सौन्दरनन्दकाव्यम्/त्रयोदशः सर्गः

← द्वादशः सर्गः सौन्दरनन्दकाव्यम्
त्रयोदशः सर्गः
[[लेखकः :|]]
चतुर्दशः सर्गः →

सर्ग १३

अथ संराधितो नन्दः श्रद्धां प्रति महर्षिना ।
परिक्षिक्तोऽमृतेनेव युयुजे परया मुदा ।। १३.१ ।।

कृतार्थं इव तं मेने संबुद्धः श्रद्धया तया ।
मेने प्राप्तं इव श्रेयः स च बुद्धेन संस्कृतः ।। १३.२ ।।

श्लक्ष्णेन वचसा कांश्चित्कांश्चित्परुषया गिरा ।
कांश्चिदाभ्यां उपायाभ्यां स विनिन्ये विनायकः ।। १३.३ ।।

पांसुभ्यः काञ्चनं जातं विशुद्धं निर्मलं शुचि ।
स्थितं पांसुष्वपि यथा पांसुदोषैर्न लिप्यते ।। १३.४ ।।

पद्मपर्णं यथा चैव जले जातं जले स्थिथं ।
उपरिष्टादधस्ताद्वा न जलेन्दोपलिप्यते ।। १३.५ ।।

तद्वल्लोके मुनिर्जातो लोकस्यानुग्रहं चरन् ।
कृतित्वान्निर्मलत्वाच्च लोकधर्मैर्न लियते ।। १३.६ ।।

श्लेषं त्यागं प्रियं रूक्षं कथां च ध्यानं एव च ।
मन्तुकाले चिकित्सार्थं चक्रे नात्मानुवृत्तये ।। १३.७ ।।

अतश्च संदधे दायं महाकरुणया तया ।
मोचयेयं कथं दुःखात्सत्त्वानीत्यनुकम्पकः ।। १३.८ ।।

अथ संहर्षणान्नदं विदित्वा भाजनीकृतं ।
अब्रवीद्ब्रुवतां श्रेष्ठः क्रमज्ञः श्रेयसां क्रमं ।। १३.९ ।।

अतः प्रभृति भूयस्त्वं श्रद्धेन्द्रियपुरःसरः ।
अमृतस्याप्तये स्ॐय वृत्तं रक्षितुं अर्हसि ।। १३.१० ।।

प्रयोगः कायवचसोः शुद्धो भवति ते यथा ।
उत्तानो निवृतो गुप्तोऽनवच्छिद्रस्तथा कुरु ।। १३.११ ।।

उत्तानो भावकरञाद्विवृतश्चाप्यगूहनात् ।
गुप्तो रक्षणतात्पर्यादच्छिद्रश्चानवद्यतः ।। १३.१२ ।।

शरीरवचसोः शुद्धौ सप्ताङ्गे चापि कर्मणि ।
आजीवसमुदाचारं शौचात्संस्कर्तुं अर्हसि ।। १३.१३ ।।

दोषानां कुहनादीनां पञ्चानां अनिषेवणात् ।
त्यागाच्च ज्योतिषादीनां चतुर्णां वृत्तिघातिनां ।। १३.१४ ।।

प्राणिधान्यधनादीनां वर्ज्यानां अप्रतिग्रहात् ।
भैषाङ्गानां निसृष्टानां नियतानां प्रतिग्रहात् ।। १३.१५ ।।

पर्तिउष्टः शुचिर्मञ्जुश्चौक्षया जीवसंपदा ।
कुर्या दुःखप्रतीकारं यावदेव विमुक्तये ।। १३.१६ ।।

कर्मञो हि यथादृष्तात्कायवाक्प्रभवादपि ।
आजीवः पृथगेवोक्तो दुःषोधत्वादयं मया ।। १३.१७ ।।

गृहस्थेन हि दुःशोब्धा दृष्टिर्विविधदृष्टिना ।
आजीवो भिक्षुणा चैव परेष्टायत्तवृत्तिना ।। १३.१८ ।।

एतावच्छीलं इत्युक्तं आचाअरोऽयं समासतः ।
अस्य नाशेन नैव स्यात्प्रव्रज्या न गृहस्थता ।। १३.१९ ।।

तस्माच्चारित्रसंपन्नो ब्रह्मचर्यं इदं चर ।
अणुमात्रेष्ववद्येषु भयदर्शि दृढव्रतः ।। १३.२० ।।

शीलं आस्थाय वर्तन्ते सर्वा हि श्रेयसि क्रियाः ।
स्थानाद्यानिव कार्याणि प्रतिष्ठाय वसुन्धरां ।। १३.२१ ।।

मोक्षस्योपनिषत्स्ॐय वैराग्यं इति गृह्यतां ।
वैरागस्यापि संवेदः संविदो ज्ञानर्दर्शनं ।। १३.२२ ।।

ज्ञानस्योपनिषच्चैव समाधिरुपधार्यतां ।
समाधेरप्युपनिषत्सुखं शरीरमानसं ।। १३.२३ ।।

पश्रब्धिः कायमनसः सुखस्योपनिषत्परा ।
प्रशब्धेरप्युपनिषत्प्रामोद्यं परमं ममतं ।। १३.२४ ।।

तथः प्रीतेरुपनिषत्प्रामोद्यं परमं मतं ।
प्रामोद्यस्याप्यहृल्लेखः कुकृतेष्वकृतेषु वा ।। १३.२५ ।।

अहृल्लेखस्य मनसः शीलं तूपनिषच्छुचि ।
अतः शीलं नयत्यग्र्यं इति शीलं विशोधय ।। १३.२६ ।।

शीलनाच्छीलं इत्युक्तं शीलनं सेवनादपि ।
सेवनं तन्निदेशाच्च निदेशश्च तदाश्रयात् ।। १३.२७ ।।

शीलं हि शरणं स्ॐय कान्तार इव दैशिकः ।
मित्रं बन्धुश्च रक्षा च धनं च बलं एव च ।। १३.२८ ।।

यतः शीलं अतः स्ॐय शीलं संस्कर्तुं अर्हसि ।
एतत्स्थानं अथान्ये च मोक्षारम्भेषु योगिनां ।। १३.२९ ।।

ततः स्मृतिं अधिष्ठाय चपलानि स्वभावतः ।
इन्द्रियाणीन्द्रियार्थेभ्यो निवारयितुं अर्हसि ।। १३.३० ।।

भेतव्यं न तथा शत्रोर्नाग्नेर्नाहेर्न चाशनेः ।
इन्द्रियेभ्यो यथा स्वेभ्यस्तैरजस्रं हि हन्यते ।। १३.३१ ।।

द्विषब्धिः शत्रुभिः कश्चित्कदा चित्पीड्यते न वा ।
इन्द्रियैर्बाध्यते सर्वः सर्वत्र च सदैव च ।। १३.३२ ।।

न च प्रयाति नरकं शत्रुप्रभृथिभिर्हतः ।
कृष्यते तत्र निघ्नस्तु चपलैरिन्द्रियैर्हतः ।। १३.३३ ।।

हन्यमानस्य तैर्दुःखं हार्दं भवति वा न वा ।
इन्द्रियैर्बाध्यमानस्य हार्दं शारीरं एव च ।। १३.३४ ।।

संकल्पविषदिग्धा हि पञ्चेन्द्रियमयाः शराः ।
चिन्तापुङ्खा रैफला विषयाकाशगोचराः ।। १३.३५ ।।

मनुष्यहरिणान्घ्नन्ति कामव्याधेरिता हृदि ।
विहन्यन्ते यदि न ते ततः पतन्ति तैः क्षताः ।। १३.३६ ।।

नियमाजिरसंस्थेन धैर्यकार्मुकधारिणा ।
निपतन्तो निवार्यास्ते महता स्मृतिवर्मणा ।। १३.३७ ।।

इन्द्रियाणां उपशमादरीणां निग्रहादिव ।
सुखं स्वपिति वास्ते वा यत्र तत्र गतोद्धवः ।। १३.३८ ।।

तेषां हि सततं लोके विषयाणभिकाङ्क्षतां ।
संविन्नैवास्ति कार्पण्याच्छुनां आशावतां इव ।। १३.३९ ।।

विषयैरिन्द्रियग्रामो न तृप्तिं अधिगच्छति ।
अजस्रं पूर्यमाणोऽपि समुद्रः सलिलैरिव ।। १३.४० ।।

अवश्यं गोचरे स्वे स्वे वर्तितव्यं इहेन्द्रियैः ।
निमित्तं तत्र न ग्राह्यं अनुव्यञ्जनं एव च ।। १३.४१ ।।

आलोक्य चक्षुषा रूपं धातुमात्रे व्यवस्थितः ।
स्त्री वेति पुरुषो वेति न कल्पयितुं अर्हसि ।। १३.४२ ।।

सचेत्स्त्रीपुरुषग्राहः क्व चिद्विद्येत कास्चन ।
शुभतः केशदन्तादीन्नानुप्रस्थातुं अर्हसि ।। १३.४३ ।।

नापनेयं भूततो भूतं शश्वदिन्दियगोचरे ।
द्रष्टव्यं भूततो भूतं यादृषं च यथा च यत् ।। १३.४४ ।।

एवं ते पश्यतस्तत्त्वं शश्वदिन्द्रियगोचरे ।
भविष्यति पदस्थानं नाभियादौर्मनस्ययोः ।। १३.४५ ।।

अभिध्या प्रियरूपेण हन्ति कामात्मकं जगत् ।
अरिर्मित्रमुखेनेव प्रियवाक्कलुषाशयः ।। १३.४६ ।।

दौर्मनस्याभिधानस्तु प्रतिघो विषयाश्रितः ।
मोहाद्येनानुवृत्तेन परत्रेह च हन्यते ।। १३.४७ ।।

अनुरोधविरोधाभ्यां शितोष्णाभ्यां इवार्दितः ।
शर्म नाप्नोति न श्रेयश्चलेन्द्रिचं अतो जगत् ।। १३.४८ ।।

नेन्द्रियं विषये तावत्प्रवृत्तं अपि सज्जते ।
यावन्न मनसस्तत्र परिकल्पः प्रवर्तते ।। १३.४९ ।।

इन्धने सति वायौ च यथा ज्वलति पावकः ।
विषयात्परिकल्पाच्च क्लेशाग्निर्जायते तथा ।। १३.५० ।।

अभूतपरिकल्पेन विषयस्य हि बध्यते ।
तं एव विषयं पश्यन्भूततः परिमुच्यते ।। १३.५१ ।।

दृष्ट्वैकं रूपं अन्यो हि रज्यतेऽन्यः प्रदुष्यति ।
कश्चिद्भवति मध्यस्थस्तत्रैवान्यो घृणायते ।। १३.५२ ।।

अतो न विषयो हेतुर्बन्धाय न विमुक्तये ।
परिकल्पविषेषेण संगो भवति वा न वा ।। १३.५३ ।।

कार्यः परमयत्नेन तस्मादिन्दियसंवरः ।
इन्द्रियाणि ह्यगुप्तानि दुःखाय च भवाय च ।। १३.५४ ।।

कामभोगभोगवद्भिरामदृष्टिदृष्टिभिः प्रमादनैकमूर्धभिः प्रहर्षलोलजिवैः ।
इन्द्रियोरगैर्मनोबिलशयैः स्पृहाविषैः शमागदा ऋते न दष्टं अस्ति यच्चिकित्सेत् ।। १३.५५ ।।

तस्मादेषां अकुषलकराणां अरीणां चक्षुर्घ्राणश्रवञरसनस्पर्शनानां ।
सर्वावस्थं भव विनियमादप्रमत्तो मास्मिन्नर्थे क्षणं अपि कृथास त्वं प्रमादं ।। १३.५६ ।।


Sऔन्दरनन्दे महाकाव्ये शीलेन्द्रियजयो नाम त्रयोदशः सर्गः ।