सर्वदर्शनसंग्रहः/रसेश्वरदर्शनम्

सर्वदर्शनसंग्रहः

अथ रसेश्वरदर्शनम् ॥9॥

अपरे माहेश्वराः परमेश्वरतादात्म्यवादिनोऽपि, पिण्डस्थैर्ये सर्वाभिमता जीवन्मुक्तिः
सेत्स्यतीत्यास्थाय, पिण्डस्थैर्योंपायं पारदादिपदवेदनीयं रसमेव संगिरन्ते। रसस्य पारदत्वं
संसारपरप्रापणहेतुत्वेन। तदुक्तम् - संसारस्य परं पारं दत्तेऽसौ पारदः स्मृतः। इति। रसर्णवेऽपि -
पारदो गदितो यस्मात्परार्थं साधकोत्तमैः। सुप्तोऽयं मत्समो देवि ! मम प्रत्यङ्गसम्भवः। मम
देहरसो यस्माद्रसस्तेनायमुच्यते॥ इति॥
ननु प्रकारान्तरेणापि जीवन्मुक्तियुक्तौ नेयं वाचोयुक्तिर्युक्तिमतीति चेन्न, षट्स्वपि दर्शनेषु
देहपातानन्तरं मुक्ते रुक्ततया तत्र विश्वासानुपपत्त्या निर्विचिकित्सप्रवृत्तेरनुपपत्तेः। तदप्युक्तं तत्रैव-
षड्दर्शनेऽपि मुक्तिस्तु दर्शिता पिण्डपातने। करामलकवत्सापि प्रत्यक्षा नोपलभ्यते। तस्मात्तं
रक्षयेत्पिण्डं रसैश्चैव रसायनैः॥ इति।
गोविन्दभगवत्पादाचार्यैरपि -
इति धनशरीरभोगान्मत्वानित्यान्सदैव यतनीयम्। मुक्तौ सा च ज्ञानात्तच्चाभ्यासात्स च स्थिरे
देहे॥ इति॥
ननु विनश्वरतया दृश्यमानस्य देहस्य कथं नित्यत्वमवसीयत इति चेत्- मैवं मंस्थाः।
षाट्कौशिकस्य शरीरस्यानित्यत्वेऽपि रसाभ्रकपदाभिलप्यहरगौरीसृष्टिजातस्य नित्यत्वोपपत्तेः -
तथा च रसहृदये - ये चात्यक्तशरीरा हरगौरीसृष्टिजां तनुं प्राप्ताः। मुक्तास्ते रससिद्धा मन्त्रगणः
किं करो येषाम्॥ (1/7) इति॥
तस्माज्जीवन्मुक्तिं समीहमानेन योगिना प्रथमं दिव्यतनुर्विधेया। हरगौरीसृष्टिसंयोगजनितत्वं च
रसस्य हरजत्वेनाभ्रकस्य गौरीसंभवत्वेन तत्तदात्मकत्वमुक्तम् -
अभ्रकस्तव बीजं तु मम बीजं तु पारदः। अनयोर्मेलनं देवि मृत्युदारिद्रयनाशनम्॥ इति॥
अत्यल्पमिदमुच्यते। देवदैत्यमुनिमानवादिषु बहवो रससामर्थ्याद्दिव्यं देहमाश्रित्य
जीवन्मुक्तिमाश्रिताः श्रूयन्ते रमेश्वरसिद्धान्ते -
देवाः के चिन्महेशाद्या दैत्याः काव्यपुरस्सराः। मुनयो बालखिल्याद्या नृपाः सोमेश्वरादयः॥
गोविन्दभगवत्पादाचार्यों गोविन्दनायकः। चर्वटिः कपिलो व्यालिः कापालिः कन्दलायनः॥
एतेऽन्ये बहवः सिद्धा जीवन्मुक्ताश्चरन्ति हि। तनुं रसमयीं प्राप्य तदात्मककथाचणाः॥ इति।
अयमेवार्थः परमेश्वरेण परमेश्वरीं प्रति प्रपञ्चितः - कर्मयोगेण देवेशि प्राप्यते पिण्डधारणम्।
रसश्च पवनश्चेति कर्मयोगो द्विधा स्मृतः॥ मूर्च्छितो हरति व्याधीन्मृतो जीवयति स्वयम्। बद्धः
खेचरतां कु र्याद्रसो वायुश्च भैरवि॥ इति।
मूर्च्छितस्वरूपमुक्तम् - नानावर्णों भवेत्सूतो विहाय घनचापलम्। लक्षणं दृश्यते यस्य मूर्च्छितं
तं वदन्ति हि॥ आर्द्रत्वं च घनत्वं च तेजो गौरवचापलम्। यस्यैतानि न दृश्यन्ते तं
विद्यान्मृतसूतकम्॥ इति। अन्यत्र बद्धस्वरूपमप्यभ्यधायि - अक्षतश्च लघुद्रावी तेजस्वी निर्मलो
गुरुः। स्फोटनं पुनरावृत्तौ बद्धसूतस्य लक्षणम॥इति्।
ननु हरगौरीसृष्टिसिद्धौ पिण्डस्थैर्यमास्थातुं पार्यते, तत्सिद्धिरेव कथमिति चेत्- न।
अष्टादशसंस्कारवशात्तदुपपत्तेः। तदुक्तमाचार्यैः - तस्य प्रसाधनविधौ सुधिया प्रतिकर्मनिर्मला
प्रथमम्। अष्टादश संस्कारा विज्ञातव्याः प्रयत्नेन॥ इति।
ते च संस्कारा निरुपिताः - स्वेदनमर्दनमूर्च्छनस्थापनपातननिरोधनियमाश्च। दीपनगमनग्रास-
प्रमाणमथ जारणपिधानम्। गर्भद्रुतिवाह्यद्रुतिक्षारणसंरागसारणश्चैव। क्रामणवेधौ भक्षणमष्टादशधेति
रसकर्म॥ इति।
तत्प्रपञ्चस्तु गोविन्दभगवत्पादाचार्य-सर्वज्ञरामेश्वरभट्टारकप्रभृतिभिः प्राचीनैराचार्यैर्निरुपित इति
ग्रन्थभूयस्त्वभयादुदास्यते।
न च रसशास्त्रं धातुवादार्थमेवेति मन्तव्यम्। देहवेधद्वारा मुक्ते रेव परमप्रयोजनत्वात्। तदुक्तं
रसार्णवे -
लोहवेधस्त्वया देव यदर्थमुपवर्णितः। तं देहवेधमाचक्ष्व येन स्यात्खेचरी गतिः॥ यथा लोहे
तथा देहे कर्तव्यः सूतकः सता। समानं कु रुते देवि प्रत्ययं देहलोहयोः॥ पूर्वं लोहे परीक्षेत
पश्चाद्देहे प्रयोजयेत्॥ इति।
ननु सच्चिदानन्दात्मकपरतत्त्वस्फु रणादेव मुक्तिसिद्धौ किमनेन दिव्यदेहसंपादनप्रयासेनेति चेत्-
तदेतद्वार्तम्। अवार्तशरीरालाभे तद्वार्ताया अयोगात्। तदुक्तं रसहृदयेगलितानल्पविकल्पः
सर्वाध्वविवक्षितश्चिदानन्दः। स्फु रितोऽप्यस्फु रिततनोः करोति किं जन्तुवर्गस्य॥ (र0हृ01/20)
इति। यज्जरया जर्जरितं कासश्वासादिदुःखविशदं च। योग्यं यन्न समाधौ
प्रतिहतबुद्धीन्द्रियप्रसरम्॥ (र0हृ01/29) इति॥ बालः षोडशवर्षों विषयरसास्वादलम्पटः परतः।
यातविवेको वृद्धो मर्त्यः कथमाप्नुयान्मुक्तिम्॥ इति।
ननु जीवत्वं नाम संसारित्वम्। तद्विपरीतत्वं मुक्तत्वम्। तथा च परस्परविरुद्धयोः
कथमेकायतनत्वमुपपन्नं स्यादिति चेत्- तदनुपपन्नम्। विकल्पानुपपत्तेः। मुक्तिस्तावत्सर्वतीर्थ-
करसंमता। सा किं ज्ञेयपदे निविशते न वा। चरमे शशविषाणकल्पा स्यात्। प्रथमे न जीवनं
वर्जनीयम्। अजीवतो ज्ञातृत्वानुपपत्तेः। तदुक्तं रसेश्वरसिद्धान्ते -
रसाङ्कमेयमार्गोंक्तो जीवमोक्षोऽन्यथा तु न। प्रमाणान्तरवादेषु युक्तिभेदावलम्बिषु॥ ज्ञातृज्ञेयमिदं
विद्धि सर्वतन्त्रेषु संमतम्। नाजीवञ्ज्ञास्यति ज्ञेयं यदतोऽस्त्येव जीवनम्॥ इति।
न चेदमदृष्टचरमिति मन्तव्यम्। विष्णुस्वामिमतानुसारिभिर्नृपञ्चास्यशरीरस्य नित्यत्वोप-
पादनात्। तदुक्तं साकारसिद्धौ -
सच्चिन्नित्यनिजाचिन्त्यपूर्णानन्दैकविग्रहम्। नृपञ्चास्यमहं वन्दे श्रीविष्णुस्वामिसंमतम्॥ इति।
नन्वेतत्सावयवं रूपवदवभासमानं नृकण्ठीरवाङ्गं सदिति न संगच्छत इत्यादिनाक्षेपपुरःसरं
सनकादिप्रत्यक्षं, 'सहस्रशीर्षा पुरुषः' (श्वे0 3/14) इत्यादि श्रुति, -
तमद्भुतं वालकमम्बुजेक्षणं चतुर्भुजं शङ्खगदाद्युदायुधम्। (भाग0 10/3/9),
इत्यादिपुराणलक्षणेन प्रमाणत्रयेण सिद्धं नृपञ्चाननाड्गं कथमसत्स्यादिति सदादीनि
विशेषणानि गर्भश्रीकान्तमिश्रैर्विष्णुस्वामिचरणपरिणतान्तःकरणैः प्रतिपादितानि। तस्मादस्मदिष्ट-
देहनित्यत्वमत्यन्तादृष्टं न भवतीति पुरुषार्थकामुकैः पुरुषैरेष्टव्यम्। अत एवोक्तम् -
आयतनं विद्यानां मूलं धर्मार्थकाममोक्षाणाम्। श्रेयः परं किमन्यच्छरीरमजरामरं विहायैकम्॥
इति। अजरामरीकरणसमर्थश्च रसेन्द्र एव। तदाहएकोऽसौ रसराजः शरीरमजरामरं कु रुते॥ इति।
किं वर्ण्यते रसस्य माहात्म्यम्। दर्शनस्पर्शनादिनापि महत्फलं भवति।
तदुक्तं रसार्णवे - दर्शनात्स्पर्शनात्तस्य भक्षणात्स्मरणादपि। पूजनाद्रसदानाच्च दृश्यते षड्विधं
फलम्॥ के दारादीनि लिङ्गानि पृथिव्यां यानि कानिचित्। तानि दृष्ट्वा तु यत्पुण्यं तत्पुण्यं
रसदर्शनात॥इत्यादिना्।
अन्यत्रापि- काश्यादिसर्वलिङ्गेभ्यो रसलिङ्गार्चनाच्छिवः। प्राप्यते येन तल्लिङ्गं
भोगारोग्यामृतप्रदम्॥ इति।
रसनिन्दायाः प्रत्यवायोऽपि दर्शितः - प्रमादाद्रसनिन्दायाः श्रुतावेनं स्मरेत्सुधीः।
द्राक्त्यजेन्निन्दकं नित्यं निन्दया पूरिताशुभम्॥ इति।
तस्मादस्मदुक्तया रीत्या दिव्यं देहं संपाद्य योगाभ्यासवशात्परतत्त्वे दृष्टे पुरुषार्थप्राप्तिर्भवति। तदा-
भ्रूयुगमध्यागतं यच्छिखिविद्युत्सूर्यवज्जगद्भासि। के षांचित्पुण्यदृशामुन्मीलति चिन्मयं ज्योतिः॥
परमानन्दैकरसं परमं ज्योतिः स्वभावमविकल्पम्। विगलितसकलक्लेशं ज्ञेयं शान्तं स्वसंवेद्यम्॥
तस्मिन्नाधाय मनः स्फु रदखिलं चिन्मयं जगत्पश्यन्। उत्सन्नकर्मबन्धो ब्रह्मत्वमिहैव
चाप्नोति॥ (र0हृ01/21-23)
श्रुतिश्च- 'रसो वै सः। रसं ह्येवायं लब्ध्वानन्दी भवति' (तै0 2/7/1) इति। तदित्थं
भवदैन्यदुःखभरतरणोपायो रस एवेति सिद्धम्। तथा च रसस्य पर ब्रह्मणा साम्यमिति
प्रतिपादकः श्लोकः -
यः स्यात्प्रावरणाविमोचनधियां साध्यः प्रकृत्या पुनः संपन्नः सह तेन दीव्यति परं वैश्वानरे
जाग्रति॥ ज्ञातो यद्यपरं न वेदयति च स्वस्मात्स्वयं द्योतते। यो ब्रह्मेव स
दैन्यसंसृतिभयात्पायादसौ पारदः॥

॥ इति श्रीमत्सायणमाधवीये सर्वदर्शनसंग्रहे रसेश्वरदर्शनम् ॥