सर्वसिद्धान्तसङ्ग्रहः/प्रकरणम् १ (उपोद्घातप्रकरणम्)

सर्वसिद्धान्तसङ्ग्रहः
प्रकरणम् १ (उपोद्घातप्रकरणम्)
[[लेखकः :|]]
प्रकरणम् २ (लोकायतिकपक्षप्रकरणम्) →

सर्वसिद्धान्तसङ्ग्रहः शङ्कराचार्यविरचितः

(१)
अथ उपोद्घातप्रकरणं

वादिभिर्दर्शनैः सर्वैर्दृश्यते यत्त्वनेकधा ।
वेदान्तवेद्यं ब्रह्मेदमेकरूपमुपास्महे ॥१॥
अङ्गोपाङ्गोपवेदाः स्युर्वेदस्यैवोपकारकाः ।
धर्मार्थकाममोक्षाणामाश्रयाः स्युश्चतुर्दश ॥२॥
वेदाङ्गानि षडेतानि शिक्षा व्याकरणं तथा ।
निरुक्तं ज्योतिषं कल्पश्छन्दोविचितिरित्यपि ॥३॥
मीमांसा न्यायशास्त्रं च पुराणं स्मृतिरित्यपि ।
चत्वार्येतान्युपाङ्गानि बहिरङ्गानि तानि वै ॥४॥
आयुर्वेदोऽर्थवेदश्च धनुर्वेदस्तथैव च ।
गान्धर्ववेदश्चेत्येवमुपवेदाश्चतुर्विधाः ॥५॥
शिक्षा शिक्षयति व्यक्तं वेदोच्चारणलक्षणम् ।
वक्ति व्याकरणं तस्य संहितापदलक्षणम् ॥६॥
वक्ति तस्य निरुक्तं तु पदनिर्वचनं स्फुटम् ।
ज्योतिःशास्त्रं वदत्यत्र कालं वैदिककर्मणाम् ॥७॥
क्रमं कर्मप्रयोगाणां कल्पसूत्रं प्रभाषते ।
मात्राक्षराणां सङ्ख्योक्ता छन्दोविचितिभिस्तथा ॥८॥
मीमांसा सर्ववेदार्थप्रविचारपरायणा ।
न्यायशास्त्रं प्रमाणादिसर्वलक्षणतत्परम् ॥९॥
पुराणं नष्टशाखस्य वेदार्थस्योपबृंहणम् ।
कथारूपेण महतां पुरुषार्थप्रवर्तकम् ॥१०॥
वर्णाश्रमानुरूपेण धर्माधर्मविभागतः ।
धर्मशास्त्रमनुष्ठेयधर्माणां तु नियामकम् ॥११॥
हेतुलिङ्गौषधस्कन्धैरायुरारोग्यदर्शकः ।
आयुर्वेदो ह्यनुष्ठेयः सर्वेषां तेन बोध्यते ॥१२॥
अर्थवेदोऽन्नपानादिप्रदानसुखतत्परः ।
दक्षिणाज्यपुरोडाशचरुसम्पादनादिभिः ॥१३॥
तत्पालनाच्चतुर्वर्गपुरुषार्थप्रसाधकः ।
धनुर्वेदो भवत्यत्र परिपन्थिनिरासकः ॥१४॥
सप्तस्वरप्रयोगो हि सामगान्धर्ववेदयोः ।
समेतो लौकिको योगो वैदिकस्योपकारकः ॥१५॥
अङ्गोपाङ्गोपवेदानामेवं वेदैकशेषता ।
चतुर्दशसु विद्यासु मीमांसैव गरीयसी ॥१६॥
विंशत्यध्याययुक्ता सा प्रतिपाद्यार्थतो द्विधा ।
कर्मार्था पूर्वमीमांसा द्वादशाध्यायविस्तृता ॥१७॥
अस्यां सूत्रं जैमिनीयं शावरं भाष्यमस्य तु ।
मीमांसावार्तिकं भाट्टं भट्टाचार्यकृतं हि तत॥१८॥
तच्छिष्योऽप्यल्पभेदेन शवरस्य मतान्तरम् ।
प्रभाकरगुरुश्चक्रे तद्धि प्राभाकरं मतम् ॥१९॥
भवत्युत्तरमीमांसा त्वष्टाध्यायी द्विधा च सा ।
देवताज्ञानकाण्डाभ्यां व्याससूत्रं द्वयोः समम् ॥२०॥
पूर्वाध्यायचतुष्केण मन्त्रवाच्या च देवता ।
सङ्कर्षणोदिता तद्धि देवताकाङ्क्षमुच्यते ॥२१॥
भाष्यं चतुर्भिरध्यायैर्भगवत्पादनिर्मितम् ।
चक्रे विवरणं तस्य तद्वेदान्तं प्रचक्षते ॥२२॥
अक्षपादः कणादश्च कपिलो जैमिनिस्तथा ।
व्यासः पतञ्जलिश्चैते वैदिकाः सूत्रकारकाः ॥२३॥
बृहस्पत्यार्हतौ बुद्धो वेदमार्गविरोधिनः ।
एतेष्वधिकृतान्वक्ष्ये सर्वे शास्त्रप्रवर्तकाः ॥२४॥
वेदाप्रामाण्यसिद्धान्ता बौद्धलोकायतार्हताः ।
युक्त्या निरसनीयास्ते वेदप्रामाण्यवादिभिः ॥२५॥