समाधिसंभारपरिवर्तः
[[लेखकः :|]]


समाधिसंभारपरिवर्तः

लोकनाथाय नमः

बोधिचित्तं दृढं कुर्यात्पूर्व कारुण्यशक्तिजम् ।
भवभोगसुखेऽसक्तः परिग्रहपराङ्मुखः ॥ १ ॥

श्रद्धादिधनसम्पन्नो गुरुं बुद्धसमं भजेत् ।
तद्दिष्टसमयाचारं परिपालितुमुद्यतः ॥ २ ॥

कुम्भगुह्याभेषेकं तु प्रसादाल्लभते गुरोः ।
कायवाक्चित्तसंशुद्धः सिद्धिपात्रं स साधकः ॥ ३ ॥

समाध्यङ्गसमुद्भूतसंभारपारिपूरितः ।
शीघ्रं सिद्ध्याप्तिरेवं च गुह्यमन्त्रनयस्थितिः ॥ ४ ॥

समाध्यङ्गच्युतौ तस्य विपक्षस्थितितस्तथा ।
जन्मकोटिसहस्रैश्च समाधिर्न प्रसिध्यति ॥ ५ ॥

तत्समाधिप्रसिध्यर्थ गुह्यवृत्तस्थयोगवित् ।
तद्भिन्नं चिन्तनं त्यक्त्वा दृढवीर्येण चोद्यमेत् ॥ ६ ॥

समाधेर्यानि चाङ्गानि विपक्षस्तद्विनिश्चये ।
समाध्यङ्गं विपक्षश्च संक्षेपेण समुच्यते ॥ ७ ॥

शीलसम्पत्तियुक्तत्वं भोगेषु निरपेक्षता ।
क्षान्तिर्दृढप्रतिज्ञा च जनसंसर्गवर्जनम् ॥ ८ ॥

कायवाक्चित्तकार्येषु सम्प्रजन्यसमन्वयः ।
बुद्धकायस्तुतिस्मृत्या कायानुस्मृतिसंयुतिः ॥ ९ ॥

यस्मिन् काले तु यत्कार्य दार्ढ्र्य तस्य ह्यनुस्मृतौ ।
पञ्चावरणहानिश्च युक्तकृद्भक्तमानता ॥ १० ॥

समस्तलोकधर्मेषु चित्तोपेक्षा सदा तथा ।
संलेखोऽङ्गानि चेमानि विपक्षस्तद्विपर्ययः ॥ ११ ॥

समाधिसम्भारकृतैर्हि पुण्यैः समाधिं वज्रोपममेतु लोकः । १२, अ ब ।

समाधिसम्भारपरिवर्तो महापण्डिताचार्यदीपङ्करश्रीज्ञानपादविरचितः समाप्तः ॥

तेनैव भारतीयोपाध्यायेन महासंशोधकलोकचक्षुषा भिक्षु-शाक्यमतिना च अनूद्य निर्णीतः ॥

"https://sa.wikisource.org/w/index.php?title=समाधिसंभारपरिवर्तः&oldid=387280" इत्यस्माद् प्रतिप्राप्तम्