← नवमः सर्गः सौन्दरनन्दकाव्यम्
दशमः सर्गः
[[लेखकः :|]]
एकादशः सर्गः →


सर्ग १०

श्रुत्वा ततः सद्व्रतं उत्सिसृक्षुं भार्यां दिदृक्षुं भवनं विविक्षुं ।
नन्दं निरानन्दं अपेतधैर्यं अभ्युज्जिहीर्षुर्मुनिराजुहाव ।। १०.१ ।।

तं प्राप्तं अप्राप्तविमोक्षमार्गं पप्रच्छ चित्तस्खलितं सुचित्तः ।
स ह्रीमते ह्रीविनतो जगाद स्वं निश्चयं निश्चयकोविदाय ।। १०.२ ।।

नन्दं विदित्वा सुगतस्ततस्तं भार्याभिधाने तमसि भ्रमन्तं ।
पाणौ गृहीत्वा वियदुत्पपात मणिं जले साधुरिवोज्जिहीर्षुः ।। १०.३ ।।

काषायवस्त्रौ कनकावदातौ विरेजतुस्तौ नभसि प्रसन्ने ।
अन्योन्यसंश्लिष्टविकीर्णपक्षौ सरःप्रकीर्णाविव चक्रवाकौ ।। १०.४ ।।

तौ देवदारूत्तमगन्धवन्तं नदीसरःप्रस्रवणौघवन्तं ।
आजग्मतुः काञ्चनधातुमन्तं देवर्षिमन्तं हिमवन्तं आशु ।। १०.५ ।।

तस्मिन्गिरौ चारञसिद्धजुष्टे शिवे हविर्धूमकृत्तोत्तरीये ।
आगम्य पारस्य निराश्रयस्य तौ तस्थतुर्द्वीप इवाम्बरस्य ।। १०.६ ।।

शान्तेन्द्रिये तत्र मुनौ स्थिते तु सविस्मयं दिक्षु ददर्श नन्दः ।
दरीश्च कुञ्जांश्च वनौकसश्च विभूषणं रक्षणं एव चाद्रेः ।। १०.७ ।।

बह्वायते तत्र सिते हि शृङ्गे संक्षिप्तबर्हः शयितो मयूरः ।
भुजे बलस्यायतपीनबाहोर्वैडूर्यकेयूर इवाबभासे ।। १०.८ ।।

मनःशिलाधातुशिलाश्रयेण पीताकृतांसो विरराज सिंहः ।
संतप्तचामीकरभक्त्चित्रं रूप्याङ्गदं शीर्णं इवाम्बिकस्य ।। १०.९ ।।

व्याघ्रः क्लव्यायतखेलगामी लाङ्गूलचक्रेण कृतापस्व्यः ।
बभौ गिरेः प्रस्रवणं पिपासुर्दित्सन्पितृभ्योऽम्भ इवावतिर्णः ।। १०.१० ।।

चलत्कदम्बे हिम्वन्नितम्बे तरौ प्रलम्बे चमरो ललम्बे ।
छेत्तुं विलग्नं न शशाक बालं कुलोद्गतां प्रीतिं इवार्यवृत्तः ।। १०.११ ।।

सुवर्णगौराश्च किरातसंघा मयूरपत्त्रोज्ज्वलगात्रलेखाः ।
सार्दूलपातप्रतिमा गुहाभयो निशेप्तुरुद्गार इवाचलस्य ।। १०.१२ ।।

दरीचरीणां अतिसुन्दरिणां मनोहरश्रोणिकुचोधरीणां ।
वृद्न्दानि रेजुर्दिशि किंनरीणां पुष्पोत्कचानां इव वल्लरीणां ।। १०.१३ ।।

नगान्नगस्योपरि देवदारूनायासयन्तः कपयो विचेरुः ।
तेभ्यः फलं नापुरतोऽपजग्मुर्मोघप्रसादेभ्य इवेश्वरेभ्यः ।। १०.१४ ।।

तस्मात्तु यूथादपसार्यमाणां निष्पीदितालक्तकरक्तवक्त्रां ।
शाखामृगीं एकविपन्नदृष्टिं दृष्ट्वा मुनिर्नन्दं इदं बभाषे ।। १०.१५ ।।

का नन्द रूपेण च चेष्टया च संपश्यतश्चारुतरा मता ते ।
एषा मृगी विअकविपन्न्दृष्टिः स वा जनो यत्र गता तवेष्टिः ।। १०.१६ ।।

इत्येवं उक्तः सुगतेन नन्दः कृत्वा स्मितं किं चिदिदं जगाद ।
क्व चोत्तमस्त्री भगवन्बधूस्ते मृगि नगक्लेश्करी क्व चैषा ।। १०.१७ ।।

ततो मुनिस्तस्य निशम्य वाक्यं हेत्वन्तरं किं चिदवेक्षमाणः ।
आलम्ब्य नन्दं प्रययौ तथैव क्रीडावनं वज्रधरस्य राज्ञः ।। १०.१८ ।।

ऋताव्र्तावाकृतिं एक एके क्षणे क्षणे बिभ्रति यत्र वृक्षाः ।
चित्रां समस्तां अपि के चिदन्ये षण्णां ऋतूनां श्रियं उद्वहन्ति ।। १०.१९ ।।

पुष्यन्ति के चित्सुरभीरुदारा मालाः स्रजश्च ग्रथिता विचित्राः ।
कर्णानुकूलानवतंसकांष्च प्रत्यर्थिभूतानिव कुण्डलानां ।। १०.२० ।।

रक्तानि फुल्लाः कमलानि यत्र प्रदीपवृक्षा इव भान्ति वृक्षा ।
प्रफुल्लनीलोत्पलरोहिणोऽन्ये सोन्मीलिताक्षा इव भान्ति वृक्षा ।। १०.२१ ।।

नानाविरागाण्यथ पाण्डराणि सुवर्णभक्तिव्यवभासितानि ।
अतान्तवान्येकघनानि यत्र सूक्ष्माणि वासांसि फलन्ति वृक्षा ।। १०.२२ ।
हारान्मणीनुत्तमकुण्डलानि केयूरवर्याण्यथ नूपुराणि ।
एवंविधान्याभरणानि यत्र स्वर्गानुरूपाणि फलन्ति वृक्षः ।। १०.२३ ।।

वैडूर्यनालानि च काञ्चनानि पद्मानि वज्राङ्कुरकेसराणि ।
स्पर्शक्षमाण्युत्तमगन्धवन्ति रोहन्ति निष्कम्पतला नलिन्यः ।। १०.२४ ।।

यत्रायतांश्चैव ततांश्च तांस्तान्वाद्यस्य हेतून्सुषिरान्घनांश्च ।
फलन्ति वृक्षा मणिहेमचित्राः क्रीडासहायास्त्रिदशालयानां ।। १०.२५ ।।

मन्दारवृक्षांश्च कुशेशयांश्च पुष्पानतान्कोकनदांश्च वृक्षान् ।
आक्रम्य माहात्म्यगुणैर्विराजन्राजायते यत्र स पारिजातः ।। १०.२६ ।।

कृष्टे तपःषीलहलैरखिन्नैस्त्रिपिष्टपक्षेत्रतले प्रसूताः ।
एवंविधा यत्र सऽनुवृत्ता दिवौकसां भोगविधानवृक्षाः ।। १०.२७ ।।

मनःशिलाभैर्वदनैर्विहङ्गा यत्राक्षिभिः स्पाटिकसंनिभैश्च ।
शावैश्च पक्षैरभिलोहितान्तैर्माञ्जिष्ठकैरर्धसितैश्च पादैः ।। १०.२८ ।।

चित्रैः सुवर्णच्छदनैस्तथान्ये वैडुर्यवर्णाभिर्नयनैः प्रसन्नैः ।
विहङ्गमा शिञ्जिरिकाभिधाना रुतैर्मनःश्रोतहरैर्भ्रमन्ति ।। १०.२९ ।।

रक्ताभिरग्रेषु च वल्लरीभिर्मध्येषु चामीकरपिञ्जराभिः ।
वैडूर्यवर्णाभिरुपान्तमध्येष्वलङ्कृता यत्र खगाश्चरन्ति ।। १०.३० ।।

रोचिष्णवो नाम पत्रत्रिणोऽन्ये दीप्ताग्निवर्णा ज्वलितैरिवास्यैः ।
भ्रमन्ति दृष्टीर्वपुषाक्षिपन्तः स्वनैः शुभैरप्सरसो हरन्तः ।। १०.३१ ।।

यत्रेष्टचेष्टाः सततप्रहृष्टा निरर्तयो निर्जरसो विशोकाः ।
स्वैः कर्मभिर्हीनविशिष्ट्तमध्याः स्वयंप्रभाः पुण्यकृतो रमन्ते ।। १०.३२ ।।

पूर्वं तप्ॐऊल्यपरिग्रहेण स्वर्गक्रयार्थं कृतनिश्चयानां ।
मनांसि खिन्नानि तपोधनानां हरन्ति यत्राप्सरसो लडन्त्याः ।। १०.३३ ।।

नित्योत्सवं तं च निशाम्य लोकं निस्तन्द्रिनिद्रारतिशोकरोगं ।
नन्दो जरामृत्युवशं सदार्तं मेने श्मशानप्रतिमं नृलोकं ।। १०.३४ ।।

ऐन्द्रं वनं तच्च ददर्श नन्दः समन्ततो विस्मयफुल्लदृष्टिः ।
हर्षान्विताश्चाप्सरसः परीयुः सगर्वं अन्योन्यं अवेक्षमाणाः ।। १०.३५ ।।

सदा युवत्यो मदनैककार्याः साधारणाः पुण्यकृतां विहाराः ।
दिव्याश्च निर्दोषपरिग्रहाश्च तपःफलस्याश्रयणं सुराणां ।। १०.३६ ।।

तासां जगुर्धीरं उदात्तं अन्याः पद्मानि काश्चिल्ललितं लभञ्जुः ।
अन्योन्यहर्षान्ननृतुस्तथान्याश्चिराङ्गहाराः स्तनभिन्नभाराः ।। १०.३७ ।।

कासां चिदासां वदनानि रेजुर्वनान्तरेभ्यश्चलकुण्डलानि ।
व्याविद्धपर्णेभ्य इवाकरेभ्यः पद्मानि कारण्डवघट्टितानि ।। १०.३८ ।।

ताः निःसृताः प्रेक्ष्य वनान्तरेभ्यस्तडित्पताका इव तोयदेभ्यः ।
नन्दस्य रागेण तनुर्विवेपे जले चले चन्द्रमसः प्रभेव ।। १०.३९ ।।

वपुश्च दिव्यं ललिताश्च चेष्टास्ततः स तासां मनसा जहार ।
कौतूहलावर्जितया च दृष्ट्या संश्लेषतर्षादिव जातरागः ।। १०.४० ।।

स जाततर्षोऽप्सरसः पिपासुस्तत्प्राप्तयेऽधिष्ठितविक्लवार्तः ।
लोलेन्द्रियाश्वेन मनोरथेन जेह्रियमाणो न धृतिं चकार ।। १०.४१ ।।

यथा मनुष्यो मलिनं हि वासः क्षारेण भूयो मलिनीकरोति ।
मलक्षयार्थं न मलोद्भवार्तं रजस्तथास्मै मुनिराचकर्ष ।। १०.४२ ।।

दोषांश्च कायाद्भिषगुज्जिहीर्षुर्भूयो यथा क्लेशयितुं यतेत ।
रागं तथा तस्य मुनिर्जिघांसुर्भूयस्तरं रागं उपानिनाय ।। १०.४३ ।।

दीपप्रभां हन्ति यथान्धकारे सहस्ररश्मेरुदितस्य दीप्तिः ।
मनुष्यलोके द्युतिं अङ्गनानां अन्तर्दधात्यप्सरसां तथा श्रीः ।। १०.४४ ।।

महच्च रूपं स्वणु हन्ति रूपं शब्दो महान्हन्ति च शब्दं अल्पं ।
गुर्वी रुजा हन्ति रुजां च मृद्विं सर्वो महान्हेतुरणोर्वधाय ।। १०.४५ ।।

मुनेः प्रभावाच्च शशाक नन्दस्तद्दर्शनं सोढुं असह्यं अन्यैः ।
अवितरागस्य हि दुर्बलस्य मनो दहेदप्सरसां वपुःष्रीः ।। १०.४६ ।।

मत्वा ततो नन्दं उदीर्णरागं भार्यानुरोधादपवृत्तरागं ।
रागेण रागं प्रतिहन्तुकामो मुनिर्विरागो गिरं इत्युवाच ।। १०.४७ ।।

एताः स्त्रीयः पश्य दिवौकसस्त्वं निरीक्ष्य च ब्रूहि यथार्थत्त्वं ।
एताः कथं रूपगुणैर्मतास्ते स वा जनो यत्र गतं मनस्ते ।। १०.४८ ।।

अथाप्सरःसेव निविष्टदृष्ती रागाग्निनान्तर्हृदये प्रदीप्तः ।
सगद्गगदं कामविषक्तचेताः कृताञ्जलिर्वाक्यं उवाच नन्दः ।। १०.४९ ।।

हर्यङ्गनासौ मुषितैकदृष्टिर्यदन्तरे स्यात्तव नाथ वध्वाः ।
तदन्तरेऽसौ कृपणा वधूस्ते वौष्मतीरप्सरसः प्रतीत्य ।। १०.५० ।।

आस्था यथा पूर्वं अभून्न का चिदन्यासु मे स्त्रिषु निशाम्य भार्यां ।
तस्यां ततः सम्प्रति का चिदास्था न मे निशाम्यैव हि रूपं आसां ।। १०.५१ ।।

यथा प्रतप्तो मृदुनातपेन दह्येत कश्चिन्महतानलेन ।
रागेण पूर्वं मृदुनाभितप्तो रागानिनानेन तथाभिदह्ये ।। १०.५२ ।।

वाग्वारिणा मां परिषिञ्च तस्माद्यावन्न दह्ये स इवाह्जशत्रुः ।
राराग्निरद्यैव हि मां दिधक्षुः कक्षं सवृक्षाग्रं इवोत्थितोऽग्निः ।। १०.५३ ।।

प्रसीद सीदामि विमुञ्च मा मुने वसुन्धराधैर्य न धैर्यं अस्ति मे ।
असून्विमोक्ष्यामि विमुक्तमानस प्रय्च्छ वा वागमृतं मुमूर्षवे ।। १०.५४ ।।

अनर्थभोगेन विघातय्दृष्तिना प्रमाददंश्ट्रेण तमोविषाग्निना ।
अहं हि दष्टो हृदि मन्मथाहिना विधत्स्य तस्मादगदं महाभिषक् ।। १०.५५ ।।

अनेन दष्टो मदनाहिना हि ना न कश्चिदात्मन्यनवस्थितः स्थितः ।
मुमोह वोध्योर्ह्यचलात्मनो मनो बभूव धीमांश्च स शन्तनुस्तनुः ।। १०.५६ ।।

स्थिते विशिष्टे त्वयि संश्रये श्रये यथा न यामीह वसन्दिशं दिशं ।
यथा च लब्ध्वा व्यसनक्षयं क्षयं व्रजामि तन्मे कुरु शंसतः सतः ।। १०.५७ ।।

ततो जिघांसुर्हृदि तस्य तत्तमस्तमोनुदो नक्तं इवोत्थितं तमः ।
महर्षिचन्द्रो जगतस्तमोनुदस्तमःप्रहीणो निजगाद गौतमः ।। १०.५८ ।।

धृतिं परिष्वज्य विधूय विक्रियां निगृह्य तावच्छ्रुतचेतसी शृणु ।
इमा यदि प्रार्थयसे त्वं अङ्गना विधत्स्व शुल्कार्थं इहोत्तमं तपः ।। १०.५९ ।।

इमा हि शक्या न बलान्न सेवया न संप्रदानेन न रूप्तवत्तया ।
इमा ह्रियन्ते खलु धर्मचर्यया सचेत्प्रहर्षश्चर धर्मं आदृतः ।। १०.६० ।।

इहाधिवासो दिवि दैवतैः समं वनानि रम्याण्यजराश्च योषितः ।
इदं फलं स्वस्य शुभस्य कर्मणो न दत्तं अन्येन न चाप्यहेतुतः ।। १०.६१ ।।

क्षितौ मनुष्यो धनुराधिभिः श्रमैः स्त्रियः कदा चिद्धि लभेत वा न वा ।
असंशयं यत्त्विह धर्मचर्यया भवेयुरेता दिवि पुणकर्मणः ।। १०.६२ ।।

तदप्रमत्तो नियमे समुद्यतो रमस्व यद्यप्सरसोऽभिलिप्ससे ।
अहं च तेऽत्र प्रतिभूः स्थिरे व्रते यथा त्वं आभिर्नियतं समेष्यसि ।। १०.६३ ।।

अतःपरं परमं इति व्यवस्थितः परां धृतिं परममुनौ चकार सः ।
ततो मुनिः पवन इवाम्बरात्पतन्प्रगृह्य तं पुनरगमन्महीतलं ।। १०.६४ ।।


Sऔन्दरनन्दे महाकाव्ये स्वर्गनिदर्शनो नाम दशमः सर्गः ।