सत्यसिद्धिशास्त्रम् भागः-१

सत्यसिद्धिशास्त्रम् भागः-१
[[लेखकः :|]]

श्रीरस्तु
सत्यसिद्धिशास्त्रम्

श्रीमदाचार्यहरिवर्मणः कृतिः

१ प्रस्थानस्कन्धे बुद्धरत्नाधिकारे आद्यसम्पद्वर्ग

१. अभिवन्द्याभिवन्द्यं प्राक्सम्यक्सम्बुद्धमात्मना ।
सर्वज्ञमर्हच्छास्तारं महान्तं लोकसंहितम् ॥
२. सुविशुद्धञ्च सद्धर्ममार्यश्रावकमण्डलम् ।
व्याचिकीर्षामि लोकानां हिताय जिनभाषणम् ॥
३. शास्त्रं सूत्रान्वितं सम्यक्धर्मताप्रविलोमकम् ।
शमोपगामि वै सम्यक्ज्ञानशास्त्रमितीर्यते ॥
४. न दृष्टौ चन्द्रसूर्यौ च प्रकृत्यातिप्रभास्वरौ ।
धूमाभ्रधूलीमिहिकामुखैः व्योम्नि यथावृत्तौ ॥
(
२)
५. मिथ्याशास्त्रपरीतः सत्सूत्रार्थो न प्रकाशते ।
सदर्थस्यास्फुटीभावात्कुज्ञानस्योद्धाटितं मुखम् ॥
६. आपत्तिदुर्यशश्चित्तकौकृत्यक्कमथादयः ।
चित्तंविक्षेपकायासाः कुज्ञानोद्धाटिता इमे ॥
७. आपत्तिमुख्यानायासान् योऽपोहितुमिच्छति ।
सम्यक्शास्त्रेच्छया गच्छेत्गभीरज्ञानिनं स च ॥
८. निषेवणञ्च तस्यैव सम्यक्छास्त्रस्य मूलकम् ।
सच्छास्त्रहेतोरुत्कृष्टपुण्याद्याः प्रभवन्ति हि ॥
९. शतसाहस्रदुःशास्त्रेष्वधीती तीक्ष्णधीरपि ।
प्रतिभानञ्च कीर्तिञ्च लाभान्नाप्नोति संसदि ॥
१०. बुद्धधर्मवरं ज्ञात्वा भाषणं सुखवाहि च ।
चिरकालञ्च धर्मस्य स्थितये न तु कीर्तये ॥
११. निषेव्य भिन्नवादांश्च प्रज्ञया विबुधाशयान् ।
तत्त्वशास्त्रं चिकीर्षामि सर्वज्ञज्ञानमात्रकम् ॥
१२. अश्रौषीत्सर्वशो बुद्धो भिन्नवादांश्च भिक्षुकान् ।
अतस्त्रिपिटकस्यार्थं समीकर्तुं समारभे ॥

अत्र विचार्यते । (पृ) ननु भवता सत्यसिद्धिशास्त्रं वक्ष्यत इति ज्ञात्मस्माभिः । आदौ भवतोक्तमभिवद्याभिवन्द्यं प्रागिति । स च बुदो [भगवान्] । कस्मात्तस्य बुद्ध इत्याख्या । केन गुणेनाभिवन्द्यः । (उ) भगवान् प्रकृत्या मनुष्यभूतः सर्वाकारज्ञानेन सर्वधर्माणां स्वलक्षणविभागान् प्रजानाति । सर्वाकुशलविनिर्मुक्तः सञ्चितसर्वकुशलः सर्वसत्त्वानां (
३) हितैषी चेत्यतो बुद्ध इत्युच्यते । [सत्त्वान्] शिक्षयितुमुपदिष्टं धर्म इत्युच्यते । तं धर्मं ये प्रतिपद्यन्ते ते सङ्घ इत्युच्यन्ते । इत्येतेषां त्रिरत्नानामभिवन्दननिदानं वक्ष्ये । भगवान् पञ्च[धर्म]स्कन्धसंपन्नः इत्यतो देवमनुष्याणां पूज्यः ।

(पृ) अन्येऽपि आर्यपुग्दलाः पञ्चधर्मस्कन्धसमन्विताः । तथागतस्य को विशेषः । (उ) तथागतस्य पञ्चगुणस्कन्धसंपदः परिशुद्धाः । तत्कस्य हेतोः । कायिकादिषु कर्मसु अप्रमत्तत्वात्शीलस्कन्धसंपत्[परिशुद्धा] । भगवान् शीलसंवर एवाविपन्नः । किमुत वक्तव्यं मूलापत्तौ । किञ्च चिरसञ्चितमैत्रीकस्य नाकुशलचित्तमुदेति । यथोक्तं सूत्रे- भगवानवोचदानन्दम् । आजन्म यो मैत्रीमभ्यस्यति तस्याकुशलचित्तमुदेति न वा । नो भगवनिति । तथागतश्चिरसञ्चितकुशलस्वभावः, नात्मत्राणार्थं किन्तु अपकीर्तिभीरुतया संवरशीलं धत्ते । अप्रमाणबुद्धेषु दीर्घाभ्यस्तशीलचर्यः उन्मूलितत्रिविषमूलात्यन्तनिश्शेषवासनः । इत्यादिभिः प्रत्ययैः शीलस्कन्धसम्पन्नः ।
समाधिस्कन्धसम्पन्नः । तथागत इमं समाधिं निश्रित्य सर्वज्ञज्ञानं लब्धवान् । अतः समाधिस्कन्धसम्पन्न इति ज्ञायते । यथा घृततैलबहुलः प्रदीपः वर्तिकामहिम्ना महान् प्रकाशते । तथागतः सुनिरूढस्तम्भवत्दृढसमाधिकः । अन्ये तु जलरूढस्तम्भवतप्रतिलब्धचिरसमाधिकाः । तथागतस्य ध्यानसमाधिरप्रमाणकल्पेषु क्रमशः संसिद्धः । अत स्तं परिपूरयति । तथागतस्य समाधिः पुरुषं स्थानं धर्मोपदेशं वा इत्यादिप्रत्ययगणान्नोपक्षते । न तथान्येषाम् । तथागतः सदा गभीरभावितसमाधिर्भवति । यथा कश्चितात्मानं संरक्षन् सदा स्मरति न विस्मरति । तथागतः ध्यानसमाधिमुपसम्पद्य न चित्तबलमधितिष्ठति । तद्यथा कश्चित्स्वावसंथं प्राप्य वदति क्षेमप्राप्तः अखिन्न इति । न समाधिस्थस्तथागतः पुनरेवम् । अत उच्यते तथागतः नित्यसमाधिस्थित इति । ध्यानसमाधिप्रकम्पिनो (
४) महाप्रामोद्यादयो धर्माः तथागतस्य सर्वे प्रहीणाः । चिरसमाधिविपाकप्रतिलब्धैश्वर्यदिव्याभिज्ञानां परमोऽग्रणीः । ऋद्धिविधिना एकस्मिन्नेव क्षणे दशदिक्षु अप्रमाणधातुषु परिक्रामति । सर्वाणि कृत्यानि यथेष्टं करोति । सर्वनिर्मितेषु अप्रतिहतं प्रभवति । अन्ये सत्त्वा मागच्छन्त्विति सर्वधर्मानुगचित्तो भवति ।

तथागतस्य आर्यवशितासमन्वितस्य सुखे असुखसंज्ञोत्पद्यते । असुखे च सुखसंज्ञोत्पद्यते सुखासुखे च उपेक्षासंज्ञोत्पद्यते । (पृ)असुखे उपेक्षा जायेत । कथं सुखसंज्ञा जायेत । (उ) सुभावितचित्तत्वात्वाक्पारुष्याद्यसुखधर्मेषु न प्रतिबन्धं मन्यते । अन्यासु दिव्याभिज्ञासु दिव्यचक्षुर्दिव्यश्रोत्रपरचित्तज्ञानपूर्वनिवासानुस्मृतिषु अप्रतिहतो भवति । समाधिबलेन अप्रतिहतदिव्याभिज्ञो भवति । ध्यानसमाधिषु सुव्यक्ताभिसमयः । तानन्ये सत्त्वा न शृण्वन्ति । तथागत एवाप्रतिहतं प्रविशति व्युत्तिष्ठते च । तथागतस्य ध्यानसमाधि र्बलमित्याख्यायते । यथा दशबलवर्गे वक्ष्यते । अन्येषां पुग्दलानां नास्ति [तादृशं] किञ्चित् । अतः तथागत समाधिस्कन्धसम्पन्नः ।

प्रज्ञास्कन्धसम्पन्न इति । ध्यानावरणं क्लेशोत्पाद इति द्विविधाविद्या तथागतस्य सर्वथा प्रहीणा । विरुद्धस्य प्रहाणात्प्रज्ञास्कन्धसम्पन्नः । स्वतो धर्मलाभी [तथागतः] न परतः श्रुत्वा । निरुक्तिकुशलः अर्थगतिज्ञानसुज्ञानकुशलः अनवसन्नप्रतिभानः अक्षीणप्रज्ञश्च । अन्ये सत्त्वा स्तेषु कौशलं न संपादयांबभूवुः । भगवानेन अनपकृष्टक्षयज्ञानः । अतस्तथागतः प्रज्ञास्कन्धसम्पन्नः ।

भगवद्भाषितो धर्मः अर्थगतौ कुशलः । नान्यैरल्पज्ञै र्भाषितः समर्थः निरवद्यः । तथागत भाषित एवानवद्यः । अतस्तथागत प्रज्ञास्कन्धसम्पन्नः । अप्रमाणगुणसाधनीया प्रज्ञेति [तां] सम्पादयति । धर्मं प्रणीतमविपरीतञ्च भाषितवान् । यथा अशुभभावना (
५) कामरागभेदिनीत्यादयः । प्रज्ञाप्रकर्षात्प्रकृष्टेर्यापथश्च भवति इत्यादिभिः प्रत्ययैः प्रज्ञास्कन्धसम्पन्नः ।

विमुक्तिस्कन्धसम्पन्न इति । अविद्याद्वयाच्चित्तं विमुक्तम् । नान्यास्ति वासना, सर्वथानिवृता इत्यादिना विमुक्तिसम्पन्नः ।

विमुक्तिज्ञानदर्शनसम्पन्न इति । सर्वस्मिन् संयोजनप्रहाणमार्गे प्रतिक्षणं स्मृतिज्ञानकुशलः । यथा कश्चित्वृक्षं छेत्तुं हस्ते धृतकुठारः पार्यन्तिकं जानानः प्रजानाति शाखाः प्रशाखाः । तथा भगवानपि संयोजनप्रहाणज्ञानस्य प्रतिक्षणं क्षीयमाणं सर्वमवयवशः प्रजानाति । सत्त्वानामाशयं ज्ञात्वा यथायोगं धर्ममुपदिशति । येन [ते] विमुच्यन्ते । अतः सत्त्वानां सर्वविमुक्तिमार्गे ज्ञानदर्शनसम्पन्नः ।

किञ्च भगवान् कालं ज्ञात्वा धर्ममुपदिशति यथा तिम्बुरुकब्राह्मणादिनाम् । तथागतः धर्माणां विभागज्ञानकुशलः । अयं पुद्गलः अस्य धर्मस्यार्ह इति । यथा भगवानानन्दमामन्त्र्य छन्दकस्य योग्यं भावाभावव्यावर्तकं सूत्रमुपदिशति । अतस्तथागतो विमुक्तिज्ञानकुशलः । किञ्चोपायकुशलः सत्त्वमलं हापयति यथा नन्दस्य कामप्रजिहीर्षायै [धर्म]मुपदिशति । सत्त्वानाञ्च श्रद्धेन्द्रियादिपरिपाकं ज्ञात्वा पश्चात्धर्ममुपदिशति यथा राहुलस्य । केचित्सत्त्वाः कर्मविपाकावृताः न विमुक्तिं लभन्ते । भगवान् [तं]नाशयित्वा धर्ममुपदिशति । केचित्सत्त्वाः कालपक्ष्ये क्षीणास्रवा भवन्ति यथा जायापतिसूत्र उपदिष्टम् । केचित्सत्त्वाः पुरुषविशेषमपेक्ष्य क्षीणास्रवाः भवन्ति यथा शारिपुत्र अश्वजितमपेक्ष्य । केचित्सत्त्वा देशमपेक्ष्य क्षीणास्रवाः यथा राजा पुक्कसातिः । केचित्सत्त्वा सतीर्थ्यमपेक्ष्य (
६) क्षीणास्रवाः यथा गोपाल नन्दः अजितग्रामीणादीनपेक्ष्य । केचित्सत्त्वा भगवतः तात्त्विककायमपेक्ष्य निर्मितकाय ञ्चापेक्ष्य क्षीणास्रवा भवन्ति । भगवान् प्रतिपतिं ज्ञात्वा धर्ममुपदिशति [अथ]विमोचयति । किञ्च भगवान् विविधान् सद्धर्मानुपदिय सर्वान् विमुक्त्यावरणधर्मान् परिभेदयति अतो विमुक्तिज्ञानदर्शनसम्पन्न इत्युच्यते ।

भगवान् धर्मार्थगतिकुशलो धर्ममुपदिशति नानर्थमविपाकम् । भगवान् संख्यागणनवत्क्रमशो विमुक्तिमार्गमुपदिशति । अतः सुविमोको भवति । भगवान् सत्वानां पूर्वनिवासं कुशलमूल ञ्च ज्ञात्वा क्रमशो धर्ममुपदिशति । भगवान् विमुक्तिं प्रत्यक्षीकृत्य परस्योपशति न परतःश्रत्वा । जिनशासनं वह्वीभिः कलाभिः सम्पन्नम् । यथा भैषज्यकलासम्पन्नो व्याधीन् शमयति । तथा जिनशासनमपि प्रतिपक्षकलापमुखेन सर्वान् क्लेशान् व्यावर्तयति । यथा नवसंज्ञादीन्महत्योऽल्पा वा संयोजना न पुनः क्षपयन्ति । अतः कौशलसम्पन्न एव क्लेशान् परिभेदयति । अनुत्तमोपायैः सत्त्वान् सन्तारयति, कदाचित्सुकुमारवचनैः कदाचित्कटुवचनैः कदाचित्पुनः सुकुमारकटुवचनैश्च । तदर्थमेव तथागतो विमुक्तिज्ञानदर्शनसम्पन्नः इति ।

प्रस्थानस्कन्धे बुद्धरत्नाधिकारे आद्यसम्पद्वर्गः प्रथमः ।


(
७)
२ दशबलवर्गः

अथ भगवान् दश बलसमन्वागमात्प्रज्ञासम्पन्नः । हेतुप्रत्ययप्रतिलोमकतयोक्तानि दशबलानि । तलाद्यं स्थानास्थानज्ञानबलम् । इदं कार्यकारणनैयत्यज्ञानम् । अस्मातीदृशं फलं भवति न तादृशम् । अयमाचारः अकुशलोऽवयं दुःखविपाकः न सुखविपाक इति ज्ञानम् । स्थानं नाम भाववस्तु । अस्थानमभाववस्तु । आद्यं बलमिदं सर्वबलानां मूलम् ।

(पृ) [ननु]लौकिका अपि जानन्ति हेतुफलयोः स्थानास्थानम् । यथा यवाद्यव एव जायते न ब्रीह्यादय इति । (उ) स्थानास्थानबलेन कर्मादीनां ज्ञानातिदं बलमतिगहनं परमं देवमनुष्याणां न प्राप्तुं शक्यम् । जातधर्मस्य हेतुसमनन्तराधिपतिप्रत्ययान् प्रत्याययतीत्यत इदं बलं प्रणीतम् ।

(२) यततितानागतप्रत्युत्पन्नानि कर्माणि सर्वधर्मसमादानानि च प्रजानाति । तेषां स्थानं प्रजानाति वस्तु प्रजानाति हेतुं प्रजानाति विपाकञ्च प्रजानाति । अत इदं ज्ञानं बलमाख्यायते । त्रिषु अध्वसु स्थानवस्तुहेतुविपाकप्रज्ञापकत्वात्गहनम् । कस्मात् । केचिद्वदन्ति अतीतानागता अभावधर्मा इति । अतो भगवतः तेषां कथनं बलं भवति । अतीतानागताध्वगतान् धर्मानदृष्टाकारानपि भगवान् साक्षात्प्रजानाति ।

अथ कर्म द्विविधं कुशलमकुशलमिति । केचित्कुशलकर्मवन्तो दृष्टे दुःखवेदनाः यथा शीलं धृत्वा क्लेशाननुभवन्ति । केचित्पापकर्माणः दृष्टे सुखवेदनाः यथा शीलं भित्वा स्वैरं चरन्ति । अतः केचित्संशेरते अनागताध्वापि प्रत्युत्पन्नसम इति । अतस्तथागतः कर्मक्रमेण वेदनामुपदिशति ।

(
८)
चत्वारि धर्मसमादानानि प्रत्युत्पन्नं दुःखमायत्यां सुखविपाकम्, प्रत्युत्पन्नं सुखमायत्यां दुःखविपाकम्, प्रत्युत्पन्नं सुखमायत्यां सुखविपाकम्, प्रत्युत्पन्नं दुःखमायत्यां दुःखविपाकमिति । भगवान् संप्रति आयत्याञ्च [तेषां] स्थानं, वस्तु, हेतुं विपाकञ्च प्रजानाति । स्थानं नाम वेदकः । वस्तु देयपदार्थः । हेतुर्दानचित्तम् । यथोक्तं सूत्रे पूर्वञ्च प्रमुदितचित्तः दानकाले च विशुद्धचित्तो दत्त्वा च यन्न विप्रतिसरति । तत्फलप्रापकं कर्म विपाक माख्यायते । भगवानेव प्रजानाति तरतमं कर्म यदि नियतमनियतं वा दृष्टविपाकमुपपद्यविपाकं तदूर्ध्वविपाकं वा इत्यादि । नान्यः । अतो बलमित्युच्यते ।

(३) भगवान् सर्वध्यानविमोक्षसमाधिसमापत्तीनां संक्लेशं प्रजानाति स्थितिं प्रजानाति उपचयं प्रजानाति व्यवदानञ्च प्रजानाति । तत्र ध्यानं नाम चत्वारि ध्यानानि चत्वार आरूप्यसमाधयश्च । तदेव रूपारूप्यधातुकं कर्म । विमोक्षो नाम यदुताष्टौ विमोक्षाः तक्तर्मक्षेपकाः । ध्यानानि आरूप्यसमाधयोऽष्टविमोक्षाश्च समाधयो भवन्ति । एषां समाधीनां वृत्तेराभिमुख्यलाभः समापत्तिः । समापत्तयश्चतुर्धा विभक्ताः संक्लेशतः स्थितित उपचयतो व्यवदानतश्चेति । संक्लेशज्ञानिनः संक्लेशतः समाधिः । स्थितिज्ञानिनः स्थित्या समाधिः । उपचयज्ञानिन उपचयतः समाधिः । व्यवदानज्ञानिनः प्रतिवेधतः समाधिः । प्रतिवेधतः समाधिकस्य ऊष्ममूर्धक्षान्त्यादयश्चतुर्धर्मा भवन्ति । तथागतस्यैव तेषु सर्वेषु ज्ञानं भवति । नान्येषामिति बलं भवति ।

(४) तथागतः सत्त्वानामिन्द्रियाणि तीक्ष्णानि मन्दानि [यथाभूतं] प्रजानानि । श्रेद्धेन्द्रियादीनां प्राधान्यात्तीक्ष्णता यथा तथागतादीनाम् । मन्दता तदप्राप्तिः यथा नागदासकादीनाम् । मध्येन्द्रियस्य तु नास्ति अनियतत्वात् । तीक्ष्णेन्द्रियस्यास्ति काष्ठा (
९) यथा तथागताः । मृद्विन्द्रियस्यास्ति काष्ठ यथा नागदासकः । मध्यमस्य नास्ति काष्ठेति मध्येन्द्रियस्य नोच्यते । अथ श्रद्धाप्रतिपत्धर्मप्रतिपतिति द्विविधो मार्गः । पुनरपि द्विविधः दुर्मार्गः सुमार्ग इति । अस्मात्मार्गद्वयादन्यो मध्यमः । तीक्ष्णमन्दपुद्गलौ प्रतीक्ष्य मध्यमो भवति । अधिमुक्तितश्चेन्द्रियाणि भिद्यन्ते । श्रद्धेन्द्रियाधिमुक्तिकाः श्रद्धाबहुलाः । प्राज्ञजना विशिष्टेन्द्रिया अधिमुक्तित उपकृता श्रेद्धेन्द्रियप्रधानाश्च भवन्ति । इमानीन्द्रियाणि सर्वाणि [तथागतः] प्रजानाति । नान्ये । इत्यतस्तद्वलम् ।

(५) तथागतो नानाधिमुक्तिकं लोकं [यथाभूतं] प्रजानाति । अधिमुक्तिर्नाम इच्छा । तद्यथा सुरायामधिमुक्तः सुरामिच्छति । तथागतो यथाधिमुक्ति प्रतिपत्तिं प्रजानाति यदुतायं सत्त्वः पञ्चकामनास्वधिमुक्तः भावनामार्गे बाधिमुक्त इत्येवं विदित्वा यथार्हं धर्ममुपदिशति । अतः सर्वसत्त्वाश्च सन्तारयति ।

(६) तथागतो नानाधातुकानप्रमाणलोकांश्च [यथाभूतं] प्रजानाति । सत्त्वानां यत्दीर्घकालमभ्यस्य अभिरोचते स धातुः सिध्यति । यथा देवदत्तादयस्तथागतमध्वन्यध्वनि दुषयन्तोऽकुशलचित्तप्रवृत्तगहनानुशयधातुका भवन्ति । तथा कुशलस्वभावा अपि । केचित्सत्त्वाः स्वभावतः प्रवृत्तरागाः केचित्दृष्टं प्रतीत्य प्रवृत्तरागाः । तथागतोऽधिमुक्तिं धातुञ्च सर्वं [तेषां] प्रजानातीत्यत[स्तत्]बलमुच्यते ।

(७) तथागतः सर्वत्रगामिनीं प्रतिपदं यथाभूतं प्रजानाति । इमां प्रतिपदं प्रतिपन्नो नरक उत्पद्यते यावत्स्वर्गे इति च प्रजानाति । इमां प्रतिपदं प्रतिपन्नो यावन्निर्वाणमनुप्राप्नोति । इदं कर्म इन्द्रियरागस्वभावप्रवृत्तम्, सास्रवकर्मकः पञ्चगतिषूत्पद्यते । अनास्रवकर्मको निर्वाणमनुप्राप्नोति इति प्रजानाति ।

(
१०)
पूर्वमुक्तं मार्गः । इदानीमुक्तन्तु मार्गफलम् । पूर्वं सामान्यत उक्तम् । इदानीं विविच्योच्यते ईदृशकर्मणा नरकं याति, ईदृशकर्मणा निर्वाणं प्राप्नोति इति । नरकप्रतितस्यापि प्रविभागोऽस्ति अनेन कर्मणा सञ्जीवनरके पतिष्यति, अनेन कर्मणा कालसूत्रनरके पतिष्यति इति । अतस्तथागतः सप्तमबले स्थितः सुक्ष्मं कर्म प्रजानाति । अन्ये सत्त्वा जानन्तोऽपि न विवेचयन्ति । अतस्तत्बलमुच्यते ।

(८) एवं तथागतस्य अतीतकर्मणां फलज्ञानं पूर्वनिवासानुस्मृतिज्ञानबलमित्युच्यते । तथागतः सत्त्वानां पूर्वमाचरितां प्रतिपदं ज्ञात्वा धर्ममुपदिशति । अतः पूर्वनिवासव्याकरणेऽस्ति ज्ञानबलम । तथागतोऽतीतं सर्वमुपपत्तिस्थानं रूपधातौ वा आरुप्यधातौ वा इत्यनुस्मरति । आत्मनोऽपि प्रजानाति । अन्येषामपि सत्वानां प्रजानाति । अत[स्तत्] बलमुच्यते ।

(९) तथागतो दिव्येन चक्षुषा पश्यति अनागताध्वनि त्रिभवसन्तानान् त्रिविधानि कर्माणि चतुर्धर्मसमादानानि च ज्ञात्वा व्याकरोति । तत्राप्रतिघप्रत्यायनं बलमुच्यते ।

(१०) आस्रवक्षय[ज्ञान]बलेन सन्ताननिवृत्तिं प्रजानाति । सत्त्वा आयुषोन्ते केचित्ससन्ताना भवन्ति, केचित्निवृत्तसन्ताना भवन्ति । इदं बलं सर्वसत्त्वगामिस्थानमार्गबलं भवति । सामान्यतो निर्वाणमार्ग इत्युच्यते । अस्य बलस्य सविस्तरविभागो वक्ष्यते । तथागतः संक्लेशव्यवदानहेतोर्दशबलसमन्वागतः । नवबललाभित्वात्ज्ञानसमन्वितः । दशमबललाभित्वात्प्रहाणसमन्वितः । ज्ञानप्रहाणसम्पन्नत्वात्भगवान् देवमनुष्यैरभिवन्द्यः ।

दशबलवर्गो द्वितीयः ।


(
११)
३ चतुर्वैशारद्यवर्गः

तथागतश्चतुर्वैशारद्यसमन्वितत्वाच्चाभिवन्द्यः । तथागतप्रतिलब्धानि चत्वारि वैशारद्यानि- सर्व[धर्मा]भिसम्बोधि[वैशारद्यम्], सर्वास्रवक्षय [ज्ञानवैशारद्यं], मार्गान्तरायिकव्याकरण [वैशारद्यं], दुःखनैर्याणिकप्रतिप[द्वैशारद्यम्] । एषु चतुर्षु यदि कश्चिदागत्य यथा धर्मं चोदयेत् । तत्राहं वैशाद्य[प्राप्त] इति ।

आद्यं वैशारद्यं सर्व[धर्मा]भिसम्बोधिः नवबलात्मकम् । द्वितीयमास्रवक्षयो दशमबलमेव । क्षयज्ञानसम्पन्नत्वात्तथागत आत्मगुणसम्पन्नः । अन्त्ये द्वे वैशारद्ये परसम्पदं कुरुतः । तथागतो व्याकरोति आन्तरायिकमान्तरायिकमार्गधर्मान् यदुताकुशलं सास्रवं कुशलञ्च । विमुक्त्यन्तरायत्वातान्तरायिकधर्म इत्युच्यते । अन्तरायविसंयोगितया नैर्याणिकप्रतिपदित्युच्यते ।

(पृ) ननु भवदुक्तरीत्या बलान्येव वैशाद्यानि । अतः को भेदो बलवैशारद्ययोः । (उ) अभिसम्बोधिर्बलं भवति । तेन बलेनोपादेयं वैशारद्यमित्याख्यायते । केचिन्मूढा निरपत्रपा बहूपाददते । तथागतस्योपादानन्तु प्रज्ञासम्भूतम् । अभिसम्बुध्य परेभ्योऽभयप्राप्त इति वैशारद्यम् । कस्मात् । सत्यप्यभिसम्बोधे [परेभ्यः] परित्राससम्भवात् । अभिसम्बोधो बलात्मकः । तदभिसम्बोधव्याकरणं वैशारद्यमित्याख्यायते । कस्मात् । केषाञ्चित्पुरुषाणां ज्ञाने सत्यपि व्याकरणकौशलाभावात्परपुरुषाणां विजयो वैशारद्यम् । कस्मात् । सत्यपि ज्ञाने केषाञ्चित्परविजयासम्भवात् । अक्षीणोऽभिसम्बोधो बलम् । अक्षीणं प्रतिभानं वैशारद्यम् । अथ पुनर्भवगतिव्याकरणं बलम् । व्याकरणे वशिता वैशारद्यम् । हेतुर्बलम् । फलं वैशारद्यम् । अभिसम्बोधाद्वैशारद्यसम्भवात् । य आजन्म परित्रस्तः स पश्चात्किञ्चित्ज्ञानं लब्ध्वा विशारदो भवति । किं पुनर्भगवान् सुदूरकालात्महोदारचित्तः सर्वाकाराभिसम्बोधिञ्च लब्ध्वा बिभेष्यति । कश्चित्परविजयाशक्तत्वात्सभीतिको भवति । तत्र न कश्चिदस्ति यं तथागतो न विजितवान् । अतो विशारदः ।

(
१२)
यो वादी वचनकुशलः अर्थकुशलश्च स विशारदः । तथागत एवायम् । सर्वज्ञतालाभातर्थकुशलः । अप्रतिघप्रतिभानलाभात्वचनकुशलः । केचित्पुनर्वस्तुषु [ज्ञान]बलविहीनाः सन्तः सञ्जातभीतिका भवन्ति । तथागतस्तु सर्वज्ञानलाभित्वात्सर्ववस्तुषु न बलविहीनः, सर्वसूत्राणि सर्वशास्त्राणि च प्रतिविध्य प्रश्नविसर्जनं परिदीपयतीति विशारदः । केचित्पुनः कुले गोत्रे रूपे शीलबाहुश्रुत्यज्ञानादिषु वा विकला इत्यतः सावद्यं शास्त्रमधिगच्छन्ति । तथागतस्तु तत्र सर्वत्राविकलः । अतो विशारदः ।

यो यथाभूतधर्मवादी स न कम्प्यः । स च तथागत एव । यथावोचतसुरब्राह्मणो भगवन्तम्- यथाभूतधर्मवादी दुर्जयो दुष्प्रकम्पः । तथैवानुलोममार्गवादी तर्कवादी सहेतुवादी च । इति । यः पुनश्चतुर्भिर्वाद धर्मैः समन्वितः सोऽपि दुर्जयः दुष्प्रकम्पः । [चत्वारो वादधर्मा यदुत] सम्यक्प्रतिज्ञाप्रतिष्ठापनम्, हेत्वहेतूपादानम्, दृष्टान्तोपादानं वादधर्मप्रतिष्ठापनमिति । तथागत एभिश्चतुर्भिः सम्पन्नः । देवमनुष्या अपि तं न जेतुं शक्नुवन्ति इत्यतो विशारदः । यश्च कल्याणमित्रमनुपसेव्य वादं करोति स सुकम्पः । तथागतस्तु दीपङ्करादिषु अप्रमाणबुद्धेषु पूर्वमेवाभ्यस्तवादधर्मा इत्यतो न प्रकम्प्यः । भगवानुपदिशति सत्यद्वयं यदुत लोकसत्यं परमार्थसत्यमिति । अतः प्राज्ञो न कम्पयितुं शक्यः । प्राकृतैरज्ञैश्च सह न विवदते । तथागतश्च लोकेन सह न विवदते । लोकेऽस्ति तथागतः [परं मरणात्] इति वदति । भगवानपि वदति अस्तीति । नास्तीति वदति लोके नास्तीति वदति । अतो नास्ति विवादः । तेन सह विवादाभावातप्रकम्प्यः ।

शास्त्रं पुन द्विविधं तत्त्वशास्त्रं शठशास्त्रमिति । तीर्थिकानां भूयसा शठशास्त्रम् । तथागतस्य तु तत्त्वशास्त्रम् । अतोऽपि न प्रकम्प्यः । जिनशासने सुचरितपरिशुद्धत्वातुपदेशोऽपि परिशुद्धः । सुचरितपरिशुद्धिर्नाम दुःखहेतुक्षयः । तीर्थिकानां शास्त्राणि सहेत्वाभासानि न सहेतुकानि इति न विजयसमर्थानि भवन्ति । भगवतः सूत्राणि परिशुद्धप्रवचनार्थगतिकानि तत्त्वलक्षणाविलोमकानि न तीर्थिकीयसमानानि । भगवदुपदिष्टो (
१३) मार्गो न यथारुतग्रहणर्थः । अपि तु आध्यात्मिकज्ञानचित्तकः । यथोक्तं सूत्रे- भगवान् भिक्षूनामन्त्याह मा भिक्षवो मम वचनाधिमुक्तिका भवत । किन्तु भवद्भिराध्यात्मिकज्ञानस्य कायेन साक्षात्कारिभिर्भवितव्यम् । इति । किञ्चाह- अशठा यूयमागच्छत । प्रातर्वो धर्मं भाषमाणे मयि सायं मार्ग लभेध्वम् । सायं धर्मं भाषमाणे प्रातर्मार्गं लभेध्वम् । इति । यः कश्मिंश्चिद्धर्मेऽप्रबुद्धः स [तूष्णी]तिष्ठेत् । न प्रवचनं कुर्यात् । यत्किञ्चित्प्रवदन्नपि अवश्यं प्रकम्प्यः । तथागतस्तु नाप्रबुद्ध इति वैशारद्यसमर्थः । किञ्च तथागतः प्रतिलब्धाप्रतिघाभिसम्बोधः । न सर्वधर्मेष्वप्रतिबुद्ध इति विशारदः । अल्पज्ञा न जानन्ति महापुरुषाणां यदधिगतम् । महापुरुषास्तु जानन्ति अल्पज्ञानामधिगतम् । भगवान् सत्त्वानामुत्तमो महानिति अल्पज्ञानां शास्त्रं जानाति । अतो विशारदः । तीर्थिकानां शास्त्रं यां काञ्चित्दृष्टिमुपादाय प्रवृत्तम् । भगवांस्तु प्रजानाति दृष्टिरियं प्रतीत्य समुत्पन्नेति । तत्समुदयं प्रजानाति, निरोधं प्रजानाति, आस्वादं प्रजानाति, आदीनवं प्रजानाति, नैर्याणिकञ्च प्रजानाति । तीर्थिकादयो न क्षयज्ञानसमर्था इति [मिथो] विवदन्ते । तथागतस्तु सर्वाकारज्ञः
सर्वधर्मज्ञः सर्वपरशास्त्राणां दारको न परशास्त्रैर्दार्यो भवति । अतो विशारदः । इत्यादयः प्रत्यया बलवैशारद्यप्रविभागार्था भवन्ति ।

(पृ) तथागतः सर्वधर्मेषु विशारदः । कस्मादुच्यन्ते । चत्वार्येव वैशारद्यानि । (उ)यान्युक्तानि तानि सर्ववैशारद्यानां सामान्यवचनानि । कस्मात् । आद्यं वैशारद्यद्वयमात्मनः क्षयज्ञानाभिधायकम् । अन्तिमद्वयं परस्य मार्गान्तरायिकधर्माभिधायकम् । दुःखक्षयमार्गाभिधायकं [सत्]क्षयज्ञानमित्युच्यते । स श्रावकः शास्ता क्षयज्ञानसम्पन्न इत्यतः सर्वाणि वैशारद्यानि सामान्यत उक्तानि ।

(पृ) सत्त्वाः कस्मात्संशेरते तथागतोऽसर्वज्ञः पुरुष इति । (उ) भगवतोक्तं वचनं कदाचिदसर्वज्ञ[वचन]कल्पमस्ति । तद्यथा भगवान् प्रत्याह- कुतो यूयमागच्छथ इत्यादि । यथोक्तं सूत्रे- यः कश्चित्नगरं प्रविश्य तन्नाम नागरिकान् पृच्छति । नाहं वदामि तं सर्वज्ञमिति । श्रोतास्य सूत्रस्य संशेते तथागतोऽसर्वज्ञः पुरुष इति । भगवद्वचनं सरागवचनकल्पमस्ति । यथोक्तं सूत्रे- भगवानाह स्वागतं वो भिक्षवः अनेन (
१४) कायेन महार्थलाभाय मम शासनमनुवर्तध्वम् । तदा प्रमुदितः स्यामिति । द्वेषिकल्पमप्यस्ति वचनम् । यथोक्तम्- त्वं खलु देवदत्त शवभूतः खेटाशनोऽसि । इति । आभिमानिककल्पोऽप्यस्ति व्यवहारः । यथात्मानमधिकृत्याह अहं परिषदि सिंहकल्पो दशबलैश्चतुर्भिर्वैशारद्यैश्च समन्वितः महापरिषदि सिंहनादं नदामि इति । मिथ्यादृष्टिककल्पोऽप्यस्ति व्यवहारः । सन्धारयाम्यात्मधर्म यथा तैलपात्नम् । आह च देवदत्तम्- नाहं ददामि सङ्घं शारिपुत्रमौग्दल्यायनादिभ्योऽपि किं पुनर्दास्यामि तुभ्यम् । इति । अल्पज्ञा इमानि वचनानि श्रुत्वा वदन्ति तथागतस्यस्रवा अक्षीणा इति ।

किञ्चाह भगवान्- कामा मार्गान्तरायिका धर्मः । केचित्तु [कामान्] वेदयन्तोऽपि मार्गं लभन्ते । इति । विनयेऽप्युक्तम्- विरमणधर्माभ्द्रष्टोऽपि मार्गं स्पृशति । इति । अतोऽल्पज्ञाः संशेरते तथागत आवरणधर्मानभिज्ञ इति । केचिन्मार्गं भावयन्तोऽपि संयोजनैरनुशयवन्तः । अतोऽल्पज्ञाः संशेरते आर्यमार्गः संयोजनानां न क्षयकृत इति । संयोजनानि अप्रहाय को दुःखं वियोजयेत् । अतस्तथागतस्तेषु चतुर्षु धर्मेषु विशारदः ।

(पृ) कथं यथोद्दिष्टाः संशया परिहीष्यन्ते । (उ) भगवान् संवृतिमनुवर्तते । यथा लौकिका जानन्तोऽपि प्रष्टारो न दुष्यन्ति । तथा भगवानपि लोकवर्तित्वात्संवृतिमनुवर्त्य पृच्छति । लौकिका अनासङ्गचित्ता अपि आसङ्गिकल्पं वदन्ति ईदृशमिति । तथा भगवानपि सत्त्वानां हितायदृष्टे व्यवहरति । कामा नान्तरायिकधर्मा इति सति वचने तत्र तथागत उपदिशति कामा वस्तुत आन्तरायिकधर्मा इति । यस्य कामाश्चित्तगताः स न मार्गं भावयति । अतोऽवश्यं कामान् पूर्वं परित्यज्य पश्चान्मार्गं स्पृशति । आपत्तिधर्मे सत्यपि (
१५) मार्गःप्राप्यत इति ब्रूवतोऽवश्यं परिभिन्नेऽप्यापत्तिधर्मे मार्गो न प्राप्यते । यस्य वस्तुतो नास्त्यापत्तिः । तस्य गुरुप्रत्ययत्वात्भगवान् पुनःखयमाश्रावयेत्नास्त्यापत्तिधर्मो विनाशयितुमिति । यन्मार्गं भावयतामपि संयोजनमस्तीति । अयं मार्गः सर्वसंयोजनानुशयानां विनाशकः, असम्पन्नत्वात्तु न विनाशयितुं प्रभवति । तद्यथा प्रकृतितो दधि तापशमनम् । किन्तु [पुरुषस्य] अल्पवसनत्वे न तत्परिपाचनं भवति । तथा मार्गभावनापीति अनवद्यम् । तथागत श्चतुर्वैशारद्यसमन्वित इत्यतोऽभिवन्द्यः ।

चतुर्वैशारद्यवर्गस्तृतीयः


४ दशनावर्गः

अथ सूत्र उक्तं- तथागतादीनां दश गुणाः यदुत तथागतः अर्हन् सम्यक्सम्बुद्धो विद्याचरणसम्पन्नः सुगतो लोकवितनुत्तरपुरुषदौम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवानिति ।

तथागत इति यथाभूतमार्गयानेन संसाधितसम्यक्सम्बोधित्वात्तथागत इत्युच्यते । यद्यदुपदिशति सर्वं तत्त्वमेव भवति न मृषा । यथा भगवानानन्दमामन्त्र्याह- तथागतप्रोक्तमुभयकोटिकं न वा । नो भगवन इति । अतस्तथावादीत्युच्यते ।

अथ पुनस्तथागतो यां रात्रिमभिसम्बुद्धः । याञ्च रात्रिं परिनिर्वृतः । अत्रान्तराले यत्भाषते तत्सत्यमेव भवति नान्यथा । तस्माद्यथार्थवादीत्युच्यते । सर्वाकारसर्वज्ञज्ञानेन पूर्वापरं परीक्ष्य पश्चादुपदिशतीत्यत उपदिष्टं सत्यमेव भवति । किञ्च बुद्धानां भगवतां स्मृतिर्दृढा भवति न मुषिता । केचिदनुमाय यदुपदिशंति तत्कदाचित्सूत्रानुयायि भवति । केचित्तु प्रत्यक्षतो दृष्ट्वैवोपदिशन्ति । तैरुपदिष्ठं लाभाय वा भवति हानाय वा । यथोक्तं सूत्रे- अनुमातुर्वचनं लाभाय कदाचित्भवति हानाय वा कदाचित् । तथागतस्तु (
१६) धर्मानभिसम्बुध्योपदिशति । इति । तस्मादकम्प्यवचनस्तत्त्वोपदेष्टेत्युच्यते । भगवतोपदिष्टं तत्त्ववचनं भवति नान्येषामिव सतत्त्वमतत्त्वञ्चेत्यतोऽकम्प्यम् ।

कालानुरूपञ्चोपदिष्टम् । यथोक्तं सूत्रे- भगवान् सत्त्वानां चित्तप्रामोद्यमधिमुक्ति ञ्च प्रज्ञाय मार्गमुपदिशति इति । यथार्थवक्ता भवति । यदुपदेशार्हं तदेवोपदिश्यते । यथोक्तं किंशुकशिर्षक सूत्रे यो धर्म उपदेशार्हः तमुपदिशति संक्षेपतो विस्तरतो वा स्कन्धायतनादिमुखेन इति । अत उपदिष्टं नैव मृषा भवति ।

अथ पुनर्धर्माववादो द्विविधः संवृतितः परमार्थत इति । तथागत इदं सत्यद्वयं निश्रित्योपदिशतीत्यत उपदिष्टं सर्वं तत्त्वं भवति । भगवान्नोपदिशति यत्संवृतिसत्यं तत्परमार्थसत्यमिति । न च यत्परमार्थसत्यं तत्संवृतिसत्यमिति । अतो वचनद्वयं न विरुध्यते । अथ तथागतेन यदि वा संव्रियते यदि वा विव्रियते तदुभयमप्यविरुद्धम् । यत्संवरणाय भवति न तत्विब्रियते । यत्विवरणाय भवति न तत्संव्रियते । अतो यत्किमपि वचनमविरुद्धम् ।

किञ्च त्रिविधा अववादधर्मा दृष्टिजोऽभिमानजः प्रज्ञप्तिजश्चेति । भगवतो नास्ति आद्याववादद्वयम् । तृतीयोऽववादस्तु परिशुद्धोऽमलः । सन्ति च चतुर्विधा अववादाः दर्शनश्रवणमननिध्यप्तिधर्मा इति । भगवानेषु चतुर्षु धर्मेषु यद्यदुपदिशति तत्सर्वं चित्तव्यवदानाय भवति नासङ्गाय । पञ्चविधा अपि अववादधर्माः अतीतानागतप्रत्युत्पन्नासंस्कृतावक्तव्या इति । एषु पञ्चसु भगवान् सम्बुद्धः सन् व्यक्तरमभिज्ञायोपदिशति । अतो यथार्थवादीत्युच्यते । यथाभूतवचने नैपुण्यात्तथागत इत्युच्यते ।

क्षीणक्लेशत्वातिमं धर्म लब्धवान् । रागद्वेषमोहादयो मृषावादस्य मूलम् । तानि संयोजनानि निरुद्धवानिति अर्हन् । अथ तथागतस्योपदेशोऽर्हन् । संयोजननिरोधः सम्यक्सम्बोधात्भवति । अनित्यतादिना धर्मान् सम्यक्भावयतः क्लेशाः क्षीयन्ते । अतः सम्यक्सम्बोधिमुपादाय अर्हद्धर्मः प्रवर्तते । सम्यक्सम्बोधिरियं विद्याचरणजनिता । पूर्वान्तापरान्तयोश्च नास्ति सन्ततिरिति सम्यक्प्रतिसम्बुध्यत इति सम्यक्सम्बुद्ध इति नाम । (
१७) दानादिपारमिताः समाचरतीति विद्याचरणसम्पन्नः । अन्येऽपि पुरुषा अनादिसंसारे दानादीन् धर्मानाचरन्ति न सम्यगाचरन्तीति न सुगत इत्युच्यन्ते । भगवान् पुनर्दानादिचर्याः सम्यङ्मार्गेण चरितवानिति सुगत इत्युच्यते । दानादिपञ्चधर्माणां लाभी तथागतः स्वार्थगुणसम्पन्नः । सम्यक्सम्बोधिमनुप्राप्य लोकानां मनसि चिन्तितं प्रजानाति । [अतो लोकवित्] । चिन्तितञ्च प्रज्ञाय धर्ममुपदिशतीति अनुत्तरः पुरुषदौम्यसारथिः । विनेतव्या नाविनीता भवन्ति । विनीताश्च न भ्रश्यन्ति । विनेतव्याश्च देवमनुष्याः । अतो देवमनुष्याणां शास्ता । केचित्विचिकित्सन्ते कथं मनुष्येण देवा अववदितुं शक्यन्त इति । अत आह- अहं देवमनुष्याणां शास्ता इति । बुद्ध इति अतीतानागतप्रत्युत्पन्नानां संस्कृतासंस्कृतसक्षयाक्षयाणां स्थूलसूक्ष्मादीनां वा सर्वेषां धर्माणाम् । बोधिमूले निषद्य अविद्यामिद्धमविध्य सर्वज्ञानोज्वलितां महाबोधिं लब्धवानिति बुद्धः । एवं नवभिर्गुणैः सम्पन्न त्रिषु अध्वसु दशसु दिक्षु सर्वलोकधातुषु च पूज्य इति भगवान् । भगवान् दशनामसम्पन्नः स्वात्मसम्पदा परसम्पदा च आत्मानमुपकरोति परांश्चोपकरोतीत्यतोऽभिवन्द्यः ॥

दशनामवर्गश्चतुर्थः ।


५ त्रिविधारक्षावर्गः

तथागतस्य कायिकवाचिकमानसिककर्माणि अरक्ष्याणि । कुतः । न हि सन्ति तथागतस्य कायिकवाचिकमानसिकदुश्चरितानि यानि[तथागतो रक्षितु]मिच्छेत्मा परो द्रक्ष्यात्मा च ज्ञासीतिति । अन्येषां पुरुषाणां सन्ति कदाचिदव्याकृताभासानि कायिकवाचिकमानसिकदुश्चरितानि विद्वद्गर्हणीयानि । तथागतस्य तु न सन्ति । कस्मात् । तथागतस्य सर्वाणि कर्माणि प्रज्ञासम्यक्स्मृतिभ्यामुत्पद्यन्ते । ये मुषितस्मृतिका दुष्प्रज्ञाः । न त ईदृशकर्माणो भवन्ति । लौकिकाः कदाचित्व्यतिवृत्तभ्रान्तवादिनो भवन्ति । (
१८) तथागतस्तु न तत्समः । तथागतः कायेन सुभावितवान् शीलसमाधिप्रज्ञा स्तत्तुल्यान् धर्माश्च । अतः सर्वाण्यकुशलानि अकुशलाभासानि च कर्माणि सर्वथा परिक्षीणानि । भगवान् दिर्घकालादारभ्य सद्धर्मचर्यां भावितवान्नेदानीमेव । अतस्तत्कर्माणि विशुद्धस्वभावानि नारक्ष्याणि । तथागतः सदा शीलमाचरति अधिमुक्तितो न दुर्गतिपतनभयादिना । तथागतस्य च सर्वाणि कायिकवाचिकमानसिककर्माणि परोपकाराय भवन्ति इति नाकुशलानि । अकुशलाभावान्नारक्ष्याणि । विशुद्धत्वादरक्ष्यं कर्म इत्यतोऽभिवन्द्यः । तथागतस्त्रिविधस्मृत्युपस्थानसमन्वितः येनाभिवन्दनीये भवति ।

धर्म उपदिश्यमाने यदि श्रोता एकाग्रचित्तो भवति । नानेन [तथागतस्य] सौमनस्यं भवति । यदि नैकाग्रचित्तो भवति । नानेन दौर्मनस्यं भवति । सर्वदा तु उपेक्षाचित्तमाचरति । कस्मात् । तथागते रागद्वेषवासनाया अवशेषितत्वात् । सर्वधर्माणामत्यन्तशून्यतां ज्ञातवानिति न दौर्मनस्यं न वा सौमनस्यम् । सुसञ्चितमहाकरुणाचित्तत्वात्तथागतः कुशले अकुशले च विना सौमनस्यदौर्मनस्यादि महाकरुणामेवोत्पादयति । तथागतः सत्त्वानां पृथक्पृथक्स्वभावमतिगहनं परिज्ञातवानित्यतो यदि कश्चित्कुशलचित्तः शृणोति नानेन सुमनस्को भवति । यदि अकुशचित्तः शृणोति नानेन दुर्मनस्को भवति । प्रकृतितः सर्वदा उपेक्षाचित्तमाचरति । किञ्च तथागतो महापृथिवीवत्ध्रुवचित्तो भवति । गुरुवस्तुन्यपगते नोन्नतो भवति । तस्मिन् प्रक्षिप्तेऽपि न पुनरवनतो भवति । अन्ये प्राकृता जनास्तु यथोदितचित्ता भवन्ति । किञ्चिदारोपेऽवनता भवन्ति । किञ्चिदवरोपे उन्नता भवन्ति । बुद्धो भगवान्महाकारुणिक इत्यतो देवमनुष्याणामभिवन्दनीयः ।

परमं ध्यानसमाधिसुखमुपेक्ष्य जनानां धर्ममुपदिशति । अन्येषां करुणाचित्तं न कृत्यकृत् । भगवतस्तु महाकरुणा सत्त्वानामुपकारिणीति फलवती भवति । महाकरुणया संसाधितोऽनुत्तरो मार्गो न पुनरन्यैः कारणैः । अथ पुनस्तथागतस्य नास्ति कापीच्छा- मम परमा सन्तुष्टिरिति । महाकारुणिकत्वात्स्वात्मानं क्लेशयति । तथागतः प्रकृत्या सूरतः । महाकारुणिकत्वात्भवदुःखहृद्वचनेन महोपाये न सत्त्वानामुद्धरणाय व्यवसायदुःखान्युपादत्ते । तथागतो महाकरुणया सत्त्वानामुद्धरणाय लोकेऽस्मिन् तप्तायःपिण्डवत्क्षणमप्यसह्यं पञ्चस्कन्धात्मकं कायमुपादाय विहरति । भगवान् बुद्धः सुभावितोपाक्षाचित्तः तदुपेक्षाचित्तमुपेक्ष्य सदा महाकरुणाचित्तमाचरति । अतः पूजनीयः ।

(
१९)
तथागतः सुजनानां सुजनतमः । कस्मात् । आत्मनो महाहितं प्रापयति परांश्च महाहितं प्रापयति । स्वपरहितकृद्धि सुजनः । तथागतः सत्त्वानां चित्तपरिज्ञाने परमकुशलः यथोक्तं सूत्रे- अहं सत्त्वपरमार्थस्य सुविज्ञः कृपावान् हितकारी इत्यादि । किञ्च बुद्धस्य भगवतो वीर्यादिगुणस्कन्धाः सन्ति । यथा उपालिः शतगाथाभिस्तथागतं स्तुतवान् । तादृशगुणसमन्वितत्वातभिवन्द्यः । तथागतस्य गुणाः स्वयमुक्ताः । यथोक्तमेकोत्तरागमे तथागतवर्गे- स्वयमाह- अहं पुरुषसारथिः पुरुषावतंसः पुरुषहस्ती श्रमणानां परमो ब्राह्मणानामप्युत्तमः आर्याणामधिपोऽप्रमत्तचारी, न सुखदुःखनुयायी मम काय इति ।

(पृ) तथागतः कस्मातात्मानमात्मभावञ्च प्रशंसति । आत्मप्रशंसनं हि सम्मूढलक्षणम् । (उ) भगवान्न ख्यातिलाभमाकांक्षते । परार्थमेवात्मभावं स्तौति । तथागतस्य नास्त्यात्ममतिः । परहितार्थमेवात्मानं स्तौतीत्यनवद्यम् । बहुभिरल्पैर्वा प्रत्ययैरात्मनः प्रशंसा भवति । तथागतस्य गुणानामन्तो न वक्तुं शक्यते । अतो न सम्मूढलक्षणे पतति । आत्मन औद्धल्याभावात् । यथा व्यवदान सूत्रे शारिपुत्रस्तथागतस्याभिमुखं तथागतगुणान् स्तौति । अतोऽभिवन्द्यः । अल्पेच्छतातुष्ट्यादयोऽप्रमाणगुणा स्तथागतकाये वर्तन्ते । कस्मात् । तथागतेन सर्वगुणानां सञ्चितत्वात् । इत्यादिभिः प्रत्ययैरभिवन्द्यस्तथागतः ।

त्रिविधारक्षावर्गः पञ्चमः


(
२०)
६ धर्मरत्नाधिकारे त्रिधाकल्याणवर्गः

(पृ) भवता पूर्वमुक्तं- धर्मोऽभिवन्द्यः इति । केन गुणेनाभिवन्द्यः । (उ) तथागतः स्वयं प्रवचनं प्रशंसति- मया भाषितो धर्म आदौ मध्येऽवसाने च कल्याणं स्वर्थं सुव्यञ्जनं केवलं परिपूर्णं परिशुद्धं पर्यवदातमनुलोमकं ब्रह्मचर्यमिति । आदौ मध्येऽवसाने च कल्याणमिति । जिनशासनमकालिकं कल्याणञ्च बाल्ये यौवने वार्धक्ये च कल्याणम् । प्रवेशे प्रयोगे निर्याणे च कल्याणम् । आदावकुशलं शमयति । मध्ये पुण्यविपाकं हापयति । अवसाने सर्वं हापयति । इदं त्रिधा कल्याणमित्युच्यते । तथागतो नित्यं कालत्रये सद्धर्ममुपदिशति । न तीर्थिका इवासद्धर्मं व्यामिश्रयति । आदौ मध्येऽवसाने च सर्वदा विदुषां कमनीयम्, कालत्रये सर्वदा गभीरम् । नान्यसूत्रवत्रादौ महत्मध्ये सूक्ष्ममवसाने सूक्ष्मतरम् । इत्यादिप्रत्ययैः त्रिधा कल्याणम् ।

स्वर्थमिति । जिनशासनस्यार्थः परमहितकरः । ऐहिकलाभस्य आमुष्मिकलाभस्य लोकोत्तरमार्गलाभस्य च प्रापकम् । नाधिदेवताप्रार्थनारूपबाह्यग्रन्थसमानम् ।

सुव्यञ्जनमिति । प्रादेशिकप्राकृतभाषया सम्यगर्थं प्रकाशयतीति सुव्यञ्जनम् । कस्मात् । भाषणफलं ह्यर्थप्रकाशनम् । अतो भाषितानि अर्थनयं विवेचयन्तीति सुव्यञ्जनम् । जिनशासनं यथावदाचरणयोपदिष्टम् । न तु पठनाय । अतः प्रादेशिकभाषया मार्गं प्रापयतीति सुव्यञ्जनम् । न बाह्यतीर्थकग्रन्थवत्केवलं जपार्हं भवति । [तद्यथा] यो दुष्टः शब्दः यो वा दुष्टस्वरः शब्दः स यजमानं हिनस्ति इति । परमार्थवचनकुशलत्वाद्वा स्वर्थम् । लोकसत्यवचनकुशलत्वात्सुव्यञ्जनम् ।

केवलमिति । तथागतः सद्धर्मं केवलमुपदिशति । न तु प्राग्वृत्तवस्तुप्रपञ्चं करोति । नापि धर्ममधर्मञ्च संकीर्योपदिशति । निरुपधिशेषनिर्वाणार्थत्वात्केवलम् । केवलं तथागत उपदिशतीति वा केवलम् । (पृ) श्रावकनिकायसूत्रं श्रावकभाषितम् । सन्ति कानिचन अन्यानि सूत्राणि च देव[पुत्र]भाषितानि । कस्मादुच्यते केवलं तथागत उपदिशतीति । (उ) धर्मस्यास्य मूलं तथागतसम्भूतम् । श्रावकदेवपुत्रादिभिः सर्वैस्तथागतादववादः (
२१) प्राप्तः । यथोक्तं विनये- धर्मो नाम यत्बुद्धभाषितं, श्रावकभाषितं निर्मितभाषितं देवभाषितं वा संक्षिप्य यानि लोके सुभाषितानि तानि सर्वाणि बुद्धभाषितानि । तस्मात्केवलधर्म इत्याख्यायते ।

परिपूर्णमिति । तथागतभाषितो धर्मो न किञ्चिद्वीयते । यथा रूद्रकसूत्र उक्तं परिपूर्णलक्षणम् । जिनशासने नान्यसूत्राण्यपेक्ष्य सिद्धिर्भवति । यथा व्याकरणसूत्रे पञ्चसूत्राण्यपेक्ष्यैव सिद्धिर्भवति । न तथा जिनशासने । एकस्यामेव गाथायामर्थः परिपूर्णः । यथाभाषत-

सर्वपापस्याकरणं कशलस्योपसम्पदा ।
स्वचित्तपर्यवदपनमेतब्दुद्धानुशासनम् ॥ इति ।

तस्मात्परिपूर्णम् ।

परिशुद्धं पर्यवदातमिति । द्विधा परिशुद्धत्वात्परिशुद्धं पर्यवदातम् । वचनपरिशुद्धत्वात्परिशुद्धम् । अर्थपरिशुद्धत्वात्पर्यवदातम् । तथागतात्श्रुतस्तु सम्यगर्थे निक्षिप्तं यथार्थं वचनं भवति । सम्यग्वचने च निक्षिप्तो यथावचनमर्थो भवति । न तीर्थिकानामिव यथासूत्रं गृह्यते । जिनशासने धर्म आश्रीयते न पुरुषः । धर्मोऽपि नीतार्थसूत्रं निश्रित्य निर्दिश्यते । न नेयार्थसूत्रं निश्रित्य । अयं पर्यवदातधर्म उच्यते [यो] न सूत्रमात्रानुयायी भवति । सन्ति च जिनशासनस्य तिस्रो धर्ममुद्राः- सर्वमनात्मा, सर्वे संस्कृतधर्माः क्षणिका अनित्याः- शान्तं निरोधो निर्वाणमिति । इमा स्तिस्रो धर्ममुद्राः सर्वैरपि वादिभिर्न शक्याः खण्डयितुम् । परमार्थिकत्वाच्च परिशुद्धं पर्यवदातम् ।

(
२२)
ब्रह्मचर्यमिति । आर्याष्टाङ्गिकमार्गो ब्रह्मचर्यम् । निर्वाणाख्यमिदमयं मार्गः प्रापयतीति ब्रह्मचर्यम् ।

ईदृशगुणसम्पन्नत्वाद्धर्मरत्नमभिबन्द्यम् ॥

धर्मरत्नाधिकारे त्रिधाकल्याणवर्गः षष्ठः ।


७ धर्मगुणस्कन्धवर्गः

अथ तथागतः स्वयं स्वधर्मं स्तौति- मम धर्मो निरोधो निर्वाणगामी सम्यक्सम्बोधिजनक औपनायिक इति ।

रागद्वेषादीन् क्लेशाग्नीन निरोधयतीति निरोधः । यथा अशुभभावना कामाग्निं निरोधयति । यथा वा मैत्रीभावना व्यापादं निरोधयति । न तीर्थिकानामिव आहारादिप्रहाणान्निरोधः ।

निर्वाण[गामी]ति । तथागतधर्मोऽत्यन्तनिर्वाणगामी । न तीर्थिकानामिव भवाङ्गे स्थित्वा ध्यानसमाधिष्वासञ्जयति । बुद्धागम उच्यते सर्वे संस्कृताः सादीनवा नानिशंसास्थानमिति । न तु यथा ब्राह्मणाः ब्रह्मलोकादीन् प्रशंसन्ति । अतस्तथागतधर्मो निर्वाणगामी ।

सम्यक्सम्बोधिजनक इति । तथागतस्य सन् धर्मो निर्वाणाय भवति इत्यतः सम्यक्सम्बोधिजनकः । तथागतधर्मेऽस्ति तत्त्वज्ञानं फलम् । यथा श्रुतमयप्रज्ञातश्चिन्तामयी प्रज्ञा भवति । ततो भावनामयी प्रज्ञा भवति । अतो बुद्धधर्मः सम्यक्सम्बोधिजनक इत्युच्यते ।

औपनायिक इति । बुद्धधर्मः पूर्वमात्मनः कल्याणं साधयति । पश्चात्परान् सद्धर्मे स्थापयतीति औपनायिकः ।

बुद्ध धर्मः षड्विधः- स्वाख्यातो [भगवता] सान्दृष्टिकः अकालिकः औपनायिक एहिपश्यकः प्रत्यात्मं वेदयितव्यो विज्ञैः । स्वाख्यात इति । तथागतो धर्मान् यथाधर्मलक्षणमुपदिशति । अकुशलधर्मानकुशललक्षणानिति उपदिशति । कुशलान् कुशललक्षणानिति । अतः स्वाख्यातः ।

(
२३)
सान्दृष्टिक इति । बुद्धधर्मो दृष्ट एव लोके विपाकं प्रापयति । यथोक्तं सूत्रे- प्रातर्विनीतः सायं मार्गमनुप्राप्नोति । सायमुपदिष्टः प्रातर्मार्गमनुप्राप्नोति इति । सान्दृष्टिकं यथा सान्दृष्टिकश्रामण्यफलसूत्र उक्तम् । सान्दृष्टिकाः खलु ख्यातिपूजासत्कारध्यानसमाध्यभिज्ञादीनां लाभाः इति । बुद्धधर्मोऽर्थनययुक्तः । अतः सान्दृष्टिकं पूजासत्कारं प्रापयनौर्ध्वविपाकं निर्वाणश्च प्रापयति । तीर्थिकधर्माणामर्थनयाभावात्सान्दृष्टिकविपाकएव नास्ति । किंपुनरौर्ध्वलौकिकं निर्वाणमिति सान्दृष्टिक इत्युच्यते ।

अकालिक इति । बुद्धधर्मो न कञ्चन दिवसं मासं वत्सरं नक्षत्रं वापेक्ष्य मार्गो भाव्यते । अस्मिन् दिवसे मासे वत्सरे व मार्गो न भाव्यत इति । न ब्राह्मणधर्मवत्वसन्ते ब्राह्मणोऽग्नीनादधीत ग्रीष्मे राजन्य इत्यादि । पुनरुदिते जुहोति अनुदिते जुहोति । यथा पश्यामः पञ्च धान्यानि कालमपेक्ष्योप्यन्ते । तथा बुद्धधर्मोऽपि भविष्यतीति कश्चित्वदेत् । अत आह अकालिक इति । यथोक्तं सूत्रे बुद्धधर्मः स्वाचारश्चर्यास्थितिनिषादनशयनेष्वकालिक इति ।

औपनाउयिक इति । सम्यक्चर्यया सत्त्वान् विमुक्तिमुपनयतीति औपनायिकः ।

एहिपश्यक इति । बद्धधर्मः स्वकायेन साक्षात्कर्तव्यो भविष्यति न परानुवर्तनेन । यथावोचद्भगवान्- मा भिक्षवः केवलं मम प्रवचनाधिमुक्तिका भवत । स्वयमेव परीक्षध्वमयं धर्म आचारितव्यः अयमनाचरितव्य इति । न यथा तीर्थिका वदन्ति स्वशिष्यान्- प्रश्नप्रतिवचनं मा कुरुध्वम् । यथावत्शुचिस्नाता भवत, मा मलिनाभिरुचिकाः । बधिरमूकवत्मम वचनमात्रमनुसरत इति । अत आह एहिपश्यक इति ।

प्रत्यात्मं वेदयितव्यो विज्ञैरिति । बुद्धधर्मो विज्ञानामधिमुक्तिकानाञ्च हितकरः । उपवासादौ परममुग्धाः श्रद्दधन्ते विज्ञैः सुखं न वेद्यत इति । क्लेशसमूहननसम्यक्ज्ञानादिभिर्धर्मै र्विज्ञो मुच्यते । आहारभरितेऽपि स्वदेहे चित्तैकाग्रतावीर्यरागद्वेषसपीडनादीनि (
२४) विज्ञो दृष्ट एव वेदयते । यथा कश्चित्रोगान्मुक्तः अध्यात्मं प्रविवेकं वेदयते । यथा वा शीतलक्षणं वेदयते जलपायी । केचित्सदोषं धर्मं वदन्ति यथा खक्कटलक्षणा पृथिवी इति । किं खक्कटलक्षणमित्यस्य स्पृष्ट्वा वेदयितव्यमिति प्रतिवचनं न विन्दते । यथा जात्यन्धो नीलपीतलोहितावदातान्न व्यवहर्तुं शक्नोति । [तथा] यो बुद्धधर्मरसस्याप्रतिलाभी, न स बुद्धधर्मस्य परमार्थं व्यवहर्तुं शन्कोति । उपशमात्मकत्वात् ।

अथ बुद्धधर्म अध्यात्ममधिगन्तव्यः न धनादिवत्स्वयमधिगम्य परस्मै प्रदातव्यः । यथा पारायण सूत्रे भगवानाह- नाहं [भिक्षव] उच्छेत्स्यामि वः कांक्षाम् । मम धर्ममधिगच्छन्तः स्वयमुच्छेत्स्यथ कांक्षाम् । इति । नायं धर्मः परगामी सनुपलभ्यते, तेजः संक्रमादिवत् । पृथग्जना अविद्यापर्वतप्रतिच्छन्ना न श्रद्धधन्त इमं धर्मम् । यथा अचिरवत श्रामणेरमुपादाय महापर्वतदृष्टान्तमवोचत् । अत आह प्रत्यात्मं वेदयितव्यो विज्ञैरिति ।

बुद्धधर्मो गहनः । विव्रियमाणः सन् सुलभो भवति । सन्त्रस्यतां देवमनुष्याणां मायामपनयति । गहन इति बुद्धधर्मस्य गहनत्वम् । कारणज्ञानात् । लौकिका हि बहवो दृष्टफलं पश्र्यन्तो न जानन्ति तत्कारणम् । अतो वदन्ति ईश्वरादीनि मिथ्याकारणानि । द्वादशाङ्गः प्रतीत्यसमुत्पादो दुर्बोधः, गभीरत्वात् । उत्तानचेतना लौकिका बुद्धधर्मे न गभीरसंज्ञां कुर्वन्ति । न प्रतिबुध्यन्ते प्रतीत्यसमुत्पादधर्मम् । तृणमपि हेतुप्रत्ययैः सञ्चितं परीक्षयितुः तल्लक्षणं गभीरं विवर्तते । यथा भगवता भाषितः प्रतीत्यसमुत्पादधर्मो गहनं वस्तु । [तथा] तृष्णायाः क्षयो वियोगो निरोधो निर्वाणम्, इदं पदं दुर्दर्शम् ।

(पृ) यदि प्रतीत्यसमुत्पादो गभीरः । कुत आनन्द उत्तानक संज्ञामुत्पादितवान् । (उ) केचिद्वा दिनो वदन्ति- नेदं वचनं युक्तम् । आनन्दो महान् श्रावको धर्मलक्षणप्रतिसंवेदी कथं वदिष्यति प्रतीत्यसमुत्पादधर्म उत्तानक इति । सामान्यलक्षणेन प्रतीत्यसमुत्पादं पश्यत उत्तानकसंज्ञोत्पद्यते । कस्मात् । न हि स कर्मक्लेशान् सुविविच्य पश्यति । आदितः शिक्षितस्य वस्तुनः पर्यन्तं लब्धवतो [वा] उत्तानकसंज्ञोत्पद्यते । यथा प्रतिलब्धाभिसम्बोधः (
२५) पुनः प्राथमिकवाक्यमीक्षते । केचित्पुनः गभीरधर्मेऽनिष्पन्नचेतनाः सन्त उत्तानकसंज्ञामुत्पादयन्ति । केचित्तु सत्त्वा उत्तानकसंज्ञामुत्पादयन्ति । तथागतेन धर्मस्य स्वाख्यातत्वात् ।

अथ बुद्धधर्मः शून्यता [देशनः] । शून्यतेयं गभीरा । तथागते नानाहेतुप्रत्ययदृष्टान्तैरर्थं प्रकाशयति सति सुबोधा भवति । बाला अपि जानन्ति यथा सुदा य श्रामणेरादयः । बुद्धधर्मः सारवान् सर्वप्रवचनेषु तत्त्वार्थः प्रधानो भवति । न यथा भारतरामायणादीनि तत्त्वार्थं विना केवलाख्यानरूपाणि । यथा वा राघब्राह्मण आह- भगवान् भिक्षूनर्थधर्मे परमार्थधर्मे योगं शिक्षापयति यदुतास्रवक्षये । इति ।

बुद्धधर्मः सर्वलोकानामर्थायोपदिष्टः, न ब्राह्मणा इव ब्राह्मणधर्मं वदन्त आत्मन एव बोधिमनुप्राप्नुवन्ति; नान्येषां बुद्धधर्मः सत्कार्यः । पञ्चकामेषु आत्मारामा देवमनुष्या अपि श्रद्धधन्ते; इत्यादिभिः प्रत्ययैर्धर्मोऽभिवन्द्यः ।

धर्मगुणस्कन्धवर्गः सप्तमः ।


८ द्वादशाङ्गप्रवचनवर्गः

अथ तथागतशासनं द्वादशधा विभक्तम्- सूत्रं, गेयं, व्याकरणं, गाथा, उदानं, निदानं, अपदानं, इतिवृत्तकं, जातकं, वैपुल्यं, अद्भुतधर्म उपदेशश्चेति ।

सूत्रं स्वकण्ठोक्तं प्रवचनम् ।

गेयं गाथयोद्दिष्टं सूत्रं गाथाभाषितं [तथागत]श्रावकभाषितं वा । (पृ) कस्य हेतोर्गाथया सूत्रोद्देशः । (उ) अर्थस्य दार्ढ्यचिकीर्षया । यथा रज्जुनिबद्धानि कुसुमानि दृढानि भवन्ति । पुरुषाणां संप्रहर्षणाय शब्दालङ्कारेच्छया च । यथा अलङ्करणाय पुष्पाणि विकीर्यन्ते माला वा ध्रियते । गाथानिबद्धोऽर्थः संक्षिप्तः सुगमो भवति । केचित्सत्त्वा गद्यवचनाधिमुक्तिकाः । केचित्तु गाथाधिमुक्तिकाः । पूर्वं कण्ठोक्तस्य धर्मस्य पश्चाद्गाथयोपदिष्टस्यार्थः स्पष्टप्रतीतः श्रद्धादार्ढ्यकृद्भवति । गाथानिबद्धोऽर्थः सासक्ति क्रमशः सुपाठ्यो भवति । अतो गाथामाह ।

(
२६)
केचिदाहु- शास्तुः शासनं न काव्यप्रतिरूपया गाथया रचयितव्यमिति । तदयुक्तम् । गाथया रचयितव्यमेव । कस्मात् । भगवता अर्थानां गाथया भाषितत्वात् । यथाह सूत्रम्- सर्वे लोकाः सुप्रणीतवचननिरूक्तिका मम प्रव्रजिताः । इति । तस्माद्गाथा सुप्रणीतवचना भवति ।

व्याकरणम् । अर्थविभङ्गसूत्राणि व्याकरणमित्युच्यन्ते । यत्सूत्रमप्रतिवचनमविभङ्गं यथा चतुःप्रतिसं विदादिसूत्रं तत्सूत्रमित्युच्यते सप्रश्नप्रतिवचनं सूत्रन्तुयथोच्यते- चत्वारः पुद्गलाः । [कतमे चत्वारः] । तमस्तमःपरायणः, तमोज्योतिःपरायणः, ज्योतिर्ज्योतिःपरायणः, ज्योतिस्तमःपरायणः । तमस्तमःपरायणः कतमः । यथा कश्चित्दरिद्रो विविधान्यकुशलकर्माणि कृत्वा दुर्गतौ पतति । इत्यादि सूत्रं व्याकरणम् । (पृ) कस्य हेतोर्भगवानुपदिशति अप्रश्नप्रतिवचनमविभङ्गञ्च सूत्रम् । (उ) कानिचन सूत्राणि गभीरगुर्वर्थनयानि । तेषां सूत्राणामर्थोऽभिधर्मे विविच्य वक्तव्य इत्यतोऽविभङ्गमुपदिशति ।

केचिदाहुः- तथागतभाषितानि सर्वाणि सूत्राणि सार्थविभङ्गानि । किन्तु सङ्गीति कारा गभीरसूत्रार्थान् सङ्गृह्याभिधर्मे प्राक्षिपन् । यथा बाह्याभ्यन्तरसंयोजनिकः पुरुषः सदा रात्रावर्थं विभजते । इत्यनेन हेतुना अयमर्थः संयोजनस्कन्धे निवेशितव्य इति ।

गाथा- द्वितीयमङ्गं गेयमित्युच्यते । गेयमेव गाथा । द्विविधा गाथा । गाथा च श्लोकः । श्लोकश्च द्विविधः क्लेशभागीयोऽक्लेशभागीय इति । अक्लेशभागीय गेय उच्यमानो गाथेत्युच्यते ।

द्विविधां गाथां विहायान्यत्गाथारहितं सूत्रमुदानमित्युच्यते ।

निदानं सूत्रनिदानम् । कस्मात् । तथागतैरार्यैश्चोपदिश्यमानानि सूत्राणि अवश्यं सनिदानानि भवन्ति । तानि सूत्रनिदानानि कदाचित्सूत्र एव वर्तन्ते अन्यत्र वा वर्तन्ते । तस्मान्निदानमित्याख्या ।

(
२७)
अपदानम्- पौर्वापर्यक्रमकथनमिदम् । यथोक्तं सूत्रे- विदुषां भाषणं सक्रमं सार्थं सविभङ्गमविक्षेपकम् । इति । इदमपदानम् ।

इतिवृत्तकम्- इदं सूत्रस्य निदानं भवति, सूत्रस्यानन्तरञ्च भवति । यदि द्वितयमिदं सूत्रस्यातीताध्ववृत्तिकं भवति । ततितिवृत्तकमित्युच्यते ।

जातकम्- प्रत्युत्पन्नं वस्तूणदाय तदतीतवस्तुवर्णनम् । तथागतोऽनागतं वस्तु कथयन्नपि अतीतं प्रत्युत्पन्नमुपादायैव कथयतीत्यतः पृथङ्नोच्यते ।

वैपुल्यम्- भगवतो विपुल उपदेशो वैपुल्यम् । केचिन्न श्रद्दधन्ते यन्महामुनय उपशमाभिरता न विक्षेपविघाते सुप्रीतिका लौकिकसंभिन्नप्रलापान्निर्विण्णाः समुल्लुञ्छितेन्द्रियग्रामारामाश्च सन्तो न विपुलोपदेशायाभिरोचन्त इति । यथोक्तं सूत्रे- मार्गस्य प्रतिलाभी पुरुषो द्वौ मासावतीत्य एकमक्षरमुच्चारयति । इति । तद्व्यावर्तानयोच्यते अस्ति वैपुल्यसूत्रं परार्थाय । यथोक्तं- तथागतो वैपुल्यतः संक्षेपतश्च द्विधा धर्ममुपदिशति । तत्र वैपुल्यं संक्षेपात्प्रकृष्टमिति ।

अद्भुतधर्मः- अद्भुतसूत्रम् । यथाह कल्पान्ते भूतानि विकृतवृत्तानि, देवकाया महाप्रमाणाः पृथिवी च सम्प्रकम्पन्ते । इति । केचिन्न श्रद्दधन्त ईदृशानि वस्तूनि । अत उच्यत इदमद्भुतसूत्रम् । कर्मविपाकधर्माणामचिन्त्यशक्तेर्दर्शनात् ।

उपदेशः- महाकात्यायनादयो महाज्ञानिनो भगवद्भाषितं सुविस्तृतं व्यभजन्त । केचिन्न श्रद्दधन्ते नेदं बुद्धभाषितमिति । तदर्थं भगवानाह- अस्ति शास्त्रात्मकसूत्रमिति । सूत्रस्य शास्त्रप्रतिरूपत्वादर्थः सुगमो भवति ।

इमानि द्वादशाङ्गानि सूत्राणि शास्तुःप्रवचनम् । धर्मरत्नमीदृशगुणसम्पन्नमित्यतोऽभिवन्द्यम् ॥

द्वादशाङ्गप्रवचनवर्गोऽष्टमः ।


९ सङ्घरत्नाधिकारे आद्यविशुद्धिवर्गः

(पृ) भवता पूर्वमुक्तम्- सङ्घोऽभिवन्द्य इति । कस्मादभिवन्द्यः । (उ) तथागतः सर्वत्न सङ्घं प्रशंसति- सङ्घरत्नमिदं शीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनस्कन्धविशुद्धम्, (
२८) आह्वनीयं, प्रह्वनीयं दक्षिणेयमञ्जलिकरणीयमनुत्तरं पुण्यक्षेत्रं दायकानां हितकरमिति ।

शीलस्कन्धविशुद्धमिति । तथागत श्रावकसङ्घः अनेडकं शीलं धारयन् यावदल्पापराधेऽपि परमत्रासशङ्की भवति । जिनौरसाः पुण्यविपाकाय न देवमनुष्यादिषूत्पद्यन्ते । नरकादिभ्योऽप्यभीताः शीलं सप्रयत्नं धारयन्तः केवलं सद्धर्माभिरता भवन्ति । कस्माद्विशुद्धं शीलम् । विशुद्धशीलधारणञ्च न कालपरिच्छिन्नम् । न ब्राह्मणानामिव षाण्मासिकं शीलधारणम् । [अपितु] दीर्घरात्रं यावदन्तमुपादीयते । अतो विशुद्धम् । विशुद्धं शीलमन्तद्वयविमुक्तं पञ्चकामगुणविमुक्तं दुःखकायविसुक्तञ्च दधते । अत आर्याणां कान्तशीला भवन्ति । तच्छीलं विज्ञानाञ्च प्रियं भवति । चित्तं विशुद्धमित्यतः शीलमपि विशुद्धम् । प्रशमिताध्याशयदोषा न केवलं शीलं रक्षन्ति । परलोकादपि बिभ्यन्ति । अतः सङ्घरत्नं शीलस्कन्धविशुद्धम् ।

समाधिस्कन्धविशुद्धमिति । यः समाधिस्तत्त्वज्ञानमुत्पादयति स विशुद्ध इत्युच्यते ।

प्रज्ञास्कन्धविशुद्धमिति । प्रज्ञा क्लेशान् क्षपयतीत्यतो विशुद्धा ।

विमुक्तिविशुद्धमिति । या सर्वक्लेशानां क्षयं प्रापयति न केवलं विघ्नयति । अतो विमुक्तिर्विशुद्धा ।

विमुक्तिज्ञानदर्शनविशुद्धमिति । क्षीणक्लेशानां ज्ञानं भवति यदुत क्षीणा मे जातिरिति । नाक्षीणक्लेशानाम् । इदं विमुक्तिज्ञानदर्शनं विशुद्धम् ।

आह्वनीयं प्रह्वनीयं दक्षिणेयमञ्जलिकरणीयमिति । ईदृशगुणसम्पन्नत्वाताह्वनीयं प्रह्वनीयं दक्षिणेयमञ्जलिकरणीयम् ।

[अनुत्तरं] पुण्यक्षेत्रमिति । तत्र रोपितेन पुण्येन अप्रमाणविपाकं प्रतिलभते । तत्यावन्निर्वाणञ्च न क्षीयते ।

दायकानां हितकरमिति । दायकानां गुणान् वर्धयति । यथा अष्टाङ्गसमन्वितं (
२९) क्षेत्रं पञ्चविधधान्यान्यतिशयेन संवर्धयति न विनाशं गमयति । तथा सङ्घक्षेत्रमपि अष्टाङ्गसमन्वितमित्यतो दायकानां गुणान् वर्धयति । अतोऽभिवन्द्यम् ॥

सङ्घरत्नाधिकारे आद्यविशुद्धिवर्गो नवमः ।


१० आर्यविभागवर्गः

[पृ] केन धर्मेण सङ्घ इत्याख्यायते । (उ) चतुर्विधाः प्रतिपत्तयञ्चतुर्विधाः प्रतिपन्नकाः शीलसमाधिप्रज्ञादिगुणाश्च परिशुद्धा इत्यतः सङ्घ इत्याख्यायते ।

चतुर्विधाः प्रतिपत्तयःस्रोतआपत्ति सकृदागिप्रतिपत्तिअनागामिप्रतिपत्ति अर्हत्प्रतिपत्तयः । चतुर्विधाः फलस्थिताः स्रोतआपन्नसकृदागाम्यनागाम्यर्हन्तः । स्रोतआपत्तिप्रतिपत्तौ त्रयः पुद्गलाः श्रद्धानुसारिप्रतिपन्नको धर्मानुसारिप्रतिपन्नकोऽनिमित्तानुसारिप्रतिपन्नक इति । श्रद्धानुसारिप्रतिपन्नक इति । योऽलब्धानात्मशून्यताज्ञानो भगवच्छासने श्रद्दधानो भगवद्वचनमनुसृत्य प्रतिपन्नो भवति । स श्रद्दानुसारिप्रतिपन्नक इत्युच्यते । यथोक्तं सूत्रे अहमस्मिन् वस्तुनि श्रद्धया प्रतिपन्नः । इति । लब्धे तु तत्त्वज्ञाने न श्रद्धामात्रमनुसृत्य प्रतिपद्यते । यथोक्तं सूत्रे- नास्ति कारको नास्ति श्रद्धालुरित्यादि प्रजाननुत्तमपुद्गलो भवति । इति । अतो ज्ञायते अलब्धतत्त्वज्ञानः श्रद्धानुसारिप्रतिपन्नक इति । यथोक्तं सूत्रे- यो धर्मे क्षान्तिसुखं प्रज्ञया भावयति स श्रद्धाप्रतिपन्नकः [यः] पृथग्जनभूमिमतिक्रान्तः स्रोतआपत्तिफलञ्च नालभत । अत्रान्तरे जीवितान्तं नालभत । स श्रद्धाप्रतिपन्नकः । इति । अयं श्रुतचिन्तामयप्रज्ञायां स्थितो धर्मणां क्षान्तिकामसुखचित्तं सम्यक्भावयननात्मशून्यताज्ञानमलभमानोऽपि लौकिकं धर्मक्षान्त्याभासचित्तमुत्पादयति । अयं स्वयमागत इति अतिक्रान्तपृथग्जनभूमिरितित्युच्यते । कस्मादिति पश्चाद्वक्ष्यते । यः श्रद्धादि पञ्चेन्द्रियविरहितः स (
३०) बाह्यपृथग्जनेषुवर्तते । स क्रमेण उष्मादिधर्मेषु स्थितौ भावनामयीं प्रज्ञां लभमानोऽपि मौलनाम्नैव श्रद्धानुसारीत्युच्यते । धर्मप्रतिपन्नकभावानुगामित्वात् । अस्मात्सूत्रात्वक्तव्यमवश्यं स्रोतआपत्तिफलं लप्स्यत इति । न वक्तव्यं जीवितान्ते न लप्स्यत इति । कस्मात् । श्रद्धाप्रतिपन्नकस्यास्य विप्रकृष्टत्वात् । यथोग्रेण सङ्घे निमन्त्रिते देवता उपसंगम्यारोचयन्ति- अमुकोऽर्हनमुकोऽर्हत्प्रतिपन्नको यावदमुकः श्रोतआपन्नः अमुकः स्रोतआपत्तिप्रतिपन्नक इति । यद्ययं पञ्चदशचित्तक्षणवर्ती
नारोचनं लब्धुं शक्यते । इति ज्ञातव्यं स्रोतआपत्तिप्रतिपन्नकः सन्निकृष्टो विप्रकृष्टश्च । अयं श्रद्धाप्रतिपन्नक इत्युच्यते ।

धर्मानुसारिप्रतिपन्नक इति । अयं लब्धानात्मज्ञान ऊष्ममूर्धक्षान्त्यग्रधर्मेषुस्थितो धर्ममनुसृत्य प्रतिपद्यते यदनात्मशून्यादि । अयं धर्मप्रतिपन्नक इत्युच्यते । इमौ द्वौ प्रतिपन्नकौ सत्यदर्शनमार्गमवतार्य निरोधसत्यं पश्यत इत्यतोऽनिमित्तप्रतिपन्नक इत्युच्यते । इमे त्रयः पुद्गलाः स्रोतआपत्तिप्रतिपन्नका भवन्ति । लौकिकमार्गे संयोजनप्रहाणात्फलत्रयप्रतिपन्न इति न प्रथां लभन्ते । इदं पश्चाद्वक्ष्यते ।

स्रोतआपन्न इति । यथोक्तं भगवता सूत्रम्- सत्कायदृष्टिदृष्टिविचिकित्साशीलव्रतपरामर्शानां त्रयाणां सयोजाननां परिक्षयात्स्रोतआपन्नो भवति अविनिपातधर्मा नियतः सम्बोधिपरायणः सप्तकृत्भवपरम इति । (पृ) यः स्रोतआपन्नः स सत्यदर्शनप्रहीणक्लेशोऽत्यन्तपरिक्षीणाप्रमाणदुःखः पृथिवीसम इति औपम्यसूत्रमाह । कस्मादुच्यते केवलं त्रयाणां संयोजनानां परिक्षयादिति । (उ) इदमुत्तरत्र वक्ष्यते यदुत सत्यदृष्टिक्षयादन्ये क्षीणा इति । अविनिपातधर्मेति । इदमपि पश्चाद्वक्ष्यते कर्मस्कन्धे । नियतः सम्बोधिपरायण इति । धर्मस्रोतस्यवतरन्नियतं निर्वाणमनुप्राप्नोति । यथा गङ्घौघवर्ती दारुस्कन्धो विनाष्टप्रत्ययान् (
३१) नियतं महासमुद्रमनुप्राप्नोति । सप्तकृद्भवपरम इति । स सप्तसु अध्वस्वनास्रवज्ञानं परिपाचयति । यथा [गर्भः] कललादिना सप्तसु दिनेषु परिणमति । यथा च नवनीतादि सप्तदिनपरमं सेवमानस्य ध्रुवा ग्लानिरपि जर्जरिता भवति । यथा च ज्ञातिसम्बन्धः सप्तसन्तानान् याति । यथा च सप्तफणसर्पदष्टः पुद्गलकायश्चतुर्भूतबलात्सप्तपदानि गच्छति नाष्टमं विषबलाद्गच्छति । यथा च शाठ्यधर्मः सप्ताध्वपरमो याति । यथा वा सप्तदिनेप्वतीतेषु कल्पाग्निः शाम्यति । एवं सप्तजन्मसु सञ्चितानास्रवप्रज्ञाग्निना क्लेशाः क्षीयन्ते । धर्मस्य सप्तभवाः स्युः । स्रोतआपन्नोऽस्मिन्नध्वनि निर्वाणेऽवतरति । द्वितीयं तृतीयं सप्तपरमं वा याति । अयं स्रोतआपन्न इत्युच्यते ।

सकृदागामिप्रतिपन्नक इति । भावनाहेयसंयोजनस्य नवस्कन्धा भवन्ति । य एकं द्वौ वा प्रहाय त्रीन् चतुरः पञ्च वा याति । स सकृदागा मिप्रतिपन्नकः ।

केचिदाहुः- एकेनानावरणमार्गेण प्रजहाति इति । तदयुक्तम् । भगवतोक्तमप्रमाणचित्तैः प्रजहाति । यथा वाशीजटा इति औपम्यसूत्र उक्तम् । सकृदागामिप्रतिपन्नकः कुलंकुल इत्यपि आख्यायते । स द्वे वा त्रीणि वा कुलानि सन्धावति संसरति । दृष्ट एव वा काये निर्वाणेऽवतरति । अयं सकृदागामिप्रतिपन्नकः ।

सकृदागामी इमं लोकं सकृदागत्य दुःखस्यान्तं करोति । स भावनापरिक्षीणतनुसंयोजनः । (
३२) संयोजनानां तनुत्वे स्थितः सकृदागामीत्युच्यते । अयं सकृदागामी इहैव वा जन्मनि दुःखस्यान्तं करोति ।

अनागामिप्रतिपन्नक इति । यः परिक्षीणसप्तमाष्टमसंयोजनस्कन्धः सोऽनागामिप्रतिपन्नकः । परिक्षीणाष्टमसंयोजनोऽयमेकबीजी अनागामिप्रतिपन्नकः । स इहैव वा जन्मनि दुःखस्यान्तं करोति । अत्यन्तपरिक्षीणकामावचरनव संयोजनस्कन्धोऽनागामी । अनागामिनोऽष्टप्रभेदाः- यदुत अन्तरा परिनिर्वायी, उपपद्यपरिनिर्वायी, अनभिसंस्कारपरिनिर्वायी, साभीसंस्कारपरिनिर्वायी, ऊर्ध्वस्रोतः अकनिष्ठगामी, आरूप्यायतनगामी, परावृत्तजन्मा, दृष्टधर्मनिर्वायी इति । उत्तममध्याधमेन्द्रियत्वात्प्रभेदाः ।

अन्तरापरिनिर्वाय्यपि उत्तममध्याधमेन्द्रियत्वेन त्रिधाभिद्यते । कश्चिदनागामी भवान्निर्विद्यते, अल्पनीवरणो न दृष्टे निर्वाणमनुप्राप्नोति । सोऽन्तरापरिनिर्वाति ।

उपपद्यपरिनिर्वायी त्रिधा भिद्यते उपपद्यनिर्वायी, साभिसंस्कारपरिनिर्वायी, अनभिसंस्करपरिनिर्वायीति । उपपद्यपरिनिर्वायीति । य उत्पद्यमान एव भवान्निर्विद्य परिनिर्वाति । स उपपद्यपरिनिर्वायी । इन्द्रियतैक्ष्ण्यात् । कश्चिदुत्पन्नः सननास्रवमार्गेषु प्रकृत्या स्थितोऽभिसंस्कारमप्रयुज्य परिनिर्वाति । सोऽनभिसंस्कारपरिनिर्वायी । मध्यमेन्द्रियत्वात् । कश्चिदुत्पन्नः सन् कायोपादानेऽतिभीरुरभिसंस्कारमार्गं प्रयुज्य परिनिर्वाति । स साभिसंस्कार परिनिर्वायी । इन्द्रियमान्द्यात् ।

(
३३)
ऊर्ध्वस्त्रोता [अकनिष्ठगा]म्यपि त्रिविधः । य एकस्मादायतनात्च्युतोऽपरस्मिन्नायतन उत्पद्य परिनिर्वाति । स तीक्ष्णेन्द्रियः । यो द्वयोस्त्रिषु वायतनेषु उत्पद्य [परिनिर्वाति] स मध्यमेन्द्रियः । यः सर्वस्मादायतनाच्च्युतः सर्वायतनेषूत्पद्य परिनिर्वाति । स मृद्विन्द्रियः । प्रथमध्यानात्[यो] बृहत्फलदेवगामी स निस्तीर्णो नाम । प्राप्तबृहत्फलो यदि शुद्धावास उत्पद्यते । स न पुनरारूप्यायतनं गच्छति । प्रज्ञाधिमुक्तत्वात्[आरूप्यगो] य आरूप्यायतनं गच्छति । स नैव शुद्धावास उत्पद्यते । समाध्यधिमुक्तत्वात् ।

परावृत्तजन्मेति । यः पूर्वभवे स्रोतआपत्तिफलसकृदागामिफलप्राप्तः पश्चात्प्रवृत्तकायेन अनागामिफलं प्राप्नोति । स न रूपारूप्यधाताववतरति ।

दृष्टधर्मपरिनिर्वायी ति परमतीक्ष्णेन्द्रियो दृष्ट एव काये निर्वाणं प्राप्नोति ।

अथ पुद्गलो द्विविधः श्रद्धाविमुक्तो दृष्टिप्राप्त इति । इन्द्रियभेदात्पुद्गलद्वैविध्यम् । मृद्विन्द्रियः शैक्षो भावनामार्गे स्थितः श्रद्धाविमुक्तः । तीक्ष्णस्तु दृष्टिप्राप्तः ।

योऽनागामि अविकलाष्टविमोक्षः स कायसाक्षी । इमे सर्वे अर्हत्फलप्रतिपन्नकाः संयोजनप्रहाणसाम्यात् ।

यः परिक्षीणसर्वक्लेशः सोऽर्हन । नवविधोऽर्हन- परिहाणलक्षणः, अनुरक्षणलक्षणः मृतलक्षणः, स्थितलक्षणः, प्रतिवेधनलक्षणः, अकोप्यलक्षणः, प्रज्ञाविमुक्तलक्षणः, उभयतोभागविमुक्तलक्षणः, अपरिहाणलक्षण इति । श्रद्धेन्द्रियादिप्राप्त्या अर्हन्तः प्रभिन्नाः ।

(
३४)
परममृद्विन्द्रियः परिहाणलक्षणः, समाधेः परिहाणदुष्टः । समाधिपरिहाण्या अनास्रवं ज्ञानं नाभिमुखीभवति । अनुरक्षणलक्षण इति किञ्चिद्विशिष्टेन्द्रियत्वात्यः समाधिमनुरक्षति स न परिहीयते । अरक्षंस्तु परिहीयते । पूर्वपरिहाणलक्षणस्तु [समाधिं] रक्षन्नपि ततः परिहीयते ॥ मृतलक्षणः ततोऽपि किञ्चिद्विशिष्टेन्द्रियो भवेषु परमं निर्विण्णः । स न समाधिं लब्धवानित्यतोऽनास्रवज्ञानस्याभिमुखीभावो दुर्लभः । लब्ध्वापि प्रीतिर्विनश्यति । अतो मरणार्थी भवति ॥ स्थितलक्षण इति यः समाधिं लब्ध्वा न पराक्रमते न च परिहीयते स स्थितलक्षणः । पुर्वे त्रयः समाधिपरिहाणभागे वर्तन्ते । स्थितलक्षणस्तु समाधिस्थितिभागे वर्तते ॥ प्रतिवेधलक्षण इति । यः समाधिं लब्ध्वा भूयोऽधिकमभिवर्धयति । स समाध्यभिवर्धनभागे वर्तते ॥ अकोप्यलक्षण इति । यः समाधिं लब्ध्वा नानाप्रत्ययैर्न विक्षेपयति । स समाधिप्रतिवेधभागे वर्तते । परमतीक्ष्णप्रज्ञत्वात् । समाधिसमापत्तिस्थितिव्युत्थानलक्षणानां सुगृहीतत्वादकोप्यो भवति । निरोधसमापत्तिमुपादाय द्विविधः पुद्गलः- तत्समाध्यलाभी प्रज्ञाविमुक्तः, तत्समाधिलाभी तु उभयतोभागविमुक्त इति ॥ अपरिहाणलक्षण इति । यः कृतात्क्षयगुणादपरिहीणः । यथोक्तं सूत्रे- भगवानाह- यो भिक्षवो मच्छ्रावकः शयने पर्यङ्के वा अहमहमिकया प्रतिलब्धात्[आस्रव]क्षयान्न परिहीयते । इति । एवं नवविधा अशैक्षाः । पूर्वोक्ता अष्टादश शैक्षा नवाशैक्षाश्च [मिलित्वा] सप्तविंशति [पुद्गलाः] लौकिकं सर्वपुण्यक्षेत्रम् । ते सङ्घे समन्विताः । अतोऽभिवन्द्यं
[सङ्घरत्नम्] ॥

आर्यविभागवर्गो नाम दशमः ।


(
३५)
११ पुण्यक्षेत्रवर्गः

(पृ) कस्मादार्यास्ते पुण्यक्षेत्रमित्युच्यन्ते । (उ) लोभक्रोधादीनां क्लेशानां परिक्षीणत्वात्पुण्यक्षेत्रमित्युच्यते । यथा तृणानाहतः सुबिजाङ्कुर इत्युच्यते । अतो वीतरागाणां दानं महाहितविपाकप्रापकम् । शून्यताचित्ता इत्यतश्च पुण्यक्षेत्रमित्युच्यन्ते । कस्मात् । शून्यलक्षणत्वात्सर्वे रागद्वेषादयः क्लेशा अनुत्पन्ना नाकुशलं कर्मोत्पादयन्ति । आर्या अकृतकधर्मलाभिन इति पुण्यक्षेत्रं भवन्ति । तैर्लब्ध्वा ध्यानसमाधयः सर्वे परिशुद्धाः महाल्पैः क्लेशैर्विशंयुक्तत्वात् । सौमनस्यदौर्मनस्ययोर्निराकृतत्त्वाच्च पुण्यक्षेत्रम् । पञ्च (
३६) चेतोखिलानि प्रहाय प्रतिलब्धविशुद्धचित्तत्वाच्च पुण्यक्षेत्रम् । अष्टक्षेत्रगुणसमन्वित्वात्सप्तविध समाधिपरिष्कारैः सुरक्षितत्वात्सप्तास्रव सन्निरोधित्वातास्रवैरदुष्टम् । शीलादिसप्तपरिशुद्धधर्मसम्पन्नत्वातल्पेच्छासन्तुष्ट्याद्यष्टगुणसमन्वितत्वात् । तत्पारं सन्तीर्य आकांक्षावितरणव्यवसायित्वाच्च पुण्यक्षेत्रम् । उक्तं च सूत्रे प्रस्थानचितमात्र एव कुशलधर्ममाचरितुमभिलषति । किं पुनर्बह्वर्थं प्रयोगम् । इति । ते आर्याः सदा कुशलधर्मानाचरन्तीत्यतः पुण्यक्षेत्रम् । किञ्चोक्तं सूत्रे यस्माद्दायकाद्गृहपतेः शीलवतो भिक्षुः सत्कारमादाय अप्रमाणसमाधिमुपसम्पद्य विहरति । स दायक्तो गृहपतिरप्रमाणं पुण्यं लभत इति । सङ्घे सन्ति केचिदप्रमाणसमाधिसमापन्नाः, केचिदनिमित्तसमाधिसमापन्नाः, केचिदचलसमाधिसमापन्नाः । तेन दानपतिरप्रमाणविपाकं लभते अतोऽपि पुण्यक्षेत्रम् । किञ्चोक्तं सूत्रे- त्रयाणां सन्निपातान्महतः पुण्यस्य प्रतिलाभः । श्रद्धा देयं पुण्यक्षेत्रमिति । सन्ति च सङ्घे बहवो भदन्ताः । भदन्तेषु श्रद्धाचित्तं बाढमुत्पद्यते
। सङ्घस्य दानं नवप्रत्ययसंयुक्तमित्यतो महाफलप्रापकम् । सङ्घदानस्य प्रतिग्रहीता परिशुद्ध इत्यतस्तद्दानमपि अवश्यं परिशुद्धम् ।

दानञ्चाष्टविधम् । (१) परिशुद्धचित्तोऽल्पं देयवस्तु भिन्नशीलस्याल्पशो ददाति । (२) परिशुद्धचित्तोऽल्पं देयं भिन्नशीलस्य बहुशो ददाति । (३) परिशुद्धचित्तो देयमल्पं धृतशीलस्याल्पशो ददाति । (४) परिशुद्धचित्तोऽल्पं देयं धृतशीलस्य बहुशो ददाति । (५) परिशुद्धचित्तो बहुशो [ऽल्पशो वा] ददाति तथा देयं चतुर्विधम् । सङ्घस्य दानमवश्यं द्वे त्रीणि वा प्रसाधयेत् । सर्वे सुजनाः सङ्घमुपादाय (
३७) गुणान् वर्धन्ते । यथेष्टं बोधये परिणमन्ति । सङ्घस्य दीयमानं सर्वं विमुक्तिं प्रापयिष्यति । नैव च संसारे पातयति । सङ्घस्य दीयमानं सर्वं चित्तप्रसाधनाय भवति । यद्येकस्मिन् पुरुषे उत्पन्ना श्रद्धा चित्तं कदाचित्परिशोधयेत्कदाचिद्वा प्रकम्पेत । सङ्घे तु [समुत्पन्ना] श्रद्धा चित्तं परिशोधयेदेव । न पुनः प्रकम्पेत । कस्मिंश्चिदुत्पन्नः स्नेहः चित्तं न गुरुकुर्यात्न प्रचीयेत । सङ्घे तूत्पन्ना भक्तिः चित्तं गुरुकुर्यातप्रमाणालम्बनत्वात्चित्तं प्रचीयेत । सङ्घगणितानां सर्वेषां पुद्गलानां दद्यात् । चित्तमहिम्ना विपाकोऽपि महान् भवति । इत्यादिभिः प्रत्ययैः आर्यपुद्गलाः पुण्यक्षेत्रमित्याख्यायन्ते । अतोऽभिवन्द्यम् ॥

पुण्यक्षेत्रवर्गः एकादशः ।


१२ मङ्गलवर्गः

रत्नत्रयमिदं गुणसम्पन्नमित्यतः सूत्रस्यादावुक्तम्, इदं रत्नत्रयं सर्वस्य लोकस्य प्रथमं मङ्गलम् । यथोक्तं मङ्गलगाथायाम्- बुद्धो धर्मश्च सङ्गश्च एतन्मङ्गलमुत्तममिति । अथ कानिचित्सूत्राणि मङ्गलादीनि शैक्षाणामायुर्यशःप्रसरवर्धनानि इति सूत्रकर्तारोऽभिप्रयन्ति । यथा अथेत्यादिपदं सूत्रारम्भगतमिति । न तन्मङ्गललक्षणमिति पश्चाद्वक्ष्यते । उत्तममङ्गलप्रार्थिना इदं रत्नत्रयमेव शरणीकर्तव्यम् । यथोक्तं मङ्गलगाथायाम्-

देवेषु च मनुष्येषु शास्तानुत्तमनायकः ।
महामतिश्च सम्बुद्ध एतन्मङ्गलमुत्तमम् ॥
यश्च बुद्धे सुविहितश्रद्धाचित्तो न कम्पते ।
विशुद्धशीलसम्पन्न एतन्मङ्गलमुत्तमम् ॥
असेवना च बालानां पण्डितानाञ्च सेवना ।
पूजा च पूजनीयानामेतन्मङ्गलमुत्तमम् ॥िति ।

अतोऽभिवन्द्यं रत्नत्रयम् । उत्तममङ्गलत्वान्मया सूत्रादावुक्तम् ॥

मङ्गलवर्गो द्वादशः ।


(
३८)
१३ शास्त्रस्थापनवर्गः

अधुना लोकानां हितकरो जिनधर्मो जिज्ञास्यते । भगवतो महाकरुणाचित्तेन सर्वलोकानां हितकरत्वात्तद्धर्मोऽपार्यन्तिकबाध इत्युच्यते । तद्यथा केचित्ब्राह्मणानामेव मोक्षशास्त्रमुपदिशन्ति । भगवदुपदिष्टं शास्त्रन्तु चातुर्वर्गीयाणां सत्त्वानामातिर्यग्जन्तूनाञ्च सन्तारकं भवति इति नास्ति पार्यन्तिकबाधा ।

(पृ) न कर्तव्यो बुद्धप्रवचनविचारः । कस्मात् । यदि भगवता स्वयमेव विचारितम् । किमस्ति विचाराय । यदि भगवता न विचारितम् । अन्येऽपि न विचारयितुं शक्नुयुः । कस्मात् । सर्वज्ञाभिप्रायो हि दुरवगाहः । किमर्थमिदमुक्तमिति न ज्ञायते । भगवदभिसन्धिमजानतामुपदिष्टं वृथेति ततात्मनः क्लेशायैव भवति । यथोक्तं सूत्रे- द्वौ पुरुषौ भगवन्तं निन्दतः एकोऽश्रद्धाद्वेषाभ्यां निन्दति, अपरस्तदुपदिष्टे सश्रद्धोऽपि सत्यसमादानासमर्थः । सैव बुद्धनिन्दा । विद्वानपि बुद्धाभिसन्धिमनवबुध्य बुद्धभाषितं न विचारयितुं शक्नोति । किं पुनस्तदलाभी बुद्धाभिसन्धेः कथासम्प्रयोगं चिकीर्षति । कस्मात् । यथा परप्रवादसूत्रे भगवता प्रतिपत्त्यर्थमिदमुक्तम् । सर्वे भिक्षवो नानाविधाः परप्रवादिनो नालभन्त तथागताशयम् । यथा च स्थविरमहाकात्यायनो भिक्षूनवोचत् । यथा च कश्चित्महान्तं वृक्षं छित्वा अतिक्रम्यैव मूलमतिक्रम्यैव स्कन्धं शाखापलाशानि पर्येषयन्ति । तथा यूयमपि तथागतमतिक्रम्यस्मानर्थ पृच्छथ, इति । यदि महाकात्यायन एवार्थविवेचने शाखापलाशान्युदाहरति । किं पुनरन्ये बुद्धप्रवचनं प्रतिपद्येरन् । किञ्च भगवान् शरिपुत्रमपृच्छत्के शैक्षाः के च साङ्ख्या इति । एवं त्रिः पृष्टो नोत्तरमवादीत् । तथागतमूलाः सर्वधर्माः । तथागत एव प्रतिपद्यते नान्ये । इति आनन्द स्तथागतमामन्त्याह- अभिसम्बोधिसमधिगमात्प्रतिलब्धे मार्गे हितं भवतीत्यतदपि युज्यते । कस्मात् । द्वाभ्यां प्रत्ययाभ्यां सम्यक्दृष्टिर्भवति परतो घोषात्योनिशश्च (
३९) मनस्कारात् । भगवानानन्दमवोचत्- अभिसम्बोधिमात्रान्मार्गलाभहितं सम्पन्नं भवति । इति । यथा चाह भगवान्- यदि मया कस्यचित्धर्म उपदिष्टः सोऽप्रतिलब्धमदभिसन्धित्वात्कलहायते । इति ।

अधुना वादिनः पृथक्पृथगभिनिविष्टाः । केचिद्वदन्ति सन्ति अतीतानागतधर्मा इति । केचिद्वदन्ति न सन्ति इति । अतो ज्ञातव्यमेव वादिनः तथागतमप्रतिपद्यमाना यथारुतमनुवर्तमानाः कलहायन्त इति । यथा आनन्दः समाध्यर्थं सर्वाण्युपादानानि दुःखमित्यवोचत् । तदा भगवान् भिक्षूनब्रवीत्- भावयथेममर्थ नानन्दोपमिताकारमिति ।

सर्वे वादिन आहुः- अर्हनग्रदक्षिणीय इति । भिक्षवोऽज्ञात्वा तथागतमुपेत्याप्राक्षुः । भगवानवोचत्- मम शासने अग्रप्रव्रजितोऽग्रदक्षिणीय इति । [एवम्] अन्नपाने स्थूलवस्तुन्येव न जानन्ति [यथावत्] कः पुनर्वादस्तथागतेनभिसन्धाय भाषिते सूक्ष्मधर्मे । इत्यादिना हेतुना न कर्तव्यो विचारः ।

अत्रोच्यते । न युक्तमिदम् । कस्मात् । कारणसत्त्वात्परामिसन्धिर्ज्ञातुं शक्यते । यथोक्तं गाथायाम्-

जानन्ति वक्तुः सन्धानं [परमं] यत्परायणम् ।
जानन्त्यपि च वक्तुश्च विवक्षा यस्य वस्तुनः ॥ इति ।

तत्रास्ति द्विधा मार्ग आर्यमार्गो लौकिकमार्ग इति । इदं पश्चाद्वक्ष्यते । अनेन मार्गेण वक्तुराशयो ज्ञायते । अथ परप्रवाद सूत्रेऽपि भगवान् संश्रावयति स्म । [आर्य]कात्यायनादिभिर्महावादिभिर्भगवदाशयः प्रतिलब्ध इत्यतो भगवान् साधुप्रशशंस । (
४०) उदायिभिक्षुधर्मदिन्नादिभिभिक्षुणीभिः कृतं भगवच्छासनं भगवान् श्रुत्वा [तदेव पुनः] श्रावयति स्म ।

गभीरं तथागतशासनं विवृण्वता शास्त्रं विरच्यते । अविवरणे सन्तिष्ठेत् । एवमन्यः "तथागतमूलाः सर्वधर्मा" इत्यादि प्रश्नः सर्वः प्रत्युक्तः । किञ्च शास्त्रं विरचयितव्यम् । कस्मात् । शास्त्रे विरचित्ते हि अर्थः सुगमः स्यात् । धर्मश्च चिरस्थितिकः स्यात् । भगवांश्च शास्त्रप्रणयनं संश्रावयति स्म । यथोक्तं सूत्रे- भगवानवोचद्भिक्षून्- यथाप्रणीतं शास्त्रं सम्यग्धारयत । इति । अतः सूत्रादर्थमादाय शास्त्रं निकायान्त रात्मना पृथक्स्थाप्यते । अतः शास्त्रं रचयितव्यम् ।

किञ्च भगवान्नानासत्त्वानां सन्तरणीयानां कृते लोकादीनि शास्त्रमुखान्युक्तवान् । यथा स्वात्यादयोऽप्रतिपद्यमाना भ्रान्तमतयोऽभूवन् । स्वात्यादयो भिक्षव आहुः- तदेवेदं विज्ञानं सन्धावति संसरति । अनन्यदिति ।

भगवानेवमादिना नानाधर्ममुपदिष्टवान् । विना शास्त्रं कथमर्थः प्रतिपद्येत । इत्यादिभिः कारणैः शास्त्रं विरचयितव्यम् ॥

शास्त्रस्थापनवर्गस्त्रयोदशः ।


१४ शास्त्रमुखवर्गः

लोकमुखं परमार्थमुखमिति द्विमुखम् । लोकमुखतः अस्त्यात्मा इत्युच्यते । यथोक्तं सूत्रे-

आत्मा हि आत्मनो नाथः को नु नाथः परो भवेत् ।
आत्मनैव कृतं पुण्यमात्मनैव विशुध्यते ।
आत्मनैव कृतं पापमात्मना संक्लिश्यते ॥ इति ।

(
४१)
किञ्चोक्तं सूत्रे- शाश्वतं मनोविज्ञानम् । इति । आह च- दीर्घरात्रं भावितचित्तो मृत ऊर्ध्वजन्मभाक्भवति । इति । किञ्चाह कारकः कर्म करोति, कारकः स्वयमनुभवति । इति । अमुकः सत्त्वोऽत्रोत्पद्यते इत्यादि सर्वं लोकमुखेनोक्तम्, परमार्थमुखतस्तूच्यते सर्वं शून्यमसतिति । यथोक्तं सूत्रे एषु पञ्चसु स्कन्धेषु नास्त्यात्मा वा आत्मीयं वा । चित्तञ्च समीरणज्वलनवत्प्रतिक्षणविनाशि । अस्ति कर्म अस्ति कर्मफलम्, कारकस्तु नोपलभ्यते । इति । यथा भगवानाह- स्कन्धानां सन्तत्यास्ति संसार इति ।

(२) अन्यदस्ति द्विविधं शास्त्रमुखं व्यवहारमुखमार्यमुखमिति । व्यवहारमुखमिति । व्यवहारत उच्यमानम्, [यथा] चन्द्रः क्षीयत इति । वस्तुतस्तु चन्द्रो न क्षीयते । [यथा वा] मृगा रमातेति स्नुषां मातेति वदन्ति । न वस्तुतः सा माता । यथोक्तं सूत्रे- जिह्वा रसं विजानाति इति । जिह्वाविज्ञानं रसं विजानाति न तु जिह्वा । यथा शक्तिप्रतिहतं पुरुषं प्रति वदन्ति पुरुषोऽयं दुःखं विजानातीति । विज्ञानन्तु दुःखं विजानाति, न तु पुरुषः । यथा वा दरिद्रः पुरुषः प्रभुरिति व्यपदिश्यते । बुद्धोऽपि पुरुषवशात्प्रभुरिति ख्यापयति । किञ्च भगवान् तीर्थिकानाकारयति ब्राह्मणानिति श्रमणानिति च । क्षत्रियब्राह्मणादय इव बुद्धोऽपि व्यवहारतः पूज्यो भवति । एकमेव यथा भाजनं देशवशात्विभिन्ननामकम्, बुद्धोऽपि नामानुयाति । यथा भगवानाह- अहं वैशालीं पश्चिमा [वलोक]मवलोकयामीति । एवमादिवचनं व्यवहारमनुवर्तत इति व्यवहारमुखमित्युच्यते ।

(
४२)
आर्यमुखमिति । यथोक्तं सूत्रे- प्रतीत्यसमुत्पन्नं विज्ञानं चक्षुरादीनामिन्द्रियाणां मूलं महासमुद्रवत् । यथाह सूत्रम्- स्कन्धायतनधातूनां प्रत्ययाः सामग्रीमात्रं न कारकः नापि वेदकः इति । सर्वं दुःखमिति चाह । यथोक्तं सूत्रे- यत्लौकिका वदन्ति सुखमिति [तत्] आर्या दुःखं वदन्ति । यतार्या दुःखं वदन्ति [तत्]लौकिकाः सुखं वदन्ति । इति । अभिधेयाः शून्या अनिमित्ता इत्यादि च । ततार्यमुखमित्युच्यते ।

(३) त्रैकालिक शास्त्रमुखम् । यत्र रूपमित्याख्यायते तत्र यदतीतं यदनागतं वर्तमानं सर्वं तत्रूपमित्युच्यते । इदं लौकिकं शास्त्रमुखम् ।

(४) अस्ति चेदिति शास्त्रमुखम् । [यथा] स्पर्शोऽस्ति चेत्, सोऽवश्यं षडायतनमुपादाय भवति । न तु सर्वं षडायतनं स्पर्शस्य हेतूक्रियते । तृष्णस्ति चेतवश्यं सा वेदनामुपादायं भवति । न तु सर्वा वेदना तृष्णाया हेतूक्रियते । कदाचित्समग्रहेतुरुच्यते यथा स्पर्शप्रत्यया वेदना इति । कदाचिदसमग्र हेतुरुच्यते यथा वेदनाप्रत्यया तृष्णा इति । न तूच्यते अविद्येति । कदाचिदन्यथोच्यते । यथोक्तं सूत्रे- प्रीतमनसः कायः प्रश्रभ्यते । अप्रीतस्यापि त्रिभिर्ध्यानैःकायः प्रश्रभ्यते । प्रश्रब्ध[कायः] सुखं वेदयते । इति च चतुर्भिर्ध्यानैः प्रस्रब्धिमानपि न सुखं वेदयते । इतीदमन्यथा वचनम् ।

(५) उत्सर्गोऽपवाद इति द्विविधं शास्त्रमुखम् । यथोक्तं सूत्रे- यश्चै- त्यवन्दनाय पादावुत्क्षिपति स आयुषोऽन्ते देवेषूत्पद्यते इति । अयमुत्सर्गः । सूत्रान्तरमाह- अनन्तर्यस्य कर्ता न देवेषूत्पद्यत इति । अयमपवादः । उक्तञ्च सूत्रे- कामानामनुभविता नापापकं करोति इति । अयमुत्सर्गः । स्रोतआपन्नः पुरुषः कामानुपभुञ्जानोऽपि न दुर्गतिपतनीयं कर्म करोति इति । अयमपवादः । अपि चोक्तं सूत्रे- चक्षुः प्रतीत्य रूपञ्च चक्षुर्विज्ञानमुत्पद्यते इति । अयमुत्सर्गः । यदि तदैव सर्वाणि रूपाणि प्रतीत्य चक्षुर्विज्ञानमुत्पद्यत (
४३) इति वदेत् । तदयुक्तम् । अथ चोक्तं सूत्रे- श्रोत्रं प्रतीत्य शब्दञ्च श्रोत्रविज्ञानमुत्पद्यते न चक्षुर्विज्ञानम् । इति । अयमपवादः । उत्सर्गोऽपवादश्च सर्वः सयुक्तिको न धर्मलक्षणविलोमकः ।

(६) अपरमस्ति द्विविधं शास्त्रमुखम्- विनिश्चितमविनिश्चितमिति । विनिश्चितम्- यथोच्यते- बुद्धः सर्वज्ञः पुरुष इति । भगवतो भाषितः परमार्थो धर्मः । भगवतः श्रावकाः सम्यगाचारशीला इति । किञ्चाह- सर्वे संस्कृतधर्मा अनित्या दुःखाः शून्या अनात्मानः [तेषां]निरोधो निर्वाणमित्यादि मुखं विनिश्चितम् । अविनिश्चितम्- यद्युच्यते म्रियमाणो जायत इति । तदविनिश्चितम् । सत्यां तृष्णायां जायते । तृष्णाक्षये निरुध्यते । किञ्चोक्तं सूत्रे- समाहितस्य तत्त्वज्ञानमुत्पद्यत इति । इदमपि अविनिश्चितम् । आर्याणां समाधिलाभिनां तत्त्वज्ञानमुत्पद्यते । न तु तीर्थिकानां लब्धसमाधिकानामपि । यथाह सूत्रम्- यदभिलषितं तल्लभ्यते इति । इदमपि अविनिश्चितम् । कदाचित्तु न लभ्यते । यदाह- षडायतनं स्पर्शजनकमिति । इदमपि अविनिश्चितम् । किञ्चिज्जनकं किञ्चिन्न जनकम् । एवमाद्यविनिश्चितमुखम् ।

(७) अथ कृतकाकृतकशास्त्रमुखम् । यथोच्यते- अद्भुत मूलिका सुरभिपुष्पञ्च न वातरोगप्रतिकूलमिति । आह- कोविदारपुष्पं वातरोगप्रतिकूलमिति । आद्यस्य मनुष्यपुष्पत्वात्न वातरोगप्रतिकूलमित्युच्यते । द्वितीयस्य दिव्यपुष्पत्वात्वातरोगप्रतिकूलमित्युच्यते । किञ्च वदन्ति तिस्रो वेदना- दुःखा वेदना सुखा वेदना अदुःखासुखा वेदना इति । सूत्रान्तरमाह- विद्यमानाः सर्वा वेदना दुःखमिति । त्रिविधं दुःखं- दुःख- दुःखं, विपरिणामदुःखं संस्कार दुःखमिति । तदर्थमाह- विद्यमानाः सर्वा वेदना दुःखमिति । आह च- दुःखमिदं त्रिविधं नवं पुराणं मध्यमिति । अचिरवेदनायां सुखम् । चिरनिर्वेदे दुःखम् । मध्यमे उपेक्षा ।

किञ्चाह- अभिसम्बुद्धत्वात्परिव्राटिति । अनभिसम्बुद्धोऽषि परिव्राट्भवति । एवमादिलक्षणानां हेतुत आख्या भवति ।

(
४४)
(८) प्रत्यासत्तिः शास्त्रमुखम् । यथा भगवानवोचभ्दिक्षून्- प्रजहत प्रपञ्चम्, तदा निर्वाणं लभध्वे इति । अलब्धेऽपि प्रत्यासत्त्या लभध्वे इत्युच्यते ।

(९) लक्षणसाम्यं शास्त्रमुखम् । यथा एकवस्तुकथने अन्यदपि वस्तु समलक्षणमुक्तं भवति । यथा चाह भगवान्- लघुपरिवृत्तं चित्तम् । तदा अन्येऽपि चैत्तधर्मा उक्ता भवन्ति ।

(१०) भूयोऽनुवर्तनं शास्त्रमुखम् । यथा भगवाना ह- य उदयव्ययलक्षणदृष्टिद्वयं न प्रजानाति स सर्वः सरागी भवति । यस्तु प्रजानाति स वीतरागो भवति । इति । स्रोतआपन्न उदयव्ययलक्षणद्वितयदृष्टिं जानन्नपि सरागो भवति । तत्प्रजानानां भूयस्त्वेन परं वीतरागा भवन्ति ।

(११) कारणे कार्योपचारः शास्त्रमुखम् । यथोच्यते- अन्नदानं प्रयच्छति पञ्च गुणान्- आयुः वर्णं बलं सुखं प्रतिभानमिति । वस्तुतस्तु नायुरादीन् पञ्च गुणान् प्रयच्छति । अपि तु तद्धेतून् प्रयच्छति । किञ्चाहुः कार्षापणमद्यत इति । कार्षापणं नादनीयम् । अपि तु कार्षापणमुपादाय लब्धमद्यते इत्यतः कार्षापणमद्यत इत्युच्यते । यथाह सूत्रम्- स्त्रीपुरुषौ मलमिति । न वस्तुतो मलम् । आसङ्गादिक्लेशमलहेतुत्वात् । मलमित्युच्यते । किञ्चाह- पञ्च विषयाः कामा इति । न वस्तुतः कामाः । कामजनकत्वात् । कामा इत्युच्यन्ते । सुखकारणं सुखमित्युच्यते । यथा वदन्ति- उपचितधर्माणं पुरुषमयं पुरुषः सुख इति । दुःखकारणं दुःखमित्युच्यते । यथा वदन्ति- मूढैः सह संवासो दुःखमिति । यथा वदन्ति सुखोऽग्निः दुःखोऽग्निरिति । आहुश्च- आयुर्हेतुरायुरिति । यथोक्तं गाथायाम्-

जन्मोपकरणसम्पच्च बाह्यं जीवितमस्ति हि ।
धनहारी यथा नॄणां जीवितापहृदुच्यते ॥ इति ।

आहुश्चास्रवहेतुरास्रव इति । यथाह सप्तास्रवसूत्रम्- तत्र द्वौ वस्तुत आस्रवौ, अम्यानि पच्च वस्तूनि आस्रवकारणानि ।

(
४५)
कार्ये कारणोपचारश्चास्ति । यथा भगवानाह- मया पूर्वकर्मानुभवितव्यमिति । कर्मफलमनुभवितव्यमित्यर्थः ।

एवमादीनि बहूनि शास्त्रमुखानि परिज्ञातव्यानि ॥

शास्त्रमुखवर्गश्चतुर्दशः ।


१५ शास्त्रप्रशंसावर्गः

शास्त्रमिदमभ्यसितव्यं कस्मात् । शास्त्रमभ्यसन् पुरुषधर्मज्ञानं लभते । यथोक्तं सूस्रे- द्वौ पुरुषौ स्तः ज्ञोऽज्ञश्च । यः स्कन्धधात्वायतनद्वादशनिदानकारणकार्यादिधर्मविवेकाकुशलः सोऽज्ञः । यस्तु कुशलः, स ज्ञ इति । शास्त्रे चास्मिन् स्कन्धधात्वायतनादीनि सम्यग्विविच्यन्ते । अत इदं शास्त्रमुपादाय पुरुषधर्मज्ञानं लभ्यते । इतीदमभ्यसितव्यम् ।

एतच्छास्त्राभ्यासादप्राकृतो भवति । प्राकृतोऽप्राकृत इति द्वौ पुरुषौ स्तः । यथा वदन्ति- कश्चिन्मुण्डितकेशश्मश्रुको धर्मपटं परिदधानः परिगृहीतबुद्धेर्यापथोऽपि भगवच्छासनाद्दूरीभूतः । श्रद्धेन्द्रियाद्यसमन्वागमात् । यस्तु श्रद्धेन्द्रियादिसमन्वागतः स गृहस्थोऽपि अप्राकृत इत्युच्यते । यथोक्तं सूत्रे- चतुर्विधाः पुरुषाः कश्चित्सङ्घस्येर्यापथेऽवतीर्णः न सङ्घगणितः । कश्चित्सङ्घगणितो न सङ्घस्येर्यापथेऽवतीर्णः । कश्चित्सङ्घेर्यापथे सङ्घगणनायाञ्चावतीर्णः । कश्चिन्न सङ्घेर्यापथेऽवतीर्णो नापि सङ्घगणनायाम् । आद्यः प्रव्रजितः प्राकृतः । अनन्तरो गृहस्थ आर्यः । तृतीयः प्रव्रजितः आर्यः । चतुर्थो गृहस्थ प्राकृतः । इति । अनेन हेतुना श्रद्धेन्द्रियादिविरहितो न सङ्घगणानायामवतरति । अतः श्रद्वेन्द्रियादीनां कृत उद्योगः कार्यः । श्रद्धेन्द्रियलिप्सुना भगवच्छासनं श्रुत्वा उद्दिष्टं प्रातिमोक्षमादाय यथावच्चरितव्यम् । अतोऽभ्यसितव्यमिदं बुद्धधर्मशास्त्रम् ।

किञ्चानेन शास्त्रेण द्विविधं हितं भवति आत्महितं परहितमिति । यथोक्तं सूत्रे- चतुर्विधाः पुरुषाः । कश्चिदात्महिताय प्रतिपन्नो न परहिताय । कश्चित्परहिताय प्रतिपन्नो नात्महिताय । कश्चिदात्महिताय च प्रतिपन्नः परहिताय च । कश्चिन्नैवात्महिताय (
४६) प्रतिपन्नो न परहिताय इति । य आत्मना शीलादीन् सम्पादयति न परान् शीलादिषु स्थापयति । स आत्महिताय प्रतिपन्नः । एवं चतुर्धा । यत्कश्चिदात्महिताय प्रतिपन्नोऽपि परेषाञ्च दानादिमहाफलं सम्पादयति । तदपि परहितम् । तत्र बुद्धानुस्मृते र्नेदं हितमुच्यते । यदि कश्चित्परस्य धर्मोपदेशाय प्रतिपन्नः । तत्परहितम् । स आत्मना धर्मचर्यामनुवर्तमानोऽपि परार्थमुपदेशातात्मनोऽपि हितमनुप्राप्नोति । यथोक्तं सूत्रे- परस्यधर्ममुपदिशन् पञ्चविधं हितं लभते इति । तत्र बुद्धानुस्मृतेरपि नेदमुच्यते । तत्र प्रवचनमात्रस्योत्तमं हितं भवति यद्यथोक्तमाचरत आस्रवाः क्षीयन्ते इति । अतो धर्मस्य प्रक्क्ता परहिताय प्रतिपन्नः । स सहितत्वाच्च पुरुषेषूत्तमः । तद्यथा रसेषु मण्डम् ।

अथ स पुरुष इदानीं ज्योतिषि स्थितः पश्चादपि ज्योतिः परायणो भवति । लौकिकाः सर्वे भूयसा तमस्तमः परायणाः ज्योतिषो ज्योतिः परायणा वा । यः कश्चिद्बुद्धशासनमाचरति स तमसो ज्योतिः परायणः ज्योतिषो ज्योतिः परायणो वा भवति । कस्मात् । दानादीनाचरन्न [तादृशं] हितं विन्दते यादृशं बुद्धधर्मं शृण्वन् [विन्दते] । यश्चाल्प[मपि] बुद्धप्रवचनं शृणोति स प्रतिवेधज्ञानलाभी सन् सर्वक्लेशान् भङ्क्त्वा अप्रमाणहितं प्रसवति । यक्तोक्तं सूत्रे- चत्वारः पुद्गलाः- तमस्तमःपरायणः तमोज्योतिःपरायणः ज्योतिर्ज्योतिः परायणः ज्योतिस्तमःपरायणः इति । किञ्च चतुर्विधाः परायणाः अनुस्स्रोतोगामी प्रतिस्रोतोगामी स्थितात्मा, तीर्णः पारङ्गत इति । यश्चित्तैकाग्र्येण भगवद्धर्मं शृणोति स एव पञ्च नीवरणानि प्रहाय सप्तबोध्यङ्गानि भावयति । अतः स प्रतिरुद्धसंसारस्रोताः प्रतीकूल इत्युच्यते । स च स्थितात्मा पारङ्गतश्च भवति ।

पुनश्चतुर्विधाः पुरुषाः- सदाभवनिमग्नः कञ्चित्कालं भवान्निर्गत्य पुनर्निमग्नः, भवनिर्गमपरीक्षकः भवपारङ्गत इति । यो निर्वाणगामिश्रद्धादिगुणान्नोत्पादयति । स सदा भवनिमग्नः । कश्चित्लौकिकश्रद्धादीनुत्पाद्य न दृढयति पनः परिहीयते । स कञ्चित्कालं निर्गत्य पुनर्निमग्नः । यः श्रद्धादीनुत्पाद्य शुभाशुभं विवेचयति स निर्गमपरीक्षकः । यः निर्वाणगामिश्रद्धादीनुपसम्पाद्य भावयति स पारङ्गतः । यो भगवद्धर्मस्य सम्यगर्थं वेत्ति स नैव सदा निमग्नो भवति । स मुहूर्तं परिहीनोऽपि नात्यन्तं परिहीयते ।

(
४७)
स च गुणाभावयितेत्युच्यते यः कायेन शीलं मनसा प्रज्ञां च भावयति स किञ्चिद्दुष्कर्म कुर्वन्नपि दुर्गतौ पतति । यस्तु भावयति कायेन शीलं मनसा प्रज्ञां स बहु दुष्कर्म कुर्वन्नपि न दुर्गतौ पतति । कायस्य भावयिता श्रुतप्रज्ञाभ्यां कायवेदनाचैत्तान् भावयति । कायं भावयन् क्रमेण शीलसमाधिप्रज्ञास्कन्धानुत्पाद्य कर्माणि प्रजहाति । कर्मणां प्रहाणात्संसारोऽपि निरुध्यते । - उक्तञ्च सूत्रे चतुर्विधाः पुरुषाः- केचितगम्भीरतीक्ष्णानुयाः, केचिततीक्ष्णगम्भीरानुशयाः, केचिद्गम्भीरतीक्ष्णानुशया, केचिदगम्भीरातीक्ष्णानुशयाः । आद्यः अधिमात्रानुशयः काले काल आगच्छति । समनन्तरो यो मृदुमध्यानुशयः स सदागत्य चित्तनिविष्टो भवति । तृतीयो योऽधिमात्रानुशयः सोऽपि आगत्य चित्तनिविष्टः । चतुर्थो यो मृदुमध्यानुशयः स कश्मिंञ्चित्काल आगच्छति । स यदि भगवतः शासने सम्यच्छास्रं शृणोति । स तीक्ष्णगभीराख्यद्विविधाननुशयान् प्रजहाति ।

भगवद्धर्मस्य सम्यगर्थं यो वेत्ति । तस्य नात्मव्याबाधा न परव्याबाधा भवति । तीर्थिकाःशीलमात्रधारिणः स्वकायमेव व्याबाधन्ते । नास्ति पुण्यपापं [नास्ति] कर्मफलमिति मिथ्यादृष्टौ यः पतति सपरानेव व्याबाधते । यद्दानमाचरति स आत्मानमपि व्याबाधते परानपि व्याबाधते । यथाध्वरे बहवः पशवो हन्यन्ते । यस्तु भगवद्धर्मस्यार्थं वेत्ति । स हितमेव कुर्वन्नात्मानं ब्याबाधते । नापि परान् । यथा ध्यानसमाधिमैत्रीकरुणानां लाभी । अतोऽभ्यसितव्यमिदं भगवच्छासनशास्त्रम् ।

एतच्छास्राभ्यासी सम्यगर्थवेदित्वात्कथ्यो भवति । यथोक्तं सूत्रे कथासम्प्रयोगेण [पुद्गलो] वेदितव्यो यदि वा कथ्यो यदि वाकथ्य इति । यो विदुषां धर्मं पृष्ठः स्थानास्थाने न सन्तिष्ठति । परिकल्पे न सन्तिष्ठति । प्रतिपदायां न सन्तिष्ठति । अयमकथ्यो भवति । तद्विपरीतः कथ्य इति । विदुषां धर्मे न तिष्ठतीति । वादी सम्यक्प्रज्ञानेनार्थगतिं ज्ञात्वा पश्चात्प्रयोगमादत्ते । सोऽस्याज्ञत्वात्न ग्राह्यः । यथा नाथपुत्रादयः स्वयं वदन्ति अस्माकं शास्ता आप्तः तद्वचनमेवानुवर्तामह इति । स्थानास्थाने न सन्तिष्ठतीति । हेतुप्रयोगे न तिष्ठति । तीर्थिकादीनां द्विधा हेतुः साधारणहेतुः विशेषहेतुरिति । परेण साधारणहेतावुक्ते असाधारणहेतुना प्रतिवदन्ति । असाधारणहेतावुक्ते साधारणहेतुना प्रतिवदन्ति । एवं द्विविधहेतावपि न तिष्ठन्ति । परिकल्पे न सन्तिष्ठति इति । दृष्टान्ते न (
४८) तिष्ठति । प्रतिपदायां न सन्तिष्ठतीति । वादपद्धतौ न तिष्ठति । यथा ह- मा परुषवचनमुच्चारय । मा त्यज प्रतिज्ञार्थम् । यत्नेनोपायं शिक्षय संविल्लाभाय । आत्मनो वा मानसिकी तुष्ठिः आर्यप्रवचनधर्मः इति । तत्र यो भगवद्धर्म सम्यक्ज्ञात्वा प्रवक्ति स कथ्यो भवति । नान्ये ।

अकथ्य इति । य [एकांश]व्याकरणीयं प्रश्नं नै[कांशेन] व्याकरोति । विभज्य व्याकरणीयं प्रश्नं न विभज्य व्याकरोति । प्रतिपृच्छाव्याकरणीयं प्रश्नं न पतिपृच्छ्य व्याकरोति स्थपनीयं प्रश्नं न स्थपयित्वा व्याकरोति । तद्विपरीतः कथ्यः । एकांश व्याकरणीयः प्रश्न इति । [तत्र] एक एव हेतुरस्ति । [तेन] यथा बुद्धो भगवान् [तथा] लोके नास्ति तत्सम इतीदृशमनुमानं भवति । विभज्यव्याकरणीयः प्रश्न इति । पुनरस्ति कारणं [विभज्य व्याकरणस्य] । यथा मृतसन्तानादयः [पुनरुत्पत्स्यन्त्] इति । परिपृच्छाव्याकरणीयः प्रश्न इति । यथा कश्चित्पृच्छति । अन्यः पुनः परिपृच्छय व्याकरोति । स्थपनीयः प्रश्न इति यो धर्मोऽभूतरूपः किन्तु प्रज्ञप्तिसन् । स धर्मः किमेकः उत नाना, किं शाश्वतः उताशाश्वत इत्यादि यदि कश्चित्पृच्छति । नायमर्थो व्याकरणीयः । भगवच्छासनस्य वेत्ता केवलं तत्वेत्ति । तस्मादभ्यसितव्यमिदं भगवच्छासनशास्रम् ।

किञ्च सन्ति चतुर्विधाः पुरुषाः- सावद्यः बद्यबहुलः अल्पावद्यः अनवद्य इति । सावद्य इति यस्य केवलमकुशलं नैकोऽपि कुशलधर्मोऽस्ति । वद्यबहुल इति । यस्याकुशलं बहु कुशलमल्पम् । अल्पवद्य इति । यस्य कुशलं बहु अकुशलमल्पम् । (
४९) अनवद्य इति । यस्य कुशलधर्ममात्रं नाकुशलम् । भगवच्छासनस्य सम्यगर्थवेदी द्वैविध्यं भजते अल्पवद्योऽनवद्य इति ।

अथ यो भगवच्छासनस्यार्थं वेत्ति । तस्य दुःखवेदना परिमिता । स हि निर्वाणमवश्यं प्राप्स्यति ॥

शास्त्रप्रशंसावर्गः पञ्चदशः ।


१६ चतुर्धर्मवर्गः

अथैतच्छास्राभ्यासी उत्तमं सङ्ग्रहधर्मं विन्दते । यथोक्तं सूत्रे- चत्वारि सङ्ग्रहवस्तूनि- दानं प्रियवचनमर्थचर्या समानार्थता इति । दानमन्नवस्त्रादीनाम् । धनदानेन संगृहीताः सत्त्वाः पुनर्विकम्प्या भवन्ति । प्रियवचनं यथाप्रिप्रायं भाषणम् । इदमपि दुष्टमेव । तस्याभिप्रायस्य [स्वीयतया] ग्रहणात् । अर्थचर्चा परार्थं हिताकांक्षणम् । यत्सहेतुप्रत्ययमन्यस्य कार्यसिद्धिं करोति । इदमपि प्रकम्प्यं भवति । समानार्थता । यथा शोके मोदे च [परेण] सहैकीभवनम् । इयं समानार्थता । इदं कदाचित्प्रकम्प्यम् । यदि कश्चित्धर्मदानप्रियवचनार्थचर्यासमानार्थताभिः सत्त्वान् सङ्गृह्णाति । तदा ते सत्त्वा न प्रकम्प्या भवन्ति । धर्मेण सङ्ग्रहो यदुतैतच्छास्त्राभ्यासः । अतो यत्नेन शिक्षितव्यम् ।

एतच्छास्त्रमभ्यसनुत्तमं शरणं लभते । यथोक्तं सूत्रे- धर्मप्रतिशरणेन भवितव्यं न पुद्गलप्रतिशरणेनेति । यद्यपि कश्चिदेवं वदेत्मया भगवतः सम्मुखात्श्रुतं भदन्तश्च सम्मुखाद्वा पूर्वान्ते श्रुतमिति । तस्याश्रद्धेयत्वात्न तद्ववचनमादेयम् । यद्वचनन्तु सूत्रेऽवतीर्णं धर्मलक्षणाविरुद्धं विनयानुलोइमितञ्च तत्पुनरादेयं स्यातिति । सूत्रेऽवतीर्णमिति यत्नीतार्थसूत्रेऽवतीर्णम् । नीतार्थसूत्रञ्च यस्यार्थगतिर्धर्मलक्षणाविरुद्धा । धर्मलक्षणञ्च यद्विनयानुलोमकम् । विनयश्च संवरः । तद्यथा कश्चित्संस्कृतधर्माः शाश्वताः (
५०) सुखाः सात्मान इति भावयति । स न कामादीन् प्रजहाति । अनित्या दुःखा अनात्मान इति यो भावयति । स कामादीन् प्रजहाति । अनित्यतादिज्ञानमेव धर्मलक्षणं धर्मोऽयं शरणीकर्तव्यो न पुद्गलाः ।

धर्मप्रतिशरणं वदता सर्वे धर्माः सङ्गृहीता भवन्ति । अतः पुनरुच्यते नितार्थसूत्रप्रतिशरणेन भवितव्यं न नेयार्थसूत्रप्रतिशरणेनेति । नीतार्थसूत्रमेव तृतीयं प्रतिशरणम् । यदुच्यते अर्थप्रतिशरणेन भवितव्यं न व्यञ्जनप्रतिशरेण इति । योऽयं व्यञ्जनार्थः सूत्रेऽवतीर्णो धर्मलक्षणाविरोधी विनयानुलोमकश्च तत्प्रतिशरणेन भवितव्यम् । ज्ञानप्रतिशरणेन भवितव्यं न विज्ञानप्रतिशरणेन इति । [विज्ञानं] यत्रूपादिविज्ञानम् । यथोक्तं सूत्रे विजानातीति विज्ञानम् । इति । ज्ञानं नाम यथाभूतधर्माभिसमयः । यथोक्तं- रूपवेदनासंज्ञासंस्कारविज्ञानानि यथाभूतं प्रजानातीति ज्ञानम् । शून्यतैव यथाभूतम् । अतो यद्विज्ञानप्रतिलब्धम्, न तत्प्रतिशरणेन भवितव्यम् । या ज्ञानप्रतिशरणता सैव शून्यताप्रतिशरणता । तामुत्तमप्रतिशरणतां प्रतिवेधितुकामेन इदं शास्त्रमभ्यसितव्यम् ।

उक्तञ्च सूत्रे- चत्वारि देवमनुष्याणां चक्राणि शुभवर्धकानि । प्रतिरूपदेशवासः सत्परुषोपाश्रयः आत्मनः सम्यक्प्रणिधानं पूर्वे च कृतपुण्यता । इति । प्रतिरूपदेशवासो नाम यत्पञ्चदूषणविविक्तो मध्यदेशः । सत्पुरुषोपाश्रयो यत्बुद्धाध्वनि जन्मना सङ्गमः । पूर्वे च कृतपुण्यता नाम यत्बाधिर्यमूकताद्यभावः । आत्मनः सम्यक्प्रणिधानं नाम सम्यक्दर्शनमिदम् । सम्यक्दर्शनञ्चावश्र्यंभगवच्छासनश्रवणादुत्पद्यते इत्यत इदं सम्यच्छासनशास्त्रमभ्यसितव्यम् ।

अस्य शास्त्रस्याध्येता चास्मिन्नेवायुषि सत्यप्रतिवेधाख्यं महासारार्थं लभते । यथोक्तं सूत्रे- चत्वारः सारधर्माः वचनसारः समाधिसारो दर्शनसारो विमुक्तिसार इति । (
५१) वचनसार इति । सर्वे संस्कृता अनित्या दुःखाः, सर्वे अनात्मानः शान्तं निरोधो निर्वाणमिति यद्वचनम् । अयं वचनसारः श्रुतमयप्रज्ञापरिपूरणमित्याख्यायते । इममुपादाय प्रतिलब्धः समाधिश्चिन्तामयप्रज्ञापरिपूरणमित्युच्यते । इमं समाधिमुपादाय संस्कृतधर्मा अनित्या दुःखाः इत्यादि भावना सम्यग्दर्शनप्रापिणी भावनामयप्रज्ञापरिपूरणमित्युच्यते । प्रज्ञात्रित्तयप्रतिलब्धं फलं विमुक्तिसार इत्याख्यायते ।

अथ यः शृणोति भगवच्छासनस्य सम्यच्छास्रम्, स महान्तमर्थं लभते । यथोक्तं सूत्रे- चत्वारो महार्थधर्माः सत्पुरुषसंसेवा, सद्धर्मश्रवणं, योनिशो मनस्कारः धर्मानुधर्मप्रतिपत्तिरिति । यः सत्पुरुषमुपास्ते स सद्धर्मं शृणोति । अस्य सद्धर्मस्य सत्पुरुषवर्तित्वात् । श्रुतसद्धर्मा सन् योनिशो मनस्कारमुत्पाद्य अनित्यादिना धर्मान् सम्यग्भावयति । अनया भावनया धर्मानुधर्मं प्रतिपद्यते यदुतानास्रवं दर्शनम् ।

एतच्छास्त्रं शृण्वतश्चत्वारि गुणाधिष्ठानानि भवन्ति- प्रज्ञाधिष्ठानं, सत्याधिष्ठानं, त्यागाधिष्ठानं, उपशमाधिष्ठानमिति । धर्मश्रवणात्प्रज्ञा भवतीति प्रज्ञाधिष्ठानम् । अनया प्रज्ञया परमार्थशून्यतां पश्यतीति सत्याधिष्ठानम् । शून्यतादर्शनेन क्लेशानां वियोगं लभत इति त्यागाधिष्ठानम् । क्लेशानां क्षयाचित्तमुपशाम्यतीदमुपशमाधिष्ठानम् ।

किञ्च भगवच्छासनस्य सम्यच्छास्त्रं श्रुतवतश्चत्वारि निर्वाणगामिनि कुशलमूलानि अङ्कुरीभवन्ति यदुत ऊष्मधर्मो मूर्धधर्मः क्षान्तिधर्मो लौकिकाग्रधर्म इति । अनित्याद्याकारेण पञ्चस्कन्धान् भावयतोऽवरं मृदु निर्वाणगामि कुशलमूलं चित्तस्योष्मकरमुत्पद्यते । अयमूष्मधर्म इत्युच्यते । उष्मधर्मसंवर्धितं मध्यं कुशलमूलं मूर्धधर्म इत्याख्यायते । मूर्धधर्मसंवर्धितमुत्तमं कुशलमूलं क्षान्तिधर्म इत्युच्यते । क्षान्तिसंवर्धितमुत्तमोत्तमं कुशलमूलं लौकिकाग्रधर्म इत्यभिधीयते ।

सन्ति च चत्वारि कुशलमूलानि- हानभागीयं, स्थितिभागीयं, विशेषभागीयं निर्वेधभागीयमिति । ध्यानसमाधिपूजनवन्दनस्तोत्रादिकुशलमूलानां हानं हानभागीयम् । ध्यानसमाध्यादिकुशलमूलानां प्रतिलाभः स्थितिभागीयम् । श्रवणचिन्तनादिभ्य उत्पन्नानि (
५२) कुशलमूलानि विशेषभागीयम् । अनास्रवं कुशलमूलं निर्वेधभागीयम् । यस्तथागतस्य धर्मं शृणोति स हानभागीयं विसंयुज्य त्रीणि कुशलमूलानि प्रतिलभते ॥

चतुर्धर्मवर्गः षोडशः ।


१७ चतुस्सत्यवर्गः

अथ यस्ताथागतधर्मं शृणोति स चतुस्सत्यानि सविभङ्गानि सम्प्रजानाति दुःखसत्यं, समुदयसत्यं, निरोधसत्यं मार्गसत्यमिति । दुःखसत्यमिति यत्त्रैधातुकम्, कामधातुः अवीचिनरकात्यावत्परनिर्मितवशवर्तिनो देवान् । रूपधातुः आब्रह्मलोकाताचाकनिष्ठात्देवलोकात् । आरूप्यधातुश्चत्वारि अरूपध्यानानि ।

सन्ति च चतस्रो विज्ञानस्थितयो रूपवेदनासंज्ञासंस्कारा इति । तीर्थिकाः केचिद्वदन्ति विज्ञानमात्मोपगा स्थितिरिति । अतो भगवानाह चतु [स्कन्धो]पगा विज्ञानस्थितयः इति । सन्ति च चतस्रो जातयः- अण्डजो जरायुजः संस्वेदेज औपपादुक इति । देवा नारकाः सर्व औपपादुकाः । प्रेता उभयथा जरायुजा औपपादुकाश्च । अन्ये चतसृषु जातिषु [अन्तर्भूताः] । चत्वार आहाराः- कवडीकार आहारः औदारिकः सूक्ष्मो वा । ओदनादिरौदारिक इत्युच्यते । घृततैलगन्धबाष्पपानादयः सूक्ष्माः । स्पर्शाहारः शीतोष्णवातादिः । मनःसञ्चेतनाहारो यत्कदाचित्पुरुषाः सञ्चेतनाप्रणिधानेन जीवति । विज्ञानाहारः अन्तराभविकनारकारूप्या निरोधसमापत्तिप्रविष्ठाः सत्वा अदृष्टविज्ञाना अपि विज्ञानप्रतिलम्भे वर्तन्त इत्यतो विज्ञानाहारा इत्युच्यन्ते ।

षङ्गतयः- उत्तमपापं नरकम् । मध्यमपापास्तिर्यञ्चः । अधमपापाः प्रेताः । उत्तमपुण्या देवगतिः । मध्यमपुण्या मनुष्यगतिः । अधमपुण्या असुरगतिः । किञ्च षट्[भूत]प्रकाराः- पृथिव्यप्तेजोवाव्याकाशविज्ञानानीति । चतुर्भिर्महाभूतैः परिवृतं विज्ञानमध्यकमाकाशं (
५३) पुरुष इति संख्यां गच्छति । षट्स्पर्शायतनानि चक्षुरादीनि षडिन्द्रियाणि विज्ञानसङ्गतानि स्पर्शायतनमित्याख्यायन्ते ।

सप्तविज्ञानस्थितयः । आसु स्थितिषु विपर्ययबलात्विज्ञानं साभिरामं तिष्ठति ।

अष्टौ लोकधर्माः- लाभोऽलाभो यशोऽयशो निन्दा प्रशंसा सुखं दुःखमिति । पुरुषा लोके स्थिता अवश्यभिमानुपाददते । इत्यतो लोकधर्मा इत्युच्यन्ते ।

नव सत्त्वावासाः । सत्त्वाः सर्वे विषयबलादेषु वसन्ति ।

सर्वे च धर्माः पञ्चधा विकल्प्यन्ते- पञ्च स्कन्धाः द्वादशायतनानि अष्टादश धातवो द्वादश निदानानि द्वाविंशतिरिन्द्रियाणि इति । चक्षुर्विज्ञप्तिरूपं रूपस्कन्धः । तत्प्रतीत्योप्तन्नं विज्ञानं यत्पुरोवर्तिरूपग्राहकं स विज्ञानस्कन्धः । यत्चित्तं स्त्री पुरुषः शत्रुबन्धुरित्यादिसंज्ञां जनयति । स संज्ञास्कन्धः । शत्रुर्बन्धुर्मध्यस्थ इति यत्पुरुषं विकल्पयति तत्तिस्रो वेदना जनयति । अयं वेदनास्कन्धः । आसु तिसृषु वेदनासु यत्त्रिविधाः क्लेशा उत्पद्यन्ते । स संस्कारस्कन्धः । एषां प्रवृत्त्या कायोपादानान्युपादत्त इति पञ्चोपादानस्कन्धा इत्युच्यन्ते ।

चतुर्भिः प्रत्ययै विज्ञानमुत्पद्यते यदुत हेतुप्रत्ययः समनन्तरप्रत्यय आलम्बनप्रत्ययो (
५४)ऽधिपतिप्रत्ययश्चेति । कर्म हेतुप्रत्ययः । विज्ञानं समनन्तरप्रत्ययः । विज्ञानसमनन्तरं विज्ञानस्य जायमानत्वात् । रूपमालम्बनप्रत्ययः । चक्षु[रादि]रधिपतिप्रत्ययः । तत्र विज्ञानं द्वाभ्यां कारणाभ्यामुत्पद्यते यत्चक्षुःरूपं यावन्मनो धर्मान् । इमानि द्वादशायतनानि भवन्ति । तत्र विज्ञानयोजनया अष्टादश धातवो भवन्ति । चक्षुर्धातुः रूपधातुश्चक्षुविज्ञानधातुः इत्यादि ।

स्कन्धादयो धर्माः कथमुत्पद्येरन् । द्वादशसु पर्वसु वर्तित्वात्द्वादश निदानानि भवन्ति । तत्राविद्या क्लेशाः । संस्कारः कर्म । इमौ द्वावुपादाय क्रमश उत्पद्यन्ते- विज्ञानं नामरूपं षडायतनं स्पर्शो वेदना च । तृष्णोपादानाख्यौ द्वौ धर्मौ क्लेशौ । भवः कर्म । अनागतेऽध्वनि कायोपादानस्याद्यं विज्ञानं जातिरित्युच्यते । अन्यत्जरामरणम् । इमानि द्वादश निदानानि अतीतानागतवर्तमानसन्दर्शनानि केवलमुपादनप्रत्ययरूपाणि अनात्मकानि ।

उपपत्तिमरणपुनः सन्धिनिवृत्यर्थकानि द्वाविंशतिरिन्द्रियाण्युच्यन्ते । सर्वसत्त्वानामाद्यशरीरानुभवो विज्ञानमूलकः । तद्विज्ञानं चक्षुरादिभ्यः षोढा समुत्पद्यते इति षडिन्द्रियाण्युच्यन्ते यत्चक्षुरिन्द्रियं यावन्मनैन्द्रियमिति । षड्विवज्ञानजनकत्वादिन्द्रियाणि षडेव । येन स्त्रीपुरुषलक्षणं विकल्प्यते तत्स्त्रीपुरुषेन्द्रियम् । केचिद्वदन्ति- अयं कायेन्द्रियैकदेश इति । तानि षडिन्द्रियाणि कदाचित्षडायतनानीत्युच्यन्ते । एभ्यः षड्भ्य उत्पद्यमानं षोढा विज्ञानं जीवितमित्युच्यते । कस्मात् । इमानि षडायतनानीति षड्विज्ञानानीति सन्तानप्रवृत्तिं लभन्तो इत्यतो जीवितमित्युच्यते । अत एषां जीवितमित्याख्या । तत्र किमिन्द्रिम् । यदुच्यते कर्म । कर्महेतुतया षडायतनषड्विज्ञानानि सन्तानेन प्रवर्तन्ते । जीविते चास्मिन् कर्म जीवितेन्द्रियामित्याख्यायते । कर्मेदं वेदनाभ्य उत्पद्यते । वेदना एव सुखादीनि पञ्चेन्द्रियाणि । तेभ्यः पञ्चेन्द्रियेभ्यः कामतृष्णादयः सर्वे क्लेशाः कायिकवाचिककर्माणि च प्रादुर्भवन्ति । तत्कर्मप्रत्ययं पुनर्जातिमरणमुपादीयते । अयं संक्लेशधर्मो जातिमरणप्रत्ययं सन्तानं करोति ।

(
५५)
किंप्रत्ययं व्यवदानं भवति । नियमेन श्रद्धादीनुपादाय । श्रद्धादिचतुर्धर्मप्रत्यया प्रज्ञा भवति । प्रज्ञा च त्रैकालिकी यतनाज्ञातमाज्ञास्यामि, आज्ञा, आज्ञातावी ति । भावनायां क्रियमाणायां तानीन्द्रियाणि ज्ञान[रूप]प्रज्ञाविशेषभूतानि । तथागतः संसारस्थितिप्रवृत्तिनिवृत्तित्र्यवदानार्थकत्वेन द्वाविंशतीन्द्रियाण्यवोचत् । एवमादयो धर्मा दुःखसत्यसङ्गृहीताः । तत्परिज्ञाता दुःखसत्यज्ञानकुशल इत्युच्यते ।

समुदयसत्यमिति । कर्म क्लेशाः । कर्म कर्मस्कन्धे वक्ष्यते । क्लेशाः क्लेशस्कन्धे । कर्मक्लेशाः पूनर्भवनिदानत्वात्समुदयसत्यमित्याख्यायते ।

निरोधसत्यमिति । पश्चाद्विस्तरेण निरोधस्कन्धे वक्ष्यते । यत्प्रज्ञप्तिचित्तं धर्मचित्तं शून्यताचित्तमित्येषां त्रयाणां चित्तानां निरोधो निरोधसत्यमित्युच्यते ।

मार्गसत्यमिति । यत्सप्तत्रिंशद्वोधिपक्षिका धर्माः चत्वारि स्मृत्युपस्थानानि चत्वारि प्रधानानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्च बलानि सप्तबोध्यङ्गानि अष्टावार्यमार्गाङ्गानि इति । चत्वारि सम्यक्स्मृत्युपस्थानानि इति । कायवेदनाचित्तधर्मेषु सम्यक्स्मृतिस्थापनम् । स्मृतिश्च प्रज्ञा भवति । कायोऽनित्य इत्यादि भावनया तदालम्बने विहरणं कायस्मृत्युपस्थानम् । इयं स्मृतिः प्रज्ञया सह क्रमशो भूयो विवृद्धा वेदनां विकल्पयतीति वेदनास्मृत्युपस्थानम् । भूयश्च परिशुद्धा चित्तं विकल्पयतीति चित्तस्मृत्युपस्थानम् । सम्यक्चर्यया धर्मान् विकल्पयतीति धर्मस्मृत्युपस्थानम् ।

चत्वारि सम्यक्प्रधानानीति । उत्पन्नानां पापकानामकुशलानां धर्माणामादीनवं पश्यन् तत्प्रहाणाय छन्दं जनयति वीर्यमारभते । तत्प्रहाणोपायो यत्तत्प्रत्ययज्ञानदर्शनप्रत्ययः । अनुत्पन्नानां पापकानामकुशलानां धर्माणामनुत्पादाय छन्दं जनयति वीर्यमारभते । अनुत्पादोपायो यत्ज्ञानदर्शनप्रत्ययः । अनुत्पन्नानां कुशलानां धर्माणामुत्पादाय छन्दं जनयति (
५६) वीर्यमारभते । उत्पादोपायो यत्ज्ञानदर्शनप्रत्ययः । उत्पन्नानां कुशलानां धर्मणां वैपुल्याय छन्दं जनयति वीर्यमारभते । उत्तममध्यमाधमक्रमेणोपायः । अविनिवर्तनीयत्वात्[तस्य] ।

चत्वार ऋद्धिपादा इति । छन्दसमाधि संस्कारसमन्वागतर्द्धिपादभावना । छन्दमुपादायोत्पन्नः समाधिश्चन्दसमाधिः । छन्दवीर्यश्रद्धाप्रश्रब्धिस्मृतिसम्प्रजन्यचेतनोपेक्षादिधर्मसहगतः संस्कारसमन्वागतो नाम । गुणानां विवृद्धयर्थत्वेन ऋद्धिपादः । छन्द्रविवृद्धये वीर्यकरणम् । अयं द्वितीय [ऋद्धिपादः] । योगी सच्छन्दः सवीर्यश्च चित्तसमाधिं प्रज्ञाञ्च भावयति । चित्तसमाधिप्रतिलम्भ एव समाधिरित्युच्यते । मीमांसासमाधिरेव प्रज्ञा ।

पञ्चेन्द्रियाणीति । धर्मश्रवणजा श्रद्धा श्रद्वेन्द्रियम् । सश्रद्धः सन् संक्लेशधर्माणां प्रहाणाय व्यवदानधर्माणामधिगमाय च वीर्यमारभते । इदं वीर्येन्द्रियम् । चतुर्णां स्मृत्युपस्थानानामभ्यासः स्मृतीन्द्रियम् । स्मृतिमुपादाय समाधिनिर्वर्तनं समाधीन्द्रियम् । समाधिमुपादाय समुत्पन्ना प्रज्ञा प्रज्ञेन्द्रियम् । इमानि पञ्चेन्द्रियाणि विवृद्धानि बलवन्तीति पञ्चबलानीत्युच्यन्ते ।

अष्टावार्यमार्गाङ्गानीति । श्रुतमयप्रज्ञः श्रद्दधते पञ्चस्कन्धा अनित्या दुःखा इत्यादि । इयं सम्यक्दृष्टिः । प्रज्ञेयं यदि चिन्तामयी भवति । तदा सम्यक्सङ्कल्पः । सम्यक्सङ्कल्पेनाकुशलानां प्रहाणाय कुशलानां कर्मणा भावनायै च यत्वीर्यमाचरति स सम्यक्व्यायामः । ततः क्रमेण प्रव्रजितः शीलमुपादाय सम्यग्वाचं सम्यक्कर्मान्तं सम्यगाजीवञ्च त्रीणि मार्गाङ्गान्यनुप्राप्नोति । अस्मात्सम्यक्संवरात्क्रमशः स्मृत्युपस्थानानि ध्यानसमाधयश्च संसिध्यन्ति । तांश्च स्मृतिसमाधीनुपादाय यथाभूतज्ञानमनुप्राप्नोति । इत्येवमार्याष्टमार्गाङ्गानां (
५७) क्रमः । अथ मार्गाङ्गेषु शीलं प्राथमिकं स्यात् । कस्मात् । शीलसमाधिप्रज्ञास्कन्धानामार्थिकक्रमत्वात् । सम्यक्स्मृतिः सम्यक्समाधिश्च समाधिस्कन्धः । व्यायामः सर्वत्र समुदाचरति । प्रज्ञास्कन्धो मार्गप्रत्यासन्न इत्यत आदावुक्तः । सा च प्रज्ञा द्विविधा औदारिकी सूक्ष्मा चेति । औदारिकीति या श्रुतमयी चिन्तामयी च प्रज्ञा । अयं सम्यक्सङ्कल्प इत्युच्यते । सूक्ष्मेति भावनामयी प्रज्ञा या ऊष्मादिधर्मगता प्रज्ञप्तिसत्पञ्चस्कन्धान् विदारयति । इयं सम्यक्दृष्टिः । अनया सम्यग्दृष्टया यः पञ्चस्कन्धानां निरोधं पश्यति । अयं प्रथमाभिसम्बुद्ध इत्युच्यते । तदुपादाय सप्तबोध्यङ्गान्यनुप्राप्नोति ।

स्मृतिसम्बोध्यङ्गम्- शैक्षः पुरुषः स्मृतिप्रमोषे क्लेशा उत्तिष्ठन्तीत्यतः सम्यक्स्मृत्युपस्थानं बध्नाति । बद्धस्मृतिः सन् पूर्वागमलब्धां सम्यक्दृष्टिं लभते । अयं धर्मप्रविचयः । धर्मप्रविचयापरित्यागो वीर्यम् । वीर्यमाचरतः क्लेशानां तनुत्वे चित्ते प्रीतिर्जायते । इअयं प्रीतिः । प्रीत्या कायः प्रश्रम्यते । इयं प्रश्रब्धिः । प्रश्रब्ध्या सुखी भवति । सुखित्वे चित्तं समाधीयते । अयं समाधिः दुर्लभो वज्रोपम इत्याख्यायते । फलेऽनासज्य प्रीतिदौर्मनस्यादीनां प्रहाणमुपेक्षा । इयमुत्तमा चर्या । उपेक्षा च नोन्मज्जनं ननिमज्जनं, किन्तु तयोश्चित्तसमता । सम्बोधिर्नामाशैक्षज्ञानम् । इमानि सप्त भावयन् सम्बोधिं लभत इति सम्बोध्यङ्गमित्युच्यते ।

एभिः सप्तत्रिंशब्दोधिपक्षिकैश्चत्वारि श्रामण्यफलानि लभते । स्रोतआपत्तिफलमिति यः शून्यताभि समयः । अनेन शून्यताज्ञानेन त्रीणि संयोजनानि प्रजहाति । सकृदागामिफलमिति यतिममेव मार्गं भावयन् क्लेशान् तनूकृत्य कामधातौ सकृदुत्पद्यते । अनागामिफलमिति कामधातुकसर्वक्लेशानां प्रहाणम् । अर्हत्फलमिति सर्वक्लेशानां प्रहाणम् । य इदं तथागतधर्मशास्त्रमध्येति स चत्वारि सत्यानि अभिसमेत्य चत्वारि श्रामण्यफलानि प्रतिलभते । अत इदं तथागतशासनशास्त्रमभ्यसितव्यम् ॥

चतुस्सत्यवर्गः सप्तदशः ।


(
५८)
१८ धर्मस्कन्धवर्गः

अथैतच्छास्राभ्यासी ज्ञेयादिधर्मस्कन्धानभिसमेति । अभिसमयात्तीर्थिकमिथ्याशास्त्रानभिभूतः क्षिप्रं क्लेशानुपशमयति । आत्मनो दुःखपरिहारकुशलः परानपि त्रायति ।

ज्ञेयादिधर्मस्कन्ध इति यदुत ज्ञेयधर्मा विज्ञेयधर्मा रूपधर्मा आरूप्यधर्माः सनिदर्शनधर्मा अनिदर्शनधर्माः सप्रतिघधर्मा अप्रतिघधर्माः सास्रवधर्मा अनास्रवधर्माः संस्कृत धर्मा असंस्कृतधर्माश्चित्तधर्मा अचित्तधर्माश्चैतसिकधर्मा अचैतसिकधर्माश्चित्तसंप्रयुक्त धर्माश्चित्तविप्रयुक्तधर्माश्चित्तसहभूधर्माश्चित्तासहभूधर्माश्चित्तानुचरधर्माश्चित्ताननुचरधर्मा आध्यात्मिकधर्मा बाह्यधर्मा औदारिकधर्माः सूक्ष्मधर्मा उत्तमधर्मा अवरधर्माः सन्निकृष्टधर्मा विप्रकृष्टधर्मा उपादानधर्मा अनुपादानधर्मा नैर्याणिकधर्मा अनैर्याणिकधर्माः प्राकृतधर्मा अप्राकृतधर्माः समनन्तरधर्मा असमनन्तरधर्माः क्रमिकधर्मा अक्रमिकधर्मा इत्येवमादयो द्विधा धर्माः ।

त्रिधा च सन्ति धर्माः- रूपधर्माश्चित्तधर्माश्चित्तविप्रयुक्तधर्मा इति । अतीतधर्मा अनागतधर्माः प्रत्युत्पन्नधर्माः । कुशलधर्मा अकुशलधर्मा अव्याकृतधर्माः । शैक्षधर्मा अशैक्षधर्मा नैवशैक्षनाशैक्षधर्माः । सत्यदर्शनहेयधर्मा भावनाहेयधर्मा अहेयधर्मा इत्येवमादयस्त्रिधा धर्माः ।

चतुविर्धाश्च सन्ति धर्माः कामधातुप्रतिसंयुक्तधर्मा रूपधातुप्रतिसंयुक्तधर्मा आरूप्यधातुप्रतिसंयुक्तधर्मा अप्रतिसंयुक्तधर्मा इति । चतस्रः प्रतिपदः दुश्चरा दुःखप्रतिपत्सुचरा दुःखप्रतिपत्दुश्चरा सुखप्रतिपत्सुचरा सुखप्रतिपतिति । चत्वार आस्वादाः- प्रव्रज्यास्वादो विसंयोगास्वाद उपशमास्वादः सम्यक्सम्बोधास्वादिति । चत्वारः साक्षात्कृतधर्माः- कायसाक्षात्कृतधर्माः स्मृतिसाक्षात्कृतधर्मा इन्द्रियसाक्षात्कृतधर्माः प्रज्ञासाक्षात्कृतधर्मा इति । चत्वार उपादानकायाः चतस्रो गर्भावक्रान्तयः, चत्वारः प्रत्ययाः, चतस्रः श्रद्धाः, चत्वारि आर्यगोत्राणि, चत्वारि दुश्चरितानि इत्येवमादयश्चत्वारो धर्माः ।

पञ्च स्कन्धाः । षड्धातवः षडाध्यात्मिकायतनानि, षड्बाह्यायतनानि, षड्जातिस्वभावाः, षड्सौमनस्योपविचारा षड्दौर्मनस्योपविचारा षडुपेक्षोपविचाराः षड्सुचरितानि । सप्त विशुद्धयः । अष्ट पुण्यजन्मानि । नवानुपूर्वसमापत्तयः । दशार्यावासाः । द्वादश निदानानि । इत्येवमादयो धर्मस्कन्धा अप्रमाणा अनन्ता इति नावसानं वक्तुं शक्यते ।

(
५९)
तेषु प्राधान्यतः संक्षिपामि । ज्ञेयधर्म इति पारमार्थिकं सत्यम् । विज्ञेयधर्म इति यत्लौकिकं सत्यम् । रूपधर्मा इति रूपरसगन्धस्पर्शाः । अरूपधर्मा इति चित्तासंस्कृतधर्माः । सनिदर्शनधर्मा इति यानि रूपायतनानि सप्रतिधधर्मा इति रूपधर्माः । सास्रवधर्मा इति य आस्रवाणामुत्पादका यथा अनर्हतां प्रज्ञप्तिधर्मेषु चित्तम् । तद्विपरीता अनास्रवधर्माः । संस्कृतधर्मा इति प्रतीत्यसमुत्पन्नाः पञ्च स्कन्धाः । असंस्कृतधर्मा इति पञ्चस्कन्धानां निरोधोऽयम् । चित्तधर्मा इति आलम्बकं चित्तम् । चैतसिकधर्मा इति यद्विज्ञानमालम्बते तत्समनन्तरजाताः संज्ञादयः । चित्तसंप्रयुक्तधर्मा इति यद्विज्ञानमालम्बते तत्समनन्तरजातम् । यथा संज्ञादयः । चित्तसहभूधर्मा इति ये धर्माश्चित्तेन सहभुवः । यथा रूपं चित्तविप्रयुक्तं गोचरीभवति । चित्तानुचरधर्मा इति ये धर्माश्चित्ते सति उत्पद्यन्ते नासति यथा कायवाग्भ्यामकृतं कर्म । आध्यात्मिकधर्मा इति स्वकायस्यान्तःस्थितानि षडायतनानि । औदारिकसूक्ष्मधर्मा इति परस्परमपेक्ष्यभाविनः । यथा पञ्च कामानपेक्ष्य रूपध्यानं सूक्ष्मम् । आरूप्यध्यानमपेक्ष्य रूपध्यानमौदारिकम् । उत्तमावरधर्मा अप्येवम् । सन्निकृष्टविप्रकृष्टधर्मा इति केचिद्देशभेदाद्विप्रकृष्टाः । केचिदसारूप्याद्विप्रकृष्टाः । उपादानधर्मा इति कायिकाधर्माः । नैर्याणिकधर्मा इति ये कुशलधर्मा । प्राकृतधर्मा इति सास्रवधर्माः । समनन्तर धर्मा इति अन्यस्मात्समनन्तरजाताः । क्रमिकधर्मा इति [ये] क्रमजनकाः ।

रूपधर्मा इति रूपादयः पञ्चधर्माः । चित्तधर्मा इति यथोपरिष्टादुक्ताः । चित्तविप्रयुक्तधर्मा इति अविज्ञप्तिकर्म । अतीतधर्मा इति निरुद्धा धर्माः । अनागतधर्मा इति उत्पत्स्यमाना धर्माः । प्रत्युत्पन्नधर्मा इति उप्तद्यमाना अनिरुद्धाश्च धर्माः । कुशलधर्मा इति परसत्त्वानां हितकृद्धर्माः पदार्थाभिसम्बोधश्च । तद्वपरीता अकुशलधर्माः । उभाभ्यां विरुद्धा अव्याकृतधर्माः । शैक्षधर्मा इति शैक्षाणामनास्रवचित्तधर्माः । अशैक्षधर्मा इति अशैक्षाणां परमार्थगतं चित्तम् । अन्ये नैवशैक्षानाशैक्षा धर्माः । सत्यदर्शनहेयधर्मा इति यत्(
६०) स्रोतआपन्नानां हेया निमित्तसन्दर्शनास्मिमानतज्जा धर्माः । भावनाहेयधर्मा इति यत्स्रोतआपन्नसकृदागाम्यनागामिनां हेया अनिमित्तसन्दर्शनास्मिमानतज्जा धर्माः । अहेयधर्मा इति येऽनास्रवाः ।

कामधातुप्रतिसंयुक्तधर्मा इति ये धर्मा विपाकलब्धा अवीचिनरकात्यावत्परनिर्मितवशवर्तिनो देवान् । रूपधातुप्रतिसंयुक्तधर्मा इति आब्रह्मलोकाताचाकनिष्ठदेवेभ्यः । आरूप्यधातुप्रतिसंयुक्तधर्मा इति चत्वार्यारूप्याणि । अप्रतिसंयुक्तधर्मा इति अनास्रवधर्माः । दुश्चरा दुःखप्रतिपतिति मृद्विन्द्रियस्य समाधिं लब्ध्वा मार्गचारिणः । सुचरा दुःखप्रतिपतिति तीक्ष्णेन्द्रियस्य समाधिं लब्ध्वा मार्गचारिणः । दुश्चरा सुखप्रतिपतिति मृद्विन्द्रियस्य प्रज्ञां लब्ध्वा मार्गचारिणः । सुचरा सुखप्रतिपतिति तीक्ष्णेन्द्रियस्य प्रज्ञां लब्ध्वा मार्गचारिणः ॥ प्रव्रज्यास्वाद इति गृहात्प्रव्रज्य मार्गपर्येषणम् । विसंयोगास्वाद इति कायचित्तप्रविवेकः । उपशमास्वाद इति ध्यानसमाधिप्रतिलम्भः । सम्यक्सम्बोधास्वाद इति चतुस्सत्याभिसमयः ॥ स्मृतिसाक्षात्कृतधर्मा इति चत्वारि स्मृत्युपस्थानानि । तान्युपादाय चत्वारि ध्यानान्युत्पद्यन्ते । चतुर्णां सत्यानामभिसमयः प्रज्ञासाक्षात्कृत इत्युच्यते । चत्वार उपादानकाया इति कश्चिदात्मानं हिनस्ति न परान् ॥ कश्चित्परान् हिनस्ति नात्मानम् । कश्चिदात्मनं हिनस्ति परांश्च हिनस्ति । कश्चिन्नात्मानं हिनस्ति न परान् । चतस्रो गर्भावक्रान्तय इति कश्चिदसम्प्रजानन्नेव मातुः कुक्षाववतरति । असम्प्रजानंश्च [मातुःकुक्षौ]तिष्ठति । असम्प्रजानंश्च मातुःकुक्षेर्निष्क्रमति । कश्चित्सम्प्रजानन्मातुः कुक्षाववतरति । असंप्रजानन्मातुः कुक्षौ तिष्ठति । असम्प्रजानन्मातुः कुक्षेर्निष्क्रमति । कश्चित्सम्प्रजानन्मातुः कुक्षाववतरति । सम्प्रजानान्मातुः कुक्षौ तिष्ठति । सम्प्रजानन्मातुः कुक्षेर्निष्क्रमति विपर्यस्तमतिविक्षेपान्नात्मानं सम्प्रजानाति । चित्तार्जवेनाविक्षेपादात्मानं
सम्प्रजानाति ॥ चत्वारः प्रत्यया इति हेतुप्रत्ययो यो जनकहेतुः वासनाहेतुराश्रयहेतुः । जनकहेतु यो धर्मो जायमानस्य हेतुकृत्यं करोति । यथा विपाकात्मकं कर्म । वासनाहेतुः कामरागवासनायां कामरागोऽभिवर्धते । आश्रयहेतुः यथा चित्तचैत्तानां रूपगन्धादय आश्रयाः । इमे हेतुप्रत्यया इत्युच्यन्ते । समनन्तरप्रत्यय इति यथा पूर्वचित्तनिरोधात्समनन्तरचित्तमुत्पद्यते । आलम्बनप्रत्यय इति यदालम्ब्य धर्म उत्पद्यते । यथा (
६१) चक्षुर्विज्ञानस्य जनकं रूपम् । अधिपतिप्रत्यय इति यज्जायमानस्य धर्मस्यान्ये प्रत्ययाः ॥ चतस्रः श्रद्धा इति । (१) तथागतश्रद्धा यत्तत्त्वज्ञानं लब्धा तथागते प्रसन्नचित्तो निश्चिनोति तथागतः सत्त्वेषु श्रेष्ठ इति । (२) अस्मिन् तत्त्वज्ञाने श्रद्धैव धर्मश्रद्धा । (३) एतत्तत्त्वज्ञानलाभी सर्वसङ्घेषु परमोत्तम इतीयं सङ्घश्रद्धा । (४) आर्याणां प्रियं संवरं लब्ध्वा अध्याशयेनापि नाहमकुशलानि करोमि अहमिमं संवरमुपादाय त्रिषु रत्नेषु च श्रद्धावानिति च प्रजानाति इति यदियं श्रद्धा संवरबलादिति संवरश्रद्धेत्युच्यते ॥ चतुरार्यगोत्रत्वात्न चीवरार्थतृष्णया क्लिश्यते । नान्नपानशयनासनार्थं कायिकतृष्णया क्लिश्यते । इति चत्वार्यार्यगोत्राणि ॥ चत्वारि दुश्चरितानीति । रागद्वेषमोहसन्त्रासैर्दुर्गतौ पतति ।

रूपस्कन्ध इति रूपादयः पञ्च । वेदनास्कन्ध इति आलम्बकधर्माः । संज्ञास्कन्ध इति प्रज्ञप्तिविकल्पा धर्माः । संस्कारस्कन्ध इति पुनर्भवजनका धर्माः । विज्ञानस्कन्ध इति विषयमात्रविज्ञानधर्माः ॥ पृथिवीधातुरिति रूपसगन्धस्पर्शसमवायः खट्कलक्षणबहुलः पृथिवीधातुरिति व्यपदिश्यते । स्नेहबहुलोऽब्धातुः । उष्णलक्षणबहुलस्तेजोधातुः । लघिमलक्षणबहुलो वायुधातुः । रूपलक्षणविरहित आकाशधातुः । आलम्बमानो धर्मो विज्ञानधातुः । चक्षुरायतनमिति चातुर्मौतिकं चक्षुर्विज्ञानाश्रयश्चक्षुर्धातुरित्युच्यते । श्रोत्रघ्राणजिह्वाकायायतनान्यप्येवम् । मन आयतनमिति यदुत चित्तम् ॥ रूपायतनमिति चक्षुर्विज्ञानस्यालम्ब्यधर्मः । तथा शब्दगन्धरसस्पृष्टव्या अपि ॥ षड्जातिस्वभावा इति यत्कृष्णस्वभावः पुरुषः कृष्णं धर्मं निषेवते । शुक्लं धर्मं कृष्णशुक्लं धर्मञ्च निषेवते । तथा शुक्लस्वभावः पुरुषोऽपि ॥ षट्सौमनस्योपविचारा इति रागचित्ताश्रिताः ॥ षड्दौर्मनस्योपविचारा इति द्वेषचित्ताश्रिताः । षडुपेक्षोपविचारा इति मोहचित्ताश्रिताः । षट्सुचरितानीति तत्त्वज्ञानाश्रितानि ।

सप्त विशुद्ध यः । शीलविशुद्धिरिति शीलसंवरणम् । चित्तविशुद्धिरिति ध्यानसमाधीनामुपसम्पत् । दृष्टिविशुद्धिरिति सत्कायदृष्टिसमुच्छेदः । काङ्क्षावितरणविशुद्धिरिति । (
६२) काङ्क्षासंयोजनसमुच्छेदः । मार्गामार्गज्ञानदर्शनविशुद्धिरिति । शीलव्रतपरामर्शसमुच्छेदः । प्रतिपदाज्ञानदर्शनविशुद्धिरिति भावनामार्गः । ज्ञानदर्शनविशुद्धिरिति अशैक्षमार्गः ।

अष्टौ पुण्य सर्गा इति मनुष्येष्वाढ्य आब्रह्मलोकात् । पुण्यविपाकसुखनामेषु अतिबहुलत्वातिमेऽष्टावुच्यन्ते ॥

नवानुपूर्वसमापत्तय इति प्रथमध्यानमुपसम्पद्यमानो वाचं नियच्छति । द्वितीयध्यानमुपसम्पद्यमानो वितर्कविचारान् । तृतीयध्यानमुपसंपद्यमानः प्रीतिम् । चतुर्थध्याने आनापानम् । आकाशानन्त्यायतने रूपलक्षणम् । विज्ञानानन्त्यायतन आकाशलक्षणम् । आकिञ्चन्यायतने विज्ञानलक्षणम् । नैवसंज्ञानासंज्ञायतन आकिञ्चन्यायतनलक्षणम् । निरोधसमापत्तिमुपसम्पद्यमानः संज्ञावेदितं नियच्छतिः ॥

दशार्यावासा इति । आर्यः पुद्गलः (१) पञ्चाङ्गविप्रहीनो भवति । (२) षडङ्गसमन्वागतः । (३) एकारक्षः । (४) चतुरपाश्रयः । (५) प्रणुन्नप्रत्येकसत्यः । (६) समवसृष्टेषणः । (७) अनाविलसङ्कल्पः । (८) प्रश्रब्धकायसंस्कारः । (९) सुविविक्तचित्तः । (१०) सुविमुक्तप्रज्ञः कृतकृत्यः सन् केवलोऽसहायी भवति । (१) पञ्चाङ्गविप्रहीनो भवतीति । ऊर्ध्वभागीयानि पञ्चसंयोजनानि प्रहाय सर्वसंयोजनक्षयरूपार्हत्वलाभी भवति । (२) षडङ्गसमन्वागत इति । यतश्चक्षुरादिभिः रूपादि दृष्ट्वा नैवा सुमना भवति न दुर्मना उपेक्षको विहरति स्मृतः संप्रजानन् । (३) एकारक्ष इति । स्मृत्यारक्षेण चेतसा समन्वागतो भवति । (४) चतुरपाश्रय इति । भिक्षादींश्चतुरो धर्मानाश्रयते । केचित्पुनराहुः- चतुरपाश्रय इति आर्य [एकं] धर्मं परिवर्जयति । [एकं] (
६३) धर्म प्रतिसेवते । एकं धर्मं विनोदयति । एकं धर्ममधिवासयति ॥ (५) विशुद्धशीलधारणात्तत्त्वलक्षणं प्रतिबुध्यन् प्रणुन्नप्रत्येकसत्य इत्युच्यते । समुच्छिन्नसर्वदृष्टिक आद्यफलस्य लाभी भवति । (६) समवसृष्टेषण इति कामेषणा [प्रहीणा] भवति । भवेषणा प्रहीणा भवति । ब्रह्मचर्येषणा प्रतिप्रश्रब्धा । आद्यफललाभित्वात्प्रजानाति संस्कृतधर्मा मृषेति । ईषणात्रयप्रहाणं वज्रोपमसमाधिं लप्स्य इतीच्छया शैक्षमार्गं प्रजहाति । तदा क्षयकुशलः समसृष्टेषणा इत्युच्यते । (७) अनाविलसङ्कल्प इति । प्रहीणषड्वितर्कः विशुद्धचित्तस्त्रीणि विषाणि तनूकृत्य द्वितीयफलं लभते । प्रशमितकामशोकः सन् तृतीयफलमनुप्राप्नुवननाविलसङ्कल्प इत्युच्यते । (८) प्रश्रब्धकायसंस्कार इति । कामधातुकसंयोजनानि
विहाय चत्वारि ध्यानान्युपसम्पद्य विहरतीत्यतः प्रश्रब्धकायसंस्कारो भवति । क्षयज्ञानलाभा (९) त्सुविविक्तचित्तो भवति इत्युच्यते । अनुत्पादज्ञानलाभात्(१०) सुविमुक्तप्रज्ञोभवति । आर्याणां चित्तमेषु दशसु स्थानेषु आवसतीति आर्यावासः । कृततथागतधर्मोऽवश्यं दुःखस्यान्तं कुर्यादित्यतः कृतकृत्य इति कथ्यते । पृथग्जनैः शैक्षजनैश्च विविक्त इत्यतोऽसहायीति । तच्चितं सर्वधर्मान् विधूय अत्यन्तशून्यताप्रतिष्ठितमित्यतः केवल इत्याख्यायते ॥

(
६४)
द्वादशनिदानानि । तत्राविद्येति यत्प्रज्ञप्त्यनुयायिचित्तम् । तद्विपर्ययचित्तमुपादाय कर्माणि सञ्चिनोतीति अविद्याप्रत्ययाः संस्कारा इत्युच्यन्ते । विज्ञानं कर्मानुयायि इति सत्कायमुपादत्ते । अतः संस्कारप्रत्ययं विज्ञानमिति । सत्कायमुपादाय नामरूपषडायतनस्पर्शवेदना भवन्ति । इमानि अङ्गानि कालक्रमेण वर्धन्ते । सर्वा अपि वेदना अनुभवन् प्रज्ञप्तिमाश्रयते इत्यतस्तत्र तृष्णां जनयति । तृष्णामुपादायान्ये क्लेशा भवन्तीति त उपादानमित्युच्यन्ते । तृष्णोपादानप्रत्ययो भवः । स च त्रिकाण्डः । एभ्यः कर्मक्लेशप्रत्ययेभ्य और्ध्वकालिकी जातिः । जातिप्रत्ययाज्जरामरणादयो भवन्ति ।

तत्र यदुच्यते अविद्या प्रत्ययाः संस्कारा इति तदतीताध्वप्रकाशनं शाश्वतदृष्टिसमुच्छेदकम् । ज्ञायते हि अनादिसंसारे आजवञ्जविभावे कर्मक्लेशप्रत्ययेभ्यः कायो वेद्यत इति । यदुच्यते जातिमरणमिति । तदनागताध्वप्रकाशनमुच्छेददृष्टि समुच्छेकदम् । यस्य तत्त्वज्ञानं न भवति । तस्य जातिमरणयोर्नास्त्यन्तो दुःखफलमात्रमस्ति । यदुच्यन्ते मध्येऽष्टावङ्गानि । तत्प्रत्युत्पन्नधर्मप्रकाशनम्, प्रत्ययकलापमात्रात्सन्तत्या प्रवर्तते, नास्ति तत्त्वज्ञानमिति । तत्राविद्या संस्काराश्च पूर्वाध्वप्रत्ययाः । तत्प्रत्ययं फलं यदुत विज्ञानं नामरूपं षडायतनं स्पर्शो वेदना च । एभ्यः पञ्चभ्य उत्पद्यते तृष्णोपादानं भवश्च । इमेऽनागताध्वहेतवः । तत्प्रत्ययं फलं यत्जातिजरामरणम् । वेदना वेदयतः पुनस्तृष्णोपादानञ्च भवति । अत इदं द्वादशाङ्गं[भव]चक्रमनवस्थं प्रवर्तते । तत्त्वज्ञानं लभमानः कर्माणि न सञ्चिनोति । कर्मणामसञ्चये न भवति जातिः । जातिर्हि प्रवृत्तिसाधनी ॥

य इदं सम्यच्छास्त्रं निषेवते स धर्माः स्वलक्षणशून्या इति प्रज्ञाय न कर्माणि सञ्चिनोति । कर्मणामसञ्चये न भवति जातिः । जात्यभावाज्जरामरणशोकपरिदेवदुःखोपायासाः सर्वे निरुध्यन्ते । अत आत्महितं सत्वहितञ्च कामयमानः क्रमशस्तथागतमार्गं प्रसाध्य स्वधर्ममादीपयन् परधर्मं यो निराकरोति तेनेदं शास्त्रं निषेवितव्यम् ॥

धर्मस्कन्धवर्गोऽष्टादशः ।


(
६५)
१९ दशसु वादेषु आद्यं सत्तालक्षणम्

(पृ) शास्त्रारम्भ उक्तं भवता- निषेव्य भिन्नवादांश्चेति तथागतधर्मविचारयिषया । के ते विभिन्ना वादाः । (उ) त्रिपिटके सन्ति बहवो विभिन्ना वादाः । पुरुषाणां भूयसा प्रमोदाय परं विवादशास्त्रप्रवर्तकैरभिहितम्- यदुत (१) अस्त्यध्वद्वयं नास्त्यध्वद्वयम्, (२) सर्वमस्ति सर्वं नास्ति, (३) अस्त्यन्तरा भवो नास्त्यन्तरा भवः, (४) चतुस्सत्यानामानुपूर्वेण लाभः एकक्षणेन लाभः (५) अस्ति परिहाणिः नास्ति परिहाणिः (६) अनुशयाश्चित्तसम्प्रयुक्ताः चित्तविप्रयुक्ताः, (७) चित्तं प्रकृतिपरिशुद्धम्, न प्रकृतिपरिशुद्धम्, (८) उपात्तविपाकं कर्म किञ्चिदस्ति किञ्चिन्नास्ति, (९) तथागतः सङ्घगणितः, न सङ्घगणितः, (१०) अस्ति पुद्गलो नास्ति पुद्गल इति ।

केचिदाहुः- अस्ति अध्वयधर्म इति । केचिदाहुः नास्तीति । केन प्रत्ययेन अस्तीति वदन्ति केन प्रत्ययेन नास्तीति । (उ) अस्तीति यः सन् धर्मः तत्र चित्तमुत्पद्यते । त्र्यध्वधर्मे चित्तमुत्पद्यत इत्यतो ज्ञातव्यं तदस्तीति ॥

(पृ) प्रथममुच्यतां सत्तालक्षणम् । (उ) ज्ञानं यत्र प्रचरति[तत्]सत्तालक्षणम् ।

दूषणम्- ज्ञानमविद्यमानेऽपि प्रचरति । कस्मात् । यथाधिमुक्ति अविनीलकं दृष्ट्वा विनीलकं पश्यति । कृतकं मायावस्तु असदपि सत्पश्यति । अकिञ्चनस्य ज्ञानादाकिञ्चन्यायतनसमाधिमुपसम्पन्नो भवति । अङ्गुल्या च निर्दिश्य [वदति] चन्द्रद्वयमहं पश्यामीति । सूत्रे चोक्तम्- अहं प्रजानामि नाध्यात्ममस्ति छन्दराग इति । उक्तञ्च सूत्रे- यथा यो रूपे छन्दरागः तं प्रजहीत् । एवंवस्तद्रूपं प्रहीणं भवति इति । यथा च स्वप्ने असदपि मिथ्या [सत्] पश्यति । इत्यादिभिः कारणैर्ज्ञानमविद्यमानेऽपि प्रचरति । ज्ञानप्रचरास्पदत्वादस्तीति न सम्भवति ।

(
६६)
उच्यते । अविद्यमानेऽपि ज्ञानं प्रचरतीति न भवति । कस्मात् । आश्रयालम्बनात्मक धर्मद्वयं प्रतीत्य हि विज्ञानमुत्पद्यते । यद्यनालम्बनं विज्ञानमुदेश्यति । अनाश्रयमपि विज्ञानमुत्पन्नं स्यात् । तथा च धर्मद्वयं निष्प्रयोजनं स्यात् । एवं विनापि विमुक्तिं तद्विज्ञानं सदोत्पद्यते । अतो ज्ञायते विज्ञानं नाविद्यमाने प्रचरतीति । अथ यत्किञ्चन विजानातीति विज्ञानम् । यत्न किञ्चन विजानाति न तत्विज्ञानम् । विज्ञानं विषयं विजानाति वचनं चक्षुर्विज्ञानं रूपं विजानाति यावन्मनोविज्ञानं धर्मान् विजानाति इत्येतस्याभिधानम् । यदि मतमनालम्बनं विज्ञानमस्तीति । तद्विज्ञानं कस्य विज्ञानं भवेत् । किञ्च अनालम्बनं विज्ञानमस्तीति वादिनस्तत्भ्रान्तं स्यात् । यथा केचिद्वदन्ति भ्रान्तविक्षिप्तचित्तोऽहं लोकेऽविद्यमानमप्यात्मानं पश्यामीति । यदि किञ्चिदविद्यमानं जानीयात् । संशयो न स्यात् । किञ्चित्तु ज्ञातुः संशय उत्पद्यते । उक्तञ्च सूत्रे- योऽयं लोकतोऽविद्यमान आत्मा, तस्य ज्ञानं दर्शनं वेति नेदं स्थानं विद्यते इति ।

भवद्ववचनं स्वतो विरूद्धम् । यद्यसत्, कस्य ज्ञानं स्यात् । उक्तञ्च सूत्रे- चित्तचैत्ता आलम्बमानधर्माः इति । किञ्चाह- सर्वे धर्मा आलम्ब्या इति । नतु तत्रोक्तमविद्यमानो धर्म आलम्ब्व्यं भवतीति । अथ सर्वे विषयधर्मा विज्ञानोत्पादहेतवः । यद्यविद्यमानः को हेतुर्भवति । उक्तञ्च सूत्रे- त्रयाणां सन्निपातः स्पर्श इति । अविद्यमानानां धर्माणां कः सन्निपातः । अथासदालम्बनं ज्ञानं कथमुपलभ्येत । यस्य ज्ञानं न तदसत् । यन्नास्ति न तस्य ज्ञानम् । अतो नास्त्यसदालम्बनं ज्ञानम् ।

यदुक्तं भवता ज्ञानमविद्यमानेऽपि प्रचरति । यथाधिमुक्ति अविनीलकं दृष्ट्वा विनीलकमिति पश्यतीति नेदं स्थानं विद्यते । कस्मात् । अविनीलकेऽपि तत्त्वतोऽस्ति विनीलकस्वभावः । यथोक्तं सूत्रे- अस्त्यस्मिन् वृक्षे विशुद्धता इति ।

नीललक्षणग्राहीचित्तबलात्सर्वं नीलं परिणमते नत्वनीललक्षणमिति । मायाजालसूत्रञ्चाह- अस्ति माया मायावस्तु । असति सत्त्वे सत्त्वाभासं पश्यन्तीति माया इति । भवतोक्तमकिञ्चनस्य ज्ञानादाकिञ्चन्यायतनमुपसम्पन्न इति । समाधिबलात्तदसल्लक्षणं (
६७) भवति न तु असत्तद्भवति । यथा वस्तुतः सदपिरूपमपोह्यते शून्यरूपमिति । समाधिमुपसम्पन्नेनाल्पं दृश्यत इत्यतोऽसदिच्यते । यथाल्पलवणमलवणमित्युच्यते । अल्पज्ञोऽज्ञ इति । यथा च नैवसंज्ञानासंज्ञायतनमुच्यते । तत्र वस्तुतः संज्ञायां सत्यामपि नैवास्ति न नास्तीति व्यपदिश्यते । उक्तञ्च भवता- अङ्गुल्या निदिश्यात्मानं चन्द्रद्वयं पश्यामीति । अनिभृतत्वातेकं द्विधा पश्यति । य एकाग्रचक्षुष्कः स न पश्यति । अहं प्रजानामि नाध्यात्ममस्ति छन्दराग इति यद्भवतोक्तम् । स पञ्चनीवरणविरुद्धानि सप्तबोध्यङ्गानि दृष्ट्वा मनस्कारं जनयति- अहं प्रजानामि अन्तश्छन्दाभावमिति । न तु [एकान्ततो] नास्तीति प्रजानाति । किञ्चोक्तं भवता- यत्रूपे छन्दरागं प्रहीणं प्रजानाति । तद्रूपप्रहाणमिति । परमार्थप्रज्ञादर्शनस्य मिथ्याधिमुक्तिं प्रति विरोधित्वात्छन्दरागप्रहाणमित्युच्यते । स्वप्नेऽसदपि पश्यतीति यत्भवानाह । तत्र पूर्वं दृष्टश्रुतस्मृतविकल्पित भावितान्युपादाय हि स्वप्नदर्शनम् । वातपित्तश्लेष्मणां वशाच्च स्वप्नदर्शनमनुयाति । कदाचित्कर्मप्रत्ययाच्च स्वप्नो भवति । यथा पुरा बोधिसत्त्वस्य महास्वप्ना अभूवन् । कदाचित्देवा आगम्य स्वप्नमुपदर्शयन्ति । अतः स्वप्नदर्शने नासतो ज्ञानं भवति ।

दूषणम्- यत्भवानवोचत्- द्वाभ्यां प्रत्ययाभ्यां विज्ञानमुत्पद्यत इति । इदमयुक्तम् । तथागतः पुद्गलदूषणयाह- द्वाभ्यां प्रत्ययाभ्यां विज्ञानमुत्पद्यत इति । न तु तन्निष्ठया । भवतोक्तम्- विज्ञेयसत्त्वाद्विज्ञानमस्तीति । विज्ञेयधर्मे सति अस्तीति ज्ञानम् । असति नास्तीति ज्ञानम् । यदीदं वस्तु नास्ति । तद्वस्तु नास्तीति शून्यं पश्यति । किञ्च त्रिविधनिरोधो निरोधसत्यमित्युच्यते । यदि नास्ति शून्यचित्तं किं निरूध्यते । [यत्]भवानवोचत्चक्षुर्विज्ञानं रूपं विजानाति यावन्मनोविज्ञानं धर्मान् विजानाति इति । तत्विज्ञानं विषयमात्रं विजानाति न विचिनोति सन् वा असन् वा इति । यदपि भवानाह- यद्यनालम्बनं विज्ञानमस्ति । तद्भ्रान्तमिति । तदा अस्ति असज्ज्ञानस्य (
६८) ज्ञानम् । यथा मदमत्तः पुरुषः पश्यति अविद्यमानमपि । भवानवोचत्- यदि असज्जानीयात्, संशयो न भवेदिति । किमस्ति किं वा नास्तीति यदि संशयः, तदा अनालम्बनं ज्ञानमस्ति । आह च भवान्- यथोक्तं सूत्रे यल्लोकतोऽविद्यमान आत्मा तस्य ज्ञानं दर्शनं वेति नेदं स्थानं विद्यत इति । इदं सूत्रं न धर्मलक्षणानुगतमबुद्धवचनं तदाभासं वा । समाधिर्वा एवम् । तत्समाधिमुपसम्पन्नेन यत्किञ्चित्दृश्यते सर्वं सदेव । तत्समाधित्वादेवमुच्यते । [मम वचनं प्रति]स्वतो विरुद्धमिति भवानवोचत् । अस्ति असदालम्बनं ज्ञानमिति मम वचनं न स्वतो विरुद्धम् । अवोचच्च भवान्- चित्तचैत्ता आलम्बमानाः । सर्वे धर्मा आलम्ब्या इति । सन्ति च चित्तचैत्ता अनालम्बमानाः । चित्तचैत्ता न परमायार्थालम्बनाः । अतोऽनालम्बमाना भवन्ति । धर्माणां यत्परमार्थलक्षणं तल्लक्षणैर्वियुक्तत्वात्चित्तचैत्ता नालम्बमाना भवन्ति । यत्भवान् ब्रवीति विषया विज्ञानजनकहेतवः । तेषामसत्त्वे को हेतुः स्यादिति । तद्विज्ञानं सद्धेतुकमेव । त्रयाणां सन्निपातः
स्पर्श इति । यत्र त्रीण्युपलभ्यन्ते तत्र तेषां सन्निपातः । न तु सर्वत्र त्रीणि सन्ति । अब्रवीच्च भवान्- यस्य ज्ञानं, न तदसद्भवति । यन्नास्ति, न तस्य ज्ञानमिति । यदि सदालम्बनं ज्ञानमिति । तत्रापि समो दोषः । यत्भवानाह- यथा वृक्षेऽस्ति विशुद्धतेति । नेदं युज्यते । सत्कार्यदोषात् । यद्भवतोक्तं [नील]लक्षणग्राहिचित्तं विपुलं परिणमत इति । तदपि न युक्तम् । नीललक्षणाल्पमूलं सर्वां महापृथिवीं यत्नीलं पश्यति । तदभूतदर्शनम् । तथा अल्पनीलभावनया तु सर्वं जम्बूद्वीपं यत्नीलं पश्यति न तदभूतदर्शनम् । भवान् ब्रवीति- मायाजालसूत्रमाह- अस्ति माया मायावस्तु इति । असति सत्त्वे सत्त्वाभासं सत्त्व इति पश्यति । तद्वस्तु परमार्थतोऽसत्पश्यति । तदा अनालम्बनं ज्ञानं भवति । आह च भवान्- समाधिबलात्तल्लक्षणं भवति यथा वस्तुतः सदपि रूपं शून्यतयापोह्यत इति । यदि रूपं वस्तुसदपोह्यते शून्यरूपमिति । तदा विपर्ययः । अल्पस्य सतोऽसत्तावचनमपि विपर्यय एव । अनिभृतत्वादेकं द्विधा पश्यतीति यद्वचनम् । तदपि न युज्यते । यथा तिमिरोपहतचक्षुष्क आकाशे केशान् पश्यति । तेऽवस्तुसन्तः । आह च भवान् पञ्चनीवरणविरुद्धानि सप्तबोध्यङ्गानि दृष्ट्वा मनस्कारं जनयति अहमसत्प्रजानामीति । सप्तबोध्याङ्गानि भिन्नानि । (
६९) छन्दरागाभावश्च भिन्नः । कथमेकः स्यात् । भवान् ब्रवीति- परमार्थप्रज्ञादर्शनस्य मिथ्याधिमुक्तिं प्रति विरोधितैव छन्दरागप्रहाणमिति । मिथ्याधिमुक्तिर्हि अभूतभावना । अत उच्यते छन्दरागप्रहाणं प्रज्ञाय रूपप्रहाणं भवतीति । परमार्थप्रज्ञा तु अनित्यभावना । यत्भवान् कथयति- स्वप्ने वस्तुसन् दृश्यत इति । तदयुक्तम् । यथा स्वप्ने [पश्यति] कुट्यां पततीव । न वस्तुतः पतति । अतोऽस्ति असज्ज्ञानस्य ज्ञानम् । न तु यत्न ज्ञानं प्रचरतीति सत्तालक्षणम् ॥

दशसु वादेषु आद्यसत्तालक्षणवर्ग एकोनविंशः


२० असत्तालक्षणम्

(पृ) यदि नास्तीदं सल्लक्षणम् । स्कन्धधात्वायतनसङ्गृहीतैर्धर्मैः भवितव्यमस्तीति । (उ) तदपि न युक्तम् । कस्मात् । अयं वादी वदति- स्कन्धधात्वायतनसङ्गृहीतं वस्तु पृथग्जनधर्मो न धर्मलक्षणानुगतम् । तथा चेत्तथतादयोऽसंस्कृतधर्मा अपि सन्तः स्युः । इति केचिद्वदेयुः । वस्तुतस्तु असन्तस्ते । अतो ज्ञायते स्कन्धधात्वायतनसङ्गृहीता धर्मा न सल्लक्षणा इति ।

(पृ) यत्पुरुषस्य प्रत्यक्षज्ञानादिना अस्त्युपलभ्यमिति श्रद्धा भवति तत्सल्लक्षणम् । (उ) तदपि न सल्लक्षणम् । अयं श्रद्धेयधर्मो नियतविकल्परूपो नोअलपभ्यवचनः । आह च सूत्रम्- ज्ञानप्रतिशरणेन भवितव्यं न विज्ञानप्रतिशरणेन इति । स्वभावलब्धत्वात्रूपादयो विषया नोपलम्भनीया इति पश्चाद्वक्ष्यते । इमेऽसल्लक्षणाः सन्तो [वस्तुतो] नापोह्यन्ते । अस्तितयोपलम्भलक्षणं कथं स्थाप्येत । (पृ) भावधर्मयोगादस्तीत्युच्यते । (उ) भावश्च पश्चाद्दूषयिष्यते । नह्यस्ति भावे भावः । कथं भावधर्मयोगादस्तीति । (
७०) प्रतीत्यसमुत्पन्नत्वाद्धावलक्षणं नियतविकल्परूपं नोपलभ्यवचनम् । लोकसत्यमात्रतोऽस्ति न परमार्थतः ।

(पृ) यदि लोकसत्यतोऽस्ति । तदा पुनर्वक्तव्यं लोकसत्यतोऽतीतोऽनागतश्च किमस्ति उत नास्ति इति । (उ) नास्ति । कस्मात् । ये रूपादयः स्कन्धा वर्तमानाध्वगताः, ते सकारित्रा उपलभ्यज्ञानदर्शनाः । यथोक्तं सूत्रे- रूप्यत इति रूपलक्षणमिति । यद्वर्तमानाध्वगतं तत्रूप्यते नातीतमनागतं वा । तथा वेदनादयोऽपि । अतो ज्ञायते वर्तमानमात्रे सन्ति पञ्च स्कन्धाः । नाध्वद्वये सन्ति । अथ यो धर्मः कारित्रविहीनः स स्वलक्षणविहीनः । यद्यतीतो वह्निर्न दहति । न स वह्निरित्याख्यायते । तथा विज्ञानमपि, यद्यतीतं न विजानाति न तद्विज्ञानमित्युच्यते । यन्निर्हेतुकं तदस्तीति न युज्यते । अतीतो धर्मो निर्हेतुकः, सोऽस्तीति न युज्यते । अथ प्राकृताः सन्तो धर्माः प्रतीत्यसमुत्पन्नाः । यथा अस्ति पृथिवी, सन्ति बीजसलिलादयः प्रत्ययाः, तदा अङ्कुरादिकमुत्पद्यते । पत्रलेखिनीपुरुषकारेषु सत्सु सिध्यत्यक्षरम् । द्वयोर्धर्मयोः समवाये विज्ञानमुत्पद्यते । अनागतेऽध्वनि अङ्कुराक्षरविज्ञानादीनां कारणानि असमवेतानि । कथं सन्तीति लभ्यन्ते । अतोऽध्वद्वयमसत्स्यात् ।

अथ यद्यनागतधर्मोऽस्ति । तदा नित्यः स्यात् । अनागताद्वर्तमानं प्रत्यनुप्राप्तेः । यथा कुटीतः कुटीमनुप्राप्नोति । तदा नानित्यः स्यात् । न चैतत्सम्भवति । यथोक्तं सूत्रे- चक्षुर्विज्ञानमुत्पद्यमानं न कुतश्चिदागच्छति । निरुध्यमानं न क्वचिद्गच्छति । इति । अतोऽतीतानागतधर्मौ न कल्पयितव्यौ । अथ यद्यनागतं सत्चक्षू रूपं पश्यति तदा सकारित्रं स्यात् । तथातीतमपि । न तु वस्तुतो युज्यते । अतो ज्ञायते अतीतानागतधर्मोऽसन्निति । [यदि]अतीतानागतरूपमस्ति, तदा सप्रतिघं सावरणञ्च स्यात् । न वस्तुतो युज्यते । अतो नास्ति । अथ यदि घटादयः पदार्थाः अनागताः सन्ति । तदा कुलालादयः सव्यापारा न भवेयुः । दृश्यन्ते तु सव्यापाराः । अतो नास्त्यनागतः । किञ्च भगवानाहसंस्कृतधर्मा उत्पादव्ययस्थित्यन्यथात्वै स्त्रिलक्षणा उपलभ्यन्ते इति । उत्पाद इति यो धर्मः (
७१) पूर्वमभूत्वा इदानीं सव्यापारो दृश्यते । व्यय इति कृतः पुनरसन् भवति । स्थित्यन्यथात्वमिति सन्तत्या स्थिते विकरोऽन्यथात्वम् । इमानि त्रीणि संस्कृतलक्षणानि वर्तमानगतानि नातीतानागतानि ॥

असत्तालक्षणवर्गो विंशः ।


२१ अध्व द्वयसत्तावर्गः

(पृ) वस्तुसदतीमनागतम् । कस्मात् । यो धर्मोऽस्ति तत्र चित्तं भवति । यथा वर्तमानधर्मोऽसंस्कृतधर्माश्च । भगवान् रूपलक्षणमुक्त्वा पुनराह- अतीतमनागतञ्च रूपमिति । अपिचाह- यत्किञ्चन रूपमाध्यात्मिकं बाह्यं वा औदारिकं सूक्ष्मं वा अतीतमनागतं प्रत्युत्पन्नं वा [सर्व]मभिसंक्षिप्य रूपस्कन्ध इति । किञ्चाह- [रूप]मनित्यमतीतमनागतम्, कः पुनर्वादः प्रत्युत्पन्नमिति । अनित्यं हि संस्कृतलक्षणम् । अतोऽस्तीति वक्तव्यम् । दृष्टे ज्ञानात्ज्ञानमुत्पद्यते इति परिभावितत्वात् । यथा शालेः शालिर्भवति । अतोऽतीतमस्तीति स्यात् । यदि नास्त्यतीतं, फलं निर्हेतुकं स्यात् । उक्तञ्च सूत्रे- यदतीतं वस्तुसथितकरं तद्भगवानुपदिशति । इति । किञ्चाह- अतीतमनागतं सर्वमनात्मानं भावयेत् । इति । अनागतालम्बनं मनोविज्ञानमतीतं मन आश्रयते । यदातीतं विज्ञानमसत्, किमाश्रयेत् । अतीतकर्मत अनागतं फलमिति ज्ञानं सम्यग्दृष्टिः । तथागतस्य दशबलान्यतीतानागतकर्माणि जनयन्ति । तथागतः स्वयमेव वदति- यस्य नास्त्यतीतं कृतं पापकर्म स पुरुषो नैव दुर्गतौ पतिष्यति इति । सास्रवचित्तवर्तिनां शैक्षाणां श्रद्धादिन्यनास्रवेन्द्रियाणि न स्युः । आर्याश्चानागतं वस्तु न व्यवस्थया (
७२) व्याकुर्यः । स्मृतिर्यदि नास्ति अतीतानागतयोः तदा पुरुषो नानुस्मरेत्पञ्चविषयान् । कस्मात् । नहि मनोविज्ञानं दृष्टे पञ्च विषयान् प्रजानाति । किञ्चाष्टादश मनौपविचारा अतीतालम्बना इत्युच्यन्ते । यद्यतीतमनागतं नास्ति, तदा अर्हन्न कीर्तयेत्- अहं ध्यानसमाधिमुपसम्पन्न इति । नहि समाधिस्थितो वचनं वक्ति । चतुर्षु स्मृत्युपस्थानेषु अधिचित्तमधिवेदनञ्च भावना न भवेत् । कुतः । नहि प्रत्युत्पन्नेऽतीतं भावयतीति
लभ्यते । चत्वारि सम्यक्प्रधानानि च नाभ्यस्येत् । कुतः । नह्यनागताध्वगता अकुशला धर्माः सन्ति । तथान्यानि त्रीण्यपि । यद्यतीतमनागतं नास्ति, तदा तथागतोऽसन् स्यात् । दीर्घमल्पकालं वा शीलाभ्यासश्च न स्यादित्यतो न युज्यते ॥

अध्वद्वयसत्तावर्ग एकविंशः ।


२२ अध्वद्वयनास्तितावर्गः

अत्रोच्यते । अतीतमनागतञ्च नास्ति । भवता यद्यप्युक्तं सति धर्मे चित्तमुत्पद्यत इति । तत्पूर्वमेव प्रत्युक्तम् । असन् धर्मोऽपि चित्तमुत्पादयतीति । यदुच्यते भवता- रूपलक्षणेन रूपसंज्ञया [अतीतं] रूपं लक्ष्यत इति । तदपि न युक्तम् । यदतीतमनागतम्, तद्रूपं न स्यात् । रूपणाभावात् । अनित्यलक्षणमित्यपि न वक्तव्यम् । भगवान् सत्त्वानां केवलमिथ्यासंज्ञाविकल्पानुवर्तनात्तन्नाम व्यवहरति । भवानाह- ज्ञानात्ज्ञानं भवतीति । हेतुः फलस्य हेतुक्रियां कृत्वा निरुध्यते ।यथा बीजमङ्कुरस्य हेतुं कृत्वा निरुध्यते । भगवानप्याह- अस्योत्पादादिदमुत्पद्यत इति । भवतोक्तं- यत्वस्तु सथितकरं तद्भगवानुपदिशतीति । भगवदुक्तं वस्त्विदं प्रकृतितः प्रत्युत्पन्नकालेऽनुक्तमप्यस्ति । यदि मतम्- अतीतं निरुद्धमिति । तदा नास्तीति ज्ञायते । भवानाह- सर्वमनात्म (
७३) भावयेतिति । यस्मात्सत्त्वा अतीताननागतान् धर्मान् सात्मनो मन्यन्ते तस्मात्भगवानेवमवोचत् । भवतोक्तम् [इति ज्ञानं] सम्यक्दृष्टिरिति । यस्मात्कायोऽयं कर्मसमुत्पादकः । तच्च कर्म फलस्य हेतुं कृत्वा निरुद्धम् । पश्चाच्च तत्फलं पुनरात्मनानुभूयते । तस्मादुक्तम्- अस्ति फलमिति । तथागतशासने अस्ति वा नास्ति वा इति सर्वमुपाय इत्युच्यते । पुण्यपापकर्मप्रत्ययत्वप्रदर्शनार्थम्, नतु परमार्थतः । यथा प्रतीत्यास्ति सत्त्व इत्युच्यते । तथातीतमनागतमपि । अतीतं मन आश्रयत इतीदमपि उपायाश्रयणम् । न तु यथा पुरुषेण भित्त्याद्याश्रीयते । चित्तस्योत्पादो नात्मनि निश्रयत इति च विशदम् । पूर्वचित्तमुपादायानन्तरचित्तमुत्पद्यते । तथा कर्मबलमपि । तथागतः प्रजानाति- कर्मनिरुद्धमपि फलस्य हेतुं करोतीति । न वदति एकान्ततः प्रजानामीति । यथर्णपत्नस्थमक्षरम् । तथा पापकर्मापि । अनेन कायेन कर्म क्रियते । तस्य च कर्मणो निरोधेऽपि विपाको न प्रणश्यति ।

भवानाह- श्रद्धादीन्यनास्रवेन्द्रियाणि न स्युरिति । यदि शैक्षोऽनास्रवेन्द्रियं लब्धवान् । प्रत्युत्पन्नस्थमेव लब्धवान् । अतीतं निरुद्धमनागतञ्चाप्राप्तम् । [प्रत्युत्पन्नन्तु] समन्वागतमित्यतो नास्तीति न वक्तुं शक्यते । भवानाह- आर्या अनागतं न व्याकुर्युरिति । आर्यज्ञानबलेन हि तथा । असन्तं धर्ममपि व्याकुर्वन्ति । यथा अतीतं धर्मं निरुद्धमपि स्मृतिबलात्प्रजानाति । भवानाह- नानुस्मरेत्पञ्च विषयानिति । प्राकृतो जनो मोहादभूतस्मृत्या पूर्वगृहीतं नियतलक्षणं पश्चान्निरुद्धमपि उत्पद्यमान[मिवा]नुस्मरति । स्मृतिधर्मश्च तथैव स्यात् । न तु शशशृङ्गादिसमाना स्यात् । अष्टादशमौपविचाराः पुनरेवम् । प्रत्युत्पन्नगृहीतं रूपं निरुद्धातीतमपि तत्स्मृतिरनुवर्तते । भवानाह- न कीर्तयेत्- अहं ध्यानसमाधिं लब्धवानिति । तं समाधिं [पूर्वं] प्रत्युत्पन्नेऽलभत । अनुस्मरणबलाद्वदति- अहं लब्धवानिति । भवान् ब्रवीति- अधिचित्तमधिवेदनञ्च भावना न भवेतिति । चित्तं द्विधाक्षणिकमानुबन्धिकमिति । प्रत्युत्पन्नं चित्तं प्रयुज्यानुबन्धिकं चित्तं भावयति । न त्वनुस्मृतो वर्तते । भवानवोचत्- चत्वारि सम्यक्प्रधानानि नाभ्यस्येदिति । अनागताकुशलधर्माणां निदानमपसारयति । अनागतकुशलधर्माणां निदानमुत्पादयति । भवानाह- तदा तथागतोऽसन् स्यादिति । तथागतः परिनिर्वृतलक्षणः । [अतीते]ऽध्वनि दृष्टोऽपि [प्रत्युत्पन्ने] (
७४) अस्ति नास्तीति न परिगृह्यते । स परिनिर्वाय पारगतः खलु । सत्त्वाश्च शरणीकुर्वन्ति यथा लौकिकाः पितरावाराधयन्ति । उक्तञ्च भवता- सूदीर्घमल्पकालं वा शीलाभ्यासश्च न स्यादिति । न हि कालतः शीलं विशिष्यते । कस्मात् । न हि कालो द्रव्यम् । धर्माणामुत्पत्तिव्ययसमवायमात्रं कालोऽस्तीत्युच्यते । तस्माद्भवतोक्ता हेतवः सर्वेऽयुक्ताः ॥

अध्वद्वयनास्तितावर्गो द्वाविंशः ।


२३ सर्वधर्मसदसत्तावर्गः

शास्त्रमाह- केचिद्वदन्ति सर्वे धर्माः सन्तीति । केचिद्वदन्ति- सर्वे धर्मा न सन्तीति ।

(पृ) केन कारणेन अस्तीति वदन्ति । केन कारणेन नास्तीति । (उ) अस्तीति । भगवानाह- सर्वं सर्वमिति ब्राह्मण यावदेव द्वादशायतनानि । सर्वमस्ति [ब्राह्मण] इति । पृथिव्यादीनि द्रव्याणि संख्यादयो गुणाः उत्क्षेपणावक्षेपणादिकं कर्म । सामान्यविशेषसमवायादयो धर्माः । मूलप्रकृत्यादयः । लोके च शशविषाणकूर्मरोमाहिपादलवणगन्धवायुरूपादयो न सन्ति । उक्तं हि भगवता सूत्रे-

आकाशे [च] पदं नास्ति श्रमणो नास्ति बाह्यतः ।
प्रपञ्चाभिरता लोका निष्प्रपञ्चास्तथागताः ॥ इति

अनुभववशाद्धर्माः सन्तीत्युच्यन्ते । यथा द्रव्यादयः षट्पदार्थास्सन्ति औलूक्यानाम् । पञ्चविंशतितत्त्वानि सन्ति सांख्यानाम् । षोडश पदार्थाः सन्ति नयसोमानाम् ।

(
७५)
यदि वस्तुसाधनी युक्तिरस्ति । तदा अस्तीत्युच्यते । यथा द्वादशायतनानि । भगवतः शासन उपायतया सर्वमस्तीति वा सर्वं नास्तीति वोच्यते । न तु परमार्थतः । कस्मात् । अस्तीति व्यवस्थायां शाश्वतान्तपातः । नास्तीति व्यवस्थायामुच्छेदान्तपातः । अनयोरन्तयोर्वर्जनमेवार्या मध्यमा पतिपत् ॥

सर्वधर्मसदसत्तावर्गस्त्रयोविंशः ।


२४ अन्तराभवास्तितावर्गः

शास्त्रमाह- केचिद्वदन्ति- अस्त्यन्तराभव इति । केचिद्वदन्ति नास्तीति । (पृ) केन कारणेनास्तीति वदन्ति । केन कारणेन नास्तीति । (उ) अस्त्यन्तराभवः । आश्वलायनसूत्रे हि भगवानाह- यदा पितरौ सन्निपतितौ भवतः । गन्धर्वश्च प्रत्युपस्थितो भवति इति । अतो ज्ञायते अस्त्यन्तराभव इति । वत्ससूत्रञ्चाह- यस्मिन् समये सत्त्व इमं कायं निक्षिपति पुनश्चित्तोत्पादनकायमनुपादानो भवति । अस्मिन्नन्तराले [भवं] उपादानप्रत्ययं वदामि । अयमन्तरा भव इति । सप्तसत्पुरुषेषु अस्त्यन्तरापरिनिर्वायी । उक्तञ्चसूत्रे- व्यवकीर्णं कर्माभिसंस्कृत्य व्यवकीर्णं कायमुपादाय व्यवकीर्णे लोक उत्पद्यते । ज्ञातव्यमस्त्यन्तराभव इति । किञ्चोक्तं सूत्रे- चत्वारो भवाः पूर्वकालभवो मरणभवोऽन्तराभव उपपत्तिभव इति । आह च- सप्तभवाः- पञ्चगतयः (
७६) कर्मभवोऽन्तराभव इति । आह च- यमराजोऽन्तराभवे पापिनः सन्तर्ज्य व्यत्यस्तं पातयन्ति । इति । तथागतोऽन्तराभवमुपादाय सत्त्वानां पूर्वनिवासं प्रजानाति अयं सत्त्वोऽस्मिनुपपत्तिस्थान उत्पद्यते स सत्त्वस्तस्मिन्नुपपत्तिस्थान इति । उक्तञ्च सूत्रे- दिव्येन चक्षुषा पश्यति सत्त्वान् च्यवमानानुपपद्यमानांश्चेति । किञ्चाह- सत्त्वो [अन्तरा]भवसन्तत्या अस्माल्लोकात्परलोकं सङ्क्रामति । इति । लौकिका अपि अस्त्यन्तराभव इति श्रद्धधाना वदन्तिम्रियमाणस्य सूक्ष्माणि चत्वारि महाभूतानि अस्माद्भवात्[भवान्तरं] क्रामन्ति इति । सत्यन्तराभवे परलोकः । असत्यन्तराभवे नास्ति परलोकः । यदि नास्त्यन्तराभवः, इमं कायं विसृज्य परकायमनुपादानस्यान्तरा व्युच्छेदः स्यात् । अतो ज्ञायतेऽस्त्यन्तराभव इति ॥

अन्तराभवास्तितावर्गश्चतुर्विंशः ।


२५ अन्तराभवनास्तितावर्ग

केचिद्वदन्ति- नास्त्यन्तराभव इति । यद्यप्युक्तं भवता- आश्वलायनसूत्र उक्तमस्त्यन्तराभव इति । तन्न युक्तम् । कस्मात् । यद्यार्या न जानन्ति- अयं कः कुत आगत इति । तदा नास्त्यन्तराभवः । यद्यस्ति कस्मान्न जानन्ति । भवानाह- वत्ससूत्र उक्तमिति । इदमयुक्तम् । कुतः । सूत्रेऽस्मिन् प्रश्नोऽन्यः प्रतिवचनञ्चान्यत् । अनेन ब्राह्मणेन कल्पितम्- अन्यः कायोऽन्यो जीव इति । अत एवं प्रतिवक्ति- सन्त्यन्तराभवे पञ्चस्कन्धा इति । भवानाह- अस्त्यन्तरापरिनिर्वायीति । स कामरूपधात्वोरन्तरा कायमुपादाय तत्र परिनिर्वृत इति अन्तरापरिनिर्वायी । कस्मात् । यथोक्तं सूत्रे- कश्चिन्म्रियमाणः कुत्र गच्छति कुत्रोत्पद्यते कुत्र तिष्ठति इतीदमेकार्थकम् । भवानाह- व्यवकीर्णं कायमुपादाय व्यवकीर्णे लोक उत्पद्यत इति । कायमुपादायेति वचनं लोक उत्पद्यत इति चेदमेकार्थकम् । चत्वारो भवाः सप्त भवा इति च भवदुक्तं सूत्रमयुक्तम् । धर्मलक्षणाननुगमात् । भवदुक्तं यमराजसन्तर्जनमुपपत्तिभवे भवति नान्तराभवे । भवानाह- तथागतोऽन्तराभवमुपादाय (
७७) पूर्वनिवासं प्रजानातीति । तदयुक्तम् । आर्यज्ञानबलं हि तत् । असन्तमनागतमपि स्मृत्या प्रजानाति । भवानाह- दिव्येन चक्षुषा पश्यति म्रियमाणानुपपद्यमानानिति । उत्पित्सुः स उपपद्यमान इत्युच्यते । मरणोन्मुखश्च च्यवमानः । नत्वन्तराभवगतः । भवानाह- सत्त्वो भवसन्तत्या अस्माल्लोकात्परलोकं सङ्क्रामतीति । परलोकास्तित्वप्रदर्शनाय तादृशं वचनं न त्वन्तराभवास्तित्वप्रकाशनाय । भवानाह- म्रियमाणस्य सूक्ष्माणि चत्वारि महाभूतानि भवान्तरं क्रामन्तीति । कौकिकानामुपलभ्यमश्रद्धेयम् । न तद्धेतुरुपयुज्यते । भवानाह- यदि नास्त्यन्तराभवः अन्तराव्युच्छेदः स्यादिति । कर्मबलादयमत्रोत्पद्यते यथा अतीतमनागतमननुवृत्तमपि संस्मरति । अतो नास्त्यन्तराभवः ।

पूर्वनिवासज्ञान उक्तं जानाति अयं पुरुषोऽस्मिंल्लोके मृतस्तस्मिंल्लोक उत्पद्यत इति न तूक्तमन्तराभवे तिष्ठतीति । तथागत आह- त्रिविधं कर्म दृष्टविपाकमुपपत्तिविपाकमूर्ध्वविपाकमिति । न त्वाह- अन्तराभवविपाकं कर्मेति । यद्यन्तराभवे स्पर्शोऽस्ति । स एवोपपत्तिभव इत्युच्यते । यदि न स्पृशति, स्पर्शविहीनः । स्पर्शविहीनत्वाद्वेदनादयोऽपि न सन्ति । तादृशं पुनः कुत्रास्ति । यः सत्त्वोऽन्तराभवरूपमुपादत्ते स एवोपपत्तिं वेदयते । यथोक्तं सूत्रे- यदिमं कायं निक्षिपन् कायान्तरमुपादत्ते तदहं वदामि उपपत्तिरिति । यदि न कायमुपादत्ते । तदा नास्त्यन्तराभवः । यद्यन्तराभवे च्युतिः । उपपत्तिरेव सा । कुतः । पूर्वमुत्पद्यन्नस्य पश्चादवश्यं च्युतेः । यदि नास्ति च्युतिः । नित्यो भवेत् । कर्मबलाच्चोपपत्तिरिति किमन्तराभवेन । यद्यन्तराभव कर्मतः सिद्धः । स एवोपपत्तिभवः । यथोच्यते- कर्मप्रत्यया जातिरिति । यन्न कर्मतः सिद्धम् । केन भवोऽस्ति । तत्प्रतिवक्तव्यम् ।

उच्यते । उपपत्तिविशेषमेवान्तराभवं वदामः । अतो नास्ति यथोक्तदोषः । अन्तराभव उत्पन्नस्याप्यस्य उपपत्तिभवान्तरयोगो भवति । यतः कलले विज्ञानमुपसङ्क्रामति । अयमन्तराभव इत्युच्यते ।

अत्र दूषणमाह । कर्मबलादुपसङ्क्रामति । किमन्तराभवविकल्पेन । चित्तं न कुत्रचिदुपसङ्क्रामति । कर्मप्रत्ययात्तु अस्मिंल्लोके निरुद्धं तत्रोत्पद्यते । नहि प्रत्यक्षं दृश्यते चित्तं सन्तत्योत्पद्यत इति । यथा पादे विद्धस्य शिरसि वेदनानुभूयते । न तत्र पादे स्थितं (
७८) विज्ञानं भवप्रत्ययं शिरसि सङ्क्रामति । अतो सन्निकृष्टविप्रकृष्टप्रत्ययगणसामग्र्य तु चिततुत्पद्यते । अतोऽस्त्यन्तराभव इति न कल्पना कार्या ॥

अन्तराभवनास्तित्ववर्गः पञ्चविंशः ।


२६ अनुपूर्ववर्गः

शास्त्रमाह । केचिद्वदन्ति चतुर्णां सत्यानामनुपूर्वेणाभिसमय इति । केचिद्वदन्ति एकक्षणेनेति । (पृ) केन कारणेनोच्यते अनुपूर्वेणाभिसमयः, केन कारणेन एकक्षणेनाभिसमय इति । (उ) अनुपूर्वेणाभिसमयः । यथोक्तं सूत्रे लोकस्य समुदयं पश्यतो नास्तितादृष्टिर्न भवति । लोकस्य निरोधं पश्यतोऽस्तितादृष्टिर्न भवति इति । अतो ज्ञातव्यं निरोधसमुदययोर्लक्षणं प्रत्येकं पृथगिति । यः प्रजानाति- यत्समुदयलक्षणं तत्सर्वं निरोधलक्षणमिति । तस्य विरजं वीतमलं धर्मचक्षुर्भवति । आह च-

अनुपूर्वेण मेधावी स्तोकं स्तोकं क्षणे क्षणे ।
कर्मारो रेजतस्येव निर्धमेन्मलमात्मनः ॥ इति ॥

आस्रवक्षयसूत्रमाह जानतः पश्यतः आस्रवाणां क्षयो भवति इति । प्रतिपत्तुप्रतिदिनं क्षीयमाणं स्वयमजानतोऽपि सदा भावितत्वातास्रवाणां क्षयो भवति । (
७९) भगवानाह सत्येषु उदपद्यत चक्षुः ज्ञानं विद्या प्रज्ञा इति । कामधातुकदुःखे द्वौ [क्षणौ] रूपारूप्यधातक [दुःखे] च द्वौ । तथा समुदायदावपि । सूत्रे च भगवान् कण्ठत आह अनुपूर्वेण सत्याभिसमय इति । यथा पुरुषः श्रेणिमारुह्य उपर्यारोहति । इत्यादिसूत्रात्ज्ञायते चतुस्सत्यानि नैककालिकानि इति । क्लेशानाञ्च चतुस्सत्येषु चतुर्धा मिथ्याचारा भवन्ति यदुत नास्ति दुखं, नास्ति समुदयः, नास्ति निरोधः, नास्ति मार्गः इति । अनास्रवज्ञानस्यापि अनुपूर्वेण चतुर्धा सम्यगाचाराः स्युः । योगी च चित्तं समाधाय इदं दुःखमयं दुःखनिरोध इयं दुःखनिगामिनी पतिपतिति विकल्पयेत् । यद्येकस्मिन् चित्ते स्यात्कथमेवमनुपूर्वेण समाधिविकल्पो भवेत् । अतो ज्ञायते अनुपूर्वेणाभिसमयो नैकक्षणेनेति ।

अनुपूर्ववर्गः षड्विंशः ।


२७ एकक्षणवर्गः

केचिदाहुः चतुर्णां सत्यानामभिसमयो नानुपूर्वेणेति । भवानाह लोकस्य समुदयं पश्यतो नस्तितादृष्टिर्न भवति । लोकस्य निरोधं पश्यतो अस्तितादृष्टिर्न भवतीति । तदा स्वमतं विनश्येत् । तथा चेत्षोडशभिः चित्तक्षणैः द्वादशभिराकारैश्च मार्गो लभ्यत इति न स्यात् । भवतोक्तं यत्समुदयलक्षणं सर्वं तन्निरोधलक्षणमिति प्रजानतो धर्मचक्षुर्भवतीति । तथा चेत्चित्तद्वयेन मार्गलाभः स्यात्- अद्यं समुदयचित्तं द्वितीयं निरोधचित्तमिति । न त्वैतद्युक्तम् । भवानाह अनुपूर्वेण मेधावी स्तोकं स्तोकं क्षणे क्षणे । ....निर्धमेन्मलमात्मन इति [अनेनापि] न स्यात्षोडशमात्रैश्चित्तक्षणैरिति । भवतोक्तमास्रवक्षयसूत्रमाह रूपादीन् जानतः पश्यतः आस्रवानां क्षयो भवतीति । एवञ्चाप्रमाणचित्तानि स्युः न तु षोडशचित्तमात्राणि । भवतोक्तं- चक्षुर्ज्ञानं विद्या प्रज्ञेति । भगवान् स्वयं ब्रवीति चतुर्षु सत्येषु ज्ञानं चक्षुर्विद्या प्रज्ञोदपद्यतेति न ब्रवीति अनुपूर्वेण षोडशचित्तक्षणानि भवन्तीति । (
८०) भवतोक्तं भगवान् कण्ठेनाह- अनुपूर्वेण सत्यभिसमयः श्रेण्यारोहणवतिति । नाधीतमिदं सूत्रमस्माभिः । सत्त्वेऽपि निराकर्तव्यमेव । धर्मलक्षणाननुगमात् । भवतोक्तं चतुर्धा मिथ्याचारा भवन्तीति । पञ्चस्कन्धादावपि मिथ्याचाराः स्युः । यान्मिथ्याचाराननुसृत्य सर्वं ज्ञानमुत्पद्येत । एवं च षोडशभिरेव चित्तक्षणैर्मार्गलाभ इति न स्यात् । भवानाह समाध्या विकल्पयेदिति । रूपादावपि तथा विकल्पयेत् । अतो न षोडशैव चित्तक्षणाः स्युः ।

[योगिनो] न [नाना]सत्यानि भवन्ति किन्तु एकमेव सत्यं भवति यदुत दुःखनिरोधदर्शनमाद्याभिसम्बोधि नामकम् । दृश्यधर्मादीनां प्रतीत्यसमुत्पन्नत्वात्योगी ऊष्मगतादिधर्मानुपूर्वेण चरमनिरोधसत्यरूपं सत्यं पश्यति । निरोधसत्यदर्शनान्मार्गलाभैत्याख्यायते ।

एकक्षण सप्तविंशः ।


२८ परिहाणवर्गः

शास्त्रमाह- केचिद्वदन्ति अर्हन् परिहीयते । केचिद्वदन्ति न परिहीयत इति । (पृ) केन कारणेन परिहीयते केन कारणेन न परिहीयते । (उ) परिहीयत इति । यथोक्तं सूत्रे- पञ्च हेतवः पञ्च प्रत्ययाः समयविमुक्तस्यार्हतः परिहाणाय संवर्तन्ते । कतमे पञ्च । कर्मप्रसृतो भवति । भाष्यप्रसृतो भवति । अधिकरणप्रसृतो भवति । दीर्घचारिकायोगमनुयुक्तो भवति । दीर्घेण रोगजातेन स्पृष्टो भवति । इति । आह च सूत्रं द्विविधोऽर्हन् परिहाणलक्षणोऽपरिहाणलक्षण इति । अपि चोक्तं सूत्रे यद्यमुको भिक्षुः विमुक्तिमुखात्परिहीयते तदिदं स्थानं विद्यते इति । अपि चोक्तं सूत्रे-

कुम्भोपमं कायमिदं विदित्वा नगरोपमं चित्तमिदं स्थापयेत् ।
युध्येत मारं प्रज्ञायुधेन जितञ्च रक्षेदनिवेशनः स्यात् ॥ इति ।

(
८१)
अपरिहीनस्य जितरक्षणं न स्यात् । ज्ञानञ्च द्विविधं- क्षयज्ञानमनुत्पादज्ञानमिति । क्षयज्ञानवान्न पुनरुत्पद्यते । किमनुत्पादज्ञानेन । उदायिनो या निरोधसमापत्ति दुर्लभा । स एव परिहाणहेतुः । स परिहीनोऽपि रूपधाताव(वु)दपद्यत इत्यादिभिः कारणैः ज्ञातव्यं परिहीयत इति ।

परिहाणवर्ग अष्टाविंशः ।


२९ अपरिहाणवर्गः

केचिद्वदन्ति आर्यमार्गान्न परिहीयते ध्यानसमाधेः परं परिहीयत इति । (पृ) तथा चेतर्हन् द्विविधो न स्यात् । अस्ति खलु परिहाणलक्षणः । सर्वेषामर्हतां ध्यानसमाधिभ्यः परिहाणमस्त्येव । (उ) ध्यानसमाधिपरिहीणस्य वशिताबलमस्ति न तु सर्वेषामर्हताम् । (पृ) न युज्यते । यथा गौधिको भिक्षुः षड्वारं [चेतोविमुक्तेः] परिहीणः असिना आत्मानं जघान । यदि ध्यानसमाधेः प्रहीणः, नात्मानं हन्यात् । तथागताशासने हि विमुक्तिः प्रधाना न समाधिः । (उ) स इमं ध्यानसमाधिमवलम्ब्यार्हन्मार्गं स्पृशेत् । तस्मात्समाधेः च्युतस्यानास्रवं च्यवते न तु अनास्रवात्परिहीयते । कस्मात् । यथाह गाथा-

क्षीणं पुराणं न नवोऽस्ति सम्भवो विरक्तचित्ता आयतिके भवे च ।
ते क्षीणबीजा अविरुढच्छन्दा निर्वान्ति धीरा यथायं प्रदीपः ॥ इति ।

किञ्चाह-

शैलो यथा चैकघनो वातेन न समीर्यते ।
एवं निन्दाप्रशंसासु न समिञ्जन्ति पण्डिताः । इति ।

अपि चोक्तं सूत्रे- तृष्णा तृष्णाजननीत्यादि । तृष्णामूलमर्हतोऽत्यन्तमुन्मूलितम् । कुतः प्रवर्तेत संयोजनम् । आह च- आर्योऽत्यन्तपरिक्षीणान्तः कृतकरणीय इति । किञ्चाह- आर्यस्य क्षीयमाणः समुदयो न पुनर्भवति । प्रदलितं विज्ञानं न [पुनः] भवति (
८२) इत्यादि । उक्तञ्च सूत्रे- अविद्याप्रत्ययाः कामद्वेषमोहाः प्रवर्तन्ते । अर्हतोऽत्यन्तपरिक्षीणाविद्या । [तस्य] कथं संयोजनानि प्रवर्तन्ते । इति । किञ्चोक्तं सूत्रे- ये शैक्षा निर्वाणमार्गं पर्येषन्ते । अहं वदामि तैरप्रमत्तैर्भवितव्यमिति । येषामास्रवाः क्षीणाः न तेषां पुनरास्रवा भवन्ति । अतो नास्ति परिहाणिः । किञ्चाह- विद्वान कुशलभावनः कुशलवाक्कुशलकायकर्मान्तः करणीयान्न च्यवत इति । अपि चाह-

अप्रमादरतो भिक्षुः प्रमादे भयकोविदः ।
अभव्यः परिहाणाय निर्वाणस्यैव सन्तिके ॥ इति ।

उक्तञ्च सूत्रे-

मृगा वनाश्रया एव विहगा गगनाश्रयाः ।
प्रविवेकपरो धर्मः सज्जनाः शमनिश्रिताः ॥ इति

त्रीणि निदानानि संयोजनानां समुत्पादाय अप्रहीणच्छन्दरागः, छन्दरागस्थानीयस्योपस्थानं, तत्र मिथ्यामनस्कारसमुत्पादः । अर्हतः छन्दरागः प्रहीणः । छन्दरागस्थानीयस्यो [पस्थिता]वपि न मिथ्यामनस्कारः समुद्यते । अतः संयोजनानि नोत्पादयति । आह च- धर्मान्मिथ्याभावयतो भिक्षोस्त्रय आस्रवाः प्रादुर्भवन्ति इति । अर्हन् पुनर्न मिथ्याभावयतीति न त आस्रवाः प्रादुर्भवन्ति इति । किञ्चोक्तं सूत्रे- य आर्यप्रज्ञया प्रजानाति न स परिहीयते । यथा स्रोतआपत्तिफलमपरिहीणमिति । कीञ्चार्हन् तिस्रो वेदनाः सम्यक्प्रजानाति [तासा]मुत्पादलक्षणं निरोधलक्षणमास्वादलक्षणं मार्गलक्षणं निस्सरणलक्षणञ्चेत्यतो नोत्पादयति संयोजनम् । किञ्चाह- यो भिक्षुः शीलसमाधिप्रज्ञाख्यै स्त्रिभिर्धर्मैः समन्वागतः स न परिहीयते । इति । अर्हत उत्पन्नं संयोजनं प्रहीणम् । अनागतञ्च नोत्पादयति । यथोक्तं सूत्रे- सत्यविहारी आर्यो नैव परिहीयत इति । अर्हन् (
८३) साक्षात्कृतचतुस्सत्यः क्षीणास्रव इत्यतः सत्यविहारीत्युच्यते । किञ्चाह- सप्तबोध्यङ्गानि अपरिहाणीया धर्मा इति । अर्हतः सप्तबोध्यङ्गसम्पन्नत्वात्न परिहाणिर्भवति । किञ्चार्हनकोप्यां [चेतो]विमुक्तिं साक्षात्कृतत्वानित्यतो न परिहीयते । अर्हन् तथागतशासने सारमर्थं प्रतिलब्धवान् यदुताकोप्या चेतोविमुक्तिः । कस्यचित्करच्छेदवत्तत्स्मरणेऽस्मरणे च सदा करच्छेदोऽस्त्येव । तथा अर्हतः प्रहीणं संयोजनम् । तत्समरणेऽस्मरणे च सदा प्रहाणमस्त्येव । किञ्चोक्तं सूत्रे- श्रद्धादिनामिन्द्रियाणां तीक्ष्णत्वातर्हन् भवति इति । तीक्ष्णेन्द्रियः कदापि न परिहीयते । अनुत्तमतृष्णाप्रहाणधर्मकुशलस्यार्हतश्चित्तं सम्यग्विमुच्यतेऽत्यन्तं क्षीयते । तद्यथा दहनोऽदग्धं दहति दग्ध्वा च नपुनस्तत्र प्रत्यावर्तते
। एवं भिक्षुः एका दशभिर्धर्मैः समन्वागत इत्यतो न कदापि परिहीयते ।

(पृ) द्विविधोऽर्हनिति भवतोदाहृतसूत्रमाह- अस्ति अपरिहाण[लक्षण] इति । (उ) इदं सामान्यत उक्तम् । शैक्षेरप्रमत्तैर्भवितव्यमिति अर्हन्तमनपेक्ष्य, न तु विशेषत उक्तमपरिहाणलक्षणोऽस्तीति । भगवनाह गाथाम्-

जिनश्चेत्पुनरुत्पन्नः स्यातुच्यते न तु सो जिनः
जिनो भूत्वा न जायेत्तात्विकः स जिनो मतः ॥ इति ।

योऽर्हन् पुनः क्लेशानुत्पादयति न स जिनो भवेत् । अर्हतः क्षीणजातित्वात्न पुनः कायो वेद्यते । भवतः सूत्रं यद्यप्याह- अर्हन् परिहाणधर्मा पुनः परिहीयेत इति । तथा चेतपरिहाणधर्मापि स्यात् । यो भिक्षुस्तथेन्द्रियाणि करोति यथा नोत्पद्यते, सोऽर्हन् भवति । अतो न परिहीयते ।

अपरिहाणवर्ग एकोनत्रिंशः ।


(
८४)
३० चित्तस्वभाववर्गः

शास्त्रमाह- केचिद्वदन्ति चित्तं प्रकृतिपरिशुद्धमागन्तुकमलैरपरिशुद्धमिति । केचिद्वदन्ति न तथेति ।

(पृ) केन कारणेन वदन्ति प्रकृतिपरिशुद्धमिति । केन कारणेन वदन्ति न तथेति । (उ) न तथेति । न चित्तं प्रकृतिपरिशुद्धमागन्तुकमलैपरिशुद्धम् । कुतः । क्लेशा हि सदा चित्तेन सह संप्रयोगजाः । नागन्तुकलक्षणाः । चित्तञ्च त्रिविधम्- कुशलमकुशलमव्याकृतमिति । कुशलमव्याकृतञ्च चित्तममलम् । अकुशलचित्तं प्रकृतितोऽपरिशुद्धम् । नागन्तुकतया । इदञ्च चित्तं प्रतिक्षणमुत्पन्नविनाशि क्लेशानपेक्षम् । यः क्लेशः सहजो भवति न स आगन्तुक इत्युच्यते ।

(पृ) चित्तं रूपादिमात्रमनुभूय ततो निमित्तं गृह्णाति । निमित्तजाः क्लेशाः चित्तस्य मलं कुर्वन्ति । अतः प्रकृतिपरिशुद्धमित्युच्यते । (उ) न युक्तमिदम् । चित्तमिदं तत्काल एव निरुद्धं न मलनिमित्तवत्भवति । चित्तं तत्काल एव विनष्टं केन मलेन लिप्यते । (पृ) न प्रतिक्षणविनाशि चित्तमित्यत एवं वदामि । [किन्तु] सन्तन्यमानं चित्तमित्यतो मलिनमिति वदामि । (उ) चित्तसन्तानोऽयं लोकसत्यतोऽस्ति न परमार्थतः । [परमार्थतस्तु] अयमनिर्वाच्यः ।

लोकसत्यतोऽपि सन्ति बहवो दोषाः । चित्तमुत्पन्नविनाशि । अनुत्पन्नस्यानभिनिर्वृत्तस्य कथं सन्ततिः । अतो न चित्तं प्रकृतितः परिशुद्धमागन्तुकमलैपरिशुद्धकम् । किन्तु तथागतः चित्तं नित्यं स्थायीति वदतां सत्त्वानां कृत आह आगन्तुकमलक्लिष्टं सत्चित्तमपरिशुद्धमिति । किञ्च कुसीदसत्त्वा ये शृण्वन्ति चित्तं प्रकृतितोऽपरिशुद्धमिति । ते वदेयुः प्रकृतिः न प्रतिकार्येति । न ते चित्तव्यवदानमारभेरनित्यतः तथागत आह प्रकृतिपरिशुद्धमिति ॥

चित्तस्वभाववर्गस्त्रिंशः ।


(
८५)
३१ सम्प्रयोगासम्प्रयोगवर्गः

शास्त्रमाह- केचिद्वदन्ति अनुशयाश्चित्तसम्प्रयुक्ता इति । केचिद्वदन्ति चित्तविप्रयुक्ता इति ।

(पृ) केन कारणेन वदन्ति चित्तसंप्रयुक्ता इति । केन कारणेन वदन्ति चित्तविप्रयुक्ता इति । (उ) चित्तसम्प्रयुक्ता इति । [इदं] पश्चादनुशयवर्गे वक्ष्यते । छन्दरागादिः क्लेशानां कर्म । तच्च कर्म अनुशयैः सम्प्रयुक्तम् । भवतां शासने यद्यप्युच्यते चित्तविप्रयुक्तोऽनुशयः चित्तसम्प्रयुक्तसंयोजनपर्यवस्थानस्य हेतुं करोतीति । न युक्तमिदम् । कस्मात् । उक्तं हि सूत्रे- अविद्यायोनिशोमनस्कारमिथ्यासङ्कल्पादिभ्यो रागादीनि संयोजननि प्रादुर्भवन्ति इति । न तु सूत्रमाह- अनुयादुत्पद्यत इति । यद्यपि भवतां शासन उक्तं- चिराभ्यस्तसंयोजनपर्यवस्थापकोऽनुशयो नाम इति । न युक्तमिदम् । कस्मात् । कायिकवचिकादि कर्मापि चिराभ्यस्तलक्षणम् । तदपि अनुशयाभासः चित्तविप्रयुक्तसंस्कारः स्यात् । न वस्तुतो युज्यते । युज्यत इति चेत्सर्वेऽपि धर्माः प्रत्युत्पन्न हेतोरुपद्येरन्नातीतहेतोः । तथा च न कर्मजो विपाकः स्यात् । मनोविज्ञानञ्च मनसो जातं न स्यात् । अनुशयानामेषां क्षणिकत्वात्कथं पुनस्ते जनकहेतवः स्युः ।

(पृ) सहलक्षणो जनकहेतुः । (उ) तदपि न युक्तम् । हेतुफलयोरयौगपद्यात् । तच्च पश्चात्प्रदीपदृष्टान्ते वक्ष्यते । अतो न वक्तव्यमनुशयाश्चित्तविप्रयुक्ता इति ॥

सम्प्रयोगसम्प्रयोगवर्ग एकत्रिंशः ।


(
८६)
३२ अतीतकर्मवर्गः

शास्त्रमाह- काश्यपीया वदन्ति अननुभूतविपाकं कर्म अतीतेऽध्वनि अस्ति । अन्यदतीते नास्ति इति । उच्यते । तत्कर्म यदि विनष्टं तदा [तत्] अतीतमतीतमेव । यदि अविनष्टम् । तदा नित्यं भवेत् । विनष्टमिति अतीतस्य नामान्तरम् । तदा विनष्टं सत्पुनर्विनश्येत् । तत्कर्म विपाकस्य हेतुकृत्यं कृत्वा निरुद्धम् । विपाकः पुनरूर्ध्वजन्मवर्ती । यथोक्तं सूत्रे- अस्मिन् सतीदमुत्पद्यत इति । यथा पयो निरोधे दघ्नो हेतुकृत्यं करोति । किमतीतकर्मविकल्पेन । युक्तमिति यदि मतम् । अन्यो हेतावस्ति दोषः । कथं विना कारणं विज्ञानमुत्पद्यते । यथा पयसोऽभावे किं दधि भवति । चातुर्भौतिककायवा गादीनामभावे कर्म किमाश्रित्य भवेत् । इत्येवमादयः । यन्मया पूर्वमुक्तोऽतीतस्य दोषः । स इदं प्रतिब्रूयात् ॥

अतीतकर्मवर्गो द्वाविंशः ।


३३ रत्नद्वयविवादवर्गः

शास्त्रमाह- महीशासका वदन्ति तथागत सङ्घवर्ती इति । उच्यते । यदि मतं तथागतः चतसृषु परिषत्सु अन्तर्गतः यदुत सत्त्वपरिषत्प्राणिपरिषत्मनुष्यपरिषतार्यपरिषतिति । तदा न दोषः । यदि मतं तथागतः श्रावकपरिषदि अन्तर्गत इति । तदास्ति दोषः । धर्मं श्रुत्वा संविल्लाभिनः श्रावका इत्युच्यन्ते । तथागतस्तु विभिन्नलक्षण इत्यतस्तत्र नान्तर्गतः ।

(पृ) सङ्घारामाग्रगस्य तथागतस्य दायकः पुरुषः सङ्घदायक इत्युच्यते । (उ) दानमिदं केषां सङ्घसम्बन्धि । सूत्रमिदं किञ्चिद्भ्रष्टम् । इदं वक्तव्यं स्यात्बुद्धसङ्घसम्बन्धीति ।

(
८७)
(पृ) भगवान् गौतमीमवोचत्- इमं चीवरं सङ्घे देहि । तदा अहमपि पूजितो भविष्यामि सङ्घोऽपि च । इति । (उ) अहं पूजितो भविष्यामीति सङ्घपूजाभिप्रायेण भगवानवोचत् । यथोक्तं सूत्रे यो रोगप्रेक्षी स मां पश्यति । इति । (पृ) केचिदार्यगुणसमन्विताः शारिपुत्रादयः सङ्घान्तर्गताः, लक्षणसाम्यात्भगवानप्येवम् । (उ) यदि लक्षणसाम्यादिति । सर्वे पृथग्जनाः असत्वाख्याश्च सङ्घप्रविष्टाः स्युः । न युज्यतो वस्तुतः । अतो ज्ञायते न भगवान् सङ्गान्तर्गत इति । किञ्च भगवान्न सङ्घकर्मप्रविष्टः नापि अन्यसङ्घवस्तुसमः । रत्नत्रयविशेषात्न भगवान् सङ्घान्तर्गतः ॥

रत्नद्वयविवादवर्गस्त्रयस्त्रिंशः ।


३४ नास्तिपुद्गलवर्गः

शास्त्रमाह- वात्सीपुत्रीया वदन्ति अस्ति पुद्गल इति । अन्ये वदन्ति नास्तीति । (पृ) किं तत्त्वम् । (उ) नास्ति पुद्गलधर्म इति तत्त्वम् । कस्मात् । यथा बहुषु सूत्रेषु तथागतो भिक्षूनाह- नाममात्रतः प्रज्ञप्तिमात्रत उपयोगमात्रतः पुद्गल इत्युच्यते । इति । नाममात्रत इत्यादिना ज्ञायते न परमार्थ इति । किञ्चोक्तं सूत्रे-

यो न पश्यति दुःखञ्च स आत्मानन्तु पश्यति ।
दुःखदर्शी यथाभूतं स आत्मानं न पश्यति ॥ इति ।

यदि वस्तु सनात्मा, दुःखदर्श्यपि आत्मानं पश्येत् । आर्याः पुनः संवृतिमात्रतो वदन्ति अस्त्यात्मेति । अपि च सूत्रे भगवानवोचत्- यत्रास्मीति तत्रेञ्जितमिति । यद्वस्तु सत्न तत्रेञ्जितं भवति यथा चक्षुः, तस्य वस्तुसत्त्वात्न [तत्र] इञ्जितमस्ति । तत्र तत्र सूत्रे च आत्मवादः प्रतिषिद्धः । यथा आर्या भिक्षुणी मारमवोचत्-

(
८८)
किं नु सत्वेति प्रत्येषि मारदृष्टिगतं नु ते ।
शुद्धसंस्कारपुञ्जोऽयं नेह सत्त्व उपलभ्यते ॥ इति ।

किञ्चाह-

संस्काराणां कलापो हि सन्तानेन प्रवर्तते ।
मायानिर्मितमेवेदं प्रकृतानाञ्च वञ्चनम् ।
हृद्गतेन सदृशं शल्येनेदं सपत्नकम् ।
नैवास्ति सारवद्वस्तु................ । इति

किञ्चाह-

नास्त्यात्मा न चात्मीयं न सत्त्वो नापि मानवः ।
पञ्चस्कन्धाः शून्यमात्रा उत्पादव्ययलक्षणाः ।
अस्ति कर्म विपाकश्च कारको नोपलभ्यते ॥

इत्येवमादिना भगवान्नानासूत्रेषु आत्मवादं प्रतिषिद्धवान् । अतो नास्त्यात्मा । सूत्रे च विज्ञानार्था विभक्ताः । कस्मात्विज्ञानमिति । यदुत रूपं विजानाति यावद्धर्मान् विजानातीति । न चोक्तमात्मानं विजानातीति । अतो नास्त्यात्मा ।

चुन्दभिक्षुर्भगवन्तमपृच्छत्- को नु खलु विज्ञानाहारमाहारयति । भगवान् प्रत्यवदत् । न कल्यः प्रश्नः । विज्ञानाहारमाहारयतीति नाहं वदामि । इति । यद्यस्ति आत्मा । आत्मा विज्ञानाहारमाहारयतीति वदेत् । अतो ज्ञातव्यं नास्त्यात्मेति । बिम्बिसारप्रत्युद्गमनसूत्रे भगवान् भिक्षूनामन्त्र्याह- विभावयत यूयं भिक्षवः प्राकृतानां प्रज्ञप्तिमनुरुध्य वदामि अस्त्यात्मेति । परमार्थस्तु नास्ति पञ्चस्कन्धेषु आत्मात्मीयं वा । इति । किञ्चाह- पञ्चस्कन्धानुपादायास्ति नानाविधं नाम यदुत आत्मा सत्त्वो मानवो देव इति । एवंप्रमाणानि नामानि पञ्चस्कन्धानुपादाय सन्ति । यद्यात्मास्ति । आत्मानमुपादायेति वदेत् । स्थविरपूर्णकः कश्चित्तीर्थिकः आह- यदि पुरुषो मिथ्यादृष्टया असन्तमस्तीति वदति । भगवान् प्रहीणैतन्मिथ्याभिमानः अप्रहीणसत्त्व (
८९) इत्यतो नास्त्यात्मा । यमकसूत्रे शारिपुत्रो यमकमवोचत्- किं यमक समनुपश्यसि रूपस्कन्धोऽर्हनिति । उत्तरमाह- नो हीदमायुष्मनिति । किं समनुपश्यसि वेदना संज्ञा संस्कारा विज्ञानमर्हनिति । नोहीद[मायुष्मन्] । किं समनुपश्यसि पञ्चस्कन्धकलापोऽर्हनिति । नोहीदमायुष्मन् । किं समनुपश्यसि पञ्चस्कन्धादन्यत्र अर्हनिति । नोहीदमायुष्मन् शारिपुत्रोऽवोचत् । यदेवं परिमृग्य [दृष्ट एव धर्मे सत्यतः स्थिरतः] नोपलभ्यते । तत्कल्यं नु ते व्याकरणमर्हन् [कायस्य भेदादुच्छिद्यते विनश्यति] न भवति परं मरणादिति । अभूत्खलु मे [आयुष्मन्] शारिपुत्र पूर्वं पापकं दृष्टिगतम्, इदं पुनरायुष्मतः शारिपुत्रस्य धर्मदेशनां श्रुत्वा तच्च पापकं दृष्टिगतं प्रहीणम् । इति । यद्यस्ति आत्मा, पापकं दृष्टिगतमिति न वदेत् ।

चतुर्षूपादानेषु उक्तमात्मवादोपादानमिति । यद्यस्त्यात्मा आत्मोपादानमिति ब्रूयात्यथा कामोपादानमित्यादि । न ब्रूयादात्मवादोपादानमिति । उक्तञ्चश्रेणिकसूत्रे- त्रयाणां शास्तॄणां यो नोपलभते प्रत्युत्पन्नमात्मानमूर्ध्वभाविनं वात्मानं तमहं शास्तारं बुद्धं वदामि इति । भगवतानुपलब्धत्वात्नास्त्यात्मेति ज्ञायते । अनात्मनि आत्मेति संज्ञा विपर्ययः । यदि मतं सत्यात्मनि आत्मेति संज्ञा न विपर्यास इति । न युक्तमिदम् । कस्मात् । भगवानाह- यत्सत्त्वा आत्मेति समनुपश्यन्तः समनुपश्यन्ति । इमानेव पञ्चस्कन्धान् [आत्मत आत्मीतयतश्च] समनुपश्यन्ति । इति । अतो नास्त्यात्मा । किञ्चाह- सत्त्वाः विविधान् पूर्वनिवासाननुस्मरन्तः पञ्चस्कन्धाननुस्मरन्ति । इति । यद्यस्त्यात्मा, तमप्यनुस्मरेयुः । अननुस्मरणान्नास्तीति ज्ञातव्यम् । यदि मन्यसे- किञ्चित्सूत्रमाह सत्त्वानुस्मरणमपि । यथा अमुकः सत्त्वः तत्राहममुकनामक इति । (
९०) तदयुक्तम् । तद्धि लोकसत्यविकल्पादुक्तम् । परमार्थतस्तु पञ्चस्कन्धानेवानुस्मरति न सत्त्वम् । कुतः । मनोविज्ञानेन हि स्मरति । मनोविज्ञानञ्च धर्ममात्रालम्बनम् । तस्मान्नास्ति किञ्चित्स्मरणं सत्त्वानुस्मरणं नाम । अस्त्येकान्तत आत्मेति यो वदति स षण्णां मिथ्यादृष्टीनीमन्यतमस्यामनुपतति । यदि मन्यसे नास्त्यात्मेति वचनमपि मिथ्यादृष्टिरिति । तदयुक्तम् । कस्मात् । सत्यद्वयस्य सत्त्वात् । लोकसत्यतो नास्त्यात्मा । परमार्थतस्तु अस्त्यात्मेति ब्रूवतो हि दोषो भवति । अहन्तु वदामि परमार्थतो नास्त्यात्मा । लोकसत्यतस्तु अस्तीति । अतोऽनवद्यम् ।

अपि चात्मदृष्टिमूलोद्धरणायाह भगवान् यथा मोघराज [माणव]पृच्छायां भगवान्मोघराजं प्रत्याह-

शून्यतो लोकमवेक्षस्व मोघराज सदा स्मृतः ।
आत्मानुदृष्टिमुद्धत्य [एवं मृत्युतरः स्याः ।
एवं लोकमवेक्षन्तं] मृत्युराजो न पश्यति ॥ इति

आत्मास्तिवादानां कारणानि प्रीतिदौर्मनस्यादीनि सर्वाणि पञ्चस्कन्धवर्तीनि । तीर्थिकानामात्मदृष्टिकारणखण्डनान्नास्त्यात्मा ॥

नास्ति पुद्गलवर्गश्चतुस्त्रिंशः ।


३५ पुद्गलास्तिनास्तितावर्गः

(पृ) नास्त्यात्मेति भवतो वचनमयुक्तम् । कस्मात्चतुर्षु व्याकरणेषु चतुर्थ स्थपनीयं व्याकरणं यदुत भवति पुरुषः परं मरणात्न भवति [पुरुषः परं मरणात्] भवति च न भवति च [पुरुषः परं मरणात्], नैव भवति न न भवति [पुरुषः परं मरणात्] । यदि परमार्थतो नास्त्यात्मा, न स्यादिदं स्थपनीयं व्याकरणम् । ऊर्ध्वकायवेदकः (
९१) सत्त्वो नास्तीति यत्केषाञ्चित्वचनम् । मिथ्यादृष्टिरियम् । द्वादशाङ्गप्रवचने चास्ति जातकम् । तत्र भगवानेवमाह- तस्मिन् समये अहमेव महासुदर्शनो राजा एवंकाय इत्यादि । पूर्वकेभ्य उत्पन्ना इदानीन्तनाः पञ्चस्कन्धाः न तु पुराणा एव । तस्मादस्त्यात्मा [यः] पूर्वकेभ्योऽद्य यावत्भवति । किञ्चाह भगवान्-

इह नन्दति प्रेत्य नन्दति कृतपुण्यो उभयन्न नन्दति । इति ।

यदि पञ्चस्कन्धमात्रमस्ति, उभयत्र नन्दिर्न स्यात् । उक्तञ्चसूत्रे- चित्तसंक्लेशात्सत्त्वाः संक्लिश्यन्ते । चित्तव्यवदानात्सत्त्वा विशुध्यन्ति । इति । एकत्यः पुद्गल उत्पद्यते लोके बहूनां विपत्त्यनुतापाय । एकत्यः पुद्गल उत्पद्यते लोके बहूनां लाभाय । यत्कुशलाकुशलकर्मणां समुदाचरणं सर्वं तत्सत्त्वोपगम् । तत्र तत्र च सूत्रे भगवान् स्वयमाह- अहं वदामि सत्त्वा ऊर्ध्वकायं वेदयन्ते इति । आत्महिते कुशलः न परहित इत्यादि । एवमादिकारणैर्ज्ञायते अस्त्यात्मेति ।

भवता यद्यपि पूर्वमुक्तं नाममात्रत इत्यादि । न युक्तमिदम् । कस्मात् । पञ्चस्कन्धव्यतिरिक्तो नित्योऽविनाशिलक्षणोऽस्त्यात्मेति तीर्थिकाः परिकल्पयन्ति । तेषां मिथ्यादृष्टिव्यवच्छेदाय भगवानाह नास्त्यात्मेति । वयन्तु वदामः पञ्चस्कन्धसमवाय आत्मेति । अतोऽनवद्यम् । यद्यप्याह आत्मा नाममात्रमिति । तद्वचनं प्रगाढं चिन्तनीयम् । यदि सत्त्वो नाममात्रमिति । यथा मृण्मयगोहनने नास्ति पापम् । तथा वास्तविकगोहननेऽपि पापं न भवेत् । यथा बालकानां नाममात्रेण वस्तुदानं सविपाकं स्यात् । तथा महतां दानव्रतमपि विपाकं प्राप्नुयात् । वस्तुतस्तु न युज्यते । नाममात्रतोऽसदपि अस्तीति वादिन आर्या मृषावादिनः स्युः । सत्यवादिनः खल्वार्याः । अतो ज्ञायते अस्त्यात्मेति । (
९२) यद्यार्याः परमार्थतो नैरात्म्यदर्शिनः व्यवहारतोऽस्त्यत्मेति वदन्ति । तदा विपर्ययदर्शिनः स्युः । [अन्यथा दृष्टस्य] अन्यथा वचनात् । यदि व्यवहारतोऽसदपि अस्तीति वदतां पुनः सूत्रगतानि पारमार्थिकानि द्वादशनिदानानि त्रीणि विमोक्षमुखानि अनात्मानः सर्वधर्मा इत्यादि वचनं न स्यात् । अस्ति परलोक इति वादिनमनुसृत्य वदन्ति अस्तीति । नास्तीति वादिनमनुसृत्य वदन्ति नास्तीति । वदन्ति च लोके अयुतानि वस्तूनि ईश्वरादुत्पन्ननि । इति । ततादृशा विविधमिथ्यादृष्टिसूत्रमन्यास्तद्ववतानुसारिणः स्युः । ततु न सम्भवति । अतो भवतोदाहृतं सूत्रं सर्वं सामान्यतो दूषितमेव । अतो नास्ति नैरात्म्यम् ।

अत्रोच्यते । यद्भवता पूर्वमुक्तं स्थपनीयव्याकरणातस्त्यात्मेति ज्ञायत इति । तदयुक्तम् । कस्मात् । सोऽवक्तव्यधर्म इति पश्चात्निरोधसत्यस्कन्धे विवेक्ष्यते । अतो नास्ति परमार्थत आत्मा अवक्तव्य इति । प्रज्ञप्तिमात्रमित्युच्यते न परमार्थसनिति । भवतां शासने आत्मा षद्भिर्विज्ञानैर्विज्ञायते । यथाह भवतामागमः चक्षुषा दृश्यमानं रूपमुपादायेत्यतो विनाश्यात्मा । तदा त्वयं चक्षुर्विज्ञानविज्ञेयः । तदा न वक्तव्यं न रूपं नारूपमिति । एवं शब्दादयोऽपीति ।

अथ यद्यात्मा षड्विज्ञानविज्ञेयः । तदा सूत्रैर्विरुच्यते । सूत्रे ह्युक्तम्- पञ्चेन्द्रियाणि नान्योप्यस्य विषयान् प्रत्यनुभवन्ति । इति । प्रत्यध्ववसायस्य वैषम्यात् । यद्यात्मा षड्विज्ञानविज्ञेयः स्यात् । तदा षडिन्द्रियाणि अन्योन्यवृत्तीनी स्युः । किञ्च भवदुक्तं पूर्वापरविरुद्धम् । यत्चक्षुर्विज्ञानविज्ञेयं न तत्रूपमिति ब्रवीषि । भवानाह- नास्त्यात्मा इतीयं मिथ्यादृष्टिरिति । सूत्रे भगवान् स्वयं भिक्षूनामन्त्र्याह- असत्यप्यात्मनि संस्काराणां (
९३) सन्तानमुपादाय जननमरणमस्तीति वदामि । पश्यामि च दिव्येन चक्षुषा सत्त्वानुत्पद्यमानान्म्रियमाणांश्च । अथापि न वदामि अस्त्यात्मेति ।

किञ्च भवतां शासनेऽस्ति दोषः । भवतां शासने ह्युच्यते आत्मा न जायत इति । योऽजातः स मातापितृभ्यां विहीनः । मातापितृभ्यां विहीनस्य नास्त्यानन्तर्यम् । अन्यान्यपि पापकर्माणि न सन्ति इत्यतो भवतां शासनमेव मिथ्यादर्शनम् ।

भवानाह भवस्य पूर्वस्मादुत्पाद इति । पञ्चस्कन्धानुपादाय सुदर्शनो नाम राजा । त एव पञ्चस्कन्धाः सन्तत्या बुद्धो भवति । तस्मादाह- अहमेव स राजा इति । भवतां शासने आत्मन एकत्वात्विशेषो न स्यात् ।

भवानाह- कृतपुण्य उभयत्र नन्दतीति । सूत्रे भगवानिदं वस्तु प्रतिषिध्याह- नाहं वदामि कश्चिदिमान् पञ्चस्कन्धान् परित्यज्य तान् स्कन्धानुपादत्त इति । किन्तु तत्पञ्चस्कन्धानां सन्तत्या भेदाभावादाह- उभयत्न नन्दतीति । यद्भवानाह- चित्तसंक्लेशात्सत्त्वाः संक्लिश्यन्त इति । ततो नास्त्यात्मा परमार्थत इति । यद्यस्त्यात्मा, चित्ताभिन्नः स्यात् । नोच्यते सत्त्वसंक्लेशात्सत्त्वाः संक्लिश्यन्त इति । कस्मात् । न हि सम्भवति तस्य संक्लेशसमयं [सत्त्व] उपादत्त इति । किन्तु प्रज्ञप्त्या हेतुप्रत्ययानां संक्लिष्टत्वाताह- सत्त्वाः संक्लिश्यन्त इति । अतः प्रज्ञप्त्यास्त्यात्मा । न परमार्थतः । भवतां शासने चोच्यते न पञ्चस्कन्धा एवात्मेति । तदा सोऽजातोऽनिरुद्धोऽपुण्यपाप इत्येवमादयो दोषा भवन्ति । वयन्तु वदामः पञ्चस्कन्धानां कलापः प्रज्ञप्त्या आत्मेति । इममात्मानमुपादाय अस्ति जन्म अस्ति निरोधः पुण्यपापमित्यादि । न च प्रज्ञप्तिसन्नास्तीति । वस्तुमात्रं न भवति । भवता पूर्वमुक्तं- तीर्थिकानामाशयखण्डनाय भगवानाह- नास्त्यात्मेति । अभूतसंज्ञया भवानेवं कल्पयति न तथा भगवदाशयः । विविधा आत्मवादाः सर्वे दुष्टाः यथा भवान् ब्रवीति- पञ्चस्कन्धान् विहाय अन्योऽस्त्यात्मेति तीर्थिका मन्यन्त इति । तथा भवानपि [मन्यते] । (
९४) कस्मात् । अनित्या हि पञ्चस्कन्धाः । आत्मात्ववक्तव्यो यदि नित्योऽनित्यो वेति । [सो]ऽयं स्कन्धविनिर्मुक्त एव ।

अथ स्कन्धस्य सन्ति त्रयो भेदाः- शीलसमाधिप्रज्ञाः, कुशलाकुशलाव्याकृताः, कामधातुप्रतिसंयुक्तरूपधातुप्रतिसंयुक्तारूप्यधातुप्रतिसंयुक्ताः इत्येवं विभागाः । आत्मानस्तु तथा विभक्ता न भवन्ति । अतः पञ्चस्कन्धेभ्योऽन्यः । आत्मा च पुद्गलः । पञ्चस्कन्धा न पुद्गलः । तदा त्वयमन्यो भवति । स्कन्धाः पञ्च । आत्मात्वेकः । इत्यतो नात्मा स्कन्धाः । अस्ति चेदात्मा । स एभिः कारणैः पञ्चस्कन्धेभ्योऽन्यः स्यात् । लोके च नास्ति कोऽपि धर्म एक इत्यवक्तव्यः । अतो नास्ति कश्चिदवक्तव्यो धर्मः ।

(पृ) यथा अग्निरिन्धनञ्च न वक्तुं शक्यत एवं वा नाना वेति । तथात्मापि स्यात् । (उ) इदं सन्दिग्धसमम् । किमग्निः किमिन्धनमिति । यदि तेजोधातुरग्निः अन्ये धातव इन्धनम् । तदा अग्निरिन्धनात्पृथक्स्यात् । यदि तेजोधातुरेवेन्धनम् । कथमुच्यते नैकमिति । यदिन्धनं स एव तेजोधातुः । तेजोधातुं विनापि [दहेत्] इत्युभयमयुक्तम् । अतः सन्दिग्धसमम् । यस्याग्निरिन्धनवान् यथा आत्मा रूपवानिति । तस्य सत्कायदृष्टिपातः । आत्मबहुत्वञ्च स्यात् । यथा काष्ठाग्निरन्यः गोमयाग्निश्चान्यः । एवात्मापि । मनुष्यस्कन्धेष्वन्य आत्मा । देवस्कन्धेष्वन्य आत्मा इतीदमात्मबहुत्वम् । यथाग्निरिन्धनञ्च त्रिषु अध्वसु वर्तते । एवमात्मापि पञ्चस्कन्धैः सह त्रिषु अध्वसु वर्तमानं स्यात् । यथा चाग्निरिन्धनंञ्च संस्कृतम्, आत्मापि पञ्चस्कन्धैः सह संस्कृतं स्यात् । यद्यपि भवानाह- अग्निरिन्धनेन नैको न नाना इति । तथापि चक्षुषा पश्यामः खलु नानालक्षणे । आत्मापि पञ्चस्कन्धाश्चान्ये स्युः । किञ्च पञ्चस्कन्धा नश्यन्ति । आत्मा तु न नश्यति । अस्मात्लोकात्च्युतः परलोक उत्पद्यते । उभयत्र नन्दियुक्तत्वात् । यः पञ्चस्कन्धाननुसृत्य सविनाशः सोत्पादश्च । स पञ्चस्कन्धसमो नोभयत्र नन्दिको भवति । भवांस्तु अभूतसंज्ञया इममात्मानं विकल्प्य केषां हितं प्रापयति ।

विषयेषु न कोऽप्यस्ति षड्विज्ञानविज्ञेयः । षड्विज्ञानविज्ञेय इति भवतोक्त आत्मा न षड्विषयरूपो भवति । यो द्वादशायतनेष्वसङ्गृहीतः । न स आयतनेषु भवति । चतुर्षु सत्येषु असङ्ग्रप्रहीतश्च न सत्येषु भवति । तस्मादस्त्यात्मेति यद्वचनं स मृषावादः ।

(
९५)
भवतां शासन उच्यते ज्ञेयधर्मा यदुत पञ्चधर्मकोशाः- अतीता अनागताः प्रत्युत्पन्ना असंस्कृता अवक्तव्या इति । आत्मा पञ्चमधर्मान्तर्गतः । तदा चतुर्भ्यो धर्मेभ्योऽन्यः । स चतुर्भ्यो धर्मेभ्योऽन्य इतीच्छन्ति खलु भवन्तः । अयं पञ्चमस्तु न सम्भवति । आत्मास्तित्ववादस्येदृशा दोषा भवन्ति । किमात्मेति मिथ्यासंज्ञाविकल्पेन । अतो भवता पूर्वमुक्तम्- तीर्थिकाः पञ्चस्कन्धान् विहाय पृथगात्मास्तीति मन्यन्ते । वयन्तु न तथा इति । तदयुक्तम् । यद्भवानाह- आत्मा प्रज्ञप्तिमात्रमितीदं गाढतरं चिन्तनीयमिति । तदप्ययुक्तम् । कस्मात् । जिनशासने ह्युच्यते लोकसत्यवस्तु न प्रगाढं चिन्तनीयमिति । यत्भवतोक्तं मृषावादिनो विपर्ययदर्शिनः स्युरिति । इदमपि तथैव । यदवादीः "सूत्रगतानि पारमार्थिकानि" [इत्यादि] वचनं न स्यादिति । तत्तथा प्रतिवक्तव्यं यथा परमार्थो ज्ञायेत । यदवोचद्भवान् लोकोक्तानि सर्वाणि अनुसर्तव्यानि यद्वदन्ति ईश्वरादुत्पन्नानि न युतानि वस्तूनि इत्यादि । न तदुपादेयम् । यद्धितकरं परमार्थाविलोमकं तदुपादेयमित्यतोऽनवद्यम् । यल्लोकसत्यतो गुणोत्पादकं हितकरञ्च । ईदृशं सर्वमुपादेयमिति पश्चाद्वक्ष्यते । यदवादीः- मृण्मयगवादिहनने नास्ति पापमिति । तदिदानीं प्रतिवक्तव्यम् । सविज्ञानानां स्कन्धानां सन्तत्या समुदाचारे सति अस्ति कर्म अस्ति विपाकः । मृण्मयगवादिषु तु नेदमस्ति । तस्मात्पञ्चस्कन्धानां कलापः प्रज्ञप्त्या आत्मा इत्याख्यायते । न वस्तुसत्तया इति ज्ञातव्यम् ॥

आत्मास्तित्वनास्तित्ववर्गः पञ्चत्रिंशः ।

सत्यसिद्धिशास्त्रे प्रथमः प्रस्थानस्कन्धः समाप्तः ।


(
९६)
अथ दुःखसत्यस्कन्धः ।

३६ दुःखसत्यस्कन्धे रूपाधिकारे रूपलक्षणवर्गः


(पृ) पूर्वमवादीः सत्यसिद्धिशास्त्रं प्रवक्ष्यामीति । इदानीं वक्तव्यं किं तत्सत्यमिति । (उ) सत्यं नाम चत्वारि [आर्य]सत्यानि यदुत दुःखं दुःखसमुदयो दुःखनिरोधो दुःखनिरोधगामिनी पतिपत् । पञ्चोपादानस्कन्धा दुःखम् । कर्मक्लेशाश्च दुःखसमुदयः । दुःखक्षयो दुःखनिरोधः । अष्टाङ्गिकमार्गो दुःखनिरोधगामिनी प्रतिपत् । इतीमं धर्मं साधयितुमिदं शास्त्रं निबध्यते । तथागतः स्वयमिमं धर्मं साधयन्नपि सत्त्वानां तारणाय तत्र तत्र विप्रकीर्णं देशितवान् । चतुरशीतिसहस्रात्मकं धर्मपिटकं स संक्षिप्योवाच । तत्र चत्वारि प्रतिशरणानि अष्टौ हेतव [इत्यादि] । तेषामर्थं केचिदुपेक्ष्य नावोचन् । केचित्संक्षिप्यावोचन् । अथेदानीं तेषामर्थविनिश्चयाय अनुसंकलय्य विवक्षामि ।

(पृ) यद्भवानाह- पञ्चोपादानस्कन्धा दुःखसत्यमिति । के ते पञ्च । (उ) रूपस्कन्धः, विज्ञानस्कन्धः, संज्ञावेदनासंस्कारस्कन्धाः । रूपस्कन्धो यदुत चत्वारि महाभूतानि चत्वारि महाभूतान्युपादाय धर्माश्च । चत्वारि महाभूतानि तान्युपादाय धर्माश्चाभिसंक्षिप्य रूपमित्युच्यते । चत्वारि महाभूतानि पृथिव्यप्तेजोवायवः । रूपरसगन्धस्पर्शानुपादाय सिध्यन्ति चत्वारि महाभूतानि । तान्युपादाय सिध्यन्ति चक्षुरादीनि पञ्चेन्द्रियाणि । तेषां मिथः संस्पर्शाच्छब्दः ।

(
९७)
पृथिवीति । रूपादिसमवायः काठिन्यबहुलः पृथिवीत्युच्यते । तथा स्नेहबहुलः अब्धातुः । ऊष्मबहुलस्तेजोधातुः । लध्वीरणबहुलो वायुधातुः । चक्षुरिन्द्रियमिति रूपाणि प्रतीत्य [उत्पन्नस्य] चक्षुर्विज्ञानस्याश्रय एव । [यस्तु] तत्सभागः अनाश्रयः [तदपि] चक्षुरिन्द्रियं [तत्साजात्यात्] । तथान्यानीन्द्रियाण्यपि । रूपमिति । चक्षुर्विज्ञानस्यालम्बनमेव । तत्सभागोऽनालम्बनं तु [तत्साजात्यात्] रूपम् । रसगन्धस्पर्शा अप्येवम् । एषां मिथः संस्पर्शाच्छब्दो भवति ॥

रूपलक्षणवर्गः षट्त्रिंशः ।


(
९८)
३७ रूपनामवर्गः

(पृ) उक्तं खलु सूत्रे- यत्किञ्चन रूपं सर्वं तत्चत्वारि महाभूतानि चत्वारि महाभूतान्युपादाय [रूपम्] इति । कस्मादुक्तं यत्किञ्चन रूपं तत्सर्वमिति । (उ) यत्किञ्चित्तत्सर्वमिति वदन् रूपलक्षणं निर्धारयति नान्यदस्तीति । तीर्थिका हि वदन्ति पञ्च महाभूतानीति । तत्प्रत्याख्यानायाह चत्वारि [एव] महाभूतानि चत्वारि महाभूतान्युपादाय [रूपम्] इति । चत्वारि महाभूतानि प्रज्ञप्तितः सन्ति । व्यापित्वात्महदित्युच्यते । अरूपधर्मोऽमूर्तः । अमूर्तत्वातप्रदेशः । अप्रदेशत्वात्न महान् । औदारिकत्वाच्च महदित्युच्यते । चित्तचैत्तानाञ्चादृष्टत्वात्न महत्त्वम् ।

(पृ) कस्मात्पृथिव्यादय एव रूपं न शब्दः । (उ) सप्रतिघा धर्मा रूपमित्युच्यन्ते । शब्दादयोऽपि सप्रतिघत्वात्रूपम् । न चित्तधर्मादिवत्साकारत्वात्रूपम् । शब्दादयोऽपि साकारत्वात्रूपमित्युच्येरन् । यत्किञ्चन् प्रदेशावरणं हि आकारः । (पृ) रूपादय अपरिक्षीयमाणाकाराः । शब्दादिनान्तु नास्ति [तादृश] आकारः । (उ) शब्दादयः सर्वे साकाराः । साकारत्वेन सप्रतिघाः सावरणाः । अतो भित्त्यावरणे न श्रूयते ।

(पृ) शब्दादयो यदि सप्रतिघाः । तदा नान्यवस्तून्यादद्युः । यथा भित्त्यावरणे न कस्यचिदवकाशो लभ्यते । (उ) शब्दस्यातिसूक्ष्मत्वातुपादेयास्तिता शक्यते । यथा गन्धरसादयः सौक्ष्म्यातेकमाकारं युगपदाश्रयन्ते न मिथः प्रतिघ्नन्ति । अतः शब्दादयः सावरणाः सप्रतिघा इत्यतो रूपमित्युच्यन्ते । रूप्यत इति रूपलक्षणम् । यत्छिद्यते भिद्यते विहिंस्यत इत्यादि तत्सर्वं रूपाश्रितम् । एतद्विपरीतमरूपमिति निर्धारितम् ।

(
९९)
पूर्वनिवासस्थकुशलाकुशलकर्माणि निरूपयतीति रूपम् । चित्तचैत्तान्निरूपयतीति च रूपम् । वर्णात्मकञ्च रूपम् ।

रूपनामवर्गः सप्तत्रिंशः ।


३८ चतुर्महाभूतप्रज्ञप्तिवर्गः

(पृ) चत्वारि महाभूतानि प्रज्ञप्तिसन्तीत्ययमर्थोऽसिद्धः । केचिद्धि वदन्ति तानि द्रव्यसन्तीति । (उ) चत्वारि महाभूतानि प्रज्ञप्तितः सन्ति । कस्मात् । भगवान् तीर्थिकेभ्योऽवोचत्- चत्वारि महाभूतानि इति । तीर्थिकाः केचिद्वदन्ति रूपादिरेव महाभूतं भवतीति यथा सांख्यादीनाम् । केचिद्वदन्ति रूपादि विहायास्ति महाभूतमिति यथा वैशेषिकादीनाम् । अत इदं सूत्रमवधारयति रूपाद्युपादाय पृथिव्यादि महाभूतं सिध्यतीति । अतो ज्ञायते महाभूतानि प्रज्ञप्तिसन्तीति ।

किञ्चाह सूत्रम्- खक्खटः खरगतः पृथिवीधातुः इति । अतो न खरमात्रं पृथिवी । लौकिकाश्च सर्वे श्रद्दधन्ते महाभूतानि प्रज्ञप्तिसन्तीति । कस्मात् । ते हि वदन्ति पृथिवीं पश्यामि पृथिवीं जिघ्रेमि (धर्मि) पृथिवीं रसयामि पृथिवीं स्पृशामि इति । सूत्रे चोक्तं यथा स्पर्शवती पृथिवी द्रष्टव्या । पृथिव्यादिसर्वायत नगतोऽयं पुरुषः पश्यति रूपं न कठिन्यादि । किञ्च पुरुषो निरूपयति [इदं] पृथिवीरूपम्, पृथिवीगन्धः, पृथिवीरसः पृथिवीस्पर्श इति । न द्रव्यसतः पृथङ्निरूपणमुपलभ्यते । व्यापित्वात्महदित्यर्थः । इदं (
१००) लक्षणं प्रज्ञप्तिसत उच्यते । न कठिन्यमात्रलक्षणस्य । किञ्चाह- पृथिवी अब्मण्डले प्रतिष्ठिता इति । प्रज्ञप्तिसती पृथिवी प्रतितिष्ठति । न काठिन्यमात्रम । किञ्चाह- अहमिमां महापृथिवीं दग्ध्वा विधूमं भस्मसात्करिष्यामीति । अत्र प्रज्ञप्तिसतीं पृथिवीं दहति न काठिन्यमात्रं दहति । रूपादिभ्यः श्रद्दधन्ते अस्ति पृथिवी इत्यादि । न काठिन्यमात्रात् ।

कूपोपमे चोक्तम्- आपो दृश्यन्ते च स्पृश्यन्ते चेति । यदि स्नेह एवापः । तदा न द्विधा वर्तेरन् । कस्मात् । भगवानाह- पञ्चेमानीन्द्रियाणि [नानाविषयाणि] नान्योन्यस्य विषयं प्रत्यनुभवन्ति । इति । किञ्चाह भगवान्- अष्टगुणा आपःसुसंस्थितं शीतलं मृदु मधुरं शुचि अदुर्गन्धं पातुः प्रह्लादनं परिदाहनिवारणमिति । तत्र यत्सुसंस्थितं शीतलं सुकुमारं तत्सर्वं स्पर्शान्तर्गतम् । मधुरं रसान्तर्गतम् । शुचि रूपान्तर्गतम् । अदुर्गन्धं गन्धान्तर्गतम् । प्रह्लादनं परिदाहनिवारणञ्च तत्प्रभावः । एषामष्टानां कलापः सामान्यमाप इत्युच्यते । अतो ज्ञायते महाभूतानि प्रज्ञप्तिसन्तीति । उपादाय धर्माः सर्वे प्रज्ञप्तिसन्तः न द्रव्यसन्तः । यथोक्तं गाथायाम्-

यथा ह्यङ्गसम्भाराद्भवति शब्दो रथेति च ।
एवं स्कन्धेषु सत्स्वेव भवति सत्त्वेति संवृतिः ॥ इति ।

आह चानन्दः- प्रत्ययमया धर्माः । आत्मा चाविनिश्चयस्थानं भवति इति । ये वदन्ति कर्कशादीनि महाभूतानीति । ते कर्कशादीनि रूपादीनामाश्रया इति मन्यन्ते । (
१०१) तत्तु साश्रययं साधिष्ठानकमिति न तथागतशासनं भवेत् । अतो ज्ञायते चत्वारि महाभूतानि प्रज्ञप्तिसन्तीति ।
धर्माणां सौक्ष्म्यसोकुमार्यश्लक्ष्णत्वादीनि सर्वाणि स्पर्शायतनसंगृहीतानि । खक्खटादयश्चत्वारो धर्माः किमर्था भवन्तिइति केवलं महाभूतार्था भवति इति प्राप्यते । एकादिचतुर्ग्रहाः सावद्याः । अतो ज्ञायते चत्वारि महाभूतानि प्रज्ञप्तिमात्राणि इति । वस्तुधर्मः सलक्षणः प्रज्ञप्तिधर्मश्च सलक्षणः । प्रज्ञप्तेश्च कोऽतिशय इति पश्चाद्वक्ष्यते । अतश्चत्वारि महाभूतानि न द्रव्यसन्ति ॥

चतुर्महाभूतप्रज्ञप्तिवर्गोऽष्टत्रिंशः


३९ चतुर्महाभूतद्रव्यसत्तावर्गः

(पृ) चत्वारि महाभूतानि द्रव्यसन्ति । कस्मात् । अभिधर्म उक्तम् । खक्खटलक्षणः पृथिवीधातुः स्नेहलक्षणोऽब्धातुः ऊष्मलक्षणस्तेजोधातुः ईरणलक्षणो वायुधातुरिति । अतश्चत्वारि महाभूतानि द्रव्यसन्ति । रूपादि भौतिकं रूपं चतुर्भ्यो महाभूतेभ्यः समुत्पद्यते । न प्रज्ञप्तिसन् धर्मं जनयति । खक्खटादिना च चत्वारि महाभूतानि निरुच्यन्ते यत्खक्खटं खरगतं सा पृथिवीति । तस्मात्खक्खटादीनि द्रव्यमहाभूतानि । किञ्च सूत्रे द्वाभ्यामाकाराभ्यामुच्यते खक्खटं खरगतं, स्नेहः स्नेहगतमित्यादि । अतो ज्ञायते खक्खटं वस्तुधर्मः खरगतं प्रज्ञप्तिधर्म इति । एवमन्यान्यपि महाभूतानि । तस्मात्खक्खटादीनि द्रव्यमहाभूतानि । खरगतधर्मस्तु व्यवहारतो महाभूतम् । अतोऽस्ति द्विधा (
१०२) महाभूतं द्रव्यरूपं प्रज्ञप्तिरूपमिति । किञ्चोक्तमभिधर्मे- संस्थानायतनं पृथिवी, खक्खटलक्षणः पृथिवीधातुरिति । तथान्यान्यपि महाभूतानि ।

सूत्रे चाह भगवान्- यच्चक्षुषि [मांस]पिण्डे खक्खटं खरगतमियं पृथिवी । यत्स्नेहः स्नेहगतमिमा आपः । यतूष्म ऊष्मगतमिदं तेजः । मांसपिण्डं पृथिवी इति । अस्मिन्मांसपिण्डे भगवानाह सन्ति चत्वारि महाभूतानि इति । खक्खटादीनि द्रव्यमहाभूतानि । तत्संस्थानानि प्रज्ञप्तिमहाभूतानीति ज्ञातव्यम् । किञ्च भगवान्नावोचत्वायोराश्रयोऽस्तीति । अतो ज्ञायते वायुर्द्रव्यमहाभूतमिति ।

यदि कश्चित्ब्रूयात्चत्वारि महाभूतानि प्रज्ञप्तिसन्तीति । तदा महाभूतलक्षणानि विनिर्भक्तानि स्युः । यदि खरगतं पृथिवीति आपः खरगता इति ता अपि पृथिवी स्युः । मृत्पिण्डः स्नेहगत इति सोऽपि आपः स्यात् । यथा ज्वरपीडितस्य काय उत्कम्प्यते । तप्तः काय एव तेजः स्यात् । तन्न युज्यते । अतो न वक्तुं शक्यते खरगतं पृथिवी, खक्खटमात्रं पृथिवीधातुरिति । तथान्यानि महाभूतान्यपि ।

सहजातत्वात्चत्वारि महाभूतानि अविनिर्भक्तानि । यथोक्तं सूत्रे यत्किञ्चिद्रूपं सर्वं तत्चतुर्महाभूतकृतमिति । चत्वारि महाभूतानि द्रव्यसन्तीति वक्तुस्तान्यविनिर्भक्तानि भवन्ति । चत्वारि महाभूतानि प्रज्ञप्तिसन्तीति वक्तुस्तानि विनिर्भक्तानि स्युः । कस्मात् । खररूपाद्याश्रयाः स्नेहाद्याश्रयेभ्यो विनिर्भक्ताः । तथा च सति चक्षुर्मासपिण्डे चत्वारि महाभूतानि न स्युः । तथा च सूत्रविरोधः । सूत्रस्याविरोधं कामयानस्य भवतः चत्वारि महाभूतानि द्रव्याणि भवन्ति ।

यद्भवता पूर्वमुक्तम्- तीर्थिकेभ्यश्चत्वारि महाभूतान्यवोचदिति । तदयुक्तम् । कस्मात् । सर्वे हि तीर्थिका वदन्ति चत्वारि महाभूतानि रूपादिभिरेकानि यदि वानकानीति । (
१०३) वयन्तु वदामः स्प्रष्टव्यायतनैकदेश श्चत्वारि महाभूतानीति । अतोऽनवद्यम् । किञ्च वयं वदामः प्रत्यक्षदृष्टानि खक्खटादीनि चतुर्महाभूतानि न तु वैशेषिकाणामिव तान्यप्रत्यक्षदृष्टान्यपि ।

यदुक्तं भवता खक्खटं खरगतमिति । तत्र अस्ति द्विधाश्रयार्थः । यथोक्तं सूत्रे- रूपं रूपाधिकरणमिति । आह च चित्तं महतां धर्माणामाश्रय इति । अस्मिन्नर्थ उक्तं खक्खटमेव स्वरगतं न पुनर्धमान्तरमिति । तथा च को दोषः ।

लौकिकाः सर्वे श्रद्दधन्ते यावदष्टगुणा आप इति यद्भवतो वचनं तत्व्यवहारानुवर्तनमात्रतो वदन्ति न द्रव्यमहाभूता [नुवर्तन]तः । किञ्चोक्तं भवता- उपादायधर्माः सर्वे प्रज्ञप्त्यात्मका इति । नेदं युज्यते । कस्मात् । उक्तं हि सूत्रे- यदि वा षट्स्पर्शायतनानि यदि वा षट्स्पर्शायतनान्युपादाय धर्मा इति । कश्चिद्भिक्षुर्भगवन्तं पृच्छति- क तत्चक्षुरिति । भगवान् प्रत्याह- चक्षु[र्भिक्षो] चत्वारि महामूतान्युपादाय रूपप्रसाद इति । एवं दशायतनान्यपि । यत्तु साश्रयं साधिष्ठानकमिति । न तथा वदामः । धर्मे धर्मो वर्तत इति मात्रं वदामः ।

यद्भवानाह- खक्खटादयः किमर्था भवन्तीति केवलं महाभूतार्था इति भवन्ति इति प्राप्यते इति । खक्खटादयः सार्थका यदुत खक्खट लक्षणं सन्धत्त इति । अब्लक्षणं स्नेहयतीति । तेजोलक्षणं परिपाचयतीति । वायुलक्षणमभिनिर्वर्तयतीति । अतश्चत्वारि महाभूतानि द्रव्याणि सन्ति ॥

चतुर्महाभूतद्रव्यसत्तावर्ग एकोनचत्वारिंशः


४० तदप्रामाणवर्गः

अत्र प्रतिब्रूमः । तदयुक्तम् । चत्वारि महाभूतानि प्रज्ञप्तिमात्राणि । यद्यप्युक्तं भवता अभिधर्म उक्तं- खक्खटलक्षणः पृथिवीधातुः । इत्यादि । न तद्युज्यते । कस्मात् । (
१०४) भगवान् हि स्वयमाह- खक्खटः खरगतश्च पृथिवी इति । न खक्खटमात्र[माह] । अतो नायं सम्यघेतुः ।

रूपादिकं चतुर्भ्यो महाभूतेभ्यः समुत्पद्यत इति भवदुक्तं न युज्यते । कस्मात् । रूपादिः कर्मक्लेशान्नपानमैथुनरागादिभ्यः समुत्पद्यते । यथोक्तं सूत्रे- चक्षुः किमुपादाय भवति । कर्मोपादाय भवति । इति । किञ्चाह- सुखासङ्गसमुदयाद्रूपसमुदय इति । यथा चानन्दो भिक्षुणीशिक्षणाय भगिनीमाह- अयं कायः आहारसम्भूतः तृष्णासम्भूतो मानसम्भूतो मैथुनसम्भूत इति । अतो ज्ञायते रूपादि र्न चतुर्महाभूतसम्भूतिति । (पृ) यद्यपि रूपादि कर्मसम्भूतम् । तथापि चत्वारि महाभूतानि च अंशेन हेतवः स्युः । यथा कर्मवशात्व्रीहिर्भवति । स ब्रीहिर्बीजाद्यपेक्ष्य च प्रादुर्भवति । तथा चक्षुरादीनां कर्मसम्भूतत्वेऽपि चत्वारि महाभूतानि अंशतो हेतवो भवन्ति । (उ) कदाचित्किञ्चिद्वस्तु विनापि हेतुप्रत्ययानुत्पद्यते । यथा कल्पावसाने कल्पादौ च महती वृष्टिः । ता आपः कस्मात्सम्भवन्ति । देवानामभीप्सितमनुस्मरणमात्राल्लभ्येत । यथा ध्याननिषण्णस्य भदन्तस्य चाभीप्सितं छन्दमनुवर्तते । अस्य के प्रत्ययाः । न[नु] कर्ममात्रम् । यथा च रूपसन्तानः व्युच्छिद्य पुनः प्रतिसन्धीयते । योऽरूपधातावुपपद्य पुना रूपधातावुपपद्यते । रूपस्यास्य किं मूलम् ।

(पृ) कस्मात्किञ्चित्कर्ममात्रादुत्पद्यते किञ्चित्तु बाह्यप्रत्ययमपेक्ष्योत्पद्यते । (उ) यः सत्त्वोऽवरकर्मबलो भवति । स बीजसामग्रीसाहाय्यतः साधयति । उत्कटकर्मबलस्तु न बाह्यप्रत्ययमपेक्षते तथा धर्मा अपि स्युः । केचित्सकर्मकाः । केचित्सधर्मकाः । केषाञ्चिदुपपत्त्यायतनं कर्मबलमात्राल्लभ्यते । न बाह्यप्रत्ययमपेक्ष्य । हेतुप्रत्ययापेक्षी वदेत्बीजमङ्कुरादीनां हेतुरिति ।

कस्मादुच्यते खक्खटादिमुपादाय [रूपादि]रुत्पद्यते । केनार्थेन खक्खटादितो रूपादिरुत्पद्यते न रूपादितः खक्खटादिः । तयोश्च सहजातत्वात्कथमुच्यते खक्खटादिमुपादाय (
१०५) रूपादिर्भवति । न रूपादिमुपादाय खक्खटादिरिति । नह्येककालीनर्योर्धर्मयोरन्योन्यहेतुत्वं भवति । यथा शृङ्गद्वयं युगपज्जायमानम् । न वक्तुं शक्यं वामदक्षिणे हेतू इति ।

(पृ) यथा प्रदीपप्रकाशयोरेककालिकयोरपि प्रदीपमुपादाय प्रकाश इत्युच्यते । न प्रकाशमुपादाय प्रदीप इति । तथेदमपि । (उ) प्रदीपो न प्रकाशादन्यः । प्रदीपो हि रूपं प्रकाश इति धर्मद्वयसमवायात्मकः । रूपमेव प्रकाश इति न प्रदीपः पृथग्भवति । एवमस्य दृष्टान्तस्य तथ्यं न चिन्तितवानसि । (पृ) प्रकाशः प्रदिपादन्यत्र गच्छतीति अन्यः स्यात् । (उ) नान्यत्र गच्छति । इदं प्रकाशरूपं प्रदीप एव प्रत्यक्षमुपलभ्यते । यद्यन्यत्र गच्छति । प्रदीपं विहायाप्युपलभ्येत । न तूपलभ्यते वस्तुतः । तद्रूपं न प्रदीपादन्यदिति ज्ञातव्यम् ।

(पृ) युगपज्जायमानयोरपि धर्मयोर्हेतुफलभावोऽस्ति । यथा सप्रतिधे विज्ञानस्य चक्षूरूपं हेतुप्रत्ययो भवति । न तु चक्षूरूपस्य विज्ञानम् । (उ) न युज्यते । चक्षुर्विज्ञानस्य पूर्वचित्तं हेतुः चक्षूरूपं प्रत्ययः । पूर्वनिरुद्धं चित्तं हेतुः इति कथं युगपज्जायमानं भवति । यो धर्मो यं हेतुमनुवर्त्योत्पद्यते स तस्य हेतुः । यच्चित्तं यदिन्द्रियाण्युपादाय भवति स तदुपादाय धर्मः ।

अथ चत्वारि महाभूतान्येव [न] रूपकराणि । [सरूप]हेतुसम्भूतत्वात् । प्रत्यक्षमुपलभामः खलु लोके वस्तूनि सरूपहेतोर्जायमानानि । यथा सालेश्शालिर्भवति, यवाद्यवः । एवं पृथिवीतः पृथिवी भवति नाबादयः । एवं रूपाद्रूपं भवति इत्येवमादि ।

(पृ) दृश्यते स किञ्चिद्वस्तु असरूपहेतोर्जायत इति । यथा व्याकीर्णगोपुरीषकूटे कृमिर्जायते । शृङ्गकूटे तृणं प्ररोहति । (उ) न वयं वदामः असरूपहेतोर्न जायत इति । किन्तु सरूपहेतौ च सति जायत इति वदामः । तस्मादुच्यते रूपादिभ्यो (
१०६) रूपादयो जायन्ते न चतुर्महाभूतेभ्य एव जायन्त इति । अतो नाबधारणं भवति रूपादयश्चतुर्महाभूतेभ्य एव जायन्त इति ।

खक्खटादिना चत्वारि महाभूतानि निरूप्यन्त इति यदवोचद्भवान् । तदयुक्तम् । कस्मात् । नियतैः खक्खाटादिलक्षणैः चत्वारः सङ्घाता विभक्तव्याः । सौकुमार्यादेस्तु अनियतः कदाचित्खक्खटबहुले सङ्घाते वर्तते । कदाचित्स्नेहबहुले सङ्घाते वर्तते । अतो नानेन [सौकुमार्यादिना] सङ्घाता विभक्तव्याः । तथान्यैरपि । खक्खटादीनां स्पर्शविशेषाः सौकुमार्यादय उच्यन्ते । किमिति । यदि स्नेहेन उत्पत्तिस्वभावेनापि सुकुमारसूक्ष्मश्लक्ष्णानि भवन्ति । खक्खटलक्षणबहुलत्वात्खक्खटं खरमौदारिकं कर्कशमित्येवमादि भवति । अतः खक्खटादिमात्रेण चत्वारः सङ्घाता विभज्यन्ते । यथोक्तं सूत्रे- खक्खटा[दि]गतानीति चतुर्णां महाभूतानां विभागा निर्दिश्यन्त इति । अतो ज्ञायते खक्खटगतधर्मः पृथिवीधातुः न तु खक्खटमात्रलक्षण इति । तस्मात्खक्खटलक्षणं पृथिवीप्रसाधनहेतुरित्युच्यते । पृथिवीप्रसाधने च खक्खटत्वं प्रधानहेतुः । अतः पृथक्कृत्योच्यते । तथान्यानि लक्षणान्यपि [वक्तव्यानि] । संज्ञाक्रियायै यत्किञ्चन् खक्खटं खरगतं सर्वं तत्पृथिविधातुः । केचिद्वदन्ति केवलं खक्खटलक्षणं पृथिवीधातुरिति । तत्प्रत्याख्यानाय भगवानाह- खक्खटं खरगतं पृथिवीधातुरिति । अन्यदप्येवम् । खक्खटलक्षणसङ्घाते खक्खटस्य बाहुल्यात्द्विधास्ति व्यवहारः । सर्वेषु सङ्घातेषु खक्खटादिस्पर्शाः सन्ति । यत्खक्खटं खरगतं स पृथिवीधातुः । यत्स्निग्धं स्निग्धगतं स आपोधातुः । यतुष्णमुष्णगतं स तेजोधातुः । (
१०७) खक्खटं पृथिवीप्रसाधनस्य प्रधानहेतुरित्यतस्तत्र पृथिवीति नाम । प्रज्ञप्तितः प्रसिद्धे हेतौ प्रज्ञप्तितः संज्ञा भवति यथा वदन्ति- पश्याम्यहं
वृक्षस्य छेत्तारं पुरुषमिति ।

द्वाभ्यामाकाराभ्यामिति यदवोचः । तदयुक्तम् । यदि व्यवहारभङ्गीमनुसृत्य तत्त्वं भवति । तदा द्वादशायतनादीनि तत्त्वानि न स्युः । अतश्चक्षुः प्रतीत्य रूपञ्चोत्पद्यते चक्षुर्विज्ञानमितीदमतत्त्वं स्यात् । व्यवहारभङ्गया अभावात् । इदञ्च मिथ्याशास्त्रं स्यात् । किञ्च तथागते तेजोवती समाधिमुपसम्पन्ने तत्काया द्विविधानि ज्वालारूपाणि निश्चरन्ति । तत्र किमित्ति तेजो धातुर्न भवति । रूपादीना तेजः सिध्यति नतूष्ममात्रलक्षणतः । किञ्चाह भगवान्- कायोऽयं करण्डक इति । तत्र नखलोमकेशादयः समृद्धाः सन्ति । यथोक्तं सूत्रे- सन्ति कायेऽस्मिन्नखलोमकेशादय इति । अतो नखलोमकेशादयः पृथिवीधातुः । न हि धतुवादोऽस्तीति द्रव्यधर्मो भवति । उक्तञ्चबीज सूत्रे यतः पृथिवीधातुः स्यात्नाब्धातुः न बीजानि वृद्धिं [विरूढिं विपुलता] मापद्यन्त इति । तत्र किं पृथिवीधातुः यदुत प्रज्ञप्तितः क्षेत्रम्, न तु खक्खटमात्रलक्षणम् । आपोऽपि प्रज्ञप्तितः न स्नेहमात्रलक्षणम् । एकस्य धर्मस्य द्रव्यत्वं प्रज्ञप्तित्वमिति द्विप्रकारोऽपि नोपलभ्यते । कस्मात्, रूपादीनि द्रव्याणि । चक्षुरादीनि प्रज्ञप्तितः सन्ति । महाभूतानि तु द्रव्यतश्च प्रज्ञप्तितश्च सन्तीदं मिथ्याशास्त्रम् । षड्धातु सूत्रे च भगवानाह- केशलोमनखादीनि पृथिवीधातुरिति । हस्तिपदोपमसूत्रे चोक्तम्- केशा लोमा नखा इत्यादीनि अयमुच्यते पृथिवीधातुरिति । केनार्थेन धातुर्द्रव्यं न प्रज्ञप्तिरित्युच्यते । न च सोऽर्थः सूत्रारूढः ।

(
१०८)
यदवादीः भगवानाह- यच्चक्षुर्मासपिण्डे खक्खटं खरगतमियं पृथिवी इत्यादि । वचनेनानेन भगवान् प्रदर्शयति पञ्चेन्द्रियाणि चत्वारि महाभूतान्युपादाय भवन्ति इति । केचिद्वदन्ति अहङ्कारसम्भूतमिन्द्रियमिति । केचिद्वदन्ति महाभूतव्यतिरिक्तमिन्द्रियमस्तीति । केचिद्वदन्ति इन्द्रियाणि नानास्वभावजानि यदुत पृथिवीमहाभूतात्सम्भूतं घ्राणमित्यादि । तत्प्रत्याख्यानाय भगवानाह- चक्षुरादीन्द्रियाणि चतुर्महाभूतसमवायात्मकानि शून्यान्यवस्तूनि इति । विकल्पः प्रज्ञप्तेर्हेतुं प्रत्ययं साधयति । [सा] प्रज्ञप्तिरपि नास्ति । अस्मिन्मांसपिण्डे सन्ति चत्वारो भागाः खक्खटं खरगतमित्यादि वचनेन भगवान् प्रदर्शयति सर्वपदार्थाः चतुर्महाभूतसम्भूता इति ।

भगवान्नावोचत्- द्वयोराश्रयोऽस्तीत्यतो द्रव्यमहाभूतं [वायु]रिति यदवोचः । तदयुक्तम् । कस्मात् । वायोर्लघुत्वं विशिष्टं लक्षणं न लघुगतधर्मः । पृथिव्यादीनां खक्खटगतधर्मादयो विशिष्टाः वायोस्तु न तथा । लघुगतधर्मश्चाल्प इति नावोचत् । यदवादीः चत्वारि महाभूतानि प्रज्ञप्तिसन्तीति वक्तुः तन्महाभूतलक्षणानि विनिर्भक्तानि स्युरिति । तदयुक्तम् । यत्खक्खटं खरगतं चतुर्महाभूतसम्भूतं [स]पृथिवीधातुः । न तूच्यतेऽन्यद्वस्तु लक्षणस्याश्रय इति । यो धर्मो लक्षणादन्य न स आश्रयः । अयमेव लक्षणस्य [अ]विनिर्भागः । (पृ) यदुत्पद्यमानं न स आश्रयो भवति । आश्रयो हि [यत्]अन्यद्वस्तु [तत्] आश्रयतामुपयाति । (उ) आश्रय इति संज्ञायते नान्यद्वस्तु लक्षणस्याश्रय इति । उत्पद्यमानस्य प्रविभागात् । यथा वदन्ति आकाशं सर्वगामीति । वस्तुतस्तु नास्ति तत्यद्गच्छति ।

यदुक्तं भवता चत्वारि महाभूतानि सहजातानीति । तदयुक्तम् । यथा आतपे केवलं रूपयुक्तः स्पर्श उपलभ्यते नान्ये धर्मः । चन्द्रिकायां केवलं रूपयुक्तः शीतस्पर्श उपलभ्यते नान्ये धर्माः । तस्मान्न सर्वेषु पदार्थेषु चतुर्महाभूतानि सन्ति । तद्यथा किञ्चिद्वस्तु नीरसं यथा सुवर्णवज्रादि । किञ्चिद्वस्तु निर्गन्धं यथा सुवर्णरजतादि । किञ्चिद्वस्तु नीरूपं यथा गृह[प्रासाद]धर्म । किञ्चिद्वस्तु (
१०९) निरूष्म यथा चन्द्र[कान्त]आदि । किञ्चिद्वस्तु निश्शीतं यथा तेज आदि । किञ्चिद्वस्तु ईरणलक्षणं यथा वाय्वादि । किञ्चिद्वस्तु निरीरणं यथा पाषाणघण्डः । एवं किञ्चिद्वस्तु निष्कर्कशम् । किञ्चिन्निस्नेहम् । किञ्चिन्निरूष्म । किञ्चिन्निरीरणम् । अतश्चत्वारि महाभूतानि नाविनिर्भागवर्तीनि ।

(पृ) बाह्यैः कारणैर्महाभूतानां स्वभाव आविर्भवति । यथा सुवर्णपाषाणादौ द्रवलक्षणं तेज अपेक्ष्याविर्भवति । अप्सु काठिन्यलक्षण अतिशैत्यमुपादायोद्भवति । वायौ शीतोष्मलक्षण अप्तेजसी उपादायोद्भवति । तृणवृक्षेषु ईरणलक्षणं वायुं प्राप्योद्भवति । तस्मात्पूर्ववर्तिनः स्वभावाः प्रत्ययमपेक्षोद्भवन्ति । अतश्चत्वारि महाभूतानि न विनिर्भागलाभिन इति ज्ञायते । यदि पुर्वमसन् [स]स्वभावः । कथमुद्भवेत् । (उ) तथा चेत्वायौ कदाचिद्गन्धोऽस्तीति गन्धो वायुगतः स्यात् । यथा वासिततैलगन्धस्तैलगतः । नत्विदं युज्यते । न हि महाभूतेभ्यो भौतिकं रूपमुत्पद्यते । यथा स्नेहात्स्नेहो भवति । तथा रूपाद्रूपं भवति । यदि [तानि] अविनिर्भागवर्तीनि । तदा सत्कार्यं स्यात् । यथा कन्यायां पुत्रः अन्नेऽमेध्यादिः । न वयं ब्रूमः सत्कार्यम् । यद्यपि नास्ति पयसि दधि । तथापि दधि पयस उत्पद्यते । एवं किं संज्ञानुस्मरणविकल्पेन यदुत चत्वारि महाभूतानि सहजातानि अपृथग्भागवर्तीनीति ॥

तदप्रमाणवर्गश्चत्वारिंशः


(
११०)
४१ पूर्वतनसिद्धान्तप्रकाशनवर्गः

पूर्वं यदवादीः- न वयं ब्रूमः चत्वारि महाभूतानि रूपादिभिरेकानि यदि वानेकानि इत्यतोऽनवद्यमिति । तदयुक्तम् । कस्मात् । तीर्थिकाः सर्वे सिषाधयिषन्तीत्यत श्चतुर्णां महाभूतानामेकत्वनानात्वे उदाहरन्ति । अतो भगवान् प्रज्ञप्तौ चतर्णां महाभूतानामुदाहृतत्वात्तेषामर्थमुपदिशति । तथा नो चेत्न ब्रूयात् । लौकिकाः स्वभावतः पृथिव्यादिमहाभूतानि जानन्तोऽपि न विदन्ति [तेषां] वस्तुभावम् । अत उपदेशं करोति । नोपदिशति हस्तादि । यदि खक्खटादिभिश्चत्वारि महाभूतानि भवन्ति इति । क उपकारो भवेत् ।

अस्ति द्विधा आश्रयार्थ इत्युक्त्वा महाभूतानि द्रव्याणीति यदवोचः । तत्र न प्रतीमो- अयमाश्रयार्थः, [त]दन्यो यः स प्रज्ञप्तिसनिति । [अष्टगुणा आप इति] व्यवहारानुवर्तनतो वदन्ति न तु द्रव्यमहाभूता[नुवर्तन]त इति यद्वचनं तदयुक्तम् । कस्मात् । यदि वा प्रवचने यदि वा लोके न हेतुप्रत्ययैर्विना रूपादिषु चतुर्महाभूत संज्ञां कुर्वन्ति । यथा लोके वदन्ति पश्याम्यहं पुरुषमिति । रूपादिषु हि पुरुष इति संज्ञा न हेतुप्रत्ययैर्विना भवति । यो विनापि सुदृढहेतुप्रत्ययैः संज्ञां करोति सोऽश्वं दृष्ट्वा पुरुष इत्याह्वयेत् । वस्तुतस्तु न तथा । कस्माच्छब्दे पृथिवीति न वदन्ति । लौकिकाः सदा [पृथग्] वदन्ति पृथिवीति शब्द इति । न कदाचिदपि वदन्ति शब्दः पृथिवीति । यो विना सुदृढहेतुप्रत्ययैः संज्ञां करोति । स शब्दं पृथिवीति आह्वयेत् । वस्तुतस्तु न तथा । तस्माद्रूपादयश्चत्वारो धर्मा [एव] पृथिवी । पृथिवीभागे [ऽपि] पृथिवीति संज्ञा भवति । यथारूपमिदं प्रज्ञप्तेर्हेतुं साधयति तत्र पुरुष इति संज्ञा । वृक्षेषु वनमिति संज्ञा । भिक्षुषु सङ्घ इति संज्ञा । एवं रूपादिषु धर्मेषु चत्वारि महाभूतानीति संज्ञां वदन्ति ।

(
१११)
यदवोचः- यदि वा षट्स्पर्शायतनानि यदि वा षट्स्पर्शायतनान्युपादाय सिद्धा [धर्मा] इति । नेदं सूत्रं युक्तम् । यथा भवतां शासने भौतिकं रूपं न कस्यचिज्जनकम् । तथा मम शासनेऽपि प्रज्ञप्तौ न [तत्]कस्यचित्जन्यम् । अत इदं सूत्रं न भवेत् । अस्ति चेत्तस्यार्थोऽन्यथयितव्यः । यदवादीः- चत्वारि महाभूतान्युपादाय भौतिको रूपप्रसादः चक्षुरिति । तदयुक्तम् । चतुर्णां महाभूतानां समवायः प्रज्ञप्तौ चक्षुरित्युच्यते । प्रज्ञप्तिसन्ति चत्वारि महाभूतानि रूपम् । तद्रूपप्रसादश्चक्षुः । यद्युप्युक्तं भवता धर्मे धर्मो वर्तते निराश्रयो निरधिष्ठाता चेति । [तत्र यो धर्मः] स एवाश्रयः अधिष्ठाता च । येन वर्तते स आश्रयः । यस्मिन् धर्मे तिष्ठति सोऽधिष्ठाता । यदवोचः- खक्खटलक्षणं "संघत्त" इत्यादि । नेदं युज्यते । न खक्खटलक्षणं केवलं धत्ते । अपि तु हेतुप्रत्ययसामग्रीञ्चापेक्षते । तथान्यान्यपि । तस्माच्चत्वारि महाभूतानि प्रज्ञप्तिसन्ति ॥

पूर्वतनसिद्धान्तप्रकाशनवर्गमेकचत्वारिंशः ।


४२ खक्खटलक्षणासत्तावर्गः

(पृ) यदाह भवान्- खक्खटबहुलो रूपादि [समवायः] पृथिवीमहाभूतमित्यतः पृथिव्यादयः प्रज्ञप्तिसन्त इति । नेदं युज्यते । कस्मात् । खक्खटधर्म एव नास्ति । किं पुनः प्रज्ञप्तिसती पृथिवी । (१) यो मृत्पिण्डः खक्खटः स एव [कदाचित्] मृदुः । अतो ज्ञायते खक्खटलक्षणमनियतमिति । (२) अल्पतरकारणेन च खक्खटबुद्धिर्भवति । अणूनां विश्लिष्टसमवाये मृदुरिति बुद्धिर्भवति । संश्लिष्टसमवाये खक्खटमिति । अतोऽनियतम् । (३) नह्येकस्मिन् धर्मे स्पर्शद्वयं भवति । येन खक्खटः कायः मृदुः काय इति बुद्धिर्भवेत् । अतोऽनियतं खक्खटलक्षणम् । (४) अनियता खक्खटता मृदुता चान्योन्यमपेक्ष्यास्ति । यथा कम्बलमपेक्ष्य पटं मृदु भवति । पटमपेक्ष्य कम्बलं कर्कशं भवति । न हि [तात्त्विकः] स्पर्शधर्मः अन्योन्यमपेक्ष्यास्ति । (५) सुवर्णपाषाणे चक्षुषा द्रष्टुर्ज्ञायते (
११२) इदं खक्खटमिति । न हि स्पर्शश्चक्षुषोपलभ्यते । अतो नास्ति खक्खटता । अनेनैव कारणेन मृद्वादयः स्पर्शा अपि न सन्ति ॥

खक्खटलक्षणासत्तावर्गो द्विपंञ्चाशः ।


४३ खक्खटलक्षणसत्तावर्गः

अत्रोच्यते । द्रव्यसत्खक्खटलक्षणम् । यद्यप्याह भवान्- यो मृत्पिण्डः खक्खटः स एव [कदाचित्] मृदुरिति (१) । तदयुक्तम् । कस्मात् । नह्यस्त्यस्माकं द्रव्यतो मृत्पिण्डः । बहूनां धर्माणां कलापः प्रज्ञप्त्या मृत्पिण्ड इत्युच्यते । अल्पतरकारणेन च खक्खटबुद्धिर्भवतीति यदवोचः (२) । न तद्युज्यते । मम संश्लिष्टसंङ्घाताणुषु इदं खक्खटलक्षणं लभ्यत इति अस्ति खक्खटता । असंश्लिष्टेषु तन्मृदुलक्षणं लभ्यते, इत्यतो नास्ति दोषः । यो धर्म उपलभ्यते । स एवास्तीत्युच्यते । यदप्युक्तं- नह्येकस्मिन् धर्मे स्पर्शद्वयमस्तीति (३) । तदयुक्तम् । उपलभ्यन्ते किलास्माभिः एकस्मिन्नेव धर्मे बहवः स्पर्शाः खक्खटोऽपि मृदुरपीति । यदप्युक्तम्- खक्खटता मृदुता चान्योन्यमपेक्षत इति नास्ति नियतेति (४) तन्नयुज्यते । यथा ह्रस्वदीर्घत्वादि अन्योन्यमपेक्ष्याप्यस्ति । यथा सितोपलारसमास्वादयितुरसितोपलारसः कटुर्भवति । हरीतकीरसमास्वादयितुरसितोपलारसो मधुरो भवति । यद्यन्योन्यापेक्षणान्नास्ति । तदा रस एव न स्यात् । (पृ) असितोपलायां द्विविधोऽस्ति रसः मधुरः कटुरिति । (उ) [तर्हि]पटेऽपि द्वौ स्पर्शौ स्तः खक्खटो मृदुश्चेति ।

पाषाणदर्शने खक्खटता ज्ञायत इति यदुक्तम् । तदयुक्तम् । न हि चक्षुषा ज्ञेया खक्खटता । स्पर्शपूर्वकमनुमीयते । यथाग्निं दृष्ट्वा ऊष्म ज्ञायते इति नोष्म दृश्यं भवति । यथा पुरुषः कम्बलं दृष्ट्वा संशेते किमिदं कठिनं किं वा मृदु इति । अतः स्पर्शो न चक्षुषा दृश्यः । अतः सन्ति खक्खटादयः स्पर्शाः ।

(
११३)
अथ खक्खटादयो द्रव्यसन्तः । कस्मात् । विकल्पचित्तस्योत्पादकत्वात् । यदि नास्ति खक्खटता । तदा किं विकल्प्येत । खक्खटः [स्व]चित्तस्य प्रत्ययं करोति । यत्र तक्ष्णादि कर्मान्तरं क्रियते । मृदुस्निद्घलक्षणविरुद्धं यत्तत्खक्खटमित्युच्यते । सन्धारणस्य प्रत्ययत्वात्खक्खटम् । करादीन् प्रतिहन्तीति खक्खटम् । प्रत्यक्षतः खलु जानीम इदं खक्खटमिति । प्रत्यक्षपरिज्ञाते च वस्तुनि न हेतुप्रत्ययापेक्षास्ति । लोके तद्वस्तु खक्खटमित्याख्यायते । तथान्यान्यपि । अतो ज्ञायतेऽस्ति खक्खटमिति ॥

खक्खटलक्षणसत्तावर्गस्त्रिचत्वारिंशः ।


४४ चतुर्महाभूतलक्षणवर्गः

(पृ) अस्ति खक्खटधर्म इति ज्ञातमेवास्माभिः । परन्तु पश्यामस्तप्ते सुवर्णे द्रवत्वम् । आपो घनीभूताः करकाः । किमिदं सुवर्णं खक्खटत्वात्पार्थिवम् । किं वा द्रवत्वादाप्यम् । (उ) अस्ति प्रत्येकं स्वलक्षणम् । यो धर्मः खक्खटः खरगतः स पृथिवीधातुः । यः स्निग्धः स्निग्धगतः सोऽब्धातुः । (पृ) सुवर्णं खक्खटं सत्[तेजसो योगात्] द्रवीभवति । आपः स्निग्धा अतिशैत्यात्करका भावन्ति इति कथं महाभूतानि न स्वलक्षणं जहति । यथाह सूत्रम्- चतुर्णां महाभूतानां लक्षणं कदाचित्विकार्यं चत्वारः श्राद्धा नान्यथोपलभ्यन्ते । इति । (उ) नास्माकं खक्खटतो द्रवो भवति । स्निग्धं वा खक्खटं भवति । किन्तु खक्खटो द्रवस्य हेतुं करोति । स्निग्धञ्च खक्खटस्य हेतुं करोति । अतो न जहाति स्वलक्षणम् ।

(पृ) अभिधर्म उक्तम्- अपां लक्षणं स्नेह इति । केचिद्वदन्ति द्रव अपां लक्षणमिति । उक्तं सूत्रे- स्यन्दनमपां लक्षणमिति । किं पारमार्थिकं तत्त्वम् । (उ) द्रवस्नेहस्यन्दनानि (
११४) अपां नामान्तराणि । (पृ) अपां कर्म द्रवश्चक्षुषा दृश्यमानो धर्मः । अतो द्रव एव [लक्षणम्] न तु स्नेहः स्यन्दनं वा । (उ) स्नेहस्यन्दनाभ्यां द्रवो भवति । स्निग्धं हि अधोमुखं याति । अतो द्रवः स्यन्दः । स्नेहस्यन्दौ चापां लक्षणम् । द्रवस्तु अपां कर्म ।

(पृ) लघुसमुदीरणत्वं वायोर्लक्षणमुक्तम् । [तत्र] लघुत्वमन्यत्समुदीरणत्वमन्यत् । लघुत्वं स्पर्शायतनसङ्गृहीतम् । समुदीरणत्वं रूपायतनसङ्गृहीतम् । किमिदानीं वायुर्धर्मद्वयात्मकः सम्भवति । (उ) लघुत्वं वायोर्लक्षणम् । समुदीरणत्वं वायोः कर्म । कर्मणा संयुज्य [लक्षण]मुक्तम् । (पृ) नास्ति समुदीरणलक्षणम् । सर्वधर्माणां क्षणिकत्वात् । नान्यत्र प्राप्तिरस्ति । अन्यत्र प्राप्तिर्हि समुदीरणमुच्यते । प्राप्तिगमनसमुदीरणानामेकार्थत्वात् । (उ) कर्मेति केवलं लोकसत्यतो वदामः न तु परमार्थतः लघुधर्ममुपादाय देशान्तरे जननधर्मः कर्मेति संज्ञां लभते । तस्मिन्नेव समये गच्छतीत्युच्यते । (पृ) लघुत्वमनियतलक्षणम् । कस्मात् । अन्योन्यमपेक्ष्य सत्वात् । यथा दशपलं वस्तु विंशतिपलवस्त्वपेक्ष्य लघु पञ्चपलवस्त्वपेक्ष तु गुरु । (उ) गुरुत्वपरिमाणधर्मश्चित्तादि धर्ममुपादाय अन्योन्यमपेक्ष्य चास्ति । यथा कश्चिद्धर्मः अन्यमपेक्ष्य दीर्घः । कश्चित्तु धर्मोऽन्यमपेक्ष्य ह्रस्वः । सामान्यलक्षणन्तु [यत्] चित्तमुपादायास्ति तदेव लक्षणम् । यदि लघुत्वधर्मोऽन्योन्यापेक्षितत्वान्नास्ति । एतदाद्यपि न स्यात् । न तु तद्युज्यते । अतोऽन्योन्यापेक्षिकत्वं न सम्यग्धेतुः ।

किञ्च लघुत्वं नान्योन्यापेक्षणादस्ति । किन्तु अतुल्यमस्ति । अतुल्यं वस्तु यथा दृतिमध्यगतो वायुः । अतो नापेक्ष्यास्ति । केवलं गुरुत्वधर्म आपेक्षिकः । विगतगुरुकं वस्तु अतुल्यम् । (पृ) यद्यतुल्यं वस्तु लघु इत्युच्यते । गुरुत्ववर्जिता अन्ये रूपादयो धर्मा अतुल्यत्वात्लघवः स्युः । तत्तु न युज्यते । अतो भवदुक्तं न लघुलक्षणम । (उ) न वयमङ्गीकुर्मो रूपादीन् विहाय धर्मान्तरं गुरु भवतीति । रूपादय एव धर्माः (
११५) केचित्तुल्यस्वभावा उत्पद्यन्ते । यथा खक्खटमखक्खटं बलमबलं नवं पुराणमुपचितमनुचितं क्षीणमक्षीणं स्थूलं सूक्ष्ममित्यादयः । तेऽपि न रूपादीन् विहाय सन्ति । एवं गुरुलक्षणमपि । अयं रूपादिसङ्घातो यदि पार्थिव आप्यो वा । तदा तुल्यो भवेत् । यदि वायवीयस्तैजसो वा । तदा न तुल्यः स्यात् ।

(पृ) यदि गुरुत्वधर्मो न रूपादीन् विहायास्ति । लघत्वमपि रूपादीन् विहायन स्यात् । (उ) सत्यमेवम् । रूपादीन् विहाय नास्ति पृथग्लघुत्वम् । किन्तु रूपादिगणकलापो लघुर्भवति । (पृ) मैवम् । गुरुलघुत्वविकल्पोऽवश्यं कायेन्द्रियेणेष्यत इत्यतो न गुरुर्लघुः रूपादिसङ्घातः । (उ) ते च खक्खटादयः कदाचित्चक्षुषा कदाचित्श्रोत्रादीना विकल्प्यन्ते । ते च खक्खटादयः पदार्था न रूपादीन् विहाय सन्ति । तथा गुरुर्लघुरपि । [तत्र] यद्यपि कायेन्द्रियं व्याप्रियते । न [तावता] पुनस्तत्लक्षणान्तरं भवति । न च कायेन्द्रियमस्पृश्य कायविज्ञप्तिमुत्पादयति । इदं गुरुत्वलक्षणं कायेनास्पृष्टमपि [तस्य] विज्ञप्तिमुत्पादयति । यथा गुरुद्रव्ये द्रव्यान्तर्गतापेक्षयापि तद्गुरुत्वं ज्ञायते । (पृ) न तस्मिन् समये ज्ञायत इदं गुरुलक्षणमिति । (उ) यथा परिहितवस्त्रः पुरुषोऽस्पृष्टोऽपि ज्ञायते [अयं] बलवानबलवानिति । तथा गुरुर्लघुरपि । कस्मात् । विविधेभ्यः स्पर्शेभ्यो विविधाः कायविज्ञप्तयो भवन्ति । यथा कदाचिदावेधपीडनाभ्यां कठिनसुकुमार [स्पर्श]विज्ञप्तिर्जायते । कदाचिदुत्क्षेपणकम्पनाभ्यां गुरुलघुविज्ञप्तिर्जायते । कदाचिदादानसंस्पर्शाभ्यां दृढबल्बजविज्ञप्तिर्भवति । कदाचित्संस्पर्शप्रतिघाताभ्यां शीतोष्णविज्ञप्तिर्भवति । कदाचिन्मार्जनपरामर्शाभ्यां कर्कशश्लक्ष्णविज्ञप्तिर्भवति । कदाचिदभिषवसंमर्दाभ्यां बलीयस्तुन्दिलविज्ञप्तिर्भवति । छेदनवेधनाभ्यां दण्डाघातेन वा धात्वन्तरविज्ञप्तिर्भवति । केचित्स्पर्शाः सदाकायगताः न शीतोष्णादिवत्बाह्यमपेक्ष्यागामिनः यदुत प्रश्रब्धिसुखं स्त्यानप्रकर्षः अस्त्यानप्रकर्षः रोगो विशेषोवा कायतैक्ष्ण्यं कायमान्द्यमालस्यगुरुता मूर्छा उन्मादः पक्षवायुजृम्भणबुभुक्षापरितर्षणपरितर्पणसुखासुखलोलुपताजडतादयः
स्पर्शाः । [ते] प्रत्येकं पृथक्पृथग्विज्ञप्तिजनकाः ।

(पृ) यत्गुरुलघुलक्षणं स रूपादिसङ्घात एव । कथं तद्रूपादीनां कायविज्ञप्तिं प्रति प्रत्ययत्वम् । (उ) न रूपादिसङ्घातस्य कायविज्ञप्तिं प्रति प्रत्ययनव्यापारः । केवलं तदवयवस्पर्शः कायविज्ञप्तिं प्रति प्रत्ययः । यथा खक्खटाखक्खटत्वादयो रूपादिसङ्घातवर्तिनोऽपि (
११६) चक्षुषा दृष्ट्वा ज्ञातुं शक्यन्ते । यथा च प्रश्रब्धिसुखादयो रूपादिसङ्घातात्मककायेनापि विज्ञाय विकल्प्यन्ते । तथेदमपि ।

यदि गुरुर्लघुः स्पर्शमात्रम् [इत्यभ्युपगम्यते] को दोषः किमनया रूपादिसङ्घातविकल्पक्रियया । (उ) यथा लौकिका वदन्ति प्रत्नधान्यं पूतिधान्यमिति । इदं प्रत्नपूतिल क्षणं रूपादिभ्योऽन्यत्स्यात् । वस्तुतस्तु न तथा । रूपादीनां प्राथमिक उत्पादः प्रत्नमित्युच्यते । यदीदं प्रत्नलक्षणं रूपादिसङ्घात एव । कथं गुरुलक्षणं न तथा । (पृ) यदि लघुगुर्वादयो रूपादिसङ्घाता एव । लघुलक्षणञ्च वायौ तेजसि च वर्तते । तदा लघुत्वबहुलो रूपादिसङ्घातो वायुः स्यात् । तथा चेत्तेज एव वायुः स्यात् । (उ) यत्न [य]ल्लक्षणबाहुल्यं [तस्य] तन्महाभूतमिति नाम । तेजसि लघूष्मलक्षणञ्चास्ति । ऊष्मबहुलमित्यतस्तेज इत्युच्यते । न तु लघुत्वबाहुल्याद्वायुर्भवति । वायौ लघुत्वमात्रमस्ति । न तूष्म । अतो लघुमात्रेणाख्या भवति । नास्माकं लघुमात्रेण वायुर्भवति । किंन्तु यो लघुः सन् समुदीरणस्य हेतुं करोति । स वायुरित्युच्यते । यथोक्तं सूत्रे- लघुसमुदीरणलक्षणो वायुरिति । तत्र लघुत्वं वायोर्लक्षणं समुदीरणत्वं वायोः कर्म ।

(पृ) वायुः पर्वतमपि अवमूर्धयति । यदि । लघुद्रव्यम् । कथं तथा कुर्यात् । (उ) वायुः स्थूलः सन् बलिष्ठो भवति । तथा प्रभावक्षमो भवति । यथा कदाचिद्वायुरल्पकं तृणं कम्पयति । कदाचित्पर्वतमुन्मूलयति । ईदृशं वायोः कर्मेति ज्ञातव्यम् ।

(पृ) पृथिव्यादिमहाभूतानि किमविशेषेण रूपरसगन्धस्पर्शसङ्घाताः । (उ) नास्ति नियमः । यथा पृथिव्यां सन्ति रूपरसगन्धस्पर्शाः । कदाचित्केवलं रूपस्पर्शौ स्तः यथा सुवर्णजतादिषु । अप्सु कदाचित्रूपरसगन्धस्पर्शाः सन्ति । कदाचित्त्रयो रूपरसस्पर्शाः सन्ति तेजसि कदाचित्रूपरसगन्धस्पर्शाः सन्ति । कदाचित्त्रयो रूपगन्धस्पर्शाः सन्ति । कदाचित्केवलं रूपस्पर्शौ स्तः । अतो नास्ति नियमः ।

(पृ) वायोः स्पर्शः कीदृशः । (उ) शीतोष्णकठिनसुकुमारादयः स्पर्शाः यन्महाभूतसन्ततावविनिर्भागवर्तिनः तस्य महाभूतस्य स्पर्शा इति ज्ञातव्यम् । (पृ) भिषजो वदन्ति वायुरूपं कृष्णमिति । किं पारमार्थिकम् । (उ) वायुः कृष्णरूपस्य हेतुः । यथा वातरोगिणो मुखे तिक्तरसोऽस्तीति न स भिषग्ववति वायौ रसोऽस्तीति । तदा वायू रसस्य हेतुरिति भवति । (पृ) केचिद्वदन्ति वायुः शीतो न तु लघुरिति । किं परमार्थिकम् । (
११७) (उ) नास्ति यः शीतः स वायुरिति । यथा हिमं शीतं सत्न वायुर्भवति । वायुशैत्यञ्चान्यत् । कस्मात् । यथोष्णवायुरनुष्णाशीतवायुश्च वायुरित्याख्यायते । अतो लघुत्वाश्रयः सङ्घातो वायुर्भवति । किञ्च रूपरहितस्पर्शादिधर्मजननो वायुः । न तु [यत्] शीतं [स] वायुः ।

(पृ) वायु रूपरसवत्त्वे को दोषः । (उ) वायौ रूपरसौ नोपलभ्येते । सत्त्वेऽपि सौक्ष्म्यान्नोपलभ्यत इति वक्तुश्चित्त एव संज्ञानुस्मरणविकल्पः स्यात्यदुत वायौ रूपरसौ स्त इति । नत्विदं युज्यते । न हि वयं वदामः सत्कार्यम् । तस्मात्यत्फल उपलभ्यते नावश्यं तद्धेतौ पूर्वमस्ति । अयं चतुर्णां महाभूतानां परमार्थः सिद्धः ॥

चतुर्महाभूतलक्षणवर्गश्चतुश्चत्वारिंशः ।


४५ इन्द्रियप्रज्ञप्तिवर्गः

(पृ) चक्षुरादीनीन्द्रियाणि किं चतुर्महाभूतैः सहैकानि उतान्यानि । (उ) कर्मतश्चत्वारि महाभूतानि प्रतीत्य चक्षुरादीनीन्द्रियाणि भवन्ति । अतश्चतुर्महाभूतेभ्यो नान्यानि । चक्षुर्विकल्पयन् भगवानेवं वचनमाह यच्चक्षुषि मांसपिण्डे खक्खटं खरगतं स पृथिवीधातुरिति । कस्मात् । खक्खटादिविकल्पमात्रं, न पुनरन्यदस्ति चक्षुः । भगवान् चक्षुः शून्यमिति जनानां जिज्ञापयिषयैवेदृशं वचनमाह । तथा नो चेत्चक्षुषि खक्खटादिकमन्यदस्ति खक्खटादौ वा अन्यदास्ति चक्षुः [इति]खक्खटादीनां विकल्पेऽपि नास्ति कश्चनोपकारः । अतः सर्वाणीन्द्रियाणि न चतुर्महाभूतेभ्योऽन्यानि । षड्धातुसूत्रे चोक्तं- षड्धातुरयं पुरुष इति । यदीन्द्रियाणि [न] चतुर्महाभूतेभ्योऽन्यानि । तदा चक्षुरादीनि न पुरुषप्रत्यया इति सिध्यति । रूपादीनुपादाय चत्वारि महाभूतानि भवन्ति । (
११८) तथा शब्दोऽपि पुरुषप्रत्यय इति सिध्येत् । षड्धातुमात्रे पुरुष इति प्रज्ञप्यते । अतो ज्ञायत इन्द्रियाणि न चतुर्महाभूतेभ्योऽन्यानीति ।

कश्चिद्भिक्षुर्भगवन्तं पृच्छति कतमच्चक्षुरिति । भगवान् प्रत्याह- चत्वारि महाभूतान्युपादाय रूपि अनिदर्शनं सप्रतिघं चक्षुः इति । अतो न चतुर्महाभूतेभ्योऽन्यदिति ज्ञायते । अयं भिक्षुस्तीक्ष्णेन्द्रियः प्राज्ञः । तस्य चक्षुरादिषु कांक्षा समपद्यत । लौकिकाः सर्वे प्रजानन्ति रूपदर्शनं चक्षुर्यावत्स्पर्शनं काय इति । तस्य भिक्षोश्चक्षुरादीन्द्रियेषु नास्तीति शङ्कोदपादि । कस्मात्केचिदाचार्या वदन्ति पञ्चस्वभावाः पञ्चेन्द्रियाणीति । अन्ये केचिद्वदन्ति एकस्वभावा इति । [अतो]ऽयं भिक्षुर्भगवतः शासनमिमांसया भगवन्तं पप्रच्छ । पञ्चेन्द्रियाणि चतुर्महाभूतमयानीति परिदिदृक्षया भगवान् प्रत्याह- चक्षुर्भिक्षो [आध्यात्मिकमायतन] चत्वारि महाभूतान्युपादाय रूपमनिदर्शनं सप्रतिघमिति । यो धर्मो द्रव्यसन्न स उपादायास्ति । प्रज्ञप्तिमुपादाय धर्मः प्रज्ञप्तिरेव । यथा वृक्षानुपादाय वनम् ।

(पृ) केचिद्वदन्ति रूपप्रसाधनं चक्षुरिति । कतमत्पारमार्थिकम् । (उ) यत्प्रसाधनं तदप्रसाधमेव । कर्महेतुजानि चत्वारि महाभूतानि चक्षुरादीन्द्रियाणीत्याख्यायन्ते । तथा नोचेतस्य भिक्षोश्चक्षुरादिषु इन्द्रियेषु शङ्का नैवोच्छिद्येत । कस्मात् । भगवान् प्राह- चक्षुरादीनिन्द्रियाणि चत्वारि महाभूतान्युपादाय भवन्तीत्यतोऽयं भिक्षुर्जानाति अद्रव्यसन् चक्षुर्धर्म इति । अतो ज्ञायते चक्षुरादीनि न चतुर्महाभूतेभ्योऽन्यानीति । भगवान् चक्षुषः शून्यत्वप्रदर्शनाय तत्र चत्वारि महाभूतानि विकल्पयति । यथा प्रज्ञया अप्रपञ्चयिता वदति- अयं कायः षट्सु धातुषु विभक्तः यत्खक्खटं खरगतं स पृथिवीधातुरित्यादि प्रत्यवेक्षेतेति । एवं पञ्चधातुभ्यो विरक्तस्य एकं विज्ञानमात्रमस्ति । तद्यथापि (
११९) गोधातकस्य । हस्तिपदोपमसूत्रे चत्वारि महाभूतानि विकल्पितानि न पुनश्चक्षुः । यद्यस्ति पृथक्चक्षुः, विकल्प्येत । वात्सपुत्रीयादय अभिधर्मिका अपि ईदृशं वचनं कुर्वन्ति । अदुष्टत्वात्श्रद्धातव्यं स्यात् ।

(पृ) पञ्चेन्द्रियाणि चतुर्महाभूतेभ्योऽन्यानि । कस्मात् । चक्षुरादीनि चक्षुराद्यायतनसंगृहीतानि । चत्वारि महाभूतानि स्प्रष्टव्यायतनसंगृहीतानि । चक्षुरादीन्याध्यात्मिकायतनानि । चत्वारि महाभूतानि बाह्यायतनानि । चक्षुरादीनीन्द्रियाणि, चत्वारि महाभूतानि अनिन्द्रियाणि । चक्षुरादीनि भौतिकरूपप्रसाधनानि । न तथा चत्वारि महाभूतानि । अतो ज्ञायत इन्द्रियाणि न चतुर्महाभूतानि ।

(उ) एकमेव वस्तु प्रत्ययवशान्नानोच्यते । यथा श्रद्धादीनि पञ्चेन्द्रियाण्यपि संस्कारस्कन्ध इत्याख्यायन्ते । यानि चत्वारि महाभूतानि कर्मजानि चक्षुरादिसङ्गृहीतानि [तानि] आध्यात्मिकमायातनमिन्द्रियमिति च कथ्यन्ते । तान्येव [इन्द्रिय]प्रसाधनानि । यथा चक्रादयश्शकटसाधनानि । चक्रमेव हि शकटम् । तथेदमपि ।

(पृ) मैवम् । यथा श्रद्धा नाम चित्तप्रसादः । अन्या च श्रद्धा अन्यत्चित्तम् । तथेदमपि । (उ) न युज्यत [इदम्] यथा प्रसादमुपादाय आपः स्फटिकम् । आप एव प्रसन्ना आप इति प्रसाद आप एव । एवं प्रतिलब्धश्रद्धास्फटिकं चित्तस्रोतः प्रसादः । अयं चित्तप्रसादश्च चित्तमेव । न वयमस्मिन् शास्त्रे वदामश्चित्तादन्यदस्ति श्रद्धेति । अतो नायं दृष्टान्तः सम्भवति । इन्द्रियाणि च प्रज्ञप्तयः । न च प्रज्ञप्तिः तत्साधनहेतोरन्येति वक्तुं शक्यते ।

(पृ) एकमित्यपि न वक्तुं शक्यते । (उ) चतुर्महाभूतप्रसाधित इन्द्रियमिति (
१२०) प्रज्ञप्यते । न चतुर्महाभूतमात्रमिद्रियम् । अतो ज्ञायते इन्द्रियाणि न चतुर्महाभूतेभ्योऽन्यानीति ॥

इन्द्रियप्रज्ञप्तिवर्गः पञ्चचत्वारिंशः ।


४६ इन्द्रियविकल्पवर्गः

(पृ) इन्द्रियेषु किं महाभूतं न्यूनं किमधिकम् । (उ) न किञ्चित्न्यूनमधिकं वा । (पृ) यदि सर्वाणि भूत[मया]नि । कस्मात्किञ्चिद्रूपं पश्यति । किञ्चिन्न पश्यति । (उ) सर्वं कर्मजम् । कर्मजचाक्षुषचतुर्महाभूतबलं रूपं पश्यति तथान्यान्यपीन्द्रियाणि । (पृ) यदि कर्मजम् । कस्मान्नैकेन्द्रियेण सर्वान् विषयान् जानाति । (उ) इदं कर्म पञ्चधा विभक्तम् । किञ्चित्कर्म दर्शनस्य हेतुं करोति । यथा प्रदीपदानं चक्षुरिन्द्रियविपाकम् । तथा शब्दादीनामपि । कर्मविशेषातिन्द्रियबलं भिद्यते । (पृ) यदीदं कर्मबलम् । इन्द्रियाणां कापेक्षा । कर्मजं विज्ञानमात्रं सर्वविषयान् गृह्णीयात् । (उ) मैवम् । प्रत्यक्षं पश्यामः खलु अनिन्द्रियाणां विज्ञानं नोत्पद्यत इति । तथा हि यथान्धो न पश्यति । न बधिरः शृणोति । प्रत्यक्षदृष्टे वस्तुनि निरर्थिका प्रत्ययता स्यात् । नैतद्दूषणं भवति । धर्मता च तथा- य इन्द्रियविरहिताः तेषां विज्ञानं नोत्पद्यत इति । न बाह्यानि चत्वारि महाभूतानि अनिन्द्रियाणि जनयन्ति इति धर्मता तदपेक्षेत । इन्द्रियालङ्कृताः सत्त्वानां काया इत्यतः कर्मजम् । यथा धान्यकारणकर्मप्रतिलम्भात्धान्यं बीजाङ्कुरकाण्डनालपत्राण्यपेक्ष्यापि क्रमशो जायते । एवमिदमपि ।

(पृ) कस्मान्न तथा चित्तम् । यथा चक्षुर्विज्ञानं चक्षुरिन्द्रियकं समनन्तरनिरुद्धचित्तमुपादाय च भवति । चित्तन्तु समनन्तरनिरुद्धचित्तमात्रेन्द्रियकम् । न पुनरस्ति चक्षुरादीनामिव इन्द्रियायतनम् । वक्तव्यश्च प्रत्ययः । (उ) नियतानां पञ्चविषयाणां नियतानि पञ्चविज्ञानानि सन्ति । नैवं चित्तस्य । चित्तधर्मश्च तथा स्यात्- यत्समनन्तरनिरुद्धचित्तेन्द्रियकं भवति नान्यत्किञ्चिदपेक्षत इति । यथातीतानागतधर्मा असन्तोऽपि मनस आलम्बनानि भवन्ति । चित्तचैत्ता अप्येवमितीदमपि युज्यते । इदञ्च भवतां (
१२१) सिद्धान्तेन समम् । भवतां सिद्धान्तश्च- रूपादिविषयेषु विज्ञानमिन्द्रियमपेक्ष्योत्पद्यते । समनन्तरनिरुद्धचित्तमपेक्ष्य मनोविज्ञानमुत्पद्यत इति ।

(पृ) यदि मनोविज्ञानस्य न पुनरिन्द्रियमस्ति । कुत्राश्रित्य भवति । (उ) चतुर्महाभूतकायमाश्रित्य भवति । (पृ) आरूप्यधातौ क आश्रयः । (उ) आरूप्यधातुविज्ञानस्य न कश्चनाश्रयोऽस्ति । धर्मतेयं यन्निराश्रयं तिष्ठतीति । कस्मात् । लक्षणविशेषात् । मनोविज्ञानमेव जानाति अस्ति नास्तीति । रूपिण आश्रयो भवति । अरूपमपि तिष्ठतीति आरूप्यधातावपि निराश्रयं तिष्ठति । प्रत्ययसामग्र्या विज्ञानमुत्पद्यते । यथोक्तं सूत्रे- मनः प्रतीत्य धर्मांश्च मनोविज्ञानमुत्पद्यत इति । अस्य क आश्रयः । नास्ति तु पुरुषाणामिव भित्त्यादिः । सर्वे धर्माः प्रकृतिप्रतिष्ठाः ॥

इन्द्रियविकल्पवर्गः षट्चत्वारिंशः ।


४७ इन्द्रियाणां समभूततावर्गः

(पृ) तीर्थिका वदन्ति- पञ्चेन्द्रियाणि पञ्चभूतेभ्यो जातानीति । किं परमार्थिकम् । (उ) न [तेभ्यो जातानि] । कस्मात् । आकाशस्याभावात् । इदञ्च दीपितमेव । तस्मान्न पञ्चभूतेभ्यो जातानि ।

(पृ) तीर्थिका वदन्ति- चक्षुषि तेजोमहाभूतं बहुलम् । कस्मात् । कर्मसारूप्यहेतोः । प्रदीपदानमुपादाय चक्षुर्लभते । यथोक्त सूत्रे- पटं दत्वा रूपं लभते । अन्नं दत्वा रूपं लभते । अन्नं दत्वा बलं लभते । यानं दत्वा सुखं लभते । प्रदीपं दत्वा चक्षुर्लभते । इति । अतश्चक्षुषि तेजोमहाभूतं बहुलम् । चक्षुश्चालोकमपेक्ष्य पश्यति । (
१२२) आलोकविगतं न पश्यति । अतो ज्ञायते तेजोमहाभूतं बहुलमिति । तेजश्च सुदूरं प्रकाशयति । सप्रभत्वात्चक्षुः सुदूरं रूपं प्रतिहन्ति । वदन्ति च म्रियमाणस्य चक्षुः सूर्यं प्रतिगच्छतीति । अतो ज्ञायते सूर्यो मूलप्रकृतिरिति । चक्षुर्नियमेन रूपमेव पश्यति । रूपञ्च तैजसमित्यतः पुनरात्मभावमेव पश्यति । एवमाकाशपृथिव्यब्वायव इन्द्रियतो न्यूनाधिकाः । म्रियमाणस्य श्रोत्रमाकाशं प्रतिगच्छति । श्रोत्रं नियमेन शब्दं शृणोति । शब्दश्चाकाश[गतः] । एवन्यान्यान्यपि । अत इन्द्रियेषु महाभूतानि न्यूनाधिकानि भवन्ति । [न समानि] । इति ।

अत्रोच्यते । यद्भवानवोचत्- कर्मसारूप्यहेतोरिति । तदयुक्तम् । कस्मात् । किञ्चिद्दर्शनं सफलं विना कर्मसारूप्यहेतोः । यथा वदन्ति- अन्नं दत्वा पञ्चवस्तु- विपाकान् लभत इति । यदि चक्षुषि तेजो बहुलम् । प्रदीपादिबाह्यालोकमनपेक्ष्य [पश्येत्] । यदि बाह्यालोकापेक्षिणोऽपि चक्षुषस्तेजो बहुलम् । तदा श्रोत्रादीन्द्रियेष्वपि आकाशादयो बहुलाः स्युः । न बाह्याकाशादीनपेक्षेरन् । वस्तुतस्तु बाह्यानपेक्षन्ते । अतोऽहेतुः । आपश्चक्षुष उपकुर्वन्ति । यथा क्षालितचक्षुष्कस्य पुरुषस्य चक्षुः स्फुटमेव प्रत्येति । तदा अब्बहुलं स्यात् । तेजश्च चक्षुर्विनाशयति यथा सूर्यप्रभादयः । यदीमे स्वप्रकृतयः, नात्मानं विघटयेयुः । अतो ज्ञायते न तेजो[बहुलम्] इति । दिव्यं चक्षुरालोकमन्तरापि रूपं पश्यति । अतो न तैजसं चक्षुः । चन्द्रिकायाञ्च रूपं द्रष्टुं शक्नोति । चन्द्रश्च न तेजःप्रकृतिकः । तथा चक्षुषो धर्मशक्तिरपि । किञ्चिच्चक्षुरालोकमपेक्ष्य पश्यति । किञ्चिदनपेक्ष्यापि पश्यति । यथा चक्षुराकाशादिप्रत्ययं लब्ध्वा रूपमप्राप्यापि सुदूरं पश्यति । ईदृशी चक्षुषो धर्मता । अतो न कार्यः संज्ञानुस्मरणविकल्पोइ यदुत तेजोबहुलं [चक्षु]रिति ।

यद्भवानवोचत्- आलोकमन्तरा न पश्यतीति । यद्याकाशं मनस्कारं रूपञ्चान्तरा न पश्यति । तदा आकाशादयोऽपि बहुलाः स्युः । न हि सर्वं चक्षुर्बाह्यालोकमपेक्षते । यथा उलूकादयः पक्षिणो विडालसृगालादयस्तीर्यञ्च बाह्यामालोकमनपेक्ष्यापि द्रष्टुं शक्नुवन्ति । अतो न तेजोबहुलम् । तेजः प्रज्वलत्सदोष्मलक्षणम् । चक्षुस्तु न तथा ।

यद्भवानवादीः- चक्षुः सप्रभत्वात्सुदूरं रूपं पतिहन्तीति । तद्दूषितमेव । निष्प्रभत्वाच्चक्षुषः । यदुक्तं सूर्यं प्रतिगच्छतीति । चक्षुस्तदा नित्यं स्यात् । सूर्यादयश्च (
१२३) नेन्द्रियाणि । चक्षुः कस्मात्प्रतिगच्छति । यदि सूर्यो म्रियते । सूर्येन्द्रियं सूर्यश्च कुत्र पुनः प्रतिगच्छति । अतोऽयुक्तम् । उपरि देवानां म्रियमाणानां चक्षुः कुत्र प्रतिगच्छति । तत उपरि सूर्याभावात् । आकाशमक्रियं सतप्रतिशरणं भवति । इन्द्रियाणि न प्रतिगच्छन्ति । संस्कृतधर्माणां क्षणिकत्वात् ।

यद्भवतोक्तं- चक्षुर्नियमेन रूपमेव पश्यति । रूपञ्च तैजसमित्यतः पुनरात्मभावमेव पश्यतीति । नेदं युक्तम् । निरुपयोगहेतुत्वात् । शब्द आकाशगत इत्यादिरपि एवं [वाच्यः] । तस्मादिन्द्रियेषु महाभूतानि न्यूनाधिकानि भवन्तीति भवद्वचनं दूषितमेव ।

(पृ) केचिदाचार्या आहुः- एकमिन्द्रियमेकस्वभावम् । इति । पृथिव्यां [केवलं] गुणबहुत्वात्गन्धोऽस्ति गन्धज्ञानोत्पादकः । अब्तेजोवायुषु रूपरसस्पर्शाः सन्ति इति रूपरसस्पर्शज्ञानोत्पादका भवन्ति । किं पारमार्थिकम् । (उ) उक्तपूर्वं मया नास्ति नियम इति । पृथिव्यां गन्धोऽन्येऽपि सन्ति । अतोऽहेतुः । महाभूतानि च सम्भूय सम्भवन्ति । न हि दृश्यते काचित्पृथिवी अबादिवियुक्ता । यदि गन्धवत्त्वात्पृथिवी गन्धज्ञानोत्पादिनी । रूपादिज्ञानोपादिन्यपि स्यात् । गुणचतुष्टयोपेतत्वात्पृथिव्याः ।

(पृ) गन्धमात्रं पृथिव्यामस्ति । घ्राणं पार्थिवमित्यतो गन्धमात्रं ज्ञापयति । (उ) पृथिवीगुणः पृथिवीमात्रेऽस्ति । घ्राणं क्षीण[गन्ध]ज्ञानं स्यात् । अपां शीतस्पर्शमात्रं तेजस उष्णस्पर्शमात्रं जिव्हाचक्षुर्भ्यां ज्ञातुं शक्नुयात् । न तु युज्यते वस्तुतः । द्रव्यं नास्तीति इन्द्रियं नास्ति । इन्द्रियाणां बलवृत्तिर्विषयसंयोगात्ज्ञानं जनयतीति । संयोगे च भग्ने नेन्द्रियवृत्तिः । तस्मानैकस्वभावमिन्द्रियम् ॥

इन्द्रियाणां समभूततावर्गः सप्तचत्वारिंशः ।


(
१२४)
४८ न विजानातीन्द्रियवर्गः

(पृ) इन्द्रियाणि विषयान् किं प्राप्य विजानन्ति उताप्राप्य विजानन्ति । (उ) नेन्द्रियं विजानाति । कस्मात् । यदीन्द्रियं विषयं विजानाति । तदा सर्वान् विषयानेककालं विजानीयात् । वस्तुतस्तु न विजानाति । अतो विज्ञानं विजानाति । भवतो हृदयम्- यत्केचिद्वदन्ति इन्द्रियं विज्ञानमपेक्ष्य सह विजानाति न तु विज्ञानवियुक्तं विजानातीति । तदयुक्तम् । न कश्चिद्धर्मोऽन्यं धर्ममपेक्ष्य किञ्चित्कर्तुं समर्थः । यदीन्द्रियं विजानाति । का विज्ञानस्यापेक्षा । यदीन्द्रियं विजानाति इदमिन्द्रियकर्म इदं विज्ञानकर्म इति विवेक्तव्यम् ।

(पृ) प्रकाशनमिन्द्रियकर्म । विज्ञापनं विज्ञप्तिकर्म । (उ) नायं विवेको [युक्तः] । कतमत्प्रकाशनम् । भवतां शासने श्रोत्रादीनीन्द्रियाणि न तेजःप्रकृतिकानि इति न प्रकाशयेयुः । यदीन्द्रियाणि विज्ञानस्य प्रदीपकल्पानि । तदेन्द्रियाणि पुनः प्रकाशकानि स्युः । यथा प्रदीपः । तदा प्रकाशकस्य पुनः प्रकाशक इत्येवमनवस्था स्यात् । यदि पुनः प्रकाशकं विनापि इन्द्रियमात्रं प्रकाशयति । [तदा] विनेन्द्रियामपि विज्ञानमात्रं विजानीयात् । अतः प्रकाशनं नेन्द्रियकर्म । किञ्चेन्द्रियं न विजानाति । यथा प्रदीपः प्रकाशयन्नपि न विजानाति । अतोऽवश्यं विज्ञानस्याश्रयकृत्यं करोतीदमिन्द्रियकर्म । अतो विज्ञानमात्रं विजानाति । नेन्द्रियाणि । सति विज्ञाने ज्ञानं नासति । यथा सति तेजसि ऊष्म नासति इति ।

(पृ) सूत्र उक्तं- चक्षुषा रूपाणि दृष्ट्वा न निमित्तग्राही स्यादिति । तथा श्रोत्रादीन्यपि । अतो ज्ञायते चक्षूरूपं गृह्णातीति । चक्षुरादीनीन्द्रियाणि यदि न विजानन्ति । केनेन्द्रियत्वम् । उक्तञ्च सूत्रे- वयं माणवकाः सुसूक्ष्ममषि वस्तु जानीमः । तद्यथा चक्षुर्भ्यां दृश्यत इति । यदि चक्षुर्न पश्यति । तदा जिनौरसा न किञ्चन पश्येयुः । (
१२५) नेदं संभवति । अत इन्द्रियाणि नियमेन विषयान् गृह्णन्ति । इन्द्रियेण विषयो गृह्यते विज्ञानेन विकल्प्यते इत्ययमेवेन्द्रियविज्ञानयोर्भेदः ।

(उ) सूत्रे भगवान् स्वयमाह- चक्षु[ब्राह्मण]द्वारं[यावदेव] रूपाणां दर्शनाय इति । अतश्चक्षुर्न पश्यति । चक्षुषा द्वारीभूतेन तत्रस्थं विज्ञानं पश्यति । अत उच्यते चक्षुः पश्यतीति । (पृ) आह च- मनो द्वारं [यावदेव] धर्माणां विज्ञानाये ति । किं सम्भवति मनसा द्वारीभूतेन विजानातीति । (उ) मनो [विज्ञानस्या]पि समनन्तरनिरुद्धं चित्तं द्वारम् । अतो न मनो विजानाति । मनोविज्ञानन्तु विजानाति । सूत्रे भगवानाह- चक्षुः प्रियरूपाणि काम्यति । इति । चक्षुर्हि रूपप्रकृतिकमविवेकि । अतो न वस्तुतः काम्यति । तद्विज्ञानमेव काम्यति । किञ्चाह भगवान्- चक्षुर्विज्ञेयानि रुपाणि इति । विज्ञानं रूपं विजानाति । न चक्षुः । किञ्च लौकिका व्यवहरन्ति- चक्षुः पश्यति श्रोत्रं शृणोति इति । तद्भगवानप्यनुवदति । किमिति रूपमात्रं द्रष्टव्यं नान्यत् । आह च भगवान्- पश्यामि रागादीन् दोषानिति । चन्द्रः क्षीण इति लौकिकानां वचनं भगवानप्यनुवदति । यथा दरिद्रः पुरुषः प्रभुरिति निगद्यते । तथा भगवानप्यनुवदति । नहि तथागतो लोकैः सह विवदितुमभिलषति । यथा मृगारमाता इत्यादि । अतो ज्ञातव्यं व्यवहारानुवर्तनाद्भगवानाह चक्षुः पश्यतीति ।

(पृ) लोके कस्मादेवं व्यवहरति । (उ) चक्षुषो विज्ञानाश्रयहेतुतामनुसृत्य तस्मिन् हेतौ पश्यतीति वदन्ति । यथा वदन्ति स पुरुषः पश्यति अयं पुरुषः पश्यतीति । यथा च वदन्ति जनाः पुण्यपापादीनि कुर्वन्ति । तथागता देवा ऋषयश्च पश्यन्तीति । यथा च वदन्ति वामचक्षुषा पश्यति दक्षिणचक्षुषा पश्यतीति । वदन्ति च सूर्याचन्द्रमसाभ्यां पश्यति सूर्याचन्द्रमसौ पश्यतः । कदाचिदकाशं पश्यति । कदाचिन्मध्यं पश्यति (
१२६) यत्द्वारमध्यं [तत्] पश्यति इति । दग्धे पदार्थे वदन्ति अयं दहति । स दहति इति । कदाचिद्वदन्ति तृणेन्धनं दहति । गोपुरीषं दहति । तैलं दहति । धृतं दहति । तेजो दहति । सूर्यो दहति इति । वस्तुतस्तु अग्निरेव हहति । अन्यानि दहतीति प्रज्ञप्त्या व्यवह्रियन्ते । स व्यवहारो न पार्यन्तिकः । वक्तव्यञ्च चक्षुषा द्वारेण रूपं पश्यतीति । चक्षुः पुरुषाणामुपभोगोपकरणम् । पुरुषाः प्रज्ञप्तिकारिण इति उपभोगोपकरणेन भवितव्यम् । चक्षुरुपादाय विज्ञाने पश्यति चक्षुः पश्यतीति व्यवहारः । यथा मञ्चस्थेषु पुरुषेषु क्रोशत्सु मञ्चाः क्रोशन्तीति व्यवहारः । चक्षुःप्रतिसंयुक्तं विज्ञानकर्म इत्यतस्तत्र चक्षुषि विज्ञानकर्म व्यवहरन्ति । यथा हस्तपादप्रतिसंयुक्ते पुरुषे वर्तमानं पुरुषकर्म हस्तकर्मेति व्यवहरन्ति । चक्षुर्विज्ञानस्य हेतुश्चक्षुः । कारणे कार्योपचारः । यथा वदन्ति अमुकः पुरुषोऽमुकं ग्रामं दहतीति । यथा च वदन्ति सुवर्ण मत्तीति । सुवर्ण मायुः । तृणानि गोपशव इति । इदं सर्वं कारणे कार्योपचारः । एवं चक्षुर्भ्योमुत्पन्नं विज्ञानं
रूपं पश्यतीत्यतश्चक्षुः पश्यतीति व्यवहरन्ति । चक्षुःसन्निकृष्टे विज्ञाने रूपं पश्यति चक्षुः पश्यतीति व्यवहारः । यथा गङ्गासन्निकृष्टे घोषे गङ्गायां [घोष] इति [वदन्ति] । चक्षुषा चाक्षुषं विज्ञानं विविच्यत इत्यतश्चक्षुषि चाक्षुषविज्ञानकर्मारोप्यते । यथा दण्डी ब्राह्मण इति । चक्षुश्चाक्षुषविज्ञानं साधयतीत्यतस्तत्र चक्षुर्विज्ञानकर्मोच्यते । यथा धने प्रहीणे पुरुषः प्रहीण इति वदन्ति । प्रविवृद्धे च धने प्रविवृद्धः पुरुष इति । चक्षुर्विज्ञाने चक्षुषा संयुज्य पश्यति सति चक्षुः पश्यतीति वदन्ति । यथा वृक्षे पुरुषेण संयुज्य छिद्यमाने सति पुरुषो वृक्षं छिन्नत्तीति व्यवहारः । यथा वा कृष्णवर्णसंयुक्ते पटे कृष्णः पट इति व्यवहारः । सर्वे च धर्मा मिथः संकीर्य व्यवह्रियन्ते । यथा प्रज्ञाकर्म वेदनादिषूच्यते । चक्षूषा रूपं पश्यतीति वक्तव्ये संक्षिप्य व्यवहरन्तः केवलमाहुः चक्षुः पश्यतीति । यथा च पाषाणमौषधमिति एकवेदनावशा व्यवहारः ।

(
१२७)
यद्भवनाह अपश्यतः कथमिन्द्रियत्वमिति । भवानिदं प्रतिवक्तव्यः चक्षुरादयः पञ्चधर्मा स्तदन्यरूपादीनतिशेरत इत्यत इन्द्रियमिति व्यवह्रियन्ते । (पृ) चक्षुरादयः पञ्चधर्मास्तदन्यरूपादिभिर्मिलिताः । दशेमे धर्मा न युगपद्विषयान् विजानन्ति । यथा चक्षुरादीनां वियोगे विज्ञानं नोत्पद्यते, तथा यदि रूपादीनां वियोगेऽपि विज्ञानं नोत्पद्यते । तदा केन [तेषा]मतिशयः । (उ) इन्द्रियैर्विज्ञानं विशेष्यते चक्षुर्विज्ञानं श्रोत्रविज्ञानमिति । यथा भेरिदण्डसंयोगे शब्दो भवति । [तत्र] भेर्याः प्राधान्यात्भेरीशब्द इति वदन्ति । पृथिवीयवादिसंयोगे अङ्कुरो जायते । [तत्र] यवस्य प्राधान्यात्यवाङ्कुर इति वदन्ति । तथा विज्ञानान्यपि । आश्रयतो व्यवहारो विशेष्यते न प्रत्ययतः । रूपविज्ञानमित्युक्ते संशयः प्रसज्यते किमिदं चक्षुर्विज्ञानं किं वा रूपं प्रतीत्य मनोविज्ञानमिति । इन्द्रियेऽस्ति विज्ञानं न विषये । चक्षुरादिषु आत्मसंमोहनं चित्तं भवति । विज्ञानस्याश्रय आयतनमिन्द्रियं न विषयः । स्वकायसंख्याते स्थितमिन्द्रियं न विषये । पुरुषस्योपभोगोपकरणमिन्द्रियं न विषयः । इन्द्रियं सत्त्वसंख्यातं न विषयः । इन्द्रियेऽप्रतीक्ष्णे विज्ञानं न स्फुटं भवति । प्रसन्ने तु इन्द्रिये विज्ञानं विशदं भवति । इन्द्रियाणामुत्तममध्यमाधमत्वात्विज्ञानमनुविभज्यते । एभिः कारणैः प्राधान्यं कथ्यते । इन्द्रियमसाधारणम् । एको विषयो बहूनां पुरुषाणां साधारण उपलभ्यते । इन्द्रियं विज्ञानेन सहैककर्मविपाकः । विषयस्तु नैवम् । इन्द्रियं हेतुः विषयः
प्रत्ययः । कस्मात् । इन्द्रियभेदात्विज्ञानं विशेष्यते न विषयः । यथा बीजं हेतुः पृथिव्यादयः प्रत्ययाः । बीजभेदात्परस्परं भेदः । प्रत्ययातिशयिहेतुत्वादिन्द्रियमित्याख्यायते ।

यद्भवानवादीः- वयं माणवकाः सुसूक्ष्ममपि वस्तु जानीमः तद्यथा चक्षुर्म्यां दृश्यते इति । इदं संवृतितः । लौकिकाश्चक्षुः पश्यतीति वदन्तीत्यत आहुः तद्यथा चक्षुर्भ्यां दृश्यत इति । यथा ह भगवान्-

मुहूर्तमपि चेद्विज्ञः पण्डितं पर्युपासते ।
[क्षिप्रं धर्मं विजानाति] जिह्वा [सूप]रसं यथा ।
अचेतनापि जिह्वा तु न दर्वीभाजनोपमा ॥ इति ।

(
१२८)
जिह्वाश्रितं मनो जिह्वाविज्ञानं जनयतीत्यत आह जिह्वा [सूप]रसं वेत्तीति । तथा चक्षुराश्रित्य समुत्पन्ने विज्ञाने चक्षुः पश्यतीति वदन्ति । अत आह- जिनौरसाः पश्यन्ति तद्यथा चक्षुर्भ्यां दृश्यत इति ।

यद्भवानवादीः- इन्द्रियेण विषयो गृह्यते विज्ञानेन विकल्प्यते इति । इदं प्रत्युक्तम् । इन्द्रियस्याविज्ञातृत्वात् । न च यूयं ब्रवीथ इन्द्रियस्यैवं भवति अहं विशिष्टलक्षण इति । अत इन्द्रियाणि न विषयान् गृह्णन्ति । भवतां ज्ञानानि नेन्द्रियमपेक्ष्य जायन्ते । कस्मात् । महदहङ्कारादीनि हि इन्द्रियेभ्यः पूर्वमुत्पद्यन्ते । भवतां महदादीनि तत्त्वानि न सन्ति । मूलप्रकृत्यभावात् । भवतां शासनं- मूलप्रकृतिविकारा महदादीनीति । मूलप्रकृतिश्च नास्तीत्युक्तमेव । न तु नेन्द्रियमिति ॥

न विजानातीन्द्रियवर्गोऽष्टचत्वारिंशः ।


४९ विषयेन्द्रियसंयोगवियोगवर्गः

(पृ) यद्भवानवोचत्- विज्ञानं विजानाति नेन्द्रियमिति । तत्प्रसाधितम् । इदानीं किं विषयेन्द्रियसंयोगाद्विज्ञानमुत्पद्यते किं वा तद्वियोगात् । (उ) चक्षुर्विज्ञानं न प्राप्तिमपेक्ष्य विषयान् विजानाति । कस्मात् । चन्द्रादयो विप्रकृष्टपदार्था अपि दृश्यन्ते । चन्द्ररूपं न गन्धविनिर्मुक्तमागच्छेत् । आकाशालोकावपेक्ष्य रूपं पश्यति । यदि चक्षूरूपं प्राप्नोति । तदा नान्तराकाशालोकौ स्याताम् । यथा चक्षुषि प्रच्छादिते चक्षुर्न पश्यति । अतो ज्ञातव्यं चक्षुर्विज्ञानं न प्राप्य विजानाति । इति ।


श्रोत्रादिविज्ञानं द्विविधम्- किञ्चित्प्राप्य विजानाति किञ्चिदप्राप्य विजानाति । श्रोत्रं रुदितं प्राप्य विजानाति । घनगर्जितमप्राप्य विजानाति । अन्यानि त्रीणि विज्ञानानि इन्द्रियप्राप्तं विजानन्ति । कस्मात् । दृष्टं खलु त्रयाणामेषामिन्द्रियाणां विषयैः संयोगात्विज्ञानं लभ्यत इति । मनैन्द्रियमरूपि । अतोऽप्राप्तविषयम् । [विषयं] न प्राप्नोति ।

(
१२९)
(पृ) चक्षूरूपमप्राप्य विजानाति इति भवद्वचनमयुक्तम् । कस्मात् । अस्ति चक्षुषि रश्मिः । अयं रश्मी रूपदर्शनाय गच्छति । रश्मिश्चायं तैजसं द्रव्यम् । चक्षुश्च तेजःसमुत्पन्नम् । तेजसः सरश्मित्वात्यद्यप्राप्य पश्यति । कस्मात्सर्वाणि रूपाणि न पश्यति । चक्षूरश्मिर्हि सप्रतिघेऽपि गच्छति । अविभुत्वात्न सर्वाणि पश्यति । यथोक्तं सूत्रे- त्रयाणां सन्निपातः स्पर्श इति । यद्यप्राप्नोति । कथं सन्निपातः । पञ्चेन्द्रियाणि सप्रतिघानि । विषयेषु प्रतिहन्यन्त इति सप्रतिघानि । घ्राणं गन्धे जिह्वा रसे कायः स्प्रष्टव्ये चक्षूरूपे श्रोत्रं शब्दे यद्यप्राप्तम् । तदा अप्रतिघम् । प्रत्युत्पन्नेषु पञ्चविषयेषु ज्ञानमुत्पद्यते । अतः पञ्च विज्ञानानि प्राप्य विजानन्ति । यद्यप्राप्य विजानन्ति अतीतमनागतं रूपमपि विजानीयुः । न विजानन्ति वस्तुतः । बहुप्रत्ययसामग्र्या च ज्ञानमुत्पद्यते इति चक्षूरश्मिर्विषयसंयोगाय गच्छति । रूपे रश्मिप्राप्तिर्हि सन्निपातः ।

शब्दोऽपि श्रोत्रं प्राप्य श्रूयते । कस्मात् । विप्रकृष्टदेशवर्तिनि पुरुषे मन्दं भाषमाणे न श्रूयते । यदि शब्दं रूपवदप्राप्यापि विजानाति । मन्दमपि शब्दं शृणुयात् । न तु शृणोति । अतो ज्ञायते प्राप्य शृणोतीति । शब्दो दूरतोऽपि श्रूयते । यद्यप्राप्य श्रूयते । आवरणे सत्यपि श्रूयेत । दूरतः श्रूयमाणः शब्दो न प्रत्याययति । सन्निकृष्टं श्रूयमाणस्सु प्रत्याययति । अप्राप्य श्रवणे तु स विभागो न स्यात् । अतो ज्ञायते शब्दः प्राप्य श्रूयत इति । किञ्चानुकूलवायौ शब्दः प्रत्याययति । न प्रतिकूलवायौ । अतोऽपि प्राप्य श्रूयते । शब्दः साकल्येन श्रूयते । अप्राप्य श्रवणे तु न साकल्येन श्रूयेत । यथा रूपस्याप्राप्त्या दर्शानात्न साकल्येन दर्शनम् । अतो ज्ञायते न रूपसमः शब्द इति । अप्राप्य श्रवणे तु रूपसमः स्यात् । यथा रूपस्येकदेशं दृष्ट्वा अवशिष्टमपि आलोकमपेक्ष्य पश्यति । तथा शब्दोऽपि स्यात् । न वस्तुतस्तथा भवति । अतोऽप्राप्य न श्रूयते ।

(
१३०)
यद्भवानाह- श्रोत्रादीनीन्द्रियाणि विषयमप्राप्य विजानन्तीति । तदयुक्तम् । शब्दगन्धरूपरसस्पर्शा इन्द्रियमागच्छेयुः । यदिदानीमिन्द्रियं गच्छतीति । तद्युक्तम् । श्रोत्रादीनामिन्द्रियाणां नीरश्मिकत्वात् । तेजो महाभूतमेकमेव सरश्मिकम् । अतो न गच्छति । शब्दं यदि घननिबिडं जलाद्यावृतमपि श्रोत्रं श्रोतुं शक्नोति । यदि सरश्मि, तदिन्द्रियम् । नैवं शक्नुयात् । अतो ज्ञायते श्रोत्रेन्द्रियं नीरश्मिकमिति । श्रोत्रमन्धकारेऽपि विषयं विजानाति । यदि सरश्मिकम्, नान्धकारे विजानीयात् । सरश्मिकमिन्द्रियञ्च दिशमपेक्ष्य विजानाति । एकां दिशं द्रष्टुं शक्नोति नैकस्मिन् समये सर्वा दिशो द्रष्टुं शक्नोति । यथा पूर्वाभिमुखः पुरुषः पूर्वां दिशं रूपञ्च पश्यति नान्या दिशः ।

वदन्ति च मनो गच्छतीति । अतः प्राप्य विषयं विजानाति । यथोक्तं सूत्रे-

दूरङ्गममेकचरमशरीरं गुहाशयम्
सूर्यस्य रश्मिरिव चित्तं चरति विप्रकीर्णतः ।
मत्स्यो यथा स्थले क्षिप्त [ओकमोकत उद्धृतः ।]
परिस्पन्दतीदं चित्तं स्वाभीष्टञ्च यथा चरत्यदः ॥ इति ।

अतः षड्विषयान् प्राप्य विजानन्ति ।

अत्रोच्यते । रश्मिर्गच्छतीति भवद्वचनमयुक्तम् । कस्मात् । यथा पुरुषो दूरतः स्थाणुं दृष्ट्वा संशेते किमयं पुरुष इति । यदि रश्मिर्गर्च्छति । कस्मात्संशयो भवेत् । अतिसन्निकृष्टञ्च चक्षुर्न पश्यति । यथा चक्षुस्संसक्तं तृणरोम न पश्यति । अतो रश्मिर्गच्छन्नपि अतिसन्निकर्षान्न पश्यति । यदि रश्मिस्तत्र गच्छति । कस्मात्स्थूलं पश्यति न सूक्ष्मं (
१३१) विवेचयति । रूपदर्शनेऽस्ति द्विभागः यदुत पूर्वस्यां पश्चिमायां वा दिशि रूपमिति । सन्निकृष्टविप्रकृष्टविभागोऽप्यस्ति । यदि चक्षुः प्राप्य विजानाति । तादृशविभागो न स्यात् । कस्मात् । गन्धरसस्पर्शेषु नायं विभागोऽस्ति । अतो नयनरश्मिरप्राप्य विजानाति । नयनरश्मिर्यदि पूर्वमेव दृष्टवान् । किमर्थं पुनर्गच्छति । यदि पूर्वमदृष्ट्वा गच्छति । कुत्र गच्छति । यदि सन्निकृष्टरूपं विप्रकृष्टरूपञ्च एकदा युगपत्पश्यति । न तथा गमनधर्मः । अतो नयनरश्मिर्न गच्छति । यदि स गच्छति । मध्ये मार्गं रूपाणि पश्येत् । वस्तुतस्तु न पश्यति । अतो ज्ञायते न गच्छतीति । रश्मिर्गच्छतीति रश्मिः कायब्दहिर्गतो नेन्द्रियं भवेत् । यथाङ्गुलौ कायात्समुच्छिद्य वियुज्यमानायां नास्ति कायबुद्धिः । न चक्षुः स्वाश्रयं त्यजत्पश्यामः । सपक्षाभावे नास्ति हेतुः । तस्य नयनरश्मे रसति द्रष्टरि स न स्यात् ।

(पृ) अस्तीयं नायनरश्मिः सूर्यरश्मितिरस्कृता न दृश्यते । यथा सूर्यरश्मौ नक्षत्राणि न प्रत्यक्षाणि । (उ) तथा चेद्रात्नौ दृश्येत । (पृ) रूप धर्मा अवश्यं बाह्यं प्रकाशमपेक्ष्य दृश्यन्ते । रात्रौ च बाह्यप्रकाशो नास्ति । येन न दृश्यन्ते । (उ) यदीयं रश्मिर्दिवानिशमुभयत्न नोपलभ्यते । तदास्या अत्यन्तानुपलब्धिः । (पृ) बिडालसृगालमूषिकादीनां सर्वेषां रात्रिञ्चराणां नायनो रश्मिरुपलभ्यते । (उ) इदं दृश्यरूपं विडालादीनां चक्षुषि वर्तते । यथा खद्योतस्य प्रकाशात्मकं रूपं तत्कायवर्ति । नायं रश्मिः । यथा च रात्रिञ्चरा जन्तवोऽन्धकारे पश्यन्ति । मनुष्याश्च न पश्यन्ति । तथा च तेषामेव रश्मिः स्यात् । नान्येषाम् । तथैव धर्मता स्यात् ।

यदवादीः- यद्यप्राप्य पश्यति । सर्वाणि रूपाणि पश्येदिति । यत्रूपं ज्ञानस्य (
१३२) गोचरं तत्दृश्यम् । यथोक्तं सूत्रे- चक्षुरनुपहतं भवति । विषय आभासगतो भवति । तदा स दृश्यो भवति । इति । (पृ) को नामाभासगतः । (उ) यदा रूपचक्षुषोः सन्निपातः । स आभासगतः । (पृ) यदि चक्षुर्न प्राप्नोति कः सन्निपातः । (उ) समानमिदम्, यथा भवतश्चक्षू रूपं प्राप्यापि कदाचित्पश्यति कदाचिन्न पश्यति । तद्यथा चक्षुः सूर्यं प्राप्य सूर्यमण्डलं पश्यति न तु सूर्यकर्म । एवं ममापि चक्षुरगत्वापि यद्रूपमाभासगतं भवति । तत्पश्यति । यदाभासगतं न भवति न तत्पश्यति । (पृ) नयनरश्मिः सुदूरं गच्छति । वेगप्रकर्षात्तु सूर्यकर्म न पश्यति । (उ) यदि वेगप्रकर्षात्सूक्ष्मं कर्म न पश्यति, स्थूलं सूर्यमण्डलपरिमाणं कस्मान्न पश्यति । न हीदं युज्यते । यदि रश्मिमस्तत्र गत्वा पश्यतीति । कस्माद्दूरस्थं सूर्यमण्डलं दृष्ट्वापि कर्म न पश्यति तत्पाटलिपुत्रादि आसन्नं जनपदनगरम् । यदि भवान्मन्यते पाटलिपुत्रादि न आभासगतमित्यतो न पश्यतीति । मम चक्षुरप्राप्यापि रूपं नाभासागतमित्यतो न पश्यति ।

(पृ) सर्वाणि रूपाणि आभासगतानि दृश्यानीति ज्ञातमेव । इदानीं किं दृश्यं किमदृश्यम् । (उ) अध्वावरणान्न दृश्यते यथातीतमनागतम् । रूपस्याभिभावकविशेषान्न दृश्यते यथा रात्रौ तेजो दृश्यमन्यददृश्यम् । भूमिविशेषान्न दृश्यते यथा प्रथमध्यानगतचक्षुषा द्वितीयध्यानगतं रूपं न दृश्यते । तम आवावरणान्न दृश्यते यथा तमसि घटः । ऋद्धिबलान्न दृश्यते यथा भूतादीनां देहः । अतिघनमालावृतत्वान्न दृश्यते । यथा पर्वतस्य बाह्यं रूपम् । अतिदूरान्न दृश्यते यथान्ये लोकधातवः । अतिसामीप्यान्न दृश्यते यथा चक्षुप्यञ्जनम् । अप्राप्त्या न दृश्यते यथा प्रभागता अणवोः दृश्याः प्रभाबाह्यास्तु अदृश्याः । सौक्ष्म्यान्न दृश्यते यथा पुरुषाकारः स्थाणुर्न विवेक्तुं शक्यः । समानाभिहारान्न दृश्यते यथा महाराशिगतमेकं शालिधान्यम् । यथा च काकवृन्दगत एकः काकः । पूवोक्तविपरीतमाभासगतमित्युच्यते ।

(पृ) कश्चक्षुष उपघातः । (उ) वातोष्मशीतादिभिर्व्याधिभिः प्रतिघातः । यत्वातोपहतं चक्षुः तत्विपर्यस्तं नीलकृष्णादिरूपं पश्येत् । यदूष्मोपहतं तत्पीतरक्ताग्निज्वालादि पश्यति । यच्छीतोपहतं तत्भूयसावदातह्रदजलादिरूपं पश्यति । यत्जागरणोपहतं (
१३३) चक्षुः तत्कम्पितवृक्षादिरूपं प्रायः पश्यति । यत्परिखेदोपहतं चक्षुः तत्रूपं दृष्ट्वा न बुध्यते । भागशः प्रणुदितमेकं चक्षुश्चन्द्रद्वयं पश्यति । भूताद्याविष्टं विकृतं पश्यति । पापकर्मवशात्कुरूपं पश्यति । पुण्यकर्मवशात्सुरूपं पश्यति । पित्तोपहतं चक्षुर्ज्वालादिरूपं पश्यति । सत्त्वा अपरिनिष्पन्नचक्षुस्त्वाद्विकलं पश्यन्ति । घनतिमिरावृतचक्षुष्का न पश्यन्ति । यदुपहतं चक्षुरिन्द्रियं न पश्यति । स चक्षुष उपघातः । तल्लक्षणविपरितोऽनुपाघातः । श्रोत्रादीनीन्द्रियाण्यपि [तथा]र्थवशाद्विवेक्तव्यानि ।

(पृ) पञ्च विषयाः ज्ञानाभासगतत्वात्ज्ञेया भवन्तीति ज्ञातमेव । कतमे धर्मा ज्ञानस्याभासगता न भवन्ति । (उ) ऊर्ध्वभूमिकत्वान्न ज्ञायते यथा प्रथमध्यानचित्तं द्वितीयध्यानतदूर्ध्वधर्मान्न विजानाति । इन्द्रियविशेषान्न ज्ञायते यथा मन्देन्द्रियस्य चित्तं तीक्ष्णेन्द्रियस्य चित्तगतधर्मान्न विजानाति । पुरुषविशेषान्न ज्ञायते यथा श्रोत्रआपन्नः सकृदागामिनश्चित्तगतधर्मान्न विजानाति । बलप्रभेदान्न ज्ञायते यथा यन्मनोविज्ञानं यस्मिन् धर्मे बलविहीनं न तेन मनोविज्ञानेन स धर्मो ज्ञायते । तद्यथा समाहितचित्त(स्य) मनोविज्ञानविज्ञेयधर्मो न विक्षिप्तचित्तकमनोविज्ञानेन विज्ञातुं शक्यो भवति । यथा प्रत्येकबुद्धमनोविज्ञानबलविज्ञेयधर्मो न श्रावकमनो[विज्ञान]बलेन विज्ञातुं शक्यो भवति । यथोर्ध्वपक्षिकधर्मो नावरपक्षिकमनोविज्ञानेन विज्ञातुं शक्यः । अतिसूक्ष्मा धर्मा न ज्ञातुं शक्याः । यथोक्तमभिधर्मे केन चित्तेन स्मर्यते । यदुत प्रतीतिप्रत्यायकं पूर्वानुभवितृ, तेन स्मर्यते नाननुभवित्रा । यथा जनाः संसारे पूर्वानुभूतं धर्मं स्मरन्ति । अननुभूतं न स्मरन्ति । आर्यास्तु यदि वानुभूतं यदिवाननुभूतं सर्वं तदार्यज्ञानबलाद्विजानन्ति । विशिष्टविषयत्वात्ज्ञायते यथा रूपधातुकचित्तमनुभूय कामधातुकधर्मान् विजानान्ति । विपर्ययावृतत्वान्न ज्ञायते यथा सत्कायदृष्टिकचित्तं पञ्चस्कन्धालम्बनं नैरात्म्यं पश्यति । तथा अनित्यं दुःखमपि । बलावृतत्वान्न ज्ञायते यथा मृद्विन्द्रियः पुरुषस्तीक्ष्णेन्द्रियस्य चित्तमावृततया न विजानाति । [यत्] पूर्वोक्तलक्षणविपरीतं तदाभासगतमित्युच्यते ।

(पृ) को नाम मनस उपघातः । (उ) विक्षेपविपर्ययभूतावेशा मानमदचित्तप्रमोषा मद्येन वा औषधव्यामोहेन वा चित्तविभ्रमः, कदाचित्राग्रिक्रुद्धतादिक्लेशपरिपुष्ट (
१३४) प्रमादप्रनष्टचित्तता यथा श्वपाककैवर्तादीनाम् । सन्निपातेन वा चित्तप्त्योपघातो भवति । जराव्याधिमरणान्यपि चित्तस्योपघाताः । यच्चित्तं कुशलधर्मगतं यदव्याकृतधर्मनिमग्नम् । तदनुपहतं नाम । एवमादिभिः कारणैः सत्त्वो विषयान् विजानाति । तस्माद्यद्यप्राप्य पश्यति कस्मान्न सर्वाणि रूपाणि पश्यतीति भवद्वचनमयुक्तम् ।

यदवोचः- त्रयाणां सन्निपातः स्पर्श इति । इन्द्रियविषयविज्ञानानुगमनकालः स्पर्शः नावश्यं प्राप्तिलक्षणः । कस्मात् । मनैन्द्रियस्याप्युक्तं त्रयाणां सन्निपात इति । न तत्र प्राप्तिलक्षणोऽस्ति स्पर्शः । [स्पर्शस्य] प्राप्तिलक्षणत्वात्[इन्द्रियाणि] सप्रतिघानीति भवद्वचनमयुक्तम् । न ह्यस्ति प्रतिहन्तिलक्षणमित्युक्तत्वात् । प्रत्युत्पन्नेषु ज्ञानमुत्पद्यत इति यदवादीः तत्र षष्ठं विज्ञानमपि प्रत्युत्पन्नमात्रं ज्ञापयेत्परचित्तज्ञानवत् । बहुप्रत्ययसामग्र्या ज्ञानमुत्पद्यत इति यदवादीः । तत्षष्ठमनैन्द्रियेण प्रत्युक्तमेव यदुत इन्द्रियविषयविज्ञानानुगमकालः सन्निपात इति । प्रतीत्य मनो धर्मांश्च मनोविज्ञानमुत्पद्यत इतीदं वचनञ्च तदा व्यर्थं स्यात्प्राप्त्यभावात् । प्रतिनियतनियमो हि सन्निपातो नाम । चक्षुर्विज्ञानं चक्षुर्मात्रं नान्यदाश्रित्य नानाश्रित्य भवति । [तथा] रूपमात्रं प्रतीत्य नान्यत्प्रतीत्य नाप्रतीत्य भवति । एवं यावन्मनोविज्ञानमपि ।

विषयेन्द्रियसंयोगवियोगवर्ग एकोनपञ्चाशः ।


५० शब्दश्रवणवर्गः

यदवादीः विप्रकृष्टदेशवर्तिनि पुरुषे मन्दं भाषमाणे न शब्दः श्रूयते । अतो ज्ञायते शब्दः श्रोत्रं प्राप्नोतीति । तदयुक्तम् । कस्मात् । यथा भवानाह विप्रकृष्टदेशवर्तिनि पुरुषे भाषमाणे शब्दात्शब्दसन्तत्या तनुर्भूत्वा न पुनरुद्भवतीत्यतो न श्रूयत इति । एवं ममापि स्यात् । शब्दोऽप्राप्यापि सोऽल्पीयानिति न श्रूयते । यथा भवतो नयनरश्मिर्गत्वापि सूर्यमण्डलमात्रं पश्यति न सूर्यस्य कर्म । एवं ममापि । श्रोत्रमप्राप्यापि (
१३५) शब्द औदारिकः सन् श्रूयते सूक्ष्मस्तु न श्रूयते । यथा भवतो नयनरश्मिः सुदूरं गच्छन्नपि न शतसहस्रायुतयोजनानि प्राप्नोति । प्रसन्नसलिलाद्यावृतं सुष्ठु पश्यन्नपि भित्त्याद्यावृतं तु न पश्यति । सूर्यमण्डलं दृष्ट्वापि न पश्यति सूर्यकर्म । तथा ममापि श्रोत्रमप्राप्यापि शब्दमौदारिकं शृणोति । न तु शक्नोति सूक्ष्मं विवेचयितुम् ।

यदवादीः- अनुकूलवायौ प्रत्याययति इति । तदयुक्तम् । कस्मात् । तदा तु न कश्चित्प्रतिकूले वायौ शृणोतीति स्यात् । यथा गन्धः प्रतिकूलवायौ न जिघ्रयते । तदा शब्दोऽपि प्रतिकूलवायौ न किञ्चिदपि न श्रोतव्यः स्यात् । वस्तुतस्तु श्रूयते । अतो ज्ञायते शब्दोऽप्राप्य श्रूयत इति । यदल्पं शब्दः श्रूयते तत्वाय्वावरणात् । किञ्च शब्दो गन्धवत्प्रवाह्यः । किमनुकूलप्रतिकूल वायुविकल्पनया ।

यदवोचः शब्दः साकल्येन श्रूयत इत्यतः प्राप्तिपक्षे न रूपसम इति । न युक्तमिदम् । शब्दधर्मो यत्साकल्येन श्रूयत इति । न तथा रूपधर्मः । पदार्थाः सलक्षणविलक्षणा भवन्ति । ज्ञेयविषयत्वेन समाः । साकल्यासाकल्यज्ञानत्वेन विषमाः । घण्टाशब्दो घण्टायां श्रूयते । केनेदं ज्ञायते । तद्यथा पुरुषः घण्टानादशुश्रूषया कर्णेन घण्टामुपेति । शब्दश्च गुणत्वान्न गच्छति । गुणानामकर्मकारित्वात् ।

(पृ) शब्दपरम्परयोत्पद्यमाने शब्दगुणे वीचीतरङ्गवच्छब्दो गच्छतीत्युच्यते । (उ) शब्दतरङ्गस्य केन सह दृष्टान्तः । अब्लक्षणे भेरीचर्मणि सति तरङ्ग उत्पद्येत । इदानीं शब्दे कः पुनः शब्दः यः शब्दान्तरं जनयति । यदि मन्यसे शब्दः शब्दान्तरं जनयतीति । कस्मान्न मूलप्रदेशे जनयति नान्यत्र । अपामब्लक्षणविरुद्धत्वात्तरङ्गो जायते । यो वदति- पुरुषः शब्दं करोतीति । [तस्य] कर्णमेव वक्तृ स्यात् । वस्तुतस्तु न सम्भवति । अतो ज्ञायते शब्दो नोच्चरितो गच्छतीति । यदि घण्टातः शब्दसन्ततिरुत्पद्यते, तर्हि घण्टा शब्दविहीना न स्यात् । यदि शब्दस्तरङ्गवत्सन्तत्या प्रवर्तते इति । नियतमापो निस्तरङ्गाः स्युः । एवं घण्टातः शब्द [उद्गते] सति घण्टा निश्शब्दा स्यात् । न वस्तुत इदं युज्यते । अतो ज्ञायते शब्दो घण्टायां वर्तत इति । घण्टायां गृहीतायां शब्द उपरमति । अतो ज्ञायते शब्दःसदा घण्टामाश्रयत इति । यदि शब्दो घण्टामाश्रितो घण्टातश्चापि वियुज्यत इति । घण्टायां गृहीतायां घण्टामाश्रितः (
१३६) शब्दोऽनिरुद्धः स्यात् । घण्टावियुक्तः शब्दोऽनुवर्तेत । दृष्टे व्यवहारे च नास्ति किञ्चित्यथा घण्टासन्ततिरुत्पद्यत इति । शब्दस्य चास्ति दिग्भागभेदो यदुत प्राचीशब्दः कर्णदेशं प्राप्नोति तदा न स्यातयं विभागः । यदि शब्द आगच्छति । तदा दिव्यश्रोत्रं निष्प्रयोजनं स्यात् । कस्मात् । शतसहस्रलोकधातून् शब्दः कथमागच्छति । यथा विद्धशब्दः शब्ददेशं लक्षयति । तथा यदि शब्दः श्रोत्रमागच्छति । स्वयमेव श्रोत्रं विध्यात् । तथा नो चेत्विद्धशब्द इति नोच्येत । यः शब्दो विप्रकृष्टः सन्निकृष्टश्च तौ युगपत्श्रूयेताम् ।

शब्दश्च क्षणिकत्वान्न शब्दान्तरमुत्पादयति । न हि पश्यामः क्षणिकधर्मः कस्यचिज्जनक इति । अतो न शब्दः शब्दान्तरं जनयति । यथा क्षणिकं कर्म न कर्मान्तरमुत्पादयति । यदि शब्दः शब्दान्तरमुत्पादयति । कर्मापि कर्मान्तरमुत्पादयेत् । एकञ्च न कर्म कर्मोत्पादकमिति वचनं प्रणष्टं स्यात् । भवतां शासने शब्दः शब्दान्तरेण विरुद्धः पृथक्, नैकस्थानिकः । यदि शब्दः शब्दन्तरेणैकस्थानिकः, न स विरुद्धो नाम । यदि नैकस्थानिकः । तदा पूर्वशब्दे निरुद्धेऽनन्तरशब्दः स्वयमुत्पद्यते । अतो न शब्दः शब्दान्तरमुत्पादयति । शब्दश्चैको धर्मः, कथं शब्दान्तरमुत्पादयति । नह्येकं वस्तूत्पादकं पश्यामः । (पृ) यथा संयोग एकः सन् वस्तुनामुत्पादकः । एवं शब्दोऽपि एकधर्मः सन्नपि शब्दान्तरस्योत्पादकः । (उ) पश्यसि खलु संयोग एकः सन् यं शब्दमुत्पादयति [सो]ऽपि तथा स्यात् । रूपमपि एकं सत्रूपान्तरमुत्पादयेत् । तथा गन्धरसस्पर्शा अपि । एवञ्च द्रव्यं पञ्चस्वभावं त्रिस्वभावं द्विस्वभावं न स्यात् ।

कर्मसाम्याच्च । शब्दः कर्मणा तुल्यलक्षणः । यथा वदन्ति शब्दो गुणोऽपि (
१३७) कर्मणा तुल्यो निरुध्यते । यथाङ्गुलिस्फोटस्वङ्गस्पन्दकर्माणि शब्दवन्ति । न हि स्पन्दः खड्गगाद्वियुज्यते । एवं शब्दोऽपि करगृहीते खड्गे शब्दः स्पन्देन सहोपरमति । अतो ज्ञायते कर्म न कर्मान्तरस्योत्पादकम् । शब्दोऽपि न पुनः शब्दानन्तरस्योत्पादक इति । यथा कल्पयसि आद्यकर्मणः संस्कार उत्तरोत्तरकर्मोत्पादक इति । तथा आद्यशब्दात्संस्कार उत्पद्यते । संस्कारादुत्तरोत्तरकर्माणि समुत्पद्यन्त इति । तत्र नास्ति संस्कारादुत्पद्यमानं संस्कारान्तरम् । कारणकर्म संस्कारमुत्पादयति । न शब्दः । कर्मनिरोधाच्च न कारणद्रव्यं भवति । कस्मात् । पूर्वं कर्मणि निरुद्धे हि तदनन्तरं द्रव्यमुत्पद्यते । एवं शब्दोऽपि । पूर्वशब्दे निरुद्धेऽनन्तरं शब्दः स्वयमुत्पद्यते । इत्यनन्तरशब्दो न कारणवान् स्यात् । अथापि यदि वदसि पूर्वशब्दः शब्दानन्तरमुत्पादयतीति । तदा शब्दोऽक्षणिकः स्यात् । कस्मात् । शब्दोत्पत्तिकाल प्रथमः क्षणः । शब्दान्तरोत्पत्तिकालो द्वितीयः क्षणः । उत्पन्नशब्दान्तर [कालः] तृतीयः क्षणः । पूर्वशब्दनिरोधकालश्चतुर्थ इत्यक्षणिकः स्यात् ।

शब्दः कथं शब्दान्तरेण विरुद्धः । किं यथा खलु विषं विषौषधेन विरुद्धम् । औषधं वा व्याध्या विरुद्धम् । तथा नो चेत्घण्टा न शब्दद्वयवतीति [न] स्यात् । यद्येकस्मिन् क्षणे घण्टा शब्दद्वयवती, तदा क्षणसहस्रेऽपि शब्दद्वयवती स्यात् । यथा गुणेऽसति द्र्व्यस्याग्निसंयोगाद्गुण उत्पद्यते । पूर्वकृष्णरूपे निरुद्धे रक्तरूपमुत्पद्यते । एवं शब्दोऽपि- पूर्वशब्दे निरुद्धे शब्दान्तरमुत्पद्यते । तथा नो चेतेकस्मिन्नेव क्षणे घण्टा शब्दद्वयवती स्यात् । वस्तुतस्तु न द्वयवती । अतोऽयुक्तम् । यदि शब्दात्शब्दान्तरमुत्पद्यते तदा न हेतुमनुवर्तेत । वस्तुतस्तु घण्टातः शब्द उत्पद्यते । स तु हेतुमनुवर्तते । इदञ्च शब्दान्तरमखण्टाशब्दः स्यात् । तच्च शब्दान्तरं नैवं समुच्छिद्येत । हेतुसमुच्छेदाभावात् ।

(पृ) आद्यशब्दात्सूक्ष्मशब्दः परिणमत इत्यतोऽस्ति समुच्छेदः । (उ) कस्मात्सूक्ष्मशब्दः परिणमते । यथाभिघातं संस्काराभिव्यक्तिः । यथाभिव्यक्ति आद्यशब्दः । द्वितीयशब्दतदवयवादयोऽपि यथाभिव्यक्तिविशेषं भवन्ति । ताडनहेत्वभावात्संस्काराभिव्यक्तिस्तु (
१३८) भज्यते । संस्काराभिव्यक्तिभङ्गात्तु शब्दः सूक्ष्मः परिणमते । यस्य शब्दहेतुकं शब्दान्तरमुत्पद्यत इति । तस्य रूपमुपादाय जल आदर्शे रूपमुत्पन्नं स्यात् । एवं जले चन्द्र आदर्शे प्रतिबिम्बमेव रूपं भवेत् । तथा च वैशेषिकसूत्रं सर्वं नष्टं स्यात् ।

यद्वदसि विभागाच्छब्दो निष्पद्यत इति । तदपि न युक्तम् । कस्मात् । न हि हस्तविभागाच्छब्द उत्पद्यते । संयोगात्तु शब्दो भवति । खड्गवंशादीनामवयवेषु मिथः संश्लिष्टेषु विभज्यमानेषु च मिथो नोदनाच्छब्दो भवति । न च वयं वदामः संयोगाच्छब्दो भवतीति । कस्मात् । नह्यङ्गुल्याकाशसंयोगे शब्द उत्पद्यते । अङ्गुलीषु मिथोऽनुन्नासु न शब्द उत्पद्यते । अतः संयोगान्नोत्पद्यते । केवलं चतुर्षु महाभूतेषु संयुक्तेषु वियुक्तेषु वा शब्द उत्पद्यते । यथा महाभूतानां कर्म नित्यस्थायि, न तानि विहाय गच्छति ।

शब्दश्रवणवर्गः पञ्चाशः ।


५१ गन्धाघ्राणवर्गः

(पृ) यद्याह भवान्- गन्धो नासिकां प्राप्तो जिघ्र्यत इति । तदप्ययुक्तम् । कस्मात् । यथा शब्दो दूराच्छ्रूयते । तथा गन्धो विप्रकृष्टदेशस्थोऽपि घ्रातुं शक्यते । यदि मन्यसे यतस्माद्गन्धात्सन्तत्या गन्धकारणमुत्पद्यत इति । तत्शब्दसन्तान उक्त एव तद्दोषः । (उ) गन्धः कथं [तर्हि] घ्रातव्यः । (पृ) कुसुमावयवान् सूक्ष्मान् गच्छतो गन्धोऽप्याश्रित्य गच्छति । (उ) मैवम् । यदि कुसुमावयवा गच्छन्ति कुसुमावयवस्य रूपमपि द्रष्टव्यं स्यात् । न तु दृश्यते । अतो ज्ञायते न गच्छन्तीति । (पृ) कुसुमावयवरूपमतिसूक्ष्मत्वात्न दृश्यते । (उ) गन्धोऽप्यतिसूक्ष्मो न जिघ्रयेत् । (पृ) प्रभावमहत्वाद्गन्धो जिघ्न्यते । यथा चोष्यस्य हिङ्गावदृष्टरूपेऽपि तद्गन्धमात्रं जिघ्रामः । (उ) यत्र सूक्ष्मावयवरूपं [तत्र] तद्गन्धो जिघ्रयत इति प्रत्यक्षदृष्टम् । सूक्ष्मावयवस्य रूपं कस्मान्न दृश्यते । यदि कुसुमं दह्यते । तद्गन्धो वर्धते । रूपं परं निरुध्यते । अतो न कुसुमावयवो गन्धः । यदि गन्ध कुसुमावयवः, अल्पं घ्रातव्यः स्यात् । न तथा वस्तुतः । यदि कुसुमावयवा गच्छन्ति, कुसुममपचीयमानं स्यात् । नत्वपचीयते वस्तुतः । केनेदं ज्ञायते । यथा एकपलं कुङ्कुम[कुसुमं] सदा सगन्धं गत्वापि सदैकपलम् । (
१३९) (पृ) अपचीयमानमतिसूक्ष्मत्वान्न ज्ञातुं शक्यते । यथा जलघट एकबिन्द्वपगमे तत्क्षयो न बुध्यते । (उ) यदि सदापचीयते । कुसुमवेवासत्स्यात् । किं पुनरपचीयमानं न बुध्यत इति । यदि कुसुमं सदापचीयते । तदा [तद्गन्धस्य] आघ्राणं नोपलभ्येत । सदापचीयमानत्वात्प्रतिक्षणमुत्पन्नविनाशि स्यात् । प्रतिक्षणविनाशित्वाद्द्रव्यान्तरमुत्पन्नं स्यात् । किं पुनर्न गुणान्तरमुत्पन्नमिति । वस्तुतस्तु कुसुमस्याघ्राणमुपलभ्यते । अतो ज्ञायते कुसुमावयवा न गच्छन्तीति ।

(पृ) यदि गन्धमात्रं गच्छति गन्धोऽपि [तर्हि] क्षीयेत । सदापचीरमानत्वात् । गन्धस्य निरवयत्वाच्चैकान्तिकपरिक्षय एव स्यात् । (उ) न वयं [स्वी]कुर्मः कुसुमावयवा वायुमनुवर्तन्त इति । नापि वायुः कुसुमस्य गन्धं बोढ्वा गमयतीति । कुसुमगन्धमात्रमुपादाय गन्धान्तरमुग्पद्यते । तदुपादाय गन्धवायुः ततः समुत्पन्नो गन्धवायुर्नासिकां प्राप्य जिघ्र्यते । अतो नास्ति तद्दोषः । केनेदं ज्ञायते । यथा जिघ्रन्ति तिले गन्धं, न तु कुसुमावयवगन्धम् । कुसुमेन वासितत्वात् । यद्ययं कुसुमावयवीयः । किं वासयति । तिलम् । अतो ज्ञायतेऽयं गन्धो न कुसुमावयवर्तीति । स कुसुमगन्धः कुसुमे निष्पीडिते वा निष्पिष्टे वा संपरितापिते वा क्षीयते । यः तिलवर्ती, न स क्षीयते । स कुसुमगन्धश्च तैलमात्रे वर्तते । न तु कल्के । अतो न कुसुमावयवीयः । स च गन्धो दीर्घकालं तिले वर्तते । न तु कुसुमे । अतो न कुसुमावयवीयः । (पृ) यदि न कुसुमावयवीयः । अयं कस्य गन्धः । (उ) अयं तिलगन्धः कुसुममुपादाय समुत्पन्नो न तिलाद्वियुज्यते । एवं कुसुमगन्धमुपादाय वायुर्गन्धान्तरमुत्पादयति । इदञ्च प्रदर्शितमेव ।

अथ कदाचिदुष्णवायुश्शीतवायुश्चानुभूयते । न तत्रापामग्नेर्वा रूपमुपलभ्यते । अतो ज्ञातव्यं वायौ पुनः स्पर्शान्तरमुत्पद्यते । न त्वाहृतस्य जलस्याग्नेर्वायवा गच्छन्तीति । यदि वायावुष्णस्पर्शस्तैजसः, शीतस्पर्शश्च जलीयः तदानुष्णाशीतस्पर्शेन पार्थिवेन भवितव्यम् । यथा जलस्य तेजसश्च रूपं नोपलभ्यते, पार्थिवरूपमपि सौक्ष्मान्नोपलभ्येत । तथा चेत्वायुरस्पर्शः स्यात् । इदं दोषायैव भवेत् ।

(
१४०)
अन्यस्यापि कस्यचिद्वचनमुपलभ्यते- यथा वायोरुदकतेजःसंयोगाच्छीतोष्णस्पर्शः, तथा वयोः पृथिवीसंयोगादनुष्णाशीतस्पर्शोऽस्ति इति । तत्र नास्ति विनिगमकं यदुदकावयवा स्तेजोवयवा एव वा वायुमनुगच्छन्ति, न तु पृथिव्यवयवा इति । यथा भवतां सूत्रम्- त्रयः स्पर्शा स्पर्शकाया वा न पृथिव्युदकतेजसामित्यदृष्टलिङ्गो वायुरिति ज्ञायते । अनेन वचनेन त्रिविधाः स्पर्शा वायौ कदाचिदागन्तुका वानागन्तुका वा स्युः । कस्मात् । त्रिविधाः स्पर्शा यद्यदृष्टलिङ्गाः, तदा वायवीयाः । भवतो मतं यत्दृष्ट उदके तेजसि शीतोष्णस्पशौ स्तः । न तौ वायवीयौ । इति । एवं दृष्टपृथिव्यामनुष्णाशीतस्पर्शोऽस्तीति सोऽपि वाय्वयवीयो न स्यात् । यदि पूर्वमेवास्ति पृथग्वायुस्पर्शो न पृथिवीसंयोगात् । तर्हि वक्तव्यमयं स्पर्शो वायवीयः । आदौ तु न दृश्यत इति । कथं ज्ञातव्यं वायुस्पर्शमात्र मनुष्णाशीतं न तु पृथिव्यवयव इति । वयमपि वदामो रूपरसगन्धस्पर्शाः पृथिव्यामेव सन्ति नाबादिषु इति ।

यत्भवतां मतम्- यत्दृष्टेषु अबादिषु रूपादिकमस्तीति । तत्पृथिवीयोगाद्दृश्यते न तु तत्तत्रास्ति । अप्सु उष्णलिङ्गवत् । तत्र नास्ति विनिगमकं यदपामुष्णलक्षणं तत्तेजोयोगादेवास्ति । न तु रूपादिलक्षणं पृथिवीयोगादिति । आदौ [यत्] पृथगस्तित्वेनादृष्टमबादीनां न तत्पृथिवियोगाद्भवति । यद्यादौ दृष्टम् । तदा सम्भवति वक्तुमिदं रूपमबीयं न पार्थिवमिति । एवमबादीनां विवेचनं स्यात् ।

(पृ) वायौ गन्धान्तरमुत्पद्यत इति यद्वचनम् । तदयुक्तम्, कस्मात् । निर्वाते केष्ठे दुराद्गन्धो जिघ्र्यते । गन्धस्तु वातं प्रति घ्रातव्यः । यथा पारिजाततरोः । अतो ज्ञायते न वायौ गन्धान्तरमुत्पद्यते । अपि तु गन्धमुपादाय गन्धान्तरमुत्पद्यते । इति । (उ) द्विविधः प्रत्ययो गन्धस्य । यत्र वायुरस्ति । तत्र गन्धवायुरुत्पद्यते । यत्र नास्ति तत्र गन्धमुपादाय गन्ध उत्पद्यते इत्यस्य को दोषः ।

यदवादीः पूर्वं गन्धो दूरात्जिघ्र्यत इत्यप्राप्त्या स्यादिति । तदयुक्तम् । कस्मात् । रूपसाम्याभावात् । यद्यप्राप्य जिघ्र्यते । तदा रूपेण समं सदप्राप्य जिघ्र्येत । (
१४१) दूराद्दृष्टधूमगन्धो न जिघ्र्यते । प्राप्तौ तु जिघ्र्यते । अतो ज्ञायते अप्राप्य न जिघ्र्यत इति । दिव्यनासिकाभावाच्च प्राप्य जिघ्र्यते । यद्यप्राप्य जिघ्र्यते । दिव्यनासिका स्यात् । दिव्यचक्षुःश्रोतवत् ॥

गन्धाघ्राणवर्ग एकपञ्चाशः ।


५२ स्पर्शबुद्धिवर्गः

(पृ) स्पर्शोऽपि अप्राप्य ज्ञेयः । कस्मात् । सूर्यस्पर्शस्य दूरे वर्तमानत्वात् । (उ) सूर्यस्पर्शः कथं ज्ञेयः । (पृ) तेजोभागः सूर्यसकाशादागत्य कायं प्राप्तो ज्ञायते । (उ) यदि सूर्यात्तेजोभागा आगच्छन्ति । सूर्येऽस्तमिते तेजोभागो वर्तेत । न तु वर्तते वस्तुतः । अतो ज्ञायते नागच्छतीति । (पृ) सूर्यो यद्यपि अस्तमितः । तथापि तत्तेजो वर्तते इति स्पर्शात्त्ज्ञायते । (उ) तथा चेत्तेजोऽरूपं स्यात् । भवतां सूत्रे नास्त्यरूपं तेज इत्ययमेव दोषः । (पृ) तत्रास्ति सूक्ष्मं रूपम् । (उ) तेजो रूपबहुलमल्पस्पर्शकम् । यथा प्रदीरूपं तत्स्पर्शमप्रतिबुध्यापि पश्यामः ।

(पृ) स्पर्शः किं नियमेन प्राप्य ज्ञायते । (उ) नियमेन प्राप्य ज्ञायते । कस्मात् । यथा गन्धमुपादाय वायौ गन्धान्तरमुत्पद्यते । तथा सूर्यमुपादाय तेज उत्पद्यते । (पृ) सूर्येऽस्तमिते तेजोरूपं कस्मान्न दृश्यते । (उ) कस्यचित्तेजसः स्पर्शमात्रमस्ति न रूपम् । यथा सूर्येऽस्तमिते धर्म । यथा वा ज्वरार्तस्य पुरुषस्य तेजः कायनिश्रितमस्ति । धर्मगृहेऽग्न्यपगमेऽपि धर्मावशिष्यते । यथा वा यवा ग्वामौष्ण्यादि । तत्सर्वं स्पर्शवदरूपम् । तस्मात्तेजः किञ्चित्सरूपं किञ्चिदरूपमिति श्रद्धातव्यं भवति ॥

स्पर्शबुद्धिवर्गो द्विपञ्चाशः ।


(
१४२)
५३ मनोवर्गः

यदवादीः- मनःसञ्चरतीति । षदयुक्तम् । कस्मात् । मनःप्रतिक्षणमुत्पन्नविनाशि वायुवत्कर्मवद्वा । प्रतिक्षणोत्पन्नविनाशिधर्मस्य नास्ति गतिलक्षणम् । किञ्च मनो गच्छतीति किं ज्ञात्वा गच्छेत् । उताज्ञात्वा गच्छेत् । तदुभयमयुक्तन् । यदि पूर्वमेव ज्ञातवत्किं गमनेन । यद्यज्ञातवत्, किमर्थं गमनम् । यदि चित्तं चक्षुषि वर्तते । कथं कर्णं प्राप्नोति । यत्चित्तं मन्यते श्रोत्रं गमिष्यामीति तच्छ्रोतस्मरणम् । या शब्दशुश्रूषा सैव शब्दस्मृतिः । यदि चक्षुषि वर्तमानं चित्तम्, न तदा [श्रोत्र]स्मरणं भवति । एवमिन्द्रियान्तरेऽपि । अतो न मनो गच्छति । यः पुमान् पूर्वं नगरादीन् दृष्टवान् स इदानीं पूर्वमनुरुध्य स्मरति न जानाति प्रत्युत्पन्नान् । अतो न मनो गच्छति । यदि [मनो]धर्मो गच्छति, पूर्वसंन्निकृष्टं पश्चाद्विप्रकृष्टं [गच्छेत्] । इदानीन्तु सन्निकृष्टं विप्रकृष्ट ञ्च युगपत्स्मरति । अतो ज्ञायते न गच्छतीति । यो धर्मो गच्छति सोन्तराले सर्वान् विषयान् जानीयात् । यथा कश्चित्सञ्चरन्मध्येमार्गं रूपादीन् पदार्थान् जानाति । न तथा मनः । यथा चित्तमसदपि जानाति यदुतातीतमनागतं शगशृङ्गं कूर्मरोमाहिपादं वायुरूपं लोहितलवणगन्धमित्यादीनि [सर्वाण्य]पिजानाति । सर्वेषामप्राप्तत्वात् । अतो ज्ञायते न [मनो] गच्छतीति ।

यदि चित्तमालम्बनं प्राप्नोति । तदा अज्ञानसंशयज्ञानमिथ्याज्ञानानि न स्युः । वस्ततस्तु सन्ति तानि । अतो ज्ञायते न गच्छतीति । चित्तस्यालम्बनं निर्वाणं चित्तं यदि प्राप्नोति । संस्कृतेनासंस्कृतं प्राप्यते । तत्तु न युक्तम् । पुनरावृत्तिनिस्सरण[लक्षण]मसस्कृतं संस्कृते प्रविशतीदमप्ययुक्तम् । यदि परलोकोऽस्तीति स्मरति । तदा चित्तं परलोकं प्राप्नोति । तत्कायो मृतो भवेत् । न पुनरुज्जीवेत् । अतो न गच्छति । चित्तमनागतं स्मरदनागतं प्राप्नोति । न हि प्रत्युत्पन्नो धर्मोऽनागतो भवेत् । अतीतं स्मरच्चित मतीते वर्तते । नह्यतीतगतो धर्मः प्रत्युत्पन्नः स्यात् । अतो ज्ञायते न गच्छतीति, रागचित्तान्मुखे रूपान्तरमुत्पद्यते । तथा द्वेषादिभ्योऽपि । यदि चित्तं देशान्तरं प्राप्नोति । तदा रूपभेदो न स्यात् । अतो ज्ञायते न गच्छतीति ।

(
१४३)
किञ्चालम्बनस्थं चित्तं वेदनेत्युच्यते । ता वेदना स्तिस्त्रः- दुःखाः वा सुखा वा अदुःखासुखा वेति । यदि चित्तं प्रदेशान्तरं प्राप्नोति । तदा ता वेदना न स्युः । अतो न गच्छति । चित्तञ्च कायनिश्रितम् । यथोक्तं सूत्रे- नामरूपाश्रितं विज्ञानमिति । अतः कायं विहाय नान्यत्र गच्छति । कायश्च विज्ञानसंयुक्तः सन् काय इत्युच्यते । यदि चित्तं देशान्तरे वर्तते । कायो निर्विज्ञानः स्यात् । आलम्बनं विज्ञानसंयुक्तं पुनः स विज्ञानमित्युच्यते अतो न गच्छति ।

(पृ) स्वप्ने चित्तमन्या दिशो गच्छति । (उ) मैवम् । स्वप्ने शुक्रस्खलनादि चेष्टितानि सर्वाणि कायगतानि । चित्तविपर्ययादन्यत्र दिशि वर्तते इति वदन्ति । न तु वस्तुतो गच्छति । स्वप्ने च क्रियाः सर्वास्ता मिथ्या । यथा कश्चित्स्वप्ने पिबति नैब तत्तृष्णामपनयति । स्वप्ने च [पाप]कर्मचर्यादि न पातकं भवति । अतः मनोऽपि न गच्छति । चित्तं दृष्टे श्रुते मते ज्ञाते धर्ममात्रे वर्तते । न धर्मान्तरं चरति । यदि गमनेन प्राप्नोति तदा धर्मान्तरमपि जानीयात् । (पृ) ऋद्धिप्रभावितं मनो गच्छति । अन्या दिशश्च प्राप्नोति । इदञ्च पश्चादृद्धिखण्डनवर्गे वक्ष्यते । अतो न मनो गच्छति ॥

मनोवर्गस्त्रिपञ्चाशः ।


५४ इन्द्रियानियमवर्गः

(पृ) इन्द्रियाणि किं प्रतिनियतानि उताप्रतिनियतानि । (उ) किं नाम प्रतिनियतं किं नामाप्रतिनियतम् । (पृ) [यः] चक्षुरादीनामिन्द्रियाणां ज्ञेयो हेतुश्च । इदं प्रतिनियतं नाम । (उ) तथा चेदिन्द्रियमनियतम् । कस्मात् । नेन्द्रियाणि चक्षुरादीनां ज्ञेयानि हेतवश्च । (पृ) अक्षितारकाजिह्वाकाय ञ्च जक्षुषा दृश्यम् । श्रोत्रनासिक ञ्चान्तर्वर्तत इत्यतो नोपलभ्यते । (उ) मृतपुरुषस्यापि तानि सन्ति । नत्विन्द्रियाणि तानि । (पृ) अक्षितारका द्विविधा सेन्द्रिया निरिन्द्रियेति । मृतपुरुषस्येन्द्रियतारका क्षीणा । अनिन्द्रियतारका तु वर्तते । (उ) नेन्द्रियतारका द्रष्ट्री । अतो न चक्षुरादिभिरुपलभ्यते । (
१४४) उक्तञ्च सूत्रे- पञ्चेन्द्रियाणि रूपीण्यनिदर्शनानि सप्रतिघानीति । यदि तत्सनिदर्शनम् । तदा विभज्येत इयमक्षितारका सेन्द्रिया इयमनिन्द्रियेति ।

(पृ) यद्युक्तं सूत्रे- चत्वारि महाभूतान्युपादाय रूपप्रसादाः पञ्चेन्द्रियाणीति । कस्मात्पुनरुच्यते- पञ्चेन्द्रियाणि रूपीण्यनिदर्शनानि । सप्रतिघानीति । (उ) अत एव शङ्क्यते तदचिन्त्यकर्मवलमिति । कर्मबलाद्धि चत्वारि महाभूतानीन्द्रियाणि परिणमन्ति । भगवान् कांक्षावतः स्वशिष्यान् प्रत्याह- कर्मजानि पञ्चेन्द्रियाणीति । अत उच्यते रूपीति । तीर्थिका वदन्ति- पञ्चेन्द्रियाणि अहङ्कारजातानि अहङ्कारश्चारूपीति । किञ्चाहुः- पञ्चेन्द्रियाणि बृहद्विजानन्ति अल्पञ्च विजानन्ति । अतोऽप्रतिनियतानीति । तेऽपि मन्यन्ते इन्द्रियमरूपीति । अतो भगवानाह- इन्द्रियाणि रूपीणि रूपादीनुपादाय सिद्धानीति । कदाचिद्यानि रूपादीनुपादाय भवन्ति तानि सनिदर्शनानीति ब्रूयात् । अत आह- अनिदर्शनानीति । नापि श्रोत्रादीनां तदुपलभ्यते । तथा चेदप्रतिघानीति कश्चिद्बूयात् । अत आह- सप्रतिघानीति । विषयान् प्रतिहन्तीति (
१४५) कृत्वा । यद्रूपं साकारं सप्रतिघम्, तदौदारिकं चक्षुर्मात्रेण दृश्यं भवति । तीर्थिका वदन्ति- संख्याः परिमाणानि पृथक्त्वं संयोगविभागौ परत्वापरत्वे कर्म सामान्यं विशेषाश्च [रूपि]द्रव्यसमवायादरूपिणोऽपि चाक्षुषाणीति । अतो भगवानाह- एषां रूपमात्रं सनिदर्शनं नान्ये धर्मा इति ।

हस्तादौ प्रतिहन्यत इति सप्रतिघम् । (पृ) तथा चेत्[त]त्स्पर्शमनुभवेत् । (उ) यद्यपि सर्वं प्रतिहन्ति । तथापि न सर्वत्रोत्पद्यते [तत्स्पर्शः] । कायविज्ञानं [त]द्विज्ञानमनुजायत इति इन्द्रियाणि विभक्तानि । अथेन्द्रियाणि वस्तुतोऽप्रतिनियतानि । कस्मात् । धर्मो यदि प्रतिनियतः । हस्तेन वस्तुग्रहणवदेकमेव वस्तु गृह्णीयात् । चक्षुस्तु महदल्पञ्च पश्यतीत्यतोऽनियतम् । यस्य प्रतिनियतो वस्तुस्पर्शः तस्य कारित्रमस्ति । यथा तेजःस्पर्शे दाहः खड्गस्पर्शे छेदः । चक्षुस्तु सुदूरमपि पश्यतीत्यतोऽप्रतिनियतम् । यो धर्मः प्रतिनियतः स प्रतिनियतं धर्मं प्रतिहन्ति । यथा हस्तो हस्तं प्रतिहन्ति । चक्षुस्तु उदककाचाभ्रपटलादिभिर्न प्रतिहन्यते । अतोऽप्रतिनियतम् । किञ्चेन्द्रियं यदि प्रतिनियतम् । कायस्यान्तरेव वर्तेत । कायस्यान्तर्वर्तित्वान्मनोयुक्तमपि न बाह्यविषयान् पश्येत् । वस्तुतस्तु पश्यति । अतोऽप्रतिनियतम् । धर्मो यदि प्रतिनियतः तदा [न] संख्येयानि पञ्चेन्द्रियाणि । किन्तु चक्षुरादीनि द्वैकायजिह्वाभ्यः सहाष्टौ स्युः । अतोऽप्रतिनियतम् । अधिष्ठानमात्रं प्रतिनियतम् । नेन्द्रियम् । वामचक्षुः पश्यति दक्षिणचक्षुरपि विजानाति । नह्यन्यत्पश्यति अन्यद्विजानातीति स्यात् । इन्द्रियाणां वामदक्षिणलक्षणाभावान्न प्रतिनियतानीमानि ।

(
१४६)
(पृ) चक्षुषो रश्मिर्महदल्पं पश्यति सुदूरं गत्वापि रूपमप्रतिहतं पश्यति । यथा सूर्यरश्मिः कायविनिर्मुक्तः पश्यति । रश्मिरयं द्वे चक्षुष्युपादायैकत्र मिलित्वा एकीभूतो रूपं पश्यति । चक्षुरेकं श्रोत्रं नासिका च कायस्यान्तर्वर्तमाना न विभक्तुं शक्यते । अतो भवद्वचनमन्यत्पश्यति अन्यद्विजानाति इदं निरस्तम् । आत्मनो ज्ञानं नेन्द्रियस्य इन्द्रियन्तु प्रयोज्यन् । धर्मसन्निकर्षो नोपलभ्यत इति यद्भवद्वचनं तत्प्रयुक्तम् । यदादित्यप्रकशेनाभिभूत इत्यादि । श्रोत्रादीनामिन्द्रियाणां सन्निकर्षो गूढ इत्यतोऽपि नोपलभ्यते । यथा वृक्षसंयोगस्य निगूढा कोटिर्न ज्ञायते । आत्मानमुपादाय चैतन्यम् । नेन्द्रियाण्युपादाय । इन्द्रियं मौतिकम् । महाभूतमचेतनमित्यत इन्द्रियमप्यचेतनम् । घटः परमाणुहेतुकः । यथा परमाणुरचेतनः । घटोऽप्यचेतनः । स विषयान्तरं न जानातीत्यतोऽचेतनमिति ज्ञायते ।

अत्रोच्यते । भवानाह- रश्मिर्गच्छति इन्द्रियमेकत्र स्थितमिति । भवतो रश्मिरिन्द्रियं भवति । रश्मेरव्यवस्थितत्वादिन्द्रियमप्यव्यवस्थितम् । स च रश्मिर्नास्तीति पूर्वमेव निरस्तम् । यदवादीरेकमिन्द्रियमिति । नेदं युज्यते । एकं चक्षुः किञ्चित्पश्यति द्वितीयं चक्षुरन्यत्पश्यति । यद्येकं चक्षुर्विनश्यति तदा नास्ति रश्मिः । इन्द्रियाणां सव्यदक्षिणत्वञ्च पूर्वमेव प्रत्युक्तम् । (पृ) यद्येकं चक्षुर्विज्ञानजनकम् । तदा द्वे चक्षुषी एकमिन्द्रियं स्यात् । किं द्वितीयं चक्षुः करोति । (उ) नासिका [विवरस्य] भेदान्नैकं भवति । असंवृतापि पृथग्भवतीति नैकं भवति । कराङ्गुल्यादिवत् । यदवोचद्भवान्- आत्मप्रयोग्य[मिन्द्रिय]मिति । तन्निरस्तपूर्वम् । आत्मा न प्रयोजयति । (
१४७) आदित्यप्रकाशेनाभिभूत इत्यपि दूषितपूर्वम् । यदवादीः सन्निकर्षो निगूढ इत्यतो न दृश्यत इति । इदमयुक्तम् । कस्मात् । [इन्द्रिय]धर्मो यदि व्यवस्थितः । तदा सन्निकर्षो न भवेत् । स्वरूपतो बैलक्षण्यात् । यथा वृक्षसंयोगो निगूढोऽपि तदवसाने दृश्यते । नैवं विषयेन्द्रियसन्निकर्षो दृश्यते । यदुक्तम्- आत्मवशाच्चैतन्यमिति । अत्रात्मा नास्तीति वक्ष्यते । यब्द्रवीषि- भौतिकानीन्द्रियाणीति । तदयुक्तम् । कर्मबलेन परिणमितानि महाभूतानीन्द्रियाणि भूत्वा विभक्तानि सन्ति ।

(पृ) इन्द्रियाणि नियतानि । कस्मात् । तानि च भौतिकानि । चत्वारि महाभूतानि नियतानीति इन्द्रियमपि नियतम् । यस्माच्चक्षुरादीनीन्द्रियाणि नियतानि तस्मान्महाभूतादीन्युपकुर्वन्ति । महाभूतञ्चेन्द्रियं परिणम्यते । महाभूतस्य नियतत्वात्तद्विकृतधर्मोऽपि नियतः स्यात् । इन्द्रियेण स्वविषयवता भाव्यम् । विषयेण च स्वेन्द्रियवता भाव्यम् । यद्यनियतम् । मिथो भाव्यता न स्यात् । मनोवत्स्यात् । अतो ज्ञायते नियतमिति । लौकि कास्तारकादिषु नियतान् धर्मान् विजानन्ति । न मन आदिवत्[अनियतान्] । अतो नियतानि । इन्द्रियञ्च पुरोवर्तिनं विषयं विजानाति । अन्यत्रानुमानेन । अतो नियतम् । विद्यमानमालम्बनं विजनातीन्द्रियम् । मनस्त्वविद्यमानमालम्बनम् । तद्यथातीतादि । इन्द्रियार्थसन्निकर्षादिन्द्रियज्ञानमुत्पद्यते । यस्मान्नियतेनेन्द्रियेण नियतो विषयः प्रतिहन्यते । तस्मात्ज्ञायते नियतमिति ।

(
१४८)
अत्रोच्यते । यदुक्तं भवता- इन्द्रियाणि भौतिकानि नियतानीति । सर्वं भौतिकमपि किञ्चिदिन्द्रियं भवति किञ्चिन्नेन्द्रियम् । एवं किञ्चिन्नियतं किञ्चिदनियतम् । यदवोचः- उपकुर्वन्तीति । ज्ञानस्योपकुर्वन्ति न इन्द्रियस्य । महाभूतविकृतमिन्द्रियमिति चोक्तम् । विकारोऽपि ज्ञानार्थो नेन्द्रियोपकारकः । चतुर्णां महाभूतानां प्रसाद इत्यतोऽनियतम् । यब्द्रवीषि- इन्द्रियार्थयोर्मिथो भाव्यतेति । अयमपि मनस एव नियमः । इन्द्रियस्याज्ञत्वात् । तदन्ये सर्वे मनोबलविशेषाः । षड्विज्ञानानि इत्युक्तिरपि मनोविज्ञानमपेक्ष्येति निश्चीयते । यथा चतुस्सत्याभिसमये धर्मान् साक्षात्कृत्य [त]द्धर्मतां सम्यक्भावयतीति सर्वमिदं मनोविज्ञानेनैव । यथा चालातचक्रमायमरीचिनिर्मितगन्धर्वनगराणि सर्वाण्यसत्यभूतानि पश्यति । तथा रूपाण्यपि पश्यति । अतश्चक्षुरादीनि सर्वाणि मिथ्यालम्बनानि भवन्ति । यदवादीः- इन्द्रियार्थसन्निकर्षात्ज्ञानमुत्पद्यत इति । किं प्राप्य विजानाति किमप्राप्येति सर्वं प्रत्युक्तम् ।

इन्द्रियानियमवर्गश्चतुःपञ्चाशः ।


५५ रूपायतनलक्षणवर्गः

नीलपीतादिरूपं रूपायतनमित्युच्यते । यथोक्तं सूत्रे- [यत्] चक्षुरायतनमतीतरूपविप्रयुक्तम् । इदमायतनं ज्ञातव्यमिति । (पृ) केचिदाहुः कर्म परिमाणञ्च (
१४९) रूपायतनमिति । कस्मात् । यथोक्तं सूत्रे- कृष्णावदातह्रस्वदीर्घौदारिकसूक्ष्माणि रूपाणीति । (उ) संस्थानादयो रूपस्य प्रभेदा एव । केनेदं ज्ञायते । रूपवियुक्तं परिमाणादिचित्तं नोपलभ्यते । यदि संस्थानादि रूपादन्यत् । रूपवियुक्त [संस्थान]चित्तमप्युत्पद्येत न वस्तुत उत्पद्यते । अतो ज्ञायते नान्यदिति । (पृ) पूर्वं रूपबुद्धिर्भवति पश्चात्संस्थानबुद्धिः । कस्मात् । कृष्णावदातवर्तुलपरिमण्डलबुद्धयो न युगपद्भवन्ति (उ) ह्रस्वदीर्घादिलक्षणं सर्वं रूपं प्रतीत्य मनोविज्ञाने समुत्पद्यते । यथा रूपदर्शनपूर्वकं मनोविज्ञानमुत्पद्यते । संस्कृतधर्माणां क्षणिकत्वात्स्त्रीपुंनिमित्तकर्मापि नास्ति, विज्ञानधर्मो न गतिः । अतीतं हि कर्मेत्युच्यते ।

(पृ) अतीतं कायिकं कर्म । यदि नास्त्यतीतम् । न तदास्ति कायिकं कर्म । (उ) संवृतिसंज्ञायास्ति कायिकं कर्म । न परमार्थतः । (पृ) यदि परमार्थतो नास्ति कायिकं कर्म । न स्यात्पुण्यपापमपि परमार्थतः । पुण्यपापाभावाद्विपाकोऽपि नास्ति । (उ) [कस्मिंश्चित्] धर्मे स्थानान्तर उद्धिते यदि परस्योपकारो हिंसा वा भवति । तदा सिध्यति पुण्यपापम् ॥

रूपायतनलक्षणवर्गः पञ्चपञ्चाशः ।


५६ शब्दलक्षणवर्गः

(पृ) कस्मान्नोच्यते शब्दमुपादाय महाभूतानि भवन्तीति । (उ) शब्दो रूपादिविनिर्मुक्तः । रूपादयश्च [शब्दा] संप्रयुक्ताः । अतो नोच्यते । शब्दश्च न रूपादिवन्नित्यसन्तानः । (
१५०) नापि च रूपादिभि सहजातः । रूपादिभ्यश्चान्यथा जातः । कस्मात् । रूपादीनि सहजातानि क्रमशो मूलाङ्कुरक्रमेण भवन्ति । शब्दस्तु न तथा भवति । शब्दश्च पदार्थाल्लब्धनामकः । यथा वदन्ति घटशब्द इति । न तु वदन्ति घटे शब्द इति । कदाचिद्वदन्ति घटं पश्यामीति । कदाचिद्वदन्ति घटरूपं पश्यामीति । न तु वदन्ति घटं शृणोमीति । केवलं वदन्ति घटशब्दं शृणोमीति । सत्त्वानां पूर्वाक्षिप्तकर्मवासनत्वाद्यदि पदार्था नित्यं सशब्दाः स्युः तदा न तात्कालिकः [शब्दः] । तस्माच्छब्दो न महाभूतानां साधनहेतुः ।

(पृ) पदार्थाः सशब्दा इति केनेदं ज्ञायते । सम्मर्दे शब्द उदेति । महाभूतानां सदा मिथः सम्मर्दात्सर्वं सशब्दं स्यात् । (उ) न पदार्थानां मिथः सम्मर्दः सर्वः शब्दहेतुः । कस्मात् । चक्षुषा पश्यामः खलु नाङ्गुलिद्वयसम्मर्दश्शब्दजनक इति । (पृ) तत्र शब्द उत्पद्यते । सौक्ष्म्यान्न ज्ञायते । (उ) नोत्पद्यते [तत्र शब्दः] यावत्सूक्ष्मशब्दस्याप्यश्रवणात् । यो वदति अस्ति शब्द इति । तस्य प्रत्यक्षे श्रद्धा न स्यात् । परोऽपि वदेत्- अस्त्युदके गन्धः । सौक्ष्म्यान्न जिघ्र्यते । अस्ति तेजसि रसः । सन्ति वायावाकाशे च रूपादय इति । न सन्ति वस्तुतः । अतो न सर्वः सम्मर्दः शब्दजनकः ।

(पृ) संवृतितः सदा वदन्ति शब्द आकाशगुण इति । केनेदानीं ज्ञायते चतुर्महाभूतज इति । (उ) प्रत्यक्षं पश्यामः खलु शब्दं चतुर्महाभूतजम् । अस्मद्दर्शनस्य प्रत्यक्षपूर्वकत्वात् । वदन्ति च घण्टाशब्दो भेरीशब्द इति । अतो ज्ञायते घण्टाभेर्योरयं शब्द इति । चतुर्महाभूतेभ्योऽन्यत्वात्शब्दो विशिष्यते यथा घण्टाभेरीशब्दावन्यौ । ताम्रभाजनवेधे कम्पितशब्दः सह भवति । गृहीते च सह शाम्यति । कम्पितभाजनशब्दोऽप्येवमिति ज्ञेयम् । शब्दं करिष्यनवश्यं चातुर्भौतिकं बिम्बमाकांक्षते । अतो ज्ञायते चतुर्महाभूतजः शब्द इति ।

कर्मकारणश्च शब्दो विशिष्यते । यथा सत्त्वानां ध्वनिः कदाचित्कर्कशः कदाचिन्मधुरः । न कर्मकारणेनाकाशे गुण उत्पद्येत । अतो न [स आकाशगुणः] । हेतुलक्षणत्वाच्च । हेतुलक्षणञ्च- यो धर्मो यस्माद्भवति । स [तभ्य] हेतुः । एवं कारणमहाभूतेषु सत्सु शब्दो भवति । असत्सु न शब्दः । यथा तेजसि सत्यौष्ण्यं नासति । इति ज्ञातव्यं तेजस औष्ण्यं भवतीति । महाभूतजः शब्दोऽप्येवम् । यथाकाशौष्ण्ययोः सत्ता । (
१५१) आकाशे वर्तमानेऽपि औष्ण्यमस्ति कदाचित्कदाचिन्नेत्याकाशो नौष्ण्यकारणमिति ज्ञेयम् । तदा शब्दोऽपि । यथाकाशभावे शब्दभावः । आकाशे वर्तमानेऽपि शब्दः कदाचिदस्ति कदाचिन्नास्ति । अतो ज्ञायतेऽकारणमिति । शब्द आकाशगुण इतीदं न श्रद्धेयम् । दृष्टे तावन्न पश्यामः शब्दः आकाशमुपादत्त इति । नाप्यनुमानम् । तत्र केनानुमानं भवेत् । सूत्रग्रन्थे च बहूनि विरुद्धानि । एवं नास्त्येकमपि श्रेअद्धेयम् । अतोऽयुक्तमिति ज्ञायते ।

शब्दलक्षणवर्गः षट्पञ्चाशः ।


५७ गन्धलक्षणवर्गः

(पृ) तमालपत्रादिनानागन्धसमवायात्तद्गन्धो मौल- [गन्धा]दन्यः । किं तेषामेव गन्धो गन्धान्तरमुत्पादयति ? । (उ) गन्धकलापहेतुकं गन्धान्तरमुत्पद्यते । यथा नीलपीतरूपसङ्करे हरितरूपमुत्पद्यते । विभिन्नकर्मप्रत्ययाच्च विभिन्नगन्ध उत्पद्यते ।

औलूक्या वदन्ति पृथिवीमात्रगुणो गन्ध इति । कथमिदम् । (उ) नास्ति द्रव्यमितीदं प्रदर्शितमेव । अतोऽयुक्तमिति ज्ञायते ।

वैशेषिकाः पुनराहुः- कांस्यत्रपुसीस[लोह]सुवर्णरजतताम्रादयस्तैजसा इति । तत्रापि गन्धोऽस्तीत्यतो ज्ञायते न पृथिवीमात्रेऽस्तीति । (पृ)कांस्यादौ पृथिवीयोगाद्गन्धः । (उ) नायमागन्तुको गन्धः । कस्मात् । पूर्वमन्यस्मिन् द्रव्येऽनाघ्रातोऽयं गन्धः । यो घ्रातपूर्वः स आगन्तुको वक्तव्यः । यथा पूर्वं कुसुमे गन्धमाघ्राय पश्चाद्वस्त्रे जिघ्रतः अयमागन्तुकः संभवति । नैवं भवति कांस्यादीनां गन्धः । अतोऽहेतुः । कांस्यादीनामसति निर्गन्धसमये न वक्तव्यमागन्तुक इति । ममापि सम्भवति नोदकादादौ रूपादीनि सन्ति । पृथिवीयोगात्तु केवलमुपलभ्यन्त इति । यदि ब्रवीषि जलादावस्ति रूपं स्वत इति । (
१५२) वयमपि वदेम कांस्यादौ स्वत एव गन्धोऽस्तीति । यो धर्मो यस्य वस्तुनोऽविनिर्भागवर्ती स तस्यास्ति । अतो यो गन्धो यत्राविनिर्भागवर्ती स तस्यैव द्रव्यस्य गन्धः । जलादौ च यद्यस्ति गन्धः सौक्ष्म्यान्नोपलभ्यते । तदा को दोषः । यथा वदन्ति- अस्ति चन्द्रमसि तेजः तेजसः प्रतिनियतोष्णता इति । वदन्ति च घर्मगृहेऽग्न्यपगमेऽपि शिष्यमाणस्य धर्मणोऽस्ति सूक्ष्मं रूपमिति । यवागावस्ति सूक्ष्मं शीतलक्षणमिति च । तथा जलेऽपि गन्धोऽस्ति । न तत्रास्ति नियमहेतुर्यज्जलेगन्धो नास्तीति वक्तम् ।

किञ्च भवतो द्रव्याण्यनियतलक्षणानि भवत्नि । कस्मात् । भवता प्रतिज्ञातम् "व्यवस्थितः पृथिव्यां गन्ध" इति । वज्रस्फटिकादीनान्तूज्वलविकृतत्वात्पार्थिवत्वेऽपि नास्ति गन्धः । ब्रवीषि च "अप्सु शीतता" इति । क्षीरादीनां नियतशीतत्वेऽपि घृतादीनां गन्धवत्त्वात्पार्थिवत्वमुच्यते । आह च "तेजस उष्णता" इति । कांस्यादीनां तैजसत्वेऽपि नोष्णता । चन्द्रादयः शीता अपि तैजसा इति ब्रवीषि । इत्येवमादिभिर्द्रव्याणि न नियतलक्षणानि भवन्ति ॥ तस्माद्गन्धः पृथिवीमात्रे विद्यत इतीदमयुक्तम् । कांस्यादयस्तैजसा इति यद्भवतो मतम् । तदप्ययुक्तम् । कस्मात् । उष्णतानियमाभावात् । औलुक्या वदन्ति- तेजस उष्णता व्यवस्थितेति । कांस्यादयस्त्वनुष्णाः । (पृ) कांस्यादीनामुष्णता कार्ये वर्तते । न तु स्पर्शे । (उ) घृतं कार्यतः शीतमिति आप्यं स्यात् । भवतस्तु मतं गन्धवत्त्वात्पार्थिवमिति । अतः कार्यत इति वचनं न हेतुः कल्पते । हरीतकीफलमात्रे उष्णता नियतेति तैजसद्रव्यं स्यात् । वस्तुतस्तु गन्धवती पञ्चरसवतीति न तैजसद्रव्यमित्युच्यते । कार्यत इति वचनस्याहेतुत्वात् । कांस्यादीनि न तैजसद्रव्याणि । तेजसो लक्षणं लघुत्वं कांस्यादीनां गुरुत्वं, तेजसो रूपं भास्करं शुक्लं कांस्यादीनान्तु अभास्वरम् । कांस्यांदीनां तेजसा वैलक्षण्येऽपि तानि तैजसद्रव्याणीति ज्ञाप्यन्ते । तानि च तेजसो विरुद्धानि । कस्मात् । (
१५३) अग्निसंयोगेऽपचयात् । यदि तैजसानि, अग्निसंयोगे विवर्धेत । न तु विवर्धते । अतो न तैजसद्रव्याणि । असम्यक्चिन्तनात्ब्रवीथ यूयं- गन्धः पृथिवीमात्रे विद्यत इति । परन्तु स गन्धश्चतुर्षु सङ्घातेषु वर्तते ।

गन्धलक्षणवर्गः सप्तपञ्चाशः ।


५८ रसलक्षणवर्गः

रसो नाम मथुराम्ललवणकटुतिक्तकषायादयाः । इमे षड्रसाः पदार्थवशाद्विशिष्टा भवन्ति । न तु चतुर्षु महाभूतेषु तारतम्येन भवन्ति । यथा वदन्ति पृथिव्या अपां बाहुल्येन मधुर इति । तदयुक्तम् । मधुरस्याप्रमाणा विशेषा भवन्ति । अतो ज्ञातव्यम् - पदार्थात्पृथक्[पृथक्] स्वभावो रसो जायत इति ।

चिकित्सकावदन्ति- षडेव रसा इति । कथमिदम् । षडिति नातिसीमा । कस्मात् । कदाचिद्वयो रसयोः समवायः, कदाचित्त्रयाणाम्, कदाचिच्चतुर्णामित्येवमप्रमाणाः । न तु मधुराम्लसमवायान्मधुराम्लौ भवतः । मधुराम्लसमवाये पुनारसान्तरमुत्पद्यत इत्येवमप्रमाणाः । संवृत्या रसा विभक्ताः यथा जना मन्यन्ते मधुरं मधुरमेव भवतीति । रसानां पाककालः पृथक्पृथग्लक्षणस्य हेतुः । मधुररसः पाककालेऽमृतमेव भवति विक्रियते वा । तथान्येऽपि रसाः । अतो धर्माणामस्तीदृशः प्रभावः । न तु षण्मात्रा [रसा] इति ॥

रसलक्षणवर्गोऽष्टपञ्चाशः ।


५९ स्पर्शलक्षणवर्गः

स्पर्शो नाम कठिनं मृदु गुरु लघु प्रबलं दुर्बलं शीतमुष्णं कर्कशं श्लक्ष्णं कृशं श्थूलं प्रश्रब्धिः क्लमथमक्लमथं रोगो विशेषो वा कायतैक्ष्ण्यं कायमान्द्यमालस्यं गौरवं सम्मूर्छनं (
१५४) सम्मोहः स्तम्भर्न व्यथा शूलं विजृम्भिका जिघत्सा पिपासा सन्तृप्तिः सातं विसातं मौरर्व्यमित्यादयः ।

(पृ) केचिदाहुः- त्रयः स्पर्शाः शीत उष्णोऽनुष्णाशीत इति । कथमिदम् । (उ) काठन्यादिषु ज्ञानमुत्पद्यते । काठिन्यादीन् विहाय नास्ति शीतोष्णज्ञानम् । (पृ) औलूक्या वदन्ति- पृथिव्या अनुष्णाशीतस्पर्शस्तथा वायोरपि स्पर्शः । अपां शीतस्पर्शः तेजस उष्णस्पर्श इति । कथमिदम् । [तादृश]नियमो नास्तीति पूर्वमेवोक्तम्- यदुत सर्पिरादीनां नियता शीतता कांस्यादीनामनुष्णतेति । किञ्चोक्तं पूर्वं त्रिषु स्पर्शेषु यदि वायवीय आगन्तुकः तदा स्पर्शान्तराभावाद्वायुरनियतलक्षणः स्यात् । इति । यवागौ शीलक्षणानुपलम्भादपामनियतं शीतलक्षणं स्यात्त् ।

(पृ) यवागावस्ति सूक्ष्मं शीतलक्षणम् । तेजसाभिभूतत्वान्न ज्ञायते । केनेदं ज्ञायते । तेजःशक्तौ क्षीणायां पुनःशीतस्योदयात् । (उ) कांस्यादीनि सर्पिरादीनि च कठिनद्रव्याणि अग्निसंयोगाद्रवी भवन्ति । यदि काठिन्येऽविनष्ट एव द्रवत्वमस्ति । तदा काठिन्यमेव द्रवत्वं स्यात् । यदि काठिन्ये विनष्टे द्रवत्वं भवति । तदा शीतस्पर्शे निरुद्धे पुनश्शीतस्पर्श उत्पद्येत । यथानुष्णाशीतः पृथिवीस्पर्शः । अग्निसंयोगे स स्पर्शो यदि न विनष्टः । तदा न पाको भवेत् । यदि विनष्टः । तदा स एव स्पर्शः स्पर्शान्तरमुत्पादयेत् । (
१५५) एवञ्च शीतस्पर्शे विनष्टे पुनश्शीतस्पर्श उत्पद्येत । तथा चेदपां गुणा अपि पच्येरन् । भवांस्तु विपर्ययं दुष्टं ब्रवीति । विरोधिधर्मसन्निपाते सर्वाण्यनित्यानि । यथाग्निसंयोगात्तृणादीनि नश्यन्ति । यद्याह- उष्णस्पर्शः शीतस्पर्श [तया] परावर्तत इति । [तदा] परोऽपि ब्रूयात्पयोलक्षणमनिरुध्य केवलं दधिलक्षणं परावर्तत इति । तत्तु नोपलभ्यते । यदि ब्रवीषि न पश्यामः पयः पुनः पयोरूपेणेति । एवञ्च न पाकवत्स्यात् । कस्मात् । अनादौ संसारे किं द्रव्यं नाग्निना दग्धं भवति । दृष्टा च भूमौ सध्रूममृतुपलभ्यमाना । ज्ञातव्याञ्च पाकात्व्यावृत्तेति । अतो ज्ञायते पाको न नित्योऽपरावृत्त इति । एवञ्च शीतस्पर्शे विनष्टे पुनः शीतस्पर्श उत्पद्यते । कदाचिदग्निसंयोगात्कृष्णरूपे विनष्टे पुनः कृष्णरूपमुत्पद्यते । रक्तरूपे विनष्टे पुनारक्तरूपमुत्पद्यते । एवं शीतस्पर्शो विनष्टः सन्नग्निवियोगे पुनरुत्पद्यते । तत्र को दोषः ।

वैशेषिका वदन्ति- पृथिवीमात्रे पाको भवति नाप्सु इति । भिषजस्तु वदन्ति- यस्तप्तां यवागूं पाति स विजातीयं फलं लभत इति । यदि यवागौ रूपादीनां नास्ति [पाकः] । विजातीयफलवत्तानिष्ठाभङ्गः । अतो ज्ञायतेऽबादयोऽपि पाकवन्त इति । यथाग्निपक्वद्रव्यस्य पूर्वगुणविनाशात्पुर्नर्गुणान्तरवत्त्वात्ज्ञायते द्रव्यं विजातीयगुणवदिति । एवमापोऽपि । लक्षणानां विरोधाच्चानित्यता । यथापोग्निं निर्वापयन्ति । अग्निरापः परिपाचयति । नाद्रव्यं परिपाचयति तेजोबलम् । अपि चाग्निसंयोगेन शीतस्पर्शोऽपगच्छति । तस्माद्वैशेषिकसूत्रम्- शीतस्पर्शवत्य आप इतिदमयुक्तम् ॥

स्पर्शलक्षणवर्ग एकोनषष्टितमः ।


(
१५६)
६० अथ दुःखसत्यस्कन्धे विज्ञानाधिकारे अचैतसिकस्थापनम्

चित्तं मनोविज्ञानमित्येकस्यैव विभिन्नानि नामानि । यत्धर्मालम्बनं तच्चित्तमित्युच्यते । (पृ) तथा चेद्वेदनासंज्ञासंस्कारादयश्चैतसिका अपि चित्तानि स्युः । सर्वेषामालम्बकत्वात् । (उ) वेदनासंज्ञासंस्कारादयश्चित्तविशेषस्याख्या भवन्ति । यथा मार्गवर्गे स्मृतेरेकस्या एव पञ्च नामान्यु[च्यन्ते] स्मृत्युपस्थानं स्मृतीन्द्रियं स्मृतिबलं स्मृतिसम्बोध्यङ्गं सम्यक्स्मृतिरिति । तथा वीर्यादयोऽपि । यथा चैकस्या अनास्रवप्रज्ञाया दुःखभावना, सम्बोधिरित्यादीनि नाना पृथक्पृथङ्नामानि भवन्ति । एक एव समाधिः ध्यानं विमुक्तिः निस्सृतिः समापत्तिरित्युच्यते । एवमेकमेव चित्तं यथाकालं विशेषाख्यां लभते । अतो ज्ञायत एकमेव चित्तमिति । कस्मात् । यथोक्तं सूत्रे- तस्य कामास्रवाच्चित्तं विमुच्यते अविद्यास्रवच्चित्तं विमुच्यत इति । यद्यस्ति पृथक्चैतसिकम् । चैतसिकाच्चित्तं विमुच्यत इति ब्रूयात् । अपि चोक्तं सूत्रे- यदा भगवान् सत्त्वानां कल्लचित्तं मृदुचित्तं दान्तचित्तं विमुक्तिलाभप्रवणताञ्च प्रजानाति । ततश्चतुस्सत्यान्युपदिशति इति । तत्र न चैतसिकमुक्तमस्ति । अपि चोक्तं सूत्रे- चित्तसंक्लेशात्सत्त्वाः संक्लिश्यन्ति चित्तव्यवदानात्सत्त्वा विशुध्यन्ति । इति । किञ्चाह- यो भिक्षुश्चत्वारि ध्यानान्युपसम्पद्य विशुद्धाकोप्यचित्तो (
१५७) भवति । स दुःखं समुदयं निरोधं मार्गमार्यसत्यञ्च यथाभूतं प्रजानाति इति । द्वादशनिदानेषु च संस्कारप्रत्ययं विज्ञानमित्युच्यते । आह च षड्धातुरयं पुरुष इति । किञ्चाह- चपलता न चित्तादत्येति । इति । अपि चोक्तं सूत्रे राष्ट्रपालमाहूयावदतिदं वस्तु पुनः पुनराजवज्जवं महाराज चित्तं वदामि इति । आह च आध्यात्मिको विज्ञानकायो बाह्यं नापरूपमिति द्विधा भवति । इति । विज्ञानकायोऽस्तीति मात्रमाह न चैतसिकमस्तीति । किञ्चाह- त्रयाणां सन्निपातः स्पर्श इति
। यदि चैतसिकमस्ति न ब्रूयात्"त्रयाणाम्" इति । उच्यते तु वस्तुत स्त्रयाणामिति । अतो ज्ञायते चित्तमात्रमस्ति न चैतसिकमस्ति पृथगिति ॥

दुःखसत्यस्कन्धे विज्ञानाधिकारेऽचैतसिकस्थापनवर्गः षष्टितमः ।


६१ चैतसिकस्थापनवर्गः

(पृ) चित्तमन्यत्चैतसिकधर्मा अन्ये । कस्मात् । चित्तचैतसिकानां सम्प्रयोगात् । यदि न सन्ति चैतसिकधर्माः । तदा सम्प्रयोगो न स्यात् । अस्ति तु सम्प्रयोगः । अतो ज्ञायते सन्ति चैतसिकधर्मा इति । यद्भवतां मतं- चित्तमन्येन चित्तेन सम्प्रयुज्यत इति । तदयुक्तम् । कस्मात् । उक्तं हि सूत्रे- दूरङ्गममेकचरमशरीरं गुहाशयमिति । तत्र सधर्मतामात्रं प्रतिषिध्यते । चैतसिकसहचरत्वेऽपि एकचरमित्युच्यते । यथा भिक्षुरेकाकी सन् सत्स्वपि मशका[दि]प्राणिषु सजातीयो नास्तीति एकाकीत्युच्यते । अतो (
१५८) ज्ञायते नान्यचित्तेन चित्तं सम्प्रयुज्यत इति । अस्ति तु सम्प्रयोग इत्यतोऽस्ति चैतसिक [धर्मः] । चित्तञ्च सप्तधातुभिरेकायतनेन एकस्कन्धेन च सङ्गृहीतम् । चैतसिकास्तु एकेन धातुना एकेनायतनेन त्रिभिः स्कन्धैश्च सङ्गृहीताः । चित्तमाश्रयः चैतसिका आश्रिताः । यथोक्तं सूत्रे- चैतसिकाश्चित्तं निश्रित्य समुदराचरन्ति । इति । यदि न सन्ति चैतसिकाः । तदा न स्युः पञ्चस्कन्धाः । न तु तत्सम्भवति । तयोश्च द्वयोरुत्पत्तिर्भिद्यते । द्वाभ्यां चित्तमुत्पद्यते । त्रिभिश्चैतसिकाः । यथोक्तं सूत्रे- चक्षुः प्रतीत्य रूपञ्च चक्षुर्विज्ञानमुत्पद्यते । त्रयाणां सन्निपातः स्पर्शः । स्पर्शप्रत्यया वेदना इति । आह च- नामरूपसमुदयाद्विज्ञानसमुदयः । स्पर्शप्रत्ययाद्वेदनासमुदय इति । चैतसिका आश्रयसंप्रयुक्ताः । सममेकालम्बना एकाध्ववर्तिनश्च । नैवं चित्तं भवति । तादृशविभागात्ज्ञायते चित्तमन्यत्चैतसिका अन्य इति । चतुर्षु प्रतिशरणेषु ज्ञानप्रतिशरणं [विशिष्ट]मुच्यते । न विज्ञानप्रतिशरणम् । यदि ज्ञानमेव विज्ञानम् । कथमिदं प्रतिशरणवचनं स्यात् । अतो ज्ञायते ज्ञानं न विज्ञानमिति ।

भगवान् स्वयमाह- ये चित्तजाश्चित्तनिश्रितास्ते चैतसिका इति । न चाह भगवान् चित्तमात्रमस्ति । न चैतसिका इतीममर्थम् । परोऽपि वदेत्- चैतसिकाः सन्ति न चित्तमिति । संज्ञामात्रमिति चैतासिकान् दूषयसि । चित्तमपि संज्ञामात्रमिति दूषयिष्यामि । कारित्रभेदाद्धर्माणां लक्षणं भिद्यते । यथापः स्नेहयन्ति । तेजः परिदहति । एवं वेदनादीनां कारित्रभेदात्ज्ञायते विभिन्नलक्षणमिति । उक्तञ्च सूत्रेषु- चित्ते वितर्क उदभूदिति । अतश्चित्तादन्ये चैतसिका इति ज्ञायते । न हि चित्ते स्वचित्तमुत्पद्येत । यथोक्तं- चित्तसंक्लेशात्सत्त्वाः क्लिश्यन्ति । चित्तव्यवदानात्सत्त्वा विशुध्यन्ति । इति । यदि चित्तमात्रमस्ति । तदा संक्लेशो व्यवदानञ्च निर्हेतुकं स्यात् । पुरुषस्याविद्यया (
१५९) संक्लेशः प्रज्ञया व्यवदानमिति न भवेत् । आत्मैव संक्लेश आत्मैव व्यवदानमिति स्यात् । तत्तु न सम्भवति । अतः सन्ति चैतसिकाः ॥

चैतासिकस्थापनवर्ग एकषष्टितमः ।


६२ नाचैतसिकवर्गः

भवता यद्यप्युक्तं धर्मालम्बनं चित्तं चित्तविशेषाश्चैतसिका मार्गवर्गोक्तवतिति । तदयुक्तम् । कस्मात् । सूत्रे चित्तलक्षणं पृथक्चैतसिकलक्षणञ्च पृथगुच्यते । विजानातीति विज्ञानक्षणम् । सुखदुःखानुभवो वेदनालक्षणम । [नीलपीतादि]संज्ञानं संज्ञालक्षणम् । अभिसंस्करणं संस्कारलक्षणम । अतश्चित्तमन्यत्चैतसिका अन्य इति । यदुक्तं- चित्तं विमुच्यत इति । तदयुक्तम् । उक्तमन्यस्मिन् सूत्रे- अविद्याविसंयोगात्प्रज्ञा विमुच्यत इति । न चित्तमात्रं विमुच्यत इति । चित्तस्य प्राधान्याच्चित्तमात्रमुक्तम् । लौकिकाः सर्वे भूयसा चित्तमेव विजानन्ति । न चैतसिकान् । अतो भगवानेकदेशमाह । सूत्रे भगवान्न परिनिष्ठितं वक्ति इदमस्याधिवचनमिति । यथाह सूत्रम्- एकं धर्मं प्रजहीथ अहमाजानामि अनागामिमार्गं प्रतिलभध्वे यदिदं कामच्छन्दम् । इति । वस्तुतस्तु नैकदेशप्रहाणेन तद्भवति । तथेदमपि । अनेन कल्लचित्ताद्यपि प्रत्युक्तम् । यदुक्तं बाह्यमाध्यात्मिकमिति धर्मो द्विधा भवतीति । तदप्ययुक्तम् । यदुक्तं बाह्यं नामरूपमिति स एव चैतसिक[धर्म] इत्युच्यते । बाह्यायतनसङ्गृहीतत्वाद्वाह्यमित्याख्या ।

तत्र भगवान् त्रीणी वस्तून्याह । य आध्यात्मिकोऽस्ति विज्ञानकायः । तदेवेन्द्रियेण सह विज्ञानमित्युच्यते । यत्बाह्यं स एव विषय इत्युच्यते । यदुक्तं विज्ञानकायमात्रमस्तीति । तदप्ययुक्तम् । तस्मिन् सूत्र उक्तं बाह्यलक्षणं चैतसिकमेव । यदुक्तं त्रयाणां (
१६०) सन्निपातः स्पर्श इति । अयुक्तमिदमपि । स्पर्शो हि वेदनादीनां चैतसिकानां हेतूक्रियते । अतः स्पर्श उच्यते ॥

न चैतसिकनास्तितावर्गो द्विषष्टितमः ।


६३ न चैतसिकसत्तावर्गः

अत्र ब्रूमः । यदवादीः सम्प्रयोगात्सन्ति चैतसिका इति । तदयुक्तम् । कस्मात् । सर्वेषां धर्माणामेकचरत्वं पश्चात्सविस्तरं वक्ष्यते । अतः सम्प्रयोगो नास्ति । अनेन चित्तमिदमेकचरमित्याद्यपि प्रत्युक्तम् । न तत्र सधर्मता प्रतिषिध्यते । चैतसिका एव प्रतिषिध्यन्ते । यदवोचः सङ्गृहीतभेदात्सन्ति चैतसिका इति । तत्सूत्रकर्ता स्वीयां संज्ञा व्यवस्थापयामास । न भगवतः सूत्रे लक्षणसङ्ग्रह उच्यते । अतो न सन्ति । यदब्रवीः आश्रयाश्रायिभाव इति । यथा भवतो मनोविज्ञानं चित्तमाश्रयते । आश्रयत्वान्न चैतसिकमित्युच्यते । एवं चित्तं चित्तमाश्रयत इति न नामान्तरं लभते । यदुक्तम्- पञ्चस्कन्धा न स्युरिति । तदयुक्तम् । मम [मते] चित्तविशेषा एव वेदनासंज्ञादय इत्युच्यन्ते । [यथा] भवतश्चैतसिकाः पृथक्त्रयः स्कन्धा भवन्ति । यदवादीः उत्पत्तिर्भिद्यत इति । तदयुक्तम् । यदि चित्तं चैतसिकाश्च सहोत्पद्यन्ते । कस्मादुच्यते द्वाभ्यां चित्तमुत्पद्यते त्रिभिश्चैत्ता इति । यश्चित्तमात्रं ब्रवीति । तस्यायमेव न्यायः । कस्मात् । स हि ब्रवीति- पूर्वं विज्ञानस्य कालः पश्चात्संज्ञादीनामिति । यदुक्तं सम्प्रयोगालम्बनाध्वभिज्ञानं भिद्यत इति । तत्पूर्वमेव दूषितम् । सम्प्रयोगस्याभावात् । यदब्रवीः- ज्ञानप्रतिशरणं न (
१६१) विज्ञानप्रतिशरणमिति । चित्तमेव द्विधा वदामि एकं ज्ञानमपरं विज्ञानमिति । अतो ज्ञानप्रतिशरणं चित्त[माश्रयणीयं] न विज्ञानप्रतिशरणम् ।

यदाह भवान्- भगवान् स्वयमाह ये चित्तनिश्रितास्ते चैतसिका इति । चित्तोत्पन्नो धर्मश्चैतसिक इत्युच्यते । चित्तं चित्तादुत्पन्नमिति चैतसिकमित्याख्यायते । भवानाह- भगवान्नावोचन्न सन्ति चैतसिका इति । किन्तु वदामि चित्तविशेषा एव चैतसिका इति । यस्य युक्तिरस्ति [तस्य] अनुक्ताप्युक्ता भवति । एवं [यस्य] युक्तिर्नास्ति । [तस्य] उक्तापि अनुक्तेव । न तेन हेतुर्वक्तव्यः । वक्ष्यामश्च चित्तचैतासिकाः संज्ञार्था इति ।

सञ्चिनोतीति चित्तम् । वेदनादयोऽपि सञ्चयनसभागत्वात्चित्तमेव । चित्तञ्च चैतसिकैः सह चित्तादुत्पद्यत इति चैतसिकमित्युच्यते । चैतसिकमात्रमस्तीति यो वदति स वदेत्चैतसिकधर्मा अर्थाख्या इति । न वक्तव्यमिदं वस्तुतः । अतोऽहेतुः । यदुक्तं भवता कारित्रभेदादिति । चित्ते वितर्क उदभूदिति च । तदनेन प्रत्युक्तम् । कस्मात् । मम चित्तविशेषत्वादेव कारित्रं भिद्यते । चित्त उत्पन्नं चित्तमेव चित्ते वितर्क उदभूदित्युच्यते । यदवादीः संक्लेशो व्यवदानञ्च निर्हेतुकं स्यादिति । तदप्ययुक्तम् । असत्यपि चैतसिकेऽस्ति संक्लेशव्यवदानम् । अनन्यलक्षणत्वाच्च न सन्ति चैतसिकाः । कस्मात् । भवतश्चित्तसम्प्रयुक्तत्वात्चैतसिका भवन्ति । सम्प्रयोगश्च नास्तीति पश्चाद्वक्ष्यते । अतो न सन्ति चित्तादन्ये चैतसिकाः ।

न चैतसिकसत्तावर्गस्त्रिषष्ठितमः ।


६४ चैतसिकनास्तिताप्रदर्शनवर्गः

यदवोचः- लक्षणभेदात्सन्ति चैतसिका इति । तदयुक्तम् । कस्मात् । विज्ञानस्य बुद्धेर्वा [अन्येषां] सर्वेषां लक्षणादिषु नास्ति विशेषः । यच्चित्तं रूपं विजानाति सैव बुद्धिरित्युच्यते, संज्ञा इत्याद्यपि । यथा लौकिका वदन्ति यद्भवान् विजानातीमं पुरुषमिति तत्ज्ञानमेव वेदना संज्ञा इति ज्ञेयम् । यद्येषां धर्माणां प्रतिनियतं वैलक्षण्यमस्ति । (
१६२) [तद्] अभिधातव्यं स्यात् । वस्तुतस्तु नभिहितमित्यतो नास्ति वैलक्षण्यम् । यदुक्तं प्रज्ञा विमुच्यत इति । तदप्ययुक्तम् । हेत्वभावात् । चित्तवशात्संक्लेशोऽविद्या चास्ति । अस्मिन् चित्तस्कन्धे संक्लेशोऽविद्या च सर्वथा संप्रयुक्ता । यदुत अविद्यामलिना प्रज्ञा संक्लेशमलिनं चित्तमिति । तन्निर्हेतुकम् । एवमविद्याविसंयोगात्प्रज्ञा विमुच्यते । संक्लेशविसंयोगाच्चित्तं विमुच्यते इत्यपि निर्हेतुकम् । अपि चेदं सूत्रं नेयार्थकम् । यथोक्तं सूत्रे- त्रिविधास्त्रवेभ्यश्चित्तं विमुच्यत इति । अतो ज्ञायते अविद्यातोऽपि चित्तमेव विमुच्यत इति । यदुच्यते संक्लेशेभ्यश्चित्तविमुक्तिर्विहानम् । अविद्यातः प्रज्ञाविमुक्तिः प्रहाणमिति । यदि च संक्लेशेभ्यश्चित्तं विमुच्यते अविद्यातः प्रज्ञा विमुच्यत इति । व्यापादिभ्यः किं विमुच्यत इति प्रतिवक्तव्यम् । अतश्चित्तं विना न किञ्चिद्विमुच्यत इति ज्ञातव्यम् । अतश्चित्तमात्रमस्ति ।

यदाह भवान् चित्तस्य प्राधान्याच्चित्तमात्रमुक्तमिति । चित्तस्य कः प्रधानभावो यन्नास्ति प्रज्ञादीनाम् । यदुक्तं लौकिका भूयसा चित्तमेव विजानन्ति । अतश्चित्तमात्रमुक्तमिति । लौकिका भूयसा सुखं दुःखमपि विजानन्तीति वेदनादयोऽ[पि] वक्तव्याः । यदवादीः- अन्यार्थवचनं सूत्रमिति । कस्माच्चैतसिकाननुक्त्वा चित्तमात्रं वक्ति । यदवादीः- एकधर्मं प्रजहीथ [इत्यादि] । वचनस्यास्य कारणमस्ति । भगवान् सत्त्वानां क्लेशतारतम्यवशात्सदा विषादाक्रान्तचित्तः सन् वदति अयमेको धर्म इति । अस्य प्रहाणादन्येऽपि स्वयं प्रहीयन्ते । इति । अतोऽहेतुः । यदवोचः- यदुक्तं नामलक्षणं तदेव चैतसिकमिति । तत्भवतः स्वसंज्ञानुस्मरणविकल्प[मात्रम्] । नेममर्थं सूत्रं प्रतिपादयति । यदि स्वसंज्ञानुस्मरणविकल्पं करोषि । किं नात्थ नामलक्षणेन चित्तस्यालम्बनमुक्तमिति । [यस्य तु] न्यायः सम्भवति । यदुक्तं स्पर्शो वेदनादिचैतसिकानां हेतूक्रियत इति । वचनमिदं बहुधा दुष्टम् । धर्माणां ससम्प्रयोगत्वेऽपि स्पर्श एव वेदनादीनां हेतुः न वेदनादयः स्पर्शस्य । इतीदृशा दोषाः सन्ति । अतो ज्ञायते चित्तमात्रमस्ति । न पृथक्चैतसिका इति ॥

चैतसिकनास्तितावर्गश्चतुष्षष्टितमः ।


(
१६३)
६५ सम्प्रयोगनास्तितावर्गः

नास्ति सम्प्रयोगः । कस्मात् । चैतसिकधर्माणामभावात्केन चित्तं सम्प्रयुज्यते । वेदनादिलक्षणानां नैककाल्यं शक्यते । न च कार्यकारणयोर्यौगपद्यमस्ति । विज्ञानं संज्ञादीनां हेतुः । नैषां धर्माणामैककाल्यं यौगपद्यं वास्ति । अतो नास्ति सम्प्रयोगः गम्भीरे प्रतीत्यसमुत्पाद[सूत्रे]भगवानाह- अस्योत्पादादिदमुत्पद्यत इति । यथा च बीजाङ्कुरकाण्डनालपत्रपुष्पादीनि हेतुफलाभ्यां क्रमिकानि दृष्टानि । अतो भवविज्ञादीन्यपि क्रमिकाण्युत्पद्येरन् । यद्भवान्मन्यते कामादयः क्लेशा रूपस्य सह[भू]हेतवः सहजाः स्युरिति । तदयुक्तम् । न हि रूपं प्रत्येति । अनालम्बनत्वात् । चित्तचैतसिकानामालम्बनमस्ति प्रतीतिश्चास्ति । अतस्ते नैकस्मिन् काले स्युः सहभुवः । बहुप्रतीत्यभावात् । एककायश्चैकसत्त्व इत्याख्यायते । एकप्रतीतेः । यद्येकस्मिन् क्षणे बहवश्चैतसिकाः स्युः । तदा बह्व्यः प्रतीतयः स्युः । बहुप्रतीतिसत्त्वात्बहुपुरुषात्मकः स्यात् । स तु न सम्भवति । अतो नैकस्मिन् क्षणे वेदनादयो भवन्ति ।

कस्मात्पुनः षड्विज्ञानानि नैककालमुत्पद्यन्ते । (पृ) विज्ञानानि क्रमिकमालम्बनमपेक्ष्य भवन्ति । अतो नैककालिकानि । (उ) कस्य प्रतिबन्धादेकं क्रमिकमालम्बनं न क्रमशः षड्विज्ञानान्युत्पादयति । ज्ञातव्यं पूर्वं हेतुः पश्चात्कार्यमिति क्रमश उत्पादहेतुरिति । सूत्रे चोक्तम्- चक्षुषा रूपं दृष्ट्वा न निमित्तग्राही भवतीति । यन्निमित्तोद्ग्रहणं तदेव संज्ञाकर्म । अतो भगवान् विज्ञानकर्मानूद्य संज्ञाकर्म प्रतिषेधति । अतो ज्ञातव्यं कस्यचिद्विज्ञानमस्ति न संज्ञेति । यो निमित्तं गृह्णाति स दृष्ट्वा गृह्णाति न दर्शनकाले । अतो ज्ञायते विज्ञानादीनि क्रमिकानीति । किञ्चोक्तं सूत्रे- चक्षुषा रूपं दृष्ट्वानुप्रहृष्टचेतनो भवति इति । अत्रापि पूर्वं विज्ञानकर्मोक्तं पश्चाद्वेदनादीनि । किञ्चोक्तं सूत्रे- दृष्टिर्दर्शनमिति । अतो ज्ञायते न सर्वं चित्तं वेदनादिसमन्वितमिति । पञ्चविज्ञानानां लक्षणेन चेदं स्पष्टं भवति । कस्मात् । यश्चक्षुर्विज्ञेये प्रियाप्रियनिमित्तं साम्यनिमित्तञ्च न गृह्णाति । तस्य (
१६४) नास्ति संज्ञा नापि दौर्मनस्यं वा । विकल्पाभावात् । केचिदाहुः तस्यापि कामादयः क्लेशा न सन्तीति । अतो ज्ञायते नास्ति वितर्क इति । पर्येषकानन्तरभावी वितर्क इत्युच्यते । तच्च पश्चाद्वक्ष्यते । अतो ज्ञायते पञ्चविज्ञानामपि वितर्को नास्तीति । किञ्च भवतः पञ्च विज्ञानानि न विकल्पकानि । तत्र कथं वितर्कविचाराभ्यां भाव्यम् । चेतनाविकल्पः पूर्वर्भौदारिकः सन् पञ्चात्सूक्ष्मो भवतीत्यतो वितर्कविचारौस्तः । यदि पञ्चविज्ञानेषु वितर्कविचारौ स्तः । तद्यथा वदसि मयि तव ज्ञापनाय प्रथमत एवाभ्यूहाधीनो वितर्क उत्पद्यत इति । तदा वितर्ककालः । असत्यां विज्ञापनेच्छायां कथमस्ति वितर्कः ।

केचिदाहुः- पञ्चविज्ञानेषु संज्ञास्ति वितर्क इति । स च वितर्कः संज्ञामुपादायोत्पद्यते । कथञ्च संज्ञाकाले वितर्को भवति । अतोऽभ्युपेयं पञ्च विज्ञानानि असंज्ञानि अवितर्कानि अविचाराणीति । कस्मात् । न हि पञ्चविज्ञानेषु स्त्री पुरुष इति विकल्पोऽस्ति । नापि वेदनादिविकल्पः । केन तत्र विकल्प्यते । पञ्चविज्ञानानां निर्विकल्पकत्वात्तदनन्तरं मनोविज्ञानमुत्पद्यत इति युष्माभिरुक्तम् । यदि पञ्चविज्ञानेषु (
१६५) विकल्पोऽस्ति । किमनन्तरोत्पद्यमानेन मनोविज्ञानेन । वितर्कविचारौ च नैकस्मिन् क्षणे स्याताम् । औदारकसूक्ष्मयोर्विरोधात् । घण्टाभिघातवत् । आद्यशब्दो वितर्क [कल्पः] । अन्त्यशब्दो विचार [कल्पः] । स दार्ष्टान्तिकोऽप्येवम् । यदि पञ्चविज्ञानेषु वितर्कविचारौ स्तः । तयोः कर्म वक्तव्यम् । न वक्तुं वस्तुतः सम्भवति । [अतो] ज्ञातव्यं चित्तचैतसिकाः क्रमिका इति । अविद्या प्रज्ञा च विरुद्धे न युगपत्स्याताम् । कथमेकस्मिन् क्षणे ज्ञानमज्ञानञ्च भवेत् । नह्येकस्मिन् चित्ते संशयस्य प्रसङ्गोऽस्ति । कस्मात् । स्थाणुर्वा पुरुषो वेति नैकस्मिन् चित्ते समुदाचरति । चित्तव्यापारस्येदृशसामर्थ्याभावात् ।

कश्चिदाह- चैतसिके स्मरणमतीताध्वसञ्चरणमिति । प्रत्युत्पन्नालम्बनं चित्तं कथं [तथा] भविष्यति । अयं पुरुषो मम ज्ञातो मामुपकृतवानिति यत्स्मरणम्, स्मृत्वा च प्रीतिजननं तत कथमेकस्मिन् चित्ते स्यात् । इच्छानिच्छा च कथमेकस्मिन् चित्ते भवेत् । यथोक्तं सूत्रे- यो भिक्षव आत्मधर्माभिरतः, तस्य धर्मो वर्धते । योऽनभिरतः तस्य धर्मो हीयत इति । तत्कथमेकस्मिन् चित्ते भविष्यति । यद्येकस्मिन् चित्ते चैतसिकोऽस्ति । तदा धर्मो व्यामोहः स्यात् । कस्मात् । एकस्मिन्नेव हि चित्तेऽस्ति ज्ञानमज्ञानं संशयो निश्चयः श्रद्धाश्रद्धा वीर्यं कौसीद्यमित्येवमाद्या दोषाः । सर्वे च चैतसिका एकस्मिन चित्ते परिनिष्ठिताः स्युः । कस्य प्रतिबन्धात्सुखं दुखं रागो द्वेष इत्यादयो न भवन्त्येकस्मिन् चित्ते । यद्याह भवान् सुखदुःखादयो विरोधान्नैकस्मिन् चित्ते वर्तन्त इति । ज्ञानाज्ञानादयोऽपि मिथो विरोधान्नैकस्मिन् चित्ते वर्तेरन् । अतो नास्ति सम्प्रयोगः ।

सप्तसम्बोध्यङ्गसूत्रे च भगवता चैतसिकधर्माणां क्रमिकत्वमुक्तम् । "यो भिक्षुश्चतुर्षु स्मृत्युपस्थानेषु चरति च स्मृतिसम्बोध्यङ्गं भावयति । स्मृतौ चित्तं धर्मान् प्रविचिनोति । धर्माणां प्रविचयाद्विर्यमारभते । वीर्यबलात्कुशलधर्मान् सञ्चिनोति । चित्तस्य विमला प्रीतिर्भवति । प्रीत्या चित्तं प्रश्रभ्यति । प्रश्रब्ध्या चित्तं परिगृह्णाति । चित्तपरिग्रहात्समादधाति । समाहितत्वात्रागदौर्मनस्याभ्यामुपेक्षते । उपेक्षायां प्रजानाति" इति चैतसिकाः क्रमिका भवन्ति । अष्टाङ्गिकमार्गसूत्रेऽपि क्रम उक्तः । यः सम्यक्दृष्टिं (
१६६) लभते । स सम्यक्दृष्ट्या सम्यक्सङ्कल्पमुत्पादयति । यावत्सम्यक्समाधिम् । अनुक्रमसूत्रे च भगवानाहानन्दम् । शीलधरः पुरुषो न कौकृत्यभावाय चित्तं प्रणिदधाति । शीलधरस्य पुरुषस्य चित्तधर्मः कौकृत्यविरतिः । कौकृत्यविहीनो न तुष्टिलाभाय चित्तं प्रणिदधीत । कौकृत्यविहीनस्य चित्तस्य धर्मस्तुष्टिः स्यात् । तुष्टस्य चित्तं प्रीणाति । प्रीतमनसः कायः प्रश्रभ्यति । कायप्रश्रब्धौ सुखं वेदयते । सुखवेदनायां चित्तं समादधाति । चित्तसमाधाने तत्त्वं प्रजानाति । तत्त्वविन्निर्विद्यते । निर्विण्णो विमुच्यते । इति । अतो ज्ञायते चैतसिकाः क्रमिका इति । अष्टमहापुरुषवितर्केऽपि क्रम उक्तः । यो भिक्षुरल्पेच्छो विहरति स सन्तुष्टो भवति । सन्तुष्टः प्रविविक्तो भवति । प्रविविक्तो वीर्यमारभते । वीर्यमारभमाणः सम्यक्स्मृतो भवति । सम्यक्स्मृतः समाहितो भवति । समाहितः प्रज्ञावान्निष्प्रपञ्चो भवति । इति । सप्तविशुद्धावपि क्रम उक्तः । शीलविशुद्धिर्यावदेव चित्तविशुद्ध्यर्था । चित्तविशुद्धिर्यावदेव दृष्टिविशुद्ध्यर्था । दृष्टिविशुद्धिर्यावदेव कांक्षावितरणविशुद्ध्यर्था । कांक्षावितरणविशुद्धिर्यावदेव मार्गामार्गज्ञानदर्शनविशुद्ध्यर्था
। मार्गामार्गज्ञानदर्शनविशुद्धिर्यावदेव प्रतिपदाज्ञानदर्शनविशुद्धयर्था । प्रतिपदाज्ञानदर्शनविशुद्धिर्यावदेव प्रतिपदाप्रहाणज्ञानदर्शनविशुद्धयर्था इति । निदानसूत्रेऽपि क्रम उक्तः । चक्षुः प्रतीत्य रूपञ्च मोहभागीयाविला स्मृतिर्भवति । तत्र मोहोऽविद्यैव । मूढस्य या प्रार्थना सा तृष्णा । तृष्णार्तस्य यदभिसंस्करणं तत्कर्म । इत्येवमादि । महानिदानसूत्रेऽपि क्रम उच्यते । तृष्णाशिरस्का नव धर्मा [उक्ताः] । तृष्णां प्रतीत्य पर्येषणा । पर्येषणां प्रतीत्य लाभः । लाभं प्रतीत्य विनिश्चयः । विनिश्चयं प्रतीत्य छन्दरागः । छन्दरागं प्रतीत्य अध्यवसानम् । अध्यवसानं प्रतीत्य परिग्रहः । परिग्रहं प्रतीत्य मात्सर्यम् । मात्सर्यं प्रतीत्य आरक्षा । आरक्षां प्रतीत्य दण्डादानशस्रादानकलहविग्रहविवादाः सर्वे दुःखोपायासादयः सम्भवन्ति । इति । स्रोत आपन्नधर्मेऽपि क्रम उक्तः । सत्पुरुषं (
१६७) सेवमानः सद्धर्मं शृणोति । सद्धर्मं शृण्वन् सम्यक्स्मृतिमुत्पादयति । सम्यक्स्मृतिप्रत्ययां मार्गप्रतिपत्तिमभ्यस्यति । इति । उक्तञ्च सूत्रे- चक्षुः प्रतीत्य रूपञ्च चक्षुर्विज्ञानमुत्पद्यते । त्रयाणां सन्निपातः स्पर्श इति । चित्तचैत्ता एककालिका इति वदतस्त्रयाणां सन्निपातो नास्ति । एकैकश उत्पद्यन्त इति वदतस्तु अस्ति त्रयाणां सन्निपातः । इत्यादिकारणै र्नास्ति सम्प्रयोगः ।

सम्प्रयोगनास्तितावर्गः पञ्चषष्टितमः ।


६६ सम्प्रयोगास्तितावर्गः

(पृ) अस्ति सम्प्रयोगः । कस्मात्यः पश्यति स वेदयत अयमात्मेति । विज्ञानचित्तं तमाश्रयते । तेन सम्प्रयुक्तत्वात् । तथा संज्ञास्कन्धादयोऽपि । यदि नास्ति सम्प्रयोगः किमधीनोऽयं स्यात् । पुरुषसूत्र उक्तम्- चक्षुः प्रतीत्य रूपञ्च चक्षुर्विज्ञानमुत्पद्यते । त्रयाणां सन्निपातः स्पर्शः । तत्सहजा वेदनासंज्ञासंस्कारादय इति । अस्मिन्मते विविधं नामास्ति यदुत सत्त्वो देवो मनुष्यः स्त्री पुरुषो महानल्प इति । एवमादीनि नामानि सर्वाणि स्कन्धान् प्रतीत्य भवन्ति । यदि चित्तचैतसिकाः क्रमिकाः तदा स्कन्धद्वयं प्रतीत्य पुरुषो भवेत्न स्कन्धपञ्चकम् । कस्मात् । नातीतानागतस्कन्धान् प्रति पुरुषः सम्भवति । भवानाह- प्रत्युत्पन्ने न सन्ति पञ्चस्कन्धाः इति । कथमुच्येत पञ्चस्कन्धान् प्रतीत्य देवमनुष्यादयो भवन्तीति । उच्यते तु सर्वस्कन्धान् प्रतीत्य न स्कन्धद्वयमात्रम् । अतः पञ्चस्कन्धान् प्रतीत्य सत्त्व इत्याख्या ।

अस्ति च सूत्रे सम्प्रयोगो यदुतेन्द्रियज्ञानसम्प्रयुक्ता श्रद्धा इति । अपि चोक्तं सूत्रे- स्पर्शो वेदनासंज्ञावितर्कैः सहज इति । अपि चोक्तं- पञ्चाङ्गिकं प्रथमध्यानमिति । आह च- वेदनादयो विज्ञानस्थितय इति । यदि विज्ञानसम्प्रयुक्तम् । (
१६८) कथं विज्ञानस्थितिषु वेदनादिषु स्थितमिदं निश्रयते तिष्ठतीति । कस्मात् । नह्युच्यते विज्ञानमेव विज्ञानस्थितिरिति । किञ्चोक्तं सूत्रे- चैतसिकधर्माश्चित्तजाश्चित्तनिश्रिता इति । आह च- सत्त्वानां चित्तं दीर्घरात्रं रागद्वेषादिसंक्लिष्टमिति । यदि सम्प्रयोगो नास्ति । किं संक्लेशयति चित्तम् । चैतसिकाश्च प्रकृतितो दन्धा अन्योन्याश्रयमवलम्बन्ते नडकलापवत् । अपि चोक्तं सूत्रे- यस्मिन् समये चित्तमुद्धतं भवति । अकालस्त्रयाणां बोध्यङ्गानां यदुत धर्मप्रविचयबोध्यङ्गस्य वीर्यबोध्यङ्गस्य प्रीतिबोध्यङ्गस्य । [तत्कस्य हेतोः ।] उद्धतं चित्तं दुरुपशमं भवति । [यस्मिन् समये चित्तमुद्धतं भवति] कालस्त्रयाणां बोध्यङ्गानां भावनायै यदुत प्रश्रब्धिसम्बोध्यङ्गस्य समाधिसम्बोध्यङ्गस्य उपेक्षासम्बोध्यङ्गस्य । [तत्कस्य हेतोः उद्धतं चित्तमेभिर्धर्मैः] सूपशमं भवति । यस्मिन् समये चित्तं लीनं भवति । अकाल[स्तस्मिन् समये] त्रयाणां सम्बोध्यङ्गानां यदुत प्रश्रब्धिसम्बोध्यङ्गस्य समाधिसम्बोध्यङ्गस्य उपेक्षासम्बोध्यङ्गस्य । [तत्कस्य हेतोः । लीनं चित्तं तदेभिर्धर्मै]र्दुस्समुत्थाप्यं भवति । [यस्मिन् समये चित्तं लीनं भवति ।] काल[स्तस्मिन् समये] त्रयाणां सम्बोध्यङ्गानां यदुत धर्मप्रविचयसम्बोध्यङ्गस्य वीर्यसंम्बोध्यङ्गस्य प्रीतिसम्बोध्यङ्गस्य । [तत्कस्य हेतोः । लीनं चित्तं तदेभिर्धर्मैः] सुसमुद्धाप्यं भवति । इति । आभिधर्मिका आहुः- एककालं भावनानुयोगमनुयुक्तस्य बोधि[पक्षिका] धर्मा
न वियुज्यन्त इति । अतो ज्ञायतेऽस्ति सम्प्रयोग इति ॥

सम्प्रयोगास्तितावर्गः षट्षष्ठितमः ।


६७ नास्तिसम्प्रयोगवर्गः

यदुक्तं भवता- यः पश्यति स वेदयते स आत्मेति । तदयुक्तम् । पृथग्जना मूढा मृषादृष्टिमिमामुत्पादयन्ति । न विभजन्ति वेदनेयमिदं विज्ञानं निश्रयत इति । यदि ते विभजन्ति प्रवेशयेयुरपि शून्यताम् । ते चित्तसन्ततिं दृष्ट्वा अविभजन्तो व्यवहारमात्रासङ्गात्तथा (
१६९) वदन्ति । मूढानां व्यवहारो न श्रद्धेयः । यदवोचः- सर्वान् स्कन्धान् प्रतीत्य पुरुषो भवतीति । तत्र पञ्चस्कन्धानां सन्ततिं प्रतीत्य पुरुष इत्यतः सर्वेषां स्कन्धानां वचनम् । यथा लोके वदन्ति- सुखी दुःखी अदुःखासुखीति । नैकस्मिन् काले सम्भवन्ति तिस्रो वेदनाः । तथा स्कन्धा अपि । यब्द्रवीषि- इन्द्रियज्ञानसम्प्रयुक्ता श्रद्धा इति । सूत्रे चोक्तम्- अन्यैः सम्प्रयुक्तमिति । यथोच्यते- द्वौ भिक्षावेकत्र सम्प्रयुक्तौ । इति । आहुश्च द्वेषसम्प्रयुक्तं दुःखम् । स्नेहवियुक्तं दुःखमिति । भवतां [मते] रूपं विप्रयुक्तमपि संवृत्त्या सम्प्रयुक्तमित्युच्यते । ज्ञानश्रद्धे अप्येवम् । श्रद्धा या अनित्यतादि श्रद्दधते । ज्ञानञ्च यथाप्रतीति ज्ञानम् । उभयमेकं साधयतीति सम्प्रयुक्तमित्युच्यते । यद्भवानाह- स्पर्शाद्वेदनादयः सहजा इति । तदयुक्तम् । लोके हि किञ्चिद्वस्तु अल्पविरुद्धमपि सहचरमित्युच्यते । यथा वदन्ति शिष्येण सह चरतीति । यथा च वदन्ति राजा मान्थाता स्मृतिमात्रेण स्वर्गमारुरोहेति । तन्नैव युज्यते । पृथग्जनानां विज्ञानस्यालम्बनक्रियायां चत्वारो धर्माः क्रमिका भवन्ति- विज्ञानानन्तरजा संज्ञा, संज्ञानन्तरजा वेदना, वेदनानन्तरजा चेतना, चेतना[नन्तरजाः] सौमनस्यदौर्मनस्यादयः । तत उत्पद्यन्ते रागद्वेषमोहाः । अत उच्यते सहैवोत्पद्यन्त इति ।

यदुक्तं भवता- पञ्चाङ्गिकं प्रथमं ध्यानमिति । अस्यां ध्यानभूमौ सन्ति तानि पञ्चाङ्गानि । नत्वैककालिकानि । यथा कामधातौ तिस्रो वेदनाः । कस्मात् । पूर्वोक्त धर्माणामेव पश्चाद्भूमिः कथ्यते । वितर्कविचारौ च न संप्रयुक्ताविति पूर्वमेव प्रत्युक्तम् । यदवोचः- विज्ञानस्थितय इति । तत्सूत्र उक्ता विज्ञानस्य प्रत्यय[रूपा] स्थितिः न निश्रयरूपा । केनेदं ज्ञायते । तस्मिन्नेव हि सूत्र उक्तम्- विज्ञानं रूपं प्रतीत्य स्नेहप्रमोदाभ्यां तिष्ठति । इति । यद्युप्युक्तं भवता- यदि विज्ञानं विज्ञानं प्रतीत्य तिष्ठति । तदा पञ्च विज्ञानानि स्थितयः स्युरिति । तदयुक्तम् । कस्मात् । विज्ञप्तिकाले किञ्चिद्विजानाति । विज्ञातस्य चित्ते वेदनादय उत्पद्यन्ते । तत्र तृष्णोद्भवति उद्भूततृष्णाप्रत्ययं विज्ञानं विज्ञानस्थिति रित्युच्यते । अतो नोच्यते विज्ञानमेव विज्ञानस्थितिरिति । सप्तविज्ञानस्थितिसूत्रमिदं (
१७०) चिन्त्यम् । मास्तु यथारुतग्रहणमिति । श्रद्धयोघं तरति इति यथा वदन्ति । तदपरिनिवष्ठितं चनम् । वस्तुतस्तु प्रज्ञयोघं तरति । इदमपि तथा स्यात् ।

यदुक्तं भवता- चैत्ताश्चित्तानिश्रिता इति । तदयुक्त्म । पूर्वं हि चित्तं विजानाति । अथ संज्ञादयो भवन्ति । उक्तं हि सूत्रे- वेदनादयश्चित्तनिश्रिता इति । न कुड्या श्रितचित्रवदिमे चैतसिकाश्चित्तनिश्रिता इत्युच्यन्ते । यदवोचः- चैतसिका अन्योन्यनिश्रिता नडकलापवदिति । तदन्यसूत्रविरुद्धम् ॥ यदि समं प्रयोगः, कस्मात्चैतसिकाश्चित्तनिश्रिताः । न तु चित्तं चैतसिकनिश्रितम् । यदि ब्रवीषि चित्तं पूर्वमुत्पद्यते तन्महिम्ना चैतसिकानामाश्रय इति । तदा सिध्येदस्मदर्थः । नहि चित्त उत्पद्यमाने चैतसिकधर्माः सन्ति । यद्ब्रवीषि चित्तं क्लेशसंक्लिष्टमित्यतो ज्ञायतेऽस्मि सम्प्रयोग इति । नेयं मार्गनीतिः । यदि चित्तं प्राक्परिशुद्धं रागादिभिरागन्तुकैर्दूषितम् । तदा स एव परिशुद्धधर्मा दूष्यो भवतीति धर्मलक्षणं बाध्येत ।

यथा च पूर्वमुक्तम्- चित्तं प्रकृतिपरिशुद्धमागन्तुकमलैरपक्लिष्टमिति । तदिदं प्रतिवक्तव्यम् । यदि चित्तं प्रकृतिपरिशुद्धम् । रागादिभिः किं क्रियते । यथोक्तम्- चित्त- संक्लेशात्सत्त्वाः सक्लिश्यन्ति । चित्तव्यवदानात्सत्त्वा विशुध्यन्ति इति । तथा च सत्त्वा अपि सम्प्रयुक्ताः स्युः । यदि सत्त्वा अपि सम्प्रयुक्ताः स्युः । यदि सत्त्वा असम्प्रयोज्याः । रागादयोऽपि असम्प्रयोज्याः स्युः । सन्तत्या धावति चित्ते संक्लिष्टादिचित्तमुत्पद्यते । सन्तानानां दूषणमेव संक्लिष्टचित्तमित्युच्यते । यदुच्यते संक्लेशाच्चित्तं विमुच्यत इति । तत्चित्तसन्ततौ यद्विशुद्धचित्तमुत्पद्यते । तद्विमुक्तमित्युच्यते । इदमेव युक्तम् । यथाभ्रतुषारादयश्चन्द्रसूर्याभ्यामसम्प्रयुक्ता अपि पिधानं कुर्वन्तीति [प्रवादः] । तथा रागादयोऽपि चित्तेनासम्प्रयुक्ता अपि संक्लेशयन्तीति [वदन्ति] । धूमाभ्रमिहिकादयश्चन्द्रसूर्यौ पिदधतीति पिधानं कथ्यते । तथा रागादयोऽपि विशुद्धचित्तमावृण्वन्तीति आवरणं भवति ।

(पृ) अभ्रतुषारौ चन्द्रसूर्यौ चैककालिकौ । संक्लेशचित्ते तु नैवम् । अतो नायं दृष्टान्तः । (उ) आवरणसाम्यादयं सिद्ध इत्यतोऽनवद्यम् । संक्लेशोऽयं चित्तसन्तानं संक्लेशयतीति संक्लेश इत्युच्यते । चैतसिकाश्चित्तजाश्चित्तनिश्रिता इति यत्भवतो वचनं तत्पूर्वमेव प्रत्युक्तम् । यदवोचः- चित्तचैतसिकाः प्रकृतिदन्धा इति । तत्प्रतिक्षणविनाशित्वात्(
१७१) दन्ध इत्युच्यते । न तु साहाय्याय मिथ आलम्बने समुदाचरन्तीति । ये परस्परसहकारिणः ते कञ्चित्कालं तिष्ठेयुः । न तु वस्तुतो दृश्यते परस्परसहकारिताबलम् । [अतः]किं सम्प्रयोगेण ।

भवतो यब्दोध्यङ्गकालवचनम् । तत्त्रीणि बोध्यङ्गानि यथाकालं भावयेदित्युक्तम् । नत्वेकस्मिन्नेव क्षणे । यथाह शारिपुत्रः सप्तसम्बोध्यङ्गेषु अहं स्वतन्त्रविहारी । यस्मिन् चित्तमुद्धतं भवति । तस्मिन् समये प्रश्रब्ध्यादीनि त्रीणि बोध्यङ्गानि भावयामीति । भगवानपि सम्बोध्यङ्गानामनुक्रममबोचत् । यदाह भवान्- ऐककालिकी सम्बोध्यङ्गानां भावनेति । तदयुक्तम् । यद्यैककालिकी, सप्तत्रिंशब्दोधिपक्षिकाणां भावना । तदेककालं भावयेत्द्वे श्रद्धे पञ्चस्मृत्यादीन् । यन्मन्यसे यथाप्राप्तिस्थानं [किञ्चित्] भावयतीति । स एवा[न्यस्य] भावनावियोगः । द्वयो ध्यानादिवदन्यलब्धवशात्तु अवियोग उच्यते । यत्सप्तत्रिंशब्दोधिपक्षिकाणामेककालं भावनेति । न स मार्गनयः । कस्मात् । नह्येकदा बहवो धर्मा भावयितुं शक्यन्ते ।

नास्ति सम्प्रयोगवर्गः सप्तषष्टितमः ।


६८ चित्तबहुत्ववर्गः

(पृ) आज्ञातं न सन्ति पृथक्चैतसिकाः नास्ति च सम्प्रयोग इति । तच्चित्तमिदानीं किमेकमुत बहु । केचिद्वदन्ति- एकमेव चित्तमुत्पत्तिवशाद्बहु इति । (उ) चित्तं बहु । कस्मात् । विज्ञानमेव चित्तमित्युच्यते । रूपविज्ञानमन्यत्गन्धादिविज्ञानञ्चान्यत् । अतो बहूनि चित्तानि । चक्षुर्विज्ञानमालोकाकाशादिप्रत्ययानपेक्ष्य अन्यदेवोत्पद्यते । न तथा श्रोत्रविज्ञानम् । त्रयाणां विज्ञानं विज्ञानविषयाणां प्राप्त्योत्पद्यते । मनोविज्ञानन्तु बहुप्रत्ययेभ्य उत्पद्यते । अतो ज्ञायते नैकमिति । यद्विज्ञानं नित्यमित्येवं लक्षणं विषयं विजानाति । तत्कथं विषयान्तरं विजानीयात् । यदि बहूनि चित्तान्युत्पद्यन्ते । (
१७२) तदा ज्ञातुं शक्नुवन्ति । यथा ज्ञानं सम्यक्मिथ्या चान्यत् । ज्ञानञ्च निश्चितं सन्दिग्धं, कुशलमकुशलमव्याकृतं वा सर्वमन्यदेव । कुशले च ध्यानसमाधिविमुक्तयः चत्वार्यप्रमाणानि ऋद्धयभिज्ञादयोऽन्ये [धर्माः] । अकुशले च रागद्वेषमोहादयोऽन्ये । अव्याकृते चातीतानागतादयोऽन्ये । किञ्चिद्विज्ञानं कायिकवाचिककर्मसमुत्थापकम् । किञ्चिच्चेर्यापथसमुत्थापकम् । संयोगतो वियोगतो वा हेतुसमनन्तरालम्बनाधिपतीनां प्रत्येकं विशेषाच्चित्तानि भिद्यन्ते । विशुद्धाविशुद्धादिवेदनानां विशेषाच्च चित्तं भिद्यते । कारित्रविशेषाच्च चित्तं भिद्यते । विशुद्धमविशुद्धञ्च चित्तं प्रकृतितः प्रत्येकं भिद्यते । यच्चित्तं प्रकृतितः परिशुद्धं न तत्संक्लिष्टम् । यथा सूर्यरश्मिः प्रकृतितो विशुद्धा न कदाचिद्दूष्या भवति । यत्प्रकृतितोऽविशुद्धं न तत्विशोधयितुं शक्यते । यथा रोम प्रकृतितः कृष्णं नावदातं कर्तुमर्हति । दानादौ वस्तुतो विशुद्धं चित्तमस्ति । हिंसादौ चाविशुद्धं चित्तम् । अतो नैकं भवेत् । सुखदुःखादिवेदनानां विभागवशाच्च
चित्तमपि नैकम् । यथोच्यते भिक्षुर्विज्ञानमुपभुङ्क्ते केषां विज्ञानं यदुत सुखदुःखादुःखासुखानां विज्ञानम् । यदि चित्तमेकम्, एकमेव विज्ञानं सर्वविषयान् गृह्णीयात् । बहुचित्तवादिनस्तु यथेन्द्रियं विज्ञानमुत्पद्यते । अतो न सर्वविषयान् गृह्णीयात् । यदि चित्तमेकम् । कस्य प्रतिबन्धान्न सर्वविषयान् गृह्णाति । अतो ज्ञायते चित्तं बहु इति ।

ग्राह्यभेदाद्ग्राहकमपि भिद्यते । यथा कश्चित्कदाचित्स्वचित्तं वेदयते । कथं स्वं रूपमात्मानं वेदयते । यथा चक्षुर्नात्मानं पश्यति । असिर्नात्मानं छिनत्ति । अङ्गुलिर्नात्मानं स्पृशति । अतश्चित्तं नैकम् । यथा मर्कटोपसूत्र उक्तम्- यथा मर्कटः [अरण्य उपवने चरमाणः] शाखां गृह्णाति । ता मुक्त्वान्यां गृह्णाति । एवमेव चित्तं [रात्र्या दिवसस्य च] अत्ययेन अन्यदेवोत्पद्यत अन्यन्निरुध्यते । इति । यदि चित्तमेकम् । षड्विज्ञानकाया इति वचनं प्रणष्टं स्यात् । सूत्रेऽप्युक्तम्- कायः कदाचिद्दशवर्षाण्यपि तिष्ठते । यत्चित्त- [मित्युच्यते तत्रात्र्याश्च दिवसस्य] अत्ययेन अन्यदेवोत्पद्यतेऽन्यन्निरुध्यत इति । आह च- चित्तमनित्यस्थायीति भवितव्यम् । तच्चित्तं सन्तत्या वर्तते । न प्रतिक्षणं छिद्यते । यथा चैकं कर्म [कृतं] न पुनरादेयं भवति । एवं विज्ञानमपि नालम्बने (
१७३) सादरं वर्तते । तृणाग्निर्नेन्धने सङ्क्रामति । तथा चक्षुर्विज्ञानं न श्रोत्रं प्राप्नोति । अतो चित्तं बहु इति ॥

चित्तबहुत्ववर्गः अष्टषष्टितमः ।


६९ चित्तैकत्ववर्गः

कश्चिच्चोदयति- चित्तमेकम् । कस्मात् । यथोक्तं सूत्रे- चित्तमिदं दीर्घरात्रं कामादिभिरुपक्लिष्टमिति । यदि चित्तं नाना, न सदोपक्लिष्टं स्यात् । रत्नहारसूत्र उक्तम्- यश्चित्तं सदा श्रद्धया शीलेन त्यागेन श्रुतेन प्रज्ञया च भावयति स मृतो देवेषूत्पद्यते इति । ध्यानसूत्रे चोक्तम्- प्रथमध्यानलाभी चित्तस्य परिदमनाय प्रथमध्यानाद्वितीयध्यानमुपसम्पद्य विहरति । इति । चित्तवर्गे चोक्तम्-

मत्स्यो यथा स्थले क्षिप्त [ओकमोकत उद्धृतः] ।
परिस्पन्दतीदं चित्तं मारधेयं प्रहापयेत् ॥ इति ।

अतो ज्ञायते चित्तमेकं चञ्चलमितस्ततो धावतीति । संयुक्तपिटके च भिक्षुराह-

मर्कटः पञ्चद्वारायां कुटिकायां पसक्किय ।
द्वारेणानुपरीयाति घटयंश्च मुहुर्मुहुः ।
(
१७४)
तिष्ठ मर्कट मा [धावी]र्न हि ते तत्यथा पुरा ।
निगृहीतोऽसि प्रज्ञया नेतो दूरं [गमिष्यसी]ति ॥

अतो ज्ञायते- चित्तमेकं पञ्चेन्द्रियद्वारेषु कायकुटिकायां परिभ्रमति । सैव तत्प्रकृतिः । अत आह "मा [धावी]र्न हि ते तत्यथापुरा" । इति । आह च-

चित्तमेतत्सर्वकालं यथा दिनकरप्रभा ।
प्रज्ञावान् दमयत्येव यथा हस्तिनमङ्कुशम् ॥ इति ।

अतो ज्ञायते चित्तमेकमेवालम्बनेष्वटतीति । किञ्चात्माभावाच्चित्तमेव कर्मकृत्स्यात् । एकमेव हि चित्तं कर्माण्यभिनिर्वृत्त्य पुनर्विपाकं वेदयते । चित्तं म्रियते चित्तमुत्पद्यते चित्तं बध्यते चित्तं मुच्यते । पूर्वानुभूतं चित्तं स्मरति । अतो ज्ञायते चित्तमेकमिति । चित्तमेकं सत्सञ्चिनोति [वासनाम्] । क्षणिकस्य चित्तस्य नास्ति सञ्चयबलम् । भगवतः शासने नास्त्यात्मा । चित्तमेकं सत्सत्त्वलक्षणं भवति । यस्य चित्तं बहु । न तस्य सत्त्बलक्षणं भवति । दक्षिणेन चक्षुषा दृष्ट्वा वामेन विजानाति । नह्यन्यत्पश्यति अन्यद्विजानाति । अतो ज्ञायते । चित्तमेकमात्मना पश्यति आत्मना विजानाति इति ।

चित्तैकत्ववर्ग एकोनसप्ततितमः ।


७० न चित्तबहुत्ववर्गः

यद्यप्युक्तं भवता- रूपादीनां विज्ञानमन्यदिति । न युक्तमिदम् । कस्मात् । यदेकं चित्तं तदेव रूपशब्दादिग्रहणरूपाणि नानाकर्माणि करोति । यथैकः पुरुषः पञ्चछिद्रके गृहे स्थितः तत्र तत्र गतान् विषयान् गृह्णाति । तदेव चित्तं चक्षुषि लग्नमालोकदिप्रत्ययमपेक्ष्य रूपं पश्यति । यथा स एव पुरुष अन्यत्र सहायमपेक्ष्य [अपरं] कार्यं करोति । तस्यैव चित्तस्य विज्ञेयं विभक्तं भवति । यथा स एव पूर्वं ज्ञानी सन् पश्चादज्ञानी भवति । एवं मिथ्याज्ञानं पुनः सम्यक्ज्ञानं भवति । यथा स एव पुरुषः पूर्वं विशुद्धः पश्चादविशुद्धो भवति । एवं यत्सन्दिग्धं ज्ञानं तदेव निश्चितं ज्ञानं भवति । यथा स एव पुरुषः पूर्वं संशयितः पुनर्निश्चितो भवति । यदकुशलं चित्तं तदेव पुनः कुशलमव्याकृतञ्च भवति । यथा स एव पुरुषः कदाचित्कुशलं स्मरति । कदाचिदकुशलं कदाचिदव्याकृतञ्च स्मरति । (
१७५) तदेव चित्तमतीतानागामीर्यापथप्रभेदञ्च करोति । यथा स एव पुरुषोऽतीतानागतादौ नानेर्यापथान् करोति । एवं विशुद्धं चित्तमेवाविशुद्धं भवति । अविशुद्धमेव विशुद्धं भवति । यथा स एव पुरुषः पूर्वं प्रसन्नः पश्चादप्रसन्नो भवति । तदेव चित्तं सुखसम्प्रयुक्तं पश्चाद्दुःखसम्प्रयुक्तं भवति । यथा स एव पुरुषः पूर्वमन्यं सुखयति पश्चात्पुनर्दुःखयति । अत उच्यते चित्तमेकं बहुकर्मणे प्रभवतीति ।

यदवादीः- एकमेव विज्ञानं न षड्विवषयान् गृह्णातीति । नैकं चित्तमिति । तदयुक्तम् । मम तु इन्द्रियप्रविभागाद्विज्ञानं प्रविभज्यते । यत्विज्ञानं चक्षुषि लग्नं तत्रूपमात्रं गृह्णाति । नान्यविषयान् । अन्यदप्येवम् । यदवोचः- ग्राह्यभेदाद्ग्राहकभेद इति । तदयुक्तम् । चित्तधर्मता यदात्मानं विजानातीति । यथा प्रदीप आत्मानं प्रकाशयति अन्यानपि प्रकाशयति । यथा गणक आत्मानं गणयति अन्यानपि गणयति । एवमेकमेव चित्तमात्मानं विजानाति अन्यानपि विजानाति । भवतोक्तो मर्कटदृष्टान्तोऽयुक्तः । यथा मर्कटः शाखां गृह्णाति तां मुत्त्कापरां गृह्णाति । तथा चित्तमपि एकमालम्बनं गृह्णाति । तदुत्सृज्यापरं गृह्णाति । अतोऽन्यदुक्तमेव [यत्] स्वयमेव कर्माभिनिर्वर्तयति, स्वयमेव पुनर्विपाकं वेदयते इति संक्षिप्य प्रत्यवोचम् । कस्मात् । यदि चित्तमन्यत्, तदा अन्यत्करोति, अन्यद्वेदयते अन्यन्मृन्म्रियते अन्यज्जायत इत्यादयो दोषाः स्युः । अतो ज्ञायते चित्तमेकमिति ॥

न चित्तबहुत्ववर्गः सप्ततितमः ।


७१ न चित्तैकत्ववर्गः

अत्रोच्यते । यदब्रवीः- चित्तमेकं कामादिना चिरमुपक्लिष्टमिति । तदयुक्तम् ।

सन्तन्यमानचित्तस्यैकं लक्षणं दृश्यते । यथा वदन्ति सन्ध्यावातेव प्रभातवातः । अद्यतननद्येव पूर्वनदी । [अद्य] राजसभाप्रदीप एव ह्यस्तनप्रदीप इति । यथा दन्तः पुनर्जात इत्युच्यते । वस्तुतस्तु पूर्वदन्तो न पुर्नजातः । लक्षणसाम्येन जातः पुनर्जात (
१७६) इत्युच्यते । एवं चित्तमन्यदपि सन्तत्या चित्तमेकमित्युच्यते । यदवोचः- [पूर्वानुभूतं चित्तं] स्मरतीति । पुरुषः कदाचिदात्मनैव पूर्वचित्तं स्मरति । यत्पूर्वचित्तं तदिदानीमागतमिति किं स्मृतेन । तेनैव चित्तेन तदेव स्मर्यत इति कथं भविष्यति । नह्यस्ति स्वात्मवेदकं ज्ञानमेकम् । अतो नैकं चित्तम् ।

यब्द्रवीषि- [चित्तं] सञ्चिनोतीति । यदि चित्तं नित्यमेकम् । कः सञ्चयेनोपकारः । यदि चित्तं बहु । तदा अधरमध्योत्तमक्रमसन्तत्योत्पद्यमानत्वादस्ति सञ्चयः । भवतोक्तं चित्तं सत्त्वलक्षणमिति । यदि चित्तमेकम् । तदेव नित्यं भवेत् । यन्नित्यम् । स एवात्मा स्यात् । कस्मात् । इदानीं कुर्वन् पश्चात्करिष्यन्नित्य एकोऽविकारीत्यत आत्मा भवति । चित्तविशेषलक्षणानभिज्ञस्य चित्तमेकं भवति । प्रवाहवच्चित्तं सन्तन्यमानमेकमिति वदन्ति । यथा तैमिरिकः केशकलापमेकं पश्यति । तद्विवेचकस्तु तद्भेदं विजानाति । यस्तु प्रज्ञावान् स चित्तभेदं विजानाति । कस्मात् । ब्रह्मादयो व्यामोहगता एवं मन्यन्ते कायोऽयमनित्यः चित्तं विज्ञानन्तु नित्यमिति । यदि ब्रह्मादीनामेव व्यामोहः । कः पुनर्वादोऽन्येषां नित्येष्वासक्तानाम् । अतः कुशलचेतनाप्रत्ययसामग्रीसमुत्पन्नो धर्मो नित्यः स्यात् । तद्विपरीतस्तु क्षयी ।

यदुक्तं भवता- दक्षिणेन दृष्ट्वा वामेन विजानीयादिति । तत्ज्ञानबलादन्यत्पश्यति अन्यद्विजानाति । यथायं पुरुषो ग्रन्थं रचयति । अन्यः पुरुषो विजानाति । अनागतमजातमसद्भूतञ्चार्यज्ञानबलेन विजानाति । अतीतं वस्तु असदपि स्मृत्वा विजानन्ति अनागतमसदपि [आर्य]ज्ञानबलाद्विजानन्ति । इदं पश्चात्सविस्तरं वक्ष्यते ॥

न चित्तैकत्ववर्ग एकसप्ततितमः ।


७२ चित्तबहुत्वप्रदर्शनवर्गः

यदवोचः- चित्तमेकं बहुकर्मणे प्रभवतीति । तदयुक्तम । कस्मात् । सम्यक्प्रत्यायकात्मकं हि चित्तम्, रूपप्रत्यायनं शब्दप्रत्यायनादन्यत् । कथं चित्तमेकं भवति । यथा घटं धत्ते हस्तकर्म । न तदेव कर्मान्यद्वस्तु धत्ते । तथा येन चित्तेन रूपं गृह्यते । (
१७७) न तेनैव शब्दः श्रूयते । चक्षुर्विज्ञानमिदञ्च चक्षुराश्रयीकृत्य रूपमालम्बनीकृत्य भवति । तदुभयमनित्यं क्षणिकम् । चक्षुर्विज्ञानं कथमक्षणिकम् । यथा विना वृक्षं न च्छायान्वास्ते । एवं चक्षूरूपयोः क्षणिकत्वात्तदाश्रित्योत्पन्नं विज्ञानमपि क्षणिकम् । क्षणिकधर्मस्य नास्ति गमनशक्तिः । मनोवर्गे च पूर्वं बहुधा प्रत्युक्तमेव । अतो न मनो गच्छतीति ।

यदवादिः- विज्ञानं चक्षुषि लग्नं सतालोकमपेक्ष्य पश्यति । यथा स एव पुरुषः पश्यति शृणोति इत्यादि । तदयुक्तम् । कस्मात् । शास्त्रेऽस्मिन् धर्मणां वस्तुतत्त्वमन्विष्यते । पुरुषः प्रज्ञप्तिसन्न दृष्टान्तो भवितुमर्हति । पुरुषलक्षणञ्चान्वेष्टव्यम् । पञ्चस्कन्धाः पुरुषात्मका इति वदामः । संशयज्ञानादीनि निश्चयज्ञानादिभ्योऽन्यानि न संशयज्ञानादीन्येव निश्चयज्ञानादीनि इत्यपि वदामः । तथा सर्वं [वक्तव्यम्] ।

यदवोचः- इन्द्रियप्रविभागाद्विज्ञानं प्रविभज्यत इति । तदयुक्तम् । इन्द्रियं विज्ञानजननस्य हेतुप्रत्ययः । यदि विज्ञानमेकम् । इन्द्रियं किं करोति । [यत्] प्रदीपं दृष्टान्तत्वेन कल्पयसि । नायं दृष्टान्तो युक्तः । यथा अप्रकाशितस्य प्रकाशनं करोति प्रदीपः । न प्रदीपस्वरूपं प्रकाशयति । अतो नात्मानं प्रकाशयति । प्रदीपेनान्धकारे विनष्टे [विषयेषु] चक्षुर्विज्ञानमुत्पद्यते । तदुत्पन्नं सत्प्रदीपमपि पश्यति । घटादि द्रव्यमपि [पश्यति] गणकस्तु आत्मरूपमपि जानाति पररूपमपि जानाति । तदुच्यते लक्षणज्ञानम् ।

यदवोचः कर्मादि । तत्कर्मादिदूषणे प्रत्युक्तम् । अतो नास्ति स दोषः । यदि चित्तमेकं नित्यम् । तदास्ति कर्म नास्ति विपाकः । कस्मात् । साक्षाच्चित्तं तदाश्रित ञ्च कर्म भवति । यदि चित्तमेकम् । कः कर्मविपाकः । तथा बन्धमोक्षादिरपि यदवादीः- अन्यत्करोति अन्यद्वेदयत इति । तदप्ययुक्तम् । स्कन्धानां सन्तानो नैको नान्यः । अन्तद्वयपातापत्तेः । संवृतिसंज्ञया कर्मादीनां वचनं न तु परमार्थतः । अतः स्कन्धसन्ताने सोऽयमित्यादिसंज्ञाव्यवहार इत्यनवद्यम् । अतो ज्ञायते चित्तं बह्विति ॥

चित्तबहुत्वप्रदर्शनवर्गो द्विसप्ततितमः ।


(
१७८)
७३ किञ्चित्कालस्थायिविज्ञानवर्गः

(पृ) चित्तं बह्विति निरूपितम् । इदानीं तानि चित्तानि किं क्षणिकानि । उत किञ्चित्कालस्थायीनि । केचिदाहुः- किञ्चित्कालस्थायीनीति । कस्मात् । रूपादीनां प्रत्यायनात् । यत्क्षणिकं न तत्प्रत्याययेत् । अतो नास्थायि भवति । यदि क्षणिकं [चित्तं] तदा रूपादीनि न कदापि प्रतीयेरन् । कस्मात् । यथा विद्युत्प्रभा किञ्चित्स्थायिन्यपि न पुनः सुज्ञेया भवति । कः पुनर्वादः । क्षणिकं प्रत्याययतीति । वस्तुतस्तु प्रत्याययति । अतो ज्ञायते विज्ञानानि न क्षणिकानीति । चक्षुः प्रतीत्य रूपञ्च चक्षुर्विज्ञान[मुत्पद्यते] इत्यनयोरभेदे विज्ञानमप्यभिन्नम् । चित्तञ्च युगपदेव नीलादीनि रूपाणि गृह्णाति । अतो ज्ञायतेऽक्षणिकमिति ।

यन्मन्यसे- सन्तानतोऽध्यवस्यतीति । तदपि न युक्तम् । यद्यैकैकं चित्तं नाध्यवस्यति । सन्तानोऽपि नाध्यवस्येत् । यथैकस्मिन्नन्धे रूपमपश्यति बहवोऽपि न पश्येयुः । यदि ब्रवीषि- यथैकस्तन्तुर्न हस्तिनं प्रतिरुन्धे । बहवस्तु सञ्चिताः प्रभवन्ति । तथैकं चित्तं नाध्यवस्यति । तत्सन्तानस्तु अध्यवस्यति । इति । इदमप्ययुक्तम् । एकैकस्मिन् तन्तौ प्रत्येकमस्ति किञ्चिद्वलमिति तत्समवायः प्रभवति । चित्तस्यैकस्मिन् क्षणे नास्ति किञ्चित्प्रत्यायकबलम् । तस्मात्सन्तानोऽपि न प्रत्याययेत् । वस्तुतस्तु प्रत्याययति । अतो ज्ञायतेऽक्षणिकमिति । यदि चित्तं क्षणिकमिति । अतीतानागतादिकर्माणि निष्प्रयोजनानि स्युः । किञ्चित्कालस्थायि तु सप्रयोजनानि करोति । अतो ज्ञायतेऽक्षणिकमिति । अनित्यमपि किञ्चित्कालमवश्यं तिष्ठति ॥

किञ्चित्कालस्थायिविज्ञानवर्गस्त्रिसप्ततितमः ।


(
१७९)
७४ अस्थायिविज्ञानवर्गः

अत्र प्रतिब्रूमः । यदुक्तं भवता- चित्तं प्रत्यायकमित्यतोऽक्षणिकमिति । तदयुक्तम् । चित्तगतनिमित्तानां बलात्[चित्तं] प्रत्याययति । न स्थायिबलात् । तथा नो चेत्शब्दकर्मणो न स्यात्प्रत्यायनम् । कस्मात् । प्रत्यक्षं पश्यामः खल्विदं क्षणिकमथ च प्रत्यायकमिति । अतो ज्ञायते न स्थायित्वात्प्रत्यायतीति । सम्यक्प्रत्ययात्मकं हि चित्तम् । यन्नीलं प्रत्याययति । न तदेव पीतं प्रत्याययति । तस्मान्नीलप्रत्यायकं किञ्चित्कालस्थाय्यपि न पीतं प्रत्याययति । नीलप्रत्यायनकालोऽन्यः । अनीलप्रत्यायनकालश्चान्यः । नैको धर्मो द्वयोः कालयोः स्यात् । धर्मः कालसमन्वितः । कालश्च धर्मसमन्वितः । ग्रहो द्विविधः अध्यवसायात्मकः अनध्यवसायत्मक इति । यदि विज्ञानमक्षणिकम् । सर्वं ग्राह्यं साकल्येनाध्यवस्येत् । मम तु बहुविज्ञानसन्तानवशादुत्पन्नो ग्रहोऽध्यवस्यति । अल्पसन्ताने तु नाध्यवस्यति । विज्ञानञ्च विषयं गृह्णाति मन्दं वा क्षिप्रं वा इति चित्तस्य नास्ति नियमः ।

यदुक्तं भवता- आश्रयालम्बनयोर्नास्ति भेद इति । क्षणिकत्वात्रूपमाश्रयालम्बनमपि भिन्नमेवेत्यर्थः साधितः । यदवादीः- युगपद्गृह्णातीति । विज्ञानं सर्वकायावयवग्राहकमित्यतो युगपग्द्रह इत्युच्यते । अतो नास्त्येकं विज्ञानं सर्वग्राहकम् । कस्मात् । अपरिनिष्पन्नग्रहमेव चित्तमनुनिरुध्यते । [अतः] केन लभ्यते सर्वग्राहकं चित्तमस्तीति । यद्ब्रवीषि- कर्मक्रिया निष्प्रयोजनेति । तदयुक्तम् । यथा प्रदीपः क्षणिकोऽपि प्रकाशनोपयोगी । वायुगतकर्माणि क्षणविनाशीन्यपि पदार्थान् कम्पयन्ति । तथा (
१८०) विज्ञानमपि । यथा प्रदीपादयः क्षणिका अपि [पदार्थ]ग्रहणसमर्था भवन्ति । तथा विज्ञानं क्षणिकमपि [विषय]ग्रहणसमर्थं भवति ।

अथ चित्तमनोविज्ञानानि क्षणिकानि । कस्मात् । नीलादीरूपसङ्घातः पुरोवर्ती सन् विज्ञानमाशूत्पादयति । अतोऽस्थायीति ज्ञायते । पुरुषस्य कदाचिच्चित्तं भवति यदहमेककालं सर्वानलम्बनान् गृह्णामीति । अतो विज्ञानमस्थायि । यदि विज्ञानं किञ्चित्कालं तिष्ठति । तदा पुरुषस्य न तद्भान्तिचित्तमुत्पद्येत । कस्मात् । बीजसन्तानवत्किञ्चित्कालावस्थायित्वात् । न तत्र पुरुषस्य भ्रान्तिचित्तमुत्पद्यते । यदङ्कुरकाण्डादीन्यैकालिकानीति । अतो विज्ञानं क्षणिकमिति ज्ञायते । यो घटं पश्यति तस्यैव घटस्मृतिर्भवति । दर्शनानन्तरं स्मृतिर्भवतीत्यतः क्षणिकम् । यो वदति विज्ञानमक्षणिकमिति । तस्यैकमेव ज्ञानं सम्यङ्मिथ्या च सम्भवेत् । अयं पुरुष इति ग्रह एव अयं न पुरुष इति ग्रह इति यथा दर्शनं भवति । एवं संशयग्रह एव निश्चयग्रहः स्यात् । तत्तु न सम्भवति । अतो ज्ञायते क्षणिकमिति । विकल्पाद्यनेकप्रत्ययग्रहणात्क्षणिकमिति ज्ञायते । शब्दकर्मसन्तानश्च क्षणिकः सन् तत्र ज्ञानमुत्पादयति । अतो ज्ञायते चित्तं क्षणिकमिति ॥

अस्थायिविज्ञानवर्गश्चतुःसप्ततितमः ।


७५ विज्ञानयौगपद्यवर्गः

कश्चिच्चोदयति । चित्तं क्षणिकमिति प्रतिपादितम् । इदानीं विज्ञानानि किमैककालिकानि । उत क्रमिकाणि । केचिदाभिधर्मिका वदन्ति- विज्ञानान्यैककालिकानीति । कस्मात् । कश्चित्सर्वान् विषयानेककालं गृह्णाति । यथैको घटं पश्यन् सङ्गीतध्वनिमपि शृणोति । घ्राणेन कुसुमगन्धं जिघ्रति । मुखेन सगन्धरसं कवलयति । व्यजनवायुः कायं स्पृशति । चेतना च समीकरोत्यपशब्दम् । अतो ज्ञायते सर्वान् विषयानेककालं गृह्णातीति ।

यद्येकमेव विज्ञानं काये सर्वसुखदुःखे विजानाति । तदा चाक्षुषविज्ञानेनैकेन सर्वान् वृक्षान् गृह्णीयात् । तत्तु न सम्भवति । कथ[मेकेन] विज्ञानेन मूलशाखापत्रपुष्पाणि (
१८१) सर्वाणि ज्ञायन्ते । अतो ज्ञायते बहूनि विज्ञानानि युगपदेककालमुत्पन्नानि सर्वान् स्प्रष्टव्यान् गृह्णन्ति इति । नानारूपाणां ज्ञानमेककालमुत्पद्यते । न तु [यत्] नीलज्ञानम् । तदेव पीतज्ञानम् । अतो ज्ञायते एककालं युगपदुत्पद्यन्ते । वहूनि विज्ञानानीति कायावयवेषु च शीघ्रतरं ज्ञानमुत्पद्यते । एकावयवग्रहणकाल एव सर्वान् गृह्णाति । भगवतः शासने च नास्त्यवयवी । न हि सम्भवत्येकमेव विज्ञानं सर्वानवयवान् गृह्णातीति । अतो एककालमुत्पन्नानि बहूनि विज्ञानानि सर्वानवयवान् गृह्णन्तीति ॥

विज्ञानयौगपद्यवर्गः पञ्चसप्ततितमः ।


७६ विज्ञानायौगपद्यवर्गः

अत्रोच्यते । यदुच्यते भवता- बहूनि विज्ञानानि युगपदेककालमुत्पद्यन्त इति । तदयुक्तम् । कस्मात् । विज्ञानं मनस्कारमपेक्ष्योत्पद्यते । यथोक्तं सूत्रे- चक्षुरनुपहतं भवति । रूपमाभासगतं भवति । विज्ञानोत्पादको मनस्कारश्च यदि न भवति । तदा न चक्षुर्विज्ञानमुत्पद्यत इति । अतो ज्ञायते विज्ञानानि मनस्कारमपेक्ष्य भवन्ति नैककालिकानीति । सर्वे चोत्पत्तिधर्माणः कर्मकारणाधीनाः । चित्तस्यैकैकश उत्पत्तेः । न हि पृथिवीनरकादिविपाक एककालं वेद्यते । यदि बहूनि चित्तानि युगदुत्पद्यन्ते । तदा युगपद्वेदना स्यात् । न वस्तुतः सम्भवति । अतो ज्ञायते विज्ञानानि नैककालिकानीति । विज्ञानञ्च शीघ्रतरमालम्बनं गृह्णाति । यथालातचक्रस्य प्रवृत्तिशैघ्र्यान्नदृश्यते तद्विच्छेदः । तथा विज्ञानान्यपि काललवस्थायित्वान्न विभज्यन्ते । यद्यैककालिकानि विज्ञानानि । सर्वेषामुत्पत्तिधर्माणामेककालमेकलक्षणं युगपदुत्पत्तिः सम्भवेत् । कः प्रतिबन्धोऽस्ति । तथा च सर्वधर्माणामुत्पत्तये नावश्यं यत्नं कुर्यात् । कर्माकुर्वन्नपि (
१८२) मुच्येत । न तु तत्सम्भवति । अतो ज्ञायते विज्ञानानि नैककालिकानीति । कायश्चित्तानुचरः । यदि सर्वाणि चित्तानि युगपद्भवन्ति । तदा कायो विक्षिप्येत । अतीतानागतादिचित्तानामेककालमुत्पत्तेः । वस्तुतस्तु कायो न विक्षिप्यते । अतो ज्ञायते न युगपद्भवन्ति सर्वचित्तानीति । चक्षुषा पश्यामः खलु बाह्यान् बीजाङ्कुरादीन् कलमांसपेश्यादिरूपाणि कौमारयौवनजराकारान् क्रमिकान् । तथा चित्तमपि स्यात् ।

उक्तञ्च सूत्रे- यदा सुखा वेदना भवति । तदा [अन्ये] द्वे वेदने निरुद्धे यदुत दुःखा वेदना अदुःखासुखा वेदना इत्यादि । यदि विज्ञानानां युगपदुत्पादः तदा तिस्रो वेदना एककालं वेद्येरन् । न तु तद्युज्यन्ते वस्तुतः । अतो ज्ञायते विज्ञानानि नैककाल मुत्पद्यन्त इति । एकस्मिन् काय एकचित्तोत्पत्त्या एकः पुरुष इत्युच्यते । विज्ञानानां यौगपद्य एकस्मिन् काये बहवः पुरुषाः स्युः । नत्विदं युज्यते । अत एकस्मिन् काये विज्ञानानां यौगपद्यं न सम्भवति । यौगपद्ये हि एककालं सर्वान् धर्मान् जानीयुः । कस्मात् । चक्षुषि तावदप्रमाणशतसहस्राणि विज्ञानानि भवन्ति । एवं यावन्मनस्यपि । तथा च [तानि] सर्वान् धर्मान् विजानीयुः । न तु तद्युज्यते । अतो विज्ञानानि नैककालिकानीति ज्ञायते ।

(पृ) कस्माद्विज्ञानान्यवश्यं क्रमिकाणि भवन्ति । (उ) एकः समनन्तरप्रत्यय इत्यतो विज्ञानमेकैकमुत्पद्यते । (पृ) एकः समनन्तरप्रत्यय इति कस्मात्सम्यक् । ईदृशी धर्मता स्यात् । तथा भवतामे कस्यात्मन एकं मनः । तथा ममापि एकस्य मनस एकः समनन्तरप्रत्ययः । यथा बीजसम्बन्धी अङ्कुरस्तत्समनन्तरमुत्पद्येत । न काण्डाद्युत्पाद्य अङ्कुरः । एवं चित्तसम्बन्धी धर्मश्चित्तक्रमेणोत्पद्येत । नान्यधर्मोत्पत्ति [क्रमतः] । विज्ञानलक्षणं तथा नियतं [यत्] एकैकोदयव्ययक्रमलक्षणाधीनमग्निलक्षणदाहवत् । तस्माद्विज्ञानान्यवश्यं क्रमेण भवन्ति ॥

विज्ञानायौगपद्यवर्गः षट्सप्ततितमः ।


(
१८३)
७७ दुःखसत्यस्कन्धे संज्ञास्कन्धवर्गः

(पृ) को धर्मः संज्ञा । (उ) प्रज्ञप्तिसद्धर्मनिमित्तग्रहणात्मिका संज्ञा । कस्मात् । यथोक्तं सूत्रे- केचित्परीत्तसंज्ञाः केचिद्बहुसंज्ञाः केचिदप्रमाणसंज्ञाः केचिदकिञ्चनसंज्ञा इति । वस्तुतस्तु ते बहु किञ्चिदादिधर्मा न सन्ति । अतो ज्ञायते संज्ञा प्रज्ञप्तिसद्धर्मनिमित्तग्रहणरूपेति । ताः संज्ञाः भूयसा विपर्यासगता इष्यन्ते । यथोक्तम्- अनित्ये नित्यमिति संज्ञाविपर्यासः । दुःखे सुखमिति संज्ञाविपर्यासः । अनात्मनि आत्मेति संज्ञाविपर्यासः । अशुभे शुभमिति संज्ञाविपर्यासः । इति । एवं श्रद्धाधिमुक्तिविपश्यना कृत्स्नायतनेष्वपि उच्यन्ते ।

संज्ञा त्रिधा विभक्ता ग्रहालम्बना यदुत प्रियद्वेप्योदासीनाः । तत्र तिस्रो वेदनाः क्रमशः समुद्भवन्ति । ता वेदनाश्च त्रिविषजनन्यः । अतः संज्ञा दुष्टा । दुष्टत्वात्भगवानाह- संज्ञा प्रहातव्येति । यथोक्तम्- चक्षुषा रूपाणि दृष्ट्वा मा निमित्तं गृह्वीत इति । अतो ज्ञायते प्रज्ञप्तिसद्धर्मनिमित्तग्रहणरूपा संज्ञेति ।

(पृ) प्रज्ञप्तिसद्धर्मग्रहणरूपा संज्ञेति नायमर्थो युज्यते । कस्मात् । तथा संज्ञया हि सर्वान् क्लेशान् प्रजहाति । यथोक्तं सूत्रे- अनित्यसंज्ञा साधु भाविता सर्वं कामरागं पर्यादापयति । सर्वं रूपरागं पर्यादापयति । सर्वं भवरागं पर्यादापयति । सर्वमौद्धत्यं पर्यादापयति । सर्वामविद्यां पर्यादापयति । सममस्मिमानं पर्यादापयति । इति । अतो ज्ञायते न प्रज्ञप्तिसद्धर्मग्रहणमात्रा संज्ञेति । प्रज्ञप्तिधर्मग्रहणरूपा [चेत्] संज्ञा । तदा न स्यात्क्लेशानां प्रहाणम् ।

उच्यते । वस्तुतः प्रज्ञेयं संज्ञेति नाम्नोच्यते । यथा वदन्ति वेदकः सर्वस्माद्विमुच्यते । मनसा सर्वे क्लेशाः प्रहीयन्त इति । यथा च वदन्ति अकृष्णाशुक्लकर्मणा सर्वाणि कर्माणि क्षपयतीति । वदन्ति च-


(
१८४) श्रद्धया वितरत्योघमप्रमादेन चार्णवम् ।
वीर्येण दुःखमत्येति प्रज्ञया परिशुध्यति । इति ।

वस्तुतस्तु प्रज्ञया तरति न तु श्रद्धादिना । एवं प्रज्ञैव संज्ञाख्ययोच्यते । उक्तञ्च सूत्रे- प्रज्ञया बलं भवतीति । यथोक्तम्- आर्यास्तदन्तेवासिनो वा प्रज्ञाबलेन सर्वान् क्लेशान् प्रजहतीति । अतः प्रज्ञैव सर्वसंयोजनसमुच्छेदिनी । न तु संज्ञा । सप्तत्रिंशदार्यमार्गाङ्गेषु नोक्ता संज्ञा । अतो न [सा] संयोजनसमुच्छेदिनी । उक्तञ्च सूत्रे- जानन् पश्यनास्रवक्षयं प्रतिलभते नाजानन्नापश्यनिति । त्रिष्वनास्रवेन्द्रियेषूक्तमनाज्ञातमास्यामिन्द्रियमाज्ञेन्द्रियमाज्ञातावीन्द्रियमिति सर्वं ज्ञानाख्यं भवति । आह च भगवान्- प्रज्ञास्कन्धो विमुक्तिज्ञानदर्शनस्कन्धो भवति इति । किञ्चाह- ध्यानव्यतिरिक्ता नास्ति सम्बोधिः । साम्यव्यतिरिक्तं नास्ति ध्यानमिति । अनुक्रमसूत्रे चोक्तम्- विशुद्धशीलधारिणो न चित्तं परितपति यावद्यथाभूतज्ञानाय चित्तं समादधाति इति । धर्मज्ञानादयः सर्वे प्रज्ञाख्याः । तिसृषु च शिक्षासु अधिप्रज्ञाशिक्षोत्तमा । आह च- प्रज्ञासम्पत्विमुक्तिज्ञानदर्शनसम्पतिति । सप्तविशुद्धिषु चोक्तम्- प्रतिपदाज्ञान- दर्शनविमुक्तिरित् । आह च भगवान्- सर्वधर्माणां यथाभूतज्ञानमनुत्तरा प्रज्ञा इत्युच्यते । संज्ञा तु नैवंविधोच्यते ।

प्रज्ञैव सर्वक्लेशानां समुच्छेदिनि न तु संज्ञेति योगो न्यान्याः । कस्मात् । यथाह महानिदानसूत्रम्- यच्च सूत्रेऽवतरति विनये च सन्दृश्यते धर्मताञ्च न विलोमयति तत्ग्राह्यमिति । अपि चाह- सम्यगर्थे स्थापना यथार्थ [ग्रहणम्] सम्यक्रुते स्थापना यथारूत [ग्रहणम्] इति । अतः सूत्रे यद्यप्युक्तमनित्यसंज्ञादयः क्लेशानां समुच्छेदका (
१८५) इति । तथापि सा प्रज्ञैवेपि । न्यायतो भवति । आह च- अविद्या सर्वक्लेशानां मूलम् । विसंयोगात्मज्ञा विमुच्यत इति । अतो ज्ञायते प्रज्ञया सर्वे क्लेशाः प्रहीयन्त इति ।

(पृ) भवतोक्तं प्रज्ञप्तिसद्धर्मनिमित्तग्रहणात्मिका संज्ञा इति । किं तन्निमित्तम् । (उ) केचिन्मन्यन्ते- प्रज्ञप्तिधर्मो निमित्तम् । प्रज्ञप्तिधर्माः पञ्च अतीतः अनागतः सङ्केतः संयोगः पुद्गल इति । तदयुक्तम् । कस्मात् । पुद्गलः पञ्चस्कन्धानुपादाय सिद्धः । निमित्तस्यासिद्ध्या नास्ति प्रज्ञप्तिः । (पृ) निमित्तस्यार्थः कः । (उ) यदालम्बनं तन्निमित्तम् । केनेदं ज्ञायते । यथोक्तम्- सिंहो मृगराज इह नदीतीरे स्थितस्त्रत्र तीरे निमित्तं गृहीत्वा ओघं तीर्त्वा निष्क्रामति । तत्र यदि निमित्तं नास्ति तदा इदं तीरं प्रतिनिवृत्य [तन्निमित्त]मामरणं न मुञ्चति इति । सूत्रेऽस्मिन् वक्ष[मृगा]दिनिमित्तं भवति । आह च- भिक्षुर्निमित्तं प्रदर्शयतीति । अत्र चीवरादिर्निमित्तम् । किञ्चाह- भगवान्- ईदृशं निमित्तं ख्यापयतीति । अपि चाह- [पशु]वधको राजभोजनायाभिलषितं निमित्तमुपादत्त इति । आहुश्च- प्रभातं सूर्योदयस्य निमित्तमिति । किञ्चाह- त्रीणि निमित्तानि यदुत समाधिनिमित्तं प्रग्रहनिमित्तमुपेक्षानिमित्तमिति । तत्र समाध्यादय एव निमित्तानि भवन्ति । यं धर्मं मनसिकृत्य चित्तमालम्बने बध्यते । तत्समाधिनिमित्तम् । च्यवनधर्मिणो देवपुत्रस्य पञ्च पूर्वनिमित्तानि प्रादुर्भवन्ति । तत्र पञ्च धर्मा एव निमित्तानि भवन्ति । अतो ज्ञायते न प्रज्ञप्तिधर्मो निमित्तमिति । नापि संस्कारस्कन्धसङ्गृहीतम् । शारिपुत्रः पूर्णमैत्रायणीपुत्रान्मुखनिमित्तं गृह्णाति । उक्तञ्च सूत्रे- चक्षुषा रूपाणि (
१८६) दृष्ट्वा मा निमित्तं गृह्णीतेति । धर्ममुद्रायाञ्चोक्तम्- यो भिक्षुः रूपशब्दादिनिमित्तं प्रहीणं पश्यति । नाहं वदामि स विशुद्धज्ञानदर्शनस्य लाभीति । अनेन ज्ञायते आलम्बनमेव निमित्तम् । न प्रज्ञप्तिधर्म इति ।

(पृ) नालम्बनं तिमित्तम् । कस्मात् । अनिमित्तसमाधेरपि सालम्बनत्वात् । आह च रूपाणि दृष्ट्वा मा निमित्तं गृह्णीतेति । यद्यालम्बनं निमित्तम् । कथं रूपं दृष्ट्वा न निमित्तं गृह्णाति । (उ) निमित्तं द्विविधं दुष्टमदुष्टमिति । दुष्टनिमित्तनिषेधार्थमाह- रूपं दृष्ट्वा न निमित्तं गृह्णातीति । अनिमित्त[समाधे]रालम्बनमपि दुष्टमिति पश्चान्निरोधसत्य [वर्गे]वक्ष्यते यत्त्रिविध चित्तनिरोधी अनिमित्तमादावुपसम्पद्य विहरतीति । न तु सर्वनिमित्तग्रहो दुष्टः । यः समाधिप्रग्रहोपेक्षानिमित्तादि गृह्णाति । न तस्य दोषोऽस्ति । निर्वाणञ्चासद्धर्मः । अतो न दुषणकृत्स्यात् । यथोक्तं- धर्मनिमित्तस्य ग्राही न दुष्यति इति । प्रज्ञप्तिनिमित्तग्राहिणस्तु क्लेशाः समुद्भवन्ति । कस्मात् । प्रियाप्रियादिविभक्तनिमित्तग्रहात्सौमनस्यदौर्मनस्यादयः समुद्भवन्ति । ततो रागद्वेषादयो दोषा भवन्ति । अतो ज्ञायते प्रज्ञप्तिधर्मनिमित्तग्रहणरूपा संज्ञेत्युच्यत इति ॥

दुःखसत्यस्कन्धे संज्ञास्कन्धवर्गः सप्तसप्ततितमः ।


७८ दुःखसत्यस्कन्धे वेदनाधिकारे वेदनालक्षणवर्गः

(पृ) वेदना कतमा । (उ) सुखा दुःखा अदुःखासुखा च । (पृ) सुखा कतमा । दुःखा कतमा । अदुःखासुखा च कतमा । (उ) कायचित्तयोर्विकासो सुखेत्युच्यते । तयोरेव ह्रासे दुःखा । उभयलक्षणयो विरुद्धा अदुःखासुखा । (पृ) इमास्तिस्रो वेदना अनियतलक्षणाः । कस्मात् । यथा वस्त्वेकमेव कदाचित्कायचित्ते विकासयति । कदाचिथ्रासयति । कदाचिदुभयविलक्षणं भवति । (उ) तदालम्बनमनियतम् । न तु वेदना । कस्मात् । यथैक एवाग्निः कस्याञ्चिदृतौ सुखमुत्पादयति । कस्याञ्चिदृतौ (
१८७) दुःखम् । कस्याञ्चिच्चादुःखासुखम् । आलम्बनजा वेदना तु नियतैव । तदेव वस्त्वेकमृतुवशात्सुखस्य वा हेतुर्भवति । अदुःखासुखस्य वा हेतुर्भवति ।

तदालम्बनं केन कालेन सुखदुःखादीनां हेतुर्भवति । (उ) यत्न दुःखविघातकमस्ति । तस्मिन् समये सुखलक्षणमुत्पद्यते । यथा कश्चित्यदा शीतार्तः तदोष्णस्पर्शः सुखमुत्पादयति । (पृ) ननु स एवोष्णस्पर्शः उत्कटः सन् दुःखकरो भवति । न तु सुखकरः । अतो ज्ञायते सुखवेदनापि नास्तीति । (उ) संवृतिनामतोऽस्ति सुखवेदना । न तु परमार्थतः । उष्णस्पर्शप्रियस्य कस्यचिथितकरोऽपि भवति । [यस्य यदा] पूर्वदुःखस्य प्रतिबन्धः । तस्मिन् समये तस्य सुखमुत्पद्यते । यदि पूर्वमेव दुःखवियोगः तदोष्णस्पर्शो न सुखकरः । अतो नास्ति परमार्थतः ।

(पृ) यदुक्तं भवता- [संवृति]नामतः सुखमस्ति इति । तन्न युक्तम् । कस्मात् । सूत्रे भगवानाह- तिस्रो वेदना इति । यदि नास्ति सुखं परमार्थतः । कथं ब्रूयात्तिस्रो वेदना इति । आह च- रूपं यदि दुःखनियतम् । सत्त्वा न तत्रासङ्गमुत्पादयेयुरिति । किञ्चाह- रूपस्य क आस्वादाः ये रूपमुपादाय प्रीतिसुखजनना इति । किञ्चाह- सुखवेदनाया उत्पद्यमानायाः सुखे स्थिते सुखम् । निरुद्धे दुःखम् । दुःखवेदनाया उत्पद्यमानाया न दुःखे स्थिते दुःखम् । निरुद्धे सुखम् । अदुःखासुखवेदनाया न दुःखं ज्ञायते न सुखं ज्ञायते इति । सुखा वेदना पुण्यविपाकः । दुःखा वेदना च पापविपाकः । यदि नास्ति परमार्थतः सुखा वेदना । पुण्यपापयोर्दुःखफलमात्रं स्यात् । न तद्युक्तं वस्तुतः । कामधातावपि सुखा वेदनास्ति । यदि नास्ति परमार्थतः सा, रूपारूप्यधातू न [सुख]वेदनावन्तौ स्याताम् । न तु युज्यते वस्तुतः । किञ्चाह- सुखायां वेदनायां रागोऽनुशेत इति । यदि नास्ति सुखा वेदना, कुत्र रागोऽनुशयीत । न वक्तव्यं दुःखायां वेदनायां रागोऽनुशेत इति । अतो ज्ञायतेऽस्ति परमार्थतः सुखा वेदनेति ।

(
१८८)
अत्रोच्यते । यद्यस्ति परमार्थतः सुखा वेदना । किं सुखमिति तस्य लक्षणं वक्तव्यम् । न तूच्यते वस्तुत । ज्ञातव्यं दुःखविशेषस्यैव सुखनिमित्तव्यवहार इति । सर्वो लोकधातु आ महानरकमा च भवाग्रं सर्वं दुःखलक्षणम् । बहुदुःखसम्पीडितस्य मृदुनि दुःखे सुखनिमित्तमुत्पद्यते । यथा कश्चित्धर्मतप्तः शीतस्पर्शं सुखं मन्यते । तस्मात्सूत्राणि तथावचनान्यविरुद्धानि । (पृ) लोके सर्वं सुखमिति वक्तुं सम्भवति । मृदुनि सुखे दुःखसंज्ञोत्पद्यते । तथा नो चेत्दुःखाल्पत्वे सुखसंज्ञोत्पद्यत इत्यपि न वक्तुं शक्यते । (उ) दुःखवेदनालक्षणस्यौदारिकत्वात्सूक्ष्मसुखं दुःखमिति न सम्भवति । सुखं सूक्ष्ममपि नोपघातलक्षणं भवति । कस्मात् । न हि पश्यामः कथमपि सूक्ष्मं सुखमनुभवन्तं पुरुषं बाहुमुद्यम्य सुदीर्घमुच्छ्वसन्तम् । सुखा च वेदना सूक्ष्मा प्रवृत्ता उपशमलक्षणमित्युच्यते । तद्यथोर्ध्वभूमौ प्रवृत्त उपशमः । अतो यदुक्तं सूक्ष्मे सुखे दुःखसंज्ञोत्पद्यत इति तत्वचनमात्रम् । बालपृथग्जनानामल्पदुःखे सुखसंज्ञा मिथ्या प्रादुर्भवति इति तु न्याय्यम् ॥

दुःखसत्यस्कन्धे वेदनाधिकारे वेदनालक्षणवर्गोऽष्टसप्ततितमः ।


७९ संस्कारदुःखतावर्गः

सर्वा वेदना दुःखम् । कस्मात् । चीवरभोजनादयो हि सर्वे दूःखहेतवः न सुखहेतवः । केनेदं ज्ञायते । अन्नवस्त्रादिषूत्कटेषु दुःखमपि वर्धत इति प्रत्यक्षं खलु । अतो दुःखहेतवः । हस्तव्यथादिदुःखं लक्षणतो निदर्शयितुं शक्यते । न तथा सुखम् । अन्नवस्त्रादि व्याधिप्रशमनम् । यथा तर्षितस्य पानं न सुखजनकम् । कश्चिद्दुःखपीडितः दुःखभेदे सुखसंज्ञां जनयति । यथा जना मरणभीताः [अन्यं] दण्डं सुखं मन्यन्ते । दण्डादानशस्त्रादानक्षुरशक्तयो दुःखहेतुतया नियताः न तथा सुखहेतुतया । सर्वेषामवश्यमात्यन्तिकदुःखत्वात्ज्ञातव्यं पूर्वं [दुःखं] सदेवोर्ध्वकालं बुध्यते पादुकाक्षयवत् । स्त्रीरूपादौ च पूर्वमुत्पद्यते सुखसंज्ञा । पश्चाद्भवति विद्वेषः । अतो ज्ञायते मिथ्यासंज्ञानुस्मरणेन सुखसंज्ञोत्पद्यत इति । मिथ्यसंज्ञानुस्मरणव्यावृत्तौ तस्य दोषं पश्यति । स्त्रीरूपादीनि उच्छोषणशिरोव्याध्यादिहेतवः । न सुखं भवति । वैराग्ये सति तदालम्बनं त्यज्यते । (
१८९) यद्यस्ति वस्तुतः सुखम् । कस्मात्त्यज्यते । यस्य यत्र सुखमभूत्तस्य तदेव पश्चाद्दुःखचित्तजनकमित्यतो ज्ञायते नास्ति सुखमिति ।

किञ्च कायो दुःखहेतुः न सुखहेतुः । यथारण्यभूमौ सुसस्येषु दुष्प्ररोहेष्वपि तृणवीरणानि सूद्भवन्ति । एवं कायभूमौ दुःखस्कन्धाः सुसमुद्यन्ति । मृषासुखन्तु दुरुद्भवं भवति । किञ्च जना दुःखे सुखविपर्यासमुत्पाद्य पश्चात्तत्राभिष्वजन्ते सुखं यदि किञ्चिदस्ति । नोच्येत विपर्यास इति । यथा नित्य आत्मा विशुद्धः किमपि वस्तु नास्ति । एवं सुखमपि । उभयोर्विपर्यस्तत्वात् । जनानां कटुके दुःखे सुखचित्तमुत्पद्यते । यथा भारवाही स्कन्धं सुखयति । अतो ज्ञायते नास्ति सुखमिति । सूत्रे च भगवतोक्तम्- सुखा भिक्षवो वेदना दुःखतो द्रष्टव्या । दुःखा वेदना शल्यतो द्रष्टव्या । अदुःखासुखा वेदना अनित्यतो द्रष्टव्या । इति । यद्यस्ति नियतं सुखम् । सुखं दुःखतो न द्रष्टव्यं स्यात् । ज्ञातव्यं पृथग्जना दुःखं सुखतो गृह्णन्तीति । अतो भगवानाह- यत्र पृथग्जनानां सुखसंज्ञोत्पद्यते तत्दुःखतो द्रष्टव्यमिति ।

इमास्तिस्रो वेदनाश्च दुःखसत्यसङ्गृहीताः । यदि वस्तुतोऽस्ति सुखम् । कथं दुःखसत्यसङ्गृहीतं स्यात् । दुःखमेव वस्तुतोऽस्ति । सुखलक्षणन्तु मृषा । केनेदं ज्ञायते । दुःखचित्तभावनया हि सर्वसंयोजनानि प्रजहजाति । नतु सुखचित्तभावनया । अतो ज्ञायते सर्वं दुःखमिति । सर्वे पदार्था दुःखहेतवः । द्वेष्यवत् । द्वेष्यो द्विविधः- एकः दुःखमेव करोति । अपर आदौ मृदुरपि अन्ते पुरुषं हिनस्ति । तद्वत्पदार्था अपि केचिदादौ सुभकरा अन्ते तु हिंस्राः । अतो ज्ञायते सर्वं दुःखमिति । सत्त्वानां लब्धकामानामपि नास्ति तृप्तिः । लवणाम्भः पानेनातृप्तिवतित्यतो दुःखम् । कामप्रार्थनाविरहः सुखमित्युच्यते । प्रार्थना तु दुःखम् । न पश्यामः कमपि लोकमप्रार्थयमानम् । अतः सुखविहीनं जानीमः । सर्वे सत्त्वाः कायिकदुःखेन वा चैतसिकदुःखेन वा सदानुगम्यन्त इत्यतः कायो दुःखमिति ज्ञायते ।

कायः कारागृहवत्सदा बन्धनः । केनेदं ज्ञायते । एतत्कायनिरोधाद्विमुक्तैत्युच्यते । [अतो] बन्धनं दुःखम् । सर्वेऽपि पदार्थाः क्रमशः कुत्सनीयाः । यथा नारकादिकायाः ग्रीष्महेमन्ताद्यृतवः बालादीनामिन्द्रियाणि । शीतधर्मादि परस्परसापेक्षमवसाने (
१९०) विद्वेप्यं ज्ञायते । [अतः] सर्वं दुःखमिति ज्ञेयम् । कायस्य च बहवः शत्रवो यदुताशीविषकारण्डः पञ्चोत्क्षिप्तासिका वधकाः कल्याणमित्रवञ्चनाश्चोराः शून्यग्रामे ग्रामघातकाश्चोरा महानद्या अवरतीरमिति । [इमानि]नानादुःखानि सदानुचरन्ति [कायम्] । अतो ज्ञायते सर्वं दुःखमिति । किञ्च जानीमः सत्त्वानां कायः सर्वदुःखैरनुगम्यते यदुत जातिदुःखं, जरादुःखं व्याधिदुःखं मरणदुःखं विप्रियसमागमदुःखं प्रियवियोगदुःखं प्रार्थितादिविघातदुःखमित्यादिभिः । अतो ज्ञायते कायो दुःखकलाप इति । आत्मनि सति आत्मीयाभिष्वङ्गाद्युपद्रवाणां समुदयोऽस्ति । अतो ज्ञायते कायो दुःखनिदानमिति ।


पञ्च सत्त्वगतयश्चत्वार इर्यापथाश्च सुखविरहिताः । कस्मात् । यथोक्तं सूत्रे- रूपं दुःखं वेदना संज्ञा संस्कारां विज्ञानञ्च दुःखमिति । रूप उत्पद्यमाने जराव्याधिमरणादयः सर्व उपद्रवा उत्पद्येरन् । एवं वेदनासंज्ञासंस्कारविज्ञानेष्वपि । कायः सदा व्याप्रियते कायवङ्मनोभिः कृत्यान्यभिसंस्क्रियन्ते । कृत्यानामभिसंस्करणं दुःखमित्युच्यते । आर्याः कायक्षयेण हृष्टा भवन्ति । यद्यस्ति वस्तुतः सुखम् । कथं सुखाद्भ्रष्टाः प्रमोद्येरन् । अतो ज्ञायते सर्वं दुःखमिति ॥

संस्कारदुःखतावर्ग एकोनाशीतितमः ।


८० दुःखप्रहाणवर्गः

(पृ) बहुभिः कारणैर्भवता दुःखं प्रतिपादितम् । अथापि जनाः सुखं कामयन्ते । यत्र कामना तत्सुखमिति मन्यामहे । (उ) पूर्वमेव प्रत्युक्तमिदम् । पृथग्जना विपर्ययात्दुःखमेव सुखतो गृह्णन्ति । मुग्धैरुक्तं कथं श्रद्धेयम् । प्रार्थितं लब्ध्वापि दुःखतो भावयेत् । कस्मात् । सर्वमनित्यं विपरिणामे दुःखजनकम् । यथोक्तं भगवता सूत्रे- रूपारामा[भिक्षवो] देवमनुष्या रूपरता रूपमुदिता रूपविपरिणामविरागनिरोधात्(
१९१) दुःखं [भिक्षवो] देवमनुष्या विहरन्ति । इति । एवं वेदनासंस्कारविज्ञानेष्वपि । विपरिणामित्वात्ज्ञातव्यं दुःखमिति । जना अभूतसुखमनुभूय तत्रासङ्गमुत्पादयन्ति । आसङ्गप्रत्यया रक्षणपालनादयो दोषाः समुद्भवन्ति । अतः सुखं दुःखतो भावयेत् । सुखञ्च दुःखस्य द्वारम् । सुखरागात्त्रिभ्यो विषेभ्यः सम्भवन्त्यकुशलकर्माणि । [ततो]नरकादौ पतितो दुःखोपद्रवाननुभवति । अतो ज्ञातव्यं सर्वं सुखमूलकमिति । सर्वः संयोगो विप्रयोगान्तः । विप्रयोगे गाढं दुःखमनुभवति । नैतावता प्रियः पुनर्भवति । अतः सुखं दुःखान्तं भवतीति ज्ञेयम् । सुखोपकरणामुत्पादः सत्त्वानां प्रमोषणाय भवति । दुःखेषु च पातयति । यथा वन्यपक्षिणामाहारः मत्स्यानां भक्षणप्रस्कन्दनञ्च सर्वं ग्रहणाय भवति । तथा सुखमपि दुःखतो द्रष्टव्यम् । सुखवेदनाया अल्पास्वादलभायपरिमितान् दोषान् प्राप्नोति । यथा पशुमत्स्यानामास्वादितमत्यल्पम् । तदापदस्वतिबहुलाः । अतो दुःखतो द्रष्टव्यम् । सुखवेदना च क्लेशानामुत्पत्तिस्थानम् । कस्मात् । कायरागाद्धि कामा अपेक्ष्यन्ते । कामप्रत्यया व्यापादादयः
क्लेशाः क्रमेण सम्भवन्ति । सुखवेदना संसारस्य मूलम् । कस्मात् । सुखमुपादाय हि तृष्णा जायते । यथोक्तं सूत्रे- तृष्णा दुःखस्य मूलमिति । सर्वेषां सत्त्वानामभिसंस्कृतानि न सुखाय भवन्ति । अतो दुःखमूलमित्युच्यते ।

सुखवेदना शृङ्खलातो दुस्त्यजतरा । संसारे च सुखकामनया बध्यते । कस्मात् । सुखरागाद्धि संसारं न मुञ्चति । सुखा वेदना चेयं सदा दुःखजननी । अन्वेषणकाले कामना दुःखम् । विघातकालेऽनुस्मरणं दुःखम् । लाभकाले न तृप्यति स्रोतः कबलयन् सागर इव । इदमपि दुःखम् । सुख वेदना अतन्द्रीहेतुः । कस्मात् । सत्त्वाः सुखसाधनान्वेषणकाले प्रपातचङ्क्रमणा[दि]दोषमपि सुखतो मत्वा न चित्ते परिखिद्यन्ते । तस्मात्प्रज्ञावता दुःखमिति भावयेत् । सुखा वेदना कर्मणां प्रवृत्तिहेतुरित्युच्यते । कस्मात् । सुखरागाद्धि कुशलकर्मसु प्रवर्तते । सर्वमपीदं कायानुभवस्य हेतुः । कस्मात् । सुखमुपादाय (
१९२) हि तृष्णोत्पद्यते । तृष्णाहेतुना कायोऽनुभूयते । सुखवेदना च निर्वाणस्य विरोधिनी भवति । कस्मात् । सत्त्वाः संसारे सुखाध्यवसानेन निर्वाणं नाभिलषन्ति । अविरक्तः सुखवेदनामिमां तृष्यति । तृष्णा च दुःखस्य जनकहेतुः । अतः सुखवेदना दुःखस्कन्धस्य मूलमिति ज्ञायते । उक्तञ्च सूत्रे- द्वे इमे भिक्षव आशे दुष्प्रजहे । [कतमे द्वे] लाभस्य जीवितस्य च इति । कामानामनुचिन्तनी आशा लाभस्याशेत्युच्यते । एषां कामानामुपभोगाय या जीवित प्रतिलाभायाशा सा जीवितस्याशा । इमे द्वे आशे सुखवेदनामूलिके । अतः प्रज्ञावता यथाभूतं सुखवेदनालक्षणं भावयता दुष्प्रहजा[पि] प्रहेया ।

सुखवेदनास्वादोऽप्रतिलब्धवैराग्यस्य महाप्राज्ञस्यापि चित्तं कलुषयति । दुष्प्रजहत्वात्सुखवेदनातः प्रगाढा भवति । सुखवेदनास्वादः रागादीनां हेतुः । सुखवेदनायामसत्यां न किञ्चिद्रज्यते । सुखवेदनास्वादेन तत्त्वज्ञानं प्रजहाति । कस्मात् । लोके हि प्राज्ञा अवश्यमुत्तमभूम्यास्वादमुपादायाधरां भूमिं त्यजन्ति । अतो ज्ञायते सुखा वेदना दुःखवेदनामतिक्रान्तेति । सत्त्वानां चित्तमुपपत्त्यायतनेऽनुबध्यते । यावद्गृह्य जन्तुरपि काये साभिलाषो भवति । इति ज्ञातव्यं सर्वं सुखवेदनास्वादादिति । अतः सुखां वेदनां दुःखतो भावयेत् ॥

दुःखप्रहाणवर्गोऽशितितमः ।


८१ त्रिवेदनाविचारवर्गः

(पृ) सर्वं दुःखमिति परिज्ञातम् । इदानीं केन विभङ्गेन सन्ति तिस्रो वेदना इति । (उ) एकस्या एव दुःखवेदनाया कालभेदेन त्रयः प्रकारा भवन्ति यत्विहेठकं तत्दुःखमित्युच्यते । विहेठितः पूर्वदूःखधारणाय पुनदुःखान्तरं पर्येषते । पर्येषितप्रणिधानेन महादुःखस्य मुहूर्तमुपशमे तस्मिन् (समये) सुसुखमित्युच्यते । प्रीतिदौर्मनस्ययोरवेदने न [किञ्चित्] प्रणिदधाति, न पर्येषते । तस्मिन् समये अदुःखासुखा वेदना इत्युच्यते ।

(
१९३)
(पृ) अदुःखासुखा वेदना नास्ति । कस्मात्सुखदुःख एव ह्यनुभाव्ये स्तः । अदुःखासुखा तु नानुभूयते । (उ) पुरुषोऽयं त्रिभिः स्पर्शैः स्पृष्टः यदुत दुःखस्पर्शः सुखस्पर्श अदुःखासुखस्पर्श इति । हेतौ सति फलमस्तीति ज्ञातव्यम् । यथा कश्चितुत्कटतापलब्धः शीतस्पर्शं सुखतोऽनुभवति । ऊर्ष्णस्पर्शं दुःखतः । अशितानुष्णस्पर्शञ्च अदुःखासुखतोऽनुभवति । अतो ज्ञायते अस्तीयमदुःखासुखा वेदनेति । यद्भवतो मतम्- अदुःखासुखस्पर्शे न वेदनोत्पद्यत इति । तदयुक्तम् । कस्मात् । पुरुष इममशीतानुष्णस्पर्शनमनुभवति । अनुभवज्ञानालम्बनैव वेदना भवति । कथमाह नास्तीति । पुरुषं प्रति आलम्बनं त्रिधा विभक्तं प्रियं द्वेष्यमुदासीनमिति । प्रियात्सौमनस्यं भवति । द्वेप्याद्दौर्मनस्यम् । उदासीनादुपेक्षा । अतो ज्ञायते संज्ञाभेदादिमास्तिस्रो वेदना भवन्ति । आलम्बनास्वादादिमास्तिस्रः संज्ञा उद्यन्तीति । आलम्बनं त्रिविधम् । किञ्चिदुपकारकं किञ्चिदपकारकम् । तच्चोभयं मिथो विरुद्धम् । ससुखमसुखं युगपद्विरुद्धम् । रागद्वेषमोहस्थानानि [विरुद्धानि] सप्रीतिक मप्रीतिकञ्च विरुद्धम् । पुण्यापुण्यानेञ्ज्यफलरूपेष्वालम्बनेषु तिस्रो वेदना अनुप्रवर्तन्ते । अतो ज्ञायते अस्तीयमदुःखासुखा वेदनेति । यत्र चित्तमनुकूलं तत्र सुखा वेदना । प्रतिकूलं यत्र चित्तं तत्र दुःखा वेदना । यत्र न प्रतिकूलं नानुकूलं तत्रादुःखासुखा वेदना । लोकधर्माश्चाष्टौ लाभोऽलाभो निन्दा प्रशंसा यशोऽयशः सुखं दुःखमिति । पृथग्जना अलाभादिषु चतुर्धर्मेषु प्रतिकूलचित्ता भवन्ति । लाभादिषु चतुर्धर्मेषु तु अनुकूलचित्ताः । वीतरागा आर्यास्तूईभयत्रावश्यमुपेक्षका
भवेयुः । उपेक्षैवासुखादुःखा वेदना । अतो न सा नास्तीति ।

(पृ) यदि स्पर्शादिप्रत्ययत्वात्तिस्रो वेदनाः सन्तीति । तदा सर्वेऽपि चित्तोपविचारा वेदनाः स्युः । कस्मात् । ये चित्तोपविचाराः कायवर्तिनः ते सर्वेऽपि सुखा दुःखा अदुःखासुखा वा भवन्ति । (उ) [सत्यं] सर्वेऽपि चित्तोपविचारा वेदना भवन्ति । कस्मात् । उक्तं हि सूत्रे- अष्टादश मनौपविचाराः इति तत्र केवलमेकं मनः अष्टादशधाविभक्तं यदुत षट्सौमनस्योपविचाराः षट्दौर्मनस्योपविचाराः षडुपेक्षोपविचारा इति । संज्ञाविकल्पात्किञ्चिद्दुःखाङ्गं किञ्चित्सुखाङ्गं किञ्चिदुपेक्षाङ्गम् । अतो ज्ञायते सर्वेऽपि चित्तोपविचारा (
१९४) नावेदना भवन्तीति । किञ्चोक्तं सूत्रे- सर्वा वेदना दुःखमिति । अतो ज्ञायते चित्तोपविचारेषु देहगतेषु सर्वं दुःखमित्युच्यते । आह च यो रूपस्योत्पादः स दुःखस्योत्पाद इति । कथं रूपं दुःखमित्युच्यते । दुःखहेतुत्वात् । अतो ज्ञायते आलम्बनमिन्द्रियाणि च दुःखजनकानीति । अतः सर्वेऽपि चित्तोपविचारा वेदना इत्युच्यन्त इति ।

संस्काराणां दुःखत्वात्संस्कारान् दुःखतो भावयेत् । विपरिणामे दुःखत्वात्सुखां वेदनां दुःखतो भावयेत् । दुःखदुःखन्तु दुःखमेव । इतीमास्तिस्रो वेदना दुःखाः प्रत्ययसामग्र्यां समुत्पन्नाः क्षणिकाः । अत आर्या दुःखतः पश्यन्ति । अतः सर्वेऽपि चित्तस्योपविचारा वेदना इत्युच्यन्ते ।

(पृ) किमनास्रवा वेदना अपि दुःखम् । (उ) दुःखमेव । कस्मात् । अनास्रवा वेदना अपि आर्या अनन्तरं त्यजन्ति । प्रथमध्यानादारभ्य यावत्सर्वनिरोधसमापत्तिम् । अतो दुःखमेव । सास्रवध्यानसुखस्यानास्रवध्यानसुखस्य च को भेदः । सास्रवध्यानानुयायिन आत्महेतुना दुःखम् । अनास्रवध्यानानि च तेनैव दुःखम् । य आर्या अनास्रवचित्तविहारिणः ते सर्वत्र परं निर्विद्यन्ते । अतोऽनास्रवचित्त उत्पन्ने परमो निर्वेद उत्पद्यते । अक्षिगतरजोवत् । प्राकृता अज्ञा दुःखं सुखतो मन्यन्ते । आर्यास्तु गभीरज्ञा भवाग्रान्निर्विण्णाः कामधातुनिर्विण्णेभ्योऽन्येभ्योऽप्यतिमात्राः । अतोऽनास्रवदुखं सास्रव [दुःखा]दतिक्रान्तम् । आर्या अनास्रवचित्तं लब्ध्वा निर्वाणमात्रोन्मुखा भवन्ति । कस्मात् । ते तस्मिन् समये सर्वे संस्कृता दुःखमिति व्यक्तं पश्यन्ति । यद्यनास्रवा वेदना सुखा तदा सुखे प्रामोद्येरन्न निर्वाणोन्मुखचित्ता भवेयुः ।

(पृ) यदि चित्तस्योपविचारा वेदनेति । कथं चित्तादिधर्मः पृथक्[न]सन्ति । (उ) एकैव वेदना आलम्बने नानोपविचरतीति विभक्ता भवति । चित्तादिधर्मा अपि नानालम्बन उपविचरन्ति । किन्तु विज्ञानालम्बने सति अयं समुदाचारश्चित्तमित्युच्यते । ईदृशं पूर्ववत्वक्तव्यम् । इमेषु सर्वधर्मेषु कायगतेषु सन्ति (
१९५) हितादयो विशेषा इत्यतो वेदनेत्याख्यायन्ते । बहुभिश्चित्तैः क्लेशा अभिनिर्वर्त्यन्ते । तस्मिन् समये च वेदनेत्युच्यते । यथोक्तं सूत्रे- सुखायां वेदनायां रागोऽनुशेते । दुःखायां वेदनायां द्वेषोऽनुशेते । अदुःखासुखायां वेदनायां मोहोऽनुशेते इति तस्मात्संज्ञाविकल्पिता आलम्बने सौमनस्यादयो धर्मा वेदना इत्युच्यन्ते । कस्मात् । तस्मिन् समये हि क्लेशाः समुद्भवन्ति ।

(पृ) एकैकस्यां वेदनायां त्रयः क्लेशानुशया भवन्ति । कस्मान्नियम्यन्ते सुखायां वेदनायां रागोऽनुशेत इति । (उ) न दुःखायां वेदनां रागोऽनुशयः स्यात् । मोहस्सर्वत्रानुशयः । मोहबलाद्धि दुःखे सुखसंज्ञोत्पद्यते । वस्तुनो ज्ञानदर्शनाभावात्दुःखलाभे द्वेष उत्पद्यते । अदुःखासुखा वेदनायास्सूक्ष्मत्वात्रागस्य द्वेषस्य वानुभवः । कस्मात् । पुरुषस्य तत्र सुखदुःखसंज्ञानुत्पादाद्वस्तुनो ज्ञानदर्शनाभावाच्च केवलं मोहानुशयः सम्भवति । उपेक्षालम्बने यदि रागद्वेषौ न समुदाचरतः पृथग्जनास्तदुत्कृष्टालम्बनमिति वदन्ति । अतो भगवानाह- न भवतामिदमालम्बनमुत्कृष्टम् । अननुभवान्न रागद्वेषौ समुदाचारतः । यथोक्तं सूत्रे- प्राकृतानां यद्रुपे भवत्युपेक्षा स सर्वा रूपनिश्चिता । यस्येदमालम्बनमुत्कृष्टं तस्याहङ्कारोऽधिको भवति । यो निकृष्टं करोति तस्य पुना रागद्वेषौ समुद्भवत इति । अतो ज्ञायतेऽनुत्कृष्टमिति । अदुःखासुखा वेदना चोपशमलक्षण, आरूप्यसमाधिवत् । उपशान्तत्वात्क्लेशाः सूक्ष्मं समुदाचरन्ति । प्राकृतास्तत्र विमुक्तिसंज्ञामुत्पादयन्ति । अतो भगवानाह- तत्रास्त्यविद्यानुशय इति । आलम्बनाननुभवात्सुखदुःखयोरप्रतीतिः । यो जानाति तदालम्बनं तस्य सुखदुःखे स्पष्टं प्रतीयेते । तस्मिन् समये रागद्वेषौ सम्भवतः ।

(पृ) यस्तत्रालम्बनं वेदयते तस्य सुखदुःखसंज्ञोत्पद्येत । अतः सुखदुःखवेदनामात्रमस्ति । (उ) पुरुषस्यास्य तदा तदालम्बने न सुखचित्तमुत्पद्यते न च दुःखचित्तम् । अतो न सुखदुःखमात्रमस्ति । पूर्वोक्तवत्सर्वमपि दुःखं त्रिधा विभक्तमस्ति । (पृ) यद्भवतोक्तं- तदालम्बनस्यानुभवज्ञाने पुनः सुखसंज्ञोत्पद्यत इति । कथं तदनुभवज्ञानं (
१९६) न सम्भवति । अविद्यया अनुभवज्ञानम् । (उ) पुरुषस्यास्य तस्मिनालम्बने पूर्वं निमित्तग्रहात्तत्रालम्बने यद्यविद्यानुशयो यदि वा रागद्वेषानुशयोऽस्ति । (पृ) सुखदुःख एव मोह उत्पद्यते । यथोक्तं सूत्रे- स तासां वेदनानां समुदयञ्चास्तगमञ्चास्वादञ्चादीनवञ्च निस्सरणञ्च यथाभूतं न प्रजानाति । तस्य तासां वेदनानां समुदयञ्चास्तगमञ्चास्वादञ्चादीनवञ्च निस्सरणञ्च यथाभूतमप्रजानतो योऽदुःखासुखस्यावेदनाया अविद्यानुशयः सोऽनुशेत इति । अतः सुखदुःख एवाविद्यानुशय उदेति । नादुःखासुखायां [वेदनायाम्] । (उ) सूत्रमिदं स्वयमाह- वेदनानां समुदयास्तगमादीनवादीन् यथाभूतमप्रजानतोऽदुःखासुखायामविद्यानुशयोऽनुशेत इति । (पृ) वचनस्य सत्त्वेऽपि नायमर्थो युज्यते । कथं सुखदुःखयोः समुदयास्तगमादीनवानप्रजानतोऽदुःखासुखायां वेदनायामविद्यानुशयोऽनुशेत इति । कस्मातन्यवस्तुनोऽज्ञानमन्यवस्तुन्यनुशयः । अत इदं सूत्रमेवं वक्तव्यम्- अदुःखासुखायाः समुदयाद्यप्रजानतोऽदुःखासुखायां वेदनायामविद्यानुशयोऽनुशेत इति । यदि वा तत्राविद्यानुशयो नानुशेत इति । (उ) तस्यादुःखासुखायां वेदनायां त्रिधा चित्तं भवति । शान्तसंज्ञा अदुःखासुखसंज्ञा तज्जादुःखासुखबुद्धिः । मिथ्याज्ञानेन निमित्तग्राहिणः सुखबुद्धिरुत्पद्यते
। उत्तमभूमिसुखास्वादग्राहिणो दुःखबुद्धिरुत्पद्यते । अतः सूत्रे वेदनानामिति बहुवचनमुक्तम् । कस्मात् । सर्वा वेदना अविद्यानुशयिताः । अदुःखासुखा वेदना यथाकालं त्रिधा विभक्ता भवति । यदा दुःखायाः समुदयाद्यप्रज्ञानम्, तस्मिन् समये दुःखायां वेदनायां सुखसंज्ञोत्पद्यते अदुःखासुखसंज्ञा चोत्पद्यते । अत उच्यते वेदनानां समुदयाद्यप्रजानतोऽविद्यानुशयोऽनुशेते । अदुःखासुखायां वेदनायां तु भूयसाविद्यानुशयोऽनुशेत इति ॥

त्रिविधवेदनाविचारवर्ग एकशीतितमः ।


८२ वेदनाप्रश्नवर्गः

(पृ) उक्तं हि सूत्रे- तस्य चेत्सुखा वेदनोत्पद्यते । स एवं प्रजानाति- उत्पन्ना खलु म इयं सुखा वेदना इति । को वेदनां यथाभूतं प्रजानाति । अतीतानागता च वेदना नोपलभ्यते । प्रत्युत्पन्ना वेदना तु नात्मानं प्रजानाति । (उ) सूत्रस्यास्य पुरुषो (
१९७) वेदयत इत्याभिप्रायिकं वचनमित्यदोषः । सुखादिवेदना काय आगम्य मन आलम्बते इत्यतोऽप्यनवद्यम् । सुखोपकरणे सुखमिति वदन्ति । लोकेऽपि कारणे कार्योपचारात् । स सुखां वेदनामनुभूय निमित्तं गृह्णाति । अत उच्यते सुखा वेदनोत्पद्यते चेत्स यथाभूतं प्रजानाति इति ।

(पृ) यद्वेदयति सा वेदना । वेद्यत इति वा वेदना । यदा वेदयतीति तदा वेदना सुखादिभिन्ना । सूत्रे तूक्तम्- सुखा वेदना दुःखा वेदना अदुःखासुखा वेदना इति । यदि वेद्यत इति वेदना । केन तद्वेद्यत इति वेदयतीति वेदना भवति । (उ) [सुख]कारणे सुखमित्युच्यते । यथा तेजो दुःखं तेजः सुखमिति । अतः कारणानुभवज्ञानं सुखा वेदनेत्युच्यते । सत्त्वा इमां वेदनां वेदयन्ति । अतो वेदयतीति वेदना भवति (पृ) न सत्त्वानां वेदना । उक्तञ्च सूत्रे- वेदयतीति वेदना इति । (उ) अयं पदस्यार्थः यत्सनिमित्तं तत्सकारित्रम् । प्रज्ञप्तौ सनिमित्तामिमां सुखां दुःखामदुःखासुखां [वेदनां] कायगतां चित्तमनुभवति । अत उच्यते वेदयतीति ।

(पृ) सूत्रे वेदनानामनुभवदर्शनमुक्तम् । योगिनस्तस्मिन् समये कथमुत्पद्यते सुखदुःखादुःखासुखानां निमित्तम् । किं तस्य तस्मिन् समये दुःखसंज्ञा नोत्पद्यते । (उ) सर्वं दुःखमित्यलब्ध्वा स तिस्रो वेदना अनुस्मरति । (पृ) यदि मनोविज्ञानवृत्त्या चत्वारि स्मृत्युपस्थानानि भवन्ति । कथमुच्यते कायिकं सुखमिति । (उ) सर्वासु वेदनासु एवं स्मृत्युनुबन्धात्स्यातिदं कायिकं सुखमिदं चैतसिकं सुखमिति । स्मृत्युपस्थानभावनाकाले काये सुखसंज्ञोत्पद्यते । तत्र स्मृत्युनुबन्धात्कायिकं सुखमित्युच्यते ।

(पृ) यदि सर्वा वेदनाश्चैतसिकाः । कस्मात्कायिकी वेदनेत्युच्यते । (उ) तीर्थिकानां कृत उच्यते । तीर्थिका हि वदन्ति वेदना आत्मनिश्रिता इति । अतो भगवानाह- वेदनाः कायं चित्तञ्च निश्रिता इति । (पृ) कतमा कायिकी वेदना । (उ) पञ्चेन्द्रियाण्युपादायोत्पद्यमाना वेदना कायिकी वेदना । षष्ठमिन्द्रियमुपादायोत्पद्यमाना वेदना चैतसिकी (पृ) आसां कतमा सामिषा कतमा निरामिषा । (उ) क्लेशा आमिषाः । क्लेशानुशयिता वेदना सामिषा । क्लेशाननुशयिता वेदना निरामिषा । (
१९८) (पृ) कतमा दुःखा वेदना निरामिषा । (उ) प्रहीणामिषस्य या दुःखा वेदना सा निरामिषा । आमिषाणां विरुद्धा दुःखा वेदना इतीयं निरामिषेत्युच्यते । (पृ) सामिषां निरामिषामुक्त्वा कस्मात्पुनरुच्यते कामनिश्रिता नैष्क्रम्यनिश्रितेति । काम एव आमिषः । नैष्क्रम्यमेव निरामिषता । (उ) पूर्वं सामान्यत उक्तमामिषमिति । इदानीं पुनःकाम आमिषहेतुरिति प्रविभज्योच्यते । यथोच्यते सूत्रे- अस्ति सामिषा प्रीतिः अस्ति निरामिषा प्रीतिः । अस्ति निरामिषतो निरामिषतरा प्रीतिरिति । सामिषा प्रीतिरिति पञ्चकाम गुणान् प्रतीत्योत्पद्यते प्रीतिः । निरामिषा प्रीतिरिति यदुत प्रथमध्यान[जा]प्रीतिः । निरामिषतो निरामिषतराप्रीतिरिति यदुत द्वितीयध्यानजा प्रीतिः । या वेदना निर्वाणमात्रार्था सा नैष्क्रम्यनिश्चितेत्युच्यते । अतः पुनरुच्यते ।

(पृ) पञ्चस्विन्द्रियेषु कस्माद्दुःखा वेदना सुखा वेदनेति प्रत्यङ्गं द्विधा विभक्ता । किं नास्त्युपेक्षा वेदना । (उ) दौर्मनस्यं सौमनस्यञ्चावश्यं संज्ञाविकल्पेनोत्पन्नम् । सुखा दुःखा तु नावश्यं संज्ञाविकल्पाधीना । उपेक्षावेदनायां संज्ञाविकल्पस्यातिसूक्ष्मत्वान्नास्ति द्वैधम् । तृतीयध्याने मनोविज्ञानं वेद्यते । कस्मात्सुखमस्ति न प्रीतिः । (उ) सुस्रं सर्वकायचित्तं गहनमापूरयतीति सुखमुच्यते । प्रीतिस्तु चित्तमात्रमापूरयति न कायम् । अतस्तृतीयध्याने प्रीतिविशेषं निश्रित्योच्यते कायेन सुखं प्रतिसंवेदयतीति ।

(पृ) तिसृषु वेदनासु का घनिष्ठक्लेशजननी । (उ) आभिधर्मिकाः केचिद्वदन्ति सुखा वेदनेति । कस्मात् । पूर्वोक्त [वेदना]प्रत्ययवेदनाया दुःखतरत्वात् । [अन्ये] आभिधर्मिका वदन्ति दुःखा वेदनेति । कस्मात् । सत्त्वाः दुःखाभिहताः सुखार्थित्वात्घनिष्ठं क्लेशमुत्पादयन्ति इति । विविधसुखेभ्योऽत्यल्पं दुःखमतिरिच्यते । यथा पञ्चकामगुणसम्पन्नस्य पुरुषस्य मशकपतङ्गदंशे यो दुःखानुभवो भवति । न तादृशं रूषादिपञ्चकामगुणानां सुखम् । यादृशञ्च जीवतां पुत्राणां शतेन सुखम्, न तदेकपुत्रमृतितुल्यम् । संसारे च दुःखा वेदना बहुला । न तथा सुखा वेदना । कस्मात् । बहवः सत्त्वाः (
१९९) तिसृषु दुर्गतिषूपपन्ना देवमनुष्येभ्यो निकृष्टाः । नावश्यं स्वभावमधिष्ठाय दुःखस्य लाभः । सुखार्थितामधिष्ठाय लाभो बालाभो वास्ति । यथा क्षेत्रे तृणवीरणानि स्वयं प्ररोहन्ति न सस्यानि । दुःखां वेदनां प्रतीत्य गुरुके पापकर्मणि प्रवर्तते । कस्मात् । दुःखायां वेदनायां प्रतिघानुशयोऽस्ति । यथोक्तम्- प्रतिघो गुरतरं पापमिति ।

आभिधर्मिकाः केचिदाहुः- अदुःखासुखोत्पद्यते । कस्मात् । अत्रास्ति मोहानुशयः । सर्वक्लेशानां मूलं मोहः । सा च वेदना सूक्ष्मा । तत्र क्लेशानां ज्ञानस्य दुरनुभावत्वात् । सा च वेदना सत्त्वानां प्रकृतिः । सुखदुःखे चागन्तुके । सा च वेदना त्रिषु धातुषु व्याप्ता । न तथान्ये द्वे । वेदनेयं चिरजीविनी । तद्वेदनारागं प्रतीत्य जीवति अशीति महाकल्पसहस्राणि दुःखलक्षणान् स्कन्धाननुभवति । सा च निर्वाणविरोधिनी । कस्मात् । तत्र ह्युत्पद्यते शान्तलक्षणं निर्वाणलक्षणम् । न पुनः पारमार्थिकं निर्वाणं लभ्यते । किञ्च सा आर्यमार्गदोषकरणी । यथोक्तं- विसंयोगस्वभावं प्रतीत्य विमुक्तिर्लभ्यत इति । सुखा वेदना दुःखा वेदना तु लौकिकमार्गस्यापि दोषप्रापिणी । सा च वेदना आसंसारं व्यवतिष्ठते । सन्तानसमुच्छेदे समुच्छिद्यते । अतो घनिष्ठक्लेशजननी ॥

वेदनाप्रश्नवर्गो द्वयशीतितमः ।


८३ पञ्चवेदनेन्द्रियवर्गः

(पृ) सुखेन्द्रियं यावदुपेक्षेन्द्रियं कुत्र वर्तते । (उ) सुखेन्द्रियं दुःखेन्द्रियञ्च कायगतम् । यथाकायलाभं यावच्चत्वारि ध्यानानि भवन्ति । अन्यानि त्रीणि चित्तगतानि । यथाचित्तलाभं यावद्भवाग्रं भवति । (पृ) यथोक्तं सूत्रे दौर्मनस्येन्द्रियं प्रथमध्याने निरुध्यते । सौमनस्येन्द्रियं तृतीयध्याने निरुध्यते । सुखेन्द्रियं चतुर्थध्याने निरुध्यते उपेक्षेन्द्रियं निरोधसमापत्तौ निरुध्यते । इति । अतो भवदुक्तमयुक्तम् । (उ) (
२००) भवदुक्तसूत्रेण दुःखेन्द्रियं प्रथमध्याने वर्तते । भवतां शासने तु प्रथमध्यानं वस्तुतोऽदुःखेन्द्रियम् । अतो न श्रद्धेयं स्यादिदं सूत्रम् ।

(पृ) रूपारूप्यधातौ कुशलधर्मान् सम्यक्भावयतो दुःखं दौर्मनस्यं नस्यात् । (उ) त्रैधातुकं सर्वं दुःखम् । द्वयोरूर्ध्वधात्वारौदारिके दुःखेऽसत्यपि सूक्ष्मं दुःखमस्त्येव । केनेदं ज्ञायते । चतुर्षु ध्यानेषूच्यन्ते चत्वारि इर्यापथानि । यत्रास्तीर्यापथम् । तत्र सर्वं दुःखः स्यात् । रूपधातौ च सन्ति चक्षुः श्रोत्रकायविज्ञानानि । एषां विज्ञानानां या काचिद्वेदना सा दुःखा वा सुखा वा भवति । एकस्मादिर्यापथादपरमिर्यापथमर्थ्यत इत्यतो ज्ञायते दुःखमस्तीति । सूत्रे पृच्छति- रूपाणां क आस्वादः । यदुत रूपं प्रतीत्योत्पद्यते सुखं सौमनस्यम् । कश्च रूपाणामादीनवः । यत्किञ्चनरूपं [सर्वं तत्] अनित्यं दुःखं विपरिणामधर्म इति रूपधातोः सरूपत्वातस्त्यास्वादचित्तं, अस्त्यादीनवचित्तम् । अतोऽस्ति सुखं दुःखम् । योगी ध्यानसमाधिषु रज्यते चोपेक्षते च । सुखवेदनाप्रत्ययत्वादवश्यं रज्यते । दुःखवेदनाप्रत्ययत्वादुपेक्षते । अतो ज्ञायतेऽस्ति सुखं दुःखमिति ।

भगवानाह- वागादयः प्रथमध्यानस्य शल्यम् । वितर्कचारौ द्वितीयध्यानस्य शल्यम् । यावन्नैवसंज्ञानासंज्ञायतनस्य संज्ञा वेदना च शल्यमिति । शल्यमिति दुःखमित्यर्थः । अतो ज्ञायते दुःखमिति । सर्वेऽपि पञ्चस्कन्धा दुःखं विहिंसनदुःखम् । यथा कामधातुकवेदना विहिंसकत्वात्दुःखम् । ऊर्ध्वधातुकवेदनाया अपि विहिंसनमस्तीति कस्मान्न दुःखम् । यथा कामधातौ व्याध्यादयोऽष्ट संस्कारा उच्यन्ते । रूपारूप्यधात्वोरपि तथाष्टसंस्काराः समानमुक्ता इति कस्मान्नास्ति दुःखम् । रूपधातावाभाया न्यूनता वातिशयो वोच्यते । अतो ज्ञायते रूपधातुककर्मापि विभक्तमिति । कर्मविभागादवश्यं दुःखविपाककर्मलाभिना भवितव्यम् । आह च सूत्रम्- अत्र सन्तीर्ष्यामात्सर्यादयः क्लेशा (
२०१) इति । यथा ब्रह्मा ब्रह्माणमामन्त्याह- ध्रूवमिदं स्थानं मा भवन्तः श्रमणं गौतममुपसङ्क्रमत इति । आगत्यापि महाब्रह्मा भवन्तमनुयोगमापृच्छति । उक्तञ्च सूत्रे- चतुर्थध्यानमुपसम्पन्नोऽकुशलान् धर्मान् प्रजहातीति । अपि चोक्तं सूत्रे- तत्रास्ति मिथ्यादृष्टिः क्लेश इति । ईदृशाः क्लेशा एवाकुशला दुःखविपाकप्रापकाः स्युः । कस्मान्नास्ति दुःखम् । आभिधर्मिका आहुः- सर्वे क्लेशा अकुशला इति । तत्र कथं नास्ति दुःखा वेदना ।

उक्तञ्च सूत्रे- रूपारामा [भिक्षवो] देवमनुष्याः रूपरता रूपसमुदिताः । रूपविपरिणामविरागनिरोधात्दुःखा [भिक्षवो] देवमनुष्या विहरन्ति । इति । एवं यावद्विज्ञानेऽपि । अतो ज्ञायते सर्वेषामवीतरागाणामस्ति दौर्मनस्यं सौमनस्यमिति । प्रिय[योग]प्रत्ययं सौमनस्यं भवति । तत्प्रियवियोगप्रत्ययं दौर्मनस्यं भवति । प्राकृतानामज्ञानां कस्य शक्तिबलेन प्रियप्राप्तिप्रत्ययं सौमनस्यं न भवति । हानौ च न दौर्मनस्यम् । यथोक्तं सूत्रे- मार्गं प्रतिपन्नस्यैवायुषोऽन्ते रूपे सौमनस्यं दौर्मनस्य ञ्च नास्ति इति । अतो ज्ञायते सर्वेषां प्राकृतानां सौमनस्यं दौर्मनस्यं सदानुवर्तते इति ।

भगवान् स्वयमाह- दौर्मनस्यविगतं सौमनस्यविगतञ्चैकं चित्तमुपेक्षायामुपविचरतीत्ययमर्हतो गुण इति । षडुपेक्षोपविचाराश्चार्यचरितान्येव न प्राकृतानाम् । प्राकृताः कदाचिदुपेक्षायामुपविचरन्ति । न तत्ज्ञानप्रत्ययतथा । यथोक्तं सूत्रे- प्राकृतानां यदुपेक्षाचित्तं सर्वं तत्रूपनिश्रितं न रूपरागविमुक्तमिति । अतो ज्ञायते प्राकृतानां नास्त्युपेक्षाचित्तमिति । यथोक्तं सूत्रे- सुखायां वेदनायां रागानुशयः इति । यदि नास्ति तस्य सुखा वेदना । कुत्र रागोऽनुशयीत ।

यद्भवतो मतं- कदाचिददुःखासुखायां [वेदनायां] रागानुशयोऽनुशेत इति । तत्सूत्रे नास्ति वचनस्थानम् । उत्तमभूमौ च प्रवृत्ते कायचित्ते शान्तसुखे न महदनुगृहीते स्तः । यथोक्तम्- देवाः कल्पसहस्रमेकत्र निषीदन्ति इति । यदि [ते] दुःखोपविचारिणः (
२०२) न ते तदिर्यापथेषु दीर्घकालं स्थातुं शक्नुवन्ति । यथोक्तं सूत्रे- सप्तदिनानि समाविश्य विमुक्तिसुखं वेदयत इति । तत्र च प्रश्रब्धिसुखं परमम् । यथोक्तं सूत्रे प्रश्रब्धिरिति सुखा वेदना इति । अतो ज्ञायते सर्वासु भूमिषु अस्ति सुखा वेदनेति । यद्भवतो मतम्- कदाचित्प्रश्रब्धिसुखं सुखवेदनातो भिन्नमिति । तदयुक्तम् । यत्किञ्चिदनुग्राहकं कायगतं तत्सुखमित्युच्यते । अतः प्रश्रब्धिसुखं न सुखवेदनातो भिन्नम् ।

(पृ) यद्यूर्ध्वधातुकसमाधिषु सुखदुःखसौमनस्यदौर्मनस्यानि सन्ति । कथं ध्यानसूत्रानुगुण्यं भवेत् । (उ) सूत्रमिदं धर्मतालक्षणविलोमकम् । यद्युपेक्ष्यते को दोषः । तत्र च सुखविहारः शान्तोऽनासङ्गरूपः । नोद्भवति औदारिको रागः प्रतिघो वा । तस्मातुच्यते [तत्र] नास्ति सुखं नास्ति दुःखमिति । तत्र च सुखदुःखे सूक्ष्मे न प्रतीते स्तः । असिशस्त्रादि दुःखं बन्धमरणादि दौर्मनस्यञ्च नास्तीत्यतो नास्ति दुःखमिति । यथोच्यते रूपधातुरनुष्णाशीत इति । तत्रापि सन्ति चत्वारि महाभूतानि । कथं वक्तव्यमनुष्णाशीत इति । यदुच्यते त्रिषु ध्यानेषु सत्त्वा एककाया एकनिमित्ता इति । तत्राप्यस्ति आभाप्रविभागः । यथा वदन्ति- यो ध्यानविहारी न सम्यक्स्त्यानमिद्धौद्धत्यान्यपनयति सोऽविशुद्धाभ इति । यथाल्पज्ञः पुरुषोऽज्ञ इत्युच्यते । यथा च लौकिका वदन्ति अल्पलवणे भोजने अलवणमिति । एवं तत्र सौमनल्यं दौर्मनस्य ञ्च न प्रतीतमितो नास्तीत्युच्यते ।

यद्भवद्भिरूक्तं नास्ति तत्र वितर्क इति । उक्तञ्च सूत्रे भगवता संज्ञाप्रत्ययो वितर्क इति । अत्र संज्ञायां सत्यां कथं नास्ति वितर्कः । अतो ज्ञायते यावद्भवाग्रमस्ति वितर्कधर्म इति । [चित्तस्य] औदारिकता वितर्क इति ध्यानद्वये निरुद्ध इत्युच्यते । तस्मादूर्ध्वधातुद्वयेऽपि सन्ति सुखदुःखादयः ॥

इति वेदनास्कन्धः समाप्तः ।

पञ्चवेदनेन्द्रियवर्गस्त्र्यशीतितमः ।


(
२०३)
८४ दुःखसत्यस्कन्धे संस्काराधिकारे चेतनावर्गः

सूत्र उक्तम्- षट्चेतनाकायाः संस्कारस्कन्ध इति । (पृ) का पुनश्चेतना । प्रार्थना प्राणिधानं चेतना । यथोक्तं सूत्रे- अवरचेतना अवरप्रार्थना अवरप्रणिधानम् । इति ।

(पृ) कस्मात्ज्ञायते प्रार्थना चेतना इति । (उ) उक्तं सूत्रे- अभिसंस्कुर्वन्तीति संस्काराः इति । स्कन्धाभिसंस्कारतृष्णा प्रार्थना । यथोक्तं सूत्रे अभिसंस्काराः तृष्णानिश्रिता इति । किञ्चोक्तं सूत्रे- यथापि [भिक्षवः] यवकलापी चतुर्महापथे विक्षिप्ता स्यात् । [अथ] षट्पुरुषा आगच्छेयुः । [व्याभङ्गिहस्तास्ते तां यवकलपी षडिभर्व्याभाङ्गभि]र्हन्युः । अथ सप्तमः पुरुष आगच्छेत् । [व्याभङ्गिहस्तः स यवकलापीं सप्तम्या व्यभङ्गया] हन्यात् । किं पुनरिदं भिक्षवो भवतां मनसि विपच्यते न वा । विपच्यते भगवान् । भगवानाह- एवमेवाश्रुतवान् पृथग्जनो नित्यं षट्स्पर्शैराहन्यते । एवं हन्यमानः पुनरायतिभवाय चेतयते । एवं हि स मोघपुरुषः सुहततरो भवति । इति । ज्ञातव्यं प्रार्थनैव चेतना इति । किञ्चाह- मनःसञ्चेतनाहारः अङ्गारकर्षवत्द्रष्टव्य इति । अङ्गारः कस्य दृष्टान्तः । आयतिभवाय चेतयत इत्यस्य । आयतिभवश्चाङ्गारकल्पः । सदा दुःखानां जनकत्वात् । किञ्चोक्तं सूत्रे- अस्मीति [भिक्षव] इञ्जितम् । अस्मीति [भिक्षवः] प्रपञ्चितं स्पन्दितं (
२०४) रागगत इति । यत्रास्मीति तत्रेञ्जितं मनस्कृतं प्रपञ्जितं स्पन्दितं रागगतमिति । योऽभिसंस्कृतो धर्मः स रागगत इत्युच्यते । [अतो] ज्ञातव्यं प्रार्थनैव चेतना इति । किञ्चाह- यो बालो जन्मप्रभृति मैत्रीमभ्यस्यति सोऽकुशलं कर्म करोति चेतयते न वा । नो भगवनिति । कामप्रार्थनयाकुशलं करोतीति तदर्थः । आह च चेतना कर्म चेतयित्वा चेति । तत्र चेतना मानसं कर्म । चेतयित्वा कर्म कायिकं वाचिकम् । चेतयित्वेति प्रार्थयित्वा । उपालिसूत्रे उक्तम्- निघण्टो नाथपुत्रः शीतोदकप्रतिक्षिप्त
उष्णोदकप्रतिसेवी । स शीतोदकं प्रार्थयमानोऽलभमानः कालं कुर्यात् । मनस्सक्तदेवेषूपपद्यते । अयं शीतचेतनत्वात्तत्रोपपद्यत इति । अतो ज्ञायते प्रार्थनैव चेतना इति ।

(पृ) यद्भवनाह- प्रार्थना चेतनेति । सा [प्रार्थना] तृष्णालक्षणा न चेतना । कस्मात् । सहेतुसप्रत्ययसूत्र उक्तम्- अश्रुतवतः पृथग्जनस्य यत्प्रार्थितं तृष्णैव सा इति । महानिदानसूत्र उक्तम्- तृष्णां प्रतीत्य पर्येषणा इत्यादि । किञ्चोक्तं सूत्रे- दुःखी भूयसा सुखार्थी किं न प्रार्थयते इति । आह च- यदा पुरुषः पञ्चकामगुणेषु रज्यते स राग एव प्रार्थना इति । अपि चाह- तृष्णाप्रत्ययमुपादानमिति पर्येषणं पूर्वं भवति पश्चादुपादानमिति । पर्येषणमेव तृष्णा । तस्मात्प्रार्थना चेतनात्मिकेति भवतां मतमयुक्तम् । यदुक्तं भवता- प्रणिधानं चेतनेति । तदयुक्तम् । कस्मातुपालिसूत्र उक्तम्- असञ्चेतनिकं कर्म न महासावद्यम् । असञ्चेतनिकमज्ञानपुरस्सरम् । लोकेऽपि (
२०५) ज्ञानं चेतनं मन्यते । यथा वदन्ति को ज्ञानी इदं कुर्यात् । कः सचेतन इदं कुर्यादिति । बुद्धिमानितीममर्थं व्यवहरन्ति । अतो ज्ञायते ज्ञानमेव चेतनेति ।

अत्र ब्रूमः । प्रणिधानं समुदय इत्युच्यते । कर्माङ्गं प्रणिधानं चेतना । यथा कञ्चित्प्रणिदधन्नाह- अहमनागतेऽध्वनि ईदृशं कायं प्रतिलप्स्य इति । (पृ) यदि कर्माङ्गं प्रणिधानं चेतनेति । तदा नानास्रवा चेतना स्यात् । चेतना च तृष्णाहेतुः । यथोक्तंसूत्रे- मनःसञ्चेतनाया [भिक्षवः] आहारे परिज्ञाते तिस्रस्तृष्णाः परिज्ञाता भवन्ति । इति । अतो ज्ञायते चेतना तृष्णाहेतुरिति । (उ) यद्ब्रवीषि नानास्रवा चेतनेति । तदहमपि न ब्रवीमि अस्त्यनास्रवा चेतनेति । कस्मात् । अभिसंस्करोतीति संस्कार इति लक्षणात्चेतनेत्युच्यते । अनास्रवधर्मस्य अनभिसंस्कारलक्षणत्वात् । चेतनाह्यभिसंस्कारिणी न निरोधधर्मिणी । यदवोचः चेतना तृष्णाहेतुरिति । तदयुक्तम् । कस्मात् । सा हि तृष्णाकार्यं तृष्णाङ्गञ्च । न तृष्णाहेतुः । कार्यप्रहाणाद्धेतुप्रहाणमुक्तं यदुत मनःसञ्चेतनाहारप्रहाणात्तिसृणां तृष्णानां प्रहाणमिति । संस्कारादिप्रत्ययाश्चानेन प्रत्युक्ताः । अतो ज्ञायते तृष्णाङ्गं चेतनेति । तृष्णा हि द्विविधा हेतुभूता फलभूता चेति । हेतुः तृष्णा भवति फलं प्रार्थना । प्रार्थनैव च चेतना ।

चोदयति । यदि हेत्ववस्थायां तृष्णा फलावस्थायां चेतना । तदा न चेतना तृष्णाङ्गं स्यात् । कस्मात् । यो धर्मो हेत्ववस्थः सोऽन्यः फलावस्थ श्चान्यः इत्यतो ज्ञायते चेतना न तृष्णाङ्गमिति । यथोक्तं सहेतुसप्रत्यय सूत्रे मूढस्य यत्प्रार्थितं तृष्णैव सा । तृष्णावतो यत्किञ्चिच्चेष्ठितं तत्कर्म इति । अतश्चेतना कर्मलक्षणानुगतेति तृष्णतोऽन्या । यस्य यस्मिन् वस्तुनि रागः तस्य तस्मिन् वस्तुनि प्रार्थना । अतो रागात्जायते प्रार्थना । प्रार्थनैव चेतना अतो रागश्चेतनाहेतुः ।

अत्रोच्यते । पूर्वमुक्तं मया तृष्णाङ्गं चेतनेति । तृष्णायाः केवलमाद्यारम्भो रागः । रक्तस्या[रम्भः] प्रार्थना । यदवोचः प्रणिधानं [न चेतने]ति । न तद्युक्तम् । कस्मात् । (
२०६) प्रणिधानं चेतनाङ्गम् । पूर्व प्रणिधानाख्यं कर्म । पश्चात्कर्मणि प्रवृत्तिः । (पृ) चेतना मनसोऽन्या उतानन्या । (उ) मन एव चेतना । यथोक्तं धर्मपदे-

मनसा चेत्प्रदुष्ठेन भाषते वा करोति वा ।
तत एनं दुःखमन्वेति । इति

प्रसन्नमनसाप्येवम् । अतो ज्ञायते मन एव चेतनेति । यदि चेतना न मनः । किं मानसं कर्म भवेत् । मानसं कर्म यन्मन आलम्बन उपविचरति । अतश्चेतना मन एव । सामान्यलक्षणतो मनौपविचारश्चेतनेत्युक्तापि सा बाहुल्येन कुशलाकशलधर्मगतेत्युच्यते । तस्याश्चेतनाया बहवः प्रकारा भवन्ति । यदा पुरुषः परसत्त्वानां कुशलमकुशलं वा प्रार्थयते । तदा चेतनेत्याख्यायतो । यदालब्धं वस्तु प्रार्थयते । तदा प्रार्थना । यदायतिभवं प्रार्थयते । तदा प्रणिधानम् । अतो ज्ञायते एकैव चेतना नानानामभिरुच्यत इति ।

दुःखसत्ये संस्काराधिकारे चेतनावर्गश्चतुरशीतितमः ।


८५ स्पर्शवर्गः

अलम्बनगतं विज्ञानं स्पर्श इत्युच्यते । त्रयाणां सन्निपात इतीदं न स्पर्शलक्षणम् । कस्मात् । न हीन्द्रियमालम्बनं प्राप्नोति । अत इन्द्रियालम्बनयोर्न स्यात्सन्निपातः । तैस्त्रिभिरालम्बनं गृह्णातीति सन्निपात इत्युच्यते ।

पृच्छति । अस्त्यन्यश्चैतसिकधर्मः स्पर्शाख्यः । कस्मात् । द्वादशनिदानसूत्रे ह्युक्तंस्पर्शप्रत्यया वेदनेति । आह च- स्पर्शो वेदनासंज्ञासंस्काराणां हेतुरिति । यदि नास्ति स धर्मः । को हेतुः स्यात् । अतो ज्ञायते अस्ति च चैतसिक धर्मः स्पर्शाख्य इति । षट्षट्कसूत्र उक्तं- षट स्पर्शकाया इति । किञ्चोक्तं सूत्रे अविद्यादीनां स्पर्शो [हेतु]र्द्रष्टव्य इति । यद्युच्यते हेतवः प्रज्ञप्तिधर्मा इति । न पुनः पृथक्वक्तव्यं स (
२०७) प्रज्ञप्तिधर्म इति । सूत्रे चास्ति द्विविधः स्पर्शः एक त्रयाणां सन्निपातः स्पर्श इति । अपरः त्रयाणां सन्निपातात्स्पर्श इति । अतो ज्ञायते द्विविधयोः स्पर्शयोरेकः स्वरूपसनपरः प्रज्ञप्तिसन्निति । यथा दिनकरमणिगोमेदकानां त्रयाणां विभिन्नं तेजः । चन्द्रकान्तयोश्चापो विभिन्नाः । पृथिव्यादीनामङ्कुरा विभिन्नाः । एवं स्पर्शश्चक्षुरादीनां विभिन्न इति किमस्त्यवद्यम् । यथा च भिक्षूणां समवायो न भिक्षुभ्योऽन्यः । स्कन्धानां समवायो न स्कन्धेभ्योऽन्यः । न वृक्षद्वयसंयोगो वृक्षद्वयाद्भिद्यते । न हस्तद्वयसंयोगो हस्तद्वयाद्भिद्यते । न बहुग्लानसमवायो बहुग्लानेभ्यो भिद्यते । एवं स्पर्शोऽपि न चक्षुरादिभ्यो भिद्यत इति नास्त्यवद्यम् ।

अत्र ब्रूमः । प्रागुक्तं मया [यदा] चित्तमालम्बनं गृहाति तस्मिन् समये स्पर्श इति । अतश्चित्तं [यस्मिन्] काले विज्ञानोत्पत्तिहेतुर्भवति । तदनन्तरं वेदनादयो धर्मा उत्पद्यन्ते । षठ्षट्कसूत्रेऽप्युक्तं तस्मिन् समये स्पर्शमिति । इदमेव युक्तम् । न वयं स्वीकुर्मः स्पर्शोऽयं द्विविध इति । सर्वत्रोक्तं त्रयाणां सन्निपातः स्पर्श इति । स्पर्शद्वेविध्यसूत्रं सदपि धर्मलक्षणविरोधादुपेक्ष्यम् । अत उदाहृतसूत्रमहेतुः । यदि स्पर्शो भिद्यते जलतेजोवत् । तदा कारित्रमपि भिद्येत । न तु दृश्यते प्रत्येकं कारित्रभेदः । अतो ज्ञायते स स्पर्शो न त्रिभ्यो भिद्यत इति ।

किञ्च यदि स्पर्शश्चैतसिकधर्मः तदा अन्येभ्यश्चैतसिकेभ्यो भिद्येत । कस्मात् । स्पर्शश्चैतसिकानां प्रत्ययः । नहि स्पर्शः स्पर्शस्य प्रत्ययो भवति । उत्पत्तिभेदान्न चैतसिक धर्मः । (पृ) स्पर्शविशेषात्स्पर्शप्रत्यया श्चैतसिका इति । न स्पर्शप्रत्ययः स्पर्शः । यथा वेदनाप्रत्यया तृष्णा न तृष्णाप्रत्यया वेदना । (उ) स्पर्शस्य किं विशेषलक्षणं यदन्यचैतसिकानां नोक्तं स्यात् । न वस्तुतोऽभिधीयमानमस्ति । अतोऽहेतुः । वेदनाद्यकालीना तृष्णानन्तरकालीना इति वेदनाप्रत्यया तृष्णा न तु तृष्णाप्रत्यया वेदना । यदि स्पर्शो व्यतिरिक्तधर्मः । तल्लक्षणं वक्तव्यम् । न तूच्यत इति ज्ञातव्यं नास्ति विभिन्नः [स्पर्श] इति । भगवान् वैधर्म्येऽपि स्पर्शाख्यामाह । यथाह यो दुःखोपघातः स आगत्य जनकायं स्पृशतीति । आह च सुखवेदनास्पृष्टेन न प्रमत्तव्यम् । न दुःखवेदनास्पृष्टेन विद्वेष्टव्यम् । अस्यां वेदनायां स्पर्श इति संज्ञामाह । भगवान् सूचीलोमं यक्षमाह- तव (
२०८) संस्पर्शः पापक इति कायमपनयामि इति । यथा लोके वदन्ति सुख उष्णसंस्पर्श इति । तथा स्पर्शाहारमप्याहुः । पाणिस्पर्श इति च वदन्ति । अतः सर्वत्र कायविज्ञानविज्ञेये वस्तुनि स्पर्शसंज्ञोच्यते ।

अन्यत्रचोक्तं- अन्धो न रूपं स्पृशति । रूपाद्यालम्बनेषु स्पर्शसंज्ञाञ्च वक्ति । इति । तत्स्पर्शव्यवहारस्यानियतत्वान्नास्ति च चैतसिकधर्मः पृथक् । यदुच्यते चैतसिकं, तत्स्पर्शलक्षणविरुद्धम् । कस्मात् । भगवानाह- त्रयाणां सन्निपातः स्पर्श इति । अतो ज्ञायते नास्ति पारमार्थिकः पृथक्चैतसिकधर्म इति । यो धर्मः कायगतः स स्पर्श इत्युच्यते । यत्वेदनादीनां चैतसिकानां हेतुक्रियां प्रयच्छति तस्मिन् समये स्पर्श इति नाम प्रदीयते ॥

स्पर्शवर्गः पञ्चाशीतितमः ।


८६ मनस्कारवर्गः

चित्तस्याभोगो मनस्कारः । स मनस्कार आभोगलक्षणः । अतः प्रतिमनस्कारं विभिन्नं चित्तमुत्पद्यते । वदन्ति च मनस्कारलक्षणं वस्तवधारणकृदिति । यथोक्तं सूत्रेयदि चक्षुराध्यात्मिकमायतनमनुपहतं भवति । रूपं नाह्यमायतनं पुरोवर्ति भवति । चित्तान्तरोत्पादकमनस्कारश्च नास्ति । तदा न चक्षुर्विज्ञानमुत्पद्यत इति ।

(पृ) किं विज्ञानानां ज्ञानं सर्वं मनस्कारबलेनोत्पद्यते किं वा न । (उ) न । कस्मात् । विज्ञानानां ज्ञानोत्पादो नैकान्तिकः । कदाचिदाभोगबलेनोत्पद्यते यथा प्रबलरागादिवर्जितानाम् । कदाचिदिन्द्रियबलादुत्पद्यते यथालोकचक्षुष्कः कणमृजु परीक्षते । कदाचिदालम्बनबलादुत्पद्यते यथा दूरतः प्रदीपं पश्यन् तस्य कम्पं पश्यति । कदाचित्कुशलमभ्यासादुत्पद्यते यथा शिल्पकर्मादि । कदाचित्सत्यग्रहलक्षणेनोत्पद्यते । यथा रूपाध्यवसायः । कदाचिद्धर्मस्वरूपत उत्पद्यते यथा कल्पावसाने ध्यानम् । यदाचित्कालेनोत्पद्यते (
२०९) यथाल्पायुष्कानां सत्वानामकुशलं चित्तम् । कदाचिदुपपत्त्यायतनत उत्पद्यते यथा गवाजादीनां चित्तम् । कदाचित्कायबलातुत्पद्यते यथा स्त्रीपुरुषादीनां चित्तम् । कदाचिद्वयोविशेषादुत्पद्यते यथा बालादीनां चित्तम् । कदाचित्क्लमथतन्द्रिभ्यामुत्पद्यते । कदाचित्कर्मबलादुत्पद्यते यथा कामानां वेदना । कदाचित्समाधिबलादुत्पद्यते यथैकत्र प्रतिबद्धचित्तो विज्ञाने प्रकर्षं प्रजानाति । कदाचित्समाधिनियमादुत्पद्यते यथानावरणमार्गानन्तरं विमुच्यते । कदाचिच्चिरनिर्वेदादुत्पद्यते यथा कटुरसनिर्विण्णो मधुरसमभिलषति । कदाचिदभिरुचिवशादुत्पद्यते यथा रूपादीन् प्रति । कदाचिद्रूपदर्शनाभिलषितस्य न शब्दश्रवणे तृप्तिर्भवति । तथा नीलादावपि । सौकुमार्यादुत्पद्यते यथा लोमाक्षिगतं सत्चित्तस्य दुःखजनकं नान्यत्र गतम् । कदाचिद्दुःखमनादुत्पद्यते यथापगताक्षिरुजान्नमास्वाद्यते । कदाचिदावरणापगमादुत्पद्यते यथा कामाद्यपगमे तद्दोषान् प्रजानाति । कदाचित्क्रमश उत्पद्यते । यथा अवरं प्रतीत्य मध्यममुत्पद्यते । मध्यमं प्रतीत्योत्तमम् । कदाचित्सर्वत- उत्पद्यते ।

(पृ) यदि सर्वविज्ञानानां ज्ञानं क्रमलक्षणम् । कस्मादुच्यते चित्तान्तरजनकमनस्कारो नास्ति [पृथक] इति । (उ) तीर्थिकानां कृत [उच्यते] । तीर्थिका हि वदन्ति आत्ममनोयोगाद्विज्ञानज्ञानमुत्पद्यत इति । तद्व्यवहारदूषणाय प्रदर्शयति विज्ञानज्ञानानि समनन्तरप्रत्ययानुबन्धीनीति । अत एवमाह- कस्यचित्चित्तान्तरजनकमनस्कारेऽसति विज्ञानं नोत्पद्यत इति । कस्मात् । समनन्तरप्रत्ययत्वात्तु विज्ञानज्ञानमेकैकं प्रतीत्योत्पद्यते । तद्यथा वृक्षं छित्त्वाथ पातयति । पूर्वमुक्तं- विज्ञानानि नैककालिकानीति । हेतुप्रत्ययवशाद्विज्ञानानां ज्ञानमैकैकं क्रमेणोद्यते । विज्ञानधर्माः क्रमिकाः स्युः । नात्ममनोयोगापेक्षिणः । यथा बाह्यवस्तूनि अङ्कुरकाण्डनालपत्रपुष्पफलानि क्रमिकानि भवन्ति । तथाध्यात्मिकधर्मा अपि । विज्ञानज्ञानमैकैकं क्रमिकं भवति ।

सम्यक्मिथ्येति मनस्कारो द्विविधः । सम्यगिति यत्योनिशो [मनस्कारः] । यथा वदन्ति सम्यक्प्रश्नः सम्यग्दूषणं, दूषणप्रश्नयोरिदं सयुक्ति समाधानमिति । धर्माणामनित्यतादि पारमार्थिकप्रश्नः सम्यगित्युच्यते । साध्यसाधनानुविधानञ्च सम्यगित्युच्यते । (
२१०) अतो ज्ञायते युक्तयनुयायिमनस्कारः तत्त्वमनस्कार इत्यादयः सम्यङ्मनस्काराः । यथापुद्गलं यथाकालं मनस्कारश्च सम्यङ्मनस्कारः । यथा कामबहुलस्याशुभभावना सम्यङ्मनस्कारः । चित्तेऽबलीने व्युत्थानलक्षणं स्मयङ्मनस्कारः । एतद्विपरीतं मिथ्यामनस्कारः । सम्यङ्मनस्कारः सर्वगुणान् सम्पादयति । मिथ्यामनस्कारः सर्वक्लेशानुत्थापयति ।

मनस्कारवर्गः षडशीतितमः ।


८७ छन्दवर्गः

साभिलाषं चित्तं छन्दैत्युच्यते । कस्मात् । सूत्रमाह कामच्छन्द इति । कामान् छन्दयतीति कामच्छन्दः । उक्तञ्च सूत्रे- छन्दो धर्ममूलमिति । छन्द- प्रार्थनया सर्वधर्मानाप्नोतीति धर्ममूलमित्युच्यते । किञ्चाह- यदि भिक्षवो मम शासने तीव्रच्छन्दा [वर्तध्वे] । तद मम शासनं सुचिरं तिष्ठेतिति । यच्चित्तैकतानत्वेनाभिलष्यते । तत्तीव्रच्छन्द इत्युच्यते । ऋद्धिपादे चोक्तम्- छन्दसमाधिः वीर्यसमाधिः चित्तसमाधिर्मीमांसासमाधिरिति । यच्चित्तेनाभिलष्यते स छन्दः । अयं वीर्यसहकारिणा प्रज्ञासमाधिं सञ्चिनोतीत्येभ्यश्चतुर्भ्योऽभिलषितमृद्ध्यङ्गमिति नामभाग्भवति । आह च- त्वं विहायसा गमनं छन्दयसि इति । तेनखलु समयेन स भिक्षुः पूर्वं स्वाध्यायबहुलो विहरति । सोऽपरेण समयेनाल्पोत्सुकस्तूष्णींभूतः कषाययति । अथ खलु तस्मिन्वनषण्डे अधिवसन्ती देवता तस्य भिक्षोर्धर्मशृण्वन्ती येन स भिक्षुः तेनोपसङ्क्रान्तः । उपसङ्क्रम्य तं भिक्षुं गाथयाध्यभाषत ।

(
२११)
कस्मात्धर्मपदानि त्वं भिक्षुर्नाध्येपि भिक्षुभिः सुखं वसन् ।
श्रुत्वा च धर्मं लभते प्रसादं दृष्टे च धर्मे लभते प्रशंसाम् ॥ इति ।
अभूत्पूर्वं धर्मपदेषु छन्दो यावद्विरागेण समागतोऽस्मि ।
यतो विरागेण समागतोऽस्मि यत्किञ्चिदृष्टं श्रुतं वा मतं वा ।

आज्ञाय निक्षेपणमाहुः सन्त इति । अतो ज्ञायतेऽभिलषितं छन्द इति । अभिलषितं प्रतीत्य कामेषुछन्द इति कामच्छन्दः ।

छन्दवर्गः सप्ताशीतितमः ।


८८ प्रीतिवर्गः

अभीप्सिते चित्ताभिरतिः प्रीतिः । यथोक्तं- सत्त्वा धातुलक्षणेनाकुशलप्रीत्या अकुशलानुयायिनः । कुशलेन कुशलप्रियाः इतीयं प्रीतिरित्युच्यते । (पृ) न धातुः प्रीतिर्भवति । कस्मात् । भगवान् यत्सत्त्वानां नानाधातून् प्रजानाति तत्धातुज्ञानबलम् । यत्नानाधिमुक्तीः प्रजानाति तदधिमुक्तिज्ञानबलम् । अतो धातुः प्रीतिश्च (अधिमुक्तिः) विभिन्नेतिः । (उ) चिरकालाभ्यासोपचितं चित्तं धातुरित्युच्यते । यथाधातुच प्रीतिरुत्पद्यते । अतश्चिरकालमुपचितं चित्तज्ञानं धातुज्ञानबलम् । यथाधातुसमुत्पन्ना प्रीतिरिति ज्ञानमधिमुक्तिज्ञानबलमिति । अत आह- सत्त्वानां यथाधातु सन्तानमनुवर्तत इति । चिरसञ्चिताकुशलचित्तस्याकुशले परा प्रीतिर्भवति । चिरसञ्चितकुशलचित्तस्य (
२१२) कुशले प्रीतिसुखम् । शीतार्तस्योष्णे प्रीतिर्भवतीदं दृष्टहेतुकं न धातुजम् । इत्ययं धातोः प्रीतेः प्रविभागः ॥

प्रितिवर्गोऽष्टाशीतितमः ।


८९ श्रद्धावर्गः

[चित्तस्य] विषयसमाधिः श्रद्धालक्षणम् । (पृ) ननु नियतसमाधिरयं प्रज्ञालक्षणम् । नियतसमाधिः प्रहीणविचिकित्सस्य भवतीति प्रज्ञालक्षणम् । (उ) धर्मं स्वयमदृष्ट्वा आर्योपदेशवशाल्लब्धश्चेतसः प्रसादः श्रद्धेत्युच्यते । (पृ) तथा चेत्स्वयं धर्मदर्शिनः श्रद्धा न स्यात् । (उ) सत्यमेवम् । अर्हन्नश्रद्धावान् भवति । यथोक्तं धर्मपदे-

अश्रद्धश्चाकृतज्ञश्च सन्धिच्छेदश्च यो नरः ।
[हतावकाशो वान्ताशः] स वै उत्तमपूरुषः ॥ इति ।

किञ्चोक्तं सूत्रे- अहं भगवनस्मिन् वस्तुनि यथा भगवद्वचनं श्रद्धध इति । यत्स्वयं धरदर्शिनश्चित्तं प्रसीदति । सा[पि] श्रद्धेत्युच्यते । पूर्वं धर्मं श्रुत्वा पश्चात्कायेन साक्षात्करोति । तस्येयं चिन्ता भवति स धर्मः परमार्थसत्यो न मृषेति, चित्तञ्च प्रसीदति । सा श्रद्धा चतुर्षु अवेत्यप्रसादेष्वन्तर्गता । तद्यथा रोगी पूर्वं भिषग्वचने श्रद्दधान औषधमुपसेव्य रोगान्मुक्तः पश्चात्तस्मिन् भिषजि प्रसन्नचित्तो भवति । सा श्रद्धेत्युच्यते ।

(
२१३)
श्रद्धेयं द्विविधा मोहजा ज्ञानजेति । मोहजा यत्कुशलाकुशलमचिन्तयतः पूरणाद्यसदाचार्येषूत्पद्यमानश्चित्तप्रसादः । ज्ञानजा यथा चतुर्षु [अवेत्य] प्रसादेषु बुद्धादिषु चित्तप्रसादः । सा त्रिधा विभक्ता कुशला अकुशला अव्याकृता चेति । (पृ) अकुशला श्रद्धा क्लेशमहाभूमिगतैव आश्राद्ध्य धर्मः । नेयं श्रद्धा भवति । (उ) नायमाश्राद्ध्यधर्मः । श्रद्धा च प्रसादलक्षणा । अकुशला श्रद्धापि प्रसादलक्षणैव । तथा नो चेतकुशला वेदना वेदना न स्यात् । न च तद्युज्यते वस्तुतः । ततस्त्रिधैव विभक्ता । या श्रद्धा इन्द्रियेषु गणिता विमुक्त्यनुगामिनी सप्तत्रिंशब्दोधिपक्षिकेषु गता सा नियमेन कुशलैव ।

श्रद्धावर्ग एकोननवतितमः ।


९० व्यवसायवर्गः

चेतसोऽभ्युत्साहो व्यवसाय इत्युच्यते । सदान्यधर्मान्निश्रयते मनस्कारं वा समाधिं वा । तत्राम्युत्साहः सदा चित्तैकाग्रतासमुदाचारः स व्यवसाय इत्युच्यते । त्रिविधो व्यवसायः कुशलोऽकुशलोऽव्याकृत इति । यत्चतुर्षु सम्यक्प्रधानेषु अन्तर्गतः स कुशलः । अन्योऽकुशलः । योगी योऽकुशलानामादीनवे कुशलानामनिशंसे च श्रद्धधते । तस्य पश्चादुत्पद्यते व्यवसायोऽकुशलानां प्रहाणाय कुशलानां समादानाय । अतः श्रद्धेन्द्रियसमनन्तरं वीर्येन्द्रियमुच्यते । कुशधर्मगतो व्यवसायो वीर्यमित्याख्यायते । सर्वहितानां मूलं करोति । तद्व्यवसायसहकारतया मनस्कारादयो धर्मा महाफलप्रापका भवन्ति । यथा दहनः समीरणप्रतिलब्धः सर्वान् दहति ॥

व्यवसायवर्गो नवतितमः ।


९१ स्मृतिवर्गः

अनुभूतपूर्वस्य ज्ञानं स्मृतिः । यथोक्तं सूत्रे- यत्चिरविप्रकृष्टानुभूतं स्मरति न प्रमुषति सा स्मृतिरित्युच्यते ।

(
२१४)
(पृ) सा स्मृतिस्त्रयध्वर्तिनी । कस्मात् । उक्तं हि सूत्रे स्मृतिं सर्वार्थिकां [वदामी]ति । सा स्मृतिः चतुःस्मृत्युपस्थानगता । चत्वारि स्मृत्युपस्थानानि त्रयध्वालम्बनानि च । कस्मात्पुनरतीतमात्रालम्बनेति । (उ) तद्वचनं सर्वकालेन भवति । न तु त्र्यध्वा भवति । यस्मिन् समये चित्तमुद्धतं भवति । तदा स्मृतिरुभयत्रानुगा । सा सर्वत्रगेत्युच्यते । यदुक्तं भवता चत्वारि स्मृत्युपस्थानानि त्र्यध्वालम्बनानीति । तत्र प्रत्युत्पन्ना प्रज्ञैव न तु स्मृतिः । अतस्तथागतो [यदा] पूर्वं स्मृतिनाम्ना विमुक्तिमुक्तवान् तदा तामेव प्रज्ञेत्यवोचत् ।

(पू) कथं विज्ञानान्तरेणानुभूतं विज्ञानान्तरं स्मरति । (उ) स्मृतेर्धर्ममेवं यत्स्वसन्ताने यो धर्मः [पूर्व]मुत्पन्ननिरुद्धः तमेव [स्वसन्तानिकं] विप्रकृष्टं विज्ञानान्तरमालम्बत इति । ज्ञानानां विज्ञानधर्मश्च तथा यत्विज्ञानान्तरानुमूतं विज्ञानान्तरं विजानातीति । यथा चक्षुर्विज्ञानेन विज्ञातं रूपं मनोविज्ञानं विजानाति । अन्यपुद्गलेनानुभूतमन्यः पुद्गलो विजानाति । यथार्यपुद्गला यावत्पूर्वनिवासे देहान्तरानुभूतं स्मृतिबलाद्विजानान्ति । (पू) यदि पूर्वानुभूतस्य ज्ञानं स्मृतिरिति । आधुनिकविज्ञप्त्यादिधर्माः स्मृतयः स्युः । कस्मात् । तद्धर्माणामपि पूर्वानुभूतोपविचाररूपत्वात् । (उ) विज्ञप्त्यादिधर्मा अपि स्मृतय इत्युच्यन्ते । यथा भगवान् सल्यकं नाथपुत्रमवोचत्पूर्वं मनसि कृत्वा व्याकुरुष्व इति । आह च पूर्वानुभुक्तसुखस्मरणे क्लेश आविर्भवतीति । अतो विज्ञप्त्यादिधर्मा अपि पूर्ववस्त्वनुस्मरणरूपा स्मृतय इत्युच्यन्ते । स्मृतिरियं गृहीतलक्षणाज्जाता । यस्मिन् धर्मे गृहीतलक्षणमस्ति । तत्र स्मृतिर्भवति नान्यथा । समाधिः प्रज्ञा च समाधिवर्गे प्रज्ञावर्गे च वक्ष्यते ॥

स्मृतिवर्ग एकनवतितमः ।


(
२१५)
९२ वितर्कविचारवर्गः

यत्चित्तं व्यग्रं मुहर्मुहुरालम्भकं स वितर्कः । समाहितचित्तस्याप्यस्ति औदारिकता सूक्ष्मता । [तत्र यत्] औदारिकं स वितर्कः । सूक्ष्मसमाधानाभावादौदारिकं चित्तमित्युच्यते । यथोक्तं सूत्रे- भगवानाह- सवितर्कं सविचारं प्रथमध्यानमुपसम्पद्य विहरामीति । अतः प्रथमध्यानमसूक्ष्मसमाहितमिति सवितर्कं भवति । या चित्तस्य व्यग्रता किञ्चित्सूक्ष्मता स विचारः । इमौ द्वौ त्रैधातुकौ । चित्तस्यौदारिकसूक्ष्मलक्षणत्वात् । व्यग्रं विक्षिप्तं चित्तं वितर्कविचारौ भवतः । तल्लक्षणत्वात्सर्वत्र स्याताम् । अप्रत्यक्षं वस्तु अनुमित्या ज्ञायते । एवं स्यान्नैवं स्यादित्यभ्यूहो वितर्कः । अतोऽप्रत्यक्षवस्तुनोऽनुवितर्कः सम्यग्वितर्को वा मिथ्यावितर्को वा इति तं कथयामः । निर्विकल्पानुवितर्कः सम्यक्दृष्टिरित्याख्यायते । अयं त्रिधाज्ञातः । मिथ्यावितर्को विपरीतमनस्कारः यदनित्ये नित्यमित्यादिः । सम्यग्वितर्कः यदप्रतिलब्धं तत्त्वज्ञानमनुमितिलक्षणेन ज्ञानेन लब्ध्वा योगी निर्वेधभागीयकुशलमूले वर्तते । इयं क्षान्तिरित्युच्यते । एवमन्यमार्गेणानुयायि अनुमितिज्ञानं सम्यग्वितर्कः । तत्र यत्संश्ञानुस्मरणविकल्पापोढं तत्प्रत्यक्षमित्युच्यते । तस्मिन्नेव वितर्के अनेन हेतुना एवं भवति अनेन हेतुना नैवं भवति इति चिन्तना विचारणा वा स विचारः ।

(
२१६)
(पृ) केचिदाहुः- वितर्कविचारावेकाग्रतान्तर्गताविति । कथमिदम् । (उ) मैवम् । कस्मात् । उक्तं खलु भवद्भिर्घण्टाताडनदृष्टान्तः । आद्यशब्द[समो] वितर्कः । अन्यशब्द[समो] विचारः । तरङ्गदृष्टान्तश्च [उक्तः] । य औदारिकः [तत्समो] वितर्कः । यः सूक्ष्मः [तत्समो] विचारः । कालदेशभेदान्न चित्तैकाग्रता स्यात् । निर्विकल्पकत्वात्पञ्च विज्ञानानि न सवितर्कविचारलक्षणानि भवन्ति ॥

वितर्कविचारवर्गो द्विनवतितमः ।


९३ अन्यचैतसिकवर्गः

यत्कुशलस्यानाचरणं मिथ्याचरणं वा स प्रमादः । न प्रमादाख्योऽन्य एकधर्मोऽस्ति । तस्मिन् समये चित्तसमुदाचारः प्रमादः इत्युच्यते । तद्विपरीतोऽप्रमादः । यः कुशलश्चित्तसमुदाचारोऽप्रमादादन्यः सोऽपि धर्मान्तरम् । अकुशलानुगतं चित्तं प्रमादः । कुशलानुगतन्तु अप्रमादः ।

कुशलमूलमिति अलोभोऽद्वेषोऽमोहः । योनिशोमनस्काराशिरस्कानासक्तिरलोभः । मैत्रीकरुणाशिरस्कः क्रोधानुत्पादोऽद्वेषः । सम्यद्गर्शनशिरस्कोऽभ्रान्तोऽविपर्ययः अमोहः । अलोभो नाम नास्त्येकं धर्मान्तरम् ।

केचिदाहुः लोभाभावोऽलोभ इति । न युक्तमिदम् । कस्मात् । लोभाभावोऽभावधर्मः । कथमभावो धर्मस्य हेतुः । अद्वेषामोहावप्येवम् । तत्रायाणामकुशलमूलानां विपरीतानि त्रीणि कुशलमूलान्युच्यन्ते । मदमानादयोऽप्यकुशलमूलानि स्युः । संक्षेपतस्त्रीण्येवाकुशलमूलान्युक्तानि । वक्ष्यन्ते चाकुशलवर्गे ।

(
२१७)
अव्याकृतमूलमिति । केचिद्वदन्ति- चत्वार्यव्याकृतमूलानि- तृष्णा दृष्टिः मानमविद्येति । [अन्ये] केचिदाहुः त्रीणि तृष्णा अविद्या प्रज्ञा इति । नैतद्भगवतोक्तम् । अव्याकृतानुगं चित्तं यद्धेतुजं स हेतुरव्याकृतमूलं भवति । कायवाक्कर्मणी प्रायोऽव्याकृतानुगे इति चित्तमुत्पद्यते । अव्याकृतचित्तमव्याकृतमूलमित्युच्यते ।

चित्तसमाचरणकाले यत्कायश्चित्तं दौष्ठल्यविगतं प्रशान्तं भवति । तस्मिन् समये प्रश्रब्धिरित्युच्यते ।

नानावस्तुषु चित्त [समाचरण]काले उपेक्षेत्युच्यते । यत्वेदनासु अनभिज्ञा चित्तसमाचरणं सोपेक्षा । ध्यानेषु यत्सुखदुःखविविक्तं विमुक्तिपरायणं चित्तसमाचरणं सोपेक्षा । सप्तबोध्यङ्गेषु अलीनमकम्पसमतादि यच्चित्तसमाचरणं सोपेक्षा । प्रीतिदौर्मनस्यविनिर्मुक्तं समतादिप्रतिलब्धं चित्तमुपेक्षा । चतुर्षु अप्रमाणेषु वैरमैत्रविगतं चित्तमुपेक्षा । एवं नानाधर्माणां विरोधाच्चैतसिकानां विशेषोऽप्रमाणः ॥

अन्यचैतसिकवर्गस्त्रिनवतितमः ।


(
२१८)
९४ विप्रयुक्तसंस्कारवर्गः

चित्तविप्रयुक्तसंस्काराः यदुत प्राप्तिः, अप्राप्तिः असंज्ञिसमापत्तिः निरोधसमापत्तिः आसंज्ञिकं जीवितेन्द्रियं जातिः व्ययः स्थितिः अन्यथात्वं जरा मरणं नामकायः पदकायो व्यञ्जनकायः पृथग्जनत्वमित्यादयः ।

प्राप्तिरिति । सत्त्वानां कृते धर्माणां समन्वागमः प्राप्तिः । प्रत्युत्पन्नाध्वनि पञ्चस्कन्धसमन्वागतः सत्त्वः प्राप्त इत्युच्यते । अतीताध्वनि यानि कुशलाकुशलकर्माणि अननुभूतविपाकानि । तद्धर्मसमन्वागतः सत्त्वः । यथोक्तं सूत्रे- कुशलधर्मसमन्वागतोऽकुशलधर्मसमन्वागतश्च पुद्गल इति । (पृ) केचिदाहुः- अतीतकुशलाकुशलकायवाक्कर्मसमन्वागतः । यथा प्रव्रजितः अतीतशीलसंवरसमन्वागत इति । कथमिदम् । (उ) सर्वेषां समन्वागमः । कस्मात् । उक्तं हि सूत्रे यः पुण्यं पापञ्च करोति । तस्य तद्विद्यमानमेव । तत्द्वयं तत्कायमनुपतति रूपानुपातिच्छायावतिति । किञ्चोक्तं सूत्रे- मृतस्य पुण्यं न प्रणश्यति यदुत फलप्रापकमेव । यदसमन्वागतं पुण्यपापं कर्म न तत्फलप्रापकम् । तानि कर्माणि नश्यन्ति । इति ।

(पृ) अतीतसंवरस्य न समन्वागमः स्यात् । कस्मात् । भवतोक्तमतीतधर्मो निरुद्धः । अनागतोऽविद्यमान इति । प्रत्युत्पन्नश्च न सदा कुशलचित्तवत्त्वे (
२१९) क्षमः । कथं शीलसंवरसमन्वागतः स्यात् । (उ) पुरुषः प्रत्युत्पन्नेन संवरेण समन्वागतो नातीतेन । यथा प्रत्युत्पन्नक्लिष्टात्क्लिष्टम्, तथा प्रत्युत्पन्नशीलात्शीलं भवति । नातीतात् । [यः] पूर्वं स्वीकृत्यापरित्यक्तवान् [सः] अतीतसमन्वागत इत्युच्यते ।

(पृ) आभिधर्मिका आहुः सत्त्वा अनागताध्वनीनकुशलाकुशलचित्तसमन्वागता इति । तत्कथमिदम् । (उ) न समन्वागताः । कस्मात् । अकृताभ्यागमात् । अतोऽनागतासमन्वागमः प्राप्तिरित्युच्यते । न चास्ति प्राप्त्याख्यः पृथक्चित्तविप्रयुक्तधर्मः । तद्विपरिताप्राप्तिरपि नास्ति पृथक्चित्तविप्रयुक्तधर्मः ।

असंज्ञिसमापत्तिरित्ययं समापत्तिधर्मो नास्ति । कस्मात् । न हि निरुध्यन्ते पृथग्जनानां चित्तचैतसिकधर्मा इति पश्चाद्वक्ष्यते । चित्तचैतसिकानां सूक्ष्मतया दुरवबोधातसंज्ञीति नाम । आसंज्ञिकमप्येवम् । निरोधसमापत्तिरिति । चित्तनिरोधे समुदाचाराभावान्निरोधसमापत्तिरिति नाम । स च नास्ति धर्मान्तरम् । निर्वाणवत् । जीवितेन्द्रियमिति । कर्मप्रत्ययः पञ्चस्कन्धसन्तानो जीवितमित्युच्यते । जीवितञ्च कर्मणो मूलमिति जीवितेन्द्रियमित्युच्यते । जातिरिति । पञ्चस्कन्धानां प्रत्युत्पन्नाध्वा जातिः । प्रत्युत्पन्नाध्वपरित्यागो व्ययः । सन्तन्यमानत्वं स्थितिः । स्थितिपरिणामोऽन्यथात्वम् । न सन्ति पृथक्जातिव्ययादयो धर्माः । भगवतः शासनं गभीरं यत्प्रत्ययानां सामग्र्या धर्मा (
२२०) उत्पद्यन्त इति । अतो नास्ति कश्चिद्धर्मो धर्मान्तरस्योत्पादकः । उक्तं हि- चक्षूरूपादयश्चक्षुर्विज्ञानस्य प्रत्यया इति । न तत्रोक्तं जातिरस्तीति । अतो नास्ति जातिरित्यनवद्यम् ।

किञ्च वदन्ति जात्यादयो धर्मा एककालीना इति । य एककालीनः स निरुद्ध एव । तत्र जात्यादयः किमर्था इति विचारयितव्यम् । द्वादशनिदाने च भगवान् स्वयमाह जातेरर्थम् । या तेषां तेषां सत्त्वानां तस्मिन् तस्मिन् [सत्त्वनिकाये] जातिः स्कन्धानां प्रतिलाभः....... [सा जातिः] इति । अतः प्रत्युत्पन्नाध्वनि स्कन्धानामाद्यलाभो जातिः । आह च- स्कन्धानां च्युतिरन्तहाणिर्मरणमिति । आह च- स्कन्धानां जीर्णता भुग्नता जरेति । [अतो] न पृथक्स्तो जरामरणधर्मौ ।

नामकाय इति । व्यञ्जनेभ्य उत्पन्नं नाम यथा वदन्ति देवदत्त इति । यथाव्यञ्जनमर्थसाधनं पदम् । व्यञ्जनानि अक्षराणि । केचिदाहुः- नामपदव्यञ्जनकायाश्चितविप्रयुक्तसंस्कारा इति । तदयुक्तम् । धर्मा इमे वाक्स्वभावा धर्मायतनसंगृहीताः ।

(पृ) अस्ति पृथकग्जनत्वं नाम चित्तविप्रयुक्तसंस्कार इति । [केचिद्वदन्ति] । कथमिदम् । (उ) न पृथग्जनत्वं पुथग्जनादन्यत् । यद्यस्ति तदन्यत् । अन्ये घटत्वादयो (
२२१)ऽप्यनुभूयेरन् । संख्यापरिणामैकत्वपृथक्त्वसंयोगविभागपरत्वापरत्वादयो धर्माः पृथक्स्युः । तीर्थिकानां हि सूत्रेषूक्तं- अन्यो घटोऽन्यत्घटत्वम् । घटत्वं प्रतीत्य ज्ञायतेऽयं घट इति । रूपमन्यत्रूपत्वमन्यतिति । तदयुक्तम् । कस्मात् । तत्त्वं तत्स्वभावः । यदि ब्रवीषि पृथग्जनत्वमन्यदिति । तदा रूपं स्वभावं विना स्यात्, रूपत्वापेक्षित्वात् । तत्तु न युज्यते । अतो गभीरमननुविचिन्त्य ववीषि- अस्ति पृथग्जनत्वं पृथगिति ।

आभिधर्मिकास्तीर्थिकग्रन्थानभ्यस्याभिधर्मशास्त्रमारचयन्तो वदन्ति सन्ति पृथकग्जनत्वादयो धर्माः पृथगिति । अन्य आभिधर्मिका अपि वदन्ति । सन्ति पृथक्तथताभूतकोटिप्रतीत्यसमुत्पादादयोऽसंस्कृतधर्मा इति । अतो गभीरमिमं नयमनुविचिन्त्यमा रुतमनुवर्तध्वम् ॥

विप्रयुक्तसंस्कारवर्गश्चतुर्नवतितमः

[इति] दुःखसत्यस्कन्धः समाप्तः ॥

(
२२२)
अथ समुदयसत्यस्कन्धः
९५ समुदयसत्यस्कन्धे कर्माधिकारे कर्मलक्षणवर्गः

शास्त्रमाह- दुःखसत्यं परिसमाप्य समुदयसत्यमिदानीं वक्ष्यत इति । तत्र कर्म क्लेशाश्च समुदयसत्यम् । त्रिविधं कर्म कायिकं वाचिकं मानसिकमिति । कायेन कृतं कर्म कायिकम् । तत्त्रिविधमकुशलं प्राणातिपातादि । कुशलं चैत्यवन्दनादि । अव्याकृतं तृणच्छेदादि ।

(पृ) यदि कायेन कृतं कायिकम् । तदा घटादिद्रव्यमपि कायिकं कर्म स्यात् । कायेन कृतत्वात् । (उ) घटादि कायिककर्मणः फलं न कायिकं कर्म । हेतुफलयोर्भेदात् । (पृ) न स्यात्कायिकं कर्म । कस्मात् । कायस्पन्दनकृतं कायिकं कर्म । संस्कृतधर्माणां क्षणिकत्वात्न स्यात्स्पन्दनम् । (उ) इदं क्षणिकवर्गे प्रत्युक्तं यदेकस्मिन् धर्म उत्पद्यमानेऽन्यस्यापचय उपचयो वा [तत्] कायिकं कर्मेति । (पृ) तथा चेत्काय एव कायिकं कर्म भवेत् । अन्यत्रोत्पद्यमानत्वात् । न तु कायेन कृतं कायिकं कर्म । (उ) कायः कर्मक्रियायाः साधनम् । कायेऽन्यत्रोत्पद्यमाने पुण्यपापसमुदयः कर्म । अतो न काय एव कर्म । (पृ) पुण्यपापसमुदयोऽविज्ञप्तिः । कायविज्ञप्तिः कथम् । (उ) कायेऽन्यत्रोत्पद्यमाने क्रियमाणा विज्ञप्तिः कायविज्ञप्तिर्भवति । (पृ) कायविज्ञप्तिः कुशला वाकुशला वा । कायस्तु न तथा । अतो न कायविज्ञप्तिः स्यात् । (उ) चित्तबलात्कायेऽन्यत्रोत्पद्यमाने कर्म समुदेति । अतस्तत्समुदयो यदि वा कुशलो [यदि वा] अकुशलः न तु साक्षात्कायिकः । तथा वाचिककर्मापि । न तु तत्साक्षाच्छब्दव्यवहार[रूपम्] । (
२२३) चित्तबलात्शब्दव्यवहारसमुदितं कर्म कुशलमकुशलं वाचिकं कर्मेत्युच्यते । एवं मानसं कर्मापि । य इमं सत्त्वं हन्मीति अध्यवसितचित्तो भवति । तस्य तस्मिन् समये पापं समुदेति । एवं पुण्यमपि ।

(पृ) यथा कायवाग्भ्यां पृथगस्ति कर्म । [तथा] मनोऽपि मानसकर्मणोऽन्यदेव । (उ) तत्द्विधा भवति मन एव मानसं कर्म मनस उत्पन्नं वा मानसं कर्म इति । सत्त्वं हन्मीति यदध्यवसितं मनः तदकुशलं मन एव मनसं कर्म । तत्कर्म पापसञ्चयरूपं कायिकवाचिककर्मातिशायकम् । यदि चित्तमनध्यवसितम् । तदा मनः कर्मणोऽन्यत् ।

(पृ) विज्ञप्तिलक्षणं ज्ञातम् । विज्ञप्तित उत्पन्नोऽन्यःकर्मसमुदयः । किं [तस्य] लक्षणम् । (उ) तदविज्ञप्तिरेव । (पृ) किं केवलमस्ति कायिकवाचिकाविज्ञप्तिरेव न मानसिकाविज्ञप्तिः । (उ) मैवम् । कस्मात् । नह्यस्ति तत्र कारणं केवलं कायिकवाचिकाविज्ञप्तिरेवास्ति न मानसिकाविज्ञप्तिरिति । सूत्रे चोक्तं द्विधा कर्म- चेतना वा चेतयित्वा वा [कर्मे]ति । चेतना मानसं कर्म । चेतयित्वा [कर्म] त्रिविधम्- चेतनासञ्चितं कर्म कायिकं वाचिकं कर्मेति । तत्र मानसं कर्म गुरुतरमिति पश्चाद्वक्ष्यते । गुरुतरकर्मसञ्चितमविज्ञप्त्याख्यं सदा सन्तानेन प्रवर्तते । अतो ज्ञायते मानसिककर्मणोऽपि अविज्ञप्तिरस्तीति ॥

समुदयसत्यस्कन्धे कर्माधिकारे
कर्मलक्षणवर्गः पञ्चनवतितमः ।


९६ अविज्ञप्तिवर्गः

(पृ) कोऽविज्ञप्तिधर्मः । (उ) चित्तं प्रतीत्योत्पद्यमानं पुण्यपापं मिद्धमूर्छादिकालेऽपि यन्नित्यं प्रवर्तते । साविज्ञप्तिः । यथोक्तं सूत्रे-

(
२२४)
आरामरोपा वनरोपा ये जनाः सेतुकारकाः ।
प्रपाञ्चैवोदपानञ्च ये ददन्ति उपाश्रयम् ।
तेषां दिवा च रात्रिञ्च सदा पुण्यं प्रवर्तते ॥ इति ।

(पृ) केचिदाहुः- विज्ञप्तिकर्म प्रत्यक्षमुपलभ्यते । यानि चीवरदानचैत्यवन्दनहननहिंसादीनि तानि भवेयुः । अविज्ञप्तिस्तु अनुपलभ्यमानत्वात्नास्तीत्ययमर्थः स्पष्टं स्यादिति । (उ) यदि नास्त्यविज्ञप्तिः । तदा प्राणातिपातविरत्यादिधर्मो नास्ति । (पृ) विरतिर्नामाकरणम् । अकरणमभावधर्मः । यथा पुरुषस्याभाषणकाले नास्तिभाषणधर्मः । रूपस्यादर्शनकालेऽपि नास्त्यदर्शनधर्मः । (उ) प्राणातिपातविरत्यादिना स्वर्ग उत्पद्यते । यदि विरतिरभावधर्मः । कथं हेतुः स्यात् । (पृ) न विरत्या स्वर्ग उत्पद्यते, किन्तु कुशलचित्तेन । (उ) मैवम् । उक्तं हि सूत्रे- वीर्यवान् पुरुष आयुर्वशात्बहुपुण्यं प्रसवति । पुण्यबहुत्वाच्चिरं स्वर्गसुखं विन्दत इति । यदि कुशलचित्तमात्रेण, किमर्थं बहुपुण्यो भवति । न ह्ययं कुशलचित्तो भवितुं क्षमते । आह च वनादिरोपस्य दिवा रात्रिञ्च सदा पुण्यं प्रवर्धत इति । शीलं ध्रुवमिति चोक्तम् । यदि नास्त्यविज्ञप्तिः । कथं वक्तव्यं स्यात्पुण्यं सदा प्रवर्धते, शीलं ध्रुवमिति च । न च विज्ञप्तिः प्राणातिपातक्रियैव । प्राणातिपातानन्तरं धर्मो भवति । तदूर्ध्वं प्राणातिपातपापं लभते । यथा हन्तुं कञ्चन प्रेरयति । हननकालमनु प्रेरको हननपापं लभते । अतो ज्ञायतेऽस्त्यविज्ञप्तिरिति । मनश्च न शीलसंवरः । कस्मात् । यदि कश्चिदकुशलाव्याकृतचित्तस्थः, यदि वाचित्तः । सोऽपि शीलधारीत्युच्यते । अतो ज्ञायते तस्मिन् समयेऽस्त्यविज्ञप्तिरिति । एवमकुशल संवरोऽपि ।

(पृ) ज्ञातं विनापि चित्तमस्त्यविज्ञप्तिधर्म इति । इदानीं किमिदं रूपं किं वा चित्तविप्रयुक्तसंस्कारः । (उ) स संस्कारस्कन्धसङ्गृहीतः । कस्मात् । यस्मादभिसंस्करणलक्षणः संस्कारः । अविज्ञप्तिरपि अभिसंस्करणलक्षणा । रूपञ्च रूपणालक्षणं नाभिसंस्कारलक्षणम् । (
२२५) (पृ) सूत्र उक्तं षट्चेतनाकायाः संस्कारस्कन्ध इति । न चित्तविप्रयुक्तसंस्कारा इति । (उ) प्रतिपादितमिदं पूर्वं यदस्ति पुण्यं पापं चित्तविप्रयुक्तमिति । (पृ) अविज्ञप्तिर्यदि रूपलक्षणा । को दोषः । (उ) रूपशब्दगन्धरसस्प्रष्टव्याः पञ्च धर्मा न पुण्यपापस्वभावाः । अतो न रूपस्वभावाविज्ञप्तिः । भगवानाह- रूपणालक्षणं रूपमिति । अविज्ञप्तौ रूपणालक्षणानुपलम्भान्न रूपस्वभावता ।

(पृ) अविज्ञप्तिः कायिकवाचिककर्मस्वभावा । कायिकवाचिककर्म च रूपमेव । (उ) अविज्ञप्तिः कायिकवाचिककर्मेति नाममात्रम् । न वस्तुतः कायवाग्भ्यां क्रियते । कायञ्च वाचञ्च प्रतीत्य मानसिककर्मणोत्पन्नत्वात्कायिकवाचिकमानसिककर्मस्वभावेत्युच्यते । अथवा मनस उत्पन्नैवाविज्ञप्तिः । इयमविज्ञप्तिः कथं रूपस्वभावा । आरूप्येऽप्यस्त्यविज्ञप्तिः । आरूप्ये कथं रूपं भविष्यति । (पृ) काः क्रिया अविज्ञप्तिमुत्पादयन्ति । (उ) शुभाशुभकर्मक्रियाभ्य उत्पद्यतेऽविज्ञप्तिः । नाव्याकृताभ्यः । अल्पबलत्वात् । (पृ) कदा क्रियाभ्योऽविज्ञप्तिरुत्पद्यते । (उ) द्वितीयचित्तादुत्पद्यते । यत्कुशलाकुशलानुगामि चित्तं प्रबलं भवति । तत्चिरं तिष्ठति । यच्चित्तं दुर्बलं न तच्चिरं तिष्ठति । यथा एकदिनसमात्तं शीलमेकदिनं तिष्ठति । आदेहपातसमात्तं शीलन्तु आदेहपातं तिष्ठति ॥

अविज्ञप्तिवर्गः षण्णवतितमः ।


(
२२६)
९७ हेत्वहेतुवर्गः

(पृ) सूत्र उक्तम्- हेतुकृतं कर्म अहेतुकृतं कर्मेति । कतमो हेतुः अहेतुश्च । (उ) ज्ञानपूर्वकं कृतं [कर्म] हेतुकृतम् । तद्विपरीतमहेतुकृतम् । (पृ) [तर्हि] यदहेतुकृतं न तत्कर्म भवति । (उ) अस्तीदं कर्म । किन्तु यच्चित्तहेतुकृतं कर्म तत्सविपाकम् । चित्तेऽध्यवसीयकृतं कर्म हेतु [कृत]म्, अनध्यवसीयकृतं कर्माहेतु [कृतम्] । यथा योधाजीवव्यवहारोऽहेतुकः । अयोधाजीवव्यवहारस्तु हेतुः । यथोक्तं सूत्रे- तव दोषान् गणयिष्यामि । यदि योधाजीवो व्यवहरसि न तदा गणयिष्यामीति यावत्त्रिधा पृच्छति । यद्यकरणचित्तपूर्वकं करोति- यथा कश्चिद्विहरन् पादनिक्षेपणेन कीटं हन्ति । सोऽहेतुः । अहेतुककर्मासञ्चितमिति न विपाकजनकम् ।

कर्माणि चतुर्विधानि- कृतानुपचितं, उपचित्ताकृतं, कृतोपचितमकृतानुपचितमिति । कृतानुपचितमिति- यथा हननादिकर्म कृत्वा पश्चाच्चित्तं परितपति । दानादिकर्म कृत्वा च चित्तं परितपति । कर्मक्रियाचित्तमुत्पाद्य न पुनः स्मरति । तत्कृतानुपचितम् । उपचिताकृतमिति- यतन्यं हननादि कारयित्वा प्रमुदितचित्तो भवति । अन्यं दानादि कारयित्वा च प्रमुदितचित्तो भवति । कृतोपचितमिति- यथननादि पापं कृत्वा दानादिपुण्यं कृत्वा च प्रमुदितचित्तो भवति । अकृतानुपचितमिति- न च करोति नापि मुदितचित्तो भवति । तत्र कृतोपचितकर्मणोऽस्ति विपाकवेदना । यथोक्तं सूत्रे- यत्कर्म कृतमुपचितं तस्य कर्मणोऽवश्यमस्ति विपाकप्रतिसंवेदना इति । अतः कृतोपचितकर्मणो दृष्टधर्मे वा विपाको वेद्यते । उपपत्तौ वा विपाको वेद्यते । आयत्यां वा विपाको वेद्यते ।

(पृ) यदि हेतुकृतोपचितकर्मणोऽवश्यमस्ति विपाकप्रतिसंवेदना तदा नास्ति विमुक्तिः । (उ) कर्म हेतुकृतमपि तत्त्वज्ञानलाभिनो न पुनरुपचीयते । यथा दग्घबीजं न पुनः प्ररोहति । लवणपलवर्गे भगवानाह- एकत्यः(श्च) पुरुषो [भावितकायो] (
२२७) नरकवेदनीयं कर्म करोति । तस्य तादृशमेवाल्पमात्रकं दृष्टधर्मवेदनीयं भवति । इति । (पृ) यदि गुरुपापकं कर्म अल्पमात्रकं [दृष्टधर्म]वेदनीयं प्रज्ञायते । कस्मान्नात्यन्तं क्षयमेति । (उ) यस्तत्त्वज्ञानं न भावयति स पापकर्मणोऽनुशयं लभते । अतोऽल्पको दृष्टधर्मवेदनीयो विपाको भवति । (पृ) [तर्हि] भाविततत्त्वज्ञानोऽर्हन्नपि अकुशलविपाकं वेदयते । (उ) परमकुशलधर्ममभ्यसन्नकुशलं प्रतिहन्ति । अतो यो जन्मशतसहस्रेषु शीलादि कुशलमुपचिनोति । न तस्याकुशलं कर्मोदेति । यथा बुद्धानां सर्वज्ञानां पुरुषाणाम् । नान्येषामेवं सामर्थ्यम् । अतोऽकुशलकर्म लभन्ते । अतोऽर्हन् भाविततत्त्वज्ञानोऽपि पूर्वकर्मवशादकुशलविपाकं वेदयते च । (पृ) उक्तं सूत्रेऽपि- भगवानपवादाद्यकुशलकर्मविपाकं वेदयत इति । (उ) भगवान् सर्वज्ञो नाकुशलकर्मविपाकः । समुच्छिन्न सर्वाकुशलमू[ल]त्वात् । किन्त्वप्रमाणर्द्ध्युपायेनोपदर्शयति अचिन्त्यं बुद्धवस्त्विति । यथोक्तमेकोत्तरागमे अचिन्त्यानि पञ्चवस्तूनीति ।

कर्म द्विविधम्- नियतविपाकमनियतविपाकमिति । नियतविपाकं कर्म बहु वा अल्पं वा अवश्यवेदनीयविपाकम् । अनियतविपाकं कर्मेति अत्यन्तपरिक्षीयमाणम् । (पृ) किं नियतविपाकं कर्मं किमनियतविपाकम् । (उ) यानि सूत्रोक्तानि तानि नियतविपाककर्माणि । (पृ) किं पञ्चानन्तर्याण्येव नियतविपाककर्माणि । किमन्यान्यपि सन्ति । (उ) अन्येषां कर्मणामस्ति नियतविपाकताभागः । किन्तु न प्रदर्शितः । विषयगौरवाद्वा नियतविपाकता । यथा भगवति तच्छ्रावके वा सत्कारः अथवाल्पमात्रानिन्दा । चित्तगौरवाद्वा नियतविपाकता । यथा गम्भीरघनपर्यवस्थानेन क्रिमिकीटान् हन्ति । इदं पुरुषहननादपि गुरुतरम् । एवमादि । अन्यानि कर्माण्यनियतविपाकानि सन्ति । (पृ) यदि पञ्चानन्तर्यपापकानि तनूभवन्तीति । कस्मादत्यन्तं न क्षीयन्ते । (उ) न ते पापधर्मास्तस्मिन् समयेऽत्यन्तं क्षीयन्ते । यथा स्रोतआपन्नः कौसीद्यप्राप्तोऽपि नाष्टयोनीः प्राप्नोति । (
२२८) सारगौरवात्पञ्चानन्तर्याणि नात्यन्तं क्षीयन्ते । यथा राजधर्मे गुरुपातकी दण्ड्य एव न क्षन्तव्यः ॥

हेत्वहेतुवर्गः सप्तनवतितमः ।


९८ गुरुलघुपापवर्गः

सूत्र उक्तम्- अस्ति गुरुलघुपापं कर्मेति । कतमद्गुरुलघु । (उ) यत्कर्मावीचिनरकवेदनीयप्रापकं तत्कर्म गुरुपापकमित्युच्यते । (पृ) कानि कर्माणि तद्विपाकप्रापकानि । (उ) यत्सङ्घभेदनकर्म तेनावश्यं तद्विपाकं वेदयते । कस्मात् । त्रीणि रत्नानि प्रतिविभिन्नानि । सङ्घरत्नं बुद्धरत्नाद्व्यतिरिक्तम् । धर्मरत्नभेदोऽपि [गुरुपापम्] । अधिमात्र मिथ्यादृष्टिजातस्तत्कर्माभिनिर्वर्तयति । बुद्धे परमीर्ष्याव्यापादाभ्यां तत्कर्म करोति । चिरोपचिताकुशलस्वभावः स्वलाभलोभात्तत्कर्म करोति । धर्मो धर्म इति [यत्] तन्नास्तीति तस्मिन् वदति कुशलधर्माणामचरितारो बहवः सत्त्वाः प्रतिहन्यन्त इत्यतो भवति गुरुतरं पापम् ।

(पृ) किं सङ्घभेदमात्रमवीचौ विपाकप्रापकम् । किमन्यदप्यस्ति । (उ) अन्यदप्यस्ति कर्म । नास्ति पापं नास्ति पुण्यं नास्ति मातापितृसज्जानानां सत्कारविपाक इति यद्वचनं तदादिमिथ्यादृष्टिरपि तद्विपाकप्रापिणी । अन्यं मिथ्यादृष्टौ पातयन् बहून् सत्त्वानकुशलानि कारयंश्च तद्विपाकं वेदयते । ईदृशमिथ्यादृष्टिसूत्राणि रचयन्ति यथा पूरणादयो मिथ्यादृष्टिनामाचार्याः सम्यग्दृष्टिविहिंसया बहूनां सत्त्वानामकुशलाय हेतुप्रत्ययं प्रकाशयन्ति । आर्याणामपवादोऽपि तद्विपाकप्रापकः । यथा वदन्ति चतुरशीतिवर्षसहस्त्राणि एकनिन्दको दुःखमनुभवति । यथा चोक्तं धर्मपदे-

धर्मेण जीवन्नार्यो यस्तेन धर्मेण शिक्षयेत् ।
मृद्विन्द्रियः पापसेवी विलोमयति तद्वचः ॥
कण्टकोद्वन्धनं यद्वदात्मकायविघातकम् ।
नरके स पतत्येव ह्यूर्ध्वपादमवाच्छिरः ॥
(
२२९)
शतं सहस्राणां निरर्बुदानां षट्त्रिंशच्च पञ्च च अर्बुदानाम्
यदार्यगर्ही निरयमुपैति वाचं मनः प्रणिधाय पापकम् । इति ।

प्राणातिपातादि यद्विषयगुरुकं चित्तगुरुकं तत्पापमपि अवीचिनरकपातकम् । गुरुविपरीतं लघु यदुत तपनप्रतपनादिषु हीननरकेषु तीर्यक्षु प्रेतेषु देवमनुष्येषु चाकुशलविपाकं प्रतिसंवेदयते । तल्लघुपापकमित्युच्यते ।

गुरुलघुपापवर्गोऽष्टनवतितमः ।


९९ महाल्पार्थककर्मवर्गः

(पृ) सूत्र उक्तं महाल्पार्थकं कर्मेति । किं तन्महार्थकं कर्म । (उ) येन कर्मणा अनुत्तरसम्यक्सम्बोधिमधिगच्छति । तन्महत्तमार्थकं कर्म । ततोऽवरकर्मणा प्रत्येकबुद्धमार्गं विन्दते । ततोऽवरकर्मणा श्रावकमार्गं लभते । ततोऽवरकर्मणा भवाग्रऽशीतिमहाकल्पसाहस्राण्यायुर्विपाकं लभते । इदं संसारे महत्तमविपाकं कर्म । ततोऽवरकर्मणा आकिञ्चन्यायतने षष्टिकल्पसहस्राण्यायुर्विन्दते । एवं क्रमेण यावद्ब्रह्मलोकं कल्पार्धमायुर्विन्दते । ततोऽवरकामधातौ परनिर्मितदेवेषु दिव्यगणनया षष्टिवर्षसहस्राण्यनुभवति । यावच्चतुर्महाराजिकेषु दिव्यगणनया पञ्चवर्षशतानि [विपाकं] वेदयते । एवं मनुष्येषु चतुर्महाराजिकानामधः प्रत्येकं कर्मवशाद्विपाकं वेदयते । एवं तिर्यक्प्रेतनरकेष्वप्यस्ति अल्पलाभं कर्म ।

कीदृशानि कर्माणि अनुत्तरसम्यक्सम्बोध्यादीन् प्रापयन्ति । (उ) दानादिषट्पारमितासम्पदनुत्तरसम्यक्सम्बोधिं प्रापयति । ततः कुशलकर्मक्रमेण जघन्यप्रवृत्तं प्रत्येकबुद्धबोधिं प्रापयति । [ततोऽपि] जघन्यप्रवृत्तं श्रावकबोधिं प्रापयति । अधिमात्रेषु चतुरप्रमाणचित्तेषु विहरन् भवग्र उत्पद्यते । ततो जघन्यभूतेषु चतुरप्रमाणचित्तेषु विहरन्नवरभूमावुत्पद्यते । (
२३०) ततो जघन्यभूतेषु चतुरप्रमाणचित्तेषु विहरन् शीलसमाधिप्रत्ययवशाच्च रूपधातावुत्पद्यते । दानशीलकुशलाभ्यासप्रत्ययेन कामधातावुत्पद्यते । दानादिकर्मणां पुण्यक्षेत्रोत्कर्षनिकर्षमनुसृत्यास्ति विशेषः । यत्बुद्धक्षेत्र आचरणं तदत्युत्तमम् । यत्प्रत्येकबुद्धक्षेत्र आचरणं तत्ततो न्यूनम् ।

(पृ) पुण्यक्षेत्रं किं बोध्योत्कृष्टं किं वा प्रहाणेन । (उ) अत्यन्तशून्यताख्यं धर्मलक्षणं या बोधिः प्रापयति । सा प्रहाणादुत्कर्षति । कस्मात् । यथा भगवान् बोध्या श्रावकेभ्योऽतिरिच्यते न प्रहाणेन । यथोक्तं संयुक्तपिटके-

जम्बूद्वीपसमां यच्च सङ्घभूमिं विशोधयेत् ।
पाणिकल्पस्य चैत्यस्य शास्तुस्तच्छोधनोपमम् ॥

सर्वज्ञज्ञानञ्च प्रहाणार्थम् । अतो यद्बोधिसत्त्वानां संसारे दीर्घकालावासः स सम्यक्प्रहाणार्थः । सम्यक्प्रहाणमिति यत्स्वसंयोजनप्रहाणं सत्त्वप्रहाणञ्च । तानि संयोजनानि च क्रमशो बोधिप्रहेयानि । अतो ज्ञायते बोध्या पुण्यक्षेत्रं प्रहाणादुत्कृष्टमिति ।

(पृ) यस्तीक्ष्णेन्द्रियः स्रोतआपन्नः यश्च मृद्विन्द्रियः सकृदागामी । अतयो पुण्यक्षेत्रयोः क उत्कृष्टः । (उ) तीक्ष्णेन्द्रिय उत्कृष्टो न मृद्विन्द्रियः । (पृ) तद्वचन मयुक्तम् । यथोक्तं सूत्रे स्रोतआपन्नशतसत्कारो नैकसकृदागामिसत्कारकल्प इति । आह च- दन्धानां हिंसया कामरागकलहचित्तं प्ररोहति । इति । अतो वीतरागस्य दानं बहुपुण्यानि प्रापयेत् । सकृदागामी च त्रीणि विषाणि तनूकरोति । न स्रोतआपन्नः । कस्मादुच्यत उत्कृष्ट इति । (उ) तत्सूत्रं नेयार्थकम् । केनेदं ज्ञायते । तस्मिन्नेव सूत्र उक्तं- तिरश्चां दानं शतगुणं हितं प्रापयति इति । वस्तुतस्तु पारावतपक्ष्यादीनां दानेन प्रतिलब्धो विपाकः तीर्थिकानां पञ्चाभिज्ञानां दानमतिशेते । अतस्तत्सूत्रं चिन्त्यार्थकम् । सूत्रं तत्बहुना हेतुनाह- निस्सरणार्था प्रज्ञा इति ।

(
२३१)
स्रोतआपन्नश्च प्रज्ञाबलेन कामान् वेदयमानोऽपि पुण्यक्षेत्रमित्युच्यते । न तु प्रहीणरागः प्राकृतो यावद्भवाग्रनियमलाभी [पुण्यक्षेत्रम्] । बहुश्रुतज्ञानं निर्वेधभागीयगतमेव प्रकृष्टं न भवाग्रनियतोऽनिर्वेधभागीयगतः । मैत्रेयबोधिसत्त्वोऽप्रतिलब्धबुद्धत्वोऽपि अर्हतां सत्कार्यः । शून्यताकारमात्रबोधिचित्तोत्पादकोऽर्हतां सत्कार्यः । तद्यथा एकः श्रामणेरः पात्रचीवरमादाय अर्हन्तमनुचरति । अस्मिन् श्रामणेरे उत्पन्नानुत्तर [बोधि]चित्ते तु अर्हन्नेव तत्पात्रचीवरमादाय स्वयमुत्तरासङ्गं कृत्वा तमनुगच्छति । तद्यथा दृष्टान्ते विस्तरेणोक्तम् । अतो ज्ञायते प्रज्ञया पुण्यक्षेत्रमुत्कृष्टं भवतीति ॥

महाल्पार्थककर्मवर्ग एकोनशततमः ।


१०० त्रिविधकर्मवर्गः

(पृ) सूत्र उक्तम्- त्रिविधं कर्म कुशलमकुशलमव्याकृतमिति । किं कुशलं कर्म । (उ) यत्कर्म परेषां प्रियं प्रयच्छति तत्कुशलम् । (पृ) किं प्रियम् । (उ) परेषां यत्सुखप्रापकं तत्प्रियम् । कुशलमित्यप्युच्यते पुण्यमित्यप्युच्यते । (पृ) यत्परेषां सुखप्रापकं तत्पुण्यम् । यत्परेषां दुःखप्रापकं तेन पापेन भवितव्यम् । यथा आञ्जनौषधशल्यवेधाः परेषां दुःखजनकाः पापाः स्युः । (उ) आञ्जनौषधशल्यवेधाः सुखप्रदत्वादपापाः । (पृ) सुखप्रदं तत्पुण्यमिति । यथा परदारगमनं तत्तस्य सुखजनकं तत्पुण्यकरमपि स्यात् । (उ) अब्रह्मचर्यं नियमेनाकुशलम् । यत्परानुकुशलधर्मे प्रवर्तयति तत्दुःखाय भवति न सुखाय । सुखं नाम यदिहामुत्र च सुखम् । न त्वैहिकमल्पसुखम् । यत्प्रेत्यामुत्र महादुःखं विन्दते ।

(पृ) केचिदन्नपानप्रत्ययं परेषां सुखमुत्पादयन्ति । तदन्नपानं कदाचिदजीर्यमाणं सत्पुरुषस्य मरणं प्रापयति । तदन्नदायकः किं पापं लभेत किं वा पुण्यम् । (उ) स साधुचित्तोऽन्नं प्रयच्छति न दुष्टचित्तः । अतः पुण्यमात्रं लभते न पापम् । (पृ) परदारगमनमप्येवं स्यात् । केवलं सुखार्थत्वात्पुण्यमपि लभेत । (उ) इदं पूर्वमेव प्रत्युक्तं यदब्रह्मचर्यं नियमेन अकुशलमिति । महादुःखजनकत्वात् । अन्नपानदाने त्वस्ति (
२३२) पुण्यगुणभागः । कस्मात् । नह्यवश्यमन्नलाभी म्रियते । सत्त्वाः कामक्लिष्टाः काममैथुनमनुभवन्ति । तत्सर्वथापुण्यहेतुः । कथं पुण्यं लभेरन् । (पृ) केचित्प्राणिहिंसया बहू नामुपकुर्वन्ति । यथा चोराणां निग्रहे राष्ट्रं निरीति भवति । क्रूरपशुमारणे जनानां हितं भवति । एवमादिप्राणिहिंसया किं पुण्यं लभ्येत । केचित्स्तेयप्रत्ययं पितरौ पोषयन्ति । मैथुनप्रत्ययं प्रियपुत्रं जनयन्ति । मृषावादप्रत्ययञ्च कस्यचिज्जीवीतं प्रददन्ति । पारुष्यवचनप्रत्ययं परेषां हितं भवति । इदं सर्वं दशाकुशलसङ्गृहीतम् । कथमनेन पुण्यं लभेरन् । (उ) ते पुण्यं पापञ्च लभन्ते । परानुग्रहात्पुण्यं लभन्ते परोपघातात्पापम् । (पृ) चिकित्सापि परस्यादौ दुःखप्रदा पश्चात्सुखं प्रापयति । कस्मात्पापमलब्ध्वा पुण्यमात्रं लभते । (उ) चिकित्सायां कुशलचित्तेन कृतायां नास्त्यकुशलाशयः । यत्कर्म कुशलाकुशलहेतुसमुद्धितं, ततः पुण्यं पापं व्यामिश्रं लभते ।

चोदयति । हिंसादयः सर्वे पुण्यप्रापकाः । कस्मात् । हिंसाप्रत्ययमभीष्टं लभते । यथा राज्ञाश्चोरनिग्रहे पुण्यं लभ्यते । पुण्यप्रत्ययञ्च यदभीप्सितं तल्लभ्यते । इति प्राणातिपातात्कथं पुण्यं न भवति । हिंसां कुर्वन् यशो लभते । यशः पुरुषस्य काम्यं भवति । पुरुषस्य काम्यं पुण्यफलकम् । हिंसया च प्रीतिसुखं लभते । प्रीतिसुखमपि पुण्यफलविपाकम् । आह च च सूत्रम्- यो युद्धे हन्यते स स्वर्ग उत्पद्यत इति । यथाह गाथा- म्रियमाणञ्च सङ्ग्रामे पतिं बरयतेप्सराः इति । किञ्चाह-

सुधनत्वेऽपि पुरुषश्चोरं पुरत आगतम्
हन्यादेव न वै पापमाहन्ता विन्दते तु तत् ॥ इति

धर्मसूत्रमाह- चत्वारो वर्णाः ब्राह्मणक्षत्रियवैश्यशूद्राः । एषां पृथक्सन्ति स्वधर्माः । ब्राह्मणस्य षड्धर्माः क्षत्रियस्य चत्वारो वैश्यस्य त्रयः शूद्रस्यैकः । षड्धर्मा इति यजनमार्विज्य मध्ययतमध्यापनं दानं प्रतिग्रहः । चत्वारो धर्मा इति यजनं नार्त्विज्यं, परतो वेदाध्ययनं नाध्यापनं, दानं न प्रतिग्रहः प्रजापालनम् । त्रयो धर्मा इति यजनं नार्त्विज्यं, अध्ययनं नाध्यापनं दानं न प्रतिग्रहः । एको धर्म इति त्रयाणामुत्तमवर्णानां (
२३३) शूश्रूषा । क्षत्रियस्य प्रजापालनाय प्राणिवधे पुण्यमेव न पापम् । वेद उक्तम्- प्राणिवधः पुण्यप्रापकः यदुत वैदिकमन्त्रेण हताः पशवः स्वर्ग उत्पद्यन्त इति । वेदाश्च लोके श्रद्धेया भवन्ति । किञ्चाह यद्वस्तुतो मर्तव्यं तद्धनने नास्ति पापम्- यथा पञ्चाभिज्ञ ऋषिर्मन्त्रेण पुरुषं हन्ति । न वक्तव्यमृषेः पापमस्तीति । [अनृषे]ः पापिष्ठस्य कथमेतत्सिध्यति । अतो ज्ञायते प्राणिवधो न पापप्रापक इति । कश्चित्कदाचिच्चित्तबलेन प्राणिनं हत्वा पुण्यं लभते । प्राणदानेन तु पापं लभते । यदि कुशलचित्तेन सुखलिप्सया प्राणिनं हन्ति । कथं तस्य पापं भवति । यथा सूनकादयः । पशुपालानां गवाजदानेऽपि पापम् । एवमदत्तादानादिष्वपि पुण्यगुणोऽस्ति ।

अत्रोच्यते । यदुक्तं भवता प्राणिवधेनाभीप्सितलाभादस्ति पुण्यगुण इति । तदयुक्तम् । कस्मात् । पुण्यगुणाधीनतया हि अभीप्सितलाभः । अभीप्सितप्रत्ययः प्राणिवधलाभ इति कस्माद्युक्तम् । पूर्वाध्वकृताविशुद्धपुण्यत्वात् । यथोक्तं सूत्रे- चौर्यहरणवधहिंसाप्रतिलब्धधनोऽन्यस्य दानं प्रयोजयति । तत्दौर्मनस्यपरिदेवनेनापरिशुद्धं दानमिति । एवमादिदानमपरिशुद्धमित्युच्यते । अवश्यमशुभप्रत्ययाधीनां विपाकवेदनां प्रापयति । तस्य पुरुषस्य पूर्वाध्वनि पुण्यमस्ति प्राणातिपातकर्मप्रत्ययोऽप्यस्ति । तस्मादिदानीं कायो हननहेतुकं विपाकं वेदयते । केचित्सत्त्वा अपि प्रत्यर्पणीयजीवितधना इत्यतो वधहिंसया यदभीप्सितं तल्लभते । न च तथा सर्वे सत्त्वाः । [अतः] प्राणिवधेनोपभोग्यं लभते । यथा लोक आहुः- अयं पुरुषोऽल्पपुण्यो बहुकुर्वन्नपि न विन्दत इति । यशःप्रीतिसुखेष्वप्येवं स्यात् । पुण्यगुणप्रत्ययेन यशःकायबलसुखानि लभते । पुण्यस्य केवलमपरिशुद्धत्वात्वधेन [उपभोग्यं] लभते । (पृ) सिंहव्याघ्रादिलब्धं कायबलं सर्वं पापजम् । यक्षराक्षसादिलब्धं कायबलसुखमपि पापजम् । (उ) इदं पूर्वमेव प्रत्युक्तम् । अविशुद्धपुण्यत्वात्पापप्रत्ययेन लभते ।

यद्ब्रवीषि सूत्र उक्तं- यो युद्धे हन्यते स स्वर्ग उत्पद्यत इति । तदयुक्तम् । कस्मात् । सूत्रमिदमनेन मिथ्याप्रलापेन मूढान् प्रोत्साहयति सौर्यमुत्पादयितुम् । केनेदं ज्ञायते । अवश्यं पुण्याधीनं पुण्यमुत्पद्यते पापाधीनं पापम् । तत्रात्यन्तमसति पुण्यहेतौ केन पुण्यं लभेत । यदाह भवान्- चतुर्णां वर्णानां पृथक्सन्ति स्वधर्माः । क्षत्रियस्य (
२३४) प्रजापालनात्वधोऽपाप इति । स गृह्यधर्मसमः । यथा सूनकादीनां लोकानां गृह्यधर्माः प्राणिवधाः सदा क्रियमाणा न पापविमुक्ताः । तथा क्षत्रियस्यापि । स राजधर्मोऽपि हेतुना पापप्रापकः । यदि क्षत्रियो राजधर्मत्वेन प्राणान् वध्यनपापो भवति । तदा सूनकव्याधादयोऽप्यपापाः स्युः । क्षत्रियः परं प्रजासु करुणार्द्रचित्ततया वैरमुत्सृज्य तदधीनं पुण्यं लभते । यः पुरुषजीवितमपहरति । तस्य पापमस्ति । यथा कश्चिन्मातापितृपालनाय परधनमपहरति । स पुण्यं पापं व्यामिश्रं लभते ।

(पृ) मातपितृपालनाय चोरयन्न पापं लभेत । यथोक्तं धर्मसूत्रे- यः सप्तदिनान्युपवसति । स चण्डालादपहरन्न पापमुपादत्ते । यो मुमूर्षुः स ब्राह्मणादप्युपादानं लभते इति । इमे दुष्कर्मणा जीवन्तोऽपि नोच्यन्ते शीलव्यसनिन इति । आपन्नत्वात् । यथाकाशो न रजसा दूष्यते । तथा तेऽपि न पापेन दूष्यन्ते । (उ) उक्त ब्राह्मण धर्म एव- चौर्यकाले धनस्वाम्यागत्य रक्षति । तस्मिन् समये ब्राह्मणेन विचारयितव्यम् । यदि स धनस्वामिगुणैरसमानो भवति । तदा तं हन्यात् । कस्मात् । अहमुत्तमः, नानाप्रायश्चित्तैस्तत्पापं निर्हरामि । यदि तेन तुल्यगुणः । तदा आत्महनने परहनने वा तत्पापमपि तुल्यम् । तस्य गुरुतरपापस्य दुर्हरणत्वात् । यदि धनस्वामी गुणाधिकः । तदा स्वकायं त्यजेत् । तत्र पापस्यापनोद्यत्वात् । एवं विवेकः । चोरहननेऽप्येवं स्यात्दुष्कर्मणा जीवन्त इति यदुक्तं तत्र दुष्कर्मसत्त्वात्कथं पुण्यं भवेत् ।

यदवोचः चोरं पुरत आगतं हन्यादेव न वै पापमहन्ता तु विन्दते ततिति । तद्दूषितचरमेव । कस्मात् । यदि पुरत आगतो गुणाधिकः । तदा स्वकायं त्यजेत् । यदि नास्ति पापमिति । कस्मात्तथा भवेत् । यदब्रवीः वेद उक्तं प्राणिवधः पुण्यप्रापक इति । तत्प्रत्युक्तमेव यदुत बधे नास्ति पुण्यमिति । यदुक्तं वस्तुतो मर्तव्यस्य कस्यचिद्वधे नास्ति पापमिति । तदा दुष्टचोरवधेऽपि पापं न स्यात् । सर्वे च सत्त्वाः पापिष्ठाः । स्कन्धकायानुभवकर्माभिसंस्कारित्वात् । एवञ्च प्राणिवधेन पापं लभेत । तत्तु न सम्भवति ।

(पृ) ये सत्त्वाः पूर्वाध्वनि स्वयंकृतबधप्रत्ययाः । तेषामिदानीं वधे कस्मात्पापं लभ्यते । चौर्यादिकर्मस्वप्येवं स्यात् । (उ) तथा चेत्पुण्यपापे न स्याताम् । कस्मात् । (
२३५) अयं पुरुषः पूर्वाध्वकृतवधप्रत्ययत्वात्तद्वधोऽपापः । तत्प्राणातिपातविरतिरप्यपुण्या स्यात् । एवं यः परस्मै ददाति तस्यापि न पुण्यं स्यात् । प्रतिग्रहीता पूर्वाध्वनि स्वाचरितदानकर्मक इदानीं तद्विपाकं लभते । न हि सम्भवति नास्ति पुण्यं पापमिति । अतो ज्ञातव्यं सत्त्वानां पूर्वाध्वकृतवधकर्मणामपि वधिता पापं लभत इति । रागद्वेषमोहेभ्यः समुत्पन्नत्वात् । इमे क्लेशा मिथ्याविपर्यासाः । मिथ्याविपर्यस्तचित्तोत्पाद एव पापं लभते । कः पुनर्वादस्तद्धेतूत्थितेषु कायवाक्कर्मसु । तेन संसारोऽनवस्थः । तथा नोचेदृषयो रागद्वेषादिक्लेशानामुदये ऋद्धे न हीयेरन् । यदीदं न पापम् । कस्य धर्मस्य विपरीतं पुण्यमित्युच्येत । ज्ञातव्यं पूर्वाध्वकृतप्रत्ययानामपि सत्त्वानां वधिता पापवान् स्यादिति । यद्युप्युक्तं त्वया पापियान्न किञ्चित्साधयतीति । तदयुक्तम् । चण्डालादयोऽपि मन्त्रविधिना पुरुषं घ्नन्ति । तथा महर्षयोऽपि अकुशलचित्तेन यथाभिहितं साधयन्ति । ते पुण्यबलात्साधयन्तः प्राणातिपातात्पापं लभन्ते ।

यदब्रवीः- कश्चिच्चित्तबलेन प्राणातिपातं कुर्वन् पुण्यं प्रसूते । प्राणदानेन पापमिति । तदयुक्तम् । कस्मात् । अवश्यं चित्तबलेन पुण्यप्रत्ययेन पुण्यं लभते । न तु चित्तमात्रेण । यः कुशलचित्तेन गुरुतल्पगो ब्राह्मणहन्ता वा भवति । तेन किं पुण्यं लभ्येत । पारसीकादि पर्यन्तभूमिगतानां जनानां पुण्यबुद्धया मातृभगिन्यादिगामिनां किं पुण्यं भवेत् । अतो ज्ञायते पुण्यप्रत्ययत्वात्पुण्यमुत्पद्यते । न तु चित्तमात्रेण एवं स्तेयादावपि । अतो ज्ञायते वधादयोऽकुशला इति । ते वधादयः परेषामपकारकत्वादकुशला इत्युच्यन्ते । यद्यपि दृष्टे कञ्चित्कालं सुखं लभते । पश्चात्तु महद्दुःखमनुभवति । परापकारो ह्यकुशललक्षणम् । पश्यामः खलु प्रत्यक्षं बहवः सत्त्वा वधादीनाचरन्तो भूयसा तिसृषु गतिषु मनुष्यगतौ च दुःखपीडा अनुभवन्तीति । [अतो] ज्ञातव्यं दुःखपीडा वधादीनां फलमिति । हेतुसरूपत्वात्फलस्य । तिसृषु दुर्गतिषु पापानि तीव्रदुःखानि । अतो ज्ञायते वधादिप्रत्ययात्तत्रोपपद्यन्त इति ।

(पृ) देवेषु मनेष्येषु चैवं स्यात् । देवा अपि सदा युद्धेऽसुरैः सह वध्यन्ते । (
२३६) मनुष्येषु गर्तग्रहणयन्त्रजालविषैः सत्त्वान् घ्नन्ति । (उ) देवमनुष्येषु सन्ति वधविरत्यादयो धर्माः । न तु तिसृषु गतिषु, इति ज्ञातव्यं तत्र पापं तीव्रदुःखमिति । मनुष्या वधादिप्रत्ययेन तु प्रक्षीणायुरादिलाभसुखा भवन्ति । [तथा हि] पुरा मनुष्या अप्रमाणायुष्का अभूवन् । चन्द्रसूर्यवत्स्वकायनिश्चरद्रश्मयः विहायसा स्वैरचारिणाः । पृथिवी स्वाभाविकयथेष्ठद्रव्याः स्वाभाविकतण्डुलाः । सर्वमिदं वधादिपापैः प्रणष्टम् । ततः पुनः क्षयोऽभूत् । यावद्दशवर्षेषु मनुष्येषु धृततैलसितोपलाशालिचोलयवादयः सर्वेऽपि तिरोहिताः । अतो ज्ञायते वधादयोऽकुशलकर्माणीति । यो वधहिंसादिभ्यो विरमति स पुनर्लाभसुखायुःपौष्कल्यं लभते । यथाशीतिवर्षसहस्रायुष्कस्य यथेष्टं कामा भवन्ति । अतो ज्ञायते वधोऽकुशल इति ।

इदानीमौत्तरा वदन्ति तण्डुलं स्वाभाविकं वसनं वृक्षजम् । प्राणातिपातविरतित्वात् । संक्षिप्येदमुच्यते सत्त्वानां सर्वाणि सुखोपकरणानि प्राणातिपातविरतिसमुत्पन्नानीति । अतो ज्ञायते प्राणातिपातादयोऽकुशलकर्माणीति । प्राणातिपातादिधर्माः सज्जनैः परित्याज्याः । ये बुद्धा बोधिसत्त्वाः प्रत्येकबुद्धाः श्रावका अन्ये च भदन्ताः ते सर्वे तान् परित्यज्य विरमन्ति । अतो ज्ञायतेऽकुशला इति ।

(पृ) प्राणिवधादयः सुजनैरप्यनुश्रूयन्ते । यथोक्तं मेदे यज्ञार्थं पशुवधोऽनुश्रूयत इति । (उ) ते न सुजनाः । सुजनः सदा परस्य हितार्थी भवति । करुणाचित्ताभ्यासी मित्रामित्रयोः समः । तादृशः पुरुषः कथं प्राणिवधमनुश्रावयेत् । कामक्रोधकलुषितचित्ताः सन्त इमं ग्रन्थं रचयामासुः । [सत्त्वानां] स्वर्गे जन्माभिलाषी सत्त्वानभिमन्त्रयमानः स्वपुण्यबलेन तत्साधयति । वधादिभ्यो विमुक्तिलाभी न तत्करोति । अतो ज्ञायतेऽकुशलमिति । (पृ) विमुक्तिलाभी अन्यदपि विकालभोजनादि करोति । इदमप्यकुशलं भवेत् । (उ) इदं पापहेतुरिति सुजनाः परिहरन्त्यपि । यो धर्मोऽदुष्टः न स धर्मः परिहरणीयः स्यात् । विकालभोजनादयो ब्रह्मचर्यं घ्नन्तीत्यतोऽपि परिहरन्ति । केचिद्धर्माः स्वरूपतोऽकुशला इत्यतः परिहरन्ति यथा मद्यपानविकालभोजनादयः । अतो ज्ञायते प्राणातिपातः स्वरूपतोऽकुशल इति । प्राणातिपातो बहुजनविद्विष्टः । यथा सिंहव्याघ्रदस्युचण्डालादयः । यदनेन हेतुना जनविद्विष्टं कथं तदकुशलं न भवेत् । यः प्राणातिपातविरतः स बहूनां (
२३७) जनानां प्रियो भवति । यथा करुणाविहारी आर्याणां प्रियः । अतो ज्ञायते वधोऽकुशल इति ।

(पृ) कश्चित्तु प्राणिवधकृत्स्वविक्रमवशाज्जनानां प्रियो भवति । यथा कश्चिद्राजार्थं दुष्टचोराणां हन्ता राजप्रियो भवति । (उ) [पाप]हेतुसत्त्वान्नात्यधिकं प्रियो भवति । यथा वदन्ति यो दुष्कर्मणा राजचित्तं तर्पयति । राजा च यदि निर्विण्णचित्तो भवति । तस्य पुनः स विमतो भवति । यो दुर्वृत्त्या विमतो भवति । स कथं प्रियो भवेत् । अकुशलचारी आत्मन एवाप्रियः । कः पुनर्वादोऽन्येषाम् । अतो ज्ञायते प्राणिहिंसाकुशलधर्म इति । वधादिधर्माः ताडनहिंसनवन्धनादीनां दुःखो पद्रवाणां हेतव इत्यतो ज्ञायतेऽकुशला इति । (पृ) अहिंसादिधर्मा अपि दुःखहेतवः । यथा राजा दुष्टचोरान् वधितुमाज्ञापायति । यो न वध्यति तं राजा हन्ति । (उ) यो न हन्ति स हन्यत इत्यहन्तारः सर्वे मरिष्यमाणा भवेयुः । राजशासनविरुद्धत्वादेषाम् । यदि राजा जानाति अयमवधचित्त इति तदा अवधिता प्रत्युत सत्क्रियते । अतो ज्ञायते वधादयो दुःखहेतवो न त्ववधादयः । यो वधानाचरति । तस्य मरणकाले चित्तं परितपति । अतो ज्ञायतेऽकुशलमिति । वधाद्याचरणात्न जनानां श्रद्धेयः । स्वयूथ्येष्वेव न श्रद्धीयते । कः पुनर्वादः सज्जनेषु । सिंसाद्याचारी सजातीयैरेवाधिक्षिप्यते । कः पुनर्वादोऽन्यजनैः । हिंसाद्याचारी चण्डालसूनकव्याधादिवत्सज्जनैः दूरतः परित्यज्यते । हिंसाद्याचरिता न सुखी जन इत्युच्यते । यथा सूनको न कदापीदृशकर्मणा सत्कारं लभते । सुजनो गुणाय हिंसादिभ्यो विरमति । यदि नाकुशलम् । कस्मात्गुणाय विरतिं सम्प्रत्येषति । दृष्टे पश्यामः खलु हिंसादीनां विप्रियं फलं भवतीति । ज्ञातव्यमागामिन्यध्वन्यपि दुःखविपाकं प्रापयतीति । यदि हिंसादयो नाकुशलाः । को धर्मः पुनरकुशलः स्यात् ।

(पृ) यदि हिंसादिधर्मा अकुशलाः । तदा देहपोषणं न स्यात् । कस्मात् । न ह्यस्ति अहिंसासम्भवकालः । गतागते पादोत्क्षेपणे पादावक्षेपणे वा सदा सूक्ष्मसत्त्वान् विहन्ति । आत्मीयसंज्ञया परवस्तूनि सदा गृह्णाति । यथास्वसंज्ञञ्च मिथ्या व्यवहरति । अतो नैव देहपोषणं भवेत् । (उ) यथेतुकृतं तत्पापम् । नाहेतुकृतम् । यथोक्तं सूत्रे- वस्तुसन्तः सत्त्वाः, तेषु सत्त्वसंज्ञामुत्पाद्य जिघत्साबुद्ध्या तान् हत्वा हननपापं लभन्त इति । एवं स्तेयादावपि । (पृ) यथा विषं पीतवानिति हेतावहेतावुभयथा पुरुषं हन्ति । यथा च वह्निप्रक्रमणं ज्ञानेऽज्ञाने च पुरुषं दहति । तथा वेधनादिरपि स्यात् । ज्ञातव्यं प्राणिहिंसा हेतावहेतौ च पापं प्रापयति । (उ) नायं दृष्टान्तो युक्तः । विषेण कायहिंसनान्मरणम् । (
२३८) पुण्यन्तु चित्तगतम् । किमत्र दृष्टान्तो भवेत् । वह्निवेधनादिरपि प्रबोधेऽसति न दुःखजनकः । अतो न स दृष्टान्तो युज्यते । असति विज्ञाने न खेदं बुध्यते । सति तु विज्ञाने बुध्यते एवमसति हेतुचित्ते न कर्म सिध्यति । सति तु चित्ते सिध्यति । स दृष्टान्तस्तथा स्यात् । हेतौ सति पापम् । असति तु नास्ति । कर्मणां चित्तबलात्पुण्यपापविभागः । असति हेतुचित्ते कथमुच्चनीचभावो भवेत् । चिकित्सायामचिकित्सायाञ्चोभयथा पुरुषस्य दुःखं जायते । चित्तबलात्पुण्यपापविभागः । यथा मातुस्तनग्रहणे बालको न पापं लभते । अनुरागचित्ताभावात् । अनुरागचित्तेन ग्रहणे तु पापमस्ति । पुण्यं पापं सर्वं चित्ताधीनं जायत इति ज्ञातव्यम् ।

यदि हेतुचित्तेऽसत्यपि पापमस्ति । तदा विमुक्तिलब्धोऽपि असति हेतौ सत्त्वान् पीडयन् पापं लभेत । तदा न विमुच्येत । पापिष्ठानां मोक्षाभावात् । यदि हेतोवसत्यपि पुण्यपापमस्ति । तदैकमेव कर्म कुशलमकुशलञ्च स्यात् । यथा कश्चित्पुण्यं कर्म कुर्वन् सत्त्वं हतवानस्मीति भ्रान्तो भवति । तदा तत्कर्म पापं पुण्यञ्च स्यात् । तत्तु न युज्यते । हेतावसति पुण्यं पापं वा नास्तीति ज्ञातव्यम् । यदि विना चित्तं कर्मास्ति । तदा कथमिदं कुशलमिदमकुशलमिदमव्याकृतमिति विभागः स्यात् । चित्तहेतुना त्वयं विभागः । यथा त्रयः पुरुषाः सम्भूय स्तूपप्रदक्षिणं कुर्वन्ति । तत्रैको बुद्धगुणानुस्मरणाय । द्वितीयः स्तेयहरणाय । तृतीयो भावशमनाय । [तेषां] कायकर्मणि समानेऽपि कुशलाकुशलाव्याकृतविभागश्चित्तगत इति ज्ञेयम् । किञ्चित्कर्म नियतविपाकं, किञ्चिदनियतविपाकं, किञ्चिदुत्तमं मध्यममधमं, दृष्टधर्मविपाकमुपपद्यविपाकं, तदुत्तरविपाकमित्यादि । यदि चित्तेन विना पुण्यपापं लभ्यते । कथमयं विभागो भवेत् । यदि चित्तव्यतिरिक्तं कर्मास्ति असत्त्वसंख्येष्वपि पुण्यपापं स्यात् । यथा सभीरणोन्मूलितपर्वतोपद्रुतेषु सत्त्वेषु समीरणे पापं स्यात् । सुगन्धिकुसुमस्य स्तूपविहारपतने पुण्यं स्यात् । तत्तु न सम्भवति । अतो ज्ञायते न चित्तव्यतिरिक्तं पुण्यपापमस्तीति ।

तीर्थिका वदन्ति- उपवासस्थण्डिलशयनशलाकावेधादिभिर्जलपतनदहनप्रवेश (
२३९) भृगुपतनादिभिश्च दुःखप्रत्ययैः पुण्यं भवतीति । तत्र प्राज्ञा दूषयन्ति । तथा चेन्नारकाः सत्त्वाः सदा दह्यन्ते पच्यन्ते च । प्रेता बुभुक्षिताः पिपासिताः । पतङ्गा दहनप्रविष्टाः । मीननक्रा जलावसथाः । अजवराहाश्वादयः सदा पुरीषक्षेत्रशायिनः । तेऽपि पुण्यं लभेरन् । ते प्रतिब्रूवन्ति । अवश्यं हेतुचित्तेन तद्दुःखमनुभवतां पुण्यं भवति नत्वहेतुचित्तेन । नारकादयो न हेतुचित्तेन दाहादिदुःखमनुभवन्ति । यदि हेतुचित्तेन विना पुण्यं नास्ति । हेतुचित्तेन विना पापमपि नास्ति । यदि हेतुचित्तेन विना पुण्यमस्ति । नारकादीनामपि पुण्यं स्यात् । इत्येवं दोषोऽस्ति । [इति] । यदि हेतुचित्तं विना पुण्यं पापं वास्ति । तदा सुजनो न स्यात् । कस्मात् । चतुर्षु इर्यापथेषु सदा सत्त्वान् हन्ति । तत्तु न सम्भवति । हेतावसति नास्ति पुण्यं पापमिति ज्ञातव्यम् । सुजन्मक्षेत्रञ्च न लभेत् । सदा पापकत्त्वात् । वस्तुतस्तु सन्ति ब्रह्मकायिकादीनां सुरुचिराः काया अतो ज्ञायते न हेतुं विना पुण्यं पापं वास्तीति ।

भावतां शासने अपरिशुद्धाहारे पापं भवति । योऽभिप्रैति सर्वाण्यन्नपानानि अपरिशुद्धाहाराः पापप्रापकाः स्युरिति । एवं सुरादिस्पर्शे सोऽब्राह्मणः स्यात् । परिशुद्धेन चित्तेन भोजने न पुनरस्ति पापमिति श्रुतं दृष्टवानसि । तदा चित्तं विना नास्ति पुण्यं पापं वा इति ज्ञातव्यम् । अध्वरे च पुण्यचित्तेन पशवो हन्यन्ते । तेन स्वर्ग उत्पद्येरनिति । पुण्यचित्तेन हननात्पुण्यमस्ति । तथा नो चेत्सर्वे प्राणिवधाः पुण्यप्रापकाः पापप्रापका वा स्युः । ब्राह्मणमाह- किञ्चित्स्तेयमपापम् । यथा सप्तदिनान्यनशनः शूद्रादपि प्रतिगृह्णीयात् । यो मुमूर्षुः स ब्राह्मणादपि गृह्णीयात् । पुत्रार्थिनोऽब्रह्मचर्यमपापमिति । हेतुचित्तेऽसति न स्यादीदृशविभागः । अतो ज्ञायते यो हेतुं विनान्यस्य विषं प्रयच्छति । केन स पापं लभेत । यः सहेतु अन्यस्य विषं प्रयच्छति । विषं प्रत्युत व्याधिं शमयति । स पुण्यं लभेत । कस्यचिदन्नं प्रयच्छति । अन्ने चाजीर्णे पुरुषो म्रियते । तत पापं प्राप्नुयात् । यदि विना हेतुं पुण्यपापे स्तः । तदा धर्मोऽयं व्याकुलः स्यात् । लौकिकाः सर्ववस्तुषु चित्तं श्रद्दधन्ते । यथा एकमेव वचनं प्रीतिद्वेषजननम् । पृष्ठताडनादिरप्येवम् । अतो ज्ञायते कर्माणि चित्ताधीनानि इति । [तत्र] मानसं कर्म गरिष्ठमित्युत्तरत्न वक्ष्यते । अतो ज्ञायते कर्माणि चित्ताधीनानीति । यः (
२४०) प्राज्ञः स पञ्चकामगुणेषु वसन्नपि न पापमाक्भवतीति मनसो बलम् । कस्मात् । न हि प्राज्ञो रूपाणि दृष्ट्वा मिथ्यासंज्ञामुत्पादयति । अतो नास्ति रूपासङ्गदोषः । तथा शब्दादावपि । यद्यनुत्पन्नमिथ्यासंज्ञोऽपि पापवान् । तदा सर्वाणि दर्शनश्रवणानि पापानि स्युः । तथा च मानसं कर्म निष्प्रयोजनं स्यात् । ज्ञानी प्रज्ञाशीर्षकः पञ्चकामगुणाननुभवन्नपि
नासक्तिमुत्पादयति । पञ्चकामगुणाः सन्तोऽपि चित्तनिर्वेदान्न मलिनयन्ति । किमिदं न मानसकर्मणो बलम् । अतो नास्ति विना हेतुं पुण्यपापप्रतिलाभः ।

चोदयति । यद्ब्रवीषि परस्यानुग्रहाननुग्रहौ कुशलाकुशललक्षणमिति । तदयुक्तम् । कस्मात् । यः स्वकायं परिपालयन्पुण्यं कर्माचरति । तस्यात्मानं भोजयतोऽपि पुण्यमस्ति । चैत्यविहारावसत्त्वभूतौ । तयोः सेचनशोधने अपि पुण्यप्रापके । वन्दनादयस्तु न परानुग्राहकाः । केवलं परगुणवैकल्यकरा इति न भवेत्पुण्यम् । न च चित्तमात्रेण पुण्यगुणो भवति । अन्नवस्त्राभ्यां परमुपकुर्वता तस्मिन् समये पुण्यं लभ्यते । तथा करुणा[मात्र]चारिणो न भवेत्पुण्यम् । यदि चैत्यविहारादयोऽसत्त्वसंख्याताः । तेषां यो धनमपहरति विनाशयति वा । न तस्य भवेत्पापम् । अनभिमुखीकृत्य दुर्वचसा परनिन्दने न भवेत्पापम् । अश्रुतत्वात्कस्यापकर्षः स्यात् । अन्यपुरुषे च दुष्टचित्तमात्रमुत्पादयति न कायवाक्कर्म करोति । किं पुनर्हीयते । न स पापभाक्स्यात् । कश्चिदात्मानं निन्दति । कश्चिदात्मानं हन्ति । कश्चित्स्वयं मिथ्याचरति । कश्चिच्च पापं लभते । अतः कुशलाकुशललक्षणं न परानुग्रहाननुग्रहमात्रेण भवति ।

अत्रोच्यते । यद्ब्रवीषि स्वदेहं पालयतः पुण्यगुणोऽस्तीति । तदयुक्तम् । यद्यात्मसत्कारे पुण्यगुणोऽस्ति । तदा न कश्चित्परं सत्कुर्यात् । वस्तुतस्तु पुण्यार्थी परं सत्करोति । यात्मार्थता ततः पुण्यमल्पं भवति । अतो ज्ञायते आत्मार्थता न पुण्यवती स्यादिति । यदाह भवानात्मपोषणं पुण्यकर्माचरणार्थमिति । तत्स्वदेहः परेषामुपकारार्थ इति पुष्णाति । तस्यास्याश्चित्तभूमेः पुण्यगुणः प्रसूते । नात्मपोषणमात्रेण । यद्ब्रवीषि चैत्यविहारा वसत्त्वभूतौ, तयोः सेचनशोधने अपि पुण्यप्रापक इति । तत्भगवद्गुणाः सत्त्वेषु पूज्या इति स्मृत्वा जनाः सेचन्ते शोधयन्ति च । तस्य सत्त्वाधीनत्वाच्च पुण्यमेव लभ्यते । (पृ) निर्वृतो हि भगवानसत्त्वभूतः । उक्तञ्च सूत्रे- न तथागतः सन्नासन्, नापि सदसत्नापि च न सन्नासनिति । कथं सत्त्व इत्युच्येत । (
२४१) (उ) यदि निर्वृतोऽसत्त्वभूतः । तदा अनिर्वृतकालीनं भगवन्तं स्मृत्वा पूजयन्तः पुण्यं लभन्ते । यथा जनाः पितरौ जननपोषणकालं स्मृत्वा यजन्ति । तथा नो चेत्न पितृपूजा भवेत् । तथेदमपि । यद्ब्रवीषि वन्दनादयो न परानुग्राहका इति । तदयुक्तम् । कस्मात् । वन्दनादिभिः परस्य नानाहितं भवति । येन परः पूज्यानां सत्कार्यो भवति । अयमेव [परा]नुग्रहः । तेनान्येऽपि जनाः सत्कारशिक्षाननुसरन्तः पुण्यगुणं लभन्ते । परस्य वन्दने स्वाभिमानं भज्यते । अकुशाङ्गभङ्गाद्बहूपकृतं भवति । परगुणांश्च ख्यापयतीति वन्दनादीनामीदृशं हितं भवति । यदब्रवीः वन्दनादयः परगुणवैकल्यकरा इति । तदयुक्तम् । वन्दनं भक्तिचित्तेन [क्रियते] । न तीर्थिकानामिव परापकर्षार्थतया तदाचर्यते । यथा च वस्त्रदानं यद्यपि परं हापयति । तथापि परगुणापकर्षकमेव । तथा च वस्त्रदानेनापि न पुण्यं भवेत् । अतो वन्दनादीनां
गभीरचेतनेन सभव्यमाचरणं स्यात् । यथोक्तं सूत्रे- एको भिक्षुः स्नानगृहे अन्यस्य देहं हस्तेन मार्जयति स्म । [एतच्छृत्वा] भगवान् भिक्षूनामन्त्र्याह- अयमुपसेवको भिक्षुरर्हन् । उपसेव्यमानस्तु भिन्नशीलः । तथा शिक्षयथ यूयम् । न सिंहेन श्वादय उपसेव्यन्त इति ।

यद्भवानाह- न च चित्तमात्रेण पुण्यं लभत इति । तत्र चित्तं हि सर्वगुणानां मूलम् । यत्कश्चित्परस्योपकारं चकार करोति करिष्यति वा सर्वं तत्कुशलचित्तमूलकम् । यच्च परस्यापकारं चकार करोति करिष्यति वा सर्वं तदकुशलचित्तमूलकम् । करुणाचारी च करुणाचित्तविपाकेन सर्वेषामुपकरोति यदुत चण्डवातवृष्ट्यनुपतनेऽपि सूर्याचन्द्रमसौ नक्षत्राणि च न भ्रश्यन्ति सदा चरन्ति च । न महासमुद्रमुद्वेलयति । न च महाग्निर्दहति । नापि चण्डवात उत्प्लावयति । इदं सर्वं करुणाविपाकबलम् । यथोक्तं सूत्रे- यदि सर्वे लोकाः करुणाचित्तमाचरन्ति । तदा कामाः स्वाभाविकाः स्युः इति । यद्ब्रवीषि चैत्यविहारधनापहारे न पापं स्यादिति । तत्स पुरुषः सत्त्वचित्तेन तदपहरति । यच्चैत्यधनमपहरति । तत्प्रत्ययेन अपकर्षकरणेऽकरणे वा सर्वथा तदाधिपत्येन पापं लभते । भगवति पिडाजननान्न पापमस्तीति भवतो यदि मतम् । तदा [कश्चित्] वाक्पारुष्यादिभिरर्हन्तं योजयति । न तदर्हतो दुःखं जनयति । तस्यापि न पापं भवेत् ।

यब्द्रवीषि- अनभिमुखनिन्दने न भवेत्पापमिति । तदयुक्तम् । अकुशलचित्तेन तत्र प्रयुज्यते । अकुशलचित्तवत्त्वात्तस्मिन् शृण्वति अशृण्वति वावश्यं दुःखं जनयेत् । अतः पापं लभते । यदुक्तं दुष्टचित्त[मात्र]मुत्पाद्य कायवाक्कर्माकुर्वतो न भवेत्पापमिति । (
२४२) तदपि न युक्तम् । परपीडनायाविशुद्धाकुशलचित्तत्वात्[पापं] जनयत्येव । यदि परप्रबोधितो जानाति तदा तस्यावश्यं दुःखोपायासो जायेत एव । यथा चोर आगत्य परधनमपहरति । तदा [स्वामी] प्रबुध्य यद्यपि न जानाति तथापि तस्य [पश्चात्] पीडां करोत्येव । यद्ब्रवीषी आत्महननमात्मनिन्दनञ्च पापकरमिति । तदयुक्तम । यदि स्वदेहं दुःखयन् पापभाक्भवति । तदा न कोऽपि सुजन्मस्थानं प्राप्नुयात् । कस्मात् । जना हि चतुर्ष्विर्यापथेषु स्वदेहं दुःखयन्ति । तथा च सर्वे सत्त्वाः सदा पापं लभेरन् यथा परपीडना जनाः । अतो न कश्चित्सुस्थाने जायेत । न ह्येतद्युज्यते । अतो न स्वदेहमात्रात्पुण्यं पापं वास्तीति ज्ञातव्यम् । मार्गहेतुत्वाद्विनये शीलमिदं परिबद्धं यः क्लिष्टचित्तेनात्मानं हन्ति न संक्लेशात्पापं लभत इति ।

अव्याकृतं कर्मेति । यत्कर्म न कुशलमकुशलं वा न परसत्त्वानामुपकारकं नापकारकं तदव्याकृतमित्युच्यते । (पृ) कस्मादव्याकृतमिति नाम । (उ) तत्कर्म निरुच्यते । यत्कर्म न कुशलं नाकुशलं तदव्याकृतमिति वदन्ति । कुशलमकुशलञ्च कर्म विपाकप्रापकम् । नैतत्कर्म विपाकप्रापकमित्यव्याकृतम् । कस्मात् । कुशलमकुशलञ्च कर्म प्रबलम् । इदन्तु दुर्बलम् । यथा पूतिबीजं नाङ्कुरं प्ररोहयति । विपाको द्विविधः । कुशलं प्रियविपाकमकुशलमप्रियविपाकम् । अव्याकृतन्त्वविपाकम् । (पृ) तत्र न प्रिय नाप्रियोपादानं तदव्याकृतविपाकमस्तु । को दोषः । (उ) भगवानाह- द्विधा विपाकः मिथ्याकायचर्या अप्रियविपाकप्रापिणी सम्यक्कायचर्या प्रियविपाकप्रापिणीति । न त्वाह अनयोरुदासीनमस्तीति । पुण्यं प्रियलाभमनोज्ञस्मृतिविपाकम् । पापं तद्विपरीतम् । सुखदुःखे पुण्यपापयोर्विपाकौ । अदुःखासुखञ्च सुचरितविपाकः । अतो ज्ञायते नास्त्यव्याकृतविपाक इति ।

त्रिविधकर्मवर्गः शततमः ।