति वै कुलम् ॥”
इति कौर्म्मे उपविभागे १५ अध्यायः ॥
नश्यतां पूर्ब्बरूपाणि यथा, --
अत्रिरुवाच ।
“नश्यतां पूर्ब्बरूपाणि जनानां कथयस्व मे ।
नगराणां तथा राज्ञां त्वं हि सर्व्वं वदिष्यसि ॥
गर्ग उवाच ।
पुरुषाचारनियमात् परित्यजति देवता ।
ततोऽपरागाद्देवानामुपसर्गः प्रवर्त्तते ॥
दिव्यान्तरीक्षे भौमञ्च त्रिविधं परिकीर्त्तितम् ।
ग्रहर्क्षवैकृतं दिव्यमन्तरीक्षं निबोध मे ॥
उल्कापातो दिशां दाहः परिवेशस्तथैव च ।
गन्धर्व्वनगरञ्चैव वृष्टिश्च विकृता च या ।
एवमादीनि लोकेऽस्मिन् नाकेशानां विनिर्द्दिशेत् ॥
चरः स्थिरस्तु भूमौ च भूकम्पश्चापि भूमिजः ।
जलाशयानां वैकृत्यं भौमं तदपि कीर्त्तितम् ॥”
इति मात्स्ये २०३ अध्यायः ॥

नाशी, [न्] त्रि, (नाशोऽस्त्यस्येति । नाश +

इनिः ।) नाशविशिष्टः । नाशशब्दादस्त्यर्थे
इन्प्रत्ययनिष्पन्नः ॥

नासत्यौ, पुं, (नास्ति असत्यं ययोस्तौ । “नभ्राण्-

नपादिति ।” ६ । ३ । ७५ । इति नञः प्रकृति-
भावः ।) अश्विनीकुमारौ । नित्यद्बिवचनान्तो-
ऽयम् । इत्यमरः । १ । १ । ५४ ॥ एतौ शूद्रौ । यथा,
“आदित्याः क्षत्त्रियास्तेषां विशश्च मरुतस्तथा ।
अश्विनौ च स्मृतौ शूद्रौ तपस्युग्रे समास्थितौ ॥
स्मृतास्त्वाङ्गिरसा देवा ब्राह्मणा इति निश्चयः ॥”
इति महाभारते मोक्षधर्म्मः ॥
(“सन्दृश्य दस्रयोरिन्द्रः कर्म्माण्येतानि यत्नवान् ।
आयुर्व्वेदं निरुद्वेगं तौ ययाचे शचीपतिः ॥
नासत्यौ सत्यसन्धेन शक्रेण किल याचितौ ।
आयुर्व्वेदं यथाधीतं ददतुः शतमन्यवे ॥
नासत्याभ्यामधीत्यैष आयुर्व्वेदं शतक्रतुः ।
अध्यापयामास बहूनात्रेयप्रमुखान् मुनीन् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

नासा, स्त्री, (नासते शब्दायते इति । नास शब्दे

+ “गुरोश्च हलः ।” ३ । ३ । १०३ । इति अः ।
ततष्टाप् । नास्यतेऽनयेति । नास + करणे
घञ् वा ।) नासिका । नाक् इति भाषा । सा
च गर्भस्थबालकस्य पञ्चभिर्मासैर्भवति । इति
सुखबोधः ॥ तस्याः शुभाशुभलक्षणं यथा, --
“शुकनासः सुखी स्याच्च शुष्कनासेऽतिजीवनम् ।
छिन्नाग्ररूपनासः स्यादगम्यागमने रतः ॥
दीर्घनासे च सौभाग्यं चौर आकुञ्चितेन्द्रियः ।
स्त्रीमृत्युश्चिपिटनास ऋजुर्भाग्यवतां भवेत् ॥
अल्पच्छिद्रा सुपुटा च अवक्रा च नृपेश्वरे ।
क्रूरे दक्षिणवक्रा स्याद्धनिनाञ्च क्षुतं सकृत् ॥”
इति गरुडपुराणम् ॥
द्वारोपरिस्थितदारु । झान् काठ इति कपालि
इति च भाषा । इत्यमरः । २ । २ । १३ ॥ वासक-
वृक्षः । इति रजनिर्घण्टः ॥

नासाच्छिन्नी, स्त्री, (छिद + भावे क्तः । नासायां

छिन्नं छेदो यस्याः । ङीष् ।) पूर्णिकापक्षी ।
इति त्रिकाण्डशेषः ॥

नासादारु, क्ली, (नासायै यद्दारु । नासैव दारु

इति वा ।) द्वारोर्द्ध्वस्थितकाष्ठम् । इत्यमर-
टीकायां स्वामी ॥ कपालि इति भाषा ॥

नासारोगः, पुं, (नासाया रोगः ।) नासिका-

व्याधिः । “अथ नासारोगाधिकारः । तत्र नासा-
रोगाणां नामानि संख्याञ्चाह ।
आदौ च पीनसः प्रोक्तः पूतिनस्यस्ततः परम् ।
नासापाकोऽत्र गणितः पूयशोणितमेव च ॥
क्षवथुर्भ्रंशथुर्दीप्तिः प्रतीनाहः परिस्रवः ।
नासाशोषः प्रतिश्यायाः पञ्च सप्तार्व्वुदानि च ॥
चत्वार्य्यर्शांसि चत्वारः शोथाश्चत्वारितानि च ।
रक्तपित्तानि नासायां चतुस्त्रिंशद्गदाः स्मृताः ॥
तेषु पीनसस्य लक्षणमाह ।
आनह्यते शुष्यति यस्य नासा
प्रक्लेदमायाति च धूप्यते च ।
न वेत्ति यो गन्धरसांश्च जन्तु-
र्ज्जुष्टं व्यवस्येदिह पीनसेन ॥
आनह्यते श्वासंशोषितकफेनावध्यते अवरुद्धत
इति यावत् । प्रक्लेदं आर्द्रताम् । धूप्यते सन्ता-
प्यते । गन्धरसान् गन्धान् सुरभीनसुरभींश्च न
वेत्ति । नासाया आनद्धत्वं तत्र हेतुः । तथा
रसान् मधुरादींश्च न वेत्ति । नासारोगा-
रम्भकदोषेण रसनाया अपि दुष्टेः । व्यवस्येत्
जानीयात् । अपीनसपीनसौ द्बावपि शब्दौ
स्तः ॥ * ॥ अनुक्तसंग्रहार्थमाह ।
तञ्चानिलश्लेष्मभवं विकारं
ब्रूयात् प्रतिश्यायसमानलिङ्गम् ।
तं विकारं पीनसं प्रतिश्यायसमानलिङ्गं वात-
श्लेष्मकप्रतिश्यायतुल्यलक्षणम् ॥
पूतिनस्यमाह ।
दोषैर्व्विदग्धैर्गलतालुमूले
सन्दूषितो यस्य समीरणस्तु ।
निरेति पूतिर्म्मुखनासिकाभ्यां
तं पूतिनस्यं प्रवदन्ति रोगम् ॥
दोषैः पित्तकफरक्तैः । अत्र रक्तस्यापि दोषत्वं
दोषसाहचर्य्यात् । विदग्धैर्द्वुष्टैः । संदूषितः
पूतिभावं नीतः । पूतिनस्यं नासायां भवो नस्यो
वायुः पूतिर्नस्यो यत्र स पूतिनस्यस्तम् ॥ * ॥
नासापाकमाह ।
घ्राणाश्रितं पित्तमरूंषि कुर्य्यात्
यस्मिन् विकारे बलवांश्च पाकः ।
तं नासिकापाकमिति व्यवस्येत्
विक्लेदकोथावथवापि यत्र ॥
विक्लेद आर्द्रता । कोथः पूतिभावः ॥ * ॥
पूयरक्तमाह ।
दोषैर्व्विदग्धैरथवापि जन्तो-
र्ललाटदेशेऽभिहतस्य तैस्तैः ।
नासा स्रवेत् पूयमसृग्विमिश्रं
तं पूयरक्तं प्रवदन्ति रोगम् ॥
क्षवथुमाह ।
घ्राणाश्रिते मर्म्मणि संप्रदुष्टो
यस्यानिलो नासिकया निरेति
कफानुजातो बहुशोऽतिशब्द-
स्तं रोगमाहुः क्षवथुं गदज्ञाः ॥
घ्राणाश्रिते मर्म्मणि शृङ्गाटके ॥ * ॥
दोषजं क्षवथुमभिधायागन्तुजं क्षवथुमाह ।
तीक्ष्णोपयोगाद्तिजिघ्रतो वा
भावान् कटूनर्कनिरीक्षणाद्बा ।
सूत्रादिभिर्व्वा तरुणास्थिमर्म्म-
ण्युद्धर्वितेऽन्यः क्षवथुर्निरेति ॥
तीक्ष्णोपयोगात् राजिकादिभक्षणात् । अर्क-
निरीक्षणात् सूर्य्यदर्शनात् तेन कफविलेपनात् ।
पृष्ठ २/८७२
तरुणास्थि नासावंशास्थि । मर्म्मणि शृङ्गाटके ।
द्वन्द्रेनैकत्वम् । अन्यः आगन्तुजः ॥ * ॥
भ्रंशथुमाह ।
प्रभ्रंशते नासिकया तु यस्य
सान्द्रो विदग्धो लवणः कफस्तु ।
प्राक् सञ्चितो मूर्द्धनि पित्ततप्ते
तं भ्रंशथुं व्याधिमुदाहरन्ति ॥
दीप्तिमाह ।
घ्राणे भृशं दाहसमन्विते तु
विनिःसरेत् धूम इवेह वायुः ।
नासाप्रदीप्तेव च यस्य जन्तो-
र्व्याधिन्तु दीप्तिं तमुदाहरन्ति ॥
प्रदीप्तेव प्रज्वलितेव ॥ * ॥
प्रतीनाहमाह ।
उच्छ्वासमार्गन्तु कफः सवातो
रुन्ध्यात् प्रतीनाहमुदाहरेत्तम् ॥
सावमाह ।
घ्राणाद्घनः पीतसितस्तनुर्व्वा
दोषः स्रवेत् स्रावमुदाहरेत्तम् ॥
नासाशोषमाह ।
घ्राणाश्रिते श्लेष्मणि मारुतेन
पित्तेन गाढं परिशोषिते च ।
कृच्छ्राच्छ्वसित्यूर्द्ध्वमधश्च जन्तु-
र्यस्मिन् स नासापरिशोष उक्तः ॥
प्रतिश्यायमाह । तस्य निदानं द्विविधम् । एकं
सद्योजनकं तद्बल वत्त्वेन चयं नापेक्षते । यत
उक्तम् ।
न केवलं चयं प्राप्य दोषाः कुप्यन्ति देहिनाम् ।
अन्यदापि हि कुप्यन्ति हेतुबाहुल्यतोरणात् ॥
हेतूनां बाहुल्येन त्वराकरणात् । अपरं चयादि-
क्रमेण जनकम् । चयादिक्रमो यथा । निदा-
नात् सञ्चयः सञ्चयात् प्रकोपः प्रकोपात् प्रसरः
प्रसरात् स्थानसंश्रयः । ततो व्यक्तिः । ततो भेद
इति ॥ * ॥ तत्र प्रतिश्यायस्य सद्योजनक-
निदानपूर्ब्बिकां संप्राप्तिमाह ।
संधारणा जीर्णरजोऽति भावात्
क्रोधर्त्तुवैषम्यशिरोऽभितापैः ।
संजागरातिस्वपनाम्बुशीता-
वश्यायकैर्म्मैथुनवास्पसेकैः ॥
संस्यातदोषैः शिरसि प्रवृद्धो
वायुः प्रतिश्यायमुदीरयेत्तु ।
सन्धारणा मूत्रपुरीषधारणा । रजो धूलिः ।
तच्च नासाप्रविष्टं हेतुः । ऋतुवैषम्यं ऋतुचर्य्या-
विपरीताचरणम् । शिरोऽभितापः शिरसो-
ऽभितापो येन धूमादिना सः । अवश्याय-
स्तुषारः । वास्पसेको रोदनम् । संस्त्यानदोषैः
शिरसि संहतकफैः ॥ * ॥ चयादिक्रमजनक-
निदानपूर्ब्बिकां संप्राप्तिमाह ।
चयं गता मूर्द्धनि मारुतादयः
पृथक् समस्ताश्च तथैव शोणितम् ।
प्रकोप्यमाणा विविधैः प्रकोपणै-
स्ततः प्रतिश्यायकरा भवन्ति ह ॥
पूर्ब्बरूपमाह ।
क्षवप्रवृत्तिः शिरसोऽभिपूर्णता
स्तम्भोऽङ्गमर्दः परिहृष्टरोमता ।
उपद्रवाश्चाप्यपरे पृथग्विधा
नृणां प्रतिश्यायपुरःसराः स्मृताः ॥
शिरसोऽभिपूर्णता शिरसो भारेणेव व्याप्तिः ।
अपरे पृथग्विधाः घ्राणधूमायनतालुविदारण-
नासामुखस्रावादयो विदेहोक्ता बोद्धव्याः ॥ * ॥
वातिकस्य प्रतिश्यायस्य लक्षणमाह ।
आनद्धापिहिता नासा तनुस्रावप्रसेकिनी ।
गलताल्वोष्ठशोषश्च निस्तोदः शङ्खयोस्तथा ॥
क्षवप्रवृत्तिरत्यर्थं वक्त्रवैरश्यमेव च ।
भवेत् स्वरोपघातश्च प्रतिश्यायेऽनिलात्मके ॥
आनद्धास्तब्धा । अपिहिता न पिहिता । अत-
एव तनुस्रावप्रसेकिनी ॥ * ॥
पैत्तिकमाह ।
उष्णः सपीतकः स्रावो घ्राणात् स्रवति पैत्तिके ।
कृशोऽतिपाण्डुः सन्तप्तो भवेदुष्माभिपीडितः ।
नासया तु सधूमाग्निं वमतीव स मानवः ॥
सपीतकः ईषत्पीतकः ॥ * ॥
श्लैष्मिकमाह ॥
घ्राणात् कफकृते श्वेतः कफः शीतः स्रवेद्बहुः ।
शुक्लावभासः सूनाक्षो भवेद्गुरुशिरा नरः ॥
गलताल्वोष्ठशिरसां कण्डूभिरतिपीडितः ॥ * ॥
सान्निपातिकमाह ।
भूत्वा भूत्वा प्रतिश्यायो योऽकस्मात् सन्निवर्त्तते ।
संपक्वो वाप्यपक्वो वा स सर्व्वप्रभवः स्मृतः ॥
अत्र यद्यपि दोषत्रयलिङ्गानि नोक्तानि तथापि
तानि ज्ञेयानि त्रिदोषजत्वात् । अयमसाध्यः ।
अतएवाह ।
नृणां दुष्टः प्रतिश्यायः सर्व्वजश्च न सिध्यति ॥
दुष्टप्रतिश्यायलिङ्गमाह ।
प्रक्लिद्यति मुहुर्नासा पुनश्च परिशुष्यति ।
पुनरानह्यते वापि पुनर्विव्रियते तथा ॥
निःश्वासो वाति दुर्गन्धो नरो गन्धान् न वेत्ति च ।
एवं दुष्टं प्रतिश्यायं जानीयात् कृच्छ्रसाधनम् ॥
आनह्यते विबद्धा भवति । विव्रियत अविवद्धा
स्यात् । क्लेदशोषविवन्धा नैककालं भवन्ति
किन्तु यदा यदा यद्यत् दोषाधिक्यं भवति तदा
तदा तत्तद्दोषकृतः स स बोद्धव्यः इति न
विरोधः । कृच्छ्रसाधनं असाध्यं कष्टसाध्यञ्च ॥ * ॥
रक्तजमाह ।
रक्तजे तु प्रतिश्याये रक्तस्रावः प्रवर्त्तते ।
पित्तप्रतिश्यायकृतैर्लिङ्गैश्चापि समन्वितः ॥
ताम्राक्षश्च भवेत् जन्तुरुरोघातप्रपीडितः ।
दुर्गन्धोच्छ्वासवक्त्रश्च गन्धानपि न वेत्ति सः ॥
ऊरोघातप्रपीडितः ऊरोघातेनेव प्रपीडितः ॥
अप्रतीकारेण कालान्तरे सर्व्व एव प्रतिश्याया
असाध्या भवन्तीत्याह ।
सर्व्व एव प्रतिश्याया नरस्याप्रतिकारिणः ।
दुष्टतां यान्ति कालेन तदासाध्या भवन्ति हि ॥
प्रतिश्यायेषु कृमयोऽपि भवन्तीत्याह ।
मूर्च्छन्ति कृमयश्चात्र श्वेताः स्निग्धास्तथाणवः ।
कृमितो यः शिरोरोगस्तुल्यं तेनात्र लक्षणम् ॥
अत्र एषु प्रतिश्यायेषु कफस्य प्राधान्यात्
सर्व्वेषु प्रतिश्यायेषु कफजा एव कृमयो भव-
न्तीति ॥ * ॥ श्वेताः स्निग्धाश्च वृद्धाः प्रति-
श्याया अपरानपि विकारान् कुर्व्वन्ति तानाह ।
वाधिर्य्यमान्ध्यमघ्रत्वं घोरांञ्च नयनामयान् ।
शोषाग्निमान्द्यकासांश्च वृद्धाः कुर्व्वन्ति पीनसम् ॥
घोरांश्च नयनामयान् इति वचनेऽप्यान्ध्यग्रहणं
विशेषार्थम् । अघ्रत्वं न जिघ्रतीत्यघ्रस्त्रस्य भावः
अघ्रत्वम् ॥ * ॥ चतुस्त्रिंशत्संख्यापूरणायाह ।
अर्व्वुदं सप्तधा शोथाश्चत्वारोऽर्शश्चतुर्व्विधम् ।
चतुर्व्विधं रक्तपित्तमुक्तं घ्राणेऽपि तद्विदुः ॥
अर्व्वुदानि सप्त वातपित्तकफसन्निपातरक्तमांस-
मेदोजानि । शोथाश्चत्वारो वातपित्तश्लेष्मसन्नि-
पातजाः । अर्शांसि चत्वारि वातपित्तश्लेष्मसन्नि-
पातजानि । रक्तपित्तानि चत्वारि वातपित्त-
श्लेष्मसन्निपातजानि । एतानि यथोक्तलिङ्गानि
घ्राणेऽपि सम्भवन्ति ॥ * ॥ चिकित्साभेदात्
पीनसस्यामस्य लक्षणमाह ।
शिरोगुरुत्वमरुचिर्नासास्रावस्तनुस्वरः ।
क्षामः ष्ठीवति चाभीक्ष्णमामपीनसलक्षणम् ॥
नासास्रावस्तनुस्वरः क्षाम इत्यन्वयः ॥ * ॥
अथ पक्वस्य पीनसस्य लक्षणमाह ।
आमलिङ्गान्वितः श्लेष्मा घनः खेषु निमज्जति ।
स्वरवर्णविशुद्धिश्च पक्वपीनसलक्षणम् ॥
आमलिङ्गान्वितः श्लेष्मा आमलिङ्गैः शिरोगुरु-
त्वादिभिर्युक्तः पश्चात् घनः निविडः अथच
खेषु नासारन्ध्रेषु निमज्जति सक्तो भवति ।
वर्णविशुद्धिः श्लेष्मणः प्रकृतिवर्णता ॥ * ॥
अथ नासारोगाणां चिकित्सा ।
सर्व्वेषु सर्व्वकालं पीनसरोगेषु जातमात्रेषु ।
मरिचं गुडेन दध्ना भुञ्जीत नरः सुखं लभते ॥ १ ॥
कट्फलं पौष्करं शृङ्गी व्योषं यासश्च कारवी ।
एषां चूर्णं कषायं वा दद्यादार्द्रकजै रसैः ॥
पीनसे स्वरभेदे च नासास्रावे हलीमके ।
सन्निपाते कफे वाते कासे श्वासे च शस्यते ॥ २ ॥
कलिङ्गहिङ्गुमरिचलाक्षास्वरसकट्फलैः ।
कुष्ठोग्राशिग्रुजन्तुघ्नैरवपीडः प्रशस्यते ॥
पीनसादिषु ॥ ३ ॥
व्योषचित्रकतालीशतिन्तिडीकाम्लवेतसम् ।
सचव्याजाजितुल्यांशमेलात्वक्पत्रपादिकम् ॥
व्योषादिकमिदं चूर्णं पुराणगुडमिश्रितम् ।
पीनसश्वासकासघ्नं रुचिस्वरकरं परम् ॥
इति व्योषादिवटी ॥ ४ ॥
व्याघ्रीदन्तीवचाशिग्रुसुरसाव्योपसिन्धुजैः ।
सिद्धं तैलं नसि क्षिप्तं पूतिनस्यगदापहम् ॥
इति व्याघ्रीतैलम् ॥ ५ ॥
शिग्रुसिंहीनिकुम्भानां बीजैः सव्योषसैन्धवैः ।
विल्वपत्ररसैः सिद्धं तैलं स्यात् पूतिनस्यनुत् ॥
निकुम्भा दन्ती । पूतिनस्यनुत् नस्यात् । इति
शिग्रुतैलम् ॥ ६ ॥
पृष्ठ २/८७३
घृतगुग्गुलुमिश्रस्य सिक्थकस्य प्रयत्नतः ।
धूमं क्षवथुरोगघ्नं भ्रंशथुघ्नञ्च निर्द्दिशेत् ॥ ७ ॥
शुण्ठीकुष्ठकणाविल्वद्राक्षाकल्ककषायवत् ।
तैलं पक्वमथाज्यं वा न स्यात् क्षवथुनाशनम् ॥ ८ ॥
नस्यं हितं निम्बरसाञ्जनाभ्यां
दीप्ते शिरःस्वेदनमल्पशस्तु ।
नस्ये कृते क्षीरजलावसेकान्
शंसन्ति भुञ्जीत च मुद्गयूषैः ॥ * ॥
नासास्रावे घ्राणयोश्चूर्णमुक्तं
नाड्या देयं ये च पीडाश्च पथ्याः ।
तीक्ष्णा धूमा देवदार्व्वग्निकाभ्यां
मांसं त्वाजं पथ्यमत्रादिशन्ति ॥ १० ॥
प्रतिश्यायेषु सर्व्वेषु गृहं वातविवर्ज्जितम् ।
वस्त्रण वारुणोत्थेन शिरसो वेष्टनं हितम् ॥ ११ ॥
विडङ्गं सैन्धवं हिङ्गुगुग्गुलुः समनःशिला ।
वचैतच्चूर्णमाघ्रातं प्रतिश्यायं विनाशयेत् ॥ १२ ॥
घृततैलसमायुक्तं शक्तुधूमं पिबेन्नरः ।
सधूमः स्यात्प्रतिश्यायकासहिक्काहरः परः ॥ १३ ॥
प्रतिश्यायेषु सर्व्वेषु शीतलं परमौषधम् ।
प्रतिश्याये पिबेद्धूमं सर्व्वगन्धसमायुतम् ॥ १४ ॥
चातुर्यातकचर्णं वा घ्रेयं वा कृष्णजीरकम् ।
कृष्णजीरकमत्र कलौजी ॥ १५ ॥
पुटपक्वं जयापत्रं तैलसैन्धवसंयुतम् ।
प्रतिश्यायेषु सर्व्वेषु शीलितं परमौषधम् ॥
जयात्र विजया भङ्गेति यावत् । शिलितं
भुक्तम् ॥ १६ ॥
पिप्पल्यः शिग्रुबीजानि विडङ्गमरिचानि च ।
अवपीडः प्रशस्तोऽयं प्रतिश्यायनिवारणे ॥ १७ ॥
शिरसोऽभ्यञ्जनैः स्वेदैर्नस्यैर्म्मन्दोष्णभोजनैः ।
वमनैर्घृतपानैश्च नान्यथा समुपाचरेत् ॥ १८ ॥
कृमिघ्ना ये क्रमाः प्रोक्तास्तान् वै कृमिषु योज-
येत् ।
लावणानि कृमिघ्नानि भेषजानि च बुद्धिमान् ॥ १९ ॥
रक्तपित्तानि शोथाश्च तथार्शांस्यर्व्वुदानि च ।
नासिकायां स्युरेतेषां स्वं स्वं कुर्य्यात् चिकित्-
सितम् ॥
गृहधूमकणादारुक्षीरनक्ताह्वसैन्धवैः ।
सिद्धं शिखरिबीजैश्च तैलं नासार्शसां हितम् ॥”
इति भावप्रकाशे मध्यखण्डे चतुर्थभागः ॥
(अथातो नासारोगविज्ञानीयमध्यायं व्याख्यामः ।
“अवश्यायानिलरजो भाष्यातिस्वप्नजागरैः ।
नीचात्युच्चोपधानेन पीतेनान्येन वारिणा ॥
अत्यम्बुपानरमणच्छर्द्दिवाष्पग्रहादिभिः ।
क्रुद्धा वातोल्वणा दोषा नासायां स्त्यानतां
गताः ॥
जनयन्ति प्रतिश्यायं वर्द्धमानं क्षयप्रदम् ।
तत्र वातात् प्रतिश्याये मुखशोषो भृशं क्षवः ॥
घ्राणोपरोधनिस्तोददन्तशङ्खशिरोव्यथाः ।
कीटका इव सर्पन्ति मन्यते परितो भ्रुवौ ॥
स्वरसादश्चिरात् पाकः शिशिराच्छकफस्रुतिः ।
पित्तात्तृष्णाज्वरघ्राणपिटिकासम्भवभ्रमाः ॥
नासाग्रपाको रुक्षोष्णस्ताम्रपीतकफस्रुतिः ।
कफात् कासोऽरुचिः श्वासो वमथुर्गात्रगौरवम् ॥
माधुर्य्यं वदने कण्डूः स्निग्धशुक्लघना स्रुतिः ।
सर्व्वजो लक्षणैः सर्व्वैरकस्माद्वृद्धिशान्तिमान् ॥
दुष्टं नासा शिराः प्राप्य प्रतिश्यायं करोत्यसृक् ।
उरसः सुप्तता ताम्रनेत्रत्वं श्वासपूतिता ॥
कण्डूः श्रोत्राक्षिनासासु पित्तोक्तश्चात्र लक्षणम् ।
सर्व्व एव प्रतिश्याया दुष्टतां यान्त्युपेक्षिताः ॥
यथोक्तोपद्रवाधिक्यात् ससर्व्वेन्द्रियतापनः ।
साग्निसादज्वरश्वासकासोरःपार्श्ववेदनः ॥
कुप्यत्यकस्माद्बहुशो मुखदौर्गन्ध्यशोफकृत् ।
नासिकाक्लेदसंशोषशुद्धिरोधकरो मुहुः ॥
पूयोपमा सितारक्तग्रथिता श्लेष्मसंस्रुतिः ।
मूर्च्छन्ति चात्र कृमयो दीर्घस्निग्धसिताणवः ॥
पक्वलिङ्गानि तेष्वङ्गलाघवं क्षवथोः शमः ।
श्लेष्मा सचिक्वणः पीतो ज्ञानञ्च रसगन्धयोः ॥
तीक्ष्णघ्राणोपयोगार्करश्मिसूत्रतृणादिभिः ।
वातकोपिभिरन्यैर्वा नासिका तरुणास्थनि ॥
विघट्टितेऽनिलः क्रुद्धो रुद्धः शृङ्गाटकं व्रजेत् ।
निवृत्तः कुरुतेऽत्यर्थं क्षवथुं स भृशं क्षवः ॥
शोषयन्नासिकास्रोतः कफञ्च कुरुतेऽनिलः ।
शूकपूर्णाभनासात्वं कृच्छ्रादुच्छ्वसनन्ततः ॥
स्मृतोऽसौ नासिकाशोषो नासानाहे तु जायते ।
नद्धत्वमिव नासायाः श्लेष्मरुद्धेन वायुना ॥
निःश्वासोच्छ्वाससंरोधात् स्रोतसी संवृते इव ।
पचेन्नासापुटे पित्तं त्वङ्मांसं दाहशूलवत् ॥
सघ्राणपाकः स्रावस्तु तत्संज्ञः श्लेष्मसम्भवः ।
अच्छोजलोपमोऽजस्रं विशेषान्निशि जायते ॥
कफः प्रवृद्धो नासायां रुद्धा स्रोतांस्यपीनसम् ।
कुर्य्यात् सघुर्घुरं श्वासं पीनसाधिकवेदनम् ॥
अवेरिव स्रवत्यस्य प्रक्लिन्ना तेन नासिका ।
अजस्रं पिच्छलं पीतं पक्वं सिङ्घाणकं घनम् ॥
रक्तेन नासादग्धेन वाह्यान्तःस्पर्शनासहा ।
भवेद्ध्वूमोपमोच्छ्वासा सा दीप्तिर्द्दहतीव च ॥
तालुमूले मलैदुष्टैर्मारुतो मुखनासिकात् ।
श्लेष्मा च पूतिर्निर्गच्छेत् पूतिनासं वदन्ति तम् ॥
निचयादभिघाताद्वा पूयासृङ्नासिका स्रवेत् ।
तत् पूयरक्तमाख्यातं शिरोदाहरुजाकरम् ॥
पित्तश्लेष्मावरुद्धोऽन्तर्नासायां शोषयेन्मरुत् ।
कफं स शुष्कपुटतां प्राप्नोति पुटकन्तु तत् ॥
अर्शोऽर्व्वुदानि विभजेत् दोषलिङ्गैर्यथायथम् ।
सर्व्वेषु कृच्छ्राच्छ्वसनं पीनसः प्रततं क्षवः ॥
सानुनासिकवादित्वं पूतिनासः शिरीव्यथा ।
अष्टादशानामित्येषां यापयेद्दुष्टपीनसम् ॥”
इत्युत्तरस्थाने एकोनविंशेऽध्याये वाभटेनोक्तम् ॥
“शुद्धसूतं समादाय गन्धभागद्वयं ततः ।
त्रिभागं टङ्गणञ्चापि विधभागचतुष्टयम् ॥
पञ्चभागं यथा देयं मरिचस्य प्रयत्नतः ।
शृङ्गवेररसैः पिष्ट्वा गुडिका पञ्चरक्तिका ॥
अनुपानं हितं योज्यं सर्व्वरोगप्रशान्तये ।
जलदोषोद्भवे रोगे महत्युग्रे जलोदरे ॥
सन्निपातेषु रोगेषु नासाव्याधौ सपीनसे ।
व्रणशोथे व्रणे चैव उपदंशे भगन्दरे ॥
नीडीव्रणे ज्वरे चैव नखदन्तविघातके ।
पञ्चामृतरसो योज्यः सर्व्वरोगप्रशान्तये ॥
इति पञ्चामृतो रसः ॥”
इति वैद्यकरसेन्द्रसारसंग्रहे नासारोगाधि-
कारः ॥)

नासालुः, पुं, (नासायै अलतीति । अल + उण् ।)

कट्फलवृक्षः । इति शब्दचन्द्रिका ॥ (कट्फल-
शब्दे विवरणमस्य ज्ञातव्यम् ॥)

नासासंवेदनः, पुं, (संविद्यतेऽनेनेति । सं + विद् +

ल्युट् । नासायाः संवेदनः पीडादायकः ।)
काण्डीरलता । इति राजनिर्घण्टः ॥

नासिकन्धमः, त्रि, (नासिकां धमति शब्दायमानां

करोतीति । नासिका + ध्मा + “नासिका-
स्तनयोर्ध्माधेटोः ।” ३ । २ । २९ । इति खश् ।
“खित्यनव्ययस्य ।” ६ । ३ । ६६ । इति पूर्ब्ब-
पदस्य ह्रस्वः । ततो मुम् ।) नासिकां शब्दाय-
मानां करोति यः । नासिकया शब्दकर्त्ता च ।
नासिकोपपदात् ध्माधातोः खश्प्रत्यये धमा-
देशनिष्पन्नः । इति व्याकरणम् ॥

नासिकन्धयः, त्रि, (नासिकां नासास्थजलं धयति

पिबतीति । नासिका + धे ट पाने + “नासिका-
स्तनयोर्ध्माधेटोः ।” ३ । २ । २९ । इति खश् ।
ततो पूर्ब्बपदस्य ह्रस्वस्ततो मुम् च ।) नासिकया
पिबति यः । नासिकया पानकर्त्ता । नासिकोप-
पदाद्धेटधातोः खश्प्रत्ययेन निष्पन्नः । इति
व्याकरणम् ॥

नासिका, स्त्री, (नासते शब्दायते इति । नास

शब्दे + “ण्वुल्तृचौ ।” ३ । १ । १३३ । इति
ण्वुल् । टापि अत इत्वम् ।) घ्राणेन्द्रियम् ।
नाक् इति भाषा । तत्पर्य्यायः । घ्राणम् २
गन्धवहा ३ घोणा ४ नासा ५ । इत्यमरः । २ ।
६ । ८९ ॥ शिङ्घिणी ६ । इति राजनिर्घण्टः ॥
नासिक्यम् ७ नस्या ८ गन्धनाली ९ गन्धवन्धा १०
नक्रा ११ । इति शब्दरत्नावली ॥ (यथा,
मनुः । २ । ९० ।
“श्रोत्रं त्वक् चक्षुषी जिह्वा नासिका चैव
पञ्चमी ।
पायूपस्थं हस्तपादं वाक् चैव दशमी स्मृता ॥”)
तस्याः शब्दो घोत्कारः । यथा, --
“शयानं रावणं दृष्ट्वा तल्पे महति वानरः ।
नासायूथैस्तु घोत्कारैर्विशद्भिर्वायुसेवकैः ॥”
इति नारसिंहे ४५ अध्यायः ॥

नासिकामलं, क्ली, (नासिकाया मलम् ।) नासा-

स्थितमलम् । शिक्नि इति भाषा । तत्पर्य्यायः ।
शिङ्घाणकम् २ शिङ्घाणम् ३ शिङ्घणम् ४ । इति
शब्दरत्नावली ॥ सिंहानम् ५ । इति भरतः ॥

नासिक्यं, क्ली, (नासिका एव । नासिका + स्वार्थे

ष्यञ् ।) नासिका । इति त्रिकाण्डशेषः ॥
(त्रि, नासिका + “वुञ्छण्केति ।” ४ । २ । ८० ।
इति संकाशादित्वात्ण्यः । नासिकानिवृत्तादौ ।
नासिकायां भवम् । “शरीरावयवात् यत् ।”
५ । १ । ६ । इति यत् । नासाभवे च ॥)
पृष्ठ २/८७४

नासिक्यकं, क्ली, (नासिक्यमेव । नासिक्य + स्वार्थे

कन् ।) नासिका । इति शब्दमाला ॥

नासिक्यौ, पुं, (नासिकायां भवौ । नासिका +

“शरीरावयवात् यत् ।” ५ । १ । ६ । इति यत् ।)
अश्विनीकुमारौ । द्विवचनान्तोऽयम् । इति
हेमचन्द्रः । २ । ९६ ॥

नासीरं, क्ली, (नास् शब्दे + भावे क्विप् । नासा

शब्देन ईर्त्ते गच्छतीति । ईर गतौ + कः ।
जयशब्दाद्युच्चारणेन गमनादेवास्य तथात्वम् ।)
नायकस्याग्रेसारिका सेना । (यथा, श्रीकण्ठ-
चरिते । २१ । ४४ ।
“नासीरपार्षदभटेषु ततः प्रतोलीं
लोलीकृतासिषु हठादधिरूढवत्सु ।
वामभ्रुवः पुरपुरेष्वभवन्नकाण्डे
मग्ना भियेव निजवाष्पजलह्रदेषु ॥”
तथा च, राजेन्द्रकर्णपूरे । ३९ ।
“नासीरप्रसरन्ति दिक्परिसरे भूमण्डले
मौक्तिक-
प्रस्तारन्ति सुधाकरन्ति गगनोत्सङ्गे भवत्-
कीर्त्तयः ॥”)
अग्रसरे, पुं । इति शब्दरत्नावली ॥

नास्ति, व्य, अस्तित्वाभाववत् । अविद्यमानता ।

इति नास्तिकताशब्दटीकायां भरतः ॥ नाइ
इति भाषा । यथा, चाणक्ये ।
“अतिथिर्बालकश्चैव राजा भार्य्या तथैव च ।
अस्ति नास्ति न जानन्ति देहि देहि पुनः पुनः ॥”

नास्तिकः, पुं, (नास्ति परलोक ईश्वरो वेति मति-

र्यस्य । “अस्तिनास्तिदिष्टं मतिः ।” ४ । ४ । ६० ।
इति ठक् । यद्बा, नास्ति परलोको यज्ञादिफलं
ईश्वरो वेत्यादिवाक्येन कायति शब्दायते इति ।
कै शब्दे + डः ।) पाषण्डः । ईश्वरनास्तित्व-
वादी । वेदाप्रामाण्यवादी । (यथा, मनुः ।
२ । ११ ।
“योऽवमन्यत ते मूले हेतुशास्त्राश्रयाद्द्विजः ।
स साधुभिर्बहिष्कार्य्यो नास्तिको वेदनिन्दकः ॥”
तथा च तत्रैव । ३ । १५० ।
“ये स्तेनपतितक्लीवा ये च नास्तिकवृत्तयः ।
तान् हव्यकव्ययोर्विप्राननर्हान्मनुरब्रवीत् ॥”
तथाच तत्रैव । ८ । २२, ३०९ ।
“यद्राष्टं शूद्रभूयिष्टं नास्तिकाक्रान्तमद्बिजम् ।
विनश्यत्याशु तत् कृत्स्नं दुर्भिक्षव्याधिपीडितम् ॥”
“अनपेक्षितमर्य्यादं नास्तिकं विप्रलुम्पकम् ।
अरक्षितारमत्तारं नृपं विद्यादधोगतिम् ॥”)
तत्पर्य्यायः । बार्हस्पत्यः २ चार्व्वाकः ३ लौकाय-
तिकः ४ । इति हेमचन्द्रः । ३ । ५२६ ॥ स च
षड्विधः । माध्यमिकः १ योगाचारः २ सौत्रा-
न्तिकः ३ वैभाषिकः ४ चार्व्वाकः ५ दिग-
म्बरः ६ ॥

नास्तिकता, स्त्री, (नास्तिकस्य भावः । नास्तिक +

तल् ।) कर्म्मफलापवादकज्ञानम् । तत्पर्य्यायः ।
मिथ्यादृष्टिः २ । इत्यमरः । १ । ५ । ४ ॥ “नास्ति
यज्ञफथं नास्ति परलोक इत्यादिकं कायति
नास्तिकः । सदसत्त्वे अस्ति नास्तीत्यव्ययं कै शब्दे
डः । नास्तीति मन्यते इति ष्णिको वा तस्य
भावो नास्तिकता त्वतौ भावे इति तः । नास्ति
सुकृतं नास्ति परलोक इति बुद्धिर्नास्तिकता ।”
इति भरतः ॥ (यथा, महाभारते । १२ ।
१२३ । १५ ।
“प्रज्ञानाशात्मको मोहस्तथा धर्म्मार्थनाशकः ।
तस्मान्नास्तिकता चैव दुराचारश्च जायते ॥”)

नास्तिदः, पुं, आम्रवृक्षः । इति शब्दचन्द्रिका ॥

नास्यं, त्रि, नासायां भवम् । (नासा + “शरीरा-

वयवात् यत् ।” ५ । १ । ६ । इति यत् ।) नासा-
भवम् । यथा, मनुः । ८ । २९१ ।
“छिन्ननास्ये भिन्नयुगे तिर्य्यक्प्रातमुखागते ।
अक्षभङ्गे च यानस्य चक्रभङ्गे तथैव च ॥”

नाहः, पुं, (नह बन्धने + भावे घञ् ।) बन्ध-

नम् । कूटम् । इति मेदिनी । हे, ५ ॥

नाहलः, पुं, (नाहं पर्व्वतशिखरादिकं लाति

आश्रयत्वन गृह्णातीति । ला + कः ।) म्लेच्छ-
जातिविशेषः । इति हेमचन्द्रः । ३ । ५९८ ॥

नाहुषिः, पुं, (नहुषस्य अपत्यं पुमानिति । नहुष +

“अत इञ् ।” ४ । १ । ९५ । इति इञ् ।)
ययातिराजः । इति भूरिप्रयोगः ॥

नि, व्य, उपसर्गविशेषः । अस्यार्था यथा । निषेधः ।

निश्चयः । इति मुग्धबोधटीकायां दुर्गादासः ॥
निवेशः । भृशार्थः । नित्यार्थः । संशयः । क्षेपः ।
कौशलम् । उपरमः । सामीप्यम् । आश्रयः ।
दानम् । मोक्षः । अन्तर्भावः । बन्धनम् । राश्यधो-
भावः । विन्यासः । इति मेदिनी । ने, ४० ॥

निः, [र्] व्य, (नृणातीति । नॄ नये + क्विप् ।

“ऋत इद्धातोः ।” ७ । १ । १०० । इति धातो-
रङ्गस्य इत् ।) निर्णयः । निषेधः । इति मेदिनी ।
रे, ६६ ॥ (अभावः । यथा, हरिवंशे । भविष्य-
पर्व्वणि । ८ । ८७ ।
“नासिकाग्रं समालोक्य पठन् ब्रह्म सनातनम् ।
निर्व्वातस्थो यथा दीपः प्रोच्चरेत् प्रणवं सदा ॥”)

निः, [स्] व्य, निश्चयः । निषेधः । साकल्यम् ।

अतीतम् । इति मेदिनी । से, ८० ॥

निःकासितः, त्रि, (निर् वा निस् + कस् + णिच्

+ क्तः ।) निष्कासितः । बहिष्कृतः । से तु
कखपफे वेति विभाषया विसर्गस्य सकारा-
भावः । इति व्याकरणम् ॥

निःक्रामितः, त्रि, (निर् वा निस् + क्रम + णिच्

+ क्तः ।) निष्क्रामितः । इत्यमरटीकासार-
सुन्दरी ॥

निःक्षत्त्रः, त्रि, (निर्नास्ति क्षत्त्रः क्षत्त्रियो यत्र ।)

क्षत्त्रियशून्यदेशादि । यथा, --
“अवतारे षोडशमे पश्यन् ब्रह्मद्रुहो नृपान् ।
त्रिःसप्तकृत्वः कुपितो निःक्षत्त्रामकरोन्महीम् ॥”
इति श्रीभागवतप्रथमस्कन्धः ॥

निःप्रभः, त्रि, निष्प्रभः । निर्नास्ति प्रभा यस्येति

समासे से तु कखपफे वेति विभाषया विसर्गस्य
सकाराभावः । इति व्याकरणम् ॥

निःशब्दः, त्रि, (निर्गतः शब्दो यस्मात् ।) शब्द-

रहितः । चुप् इति भाषा ॥ यथा, मार्कण्डेय-
पुराणे ।
“निःशब्दं कारयित्वा तत्सदःप्राह महामुने ! ॥”
(यथा च हठयोगप्रदीपिकायाम् । ४ । १०१ ।
“तावदाकाशसंकल्पो यावच्छब्दः प्रवर्त्तते ।
निःशब्दं तत् परं ब्रह्म परमात्मेति गीयते ॥”)

निःशलाकः, त्रि, (निर्गता शलाका यस्मात् शला-

काया निर्गतो वा ।) रहः । निर्ज्जनम् । इत्य-
मरः । २ । ८ । २२ ॥

निःशल्या, स्त्री, (निर्गतं शल्यं यस्याः ।) दन्ती-

वृक्षः । इति राजनिर्घण्टः ॥

निःशूकः, पुं, (निर्नास्ति शूको यस्य ।) मुण्ड-

शालिः । इति राजनिर्घण्टः ॥

निःशेषं, त्रि, (निर्गतः शेषो यस्मात् ।) समस्तम् ।

सम्पूर्णम् । इत्यमरः । ३ । १ । ६५ ॥ (यथा,
हठयोगप्रदीपिकायाम् । ४ । ३२ ।
“उच्छिन्नसर्व्वसङ्कल्पो निःशेषाशेषचेष्टितः ।
स्वावगम्यो लयः कोऽपि जायते वागगोचरः ॥”)
शेषरहितञ्च ॥

निःशोध्यं, त्रि, (निर्गतं शोध्यं यस्मात् । शोध्या-

न्निर्गतमिति वा । निरादय इति समासः ।)
शोधितम् । मृष्टम् । इत्यमरः । ३ । ० । ५६ ॥

निःश्रयणी, स्त्री, (निर्निश्चितं श्रीयते आश्रीयते

ऽनयेति । श्रि + करणे ल्युट् । टित्त्वात् ङीप् ।)
काष्ठघटितसोपानम् । काठेर सिडी इति
भाषा । तत्पर्य्यायः । निःश्रेणिः २ अधि-
रोहिणी ३ निःश्रेणी ४ निःश्रयिणी ५ । इति
शब्दरत्नावली ॥

निःश्रयिणी, स्त्री, (निःश्रयति आश्रयति प्राङ्ग-

नादिस्थानमिति । श्रि + णिनि + ङीप् ।) निःश्र-
यणी । इति शब्दरत्नावली ॥

निःश्रेणिः, स्त्री, (निर्निश्चिता श्रेणिः सोपान-

पङ्क्तिः यत्र ।) अधिरोहिणी । (यथा,
रघुः । १५ । १०० ।
“चक्रे त्रिदिवनिःश्रेणिः सरयूरनुयायिनाम् ॥”)
खर्ज्जुरीवृक्षः । इति मेदिनी । णे, ५७ ॥ (पुं,
घोटकविशेषः । यथा, नकुलकृताश्वचिकित्-
सिते ४ अध्याये ।
“उपर्य्युपरि यस्य स्युरावर्त्ता अलिके त्रयः ।
निःश्रेणिः स तु विज्ञेयो राष्ट्रवृद्धिकरः परः ॥”)

निःश्रेणिका, स्त्री, (निःश्रेणिरिव कायतीति ।

कै + कः । टाप् ।) तृणविशेषः । निःश्रेणी इति
कोकणे प्रसिद्धा । तत्पर्य्यायः । श्रेणिबला २
निरसा ३ वनवल्लरी ४ । अस्या गुणाः । नीर-
सत्वम् । उष्णत्वम् । पशूनामबलप्रदत्वञ्च । इति
राजनिर्घण्टः ॥ (निश्रेणिरेव । स्वार्थे कन् ।
अधिरोहिणी । यथा, देवीभागवते । ४ । १३ । ४० ।
“मानुष्यं दुर्ल्लभं प्राप्य सेविता न महेश्वरी ।
निःश्रेणिकाग्रात् पतिता अध इत्येव विद्महे ॥”)

निःश्रेणी, स्त्री, (निःश्रेणि + कृदिकारादिति वा

ङीष् ।) निःश्रयणी । इति शब्दरत्नावती ॥
पृष्ठ २/८७५

निःश्रेयसं, क्ली, (निर्निश्चितं श्रेयः । “अचतुर-

विचतुरेति ।” ५ । ४ । ७७ । इति निपातनात्
साधुः ।) शुभम् । (यथा, भागवते । १ । ३ । ४० ।
“इदं भागवतं नाम पुराणं ब्रह्मसम्मितम् ।
उत्तमःश्लोकचरितं चकार भगवानृषिः ।
निःश्रेयसाय लोकस्य धन्यं स्वस्त्ययनं परम् ॥”)
मोक्षः । (यथा, मनुः । १२ । ८३ ।
“वेदाभ्यासस्तपोज्ञानमिन्द्रियाणाञ्च संयमः ।
अहिंसा गुरुसेवा च निःश्रेयसकरं परम् ॥”)
विद्या । अनुभावः । भक्तिः । इति शब्दरत्ना-
वली ॥

निःश्रेयसः, पुं, (निर्निश्चितं श्रेयो मङ्गलं यस्मात् ।)

शङ्करः । इति मेदिनी । से, ५६ ॥

निःषमं, व्य, (निर्गतं समं यत्र । “तिष्ठद्गुप्रभृ-

तीनि च ।” २ । १ । १७ । इत्यव्ययीभावत्वम् ।
सुविनिर्दुर्भ्यः इति षत्वम् ।) निन्दा । तत्-
पर्य्यायः । गर्ह्यम् । दुःषमम् ३ । इत्यमरः । ३ ।
४ । १४ ॥ शोकः । इति शब्दरत्नावली ॥

निःसङ्गः, त्रि, (निर्नास्ति सङ्गो यत्र ।) मेलन-

रहितः । यथा, विष्णुपुराणे । ४ । २ । ५१ ।
“मत्स्यस्य सङ्गादभवच्च यो मे
सुतादिरोगो मुषितोऽस्मि तेन ।
निःसङ्गता मुक्तिपदं यतीनां
सङ्गादशेषाः प्रभवन्ति दोषाः ॥”
फलानभिनिवेशवान् । यथा, --
“वेदोक्तमेव कुर्व्वाणो निःसङ्गोऽर्पितमीश्वरे ।
नैष्कम्यसिद्धिं लभते रोचनार्था फलश्रुतिः ॥”
इति मलमासतत्त्वे श्रीभागवतैकादशस्कन्धवच-
नम् ॥

निःसन्धिः, त्रि, (निर्नास्ति सन्धिर्यत्र ।) दृढः ।

इति त्रिकाण्डशेषः ॥ सन्धिरहितश्च ॥

निःसम्पातः, पुं, (निर्नास्ति सम्पातो गमनागमनं

यत्र ।) निशीथः । इति त्रिकाण्डशेषः ॥ (गमना-
गमनपरिशून्ये, त्रि । यथा, हरिवंशे । ८० ।
१३ -- १४ ।
“तेन दुष्टप्रचारेण दूषितं तद्बनं महत् ।
न नृभिर्गोधनैर्वापि सेव्यते वनवृत्तिभिः ।
निःसम्पातः कृतः पन्थास्तेन तद्विषयाश्रयः ॥”)

निःसरणं, क्ली, (निर् + सृ + ल्युट् ।) मरणम् ।

उपायः । गेहादिमुखम् । निर्व्वाणम् । निर्गमः ।
इति हेमचन्द्रः ॥ (यथा, देवीभागवते । ४ ।
२ । २८
“गर्भवासे महद्दुःखं दशमास्रंनिवासनम् ।
तथा निःसरणे दुःखं योनियन्त्रेऽतिदारुणे ॥”)

निःसारः, पुं, (निर्गतः सारो यस्मात् ।) शाखोट-

वृक्षः । इति शब्दचन्द्रिका ॥ श्योनाकप्रभेदः ।
इति राजनिर्घण्टः ॥ साररहिते, त्रि । यथा, --
“मानुष्ये कदलीस्तम्बनिःसारे सारमार्गणम् ।
यः करोति स संमूढो जलबुद्बुदसन्निभे ॥”
इति शुद्धितत्त्वम् ॥
“जगत् सर्व्वन्तु निःसारमनित्यं दुःखभाजनम् ।
उत्पद्यते क्षणादेतत् क्षणादेतद्बिपद्यते ॥
यथैवोत्पद्यते सारान्निःसारं जगदञ्जसा ।
पुनस्तस्मिन् निलीयन्ते महाप्रलयसङ्गमे ॥
उत्पत्तिप्रलयाभ्यान्तु जगन्निःसारतां हरिः ।
शम्भवे दर्शयामास भावेन जगतां पतिः ॥”
इति कालिकापुराणे २७ अध्यायः ॥

निःसारणं, क्ली, (निर् + सृ + णिच् + भावे ल्युट् ।)

निःसरणम् । (निःसार्य्यतेऽनेनेति । निर् + सृ
+ णिच् + करणे ल्यट् ।) गृहादीनां प्रवेशनिर्ग-
मादिपथः । इति शब्दरत्नावली ॥

निःसारा, स्त्री, (निर्नास्ति सारो यस्याः ।)

कदलीवृक्षः । इति राजनिर्घण्टः ॥

निःसारितः, त्रि, (निर् + सृ + णिच् + कर्म्मणि

क्तः ।) बहिष्कृतः । तत्पर्य्यायः । अवकृष्टः २
निष्कासितः ३ । इति जटाधरः ॥ साराभाव-
वांश्च ॥

निःस्नेहः, त्रि, (निर्नास्ति स्नेहो यस्य ।) स्नेह-

शून्यः । यथा । निःस्नेहं कीटदूषितमित्यादि
स्मृतिः ॥ (यथा, रामायणे । २ । ४९ । ७ ।
“अहो दशरथो राजा निःस्नेहः स्वसुतं प्रति ॥”
रसहीनः । यथा, मनुः । ५ । ८७ ।
“नारं स्पृष्ट्वास्थि सस्नेहं स्नात्वा विप्रो विशुध्यति ।
आचम्यैव तु निःस्नेहं गामालभ्यार्कमीक्ष्य वा ॥”
तैलविहीनः । यथा, पञ्चतन्त्रे । १ । ९४ ।
“शिरसा विधृता नित्यं स्नेहेन परिपालिताः ।
केशा अपि विरज्यन्ते निःस्नेहाः किं न
सेवकाः ॥”)

निःस्नेहा, स्त्री, (निर्गतः स्नेहः रसो यस्याः ।)

अतसी । इति त्रिकाण्डशेषः ॥ (अनुरागरहिते,
त्रि । यथा, पञ्चतन्त्रे । ४ । ४७ ।
“यदर्थे स्वकुलं त्यक्तं जीवितार्द्धञ्च हारितम् ।
सा मां त्यजति निःस्नेहा कः स्त्रीणां विश्वसे-
न्नरः ॥”)

निःस्रावः, पुं, (निःस्रवतीति । निर् + स्रु + णः ।)

भक्तरसः । भक्तसमुद्भवमण्डः । माड् इति फेन्
इति च भाषा ॥ तत्पर्य्यायः । आचामः २
मासरः ३ । इत्यमरहेमचन्द्रौ ॥

निःस्वः, त्रि, (निर्नास्ति स्वं धनं यस्य ।) दरिद्रः ।

इत्यमरः । ३ । १ । ४९ ॥ तस्य लक्षणं यथा, --
“सूर्पाकारौ विरूक्षौ च वक्रौ पादौशिरालकौ ।
संशुष्कौ पाण्डरनखौ निःस्वस्य विरलाङ्गुली ॥”
इति गारुडे सामुद्रकम् ॥
ज्ञातिरहितश्च ॥

निकटं, त्रि, (नि समीपे कटतीति । नि + कट +

अच् ।) अदूरम् । तत्पर्य्यायः । समीपम् २
आसन्नम् ३ सन्निकृष्टम् ४ सनीडम् ५ । इत्य-
मरः । ३ । १ । ६६ ॥ अभ्यासः ६ सवेशः ७
अन्तः ८ अन्तिकः ९ समर्य्यादः १० सदेशः ११
अभ्यस्रः १२ अभ्यर्णः १३ सविधा १४ उप-
कण्ठः १५ अभितः १६ । इति शब्दरत्नावली ॥
(यथा, शान्तिशतके । ३ । २ ।
“दिवसरजनीकूलच्छेदैः पतद्भिरनारतं
वहति निकटे कालः स्रोतःसमस्तभयावहम् ।
इह हि पततां नास्त्यालम्बो न चापि निवर्त्तनं
तदिह महतां कोयं मोहो यदेष मदाविलः ॥”
तद्वैदिकपर्य्यायः । तलित् १ आसात् २ अम्ब-
रम् ३ ओर्व्वसे ४ अस्तमीके ५ आके ६ उपाके ७
अर्व्वाके ८ अन्तमानाम् ९ अवमे १० उपमे ११ ।
इत्येकादशान्तिकनामानि । इति वेदनिघण्टौ २
अध्यायः ॥

निकरः, पुं, (निकरोति व्याप्नोतीति । नि +

कृ + अच् ।) समूहः । इत्यमरः । २ । ५ । ३९ ॥
(यथा, कलाविलासे । २ । १६ ।
“इत्यादिमुग्धबुद्धेरसमञ्जसवर्णनं रहः कृत्वा ।
गृह्णाति कनकनिकरं नृत्यंस्तत्तन्मनोरथैः पापः ॥”)
सारः । न्यायदेयधनम् । निधिः । इति मेदिनी ।
रे, १७२ ॥

निकर्षणं, क्ली, (निर्नास्ति कर्षणं यत्र ।) सन्नि-

वेशः । इत्यमरः । २ । ३ । १९ ॥ पत्तनादिषु
दिगादिपरिच्छिन्नप्रदेशः । इति भरतः ॥ पूर्ब्ब-
दिगाद्यवच्छिन्नगृहाणामपीति कलिङ्गः ॥ पुरा-
देर्ब्बहिर्व्विहरणभूमिः । इति स्वाम्यादयः ॥
प्राङ्गणादिसन्निवेशः । इति सारसुन्दरी ॥

निकषः, पुं, (निकषति पिनष्टि स्वर्णादिकं यत्रेति ।

नि + कष + “गोचरसञ्चरेति ।” ३ । ३ । ११९ ।
इति चकारात् घः ।) शाणः । इत्यमरः ।
२ । १० । ३२ ॥ कष्टिपातर इति भाषा)
(यथा, रघुः । १७ । ४६ ।
“निकषे हेमरेखेव श्रीरासीदनपायिनी ॥”) ।

निकषा, स्त्री, (निकषति हिनस्तीति । कष हिंसे +

पदाद्यच् । ततष्टाप् ।) राक्षसमाता । इत्य-
मरः ॥ सा सुमालिकन्या विश्रवसो भार्य्या
च । इति रामायणम् ॥

निकषा, व्य, (नि + कष गतौ + “आः समिन्-

निकषिभ्याम् ।” उणां । ४ । १७४ । इति
आः ।) निकटम् । इत्यमरः । ३ । ४ । १९ ॥
(यथा, माघे । १ । ६८ ।
“पयोधिमाबद्धचलज्जलाविलां
विलङ्घ्य लङ्कां निकषा हनिष्यति ॥”)
मध्यम् । इति मेदिनी । षे, ७९ ॥

निकषात्मजः, पुं, (निकषाया आत्मजः ।) राक्षसः ।

इत्यमरः । १ । १ । ६३ ॥

निकसः, पुं, (निकसति पिनष्टि स्वर्णादिकं यत्र ।

नि + कस + घः ।) निकषः । इत्यमरटीकायां
भरतः ॥

निकामं, क्ली, (नि + कम इच्छायाम् + घञ् ।)

इष्टम् । यथेप्सितम् । इत्यमरः । २ । ९ । ५७ ॥
(यथा, देवीभागवते । १ । ७ । ४० ।
“कुर्व्वन्ति देवि ! भजनं सकलं निकामं
ज्ञात्वा समस्तजननीं किल कामधेनुम् ॥”)

निकायः, पुं, (निचीयते इति । नि + चि + “सङ्घे

चानौत्तराधर्य्ये ।” ३ । ३ । ४२ । इति घञ् ।
आदेश्च कः ।) लक्ष्यम् । सधर्म्मिप्राणिसंहतिः ।
(यथा, महाभारते । १ । १२३ । ४५ ।
“तथा देवनिकायानां सेन्द्राणाञ्च दिवौकसाम् ॥”)
पृष्ठ २/८७६
संहतानां समुच्चयः । (यथा, श्रीकण्ठचरिते ।
६ । १८ ।
“नीरन्ध्रनिर्यत्सुमनोनिकाय-
काषायपट्टप्रणयादशोकः ॥”)
निलयः । (यथा, मनुः । १ । ३६ ।
“एते मनूंस्तु सप्तान्यानसृजन् भूरितेजसः ।
देवान् देवनिकायांश्च महर्षीं श्चामितौजसः ॥”)
परमात्मा । इति मेदिनी । ये, ८७ ॥

निकाय्यः, पुं, (निचीयतऽस्मिन् धान्यादिकमिति ।

नि + चि + “पाय्यसांनाय्यनिकाय्येति ।” ३ । १ ।
१२९ । इति ण्यत्प्रत्ययेन निपातनात्
साधुः ।) गृहम् । इत्यमरः । २ । २ । ५ ॥
(यथा, भट्टिः । ६ । ६६ ।
“न प्रणाय्यो जनः कच्चिन्निकाय्यं तेऽधितिष्ठति ।
देवकार्य्यविघाताय धर्म्मद्रोही महोदये ॥”)

निकारः, पुं, (नि + कृ + घञ् ।) विप्रकारः ।

अपकारः । उत्कारः । धान्यस्योर्द्ध्वक्षेपणम् ।
इत्यमरभरतौ ॥ खलीकारः । इति स्वामी ॥
धिक्कारः । इति शब्दमाला ॥

निकारणं, क्ली, (निकारयति क्लिश्नात्यनेनेति ।

नि + कृ + णिच् + ल्युट् ।) मारणम् । वधः ।
इत्यमरः । २ । ८ । ११२ ॥

निकासः, त्रि, (निकासते शोभतेऽनेन इति ।

कास दीप्तौ + करणे ल्युट् ।) नीकाशः । इत्य-
मरटीका ॥ (तालव्यशकारान्तोऽपि दृश्यते ॥)

निकुञ्चकः, पुं, (निकुञ्चतीति । नि + कुन्च

कौटिल्ये + ण्वुल् ।) परिमाणविशेषः । कुडव-
पादः । स च प्रसृत इति ख्यातः । इति भरत-
धृतसर्व्वस्वम् ॥ वानीरवृक्षः । इति भावप्रकाशः ॥
(जलवेतसः । तत्पर्य्यायो यथा, --
“निकुञ्चकः परिव्याधो नादेयो जलवेतसः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

निकुञ्चितं, क्ली, (नि + कुञ्च + क्तः ।) अङ्ग-

हारान्तर्गतशिरोविशेषः । यथा, --
“आकम्पितं कम्पितञ्च धुतं विधुतमेव च ।
परिवाहितमाधूतमवधूतं तथाञ्चितम् ॥
आकुञ्चितं परावृत्तमुत्क्षिप्तञ्चाप्यधोगतम् ।
लोलितं प्रकृतञ्चेति चतुर्द्दशविधं शिरः ॥”
इति सङ्गीतदामोदरः ॥

निकुञ्जं, पुं क्ली, (नितरां कौ पृथिव्यां जायते इति ।

जन् + डः । पृषोदरादित्वात् मुमागमे साधुः ।)
कुञ्जम् । इत्यमरः । २ । ३ । ८ ॥ (यथा,
आर्य्यासप्तशत्याम् । ४९३ ।
“रचिते निकुञ्जपत्रैर्भिक्षुकपात्रे ददाति साव-
ज्ञम् ।
पर्युसितमपि सुतीक्ष्णश्वासकदुष्णं वधूरन्नम् ॥”)

निकुञ्जिकाम्ला, स्त्री, (निकुञ्जिका कुञ्जोद्भवा

अम्ला ।) कुञ्जिकावृक्षप्रभेदः । तत्पर्य्यायः ।
कुञ्जिका २ कुञ्जवल्लरी ३ । इयं गुणैः श्रीवल्ली-
सदृशी । इति राजनिर्घण्टः ॥

निकुम्भः, पुं, कुम्भकर्णपुत्त्रः । (यथा, रामायणे ।

६ । ७५ । ४६ ।
“स कुम्भञ्च निकुम्भञ्च कुम्भकर्णात्मजावुभौ ।
प्रेषयामास संक्रुव्वो राक्षसैर्बहुभिः सह ॥”)
दन्तिकावृक्षः । इति मेदिनी । भे, १७ ॥
(अस्य पर्य्यायो यथा, --
“चित्रादन्ती निफुम्भः स्यादुपचित्रा मुकूलकः ।
दाक्षायणी विशल्या च तथोडुम्बरपर्ण्यपि ॥”
इति वैद्यकरत्नमालायाम् ॥)
(प्रह्लादस्य पुत्त्रविशेषः । यथा, महाभारते ।
१ । ६५ । १९ ।
“प्रह्लादस्य त्रयः पुत्त्राः ख्याताः सर्व्वत्र भारत ! ।
विरोचनश्च कुम्भश्च निकुम्भश्चेति भारत ! ॥”
दनोः पुत्त्राणामन्यतमः । यथा, तत्रैव । १ ।
६५ । २५ ।
“निचन्द्रश्च निकुम्भश्च कुपटः कपटस्तथा ।
शरभः शलभश्चैव सूर्य्याचन्द्रमसौ तथा ।
एते ख्याता दनोर्व्वंशे दानवाः परिकीर्त्तिताः ॥”
स्वनामख्यातः क्षत्त्रियविशेषः । इति सह्याद्रि-
खण्डे । ३४ । ४४ ॥ महादेवस्य पार्श्वानुचर-
विशेषः । यथा, हरिवंशे । २९ । ४५ ।
“पार्श्वे तिष्ठन्तमाहूय निकुम्भमिदमब्रवीत् ।
गणेश्वरपुरीं गत्वा शून्यां वाराणसों कुरु ॥”
तथा च रघुः । २ । ३५ ।
“अवेहि मां किङ्करमष्टमूर्त्तेः
कुम्भोदरं नाम निकुम्भमित्रम् ॥”
स्कन्दस्य सैनिकविशेषः । यथा, महाभारते ।
९ । ४५ । ५३ ।
“शृणु नामानि चाप्येषां येऽन्ये स्कन्दस्य
सैनिकाः ।
विविधायुधसम्पन्नाश्चित्राभरणवर्म्मिणः ।
शङ्कुकर्णो निकुम्भश्च पद्मः कुमुद एव च ॥”
हर्य्यश्वपुत्त्रविशेषः । यथा, हरिवंशे । १२ । २ ।
“धौन्धुमारिर्दृढाश्वस्तु हर्य्यश्वस्तस्य चात्मजः ।
हर्य्यश्वस्य निकुम्भोऽभूत् क्षत्त्रधर्म्मरतः सदा ॥”)

निकुम्भाख्यवीजं, क्ली, (निकुम्भाख्यस्य दन्तिका-

वृक्षस्य बीजवत् बीजं यस्य ।) जयपालः ।
इति राजनिर्घण्टः ॥ (जयपालशब्देऽस्य
गुणादिकं ज्ञेयम् ॥)

निकुम्भितं, क्ली, नृत्यविषयकाष्टोत्तरशतकरणान्त-

र्गतकरणविशेषः । यथा, सङ्गीतदामोदरे ।
“करणानान्तु सर्व्वेषां सामान्यं लक्षणन्त्विदम् ।
प्रायो वामकरो वक्षःस्थितोऽन्यः पुरतोऽनुगः ॥
पादाभ्यां करणं ज्ञेयं तदिहाष्टोत्तरं शतम् ।
निकुम्भितं पार्श्वक्रान्तमतिक्रान्तं विवर्त्तकम् ॥
विद्युद्भ्रान्तं गजक्रीडं क्रान्तञ्च गरुडप्लुतम् ॥”

निकुम्भी, स्त्री, (निकुम्भ + गौरादित्वात् ङीष् ।)

दन्तीवृक्षः । इति राजनिर्घण्टः ॥

निकुरम्बं, क्ली, (निकुरतीति । नि + कुर + बाहु-

लकात् अम्बच् ।) समूहः । इत्यमरः । २ ।
। ४० ॥ (पुंलिङ्गेऽपि दृश्यते । यथा, श्रीकण्ठ-
चरिते । १८ । ४० ।
“आरक्तगण्डरुचिविद्रुमदण्डभाजो
यस्यास्ति फेननिकुरम्ब इवाट्टहासः ॥”)

निकृतः, त्रि, (नि + कृ + क्तः ।) प्रत्याख्यातः ।

शठः । इत्यमरः । ३ । १ । ४६ ॥ वञ्चितः ।
नीचः । इति मेदिनी । ते, ११६ ॥

निकृतिः, स्त्री, (नि + कृ + क्तिन् ।) भर्त्सनम् ।

क्षेपः । शठः । शाठ्यम् । इति मेदिनी । ते,
११९ ॥ (यथा, किराते । १ । ४५ ।
“न समयपरिरक्षणं क्षमन्ते
निकृतिपरेषु परेषु भूरिधाम्नः ॥”)
दैन्यम् । इति शब्दरत्नावली ॥

निकृष्टः, त्रि, (नि + कृष + क्तः ।) अधमः ।

इत्यमरः । ३ । १ । ५४ ॥ जात्याचारादि-
निन्दितः । इति भरतः ॥

निकेतः, पुं, (निकेतति निवसत्यस्मिन्निति । नि +

कित निवासे + अधिकरणे घञ् ।) निकेतनम् ।
इत्यमरटीकायां भरतः ॥ (यथा, देवीभाग-
वते । ४ । ११ । १२ ।
“तदद्य विनयं कृत्वा सामपूर्ब्बं छलेन वै ।
तिष्ठध्वं स्वनिकेतेषु मदागमनकाड्क्षया ॥”)

निकेतनं, क्ली, (निकेतति निवसत्य स्मिन्निति । नि

+ कित + अधिकरणे ल्युट् ।) गृहम् । इत्य-
मरः । २ । २ । ४ ॥ (यथा, देवीभागवते ।
१ । २० । ४२ ।
“विसर्ज्जिताथ सा तेन गता शाल्वनिकेतनम् ।
उवाच तं वरारोहा राजानं मनसेप्सितम् ॥”)
पलाण्डौ, पुं । इति शब्दचन्द्रिका ॥

निकोचकः, पुं, (निकोचति शब्दायते । नि + कुच

शब्दे + वुन् ।) अङ्कोठवृक्षः । इत्यमरः । २ ।
४ । २९ ॥ (यथा, सुश्रुते । १ । ४६ ।
“वातामाक्षोडाभिषुकनिचुलपिचुनिकोचकोरु-
माणप्रभृतीनि ॥” क्वचित् क्लीवलिङ्गेऽपि दृश्यते ।
यथा, --
“बातामाक्षोडाभिषुकं मुकूलकनिकोचकम् ।
उरुमाणं प्रियालञ्च बृंहणं गुरुशीतलम् ॥”
इति वाभटे सूत्रस्थाने षष्ठेऽध्याये ॥)

निकोठकः, पुं, (निकोचकः + पृषोदरादित्वात्

चस्य ठः ।) निकोचकः । इत्यमरटीकायां
भरतः ॥ (यथा, --
“तिलः पियालाभिषुकौ विभीतका-
श्चित्राभयैरण्डमधूकसर्षपाः ।
कुसुम्भविल्वारुकमूलकातसी-
निकोठकाक्षोडकरञ्जशिग्रुजाः ॥
स्नेहाशयास्थावरसंज्ञितास्तथा-
स्युर्ज्जङ्गमा मत्स्यमृगाः सपक्षिणः ॥”
इति चरके सूत्रस्थाने त्रयोदशेऽध्याये ॥)

निक्वणः, पुं, (नि + क्वण शब्दे + “क्वणो वीणायाञ्च ।”

३ । ३ । ६५ । इति अप् ।) वीणाया अन्यस्य
च किन्नरादेः शब्दः । तत्पर्य्यायः । निक्वाणः २
क्वाणः ३ क्वणः ४ क्वणनम् ५ । इत्यमरः । १ । ७ ।
२४ ॥ प्रादेरप्युपसर्गादुत्तरस्य क्वणधातोः
प्रक्वाणः ६ प्रक्वणः ७ इत्यादयः प्रयोगा भवन्ति ।
आदिना सुक्वाणः सुक्वणः उपक्वाणः उपक्वणः
इत्यादयः । इति भरतः ॥
पृष्ठ २/८७७

निक्वाणः, पुं, (नि + क्वण शब्दे + पक्षे घञ् ।)

निक्वणः । इत्यमरः । १ । ७ । २४ ॥

निखर्ब्बं, क्ली, (निखर्ब्बति बहुलसंख्यां गच्छतीति ।

नि + खर्ब्ब गतौ + पचाद्यच् ।) दशखर्ब्बसंख्या ।
दशसहस्रकोटयः । इति लीलावती हेम-
चन्द्रश्च ॥ (यथा, महाभारते । २ । ६१ । ३ ।
“शङ्खञ्चैव महापद्मं निखर्ब्बं कोटिरेव च ॥”)
पुंलिङ्गोऽप्ययम् । यथा । वृन्दः खर्ब्बो निखर्ब्ब-
श्चेत्यादि ॥

निखर्ब्बः, त्रि, (नितरां खर्ब्बः ।) वामनः । इति

हेमचन्द्रः । ३ । ११८ ॥

निखिलं, त्रि, (निवृत्तं खिलं शेषो यस्मात् ।)

समस्तम् । इत्यमरः । ३ । १ । ६५ ॥ (यथा,
देवीभागवते । १ । २ । ४० ।
“निखिलमलगणानां नाशकृत् कामकन्दं
प्रकटय भगवत्या नामयुक्तं पुराणम् ॥”)

निगडः, पुं क्ली, (निगलति बध्नातीति । नि +

गल + अच् । लस्य डत्वम् ।) हस्तिनां लोह-
मयपादबन्धोपकरणम् । इति भरतः ॥ आँदु
इति दाँडुका इति च ख्यातः ॥ तत्पर्य्यायः ।
शृङ्खलः २ अन्दुकः ३ । इत्यमरः । २ । ८ । ४१ ॥
हिञ्जीरः ४ अन्धुः ५ । इति शब्दरत्नावली ॥
(यथा, माघे । ५ । ४८ ।
“बद्धापराणि परितो निगडान्यलावीत्
स्वातन्त्र्यमुजज्वलमवाप करेणुराजः ॥”)

निगडितः, त्रि, (नि + गल + क्तः । लस्य डत्वम् ।

यद्वा, निगडो जातोऽस्येति । तारकादित्यात्
इतच् ।) बद्धः । इति हेमचन्द्रः । ३ । १०३ ॥

निगणः, पुं, होमधूमः । इति त्रिकाण्डशेषः ॥

निगदः, पुं, (नि + गद भाषे + “नौ गदनदपठ-

स्वनः ।” ३ । ३ । ६४ । इति अप् ।) भाष-
णम् । कथनम् । तत्पर्य्यायः । निगादः २ ।
इत्यमरः । ३ । २ । १२ ॥ (यथा, भागवते ।
५ । ३ । १६ ।
“इति निगदेनाभिष्टूयमानो भगवाननिमिष-
र्षभो वर्षधवाभिवादिताभिवन्दितचरणः सदय-
मिदमाह ॥”) उच्चैर्ज्जपः । यथा । निगदस्तु
जनैर्वेद्य इत्यागमः ॥

निगमः, पुं, (निगमे पुर्य्यां भवः । निगम + “तत्र

भवः ।” ४ । ३ । ५३ । इत्यण् । संज्ञापूर्ब्बकत्वात्
वृद्ध्यभावः ।) बाणिजः । (निगभ्यतेऽत्रेति ।
नि + गम + “गोचरसञ्चरेति ।” ३ । ३ । ११९ । इति
धप्रत्ययेन साधुः ।) पुरी । कटः । (निगम्यते
ज्ञायतेऽनेनेति ।) वेदः । (यथा, देवीभाग-
वते । १ । ५ । ६१ ।
“कथङ्कारं वाच्यः सकलनिगमागोचरगुण-
प्रभावः स्वं यस्मात् स्वयमपि न जानासि
परमम् ॥”)
बणिक्पथः । हट्ट इति यावत् । इति मेदिनी ।
मे, ४५ ॥ निश्चयः । (यथा, “तस्या एव प्रति-
ज्ञाया हेतुभिर्दृष्टान्तोपनयनिगमैः स्थापना ॥”
इति चरके विमानस्थानेऽष्टमेऽध्याये ॥)
अध्वा । इति हेमचन्द्रः । ४ । ३८ ॥ (उपदेशः ।
यथा, भागवते । १ । ५ । ३९ ।
“इमं स्वनिगमं ब्रह्मन्नवेत्य मदनुष्ठितम् ।
अदान्मे ज्ञानमैश्वर्य्यं स्वस्मिन् भावञ्च केशवः ॥”)

निगरः, पुं, (नि + गॄ + “ऋदोरप् ।” ३ । ३ । ५७ ।

इति भावे अप् ।) भोजनम् । इति राज-
निर्घण्टः ॥

निगरणं, क्ली, (नि + गॄ भक्षणे + भावे ल्युट् ।)

भक्षणम् । इति मेदिनी । णे, ९८ ॥

निगरणः, पुं, (निगीर्य्यते भक्ष्यतेऽनेनेति । नि +

गॄ + करणे ल्युट् ।) गलः । इति मेदिनी । णे,
९८ ॥ होमधूमः । इति शब्दरत्नावली ॥

निगादः, पुं, (नि + गद भाषे + पत्ते घञ् ।)

कथनम् । इत्यमरः । ३ । २ । १२ ॥

निगारः, पुं, (नि + गॄ भक्षणे + भावे घञ् ।)

निगरणम् । भक्षणम् । इत्यमरः । ३ । २ । ३७ ॥

निगालः, पुं, (निगलति भक्षयत्यनेनेति । नि + गल

भक्षणे + करणे घञ् ।) अश्वगलोद्देशः । इत्य-
गरः । २ । ८ । ४८ ॥ (यथा, अश्ववैद्यके । २ । १४ ।
“घण्टाबन्धसमीपस्थो निगालः परिकीर्त्तितः ।
अधस्ताच्च निगालस्य गलमाहुर्मणीषिणः ॥”)

निगालवान्, पुं, (निगालोऽस्त्यस्येति । निगाल +

मतुप् मस्य वः ।) अश्वः । इति शब्दचन्द्रिका ॥

निगुः, पुं, (निगम्यते विद्यतेऽनेनेति । नि + गम +

बाहुलकात् डुः ।) मनः । इति त्रिकाण्डशेषः ॥
मलम् । मूलम् । मनोज्ञम् । चित्रकर्म्म । इति
संक्षिप्तसारोणादिवृत्तिः ॥

निगूढः, पुं, (निगुह्यते संव्रियते इति । नि +

गुह + क्तः । “यस्य विभाषा ।” ७ । २ । १५ ।
इति । नेट् ।) वनमुद्गः । इति हेमचन्द्रः ।
४ । २३९ ॥ गुप्ते, त्रि । यथा, --
“आस्ते विधुः परमनिर्वृत एव मौलौ
शम्भोरिति त्रिजगतीजनचित्तवृत्तिः ।
अन्तर्न्निगूढनयनानलदाहदुःखं
जानानि कः स्वयमृते वत शीतरश्मेः ॥”
इत्युद्भटः ॥

निग्रहः, पुं, (नियमेन ग्रहणमिति । नि + ग्रह +

“ग्रहवृद्रिति ।” ३ । ३ । ५८ । इति अप् ।)
अनुग्रहाभावः । इत्यमरः । ३ । २ । ३१ ॥
(यथा, मनुः । ७ । १७५ ।
“निग्रहं प्रकृतीनाञ्च कुर्य्याद् योऽरिबलस्य च ।
उपसेवेत तं नित्यं सर्व्वयत्नैर्गुरुं यथा ॥”)
बन्धनम् । (यथा, महाभारते । १ । १ । १७४ ।
“यदाश्रौषं कर्णदुर्य्योधनाभ्यां
बुद्धिं कृतां निग्रहे केशवस्य ॥”)
भर्त्सनम् । सीमा । इति मेदिनीकरहेमचन्द्रौ ॥
(निराकरणम् । यथा, रघुः । ९ । २५ ।
“दिनमुखानि रविर्हिमनिग्रहै-
र्व्विमलयन् मलयन्नगमत्यजत् ॥”
दण्डः । यथा, रघुः । ११ । ५५ ।
“ते चतुर्थसहितास्त्रयो बभुः
सूनवो नवबधपरिग्रहात् ।
सामदानविधिभेदनिग्रहाः
सिद्धिमन्त इव तस्य भूपतेः ॥”)
चिकित्सा । इति राजनिर्घण्टः ॥ विष्णुः ।
यथा, महाभारते । १३ । १४९ । ९४ ।
“प्रग्रहो निग्रहो व्यग्रो नैकशृङ्गो गदाग्रजः ॥”
(“सर्व्वं प्रलये निगृह्णातीति निग्रहः ।” इति
शाङ्करभाष्यम् ॥ महादेवः । इति महाभार-
तम् । १३ । १७ । ६४ ॥)

निग्राहः, पुं, (नि + ग्रह + “आक्रोशेऽवन्योर्ग्रहः ।”

३ । ३ । ४५ । इति घञ् ।) निग्रहः । आक्रोशः ।
यथा । निग्राहस्ते भूयात् । इति संक्षिप्तसार-
व्याकरणम् ॥ (यथा च भट्टिः । ७ । ४३ ।
“संदृष्टायान्तु वैदेह्यां निग्राहो वोऽर्थवानरेः ॥”)

निघः, पुं, (नियमितं निर्व्विशेषेण वा हन्यते

ज्ञायते इति । नि + हन + “निघो निमितम् ।”
३ । ३ । ८७ । निपातनात् साधुः ।) विष्वक्-
समः । समन्तात् तुल्यारोहपरिणाहः । इत्यमर-
भरतौ ॥

निघण्टिका, स्त्री, गुलञ्चकन्दः । इति राज-

निर्घण्टः ॥

निघण्टुः, पुं, (निघण्टति शोभते इति । घण्ट-

दीप्तौ + “मृगय्वादयश्च ।” उणां । १ । ३८ ।
इति कुप्रत्ययेन साधुः ।) नामसंग्रहः । इति
हेमचन्द्रः । २ । १७२ ॥

निघसः, पुं, (न्यदनमिति । नि + अद् भक्षणे +

“नौ ण च ।” ३ । ३ । ६० । इति अप् ।
“घञपोश्च ।” २ । ४ । ३८ । इति घस्लादेशः ।)
आहारः । इत्यमरः । २ । ९ । ५६ ॥

निघातिः, स्त्री, (निहन्यतेऽनयेति । नि + “वसि-

वपियजीति ।” उणां । ४ । १२४ । इति इञ्
ततः कुत्वम् ।) लोहघानी । लौहमयदण्डः ।
इत्युणादिकोषः ॥

निघुष्टं, क्ली, (निघुष्यते स्मेति । नि + घुष् +

भावे क्तः ।) घुष्टम् । घोषणम् । इति शब्द-
रत्नावली ॥

निघृष्वः, पुं, (नि + घृषु संघर्षे + “सर्व्वनिघृष्व-

रिष्वेति ।” उणां । १ । १५३ । इति वन्प्रत्ययेन
निपातनात् साधुः ।) खुरः । इत्युणदिकोषः ॥
वायुः । खरः । मार्गः । वराहः । इति संक्षिप्त-
सारोणादिवृत्तिः ॥ (ह्रस्वः । इति निघण्टुः ।
३ । २ ॥)

निघ्नः, त्रि, (निहन्यते निगृह्यते इति । नि + हन +

घञर्थे कः । नियम्यत्वादेवास्य तथात्वम् ।)
अधीनः । इत्यमरः । ३ । १ । १६ ॥ (यथा,
रघुवंशे । १४ । ५८ ।
“आश्वास्य रामावरजः सतीं ता-
माख्यातवाल्मीकिनिकेतमार्गः ।
निघ्नस्य मे भर्त्तृनिदेशरौक्ष्यं
देवि ! क्षमस्वेति बभूव नम्रः ॥”)
अङ्कपूरणम् । इति लीलावती ॥ (यथा, सूर्य्य-
सिद्धान्ते । ३ । २९ ।
“पुनर्द्बादशनिघ्नाच्च लभ्यते यत् फलं बुधैः ॥”
पृष्ठ २/८७८
पुं । सूर्य्यवंशीयनृपभेदः । यथा, हरिवंशे
१५ । २२ ।
“अनरण्यसुतो निघ्नो निघ्नपुत्रौ बभूवतुः ॥”)

निचयः पुं, (नि + चि + “एरच् ।” ३ । ३ । ५६ ।

इत्यच् ।) समूहः । (यथा, महाभारते । ४ । २ । ३ ।
“आहरिष्यामि दारूणां निचयान् महतो-
ऽपि च ॥”)
निश्चयः । इति शब्दरत्नावली ॥

निचिकी, स्त्री, (निचिना कायति शोभते इति ।

कै + क । गौरादित्वात् ङीष् ।) नैचिकी ।
उत्तमा गौः । इत्यमरटीकायां भरतः ॥

निचितं, त्रि, (निचीयते स्मेति । नि + चि +

क्त ।) पूरितम् । व्याप्तम् । इति हेमचन्द्रः ।
६ । १०९ ॥ (यथा, महाभारते । ३ । १२९ । ४ ।
“पश्य नानाविधाकारैरग्निभिर्निचितां महीम् ॥”
सञ्चितम् । यथा, भावप्रकाशे अतिसाराधिकारे ।
“वायुः प्रवृद्धो निचितं बनाशं
नुदत्यधस्तादहिताशनस्य ॥”
नदीभेदे, स्त्री । यथा, महाभारते । ६ । ९ । १८ ।
“कौशिकीं त्रिदिवां कृत्यां निचितां रोहिता-
रणीम् ॥”)

निचुलः, पुं, (निचोलति समुच्छ्रयतीति । नि +

चुल + “इगुपधज्ञेति ।” ३ । १ । १३५ । इति
कः ।) इज्जलवृक्षः । इत्यमरः । २ । ४ । ६१ ॥
(पर्य्यायोऽस्य यथा, --
“इज्जलो हिज्जलश्चापि निचुलश्चाम्बुजस्तथा ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
वेतसवृक्षः । इति राजनिर्घण्टः ॥ निचोलः ।
इति हेमचन्द्रः । ४ । २११ ॥

निचुलकं, क्ली, (निचुल इव प्रतिकृतिः । “इवे

प्रतिकृतौ ।” ५ । ३ । ९६ । इति कन् ।) निचोल-
कम् । इति हारावली । १९२ ॥

निचोलः, पुं, (निचोल्यत इति । नि + चुल + घञ् ।)

येन स्युतेनास्युतेन वा वस्त्रान्तरमाच्छाद्यते ।
इत्यमरभरतौ ॥ पाछुडि इति ख्यातः । तत्-
पर्य्यायः । निचुलः २ । उत्तरच्छदः ३ प्रच्छद-
पटः ४ ॥ इति हेमचन्द्रः । ३ । ३४० ॥ (यथा,
राजतरङ्गिण्याम् । ३ । १६९ ।
“सन्तमध्वान्तमिषतस्तीव्रशीतवशीकृताः ।
आशाश्चकाशिरे नीलनिचोलाच्छादिता इव ॥”)

निचोलकः, पुं, (निचोल इव कायतीति । कै + क ।)

भटातश्चोलाकृतिसन्नाहः । तत्पर्य्यायः । कुर्पासः
२ वारवाणः ३ कञ्चुकः ४ । इति हेमचन्द्रः ।
३ । ४३१ ॥

निच्छविः, स्त्री, (निकृष्टा छविः सादृश्य यत्र ।)

तीरभुक्तिदेशः । इति त्रिकाण्डशेषः ॥ त्रिहुत
इति भाषा ॥

निच्छिविः, पुं, वर्णसङ्करजातिभेदः । इति जटा-

धरः ॥ यथा, --
“झलो मल्लश्च राजन्याद्व्रात्यात् निच्छिविरेव च ।
नटश्च करणश्चैव खसो द्रविड एव च ॥”
इति मनुः । १० । २२ ॥

निजं, त्रि, (निश्चयेन जायत इति । नि + जन +

डः ।) स्वकीयम् । (यथा, हितोपदेशे ।
“अयं निजः परो वेति गणना लघुचेतसाम् ॥”)
नित्यम् । इत्यमरः । ३ । ३ । ३२ ॥

निट्, [श्] स्त्री, (नितरां श्यति तनूकरोति

व्यापारानिति । शो + कः । पृषोदरादित्वात्
साधुः ।) निशा । यथा, --
“वास्तवोषा निशाख्या च वासतेयी तमा-
निशौ ॥”
इति रात्रिपर्य्याये त्रिकाण्डशेषः ॥
(यथा, मनुः । ९ । ६० ।
“विधवायां नियुक्तस्तु घृताक्तो वाग्यतो निशि ।
एकमुत्पादयेत् पुत्त्रं न द्वितीयं कथञ्चन ॥”)

निडीनं, क्ली, (नीचैर्डीनं पतनमस्त्यस्मिन् ।) पक्षि-

गतिविशेषः । (यथा, महाभारते । ८ । ४१ । २६ ।
“निडीनमथ संडीनं तिर्य्यग्डीनगतानि च ॥”)
शनैर्यानम् । इति जटाधरः ॥

निण्डिका, स्त्री, कलायविशेषः । तेओडा इति

भाषा ॥ तत्पर्य्यायः । सतीला २ तिण्टी ३ ।
इति शब्दचन्द्रिका ॥

नितम्बः, पुं, (निभृतं तम्यते आकाङ्क्ष्यते कामुकै-

रिति । तमु आकाङ्क्षायाम् + उल्वादयश्चेति
साधुः । यद्बा, नितम्बति पीडयति नायक-
चित्तमिति । नि + तम्ब हिंसायाम् + अच् ।)
स्त्रीकट्याः पश्चाद्भागः । इत्यमरः । २ । ६ । ७४ ॥
पाछा इति भाषा ॥ (यथा, माघे । ११ । ५ ।
“विपुलतरनितम्बाभोगरुद्धे रमण्याः
शयितुमनधिगच्छन् जीवितेशोऽवकाशम् ॥”)
स्कन्धः । रोधः । कटकः । (यथा, भट्टीकाव्ये ।
२ । ८ ।
“गिरेर्नितम्ब मरुता विभिन्नं
तोयावशेषेण हिमाभमम्रम् ॥”)
कटिमात्रम् । इति मेदिनी । बे, १२ ॥ (यथा,
विदग्धमुखमण्डने ।
“तरुण्यालिङ्गितः कण्ठे नितम्बस्थानमाश्रितः ।
गुरूणां सन्निधानेऽपि कः कूजति मुहुर्मुहुः ॥”)

नितम्बिनी, स्त्री, (अतिशयितो नितम्बोऽस्त्यस्या

इति । नितम्ब + “अत इनिठनौ ।” ५ । २ । ११५ ।
इति इनिः स्त्रियां ङीप् ।) प्रशस्तनितम्ब-
विशिष्टा । इत्यमरः । २ । ६ । ३ ॥ (यथा, आर्य्या-
सप्तशत्याम् । ५५४ ।
“वैगुण्येऽपि महता विनिर्म्मितं भवति कर्म्म
शोभायै ।
दुर्वहनितम्बमन्थरमपि हरति नितम्बिनी-
नृत्यम् ॥”)
स्त्रीमात्रम् । इति राजनिर्घण्टः ॥ (यथा,
कुमारसम्भवे । ३ । ७ ।
“नितम्बिनीमिच्छसि मुक्तलज्जां
कण्ठे स्वयं ग्राहनिषिक्तबाहुम् ॥”
नितम्बविशिष्टे, त्रि । यथा, रघुः । १९ । २६ ।
“लोभ्यमाननयनः श्लथांशुकै-
र्मेखलागुणपदैर्नितम्बिभिः ॥”)

नितरां, [म्] व्य, (नि + तरप् + “किमेत्तिङव्य-

येति ।” ५ । ४ । ११ । अमुप्रत्ययः ।) सुतराम् ।
यथा, --
“नागोद्भवो नागधनाभिलाषी
वक्रोक्तिजालो नितरां कुशीलः ॥”
इति कोष्टीप्रदीपः ॥

नितलं, क्ली, (नितरां तलमधोभागो यस्मिन् ।)

सप्तपातालान्तर्गतपातालविशेषः । इति शब्द-
रत्नावली ॥

नितान्तं, क्ली, (निताम्यतीति । तम + कर्त्तरि क्तः ।

“अनुनासिकस्येति ।” ६ । ४ । १५ । इति दीर्घः ।)
अतिशयः । (यथा, कुमारसम्भवे । ३ । ४ ।
“केनाभ्यसूया पदकाङ्क्षिणा ते
नितान्तदीघैर्ज्जनिता तपोभिः ॥”)
तद्बति, त्रि । इत्यमरः । १ । १ । ७० ॥

नित्यं, क्ली, (नियमेन भवम् । नि + “अव्ययात्

त्यप् ।” ४ । २ । १०४ । इति त्यप् ।) निरन्तरक्रिया-
वचनम् । तत्पर्य्यायः । सततम् २ अनारतम् ३
अश्रान्तम् ४ सन्ततम् ५ अविरतम् ६ अनि-
शम् ७ अनवरतम् ८ अजस्रम् ९ । इत्यमरः ।
१ । १ । ६९ ॥ प्रसक्तम् १० आसक्तम् ११ अल-
द्धम् १२ । इति जटाधरः ॥ तद्बति, त्रि । इत्य-
मरः ॥ प्रत्यवायजनकीभूताभावप्रतियोगि ।
यथा एकादश्यामुपोषणं नित्यम् । ध्वंसप्राग-
भावाप्रतियोगि । यथा, गगनं नित्यम् । अह-
रहर्ज्जायमानम् । यथा, नित्यं क्रीडन्ति
कुमाराः । अहरहःक्रियमाणत्वेन विधिबोधि-
तम् । यथा, स्नानतर्पणादिकं नित्यम् । अन-
वच्छिन्नपरम्पराकः । यथा, वर्णा नित्याः ॥

नित्यः, त्रि, (नियमेन भवः । नि + “अव्ययात्

त्यप् ।” ४ । २ । १०४ । इत्यत्र “त्यप् नेर्घ्रुव
इति वक्तव्यम् ।” इति वार्त्तिकोक्त्या त्यप् ।) काल-
त्रयव्यापी । तत्पर्य्यायः । शाश्वतः २ ध्रुवः ३
सदातनः ४ सनातनः ५ । इत्यमरः । ३ । १ । ७२ ॥
(यथा, महाभारते । १ । १०० । २ ।
“दमो दानं क्षमा बुद्धिर्ह्रीर्धृतिस्तेज उत्तमम् ।
नित्यान्यासन् महासत्त्वे शान्तनौ पुरुषर्षभे ॥”)
समुद्रे, पुं । इति राजनिर्घण्टः ॥

नित्यकर्म्म, [न्] क्ली, (नित्यं कर्म्म ।) प्रत्यवाय-

जनकाभावप्रतियोगिकार्य्यम् । इति स्मृतिः ॥
तद्यथा, --
“नित्यं नैमित्तिकञ्चैव नित्यनैमित्तिकन्तथा ।
गृहस्थस्य त्रिधा कर्म्म तन्निशामय पुत्त्रक ! ॥
पञ्चयज्ञाश्रितं नित्यं यदेतत् कथितं तव ।
नैमित्तिकं तथा चान्यत् पुत्त्रजन्मक्रियादिकम् ॥
नित्यनैमित्तिकं ज्ञेयं पर्व्वश्राद्धादि पण्डितैः ॥”
इति मार्कण्डेयपुराणम् ॥ * ॥
तत्त्यागे दोषो यथा, --
“नित्यानां कर्म्मणां विप्र ! तस्य हानिरहर्निशम् ।
अकुर्व्वन् विहितं कर्म्म शक्तः पतति तद्दिने ॥
प्रायश्चित्तेन महता शुद्धिमाप्नोत्यनापदि ।
पक्षं नित्यक्रियाहानेः कर्त्ता मैत्रेय ! मानवः ॥
पृष्ठ २/८७९
संवत्सरं क्रियाहानिर्यस्य पुंसोऽभिजायते ।
तस्यावलोकनात् सूर्य्यो निरीक्ष्यः साधुभिः सदा ॥
स्पृष्टे स्नानं सचेलस्य शुद्धिहेतुर्म्महामुने ! ।
पुंसो भवति तस्योक्ता न शुद्धिः पापकर्म्मणः ॥”
इति विष्णुपुराणे ३ अंशे १८ अध्यायः ॥ * ॥
क्षतादौ नित्यकर्म्मकरणनिषेधो यथा, --
“जानूर्द्ध्वे क्षतजे जाते नित्यकर्म्म न चाचरेत् ।
नैमित्तिकञ्च तदधःस्रवद्रक्तो न चाचरेत् ॥
सूतके च समुत्पन्ने क्षुरकर्म्मणि मैथुने ।
घूमोद्गारे तथा वान्तौ नित्यकर्म्माणि संत्यजेत् ॥
द्रव्ये भुक्ते त्वजीर्णे च नैव भुक्त्वा च किञ्चन ।
कर्म्म कुर्य्यान्नरो नित्यं सूतके मृतके तथा ॥
पत्रं पुष्पञ्च ताम्बूलं भेषजत्वेन कल्पितम् ।
कणादिपिप्पल्यन्तञ्च फलं भुक्त्वा न चाचरेत् ॥
जलस्यापि नरश्रेष्ठ ! भोजनाद्भेषजादृते ।
नित्यक्रिया निवर्त्तेत सह नैमित्तिकैः सदा ॥
जलौकां गूढपादञ्च कृमिगण्डूपदादिकम् ।
कामाद्दम्भेन संस्पृश्य नित्यकर्म्माणि संत्यजेत् ॥
विशेषतः शिवापूजां प्रमीतपितृकी द्विजः ।
यावद्वत्सरवपर्य्यन्तं मनसापि न चाचरेत् ॥
महागुरुनिपाते तु काम्यं किञ्चिन्न चाचरेत् ।
आर्त्विज्यं ब्रह्मयज्ञञ्च श्राद्धं देवयुतञ्च यत् ॥
गुरुमाक्षिप्य विप्रञ्च प्रकृत्यैव च पाणिना ।
न कुर्य्यान्नित्यकर्म्माणि रेतःपाते च भैरव ! ॥”
इति कालिकापुराणे ५४ अध्यायः ॥

नित्यक्षौरं, क्ली, (नित्यं कालाकालाभावतो राग-

प्राप्तत्वात् सदातनं क्षौरम् ।) वैधेतरक्षौरम् ।
रागप्राप्तकेशच्छेदनम् । यथा, --
“चूडोदिते तिथावृक्षे बुधेन्द्वोर्द्दिवसे नरः ।
नित्यक्षौरं प्रकुर्व्वीत जन्ममासे न तु क्वचित् ॥”
इति ज्योतिःसागरसारः ॥ * ॥
राजमार्त्तण्डे तु ।
“न स्नानमात्रगमनोत्सुकभूषिताना-
मभ्यक्तभुक्तरणकालनिवासनानाम् ।
सन्ध्या निशाशनिकुजार्कदिनेषु रिक्ते
क्षौरं हितं प्रतिपदह्नि न चापि विष्ट्याम् ॥”
इति ज्योतिस्तत्त्वम् ॥ * ॥
तत्र मासाः सौराः भाद्रपौषचैत्रा निषिद्धाः
जन्ममासोऽपि निषिद्धः तदितरे विहिताः ।
वारस्तु बुधसोमयोर्व्विहितः । सामगानां मङ्गल-
वारोऽपि । तिथयस्तु नन्दारिक्तापूर्णिमामा-
वास्याष्टमीभिन्ना विहिताः । नक्षत्राणि रेवत्य-
श्विनी पुष्यः धनिष्ठा ज्येष्ठा श्रवणा स्वाती हस्ता
मृगशिरः शतभिषा पुनर्व्वसुः चित्रा । राजा-
देशे द्विजादेशे विवाहे मृतसूतकाशौचे बन्ध-
मोक्षे यज्ञकर्म्मणि परीक्षायां निसिद्धमासादि-
ष्वपि कार्य्यम् । अशक्तश्चेन्निषिद्धेऽपि दिने ।
“केशवमानर्त्तपुरं पाटलिपुत्त्रं पुरीमहीच्छ-
त्राम् ।
दितिमदितिञ्च स्मरतां क्षौरविधौ भवति
कल्याणम् ॥”
इत्युच्चार्य्य कार्य्यम् । इति ज्योतिषम् ॥

नित्यगतिः, पुं, (नित्यं गतिरस्येति ।) वायुः । इति

हेमचन्द्रः । ४ । १७२ ॥ (यथा, महाभारते ।
७ । ४५ । २२ ।
“यथा वायुर्नित्यगतिर्जलदान् शतशोऽम्बरे ॥”)

नित्यदा, व्य, (नित्य + दाच् ।) सर्व्वदा । यथा, --

“पुण्यं मधुवनं तत्र सान्निध्यं नित्यदा हरेः ॥”
इति श्रीभागवते ४ स्कन्धः ॥

नित्यदानं, क्ली, (नित्यं दैनन्दिनं दानम् ।) प्रति-

दिनकर्त्तव्यदानम् । यथा, गरुडपुराणे ।
“नित्यं नैमित्तिकं काम्यं विमलं दानमीरितम् ।
अहन्यहनि यत् किञ्चिद्दीयतेऽनुपकारिणे ॥
अनुद्दिश्य फलं तत् स्याद्ब्राह्मणाय तु नित्य-
कम् ॥”

नित्यप्रलयः, पुं, (नित्यः प्रलयः ।) चतुर्व्विध-

प्रलयान्तर्गतप्रलयविशेषः । यथा, --
“नित्यः सदैव जातानां यो विनाशो दिवानिशम् ॥”
इति विष्णुपुराणे १ अंशे ७ अध्यायः ॥
“सदैव दीपज्वालावत् सातत्येन जातानां दिवा-
निशं यो विनाशः स नित्यः ॥” इति तट्टीकायां
स्वामी ॥

नित्ययौवना, स्त्री, (नित्यं स्थिरं यौवनं यस्याः ।)

द्रौपदी । इति हेमचन्द्रः । ३ । ३७४ ॥ (नित्यं
यौवनं यस्येति ।) स्थिरयौवने, त्रि ॥

नित्यवैकुण्ठः, पुं, (नित्यः सनातनो वैकुण्ठः ।)

विष्णाः स्थानविशेषः । यथा, --
“ऊर्द्ध्वं नभसि संविष्ठो नित्यवैकुण्ठ एव च ।
आत्माकाशसमो नित्यो विस्ततश्चन्द्रविम्बवत् ॥
ईश्वरेच्छासमुद्भूतो निलक्ष्यश्च निराश्रयः ।
आकाशवत् सुविस्तारश्चामूल्यरत्ननिर्म्मितः ॥
तत्र नारायणः श्रीमान् वनमाली चतुर्भुजः ।
लक्ष्मीसरस्वतीगङ्गातुलसीपतिरीश्वरः ॥
सुनन्दनन्दकुमुदपार्श्वदादिभिरन्वितः ।
सर्व्वेशः सर्व्वसिद्धेशो भक्तानुग्रहकारकः ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे १५ अध्यायः ॥

नित्या, स्त्री, (नित्य + टाप् ।) पार्व्वती (यथा,

मार्कण्डेये । ८५ । ८ ।
“रौद्रायै नमो नित्यायै गौर्य्यै धात्रै नमो नमः ॥”)
मनसा देवी । इति शब्दरत्नावली ॥ शक्ति-
विशेषः । अस्या मन्त्रो यथा, --
“वाग्भवं कामवीजञ्च नित्यक्लिन्ने मदौ पुनः ।
द्रवे वह्निबधूर्म्मन्त्रो द्वादशार्णोऽयमीरितः ॥”
ध्यानं यथा, --
“अर्द्धेन्दुमौलिमरुणाममराभिबन्द्या-
मम्भोजपाशसृणिपूर्णकपालहस्ताम् ।
रक्ताङ्गरागरसनाभरणां त्रिनेत्रां
ध्यायेच्छिवस्य वनितां मदविह्वलाङ्गीम् ॥”
इति तन्त्रसारः ॥
(तन्त्रविशेषः । यथा, महासिद्धसारस्वते ।
“गणेशविवर्षिणीतन्त्रं नित्यातन्त्रं शिवागमम् ॥”)

नित्यानध्यायः, पुं, (नित्यं सर्व्वथा यथा तथा अन-

ध्यायः अध्ययनाभावः ।) सर्व्वथा वर्ज्जनीयवेद-
पाठकालादिः । यथा, --
“इमान्नित्यमनध्यायानधीयानो विवज्जयेत् ।
अध्यापनञ्च कुर्व्वाणः शिष्यानां विधिपूर्ब्बकम् ॥
कर्णस्रवेऽनिले रात्रौ दिवा पांशुसमूहने ।
एतौ वर्षास्वनध्यायावध्यायज्ञाः प्रचक्षते ॥
विद्युत्स्तनितवर्षेषु महोल्कानाञ्च संप्लवे ।
आकालिकमनध्यायमेतेषु मनुरब्रवीत् ॥
एतांस्त्वभ्युदितान् विद्यात् यदा प्रादुष्कृतामिषु ।
तदा विद्यादनध्यायमनृतौ चाभ्रदर्शने ॥
निर्घाते भूमिचलने ज्योतिषाञ्चोपसर्ज्जने ।
एतानाकालिकान् विद्यादनध्यायानृतावपि ॥
प्रादुष्कृतेष्वग्निषु तु विद्युत्स्तनितनिस्वने ।
सज्योतिः स्यादनध्यायः शेषे रात्रौ यथा दिवा ॥
नित्यानध्याय एव स्याद्ग्रामेषु नगरेषु च ।
धर्म्मनैपुण्यकामानां पूतिगन्धे च सर्व्वदा ॥
अन्तर्गतशवे ग्रामे वृषलस्य च सन्निधौ ।
अनध्यायो रुद्यमाने समवाये जनस्य च ॥
उदके मध्यारात्रे च विण्मूत्रस्य विसर्ज्जने ।
उच्छिष्टः श्राद्धभुक् चैव मनसापि न चिन्तयेत् ॥
प्रतिगृह्य द्बिजो विद्वानेकोद्दिष्टस्य केतनम् ।
त्र्यहं न कीर्त्तयेद्ब्रह्म राज्ञो राहोश्च सूतके ॥
यावदेकानुदिष्टस्य गन्धो लेपश्च तिष्ठति ।
विप्रस्य विदुषो देहे तावद्ब्रह्म न कीर्त्तयेत् ॥
शयानः प्रौढपादश्च कृत्वा चैवावसक्थिकाम् ।
नाधीयीतामिषं जग्ध्वा सूतकान्नाद्यमेव च ॥
नीहारे बाणशब्दे च सन्ध्ययोरेव चोभयोः ।
अमावास्याचतुर्द्दश्योः पौर्णमास्यष्टकासु च ॥
अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुर्द्दशी ।
ब्रह्माष्टकापौर्णमास्यौ तस्मात्ताः परिवर्ज्जयेत् ॥
पांशुवर्षे दिशां दाहे गोमायुविरुते तथा ।
श्वखरोष्ट्रे च रुवति पङ्क्तौ च न पठेद्द्विजः ॥
नाधीयीत श्मशानान्ते ग्रामान्ते गोव्रजेऽपि वा ।
वसित्वा मैथुनं वासः श्राद्धिकं प्रतिगृह्य च ॥
प्राणि वा यदि वाप्राणि यत् किञ्चित् श्राद्धिकं
भवेत् ।
तदालभ्याप्यनध्यायः पाण्यास्यो हि द्विजः
स्मृतः ॥
चौरैरुपप्लुते ग्रामे सम्भ्रमे चाग्निकारिते ।
आकालिकमनध्यायं विद्यात् सर्व्वाद्भुतेषु च ॥
उपाकर्म्मणि चोत्सर्गे त्रिरात्रं क्षेपणं स्मृतम् ।
अष्टकासु त्वहोरात्रमृत्वन्तासु च रात्रिषु ॥
नाधीयीताश्वमारूढो न वृक्षं न च हस्तिनम् ।
न नावं न खरं नोष्ट्रं नेरिणस्थो न यानगः ॥
न विवादे न कलहे न सेनायां न सङ्गरे ।
न भुक्तमात्रे नाजीर्णे न वमित्वा न सूतके ॥
अतिथिञ्चाननुज्ञाप्य मारुते वाति वा भृशम् ।
रुधिरे च स्रुते गात्राच्छस्त्रेण च परिक्षते ॥
सामध्वनावृग्यजुषी नाधीयीत कदाचन ।
वेदस्याधीत्य वाप्यन्तमारण्यकमधीत्य च ॥
ऋग्वेदो देवदैवत्यो यजुर्व्वेदस्तु मानुषः ।
सामवेदः स्मृतः पित्र्यस्तस्मात्तस्याशुचिर्ध्वनिः ॥
एतद्विदन्तो विद्बांसस्त्रयीनिष्कर्षमन्वहम् ।
क्रमतः पूर्ब्बमभ्यस्य पश्चाद्बेदमधीयते ॥
पृष्ठ २/८८०
पशुमण्डूकमार्ज्जारश्वसर्पनकुलाखुभिः ।
अन्तरागमने विद्यादनध्यायमहर्न्निशम् ॥
द्वावेव वर्ज्जयेन्नित्यमनध्यायौ प्रयत्नतः ।
स्वाध्यायभूभिञ्चाशुद्धामात्मानञ्चाशुचिं द्बिजः ॥”
इति मानवे । ४ । १०१ -- १२७ ॥

नित्यानित्यवस्तुविवेकः, पुं, (नित्यानित्ये वस्तुनी

तयोर्व्विवेकः विवेचनम् ।) ब्रह्मैव नित्यं वस्तु
ततोऽन्यदखिलमनित्यमिति विवेचनम् । इति
वेदान्तसारः ॥

नित्याभैरवी, स्त्री, (नित्या तदाख्यया प्रसिद्धा

भैरवी ।) भैरवीविशेषः । अस्या ध्यानादिकं
षट्कूटाभैरवीध्यानादिवत् ॥ ध्यानं यथा, --
“बालसूर्य्यप्रभां देवीं जवाकुसुमसन्निभाम् ।
मुण्डमालावलीरम्यां बालसूर्य्यसमांशुकाम् ॥
सुवर्णकलसाकारपीनोन्नतपयोधराम् ।
पाशाङ्कुशौ पुस्तकञ्च तथा च जपमालिकाम् ॥”
दधतीमिति शेषः । इति तन्त्रसारः ॥ (अस्या
बीजं यथा, ‘हसकलरडैं’ ‘हसकलरडीँ’
‘हसकलरडौँ ॥’)

निदं, क्ली, (नेदतीति । निद कुत्सायाम् +

“इगुपधज्ञेति ।” ३ । १ । १३५ । इति कः ।)
विषम् । इति शब्दचन्द्रिका ॥

निदद्रुः, पुं, (निदात् विषात् द्राति पलायते इति ।

द्रा + मृगय्वादित्वात् कुप्रत्ययेन साधुः ।)
मनुष्यः । इति शब्दचन्द्रिका ॥ (निर्नास्ति दद्रु-
र्यस्येति विग्रहे । दद्रुरोगरहिते, त्रि ॥)

निदर्शनं, क्ली, (निदृश्यतेऽनेनेति । नि + दृश् +

ल्युट् ।) दृष्टान्तः । उदाहरणम् । यथा, --
“व्यक्तः प्राज्ञेऽपि दृष्टान्तावुभे शास्त्रनिदर्शने ॥”
इति नानार्थटीकायां भरतः ॥
(“दृष्टान्तेनार्थः प्रसाध्यते यत्र तन्निदर्शनम् ॥
यथाग्निर्वायुनासहितः कोष्ठे वृद्धिङ्गच्छति तथा
वातपित्तकफदुष्टो व्रण इति ॥” इत्युत्तरतन्त्रे पञ्च-
षष्टितमेऽध्याये सुश्रुतेनोक्तम् ॥)

निदर्शना, स्त्री, (निदर्शयतीति । नि + दृश् + णिच्

+ ल्युः । टाप् ।) काव्यालङ्कारविशेषः । तस्य
लक्षणम् ।
“अर्थान्तरप्रवृत्तेन किञ्चित्तत्सदृशं फलम् ।
सदसत्त्वान्निदर्श्येत यदि सा स्यान्निदर्शना ॥”
उदाहरणं यथा, दण्डी ।
“उदयन्नेव सविता पद्मेष्वर्पयति श्रियम् ।
विभावयितुमृद्धीनां फलं मुहृदनुग्रहम् ॥”
(यथा च साहित्यदर्पणे । १० । ७० ।
“सम्भवन् वस्तुसम्बन्धोऽसम्भवन् वापि कुत्रचित् ।
यत्र विम्बानुविम्बत्वं वोधयेत् सा निदर्शना ॥
अत्र सम्भवद्बस्तुसम्बन्धनिदर्शना । यथा, --
‘कोऽत्र भूमिबलये जनान् मुधा
तापयन् मुचिरमेति सम्पदम् ।
वेदयन्निति दिनेन भानुभा-
नाममाद चरमाचलं ततः ॥’
अत्र रवेरीदृशार्थवेदनक्रियायां कर्त्तृत्वेनान्वयः
सम्भतत्येव देदृशायंजाओअबसनर्त्गरमाचसप्राप्ति-
रूपधर्म्मवत्त्वात् । स च रवेरस्ताचलगमनस्य
परतापिनां विपत्प्राप्तेश्च विम्बप्रतिविम्बभावं
बोधयति । असम्भवद्वस्तुसम्बन्धनिदर्शना त्वेक-
वाक्यानेकवाक्यगतत्वेन द्विविधा । तत्रैकवाक्यगा
यथा, --
‘कलयति कुवलयमाला-
ललितं कुटिलः कटाक्षविज्ञेपः ।
अधरः किसलयलीला-
माननमस्याः कलानिधेर्व्विलासम् ॥’
अत्रान्यस्य धर्म्मं कथमन्यो वहत्विति कटाक्ष-
विक्षेपादीनां कुवलयमालादिगतललितादीनां
कलनमसम्भवत् तल्ललितादिसदृशं ललितादिक-
मवगमयत् कटाक्षविक्षेपादेः कुवलयमालादेश्च
विम्बप्रतिविम्बभावं बोधयति । यथा वा ।
‘प्रयाणे तव राजेन्द्र ! मुक्ता वैरीमृगीदृशाम् ।
राजहंसगतिः पद्भ्यामाननेन शशिद्युतिः ॥’
अत्र पादाभ्यामसम्बद्धराजहंसगतेस्त्यागो-
ऽनुपपन्न इति तयोस्तत्सम्बन्धः कल्प्यते । स
चासम्भवन् राजहंसगतिमिव गतिं बोधयति ।
अनेकवाक्यगा यथा, --
‘इदं किलाव्याजमनोहरं वपु-
स्तपः क्षमं साधयितुं य इच्छति ।
ध्रुवं स नीनोत्पलपत्रधारया
शमीलतां छेत्तुमृषिर्व्यवस्यति ॥’
अत्र यत्तच्छब्दनिर्द्दिष्टवाक्यार्थयोरभेदेनान्वयो-
ऽनुपपद्यमानस्तादृशवपुषस्तपः क्षमत्वसाधनेच्छा
नीलोत्पलपत्रधारया शमीलताछेदनेच्छेवेति
विम्बप्रतिविम्बभावे पर्य्यवस्यति । यथा वा ।
‘जन्मेदं बन्ध्यतां नीतं भवभोगोपलिप्सया ।
काचमूल्येन विक्रीतो हन्त चिन्तामणिर्म्मया ॥’
अत्र भवभोगलोभेन जन्मनो व्यर्थतानयनं
काचमूल्येन चिन्तामणिविक्रय इवेति पर्य्यव-
सानम् । एवम् ।
‘क्व सूर्य्यप्रभवो वंशः क्व चाल्पविषया मतिः ।
तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम् ॥’
अत्र मन्मत्या सूर्य्यवंशवर्णनमुडुपेन सागर-
तरणमिवेति पर्य्यवसानम् । इयं क्वचिदुपमेय-
वृत्तस्योपमानेऽसम्भवेऽपि भवति । यथा, --
‘योऽनुभूतः कुरङ्गाक्ष्यास्तस्या मधुरिमाधरे ।
समास्वादि स मृद्वीकारसे रसविशारदैः ॥’
अत्र प्रकृतस्याधरस्य मधुरिमधर्म्मस्य द्राक्षा-
रसेऽसम्भवात् । पूर्ब्बवत् साम्ये पर्य्यवसानम् ।
मालारूपापि यथा मम ।
‘क्षिपसि शुकं वृषदंशकवदने
मृगमर्पयसि मृगादनरदने ।
वितरसि तुरगं महिषविषाणे
निदधच्चेतो भोगविताने ॥’
इह विम्बप्रतिविम्बताक्षेपं विना वाक्यार्थापर्य्य-
वसानम् । दृष्टान्ते तु पर्य्यवसितेन वाक्यार्थेन
सामर्थ्याद्विम्बप्रतिविम्बताप्रत्यायनम् । नापीय-
मर्थापत्तिस्तत्र ‘हारोऽयं हरिणाक्षीणाम् ।’
इत्यादौ सादृश्यपर्य्यवसानाभावात् ॥)

निदाघः, पुं, (नितरां दह्यतेऽत्र अनेन वा । नि +

दह + घञ् । न्यङ्क्वादित्वात् कुत्वम् ।) ग्रीष्म-
कालः । (यथा, रघुः । १० । ८३ ।
“ते प्रजानां प्रजानाथास्तेजसा प्रश्रयेण च ।
मनो जह्रुर्निदाघान्ते श्यामाभ्रा दिवसा इव ॥”)
उष्णः । घर्म्मः । इत्यमरमेदिनीकरौ ॥ (यथा,
रघुः । १२ । ३२ ।
“रावणावरजा तत्र राघवं मदनातुरा ।
अभिपेदे निदाघार्त्ता व्यालीव मलयद्रुमम् ॥”)
निदाघे वर्णनीयानि यथा । पाटलपुष्पम् १
ग्नल्लिकापुष्पम् २ तापः ३ सरः ४ पथिकशोषः ५
वायुः ६ सेकः ७ शक्तुः ८ प्रपा ९ स्त्री १० मृग-
तृष्णा ११ आम्रादिफलपाकः १२ । इति कवि-
कल्पलता ॥
(“ता एवौषधयो निदाघे निःसारा रुक्षा अति-
मात्रं लघ्व्यो भवन्त्यापश्च ता उपयुज्यमानाः
सूर्य्यप्रतापोपशोषितदेहानां देहिनां रौक्ष्या-
ल्लघुत्वाद्वैशद्याच्च वायोः सञ्चयमापादयन्ति
स सञ्चयः प्रावृषि चात्यर्थं जलोपक्लिन्नायां भूमौ
क्लिन्नदेहानां प्राणिनां शीतवातवर्षेरितो वाति-
कान् व्यार्धान् जनयति ॥” इति सुश्रुते सूत्र-
स्थाने षष्ठेऽध्याये ॥
“निदाघोपचितञ्चैव प्रकुप्यन्तं समीरणम् ।
निहन्यादनिलघ्नेन विधिना विधिकोविदः ।
नदीजलं रुक्षमुष्णमुदमन्थं तथातपम् ॥
व्यायामञ्च दिवास्वप्नं व्यवायञ्चात्र वर्ज्जयेत् ॥”
इति चोत्तरतन्त्रे चतुःषष्टितमेऽध्याये सुश्रुते
नोक्तम् ॥)

निदाघकरः, पुं, (निदाघा उष्णाः करा किरणानि

यस्य । निदाघस्य उष्णस्य करो वा ।) सूर्य्यः ।
इति हारावली । ११ ॥

निदाघकालः, पुं, (निदाघ एव कालः । निदा-

घस्य कालो वा ।) ग्रीष्मर्त्तुः । स तु ज्यैष्ठा-
षाढमासौ । यथा, --
“प्रचण्डसूर्य्यः स्पृहणीयचन्द्रमाः
सदावगाहक्षतवारिसञ्चयः ।
दिनान्तरम्योऽभ्युपशान्तमन्मथो
निदाघकालः समुपागतः प्रिये ! ॥”
इति ऋतुसंहारे । १ । १ ॥

निदानं, क्ली, (नि निश्चयं दीयतेऽनेनेति । नि +

दा + करणे ल्युट् ।) आदिकारणम् । इत्य-
मरः । १ । ४ । २८ ॥ (यथा, रघुः । ३ । १ ।
“निदानमिक्ष्वाकुकुलस्य सन्ततेः
सुदक्षिणा दोर्हृदलक्षणं दधौ ॥”)
कारणम् । वत्सदामादि । (यथा, ऋग्वेदे ।
६ । ३२ । २ ।
“उदुश्रियाणामसृजन्निदानम् ॥”
नि + दो छेदे + भावे ल्युट् ।) कारणक्षयः ।
इति मेदिनी । ने, ८३ ॥ (नि + दै प शोधने + भावे
ल्युट् ।) शुद्धिः । तपःफलयाचनम् । अवसा-
नम् । इति हेमचन्द्रः । ६ । १५० ॥ रोग-
निर्णयः । इति विश्वः ॥ तत्पर्य्यायः । रोग-
पृष्ठ २/८८१
लक्षणम् २ आदानम् ३ रोगहेतुः ४ । इति
राजनिर्घण्टः ॥ * ॥
“निदानं पूर्ब्बरूपाणि रूपाण्युपशयस्तथा ।
सम्प्राप्तिश्चेति विज्ञानं रोगाणां पञ्चधा स्मृतम् ॥
निमित्तहेत्वायतनप्रत्ययोत्थानकारणैः ।
निदानमाहुः पर्य्यायैः प्राग्रूपं येन लक्ष्यते ॥”
इति माधवकरः ॥
(“सेति कर्त्तव्यताको रोगोत्पादकहेतुर्निदानम् ।”
इति रुग्विनिश्चयव्याख्याने विजयेनोक्तम् ॥
“इह खलु हेतुर्निमित्तमायतनं कर्त्ता कारणं
प्रत्ययः समुत्थानं निदानमित्यनर्थान्तरम् । तत्त्रि-
विधं असात्म्येन्द्रियार्थसंयोगः प्रज्ञापराधः परि-
णामश्चेत्यतस्त्रिविधविकल्पा व्याधयः प्रादुर्भव-
न्त्याग्नेयसौम्यवायव्याः ।” इति निदानस्थाने
प्रथमेऽध्याये चरकेणोक्तम् ॥ पैलमुनिकृत-
चिकित्साग्रन्थविशेषः । यथा, ब्रह्मवैवर्त्ते । १ ।
१६ । २१ ।
“पैलो निदानं करथस्तन्त्रं सर्व्वधरं परम् ।
द्वैधनिर्णयतन्त्रञ्च चकार कुम्भसम्भवः ॥”)

निदिग्धं, त्रि, (निदिह्यते स्मेति । दिह उपचये +

क्तः ।) लेपादिना वर्द्धितम् । तत्पर्य्यायः । उप-
चितम् २ । इत्यमरः । ३ । १ । ८९ ॥

निदिग्धा, स्त्री, (निदिग्ध + टाप् ।) एला । इति

शब्दचन्द्रिका ॥ (विवृतिरस्या एलाशब्दे
ज्ञातव्या ॥)

निदिग्धिका, स्त्री, (निदिग्धा + स्वार्थे संज्ञायां

वा कन् । कापि अत इत्वम् ।) एला । इति
शब्दचन्द्रिका ॥ (यथा, सुश्रुते । ३ । १७ ।
“कपित्थबृहतीविल्वपटोलेषु निदिग्धिकाः ॥”)
कण्टकारिका । इत्यमरः । २ । ४ । ९३ ॥
(अस्याः पर्य्यायो यथा, --
“अनाक्रान्ता स्पृही व्याघ्री भण्डाकी च निदि-
ग्धिका ।
सिंही धामनिका क्षुद्रा बृहती कण्टकारिका ॥”
इति वैद्यकरत्नमालायाम् ॥)

निदिध्यासनं, क्ली, (पुनः पुनरतिशयेन वा निध्याय-

तीति । नि + ध्यै + सन् । ततो भावे ल्युट् ।)
पुनःपुनःस्मरणम् ॥ अद्बितीयवस्तनि तदाकारा-
कारिताया बुद्धेः स्वजातीयप्रवाहः । इति
वेदान्तसारः ॥

निदेशः, पुं, (नि + दिश + घञ् ।) आज्ञा ।

इत्यमरः । २ । ८ । २५ ॥ (यथा, देवीभाग-
वते । २ । १० । ४९ ।
“प्रत्यूचुस्तान् द्बिजान् भत्वा निदेशं भूपतेर्यथा ॥”)
कथनम् । उपान्तम् । इति मेदिनी । शे, २३ ॥
(यथा, मनुः । २ । १९७ ।
“पराङ्मुखस्याभिमुखो दूरस्थस्येत्य चान्ति-
कम् ।
प्रणम्य तु शयानस्य निदेशे चैव तिष्ठतः ॥”)
भाजनम् । इति धरणिः ॥

निदेशिनी, स्त्री, (निदिशतीति । नि + दिश +

णिनि ङीप् ।) दिक् । इति राजनिर्घण्टः ॥

निदेष्टा, [ऋ] त्रि, (निदिशतीति । नि + दिश +

तृच् ।) निदेशकर्त्ता । निदिशति इति व्युत्-
पत्त्या तृणा निष्पन्नः । इति मुग्धबोधमतम् ॥

निद्रा, स्त्री, (निन्द्यते इति । निदि कुत्सायाम् +

“निन्देर्नलोपश्च ।” उणां । २ । १७ । इति रक्
नलोपश्च ।) मेध्यामनःसंयोगः । इति जग-
दीशः ॥ सुषुप्त्यवस्थास्वन्यावस्था । इति चण्डी-
टीकायां नागभट्टः । घुम इति भाषा ॥ तत्-
पर्य्यायः । शयनम् २ स्वापः ३ स्वप्नः ४ संवेशः ५ ।
इत्यमरः । २ । ७ । ३६ ॥ सुप्तिः ६ स्वपनम् ७ ।
इति शब्दरत्नावली ॥ यथाकाले सेवितनिद्रा-
गुणाः । धातुसाम्यत्वम् । अतन्द्रितत्वम् । पुष्टि-
वर्णबलोत्साहाग्निदीप्तिकारित्वञ्च ॥ * ॥ दिवा-
स्वप्नगुणः । स्निग्धत्वम् । तृट्शूलहिक्काजीर्णाति-
सारिणां हितत्वञ्च ॥ * ॥ आसीनप्रचलायि-
तस्य उपविश्य निद्रावशाद्दोलायमानस्य गुणः ।
अरूक्षत्वम् । अनभिष्यन्दित्वञ्च ॥ * ॥ निद्रा
सात्म्यीकृतानां दिवा रात्रौ च स्वपतां जाग्रतां
वा दोषो न भवति । इति राजवल्लभः ॥ * ॥
निद्रारहिता यथा, --
“कुतो निद्रा दरिद्रस्य परप्रेष्यकरस्य च ।
परनारीप्रसक्तस्य परद्रव्यहरस्य च ॥” * ॥
सुखसुप्ता यथा, --
“सुखं स्वपित्यनृणवान् व्याधिमुक्तश्च यो नरः ।
सावकाशस्तु यो भुङ्क्ते यस्तु दारैर्न शङ्कितः ॥”
इति गारुडे नीतिसारः ॥
(“सत्त्वाच्च तम एव स्यात् जाग्रते स्वपते प्रभुः ।
तमसा प्रावृतो देही व्योम्ना च शून्यताङ्गतः ॥
देहं विश्रमते यस्मात्तस्मान्निद्रा प्रकीर्त्तिता ।
नासार्द्धे च भ्रुवोर्म्मध्ये लीयते चान्तरात्मना ॥
तस्माच्चेतो भवेत्तत्र निद्राव्यालीयते नृणाम् ॥”
इति शारीरस्थाने प्रथमेऽध्याये हारीतेनोक्तम् ॥
“निद्रायत्तं सुखं दुःखं पुष्टिः कार्श्यं बलाबलम् ।
वृषता क्लीवता ज्ञानमज्ञानं जीवितं न च ॥
अकालेऽतिप्रसङ्गाच्च न च निद्रा निषेविता ।
सुखायुषी पराकुर्य्यात् कालरात्रिरिवापरा ॥”
इति वाभटे सूत्रस्थाने सप्तमेऽध्याये ॥
“पुण्डरीकेण सदृशं हृदयं स्यादधोमुखम् ।
जाग्रतस्तद्विकशति स्वपतश्च निमीलति ॥
निद्रान्तु वैष्णवीं पाप्मानमुपदिशन्ति सा स्वभा-
वत एव सर्व्वप्राणिनोऽभिस्पृशति ॥ तत्र यदा
संज्ञावहानि स्रोतांसि तमो भूयिष्ठः श्लेष्मा प्रति-
पद्यते तदा तामसी नाम निद्रा सम्भवत्यनव-
बोधिनी सा प्रलयकाले । तमोभूयिष्ठानामहःसु
निशासु च भवति । रजो भूयिष्ठानामनिमि-
त्तम् । सत्त्वभूयिष्ठानामर्द्धरात्रे । क्षीणश्लेष्मणाम-
निलबहुलानां मनःशरीराभितापवताञ्च नैव
सा वैकारिकी भवति ॥
हृदयञ्चेतनास्थानमुक्तं सुश्रुत ! देहिनाम् ।
तमोऽभिभूते तस्मिंस्तु निद्रा विशति देहिनाम् ॥
निद्राहेतुस्तमः सत्त्वं बोधने हेतुरुच्यते ।
स्वभाव एव वा हेतुर्गरीयान् परिकीर्त्तते ॥
पूर्ब्बदेहानुभूतांस्तु भूतात्मा स्वपतः प्रभुः ।
रजोयुक्तेन मनसा गृह्णात्यर्थान् शुभाशुभान् ॥
करणानान्तु वैकल्ये तमसाभिप्रवर्द्धिते ।
अस्वपन्नपि भूतात्मा प्रसुप्त इव चोच्यते ॥
सर्व्वर्त्तुषु दिवास्वापः प्रतिषिद्धोऽन्यत्र ग्रीष्मात् ॥”
इति सुश्रुते शारीरस्थाने चतुर्थेऽध्याये ॥)

निद्राणः, त्रि, (नि + द्रा + क्तः । “संयोगादेरातो

धातोर्यण्वतः ।” ८ । २ । ४३ । इति तस्य नः ।)
निद्रागतः । तत्पर्य्यायः । शयितः २ । इत्यमरः ।
३ । १ । ३३ ॥ (यथा, आर्य्यासप्तशत्याम् । ५२६ ।
“विहितविविधानुबन्धो मानोन्नतयावधीरितो
मानी ।
लभते कुतः प्रबोधं स जागरित्वैव निद्राणः ॥”)

निद्रालुः, त्रि, (निद्रातीति । नि + द्रा + “स्पृहि-

गृहीति ।” ३ । २ । १५८ । इति आलुच् ।)
निद्राशीलः । निद्रा विद्यते अस्य गोतृणेत्या-
दिना आलुः । इत्यमरटीकायां भरतः ॥ तत्-
पर्य्यायः । स्वप्नक् २ शयालुः ३ । इत्यमरः । ३ ।
१ । ३३ ॥ तन्द्रालुः ४ । इति जटाधरः ॥ (यथा,
पञ्चतन्त्रे । ५ । ४१ ।
“काशी विवर्ज्जयेच्चौर्य्यं निद्रालुश्चर्म्मचौरिकाम् ।
जिह्वालौल्यञ्च रोगाढ्यो जीवितं योऽत्र
वाञ्छति ॥”)

निद्रालुः, स्त्री, (निद्रा देयत्वेनास्त्यस्या इति ।

निद्रा + बाहुलकात् आलुः ।) वार्त्ताकी । वन-
वर्व्वरिका । इति राजनिर्घण्टः ॥ नलीनाम-
गन्धद्रव्यम् । इति शब्दचन्द्रिका ॥

निद्रावृक्षः, पुं, (निद्राया वृक्ष इव ।) अन्धकारः ।

इति शब्दमाला ॥

निद्रासंजननं, क्ली, (निद्रां संजनयतीति । सं +

जन + णिच् + ल्युः ।) श्लेष्मा । इति शब्दमाला ॥

निधनं, क्ली, (नि + धा + “कॄपॄवृजिमन्दिनि धाञः

क्युः ।” उणां । २ । ८१ । इति क्युः ।) नाशः ।
तत् तु अदर्शनं मरणञ्च । (यथा, विष्णु-
पुराणे । १ । १३ । ७३ ।
“एकस्मिन् यत्र निधनं प्रापिते दुष्टकारिणि ! ।
बहूनां भवति क्षेमं तस्य पुण्यप्रदो वधः ॥”)
कुलम् । तत्तु कुलस्थानं कुलमुख्यश्च । इत्यमर-
भरतौ ॥

निधनं, पुं क्ली, (नि + धा + क्युः ।) मरणम् ।

इत्यमरः । २ । ८ । १६ ॥ वधतारा । सा तु
जन्मनक्षत्रत्वात् सप्तमी तारा । यथा, जन्म
सम्पद्विपत् क्षेमः प्रत्यरिः साधको वष इत्यादि ।
प्रत्यरौ लवणं दद्यान्निधने तिलकाञ्चनम् । इति
ज्योतिस्तत्त्वस् ॥ (निवृत्तं धनं यस्य ।) धन-
हीने, त्रि ॥

निधानं, क्ली, (निधीयतेऽत्रेति । नि + धा +

आधारे ल्युट् ।) निधिः । इति हेमचन्द्रः ।
२ । १०६ ॥ (यथा, पञ्चतन्त्रे । २ । १६४ ।
“कन्दैः फलैर्मुनिवरा गमयन्ति कालं
सन्तोष एव पुरुषस्य परं निधानम् ॥”)
आधारः । यथा, --
पृष्ठ २/८८२
“निधानभगतं सद्यः सर्व्वं समधिगच्छति ।”
इत्यागमः ॥
(यथा, देवीभागवते । १ । १६ । ३४ ।
“ब्रह्मविद्यानिधानन्तु संसारार्णवतारकम् ॥”)
कार्य्यावसाने प्रवेशस्थानम् । यथा, --
“एतन्नानावताराणां निधानं बीजमव्ययम् ॥”
इति श्रीभागवतम् ॥

निधिः, पुं, (निधीयतेऽत्रेति । नि + धा + किः ।)

नलिकानामगन्धद्रव्यम् । समुद्रः । इति राज-
निर्घण्टः ॥ (यथा, देवीभागवते । ३ । २२ । १० ।
“कन्यां सुकेशीं निधिकन्यकासमां
मेने तदात्मानमनुत्तमञ्च ॥”)
जीवकौषधिः । इति शब्दचन्द्रिका ॥ आधारः ।
यथा । गुणनिधिः । जलनिधिः । इत्यादयः ॥
चिरप्रनष्टस्वामिकभूजातधनविशेषः । इति
प्राञ्चः ॥ अज्ञातस्वामिकचिरनिखातस्वर्णादि ।
यथा । अधुना भूमौ चिरनिखातस्य सुवर्णा-
देर्निधिशब्दवाच्यस्याधिगमे विधिमाह ।
“राजा लब्ध्वा निधिं दद्यात् द्बिजेभ्योऽर्द्धं द्बिजः
पुनः ।
विद्वानशेषमादद्यात् सर्व्वस्यासौ प्रभुर्यतः ॥
इतरेण निधौ लब्धे राजा षष्टांशमाहरेत् ।
अनिवेदितविज्ञातो दाप्यस्तं दण्डमेव च ॥”
“उक्तलक्षणं निधिं राजा लब्धार्द्धं ब्राह्मणेभ्यो
दत्त्वा शेषं कोषे निवेशयेत् । ब्राह्मणस्तु विद्बान्
श्रुताध्ययनसम्पन्नः सदाचारो यदि निधिं लभेत
तदा सर्व्वमेव गृह्णीयात् । यस्मादसौ सर्व्वस्य
जगतः प्रभुः । इतरेण तु राजविद्बद्ब्राह्मण-
व्यतिरिक्तेनाविद्वद्ब्राह्मणक्षत्त्रियादिना निधौ
लब्धे राजा षष्ठांशमधिगन्त्रे दत्त्वा शेषं निधिं
स्वयमाहरेत् । यथाह वशिष्ठः । अप्रज्ञायमानं
वित्तं योऽधिगच्छेत् राजा तद्धरेदधिगन्त्रे षष्ठ-
मांशं प्रदद्यात् इति । गौतमोऽपि निध्यधिगमो
राजधनं न ब्राह्मणस्याभिरुपस्याब्रह्मणोऽप्या-
ख्याता षष्ठं अंशं लभेतेत्येक इति । अनिवेदित
इति कर्त्तरि निष्ठा । अनिवेदितश्चासौ विज्ञा-
तश्च राजा इत्यनिवेदितविज्ञातः । यः कश्चि-
न्निधिं लब्ध्वा राज्ञे न निवेदितवान् विज्ञातश्च
राजा स सर्व्वं निधिं दाप्यो रण्ड्यश्च शक्त्यपेक्षया ।
अथ निधेरपि स्वाम्यागत्यरूपसङ्ख्यादिभिः स्वत्वं
भावयति तदा तस्मै राजा निधिं दत्त्वा षष्ठं
द्वादशं वांशं स्वयमाहरेत् । यथाह मनुः ।
“ममायमिति यो ब्रूयान्निधिं सत्येन मानवः ।
तस्याददीत षड्भागं राजा द्वादशमेव वेति ॥
अंशविकल्पस्तु वर्णकालाद्यपेक्षया वेदितव्यः ।”
इति मिताक्षरायां व्यवहाराध्यायः ॥
कुवेरस्य नवधा रत्नविशेषः । तत्पर्य्यायः ।
शेवधिः २ । इत्यमरः । १ । १ । ७४ ॥ सेवधिः ३ ।
इति भरतः ॥ तद्भेदा यथा, --
“पद्मोऽस्त्रियां महापद्मः शङ्खो मकरकच्छपौ ।
मुकुन्दकुन्दनीलाश्च वर्च्चोऽपि निधयो नव ॥”
इति हारावली ॥
मार्कण्डेयपुराणे तु वर्च्च इति हित्वा अष्टावेव
उक्ताः । इति भरतः ॥ * ॥ तल्लक्षणं यथा, --
“पद्मिनी नाम या विद्या लक्ष्मीस्तस्याधिदेवता ।
तदाधाराश्च निधयस्तान्मे निगदतः शृणु ॥
तत्र पद्ममहापद्मौ तथा मकरकच्छपौ ।
मुकुन्दनीलौ नन्दश्च शङ्खश्चैवाष्टमो निधिः ॥
सत्यामृद्ध्यां भवन्त्येते सद्भिः सह भवन्त्यमी ।
एते ह्यष्टौ समाख्याता निधयस्तव क्रोष्टुके ! ॥
एभिरालोकितं चित्तं मनुष्यस्य महामते ! ।
यादृक् स्वरूपं भवति तन्मे निगदतः शृणु ॥
पद्मो नाम निधिः पूर्ब्बः स यस्य भवति द्विज ! ।
स तस्य तत्सुतानाञ्च तत्प्रौत्त्राणाञ्च नान्यगः ॥
दाक्षिण्यसारः पुरुषस्तेन चाधिष्ठितो भवेत् ।
सत्त्वाधारो महाभागो यतोऽसौ सात्त्विको
निधिः ॥
सुवर्णरौप्यताम्रादिधातूनाञ्च परिग्रहम् ।
करोत्यतितरां सोऽथ तेषाञ्च क्रयविक्रयम् ॥
करोति च यथा यज्ञान् यज्विनाञ्च प्रयच्छति ।
सम्पादयति कामांश्च सर्व्वानेव यथाक्रमम् ॥
सभादेवनिकेतांश्च स कारयति तन्मनाः । * ।
सत्त्वाधारो निधिश्चान्यो महापद्म इति श्रुतः ॥
सत्त्वप्रधानो भवति तेन चाधिष्ठितो नरः ।
करोति पद्मरागादिरत्नानाञ्च परिग्रहम् ॥
समौक्तिकप्रबालानां तेषाञ्च क्रयविक्रयम् ।
ददाति योगशीलेभ्यस्तेषामावसथांस्तथा ॥
स कारयति तच्छीलः स्वयमेव च जायते ।
तत्प्रसूतास्तथाशीलाः पुत्त्रपौत्त्रक्रमेण च ॥
पूर्ब्बर्द्धिमात्रः सप्तासौ पुरुषांश्च न मुञ्चति ।
महापद्मस्तु विप्राणां यज्ञे समुपजायते ॥ * ॥
तामसो मकरो नाम निधिस्तेनावलोकितः ।
पुरुषोऽथ तमःप्रायः सुशीलोऽपि हि जायते ॥
बाणखड्गर्ष्टिधनुषां चर्म्मणाञ्च परिग्रहम् ।
दंशनानाञ्च कुरुते याति मैत्रीञ्च राजभिः ॥
ददाति शौर्य्यवृत्तीनां भूभुजां ये च तत्प्रियाः ।
क्रयविक्रयञ्च शस्त्राणां नान्यत्र प्रीतिमेति च ॥
एकस्यैव भवत्येष नरस्य न सुतानुगः ।
द्रव्यार्थं दस्युतो नाशं संग्रामे वापि संव्रजेत् ॥ * ॥
कच्छपाख्यो निधिर्योऽन्यो नरस्तेनाभिवीक्षितः ।
तमःप्रधानो भवति यतोऽसौ तामसो निधिः ॥
व्यवहारा न शिष्टैश्च पण्यजातं करोति च ।
कर्म्मान्तानखिलांश्चैव न विश्वसिति कस्यचित् ॥
समस्तानि यथाङ्गानि निगृह्यान्ते हि कच्छपः ।
तथावष्टभ्य रत्नानि तिष्ठत्याकुलमानसः ॥
न ददाति न वा भुङ्क्ते तद्विनाशभयाकुलः ।
निधानमुर्व्यां कुरुते निधिः सोऽप्येकपुरुषः ॥ * ॥
रजोगुणमयश्चान्यो मुकुन्दो नाम यो निधिः ।
नरोऽवलोकितस्तेन तद्गुणो भवति द्विज ! ॥
वीणावेणुमृदङ्गादिगीतवाद्यपरिग्रहम् ।
करोति वाद्यतां वित्तं नृत्यताञ्च प्रयच्छति ॥
वन्दिमागधसूतानां विटानां लास्यपाठिनाम् ।
ददात्यहर्निशं भोगान् भुङ्क्ते तैस्तु समं द्बिज ! ॥
कुलटासु रतिश्चास्य भवत्यन्यैश्च तद्बिधैः ।
प्रयाति सङ्गमेकञ्च स निधिर्भजते नरम् ॥ * ॥
रजःसत्त्वमयश्चान्यो नन्दो नाम महानिधिः ।
उपैति स्तम्भमधिकं नरस्तेनावलोकितः ॥
समस्तधातुरत्नानां पण्यवाद्यादिकस्य च ।
प्रतिग्रहं करोत्येष तथैव क्रयविक्रयम् ॥
आधारः स्वजनानाञ्च आगताभ्यागतस्य च ।
सहते नावमानोक्तिं स्वल्पामपि महामुने ! ॥
स्तूयमानश्च महतीं प्रीतिं वध्नाति यच्छति ।
यं यमिच्छति वै कामं मृदुत्वमुपयाति च ॥
बह्व्यो भार्य्या भवन्त्यस्य सूतिमत्योऽतिशोभनाः ।
सन्ततौ सप्त च नरान्निधिर्नन्दोऽनुवर्त्तते ॥
प्रबर्द्धमानोऽनु नरमष्टभागेन सत्तम ! ।
दीर्घायुष्यञ्च सर्व्वेषां पुरुषाणां प्रयच्छति ॥
बन्धूनामेव भ्रमणं ये च दूरादुपागताः ।
तेषां करोति वै नन्दः परलोके न चादृतः ॥ * ॥
भवत्यस्य न च स्नेहः सहवासिषु जायते ।
पूर्ब्बमित्रेषु शैथिल्यं प्रीतिमन्यैः करोति च ॥
तथैव सत्त्वरजसी यो बिभर्त्ति महानिधिः ।
स नीलसंज्ञस्तत्सङ्गी नरस्तच्छीलभाग्भवेत् ॥
वस्त्रकार्पासधान्यादिफलपुष्पपरिग्रहम् ।
मुक्ताविद्रुमशङ्खानां शुक्त्यादीनां महामुने ! ॥
काष्ठादीनां करोत्येष यच्चान्यज्जलसम्भवम् ।
क्रयविक्रयमप्येषां नान्यत्र रमते मनः ॥
तडागान् पुष्करिण्यश्च तथारामान् करोति च ।
बन्धञ्च सरितां वृक्षांस्तथा रोपयते नरः ॥
अनुलेपनपुष्पादिभोगभुक् वापि जायते ।
त्रिपौरुषश्चापि निधिर्नीलो नामेति विश्रुतः ॥
रजस्तमोमयश्चान्यः शङ्खसंज्ञो हि यो निधिः ।
तेनापि नीयते विप्र ! तद्गुणत्वं निधीश्वरः ॥
एकस्यैव भवत्येष नरं नान्यमुपैति च ।
यस्य शङ्खो निधिस्तस्य स्वरूपं क्रोष्टुके ! शृणु ॥
एक एवात्मना सृष्टमन्नं भुङ्क्ते तथाम्बरम् ।
कदन्नभुक् परिजनो न च शोभनवस्त्रभृत् ॥
न ददाति सुहृद्भार्य्यासुतपौत्त्रस्नुषादिषु ।
स्वपोषणपरः शङ्खी नरो भवति सर्व्वदा ॥
इत्येते निधयः ख्याता नराणामर्थदेवताः ॥
मिश्रावलोकिनो मिश्रस्वभावफलदायिनः ।
यथाख्यातः स्वभावस्तु भवत्येकविलोकनात् ।
सर्व्वेषामाधिपत्ये च श्रीरेषां द्विज पद्मिनी ॥”
इति मार्कण्डेयपुराणे ६८ अध्याये निधिलक्षणम् ॥
(पौरववंशीयनृपविशेषः । अयं हि दण्डपाणेः
पुत्त्रः । मत्स्यपुराणादिमते निरामित्रनाम्ना
विख्यातः । ५० । ८७ ॥ यथा, राजावल्यां प्रथम-
परिच्छेदे ।
“बुभुजे पृथिवीमेनां दण्डपाणिर्महाबलः ।
राजासने ततः सोऽपि स्थापयित्वा निधिं सुतम् ॥
स्मरन्नारायणं देवं तपसे स वनं ययौ ।
निघिस्तु विधिवद्राज्यं चकार नीतिपण्डितः ॥”
विष्णुः । यथा, महाभारते । १३ । १४९ । १७ ।
“सर्व्वः शर्व्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः ॥”
“प्रलयकालेऽस्मिन् सर्व्वं निधीयते इति निधिः ।”
इति तद्भाष्ये शङ्करः ॥
पृष्ठ २/८८३
महादेवः । यथा, महाभारते । १३ । १७ । ४३ ।
“श्रुवहस्तः सुरूपश्च तेजस्तेजस्करो निधिः ॥”)

निधिनाथः, पुं, (निधीनां नाथः ।) कुवेरः । इति

त्रिकाण्डशेषः ॥ निधीशः । निधीश्वरः । निधि-
प्रभुः । इत्यादयः ॥

निधुवनं, क्ली, (नितरां धुवनं हस्तपदादिकम्पनं

यत्र ।) मैथुनम् । इत्यमरः । २ । ७ । ५७ ॥
(यथा, शिशुपालवधे । ११ । १८ ।
“अनिमिषमविरामारागिणां सर्व्वरात्रं
नवनिधुवनलीलाः कौतुकेनातिवीक्ष्य ।
इदमुदवसितानामस्फुटालोकसम्पत्
नयनमिव सनिद्रं धूर्णते दैपमर्च्चिः ॥”)
नर्म्म । केलिः । इति शब्दरत्नावली ॥ (नितरां
धुवनं कम्पनम् ।) कम्पः । इति मेदिनी । ने,
१८८ ॥

निध्यानं, क्ली, (नि + ध्यै + ल्युट् ।) दर्शनम् ।

इत्यमरः । ३ । २ । ३१ ॥

निध्वानः, पुं, (नि + ध्वन शब्दे + घञ् ।) शब्दः ।

इति शब्दरत्नावली ॥

निनदः, पुं, (नि + नद + “नौ गदनदपठस्वनः ।”

३ । ३ । ६४ । इति अप् ।) शब्दः । इत्यमरः ।
१ । ६ । २२ ॥ (यथा, देवीभागवते । ३ । २२ । ३७ ।
“शृण्वन्तु तूर्य्यनिनदान् किल वाद्यमानान् ॥”)

निनादः, पुं, (नि + नद + पक्षे घञ् ।) शब्दः ।

इत्यमरः । १ । ६ । २२ ॥ (यथा, रामायणे । २ । ३४ । १९ ।
“स्त्रीसहस्रनिनादश्च संजज्ञे राजवेश्मनि ॥”)

निन्दकः, त्रि, (निन्दति तच्छीलः । निदि कुत्-

सायाम् + “निदिहिंसेति ।” ३ । २ । १४६ ।
इति वुञ् ।) निन्दाकारकः । यथा, --
“न भाराः पर्व्वता भारा न भाराः सप्तसागराः ।
निन्दका हि महाभारा भारा विश्वासघातकाः ॥”
इति कर्म्मलोचनम् ॥

निन्दतलः, त्रि, (निन्दं निन्दार्हं तलं हस्ततलं

यस्य ।) निन्दितहस्तः । इति शब्दरत्नावली ॥

निन्दनं, क्ली, (निदि कुत्सायाम् + भावे ल्युट् ।)

निन्दा । इति शब्दरत्नावली ॥

निन्दा, स्त्री, (निन्दनमिति । निदि + “गुरोश्च

हलः ।” ३ । ३ । १०३ । इति स्त्रियां अः ।)
अपवादः । दुष्कृतिः । इति शब्दरत्नावली ॥
निन्दनम् । तत्पर्य्यायः । अवर्णः २ आक्षेपः ३
निर्व्वादः ४ परीवादः ५ अपवादः ६ उपक्रोशः
७ जुगुप्सा ८ कुत्सा ९ गर्हणम् १० । इत्यमरः ॥
गर्हा ११ कुत्सनम् १२ परिवादः १३ जुगु-
प्सनम् १४ अपक्रोशः १५ भर्त्सनम् १६ अव-
वादः १७ । इति शब्दरत्नावली ॥ गर्हणा
१८ धिक्क्रिया १९ । इति हेमचन्द्रः ॥ (यथा,
मनुः । २ । २०० ।
“गुरोर्यत्र परीवादो निन्दा वापि प्रवर्त्तते ।
कर्णौ तत्र पिधातव्यौ गन्तव्यं वा ततोऽन्यतः ॥”)
हरकेशवभक्तादिनिन्दायां दोषो यथा, --
“हरकेशवयोर्भक्तं ये च निन्दन्ति पापिनः ।
भूदेवान् ब्राह्मणांश्चैव स्वगुरूंश्च पतिव्रताः ॥
यतिभिक्षुकब्रह्मचारिसृष्टिबीजान् सुरांस्तथा ।
पच्यन्ते कालसूत्रे ते यावच्चन्द्रदिवाकरौ ॥
श्लेष्ममूत्रपुरीषेषु शेरते ते दिवानिशम् ।
भक्षिताः कीटनिकरैः शब्दं कुर्व्वन्ति कातराः ॥
ये निन्दन्ति च ब्रह्माणं स्रष्टारं जगतां गुरुम् ।
शिवं सुराणां प्रवरं दुर्गां लक्ष्मीं सरस्वतीम् ॥
सीताञ्च तुलसीं गङ्गां वेदांश्च वेदमातरम् ।
व्रतं तपस्यां पूजाञ्च मन्त्रं मन्त्रप्रदं गुरुम् ॥
ते पच्यन्तेऽन्धकूपे वै चायुषोऽर्द्धं विधेरहो ।
भक्षिताः सर्पसंघैश्च शब्दं कुर्व्वन्ति सन्ततम् ॥
यो निन्दन्ति हृषीकेशं देवसाम्यं विधाय च ।
विष्णुभक्तिप्रदञ्चैव पुराणञ्च श्रुतेः परम् ॥
राधां तदङ्गजा गोपीर्ब्राह्मणांश्च सदाच्चितान् ।
ते पच्यन्तेऽवटे देव ! विधातुरायुषा समम् ॥
अधोमुखा ऊर्द्ध्वजङ्घा सर्पसंघैश्च वेष्टिताः ।
भक्षिता विकृताकारैः कीटैः सर्पैः समाहृतैः ॥
अतीवकातरा भीताः शब्दं कुर्व्वन्ति सन्ततम् ।
श्लेष्ममूत्रपुरीषाणि ध्रुवं भक्षन्ति क्षोभिताः ॥
उल्कां ददति रुष्टाश्च तन्मुखे यमकिङ्कराः ।
त्रिसन्ध्यं तर्जनं कृत्वा कुर्व्वन्ति दण्डताडनम् ॥
कुर्व्वन्ति मूत्रपानञ्च प्रहारैस्तृषिता भिया ।
तदा कल्पान्तरे स्रष्टुं सृष्टेश्च प्रथमे पुनः ॥
तेषां भवेत् प्रतीकार इत्याह कमलोद्भवः ।
परनिन्दा विनाशाय स्वनिन्दा यशसे परम् ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे । ४० । ४१ अः ॥
“वेदनिन्दारतान् मर्त्यान् देवनिन्दारतांस्तथा ।
द्विजनिन्दारतांश्चैव मनसापि न चिन्तयेत् ॥
न चात्मानं प्रशंसेद्बा परनिन्दाञ्च वर्ज्जयेत् ।
वेदनिन्दां देवनिन्दां प्रयत्नेन विवर्ज्जयेत् ॥
यस्तु देवानृषींश्चैव वेदं या निन्दति द्विजः ।
न तस्य निष्कृतिर्दृष्टा शास्त्रेष्विह मुनीश्वराः ! ॥
निन्दयेद्वै गुरुं देवं वेदं वा सोपबृंहणम् ।
कल्पकोटिशतं साग्रं रौरवे पच्यते नरः ॥
तूष्णीमासीत निन्दायां न ब्रूयात् किञ्चिदुत्तरम् ।
कर्णौ पिधाय गन्तव्यं न चैनानवलोकयेत् ॥
वर्ज्जयेद्वै परेषान्तु गृहेषु गर्हणां बुधः ।
न निन्देद्योगिनः सिद्धान् व्रतिनो वा यतीं-
स्तथा ॥
देवतायतनं प्राज्ञो देवानामाकृतिन्तथा ॥”
इति कौर्म्मे उपविभागे १५ अध्यायः ॥

निन्दास्तुतिः, स्त्री, (निन्दया स्तुतिः ।) व्याज-

स्तुतिः । यथा, --
“निन्दास्तुतिभ्यां वाच्याभ्यां गम्यत्वे स्तुति-
निन्दयोः ।”
निन्दया स्तुतिर्गम्यत्वे व्याजेन स्तुतिरिति च
व्युत्पत्त्या व्याजस्तुतिः । इति साहित्यदर्पणः ।
अपि च ।
“यदि निन्दन्निव स्तौति व्याजस्तुतिरसौ मता ।”
उदाहरणम् ।
“तापसेनापि रामेण जितेयं भूतधारिणी ।
त्वया राज्ञापि सैवेयं जिता माभून्मदस्तव ॥”
इति दण्डी ॥
“कथमवनिप ! दर्पो यन्निशातासिधारा-
दलनगलितमूर्द्ध्नां विद्बिषां स्वीकृता श्रीः ।
ननु तव निहतारेरप्यसौ किन्न नीता
त्रिदिवमपगताङ्गैर्वल्लभा कीर्त्तिरेभिः ॥
इत्यादौ निन्दास्तुतिवपुषा स्वरूपस्य ।” इति
काव्यप्रकाशः ॥

निन्दितः, त्रि, (निन्दास्य जातेति । निन्दा +

“तदस्य सञ्जातं तारकादिभ्य इतच् ।” ५ । २ ।
६ । इति इतच् ।) निन्दायुक्तः । तत्पर्य्यायः ।
धिक्कृतः २ अपध्वस्तः ३ निर्भर्त्सितः ४ ।
इति जटाधरः ॥ (यथा, देवीभागवते । ४ ।
७ । ४९ ।
“मधु पश्यति मूढात्मा प्रपातं नैव पश्यति ।
करोति निन्दितं कर्म्म नरकान्न बिभेति च ॥”)

निन्दुः, स्त्री, निन्द्यतेऽप्रजस्त्वेनासौ । निदि कुत्साया-

मित्यादौ औणादिक उप्रत्ययः । मृतवत्सा ।
इति हेमचन्द्रः । ३ । १९५ ॥

निपः, पुं क्ली, (नियतं पिबत्यनेनेति । नि + पा +

घञर्थे कः ।) कलसः । इत्यमरः । २ । ९ । ३२ ॥
कदम्बवृक्षे, पुं । इति शब्दचन्द्रिका ॥

निपठः, पुं, (निपठनमिति । नि + पठ + “नौ

गदनदपठस्वनः ।” ३ । ३ । ६४ । इति अप् ।)
पाठः । इत्यमरः । ३ । २ । २९ ॥

निपत्या, स्त्री, (निपतत्यस्यामिति । नि + पत +

“संज्ञायां समजनिषदनिपतेति ।” ३ । ३ । ९९ ।
इति क्यप् । ततष्टाप् ।) युद्धभूमिः । इति मुग्ध-
बोधटीकायां दुर्गादासः ॥ (पिच्छिला भूमिः ।
इति सिद्धान्तकौमुदी ॥)

निपाकः, पुं, (नियमेन पचनमिति । नि + पच +

घञ् ।) पाकः । इति शब्दरत्नावली ॥

निपाठः, पुं, (नि + पठ + पक्षे घञ् ।) पठनम् ।

इत्यमरः । ३ । २ । २९ ॥

निपातः, पुं, (नितरां पतनमिति । नि + पत +

घञ् ।) मृत्युः । इति त्रिकाण्डशेषः ॥ (यथा,
महाभारते । ५ । १२२ । ९ ।
“सङ्गरेषु निपातेषु तथापद्व्यसनेषु च ॥”)
पतनम् । यथा, आनन्दलहर्य्याम् । ५७ ।
“वने वा हर्म्म्ये बा समकरनिपातो हिमकरः ॥”

निपातनं, क्ली, (निपात्यतेऽनेनेति । नि + पत +

णिच् + करणे ल्युट् ।) खलीकारः । इति भरतः ॥
अधोनयनम् । इति सर्व्वस्वम् । तत्पर्य्यायः ।
अवनायः २ । इत्यमरः । ३ । २ । २९ ॥ निया-
तनम् ३ । इति नयनानन्दः ॥ व्याकरणलक्ष-
णानुत्पन्नपदसाधनम् । यथा, निपातनादिष्ट-
सिद्धिः । यल्लक्षणेनानुत्पन्नं तत् सर्व्वं निपा-
तनात् सिद्धमिति भाष्यम् ॥ निपातलक्षणं यथा,
“वर्णागमो वर्णविपर्य्ययश्च
द्वौ चापरौ वर्णविकारनाशौ ।
धातोस्तदर्थातिशयेन योग-
स्तदुच्यते पञ्चविधं निरुक्तम् ॥
इति प्राञ्चः ।” इति दुर्गादासः ॥ तद्यथा, --
“वर्णागमो गवेन्द्रादौ सिंहे वर्णविपर्य्ययः ।
पृष्ठ २/८८४
षोडशादौ विकारः स्यात् वर्णनाशः पृषोदरे ॥”
इति कलापपञ्जी ॥

निपानं, क्ली, (निपीयते अस्मिन्निति । नि + पा +

आधारे ल्युट् ।) कूपसमीपशिलादिनिबद्धपशु-
पानार्थकृतकूपोद्धृताम्बुस्थानम् । इति भरतः ॥
तत्पर्य्यायः । आहावः । इत्यमरः । १ । १० । २६ ॥
निपानकम् ३ । इति शब्दरत्नावली ॥ गोदोहन-
पात्रम् । इति त्रिकाण्डशेषः ॥ (जलाशय-
मात्रम् । यथा, विष्णुसंहितायाम् । ६४ । १ ।
“परनिपानेषु न स्नानमाचरेत् ॥”)

निपुणः, त्रि, (नि + पुणं राशीकरणे + क ।) कार्य्य-

क्षमः । (यथा, नागानन्दे सूत्रधारोक्तिः ।
“श्रीहर्षो निपुणः कविः परिषदप्येषा गुण-
ग्राहिणी ॥”
अन्यच्च, देवीभागवते । १ । ५ । ५९ ।
“न ते रूपं वेत्तुं सकलभुवने कोऽपि निपुणो
न नाम्नां संख्यां ते कथितुमिह योग्योऽस्ति
पुरुषः ॥”)
तत्पर्य्यायः । प्रवीणः २ अभिज्ञः ३ विज्ञः ४
निष्णातः ५ शिक्षितः ६ वैज्ञानिकः ७ कृत-
मुखः ८ कृती ९ कुशलः १० । इत्यमरः । ३ । १ । ४ ॥
संख्यावान् ११ मतिमान् १२ कुशाग्रीयमतिः
१३ कृष्टिः १४ विदुरः १५ बुधः १६ दक्षः १७
नेदिष्ठः १८ कृतधीः १९ सुधीः २० विद्वान् २१
कृतकर्म्मा २२ विचक्षणः २३ विदग्धः २४
चतुरः २५ प्रौढः २६ बोद्धा २७ विशारदः २८
सुमेधाः २९ सुमतिः ३० तीक्ष्णः ३१ प्रेक्षावान्
३२ विबुधः ३३ विदन् ३४ । इति राजनिर्घण्टः ॥
विज्ञानिकः ३५ कुशली ३६ । इति शब्द-
रत्नावली ॥

निफला, स्त्री, (निवृत्तं फलं यस्याः ।) ज्योति-

ष्मती । इति भावप्रकाशः ॥ (ज्योतिष्मतीशब्दे-
ऽस्या गुणादयो व्याख्याताः ॥)

निफेनं, क्ली, (निवृत्तः फेनो यस्मादिति ।) अफेनम् ।

इति राजनिर्घण्टः ॥

निबन्धं, क्ली, (नितरां बन्धः तानलयादिसहित-

बन्धनं यत्र ।) गीतम् । इति शब्दरत्ना-
वली ॥

निबन्धः, पुं, (निवध्नातीति । नि + बन्ध घञ् ।)

आनाहरोगः । ग्रन्थस्य वृत्तिः । इति हेम-
चन्द्रः ॥ निम्बवृक्षः । इति जटाधरः ॥ बन्धनम् ।
यथा, --
“दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता ॥”
इति श्रीभगवद्गीता ॥
(यथा, भागवते । ६ । २ । ४६ ।
“नातःपरं कर्म्मनिबन्धकृन्तनं
मुमुक्षतां तीर्थपदानुकीर्त्तनात् ॥”)

निबन्धनं, क्ली, (निवध्यतेऽनेनास्मिन् वा । नि + बन्ध

ल्युट् ।) हेतुः । इति हेमचन्द्रः ॥ उपनाहः ।
स तु वीणातन्त्रीनिबन्धनोर्द्ध्वभागः । इत्यमरः ।
१ । ७ । ७ ॥ (नि + बन्ध + भावे ल्युट् ।)
बन्धनञ्च ॥

निबन्धा, [ऋ] पुं, निबन्धकर्त्ता । ग्रन्थकर्त्ता । इति

व्याकरणम् ॥

निबन्धितः, त्रि, बद्धः । निबन्धोऽस्य जातः इत्यथ

इतत्त्प्रत्ययनिष्पन्नः ॥

निबर्हणं, क्ली, (निबर्हते इति । नि + बर्ह +

ल्युट् ।) मारणम् । इत्यमरः । २ । ८ । ११२ ॥
(यथा, माकण्डयपुराणे । ९२ । २२ ।
“युद्धेषु चरितं यन्मे दुष्टदैत्यनिबर्हणम् ॥”)

निभः, त्रि, (नियतं भातीति । नि + भा + क ।)

सदृशः । इत्यमरः । २ । १० । ३८ ॥ (यथा,
रघुवंशे । १० । ९ ।
“प्रबुद्धपुण्डरीकाक्षं बालातपनिभांशुकम् ।
दिवसं शारदमिव प्रारम्भसुखदर्शनम् ॥”)
प्रकाशः । व्याजे, पुं । इति शब्दरत्नावली ॥

निभालनं, क्ली, (नि + भल + णिच् + भावे ल्युट् ।)

दर्शनम् । इति त्रिकाण्डशेषः ॥

निभूतं, त्रि, (नि + भू + क्त ।) अतीतम् । भूत-

कालः । इति राजनिर्घण्टः ॥

निभृतः, त्रि, (नि + भृ + क्त ।) विनीतः । निर्जनः ।

यथा, --
“निभृतनिकुञ्जगृहं गतया निशि रहसि निलीय
वसन्तम् ।”
इति श्रीजयदेवः । २ । ११ ॥
(अस्तमयासन्नः । यथा, रघुवंशे । ८ । १५ ।
“नभसा निभृतेन्दुना तुला-
मुदितार्केण समारुरोह तत् ॥”)

निमज्जथुः, पुं, (नि + मस्ज + अथुच् ।) शयनम् ।

यथा, भट्टिः ।
“तल्पे कान्तान्तरैः सार्द्धं मन्येऽहं धिङ्निमज्जथुम् ॥”

निमज्जनं, क्ली, (निमज्ज्यतेऽनेनेति । नि + मस्ज

+ भावे ल्युट् ।) स्नानम् । अवगाहनम् । यथा,
“नास्ति जन्यजनकव्यतिभेदः
सत्यमन्नजनितो जनदेहः ।
वीक्ष्य वः खलु तनुममृतादां
दृङ्निमज्वनमवैमि सुधायाम् ॥”
इति नैषधे पञ्चमसर्गः ॥

निमन्त्रणं, क्ली, (निमन्त्र्यते इति । नि + मन्त्र +

ल्युट् ।) नियोजनविशेषः । “अत्र यस्याकरणे
प्रत्यवायस्तन्निमन्त्रणम् । यथा, इह भुञ्जीत
भवान् । यस्याकरणे प्रत्यवायो न स्यात् तदा-
मन्त्रणम् । यथा, इह शयीत भवान् । इति
निमन्त्रणामन्त्रणयोर्भेदः ।” इति मुग्धबोध-
टीकायां दुर्गादासः ॥

निमयः, पुं, (निमीयतेऽनेनेति । नि + मि +

“एरच् ।” ३ । ३ । ५६ । इत्यच् ।) विनिमयः ।
इत्यमरः । २ । १ । ९० ॥ (यथा, महाभारते ।
१२ । ७८ । ७ ।
“पक्वेनामस्य निमवं न प्रशंसन्ति साधवः ।
निमयेत् भक्वमामेन भोजनार्थाय भारत ! ॥”)

निमिः, पुं, इक्ष्वाकुराजपुत्त्रः । तस्य निमेषे स्थिति-

कारणं यथा, --
“निमिर्नाम नृपः स्त्रीभिः पुरा द्यूतमदीव्यत ।
तत्रान्तरेऽभ्याजगाम वशिष्ठो ब्रह्मसम्भवः ॥
तस्य पूजामकुर्व्वन्तं शशाप स मुनिर्नृपम् ।
विरेतास्त्वं भवस्वेति शप्तस्तेनाप्यसौ पुनः ॥
अन्योन्यशापाच्च तयोर्विशरीरे विचेतसी ।
जग्मतुः शापनाशाय ब्रह्माणं जगतः पतिम् ॥
अथ ब्रह्मण आदेशाल्लोचनेषु वसन्निमिः ।
निमेषाः स्युश्च लोकानां तद्विश्रामाय नारद ॥”
इति मत्स्यपुराणे ५५ अध्यायः ॥ * ॥
मतान्तरं यथा, --
“निमिः सहस्रसंवत्सरं सत्रमारेभे । वशिष्ठञ्च
होतारं वरयामास । तमाह वशिष्ठः । अह-
मिन्द्रेण पञ्चवर्षशतं यागार्थं प्रथमतरं वृतः ।
आगतस्तवापि ऋत्विग् भविष्यामीत्युक्ते सोऽपि
तत्कालमेवान्यैर्गोतमादिभिर्यागमकरोत् । समाप्ते
चामरपतियागे त्वरावान् वशिष्ठ आजगाम ।
तत्कर्म्मकर्त्तृत्वं गोतमस्य दृष्ट्वा अयं विदेहो
भविष्यतीति शापं ददौ । निमेः शरीरं सद्यो
मृतमिव तस्थौ । यज्ञसमाप्तौ भागग्रहणाया-
गतान् देवान् ऋत्विज ऊचुः । यजमानाय वरो
दीयतामिति । देवैश्च छन्दितो निमिराह ।
नह्येतावति जगत्यन्यद्दुःखमस्ति यच्छरीरात्मनो-
र्वियोगे भवति । तदहमिच्छामि सकललोचनेषु
वस्तुम् । न पुनः शरीरग्रहणं कर्त्तुमित्येवमुक्ते
देवैरसावशेषभूतानां नेत्रेष्वासां कारितः । ततो
भूतान्युन्मेषनिमेषं चक्रुः ।” इति विष्णुपुराणे ४
अंशे ५ अध्यायः ॥

निमित्तं, क्ली, (नि + मिद् + क्त । संज्ञापूर्ब्बकत्वान्न

नत्वम् ।) हेतुः । (यथा, देवीभागवते । १ । १८ । ५ ।
“किं निमित्तं महाभाग ! निःस्पृहस्य च मां
प्रति ।
जातं ह्यागमनं ब्रूहि कार्य्यं तन्मुनिसत्तम ! ॥”)
चिह्नम् । इत्यमरः । ३ । ३ । ७६ ॥ शकुनः । यथा,
“निमित्तानि च पश्यामि विपरीतानि केशव ! ।
इति श्रीभगवद्गीता ॥

निमित्तकं, क्ली, (निमित्त + संज्ञायां कन् ।)

निमित्तनिश्चयादागतम् । चुम्बनम् । इति शब्द-
माला ॥ निमित्तञ्च ॥

निमित्तकारणं, क्ली, (निमित्तं कारणम् ।)

समवायिकारणासमवायिकारणाभ्यां भिन्नम् ।
तृतीयकारणम् । यथा । घटं प्रति कुलाल-
दण्डचक्रसलिलसूत्रादि । इति भाषापरिच्छेद-
सिद्धान्तमुक्तावल्यौ ॥

निमित्तकृत्, पुं, (निमित्तं स्वरुतेन शुभाशुभशकुनं

करोतीति । कृ + क्विप् ।) काकः । इति राज-
निर्घण्टः ॥

निमित्तवित्, [द्] पुं, (निमित्तं शुभाशुभलक्षणं

वेत्तीति । विद् + क्विप् ।) दैवज्ञः । गणकः ।
इति हेमचन्द्रः । ३ । १४६ ॥

निमिषः, पुं, विष्णुः । यथा, महाभारते । १ ।

१४९ । ३६ ।
“निमिषोऽनिमिषः श्रग्वी वाचस्पतिरुदारधीः ॥”
(निमिषतीति । नि + मिष + “इगुपधेति ।”
पृष्ठ २/८८५
३ । १ । १३५ । इति कः ।) कालविशेषः । चक्षु-
र्निमीलनम् । इति मेदिनी । षे, ३९ ॥ (यथा,
महाभारते । १ । १८९ । १९ ।
“सज्यञ्च चक्रे निमिषान्तरेण
शरांश्च जग्राह दशार्द्धसंङ्ख्यान् ॥”
वर्त्मगतरोगविशेषः । यथा, सुश्रुते उत्तरतन्त्रे
३ अध्याये ।
“निमेषणीः सिरा वायुः प्रविष्टो वर्त्मसंश्रयाः ।
चालयेदतिवर्त्मानि निमिषः स गदो मतः ॥”)

निमीलनं, क्ली, (निमीलत्यनेनेति । नि + मील +

करणे ल्युट् ।) मरणम् । (नि + मील + भावे
ल्युट् ।) निमेषः । इति हेमचन्द्रः । ३ । २४२ ॥
(यथा, कलाविलासे । १ । ४७ ।
“नयननिमीलनमूलः सुचिरं स्नानार्द्रचूलजल-
सिक्तः ।
दम्भतरुः शुचिकुसुमः सुखशतशाखाशतैः
फलितः ॥”
कालविशेषः । यथा, सूर्य्यसिद्धान्ते । ४ । १७ ।
“तद्वदेव विमर्दार्द्धनाडिकाहीनसंयुते ।
निमीलनोन्मीलनाख्ये भवेतां सकलग्रहे ॥”)

निमीलिका, स्त्री, (निमीलयतीति । नि + मील +

णिच् + ण्वुल् । टापि अत इत्वम् ।) व्याजः ।
इति शब्दरत्नावली ॥ (यथा, राजतरङ्गि-
ण्याम् । ६ । ७३ ।
“नीतस्य मण्डलेशत्वं वेलावित्तस्य भूभुजा ।
देवीः कामयमानस्य चक्रे गजनिमीलिका ॥”)
निमीलनञ्च ॥

निमेयः, पुं, (निमीयते परिमीयते इति । नि +

मा माने + “अचो यत् ।” ३ । १ । ९७ । इति
यत् । “ईत् यति ।” ६ । ४ । ६५ । इति ईत् ।)
नैमेयः । परीवर्त्तः । इत्यमरटीकायां भरतः ॥
(परिवर्त्तनीये, त्रि । यथा, महाभारते । १३ ।
५१ । ९ ।
“नाहं शतसहस्रेण निमेयः पार्थिवर्षभ ! ।
दीयतां सदृशं मूल्यममात्यैः सह चिन्तय ॥”)

निमेषः, पुं, (नि + मिष + भावे घञ् ।) पक्ष्म-

स्पन्दनकालः । पलक् इति भाषा ॥ तत्पर्य्यायः ।
निमिषः २ दृष्टिनिमीनलम् ३ । इति शब्द-
रत्नावली ॥ पुंसो यावत्कालमकृत्रिमनेत्र-
विकाशानन्तरं पक्ष्माकुञ्चनं जायते स निमेषः ।
इत्यमरटीकायां भरतः ॥ * ॥
“अक्षिपक्ष्मपरिक्षेपो निमेषः परिकीर्त्तितः ।
द्बौ निमेषौ त्रुटिर्नाम द्वे त्रुटी तु लवः स्मृतः ॥’
इत्यग्निपुराणम् ॥
(पक्ष्मस्पन्दनम् । यथा, रघुः । २ । १९ ।
“पपौ निमेषालसपक्ष्मपङ्क्ति-
रुपोषिताभ्यामिव लोचनाभ्याम् ॥”
रोगविशेषः । यथा, सुश्रुते चिकित्सितस्थाने ।
३९ अध्याये ।
“नेत्रस्तम्भं निमेषं वा तृष्णां कासं प्रजागरम् ।
लभते दन्तचालञ्च तांस्तांश्चान्यानुपद्रवान् ॥”
स्वनामख्यातयक्षविशेषः । इति नीलकण्ठः ॥
यथा, महाभारते । १ । ३२ । १९ ।
“उलूकश्वसनाभ्याञ्च निमेषेण च पक्षिराट् ।
प्ररुजेन च संग्रामं चकार पुलिनेन च ॥”)

निमेषकृत्, स्त्री, (निमेषं करोतीति । कृ + क्विप् ।

यद्वा, कृ + भावे क्विप् । निमेषे निमेषमात्रकाले
कृत् स्फुरणकार्य्यं यस्याः ।) विद्युत् । इति शब्द-
माला ॥

निमेषरुक्, [च्] पुं, (निमेषेण निमेषकालं व्याप्ये-

त्यर्थः रोचते दीप्यते इति । रुच् दीप्तौ +
क्विप् ।) खद्योतः । इति त्रिकाण्डशेषः ॥

निम्नं, त्रि, निकृष्टा म्ना अभ्यासः शीलमत्र ।

(यद्वा, निकृष्टं म्नातीति । म्ना + कः ।) नीचम् ।
निचु इति नावाल इति च भाषा ॥ तत्पर्य्यायः ।
गभीरम् २ गम्भीरम् ३ । इत्यमरः । १ । १० । १५ ॥
गभीरकम् ४ । इति शब्दरत्नावली ॥ (यथा,
कुमारे । ५ । ५ ।
“क ईप्सितार्थस्थिरनिश्चयं मनः
पयश्च निम्नाभिमुखं प्रतीपयेत् ॥”
पुं, अनमित्रपुत्त्रः । स तु सत्राजितप्रसेनयोः
पिता । यथा, भागवते । ९ । २४ । १२ ।
“शिनिस्तस्यानमित्रश्च निम्नोऽभूदनमित्रतः ।
सत्राजितः प्रसेनश्च निम्नस्याथासतुः सुतौ ॥”)

निम्नगा, स्त्री, (निम्नं गच्छतीति । गम + ड । टाप् ।)

नदी । इत्यमरः । १ । १० । ३० ॥ (यथा, मनुः ।
९ । २२ ।
“यादृग्गुणेन भर्त्रा स्त्री संयुज्येत यथाविधि ।
तादृग्गुणा सा भवति समुद्रेणेव निम्नगा ॥”)
नीचगामिनि, त्रि ॥

निम्बः, पुं, (निम्बति स्वास्थ्यं ददातीति । निम्ब +

अच् ।) वृक्षविशेषः । निम् इति भाषा । तत्-
पर्य्यायः । अरिष्टः २ सर्व्वतोभद्रः ३ हिङ्गु-
निर्य्यासः ४ मालकः ५ पिचुमर्द्दः ६ । इत्य-
मरः । २ । ४ । ६२ ॥ अर्कपादपः ७ । इति हेमचन्द्रः ॥
कैटर्य्यः ८ वरत्वचः ९ छर्द्दिघ्नः १० । इति रत्न-
माला ॥ प्रभद्रः ११ पारिभद्रकः १२ काक-
फलः १३ कीरेष्टः १४ नेता १५ सुमनाः १६
विशीर्णपर्णः १७ यवनेष्टः १८ पीतसारकः १९
शीतः २० । इति राजनिर्घण्टः ॥ पिचुमन्दः २१
तिक्तकः २२ । इति भावप्रकाशः ॥ कोकटः २३
शूकमालकः २४ । इति जटाधरः ॥ अस्य
गुणाः । शीतत्वम् । तिक्तत्वम् । कफव्रणक्रिमि-
वमिशोफशान्तिकारित्वम् । बलासबहुविधपित्त-
दोषहृदयविदाहनाशित्वञ्च । इति राज-
निर्घण्टः ॥ लघुत्वम् । भ्राहित्वम् । कटुपाकि-
त्वम् । अग्निवातकारित्वम् । अहृद्यत्वम् । भ्रम-
तृट्कासज्वरारुचिच्छर्द्दिकुष्ठहृल्लासमेहनाशि-
त्वञ्च । तत्पत्रगुणाः । नेत्रहितकारित्वम् ।
कृमिपित्तविषसर्व्वारोचककुष्ठनाशित्वम् । वात-
लत्वम् । कटुपाकित्वञ्च । तत्फलगुणाः । रसे
तिक्तत्वम् । पाके कटुत्वम् । भेदनत्वम् । स्निग्ध-
त्वम् । लघुत्वम् । उष्णत्वम् । कुष्ठगुल्मार्शःकृमि-
मेहनाशित्वञ्च ।
“निम्बः शीतो लघुर्ग्राही कटुपाकोऽग्निवातनुत् ।
अहृद्यः श्रमतृट्कासज्वरारुचिकृमिप्रणुत् ॥
व्रणपित्तकफच्छर्द्दिकुष्ठहृल्लासमेहनुत् ।
निम्बपत्रं स्मृतं नेत्र्यं कृमिपित्तविषप्रणुत् ॥
वातलं कटुपाकञ्च सर्व्वारोचककुष्ठनुत् ।
नैम्बं फलं रसे तिक्तं पाके तु कटु भेदनम् ॥
स्निग्धं लघूष्णं कुष्टघ्नं गुल्मार्शःकृमिमेहनुत् ॥”
इति भावप्रकाशः ॥ * ॥
तत्तैलगुणाः । नात्युष्णत्वम् । कृमिकुष्ठकफ-
त्वग्दोषव्रणकण्डूतिशोफहारित्वम् । पित्तलत्वञ्च ।
इति राजनिर्घण्टः ॥ * ॥
“निम्बं पित्तकफच्छर्द्दिव्रणहृल्लासकुष्ठनुत् ।”
निम्बपत्रं इति वा पाठः ॥ * ॥
“करञ्जनिम्बजफलं कृमिकुष्ठप्रमेहजित् ।
निम्बतैलन्तु कुष्ठघ्नं तिक्तं कृमिहरं परम् ॥”
इति राजवल्लभः ॥
अथ महानिम्बः । वकाईन इति हिन्दीभाषा ॥
तत्पर्य्यायगुणाः । यथा, भावप्रकाशे ।
“महानिम्बः स्मृतो द्रेका रम्यको विषमुष्टिकः ।
केशमुष्टिर्निम्बरकः कामुकः क्षीर इत्यपि ॥
महानिम्बो हिमो रूक्षस्तिक्तो ग्राही कषायकः ।
कफपित्तकृमिच्छर्द्दिकुष्ठहृल्लासरक्तजित् ॥
प्रमेहश्वासगुल्मार्शोमूषिकाविषनाशनः ॥”
(षष्ठ्यां तिथौ तद्भक्षणे तिर्य्यक्योनित्वं स्यात् ।
इति तिथितत्त्वम् ॥)

निम्बकः, पुं, (निम्ब एव । स्वार्थे कन् ।) निम्ब-

वृक्षः । इति भूरिप्रयोगः ॥ (षष्ठ्यां तद्भक्षण-
निषेधो यथा, तिथितत्त्वे ।
“कलङ्की जायते विल्वे तिर्य्यग्योनिश्च निम्बके ॥”)

निम्बतरुः, पुं, (निम्ब इव तरुर्वृक्षः ।) मन्दार-

वृक्षः । इत्यमरः । २ । ४ । २६ ॥

निम्बबीजः, पुं, (निम्बस्य बीजमिव बीजं यस्य ।)

राजादनीवृक्षः । इति राजनिर्घण्टः ॥

नि(म्बु)म्बूकं, क्ली, (निम्बति सिञ्चतीव रसेनेति ।

निम्ब सेचने + बाहुलकात् ऊः पाक्षिको ह्रस्वश्च ।
ततः कन् ।) वृक्षविशेषः । काग्जी लेवु इति
भाषा ॥ तत्पर्य्यायः । अम्लजम्बीरः २ वह्निः ३
दीप्तः ४ वह्निबीजः ५ अम्लसारः ६ दन्ताघातः ७
शोधनः ८ जन्तुमारी ९ निम्बूः १० रोचनः ११ ।
(यथा, भावप्रकाशे पूर्ब्बखण्डे १ भागे ।
“निम्बः स्त्री निम्बकं क्लीवे निम्बूकमपि कीर्त्ति
तम् ॥”)
तत्फलगुणाः । अम्लरसत्वम् । कटुत्वम् । उष्ण-
त्वम् । गुल्मामवातकासकफार्त्तिकण्ठविच्छर्द्दि-
हरत्वम् । आग्नवृद्धिकारित्वम् । चक्षुष्यत्वम् ।
परिपक्वे अतीव रुच्यत्वञ्च । इति राजनिर्घण्टः ॥
पाचनत्वम् । लघुत्वम् । कृमिसमूहोदरग्रह-
नाशित्वम् । तीक्ष्णत्वम् । वातपित्तकफशूलिनो
हितत्वम् । कष्टनष्टरुचिरोचनत्वम् । त्रिदोष-
वह्निक्षयवातरोगनिपीडितानां विषविह्वलानां
मलग्रहे बद्धगुदे विसूचिकायाञ्च प्रदेयम् । इति
भावप्रकाशः ॥ * ॥
पृष्ठ २/८८६
“भागैकं निम्बुजं तोयं षड्भागं शर्करोदकम् ।
लंवङ्गमरिचोन्मिश्रं पानकं पानकोत्तमम् ॥
निम्बूफलभवं पानमत्यम्लं वातनाशनम् ।
वह्निदीप्तिकरं रुच्यं समस्ताहारपाचकम् ॥”
इति राजनिर्घण्टः ॥

नियतः, त्रि, (नि + यम + क्तः ।) संयतः । यथा,

“कार्त्तिके शुक्लपक्षस्य द्वितीयायां नराधिप ! ।
पुष्पाहारो वर्षमेकं तत्रैव नियतात्मवान् ॥”
इति भविष्यपुराणे द्बितीयकल्पः ॥
(सेवापरः । यथा, रामायणे । १ । २ । ७ ।
“प्रायच्छत मुनेस्तस्य वल्कलं नियतो गुरोः ॥”)
नित्यः । यथा, --
“अन्यथासिद्धिशून्यस्य नियता पूर्ब्बवर्त्तिता ।
कारणत्वं भवेत्तस्य त्रैविध्यं परिकीर्त्तितम् ॥”
इति भाषापरिच्छेदे । १६ ॥
(यथा च कश्चित् ।
“चन्द्रे लक्ष्मीः प्रभा सूर्य्ये गतिर्वायौ भुवि क्षमा ।
एतत्तु नियतं सर्व्वं त्वयि चानुत्तमं यशः ॥”
निपूर्ब्बयमधातोर्बद्धार्थकत्वात् बद्धोऽपि । यथा,
नियताञ्जलिः ॥ संयुक्तः । वासक्तः । यथा,
महाभारते । १ । १३४ । ५९ ।
“प्रतिज्ञामात्मनो रक्षन् सत्ये च नियतः सदा ॥”)

नियतिः, स्त्री, (नियम्यते आत्मा अनयेति । नि +

यम + करणे क्तिन् ।) भाग्यम् । दैवम् । इत्य-
मरः । १ । ४ । २८ ॥ (यथा, माघे । ४ । ३४ ।
“आसादितस्य तमसा नियतेर्नियोगा-
दाकाङ्क्षतः पुनरपक्रमणेन कालम् ॥”)
नियमः । इति मेदिनी । ते, १२० ॥ (चतु-
र्द्दशधारिणीदेवयोषिद्गणानामन्यतमा । इति
वह्निपुराणे गणभेदनामाध्यायः ॥)

नियती, स्त्री, (नियम्यते कालो यया । नि + यम +

क्तिच् । वा ङीष् ।) दुर्गा । यथा, --
“स्मृतिः संस्मरणाद्देवी नियती च नियामता ॥”
इति देवीपुराणे निरुक्ताध्यायः ॥

नियतेन्द्रियः, त्रि, (नियतानि संयतानि इन्द्रियाणि

येन ।) संयतेन्द्रियः । इन्द्रियदमनशीलः । यथा,
मार्कण्डेये । ८४ । ८ ।
“अभ्यस्यसे सुनियतेन्द्रियतत्त्वसारैः ॥”

नियन्ता, [ऋ] पुं, (नियच्छति अश्वादीनिति ।

नि + यम + तृच् ।) सारथिः । इत्यमरः । २ ।
८ । ५९ ॥ (यथा, महाभारते । ७ । १३ । २२ ।
“स नियन्तृध्वजरथं विव्याध निशितैः शरैः ॥”
विष्णुः । यथा, महाभारते । १३ । १४९ । १०५ ।
“अपराजितः सर्व्वसहो नियन्ता नियमो
यमः ॥”)
त्रि, शास्ता । यथा, रघुः । १ । १७ ।
“रेखामात्रमपि क्षुग्पादामनोर्वत्म नः परम् ।
न व्यतीयः प्रजास्तस्य नियन्तुर्नेमिवृत्तयः ॥”

नियन्त्रितः, त्रि, (नि + यन्त्रि + क्तः ।) अबाधः ।

अनर्गलः । इति हेमचन्द्रः ॥ (यथा, देवी-
भागवते । २ । ६ । ५२ ।
“आगच्छेत् सर्व्वथा सो वै मम पार्श्वे नियन्त्रितः ॥”)

नियमः, पुं, (नियमनमिति । नि + यम + “यमः

समुपनिविषु च ।” ३ । ३ । ६३ । इति अप् ।)
शौचं सन्तोषः तपः स्वाध्यायः ईश्वरप्रणिधानञ्च ।
इति वेदान्तसारः ॥ प्रतिज्ञा । अङ्गीकार इति
यावत् । व्रतम् । तच्चोपवासादि । अनित्यमागन्तु-
साधनं कर्म्म । इत्यमरः । २ । ७ । ३८ ॥ (सङ्कल्पः ।
यथा, देवीभागवते । ३ । २६ । २५ ।
“नियमं प्रथमं कृत्वा पश्चात् पूजां समाचरेत् ॥”
बन्धनम् । यथा, मनुः । ८ । १२२ ।
“धर्म्मस्याव्यभिचारार्थमधर्म्मनियमाय च ॥”)
मन्त्रणा । निश्चयः । इति मेदिनी । मे, ४६ ॥ * ॥
“नियमाः पञ्च सत्याद्या बाह्यमाभ्यन्तरं द्बिधा ।
शौचं तुष्टिश्च सन्तोषस्तपश्चेन्द्रियनिग्रहः ॥
स्नानमौनोपवासेज्यास्वाध्यायोपस्थनिग्रहः ।
तपः क्रोधो गुरौ भक्तिः शौचञ्च नियमाः स्मृताः ॥
यमाः पञ्चाथ नियमाः शौचं द्विविधमीरितम् ।
सन्तोषस्तपसां जप्यं वासुदेवार्च्चनं दमः ॥”
इति गरुडपुराणम् ॥
“ब्रह्मचर्य्यमहिंसाञ्च सत्यास्तेयापरिग्रहान् ।
सेवेत योगी निष्कामो योग्यतां स्वं मनो नयन् ॥
स्वाध्यायशौचसन्तोषतपांसि नियतात्मवान् ।
कुर्व्वीत ब्रह्मणि तथा परस्मिन् प्रवणं मनः ।
एते यमाः सनियमाः पञ्च पञ्च प्रकीर्त्तिताः ॥”
इति विष्णुपुराणे ६ अंशे ७ अध्यायः ॥ * ॥
“तपः सन्तोष आस्तिक्यं दानं देवस्य पूजनम् ।
सिद्धान्तश्रवणञ्चैव ह्नीर्म्मतिश्च जपो हुतम् ।
दशैते नियमाः प्रोक्ता योगशास्त्रविशारदैः ॥”
इति तन्त्रसारे (हठयोगप्रदीपिकायाञ्च । १ ।
१७ ॥ कवितानियमाः । यथा, --
“वर्णयेन्न सदप्येतन्नियमोऽथ प्रदर्श्यते ।
भूर्ज्जत्वग्घिमवत्येव मलये ह्येव चन्दनम् ॥
सामान्यवर्णने शौल्क्यं छत्राम्भःपुष्पवाससाम् ।
कृष्णत्वं केशकाकाहिपयोनिधिपयोमुचाम् ॥
रक्तत्वं रत्नबन्धूकविद्याम्भोजविषस्वताम् ।
तथा वसन्त एवान्यपुष्टानां कलकूजितम् ॥
वर्षास्वेव मयूराणां रुतं नृत्यञ्च वर्णयेत् ।
नियमस्य विशेषोऽथ पुनः कश्चित् प्रकाश्यते ॥
कमलासम्पदोः कृष्णहरितोर्नागसर्पयोः ।
पीतलोहितयोः स्वर्णपरागाग्निशिखाद्रिषु ॥
चन्द्रेशशैलयोः कामध्वजे मकरमत्स्ययोः ।
दानवासुरदत्यानामैक्यमेवाभिसम्मतम् ॥
बहुकालजन्मनोऽपि शिवचन्द्रस्य बालता ।
भानवा मौलितो वर्ण्या देवाश्चरणतः पुनः ॥”
इति कविकल्पलतायाम् १ स्तवके वर्ण्यस्थिति-
र्नाम तृतीयं कुसुमम् ॥ (विष्णुः । यथा, महा-
भारते । १३ । १४९ । ३० ।
“अतीन्द्रः संग्रहः सर्गो धृतात्मा नियमो यमः ॥”
महादेवः । यथा, तत्रैव तस्य सहस्रनाम-
कीर्त्तने । १३ । १७ । ३५ ।
“पवित्रश्च महांश्चैव नियमो नियमाश्रितः ॥”)

नियमनं, क्ली, (नि + यम + भावे ल्युट् ।) नियमः ।

यथा । “न तत्राभिधानियमनात्तस्याः ।” इति
काव्यप्रकाशे द्बितीयोल्लासः ॥ बन्धनम् । यथा ।
बलेर्न्नियमनमित्युद्भटः ॥ (निग्रहः । यथा,
रघुः । ९ । ६ ।
“समतया वसुवृष्टिविसर्ज्जनै-
र्नियमनादसताञ्च नराधिपः ॥”
नियच्छतीति । नि + यम + ल्युः । नियामके,
त्रि । यथा, हरिवंशे । १८१ । ५३ ।
“दक्षयज्ञविनाशाय बलेर्नियमनाय च ॥”)

नियमसेवा, स्त्री, (नियमेन भगवतः सेवा ।)

कार्त्तिकमासे नियमपूर्ब्बकभगवदाराधना । यथा,
“अकृत्वा नियमं विष्णोः कार्त्तिकं यः क्षिपेन्नरः ।
जन्मार्ज्जितस्य पुण्यस्य फलं नाप्नोति नारद ! ॥”
किञ्च ।
“नियमेन विना चैव यो नयेत् कार्त्तिकं मुने ! ।
चातुर्म्मास्यं तथा चैव ब्रह्महा स कुलाधमः ॥”
तत्रोपक्रमकालश्चोक्तः श्रीकृष्णसत्यासंवादीय-
कार्त्तिकमाहात्म्ये ।
“आश्विनस्य तु मासस्य या शुक्लैकादशी भवेत् ।
कार्त्तिकस्य व्रतानीह तस्यां कुर्य्यादतन्द्रितः ॥”
इति श्रीहरिभक्तिविलासे १६ विलासः ॥ अन्यत्
कार्त्तिकशब्दे द्रष्टव्यम् ॥

नियमितः, त्रि, (नि + यम + णिच् + क्तः ।) कृत-

नियमः । बद्धः । यथा, --
“क्षुद्राः सन्त्रासमेते विजहतु हरयः क्षुण्णशक्रेभ-
कुम्भा
युष्मद्देहेषु लज्जां दधति परममी शायका निष्प-
तन्तः ।
सौमित्रे ! तिष्ठ पात्रं त्वमपि न हि रुषां नन्वहं
मेघनादः
किञ्चिद्भ्रूभङ्गलीलानियमितजलधिं राममन्वे-
षयामि ॥”
इति महानाटकम् ॥

नियातनं, क्ली, (नि + यत + णिच् + ल्युट् ।)

निपातनम् । इत्यमरटीकायां नयनानन्दः ॥

नियामः, पुं, (नि + यम + पक्षे घञ् ।) नियमः ।

इति शब्दरत्नावली ॥

नियामकः, पुं, (नियामयतीति । नि + यम + णिच्

+ ण्वुल् ।) पोतवाहः । इत्यमरः । १ । १० । १२ ॥
त्रि, । नियन्ता । इति मेदिनी । के, १९४ ॥
(यथा, महाभारते । ३ । २७१ । ३४ ।
“ततोऽग्निं नाशयामासुः सम्बर्त्ताग्निनिया-
मकाः ॥”)

नियुक्तः, त्रि, (नि + युज + क्तः ।) नियोगविशिष्टः ।

(यथा, मनुः । ९ । ६० ।
“विधवायां नियुक्तस्तु घृताक्तो वाग्यतो निशि ।
एकमुत्पादयेत् पुत्त्रं न द्बितीयं कथञ्चन ॥”)
अवधारितः । आज्ञप्तः । यथा, --
“जानामि धर्म्मं न च मे प्रवृत्ति-
र्ज्जानाम्यधर्म्मं न च मे निवृत्तिः ।
त्वया हृषीकेश ! हृदिस्थितेन
यथा नियुक्तोऽस्मि तथा करोमि ॥”
इत्याह्निकतत्त्वम् ॥
पृष्ठ २/८८७

नियुतं, क्ली, (नियूयते बहुसंख्या प्राप्यतेऽनेनेति ।

नि + यु + क्त ।) लक्षम् । इत्यमरः । ३ । ५ । २४ ॥
यथा । “धेनूनां नियुते प्रादादिति नियुते लक्षे ।”
इति श्रीधरस्वामी ॥
“शतं महस्रमयुतं नियुतं प्रयुतं मतम् ।
स्त्री कोटिरर्व्वुदमिति क्रमाद्दशगुणोत्तरम् ॥
इति रत्नकोषः ।” इति भरतः ॥ दशलक्षम् ।
यथा, --
“एकं दश शतञ्चैव सहस्रमयुतन्तथा ।
लक्षञ्च नियुतञ्चैव कोटिरर्व्वुद एव च ॥
वृन्दः खर्ब्बो निखर्ब्बश्च शङ्खपद्मौ च सागरः ।
अन्त्यं मध्यं परार्द्धञ्च दशवृद्ध्या यथोत्तरम् ॥”
इति पुराणम् ॥

नियुद्धं, क्ली, (नि + युध् + क्त ।) बाहुयुद्धम् ।

इत्यमरः । २ । ८ । १०६ ॥ (यथा, हरिवंशे ।
१४२ । ७१ ।
“नियुद्धकुशलान् मल्लान् देवो मल्लप्रियस्तदा ।
योधयित्वा ददौ भूरि वित्तं वस्त्राणि चात्म-
वान् ॥”)

नियोगः, पुं, (नि + युज् + घञ् ।) अवधारणम् ।

इति दुर्गादासः ॥ (निश्चयः । यथा, रघुः ।
१७ । ४९ ।
“तत् सिषेवे नियोगेन स विकल्पपराङ्मुखः ॥”)
आज्ञा । इति हेमचन्द्रः । २ । १९० ॥ (यथा,
रामायणे । २ । २१ । ४९ ।
“त्वया मया च वैदेह्या लक्ष्मणेन सुमित्रया ।
पितुर्नियोगे स्थातव्यमेष घर्म्मः सनातनः ॥”
अपुत्त्रभ्रातृपत्नीपुत्त्रार्थं नियोजनम् । यथा,
मनुः । ९ । ६२ ।
“विधवायां नियोगार्थे निर्व्वृत्ते तु यथाविधि ।
गुरुवच्च स्नुषावच्च वर्त्तेयातां परस्परम् ॥”)

नियोगी, [न्] त्रि, (नियोगोऽस्यास्तीति ।

नियोग + इनिः ।) नियोगविशिष्टः । नियुक्तः ।
तत्पर्य्यायः । कर्म्मसचिवः २ आयुक्तः ३
व्यापृतः ४ । इति हेमचन्द्रः । ३ । ३८३ ॥ (यथा,
राजतरङ्गिण्याम् । ६ । ८ ।
“कृष्यध्यक्षत्वमुत्सृज्य कृत्यं नान्यन्नियोगि-
नाम् ॥”)

नियोग्यः, त्रि, (नियोक्तुमर्हः । नि + युज + ण्यत् ।)

नियोगार्हः । प्रभुः । इति मुग्धबोधव्याकर-
णम् ॥ (यथा, प्रद्युम्नविजये । ५ अङ्के ।
“एते वयं नियोज्या नियोजयतु नियोग्यः ॥”)

नियोजनं, क्ली, (नि + युज + ल्युट् ।) नियोगः ।

(यथा, महाभारते । १२ । ३६४ । २ ।
“स्मरणीयोऽस्मि भवता संप्रेषणनियोजनैः ॥”)
प्रेरणम् । यथा । त्वयैतत् क्रियतामिति क्रियासु
नियोजनं प्रेरणम् । इति दुर्गादासः ॥

नियोज्यः, त्रि, (नियोक्तुं शक्यः । नि + युज +

“प्रयोज्यनियोज्यौ शक्यार्थे ।” ७ । ३ । ६८ ।
इति ण्यत्प्रत्ययेन निपातनात् साधुः ।) प्रेष्यः ।
किङ्करः । इत्यमरः । २ । १० । १७ ॥ (यथा,
भागवते । ४ । १२ । २८ ।
“निशम्य वैकुण्ठनियोज्यमुख्ययो-
र्म्मधुच्युतं वाचमुरुक्रमप्रियः ॥”
नियोजनीये, त्रि । यथा, महाभारते । १२ ।
३२७ । ४६ ।
“न नियोज्याश्च वः शिष्या अनियोगे महा-
भये ॥”)

नियोद्धा, [ऋ] पुं, (नियुध्यते इति । नि + युध

+ तृच् ।) कुक्कुटः । इति राजनिर्घण्टः ॥ बाहु-
युद्धकारी च ॥

निरक्षदेशः, पुं, (निरक्षो देशः ।) व्यक्षदेशः ।

पलभाशून्यस्थानम् । स तु पूर्ब्बे भद्राश्ववर्षे यम-
कोटिः । दक्षिणे भारतवर्षे लङ्का । पश्चिमे केतु-
मालवर्षे रोमकः । उत्तरे कुरुवर्षे सिद्धपुरी ।
एताः भूवृत्तपादविवराः अन्योऽन्यं प्रतिष्ठिताः ।
तासामुपरितो विषुवस्थो दिवाकरो याति ।
तासु विषुवच्छाया ध्रुवस्योन्नतिश्च न दृश्यते ।
तत्र दिवामानं रात्रिमानञ्च त्रिंशन्नाडिकाः ।
इति सूर्य्यसिद्धान्तमतम् ॥ (यथा, सिद्धान्त-
शिरोमणौ गोलाध्याये । १५ ।
“निरक्षदेशात् क्षितिषोडशांशे
भवेदवन्ती गणितेन यस्मात् ॥”)

निरङ्कुशः, त्रि, (निर्नास्ति अङ्कुश इव प्रतिबन्धको

यस्य ।) अनिवार्य्यः । बाधाशून्यः । इति जटा-
धरः ॥ (यथा, भागवते । १ । १७ । १५ ।
“अनागःस्विह भूतेषु य आगस्कृन्निरङ्कुशः ।
आहर्त्तास्मि भुजं साक्षादमर्त्तस्यापि साङ्ग-
दम् ॥”)

निरञ्जना, स्त्री, (निर्नास्ति अञ्जनमिव अन्धकारो

यत्र ।) पूर्णिमा । इति शब्दमाला ॥ (निर्नास्ति
अञ्जनं यत्र ।) अञ्जनशून्ये, त्रि ॥ (निर्गतं
अञ्जनमिवाज्ञानं यत्र । अज्ञानरहिते च । यथा,
देवीभागवते । १ । १८ । ३६ ।
“स कथं वध्यते ब्रह्मन्निर्व्विकारो निरञ्जनः ॥”
पुं, योगिविशेषः । यथा, हठयोगप्रदीपि-
कायाम् । ७ ।
“कानेरी पूज्यपादश्च नित्यनाथो निरञ्जनः ॥”
महादेवः । यथा, हरिवंशे भविष्यपर्व्वणि ।
१४ । २ ।
“दीर्घरोमा दीर्घभुजो दीर्घबाहुर्निरञ्जनः ॥”)

निरतं, त्रि, (नि + रम + क्तः ।) नियुक्तम् । यथा ।

दानरत्नाकरे देवलः ।
“एकां शाखां सकल्पां वा षड्भिरङ्गैरधीत्य च ।
षट्कर्म्मनिरतो विप्रः श्रोत्रियो नाम धर्म्मवित् ॥”
इति व्यवहारतत्त्वम् ॥

निरन्तरं, त्रि, (निर्नास्ति अन्तरं यस्मिन् यस्माद्वा ।)

निविडम् । घनम् । इत्यमरः । ३ । १ । ६६ ॥
अनवकाशः । (यथा, आर्य्यासप्तसत्याम् । ४३८ ।
“सज्जनयोः स्तनयोरिव निरन्तरं सङ्गतं
भवति ॥”)
अनवधिः । अपरिधानम् । अनन्तर्धानम् ।
अभेदः । अतादर्थ्यम् । अच्छिद्रम् । (यथा, कुमार-
सम्भवे । ५ । २५ ।
“शिलाशयान्तामनिकेतवासिनीं
निरन्तरास्वन्तरवातवृष्टिषु ॥”)
अविना । अबहिः । अनात्मीयम् । अनवसरः ।
अमध्यम् । अनन्तरात्मा । एते निरुपसर्ग-
पूर्ब्बकान्तरशब्दार्थाः ॥

निरन्तराभ्यासः, पुं, (निरन्तरः सततोऽभ्यासो

यत्र ।) स्वाध्यायः । इति त्रिकाण्डशेषः । सतता-
वृत्तिश्च ॥

निरपत्रपः, त्रि, (निर्गता अपत्रपा लज्जा

यस्येति ।) धृष्टः । निर्लज्जः । इति जटाधरः ॥
(यथा, भागवते । ३ । २० । २४ ।
“ततो हसन् स भगवानसुरैर्निरपत्रपैः ।
अन्वीयमानस्तरसा क्रद्धो भीतः परापतत् ॥”)

निरपेक्षः त्रि, (निर्गता अपेक्षा यस्य ।) अन-

पेक्षः । यथा, मलमासतत्त्वे ।
“अभिधातुं पदेऽन्यस्मिन् निरपेक्षरवा श्रुतिः ॥”
(यथा, रामायणे । ६ । ९९ । ४२ ।
“कलत्रनिरपेक्षैश्च चेष्टितैरस्य दारुणैः ॥”)

निरयः, पुं, (निकृष्टः अयो गमनं यत्र ।) नरकः ।

इत्यमरः । १ । ८ । १ ॥ (यथा, हरिवंशे । १६ । १६ ।
“कथञ्च शक्तास्ते दातुं निरयस्थाः फलं पुनः ॥”)

निरर्गलः, त्रि, (निर्नास्ति अर्गलमिव प्रतिबन्धको

यत्र ।) अनर्गलः । अबाधः । इत्यमरः । ३ ।
१ । ८३ ॥ (यथा, महाभारते । ७ । ९ । ६२ ।
“दशाश्वमेधानाजह्रे स्वन्नपानाप्तदक्षिणान् ।
निरर्गलान् सर्व्वमेधान् पुत्त्रवत् पालयन् प्रजाः ॥”)

निरर्थकं, त्रि, (निर्गतोऽर्थो यस्मात् । कप् ।) निष्फ-

लम् । तत्पर्य्यायः । मोघम् २ । इत्यमरः ।
३ । १ । ८१ ॥ विफलम् ३ । इति जटाधरः ॥
(यथा, भागवते । ४ । १६ । १९ ।
“अयन्तु साक्षाद्भगवांस्त्र्यधीशः
कूटस्थ आत्मा कलयावतीर्णः ।
यस्मिन्नविद्यारचितं निरर्थकं
पश्यन्ति नानात्वमपि प्रतीतम् ॥”)

निरवः, पुं, (नि + रु + “ऋदोरप् ।” ३ । ३ । ५७ ।

इति भावे अप् ।) नीरवः । रवाभावः । इति
निपूर्ब्बरुधातोरलि निष्पन्नः । अपालनञ्च ॥
(निर्गतरक्षकः । यथा, ऋक्संहितायाम् । १ ।
१२२ । ११ ।
“नभो जुवो यन्निरवस्य राधः ।”
“निरवस्य निर्गतरक्षकस्य ।” इति तद्भाष्ये
सायनः ॥)

निरवग्रहः, पुं, (निर्गतोऽवग्रहः प्रतिबन्धो

यस्मात् ।) स्वतन्त्रः । इत्यमरः । ३ । १ । १५ ।
(यथा, हरिवंशे । ८० । ९ ।
“दुर्द्दमः कामचारी च स केशी निरवग्रहः ॥”)
वृष्ठिप्रतिबन्धाभावश्च ॥ (महादेवः । यथा, महा-
भारते । १३ । १७ । ८२ ।
“नीलस्तथाङ्गलुब्धश्च शोभनो निरवग्रहः ॥”)

निरवहालिका, स्त्री, (निर् + अव + हल + ण्वुल् ।

टापि अत इत्वम् ।) प्राचीरम् । इति शब्द-
माला ॥