सौन्दरनन्दकाव्यम्/द्वितीयः सर्गः

← प्रथमः सर्गः सौन्दरनन्दकाव्यम्
द्वितीयः सर्गः
[[लेखकः :|]]
तृतीयः सर्गः →

ततः कदा चित्कालेन तदवाप कुलक्रमात् ।
राज शुद्धोधनो नाम शुद्धकर्मा जितेन्द्रियः ।। २.१ ।।

यः ससञ्जे न कामेषु श्रीपाप्तौ न विसिस्मिये ।
नावमेने परानृद्ध्या परेभ्यो नापि विव्यथे ।। २.२ ।।

बलीयान्सत्त्वसंपन्नः श्रुतवान्बुद्धिमानपि ।
विक्रान्तो नय्वांश्चैव धीरः सुमुख एव च ।। २.३ ।।

वपुष्मांश्च न च स्तब्धो दक्षिणो न च नारजवः ।
तेजस्वी न च न क्षान्तः कर्ता च न च विस्मितः ।। २.४ ।।

आक्षिप्तः शत्रुभिः संख्ये सुहृद्भिश्च व्यपाश्रितः ।
अभवद्यो न विमुखस्तेजसा दित्सयैव च ।। २.५ ।।

यः पूर्वै राजभिर्यातां यियासुर्धर्मपद्धतिं ।
राज्यं दीक्षां इव वहन्वृत्तेतान्वगमत्पित्éन् ।। २.६ ।।

यस्य सुव्यहाराच्च रक्षनाच्च सुखं प्रजाः ।
शिश्यिरे विगतोद्वेगाः पितुरङ्कगता इव ।। २.७ ।।

कृतशास्त्रः कृतास्त्रो वा जातो वा विपुले कुले ।
अकृतार्थो न ददृशे यस्य दर्शनमेयिवान् ।। २.८ ।।

हितं विप्रियं अप्युक्तो यः शुश्राव न चुक्षुभे ।
दुष्कृतं बह्वपि त्यक्त्वा सस्मार कृतं अण्वपि ।। २.९ ।।

प्रणताननुजग्राह विजग्राह कुलद्विषः ।
आपन्नान्परिजग्राह निजग्राहास्थितान्पथि ।। २.१० ।।

प्रायेण विषये यस्य तच्छीलं अनुवर्तिनः ।
अर्जयन्तो ददृशिरे धनानीव गुणानपि ।। २.११ ।।

अध्यैष्ट यः परं ब्रह्म न व्यैष्ट सततं धृतेः ।
दानान्यदित पात्रेभ्यः पापं नाकृत किं चन ।। २.१२ ।।

धृत्यावाक्षीत्प्रतिज्ञां स सद्वाजिवोद्यतां धुरं ।
न ह्यवान्छीचेयुतः सत्यान्मुहूर्तं अपि जीवितं ।। २.१३ ।।

विदुषः पर्युपासिष्ट व्यकाशिष्टात्मवत्तया ।
व्यरोचिष्त च शिष्टेभ्यो मासीषे चन्द्रमा इव ।। २.१४ ।।

अवेदीद्बुद्धिशास्त्राभ्यां इह चामुत्र च क्षमं ।
अरक्षीद्धैर्यवीर्याभ्यां इन्द्रियाण्यपि च प्रजाः ।। २.१५ ।।

अहार्षीद्दुःखं आर्तानां द्विषतां चोर्जितं यशः ।
अचैष्ते च नयैर्भूमिं भूयसा यशसैव च ।। २.१६ ।।

अप्यासीद्दुःखितान्पश्यन्प्रकृत्या करुणात्मकः ।
नाहौष्ते च यशो लोभादन्यायाधिगतैर्धनैः ।। २.१७ ।।

सौहार्दऋढभक्तित्वान्मैत्रेषु विगुणेष्वपि ।
नादिदासीददित्सीत्तु स्ॐउख्वात्स्वं स्वं अर्थवत् ।। २.१८ ।।

अनिवेद्याग्रं अर्हद्भ्यो नालिक्षत्हिं चिदप्लुतः ।
गां अधर्मेण नाधुक्षत्क्षीरतर्षेण गां इव ।। २.१९ ।।

नासृक्षद्बलिं अप्राप्तं नारुक्षन्मानं ऐश्वरं ।
आगमैर्बुद्धिं आहिक्षद्धर्माय न तु कीर्तये ।। २.२० ।।

क्लेशार्हानपि कांश्चि तु नाक्लिष्ट क्लिष्टकर्मणः ।
आर्यभावाच्च नाघुक्षद्द्विषतोऽपि सतो गुणान् ।। २.२१ ।।

आकृषद्वपुषा दृष्टीः प्रजानां चन्द्रमा इव ।
परस्वं भुवि नामृक्षन्महाविषं इवोरगं ।। २.२२ ।।

नाक्रुक्षद्विषये तस्य कश्चित्कैश्चित्क्व चित्क्षतः ।
अदिक्षत्तस्य हस्तस्थं आर्तेभ्यो ह्यभयं धनुः ।। २.२३ ।।

कृतागसोऽपि प्रणतान्प्रागेव प्रियकारिणः ।
अदर्शत्स्निघया दृष्ट्या श्लक्ष्णेन वचसासिचत् ।। २.२४ ।।

बह्वीरध्यगमद्विद्या विषयेष्वकुतूहलः ।
अदर्शत्कार्तयुगे धर्मे धर्मात्कृच्छ्रेऽपि नास्रसत् ।। २.२५ ।।

अवर्धिष्ट गुञैः शश्वदवृधन्मित्रसंपदा ।
अवर्तिष्ट च वृद्धेषु नावृतद्गर्हिते पथि ।। २.२६ ।।

शरैरशीशं अच्छत्रून्गुणैर्बन्धूनरीरमत् ।
रन्ध्रैर्नाचूचुदद्भृत्यान्करैर्नापीपिडत्प्रजाः ।। २.२७ ।।

रक्षणाच्चैव शौर्याच्च निखिलां गां अवीवपत् ।
स्पष्टया दण्डनीत्या च रात्रिसत्त्रानवीवपत् ।। २.२८ ।।

कुलं राजर्षिवृत्तेन यशोगन्धं अवीवपत् ।
दीप्त्या तम इवादित्यस्तेजसारीनवीवपत् ।। २.२९ ।।

अपप्रथत्पित्éंश्चैव सत्पुत्रदऋशैर्गुणैः ।
सलिलेनेव चाम्भोदो वृत्तेनाजिह्णदत्प्रजाः ।। २.३० ।।

दानैरजस्रविपुलैः स्ॐअं विप्रानसूषवत् ।
राजधर्मस्थिअत्वाच्च काले सस्यं असूषवत् ।। २.३१ ।।

अधर्मिष्ठां अचकथन्न कथां अकथङ्कतः ।
चक्रवर्तीव च परान्धर्मायाभ्युदसीषहत् ।। २.३२ ।।

राष्ट्रं अन्यत्र च बलेर्न स किङ्चिद्ददीदपत् ।
भृत्यैरेव च सोद्योगं द्विषद्दर्पं अदीदपत् ।। २.३३ ।
स्वैरेवादीदपच्चापि भूयो भूयो गुणैः कुलं ।
प्रजा नादीदपच्चैव सर्वधर्मव्यवस्थया ।। २.३४ ।।

अश्रान्तः समये यज्वा वज्ञभूमिं अमीमपत् ।
पालनाच्च च्विजान्ब्रह्म निर्दुविग्नानमीमपत् ।। २.३५ ।।

गुरुभिर्विधिवत्काले स्ॐयः स्ॐअं अमीमपत् ।
तपसा तेजसा चैव द्विषत्सैन्यं अमीमपत् ।। २.३६ ।।

प्रजाः परमधर्म्ज्ञः सूक्ष्मं धर्मं अवीवसत् ।
दर्शनाच्चैव धर्मस्य काले स्वर्गं अवीवसत् ।। २.३७ ।।

व्यक्तं अप्यर्थकृच्छ्रेषु नाधर्मिष्ठं अतिष्ठिपत् ।
प्रिय इत्येव चाशक्तं न संरागादवीवृधत् ।। २.३८ ।।

तेजसा च त्विषा चैव रिपून्दृप्तानभीभसत् ।
यशोदीपेन दीप्तेन पृथिवीं च व्यभीभसत् ।। २.३९ ।।

आनृशंस्यान्न यशसे तेनादायि सदार्थिने ।
द्रव्यं महदपि त्यक्त्वा न चैवाकीर्ति किं चन ।। २.४० ।।

तेनारिरापि दुःखार्तो नात्याजि शरणागतः ।
जित्वा दृप्तानपि रिपून्न तेनाकारि विस्मयः ।। २.४१ ।।

न तेनाभेदि मार्यादा कामाद्द्वेषाद्भयादपि ।
तेन सत्स्वपि भोगेषु नासेवीन्द्रियवृत्तिता ।। २.४२ ।।

न तेनार्दर्शि विषमं कार्यङ्क्व चन किं चन ।
विप्रियप्रिययोः कृत्ये न तेनागामि निक्रियाः ।। २.४३ ।।

तेनापायि यथाकल्पं स्ॐअश्च यश एव च ।
वेदश्चाम्नायि सततं वेदोक्तो धर्म एव च ।। २.४४ ।।

एवमादिभिरत्यक्तो बभूवासुलभैर्गुणैः ।
अशक्यशक्यसामन्तः शाक्यराजः स शक्रवत् ।। २.४५ ।।

अथ तस्मिन्तथा काले धर्मकामा दिवौकसः ।
विचेरुर्दिशि लोकस्य धर्मचर्या दिदृक्षवः ।। २.४६ ।।

धर्मात्मानश्चरन्तस्ते धर्मजिज्ञासया जगत् ।
ददृशुस्तं विशेषेण धर्मात्मानं नराधिपं ।। २.४७ ।।

देवेभ्यस्तुषितेभ्योऽथ बोधिसत्त्वः क्षितिं व्रजन् ।
उपपत्तिं प्रणिदधे कुले तस्य महीपतेः ।। २.४८ ।।

तस्य देवी नृदेवस्य माया नाम तदाभवत् ।
वीतक्रोधतम्ॐआया मायेव दिवि देवता ।। २.४९ ।।

स्वप्नेऽथ समये गर्भं आविशन्तं ददर्श सा ।
षड्दन्तं वारणं श्वेतं ऐरावतं इवौजसा ।। २.५० ।।

तं विनिर्दिदिषुः श्रुत्वा स्वप्नं स्वप्नविदो द्विजाः ।
तस्य जन्म कुमारस्य लक्ष्मीधर्मयशोभृतः ।। २.५१ ।।

तस्य सत्त्वविशेषस्य जातौ जातिक्षयैषिनः ।
साचला प्रचचालोर्वी तरङ्गाभिहतेव नौः ।। २.५२ ।।

सूर्यरश्मिभिरक्लिष्टं पुष्पवर्षं पपात खात् ।
दिग्वारणकराधूताद्वनाच्चैत्ररथादिव ।। २.५३ ।।

दिवि दुन्दुभयो नेदुर्दीव्यतां मरुतां इव ।
दिदीपेऽभ्यधिअं सूर्यः शिवश्च पवनो ववौ ।। २.५४ ।।

तुतुषुस्तुषिताश्चैव शुद्धावासाश्च देवताः ।
सद्धर्मबहुमानेन सत्त्वानां चानुकम्पया ।। २.५५ ।।

समाययौ यशःकेतुं श्रेयःकेतुकरः परः ।
बभ्राजे शान्तया लक्ष्म्या धर्मो विग्रहवानिव ।। २.५६ ।।

देव्यां अपि यवीयस्यां अरण्यां इव पावकः ।
नन्दो नाम सुतो जज्ञे नित्यानन्दकरः कुले ।। २.५७ ।।

दीर्घबाहुर्महावक्षाः सिंहांसो वृसभेक्षनः ।
वपुषाग्र्येण यो नाम सुन्दरोपपदं दधे ।। २.५८ ।।

मधुमास इव प्राप्तश्चन्द्रो ना इवोदितः ।
अङ्गवानिव चानङ्गः स बभौ कान्तया श्रिया ।। २.५९ ।।

स तौ संवर्धयामास नरेन्द्रः परया मुदा ।
अर्थः सज्जनहस्तस्थो धर्मकामौ महानिव ।। २.६० ।।

तस्य कालेन सत्पुत्रौ ववृधाते भवाय तौ ।
आर्यस्यारम्भमहतो दर्मार्थाविव भूतये ।। २.६१ ।।

तयोः सत्पुत्रयोर्मध्ये शाक्यराजो रराज सः ।
मध्यदेश इव व्यक्तो हिमवत्पारिपात्रयोः ।। २.६२ ।।

ततस्तयोः संस्कृतयोः क्रमेण नरेन्द्रसून्वोः कृतविद्ययोश्च ।
कामेष्वजस्रङ्प्रममाद नन्दः सर्वार्थसिद्धस्तु न संररञ्ज ।। २.६३ ।।

स प्रेक्श्यैव हि जीर्णं आतुरङ्च मृतङ्च विमृशन्जगदन्भिज्ञं आर्तचित्तः ।
हृदयगतपरघृणो न विषयरतिं अगमज्जननमरणभयं अभितो विजिघांसुः ।। २.६४ ।।

उद्वेगादपुनर्भवे मनः प्रणिधाय स ययौ शयितवराङ्गनादनास्थः ।
निशि नृपतिनिलयनाद्वनगमन्कृत्मनाः सरस इव मथितनलिनात्कलहंसः ।। २.६५ ।।


Sऔन्दरनन्दे महाकाव्ये राजवर्णनो नाम द्वितीयः सर्गः ।