स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/वस्त्रापथक्षेत्रमाहात्म्यम्/अध्यायः १२
← अध्यायः ११ | स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/वस्त्रापथक्षेत्रमाहात्म्यम्/अध्यायः १२ अध्यायः १२ [[लेखकः :|]] |
अध्यायः १३ → |
॥ सारस्वत उवाच ॥ ॥
गंगोदकं मधुघृते कुंकुमागुरुचंद नम् ॥
गुग्गुलं बिल्वपत्राणि बकपुष्पं च यो वहेत् ॥ १ ॥
पदचारी शुचितनुर्भारं स्कन्धे निधाय च ॥
तीर्थे स्नात्वा शिवं विष्णुं ब्रह्माणं शंकरं प्रियम् ॥ २ ॥
दृष्ट्वा निवेदयेद्यस्तु स मुक्तः सर्वबन्धनैः ॥
स नरो गणतां याति यावदाभूतसंप्लवम् ॥ ३ ॥
कलत्रमित्रपुत्रैर्वा भ्रातृभिः स्वजनैर्नरैः ॥
सहितो वा नरैर्याति तीर्थे देवं विचिंत्य च ॥ ४ ॥
देवमूर्तिं शुभां कृत्वा रथस्थां सुप्रतिष्ठिताम् ॥
चन्दनागुरुकर्पूरैरर्चितां कुंकुमेन च ॥ ५ ॥
पूजयन्विविधैः पुष्पैर्धूपदीपादिकैर्नृप ॥
गीतनृत्यैः सवादित्रैर्हास्यलास्यैरनेकधा ॥ ६ ॥
धरित्रीं कांचनं गाश्च जलान्नवसनानि च ॥
तृणेन्धने प्रियां वाणीं यच्छन्याति नरो यदि ॥ ७ ॥
देवांगनाकरग्राहगृहीतो नन्दनं वनम् ॥
प्राप्य भुंक्ते शुभान्भोगान्यावदाचन्द्रतारकम् ॥ ८ ॥
तीर्थे संचरितः पुरुषो रोगैः प्राणान्विमुञ्चति ॥
अदृष्ट्वा दैवतं तीर्थे दृष्टतीर्थफलं लभेत् ॥ ९ ॥
संसारदोषान्विविधान्विचिन्त्य स्त्रीपुत्रमित्रेष्वपि बंधमुक्तः ॥
विज्ञाय बद्धं पुरुषं प्रधानैः स सर्वतीर्थानि करोति देहम् ॥ 7.2.12.१० ॥
आजन्मजन्मांन्तरसंचितानि दग्ध्वा स पापानि नरो नरेन्द्र ॥
तेजोमयं सर्वगतं पुराणं भवोद्भवं पश्यति मुच्यते सः ॥११॥
तीर्थे विप्रवचो ग्राह्यं स्नात्वा संध्यार्चनादिकम् ॥
दर्भास्तिला हविष्यान्नं प्रयोगाः श्रद्धया कृताः ॥१२॥
अगस्त्यं भृङ्गराजं च पुष्पं शतदलं शुभम् ॥
कर्पूरागुरुश्रीखंडं कुंकुमं तुलसीदलम् ॥ १३ ॥
बिल्वप्रमाणपिंडेषु दीपोद्द्योतितभूमिषु ॥
तांबूल फलनैवेद्यं तिलदर्भोदकेन च ॥ १४ ॥
तीर्थे संकल्पितं मर्त्यैस्तदनंतं प्रजायते ॥
अयने विषुवे चैव संक्रांतौ ग्रहणेषु च ॥ १५ ॥
मासांतेऽपर पक्षे तु क्षयाहे पितृमातृके ॥
गजच्छायां त्रयोदश्यां द्रव्ये प्राप्तौ द्विजोत्तमः ॥ १६ ॥
गृहे श्राद्धं प्रकुर्वीत पितॄणामृणमुक्तये ॥
गृहाच्छतगुणं नद्यां या नदी याति सागरम् ॥ १७ ॥
प्रभासे पुष्करे राजन्गंगायां पिंडतारके ॥
प्रयागे नृपगोमत्यां भवदामोदराग्रतः ॥ १८ ॥
नर्मदादिषु तीर्थेषु कुर्याच्छ्राद्धं नरो यदि ॥
सर्वपापविनिर्मुक्तः पितरो यांति सद्गतिम्॥ १९ ॥
संतानमुत्तमं लब्ध्वा भुक्त्वा भोगाननुत्तमान् ॥
दिव्यं विमानमारुह्य प्रान्ते याति सुरालयम्॥ 7.2.12.२० ॥
जातकर्मादियज्ञेषु विवाहे यज्ञकर्मणि ॥
देवप्रतिष्ठाप्रारंभे वृद्धिश्राद्धं प्रकल्पयेत् ॥ २१ ॥
तृप्यन्ति देवताः सर्वा स्तृप्यंति पितरो नृणाम्॥
वृद्धिश्राद्धकृतो गेहे जायते सर्वमंगलम् ॥ २२ ॥
कामः क्रोधश्च लोभश्च मोहो मद्यमदादयः ॥
माया मात्सर्यपैशुन्यमविवेको विचारणा ॥ २३ ॥
अहंकारो यदृच्छा च चापल्यं लौल्यता नृप ॥
अत्यायासोप्यनायासः प्रमादो द्रोहसाहसम् ॥ २४ ॥
आलस्यं दीर्घसूत्रत्वं परदारोपसेवनम् ॥
अल्पाहारो निराहारः शोकश्चौर्यं नृपोत्तम ॥ २५ ॥
एतान्दोषान्गृहे नित्यं वर्जयन्यदि वर्तते ॥
स नरो मण्डनं भूमेर्देशस्य नगरस्य च ॥ २६ ॥
श्रीमान्विद्वान्कुलीनोऽसौ स एव पुरुषोत्तमः ॥
सर्वतीर्थाभिषेकश्च नित्यं तस्य प्रजायते ॥ २७ ॥
तदा तीर्थफलं सम्यक्त्यक्तदोषस्य जायते ॥
स्नानं सन्ध्या जपो होमः पितृदेवर्षितर्पणम् ॥
श्राद्धं देवस्य पूजा च त्यक्तदोषस्य जायते ॥ २८ ॥
प्रयागे वा कुरुक्षेत्रे सरस्वत्यां च सागरे ॥
गयायां वा रुद्रपदे नरनारायणाश्रमे ॥ २९ ॥
प्रभासे पुष्करे कृष्णे गोमत्यां पिंडतारके ॥
वस्त्रापथे गिरौ पुण्ये तथा दामोदरे नृप ॥ 7.2.12.३० ॥
भीमेश्वरे नर्मदायां स्कांदे रामेश्वरादिषु ॥
उज्जयिन्यां महाकाले वाराणस्यां च भूर्भुवः ॥ ३१ ॥
कालिंद्यां मथुरायां च सकृद्याति नरो यदि ॥
सदोषो मुच्यते दोषैर्ब्रह्महत्यादिभिः कृतैः ॥ ॥ ३२ ॥
अपि कीटः पतंगो वा पक्षी वा सूकरोऽपि वा ॥
खरोष्ट्रकुंजरा वाजिमृगसिंहसरीसृपाः ॥ ३३ ॥
ज्ञानतोऽज्ञानतो राजंस्तेषु स्था नेषु ये मृताः ॥
सर्वे ते पुण्यकर्माणः स्वर्गं भुक्त्वा सुखं बहु ॥ ३४ ॥
चतुर्वर्णेषु सर्वे ते जायंते कर्मबंधनात् ॥
कर्मबंधं विहायाशु मुक्तिं यांति नराः पुनः ॥ ३५ ॥
मोदंते तीर्थमरणात्स्वर्गभोगावसानतः ॥
संप्राप्य भारते खंडे कर्मभूमिं महोदयम् ॥ ३६ ॥
अनेकाश्चर्यसंयुक्तं बहुपर्वतमंडितम् ॥
गंगायाः सरितः सर्वाः समुद्रैः सह संगताः ॥ ३७ ॥
पदेपदे निधानानि संति तीर्थान्यनेकशः ॥
येषां स्मरणमात्रेण सर्वपापक्षयो भवेत् ॥ ३८ ॥
पातालमार्गा बहवः स्वर्गमार्गश्च दृश्यते ॥
गगने दृश्यते सूर्यो हृदये दृश्यते हरः ॥ ३९ ॥
ध्यानेन ज्ञानयोगेन तपसा वचसा गुरोः ॥
सत्येन साहसेनैव दृश्यते भुवनत्रयम् ॥ 7.2.12.४० ॥
वेदस्मृतिपुराणैश्च ये न पश्यंति भूतलम् ॥
पातालं स्वर्गलोकं च वंचितास्ते नरा इह ॥ ४१ ॥
ये विरज्यंति न स्त्रीषु कामासक्ता विचेतसः ॥
देहोन्यथा वरस्त्रीणामन्यथा तैश्च चिंतितम् ॥ ४२ ॥
जन्मभूमिषु ते रक्ता जन्यंते जंतवः पुनः ॥
मुक्तिमार्गात्पुनर्भ्रष्टा जायंते पशुयोनिषु ॥ ४३ ॥
धनानि संप्राप्य वराटिकां ये द्विजातिमुख्याय विधाय पूजाम् ॥
यच्छंति नो निर्मलचेतना ये नराधमा दैवहता मृतास्ते ॥ ४४ ॥
देहं सुपुष्टं विजरं च यौवनं लब्ध्वा न गंगादिषु यांति ये नराः ॥
माता पिता नो न सुतो न बांधवो भार्या स्वसा नो दुहिता न विद्यते ॥ ४५ ॥
एकस्तु यो याति कथं न क्लिश्यते मूर्खो न जानाति भवं महेश्वरम् ॥
स्नात्वा न पश्यंति हरं महेश्वरं दैवेन ते वै मुषिता नराधमाः ॥ ४६ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे द्वितीये वस्त्रापथक्षेत्रमाहात्म्ये यात्रा विधिवर्णनंनाम द्वादशोऽध्यायः ॥ १२ ॥