लघुसिद्धान्तकौमुदी/हलन्तपुंलिङ्गप्रकरणम्

(हलन्तपुंलिङ्गप्रकरणम् इत्यस्मात् पुनर्निर्दिष्टम्)
← अजन्तनपुंसकलिङ्गप्रकरणम् लघुसिद्धान्तकौमुदी
हलन्तपुंलिङ्गप्रकरणम्
वरदराजः
हलन्तस्त्रीलिङ्गप्रकरणम् →


अथ हलन्त पुंल्लिङ्गाः

हो ढः॥ लसक_२५२ = पा_८,२.३१॥
हस्य ढः स्याज्झलि पदान्ते च। लिट्, लिड्। लिहौ। लिहः। लिड्भ्याम्। लिट्त्सु, लिट्सु॥

दादेर्धातोर्घः॥ लसक_२५३ = पा_८,२.३२॥
झलि पदान्ते चोपदेशे दादेर्धातेर्हस्य घः॥

एकाचो बशो भष् झषन्तस्य स्ध्वोः॥ लसक_२५४ = पा_८,२.३७॥
धात्ववयवस्यैकाचो झषन्तस्य बशो भष् से ध्वे पदान्ते च। धुक्, धुग्। दुहौ। दुहः। धुग्भ्याम्। धुक्षु॥

वा द्रुहमुहष्णुहष्णिहाम्॥ लसक_२५५ = पा_८,२.३३॥
एषां हस्य वा घो झलि पदान्ते च। ध्रुक्, ध्रुग्, ध्रुट्, ध्रुड्। द्रुहौ। द्रुहः। ध्रुग्भ्याम्, ध्रुड्भ्याम्। ध्रुक्षु, ध्रुट्त्सु, ध्रुट्सु॥ एवं मुक्, मुग् इत्यादि॥

धात्वादेः षः सः॥ लसक_२५६ = पा_६,१.६४॥
स्नुक्, स्नुग्, स्नुट्, स्नुड्। एवं स्निक्, स्निग्, स्निट्, स्निड्॥ विश्ववाट्, विश्ववाड्। विश्ववाहौ। विश्ववाहः। विश्ववाहम्। विश्ववाहौ॥

इग्यणः संप्रसारणम्॥ लसक_२५७ = पा_१,१.४५॥
यणः स्थाने प्रयुज्यमानो य इक् स संप्रसारणसंज्ञः स्यात्॥

वाह ऊठ्॥ लसक_२५८ = पा_६,४.१३२॥
भस्य वाहः संप्रसारणमूठ्॥

संप्रसारणाच्च॥ लसक_२५९ = पा_६,१.१०८॥
संप्रसारणादचि पूर्वरूपमेकादेशः। एत्येधत्यूठ्स्विति वृद्धिः। विश्वौहः, इत्यादि॥

चतुरनडुहोरामुदात्तः॥ लसक_२६० = पा_७,१.९८॥
अनयोराम् स्यात्सर्वनामस्थाने परे॥

सावनडुहः॥ लसक_२६१ = पा_७,१.८२॥
अस्य नुम् स्यात् सौ परे। अनड्वान्

अम् संबुद्धौ॥ लसक_२६२ = पा_७,१.९९॥
हे अनड्वन्। हे अनड्वाहौ। हे अनड्वाहः। अनडुहः। अनडुहा॥

वसुस्रंसुध्वंस्वनडुहां दः॥ लसक_२६३ = पा_८,२.७२॥
सान्तवस्वन्तस्य स्रंसादेश्च दः स्यात्पदान्ते। अनडुद्भ्यामित्यादि॥ सान्तेति किम् ? विद्वान्। पदान्ते किम् ? स्रस्तम्।
ध्वस्तम्॥

सहेः साडः सः॥ लसक_२६४ = पा_८,३.५६॥
साडरूपस्य सहेः सस्य मूर्धन्यादेशः। तुराषाट्, तुराषाड्। तुरासाहौ। तुरासाहः। तुराषाड्भ्यामित्यादि॥

दिव औत्॥ लसक_२६५ = पा_७,१.८४॥
दिविति प्रातिपदिकस्यौत्स्यात्सौ। सुद्यौः। सुदिवौ॥

दिव उत्॥ लसक_२६६ = पा_६,१.१३१॥
दिवो ऽन्तादेश उकारः स्यात् पदान्ते। सुद्युभ्यामित्यादि॥ चत्वारः। चतुरः। चतुर्भिः। चतुर्भ्यः॥

षट्चतुर्भ्यश्च॥ लसक_२६७ = पा_७,१.५५॥
एभ्य आमो नुडागमः॥

रषाभ्यां नो णः समानपदे॥ लसक_२६८ = पा_८,४.१॥

अचो रहाभ्यां द्वे॥ लसक_२६९ = पा_८,४.४६॥
अचः पराभ्यां रेफहकाराभ्यां परस्य यरो द्वे वा स्तः। चतुर्ण्णाम्, चतुर्णाम्॥

रोः सुपि॥ लसक_२७० = पा_८,३.१६॥
रोरेव विसर्गः सुपि। षत्वम्। षस्य द्वित्वे प्राप्ते॥

शरो ऽचि॥ लसक_२७१ = पा_८,४.४९॥
अचि परे शरो न द्वे स्तः। चतुर्षु॥

मो नो धातोः॥ लसक_२७२ = पा_८,२.६४॥
धातोर्मस्य नः पदान्ते। प्रशान्॥

किमः कः॥ लसक_२७३ = पा_७,२.१०३॥
किमः कः स्याद्विभक्तौ। कः। कौ। के इत्यादि। शेषं सर्ववत्॥

इदमो मः॥ लसक_२७४ = पा_७,२.१०८॥
सौ। त्यदाद्यत्वापवादः॥

इदो ऽय् पुंसि॥ लसक_२७५ = पा_७,२.१११॥
इदम इदो ऽय् सौ पुंसि। अयम्। त्यदाद्यत्वे॥

अतो गुणे॥ लसक_२७६ = पा_६,१.९७॥
अपदान्तादतो गुणे पररूपमेकादेशः॥

दश्च॥ लसक_२७७ = पा_७,२.१०९॥
इदमो दस्य मः स्याद्विभक्तौ। इमौ। इमे। त्यदादेः सम्बोधनं नास्तीत्युत्सर्गः॥

अनाप्यकः॥ लसक_२७८ = पा_७,२.११२॥
अककारस्येदम इदो ऽनापि विभक्तौ। आबिति प्रत्याहारः। अनेन॥

हलि लोपः॥ लसक_२७९ = पा_७,२.११३॥
अककारस्येदम इदो लोप आपि हलादौ। नानर्थके ऽलो ऽन्त्यविधिरनभ्यासविकारे॥

आद्यन्तवदेकस्मिन्॥ लसक_२८० = पा_१,१.२१॥
एकस्मिन्क्रियमाणं कार्यमादाविवान्त इव स्यात्। सुपि चेति दीर्घः। आभ्याम्॥

नेदमदसोरकोः॥ लसक_२८१ = पा_७,१.११॥
अककारयोरिदमदसोर्भिस ऐस् न। एभिः। अस्मै। एभ्यः। अस्मात्। अस्य। अनयोः। एषाम्। अस्मिन्। अनयोः। एषु॥

द्वितीयाटौस्स्वेनः॥ लसक_२८२ = पा_२,४.३४॥
इदमेतदोरन्वादेशे। किञ्चित्कार्यं विधातुमुपात्तस्य कार्यान्तरं विधातुं पुनरुपादानमन्वादेशः। यथा - अनेन व्याकरणमधीत मेनं छन्दो ऽध्यापयेति। अनयोः पवित्रं कुलमेनयोः प्रभूतं स्वामिति॥ एनम्। एनौ। एनान्। एनेन। एनयोः। एनयोः॥ राजा

न ङिसम्बुद्ध्योः॥ लसक_२८३ = पा_८,२.८॥
नस्य लोपो न ङौ सम्बुद्धौ च। हे राजन्। (ङावुत्तरपदे प्रतिषेधो वक्तव्यः)। ब्रह्मनिष्ठः। राजानौ। राजानः। राज्ञः॥

नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति॥ लसक_२८४ = पा_८,२.२॥
सुब्विधौ स्वरविधौ संज्ञाविधौ कृति तुग्विधौ च नलोपो ऽसिद्धो नान्यत्र - राजाश्व इत्यादौ। इत्यसिद्धत्वादात्वमेत्त्वमैस्त्वं च न। राजभ्याम्। राजभिः। राज्ञि, राजनि। राजसु॥ यज्वा। यज्वानौ। यज्वानः॥

न संयोगाद्वमन्तात्॥ लसक_२८५ = पा_६,४.१३७॥
वमन्तसंयोगादनो ऽकारस्य लोपो न। यज्वनः। यज्वा। यज्वभ्याम्॥ ब्रह्मणः। ब्रह्मणा॥

इन्हन्पूषार्यम्णां शौ॥ लसक_२८६ = पा_६,४.१२॥
एषां शावेवोपधाया दीर्घो नान्यत्र। इति निषेधे प्राप्ते - .

सौ च॥ लसक_२८७ = पा_६,४.१३॥
इन्नादीनामुपधाया दीर्घो ऽसंबुद्धौ सौ। वृत्रहा। हे वृत्रहन्॥

एकाजुत्तरपदे णः॥ लसक_२८८ = पा_८,४.१२॥
एकाजुत्तपरदं यस्य तस्मिन्समासे पूर्वपदस्थान्निमित्तात्परस्य प्रतिपदिकान्तनुम्विभक्तिस्थस्य नस्य णः। वृत्रहणौ॥

हो हन्तेर्ञ्णिन्नेषु॥ लसक_२८९ = पा_७,३.५४॥
ञिति णिति प्रत्यये नकारे च परे हन्तेर्हकारस्य कुत्वम्। वृत्रघ्नः इत्यादि। एवं शार्ङ्गिन्, यशस्विन्, अर्यमन्, पूषन्॥

मघवा बहुलम्॥ लसक_२९० = पा_६,४.१२८॥
मघवन्शब्दस्य वा तृ इत्यन्तादेशः। ऋ इत्॥

उगिदचां सर्वनामस्थाने ऽधातोः॥ लसक_२९१ = पा_७,१.७०॥
अधातोरुगितो नलोपिनो ऽञ्चतेश्च नुम् स्यात्सर्वनामस्थाने परे। मघवान्। मघवन्तौ। मघवन्तः। हे मघवन्। मघवद्भ्याम्। तृत्वाभावे मघवा। सुटि राजवत्॥

श्वयुवमघोनामतद्धिते॥ लसक_२९२ = पा_६,४.१३३॥
अन्नन्तानां भानामेषामतद्धिते संप्रसारणम्। मघोनः। मघवभ्याम्। एवं श्वन्, युवन्

न संप्रसारणे संप्रसारणम्॥ लसक_२९३ = पा_६,१.३७॥
संप्रसारणे परतः पूर्वस्य यणः संप्रसारणं न स्यात्। इति यकारस्य नेत्वम्। अत एव ज्ञापकादन्त्यस्य यणः पूर्वं संप्रसारणम्। यूनः। यूना। युवभ्याम् इत्यादि॥ अर्वा। हे अर्वन्॥

अर्वणस्त्रसावनञः॥ लसक_२९४ = पा_६,४.१२७॥
नञा रहितस्यार्वन्नित्यस्याङ्गस्य तृ इत्यन्तादेशो न तु सौ। अर्वन्तौ। अर्वन्तः। अर्वद्भ्यामित्यादि॥

पथिमथ्यृभुक्षामात्॥ लसक_२९५ = पा_७,१.८५॥
एषामाकारो ऽन्तादेशः स्यात् सौ परे॥

इतो ऽत्सर्वनामस्थाने॥ लसक_२९६ = पा_७,१.८६॥
पथ्यादेरिकारस्याकारः स्यात्सर्वनामस्थाने परे॥

थो न्थः॥ लसक_२९७ = पा_७,१.८७॥
पथिमथोस्थस्य न्थादेशः सर्वनामस्थाने। पन्थाः। पन्थानौ। पन्थानः॥

भस्य टेर्लोपः॥ लसक_२९८ = पा_७,१.८८॥
भस्य पथ्यादेष्टेर्लोपः। पथः। पथा। पथिभ्याम्॥ एवं मथिन्, ऋभुक्षिन्॥

ष्णान्ता षट्॥ लसक_२९९ = पा_१,१.२४॥
षान्ता नान्ता च संख्या षट्संज्ञा स्यात्। पञ्चन्शब्दो नित्यं बहुवचनान्तः। पञ्च। पञ्च। पञ्चभिः। पञ्चभ्यः। पञ्चभ्यः।
नुट्॥

नोपधायाः॥ लसक_३०० = पा_६,४.७॥
नान्तस्योपधाया दीर्घो नामि। पञ्चानाम्। पञ्चसु॥

अष्टन आ विभक्तौ॥ लसक_३०१ = पा_७,२.८४॥
हलादौ वा स्यात्॥

अष्टाभ्य औश्॥ लसक_३०२ = पा_७,१.२१॥
कृताकारादष्टनो जश्शसोरौश्। अष्टभ्य इति वक्तव्ये कृतात्वनिर्देशो जश्शसोर्विषये आत्वं ज्ञापयति। अष्टौ। अष्टौ। अष्टाभिः। अष्टाभ्यः। अष्टाभ्यः। अष्टानाम्। अष्टासु। आत्वाभावे अष्ट, पञ्चवत्॥

ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च॥ लसक_३०३ = पा_३,२.५९॥
एभ्यः क्विन्, अञ्चेः सुप्युपपदे, युजिक्रुञ्चोः, केवलयोः, क्रुञ्चेर्नलोपाभावश्च निपात्यते। कनावितौ॥

कृदतिङ्॥ लसक_३०४ = पा_३,१.९३॥
अत्र धात्वधिकारे तिङ्भिन्नः प्रत्ययः कृत्संज्ञः स्यात्॥

वेरपृक्तस्य॥ लसक_३०५ = पा_६,१.६७॥
अपृक्तस्य वस्य लोपः॥

क्विन्प्रत्ययस्य कुः॥ लसक_३०६ = पा_८,२.६२॥
क्विन्प्रत्ययो यस्मात्तस्य कवर्गो ऽन्तादेशः पदान्ते। अस्यासिद्धत्वाच्चोः कुरिति कुत्वम्। ऋत्विक्, ऋत्विग्। ऋत्विजौ।
ऋत्विग्भ्याम्॥

युजेरसमासे॥ लसक_३०७ = पा_७,३.७१॥
युजेः सर्वनामस्थाने नुम् स्यादसमासे। सुलोपः। संयोगान्तलोपः। कुत्वेन नस्य ङः। युङ्। अनुस्वारपरसवर्णौ। युञ्जौ। युञ्जः। युग्भ्याम्॥

चोः कुः॥ लसक_३०८ = पा_८,२.३०॥
चवर्गस्य कवर्गः स्याज्झलि पदान्ते च। सुयुक्, सुयुग्। सुयुजौ। सुयुग्भ्याम्॥ खन्। खञ्जौ। खन्भ्याम्॥

व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः॥ लसक_३०९ = पा_८,२.३६॥
झलि पदान्ते च। जश्त्वचर्त्वे। राट्, राड्। राजौ। राजः। राड्भ्याम्॥ एवं विभ्राट्, देवेट्, विश्वसृट्॥ (परौ व्रजेः षः पदान्ते)। परावुपपदे व्रजेः क्विप् स्याद्दीर्घश्च पदान्ते षत्वमपि। परिव्राट्। परिव्राजौ॥

विश्वस्य वसुराटोः॥ लसक_३१० = पा_६,३.१२८॥
विश्वशब्दस्य दीर्घो ऽन्तादेशः स्याद्सौ राट्शब्दे च परे। विश्वराट्, विश्वराड्। विश्वराजौ। विश्वराड्भ्याम्॥

स्कोः संयोगाद्योरन्ते च॥ लसक_३११ = पा_८,२.२९॥
पदान्ते झलि च यः संयोगस्तदाद्योः स्कोर्लोपः। भृट्। सस्य श्चुत्वेन सः। झलां जश् झशि इति शस्य जः। भृज्जौ। भृड्भ्याम्॥ त्यदाद्यत्वं पररूपत्वं च॥

तदोः सः सावनन्त्ययोः॥ लसक_३१२ = पा_७,२.१०६॥
त्यदादीनां तकारदकारयोरनन्त्ययोः सः स्यात्सौ। स्यः। त्यौ। त्ये॥ सः। तौ। ते॥ यः। यौ। ये॥ एषः। एतौ। एते॥

ङेप्रथमयोरम्॥ लसक_३१३ = पा_७,१.२८॥
युष्मदस्मद्भ्यां परस्य ङे इत्येतस्य प्रथमाद्वितीययोश्चामादेशः॥

त्वाहौ सौ॥ लसक_३१४ = पा_७,२.९४॥
अनयोर्मपर्यन्तस्य त्वाहौ आदेशौ स्तः॥

शेषे लोपः॥ लसक_३१५ = पा_७,२.९०॥
एतयोष्टिलोपः। त्वम्अहम्

युवावौ द्विवचने॥ लसक_३१६ = पा_७,२.८२॥
द्वयोरुक्तावनयोर्मपर्यन्तस्य युवावौ स्तो विभक्तौ॥

प्रथमायाश्च द्विवचने भाषायाम्॥ लसक_३१७ = पा_७,२.८८॥
औङ्येतयोरात्वं लोके। युवाम्। आवाम्॥

यूयवयौ जसि॥ लसक_३१८ = पा_७,२.९३॥
अनयोर्मपर्यन्तस्य। यूयम्। वयम्॥

त्वमावेकवचने॥ लसक_३१९ = पा_७,२.९७॥
एकस्योक्तावनयोर्मपर्यन्तस्य त्वमौ स्तो विभक्तौ॥

द्वितीयायाञ्च॥ लसक_३२० = पा_७,२.८७॥
अनयोरात्स्यात्। त्वाम्। माम्॥

शसो न॥ लसक_३२१ = पा_७,१.२९॥
आभ्यां शसो नः स्यात्। अमो ऽपवादः। आदेः परस्य। संयोगान्तलोपः। युष्मान्। अस्मान्॥

यो ऽचि॥ लसक_३२२ = पा_७,२.८९॥
अनयोर्यकारादेशः स्यादनादेशे ऽजादौ परतः। त्वया। मया॥

युष्मदस्मदोरनादेशे॥ लसक_३२३ = पा_७,२.८६॥
अनयोरात्स्यादनादेशे हलादौ विभक्तौ। युवाभ्याम्। आवाभ्याम्। युष्माभिः। अस्माभिः॥

तुभ्यमह्यौ ङयि॥ लसक_३२४ = पा_७,२.९५॥
अनयोर्मपर्यन्तस्य। टिलोपः। तुभ्यम्। मह्यम्॥

भ्यसो ऽभ्यम्॥ लसक_३२५ = पा_७,१.३०॥
आभ्यां परस्य। युष्मभ्यम्। अस्मभ्यम्॥

एकवचनस्य च॥ लसक_३२६ = पा_७,१.३२॥
आभ्यां ङसेरत्। त्वत्। मत्॥

पञ्चम्या अत्॥ लसक_३२७ = पा_७,१.३१॥
आभ्यां पञ्चम्यां भ्यसो ऽत्स्यात्। युष्मत्। अस्मत्॥

तवममौ ङसि॥ लसक_३२८ = पा_७,२.९६॥
अनयोर्मपर्यन्तस्य तवममौ स्तो ङसि॥

युष्मदस्मद्भ्यां ङसो ऽश्॥ लसक_३२९ = पा_७,१.२७॥
तव। मम। युवयोः। आवयोः॥

साम आकम्॥ लसक_३३० = पा_७,१.३३॥
आभ्यां परस्य साम आकं स्यात्। युष्माकम्। अस्माकम्। त्वयि। मयि। युवयोः। आवयोः। युष्मासु। अस्मासु॥
युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वांनावौ॥ लसक_३३१ = पा_८,१.२०॥
पदात्परयोरपादादौ स्थितयोः षष्ठ्यादिविशिष्टयोर्वां नौ इत्यादेशौ स्तः॥

बहुवचनस्य वस्नसौ॥ लसक_३३२ = पा_८,१.२१॥
उक्तविधयोरनयोः षष्ठ्यादिबहुवचनान्तयोर्वस्नसौ स्तः॥

तेमयावेकवचनस्य॥ लसक_३३३ = पा_८,१.२२॥
उक्तविधयोरनयोष्षष्ठीचतुर्थ्येकवचनान्तयोस्ते मे एतौ स्तः॥

त्वामौ द्वितीयायाः॥ लसक_३३४ = पा_८,१.२३॥
द्वितीयैकवचनान्तयोस्त्वा मा इत्यादेशौ स्तः॥
श्रीशस्तवावतु मापीह दत्तात्ते मे ऽपि शर्म सः। स्वामी ते मे ऽपि स हरिः पातु वामपि नौ विभुः॥
सुखं वां नौ ददात्वीशः पतिर्वामपि नौ हरिः। सो ऽव्याद्वो नः शिवं वो नो दद्यात् सेव्यो ऽत्र वः स नः॥
(एकवाक्ये युष्मदस्मदादेशा वक्तव्याः)। एकतिङ् वाक्यम्। ओदनं पच तव भविष्यति। (एते वान्नावादयो ऽनन्वादेशे वा वक्तव्याः)। अन्वादेशे तु नित्यं स्युः। धाता ते भक्तो ऽस्ति, धाता तव भक्तो ऽस्ति वा। तस्मै ते नम इत्येव॥ सुपात्, सुपाद्॥ सुपदौ॥

पादः पत्॥ लसक_३३५ = पा_६,४.१३०॥
पाच्छब्दान्तं यदङ्गं भं तदवयवस्य पाच्छब्दस्य पदादेशः॥ सुपदः। सुपदा। सुपाद्भ्याम्॥ अग्निमत्, अग्निमद्। अग्निमथौ। अग्निमथः॥

अनिदितां हल उपधायाः क्ङिति॥ लसक_३३६ = पा_६,४.२४॥
हलन्तानामनिदितामङ्गानामुपधाया नस्य लोपः किति ङिति। नुम्। संयोगान्तस्य लोपः। नस्य कुत्वेन ङः। प्राङ्। प्राञ्चौ। प्राञ्चः॥

अचः॥ लसक_३३७ = पा_६,४.१३८॥
लुप्तनकारस्याञ्चतेर्भस्याकारस्य लोपः॥

चौ॥ लसक_३३८ = पा_६,३.१३८॥
लुप्ताकारनकारे ऽञ्चतौ परे पूर्वस्याणो दीर्गः। प्राचः। प्राचा। प्राग्भ्याम्॥ प्रत्यङ्। प्रत्यञ्चौ। प्रतीचः। प्रत्यग्भ्याम्॥ उदङ्। उदञ्चौ॥

उद ईत्॥ लसक_३३९ = पा_६,४.१३९॥
उच्छब्दात्परस्य लुप्तनकारस्याञ्चतेर्भस्याकारस्य ईत्। उदीचः। उदीचा। उदग्भ्याम्। ,

समः समि॥ लसक_३४० = पा_६,३.९३॥
वप्रत्ययान्ते ऽञ्चतौ। सम्यङ्। सम्यञ्चौ। समीचः। सम्यग्भ्याम्॥ ,

सहस्य सध्रिः॥ लसक_३४१ = पा_६,३.९५॥
तथा। सध्र्यङ्॥ ,

तिरसस्तिर्यलोपे॥ लसक_३४२ = पा_६,३.९४॥
अलुप्ताकारे ऽञ्चतौ वप्रत्ययान्ते तिरसस्तिर्यादेशः। तिर्यङ्। तिर्यञ्चौ। तिरश्चः। तिर्यग्भ्याम्॥ ,

नाञ्चेः पूजायाम्॥ लसक_३४३ = पा_६,४.३०॥
पूजार्थस्याञ्चतेरुपधाया नस्य लोपो न। प्राङ्। प्राञ्चौ। नलोपाभावादलोपो न। प्राञ्चः। प्राङ्भ्याम्। प्राङ्क्षु॥ एवं पूजार्थे प्रत्यङ्ङादयः॥ क्रुङ्। क्रुञ्चौ। क्रुङ्भ्याम्॥ पयोमुक्, पयोमुग्। पयोमुचौ। पयोमुग्भ्याम्॥ उगित्त्वान्नुमि - ,

सान्तमहतः संयोगस्य॥ लसक_३४४ = पा_६,४.१०॥
सान्तसंयोगस्य महतश्च यो नकारस्तस्योपधाया दीर्घो ऽसम्बुद्धौ सर्वनामस्थाने। महान्। महान्तौ। महान्तः। हे महन्। महद्भ्याम्॥ ,

अत्वसन्तस्य चाधातोः॥ लसक_३४५ = पा_६,४.१४॥
अत्वन्तस्योपधाया दीर्घो धातुभिन्नासन्तस्य चासम्बुद्धौ सौ परे। उगित्तवान्नुम्। धीमान्। धीमन्तौ। धीमन्तः। हे धीमन् शसादौ महद्वत्॥ भातेर्डवतुः। डित्त्वसामर्थ्यादभस्यापि टेर्लोपः। भवान्। भवान्तौ। भवन्तः। शत्रन्तस्य भवन्॥ ,

उभे अभ्यस्तम्॥ लसक_३४६ = पा_६,१.५॥
षाष्ठद्वित्वप्रकरणे ये द्वे विहिते ते उभे समुदिते अभ्यस्तसंज्ञे स्तः॥ ,

नाभ्यस्ताच्छतुः॥ लसक_३४७ = पा_७,१.७८॥
अभ्यस्तात्परस्य शतुर्नुम् न। ददत्, ददद्। ददतौ। ददतः॥ ,

जक्षित्यादयः षट्॥ लसक_३४८ = पा_६,१.६॥
षड्धातवो ऽन्ये जक्षितिश्च सप्तम एते अभ्यस्तसंज्ञाः स्युः। जक्षत्, जक्षद्। जक्षतौ। जक्षतः॥ एवं जाग्रत्। दरिद्रत्। शासत्। चकासत्॥ गुप्, गुब्। गुपौ। गुपः। गुब्भ्याम्॥ ,

त्यदादिषु दृशो ऽनालोचने कञ्च॥ लसक_३४९ = पा_३,२.६०॥
त्यदादिषूपपदेष्वज्ञानार्थाद्दृशेः कञ् स्यात्। चात् क्विन्॥ ,

आ सर्वनाम्नः॥ लसक_३५० = पा_६,३.९१॥
सर्वनाम्न आकारो ऽन्तादेशः स्याद्दृग्दृशवतुषु। तादृक्, तादृग्। तादृशौ। तादृशः। तादृग्भ्याम्॥ व्रश्चेति षः। जश्त्वचर्त्वे। विट्, विड्। विशौ। विशः। विड्भ्याम्॥ ,

नशेर्वा॥ लसक_३५१ = पा_८,२.६३॥
नशेः कवर्गो ऽन्तादेशो वा पदान्ते। नक्, नग्॑ नट्, नड्। नशौ। नशः। नग्भ्याम्, नड्भ्याम्॥ ,

स्पृशो ऽनुदके क्विन्॥ लसक_३५२ = पा_३,२.५८॥
अनुदके सुप्युपपदे स्पृशेः क्विन्। घृतस्पृक्, घृतस्पृग्। घृतस्पृशौ। घृतस्पृशः॥ दधृक्, दधृग्। दधृषौ। दधृग्भ्याम्॥ रत्नमुषौ। रत्नमुड्भ्याम्॥ षट्, षड्। षड्भिः। षङ्भ्यः। षण्णाम्। षट्सु॥ रुत्वं प्रति षत्वस्यासिद्धत्वससजुषो रुरिति रुत्वर्म्॥ ,

वोरुपधाया दीर्घ इकः॥ लसक_३५३ = पा_८,२.७६॥
रेफवान्तयोर्धात्वोरुपधाया इको दीर्घः पदान्ते। पिपठीः। पिपठिषौ। पिपठीर्भ्याम्॥ ,

नुम्विसर्जनीयशर्व्यवाये ऽपि॥ लसक_३५४ = पा_८,३.५८॥
एतैः प्रत्येकं व्यवधाने ऽपि इण्कुभ्यां परस्य सस्य मूर्धन्यादेशः। ष्टुत्वेन पूर्वस्य षः। पिपठीष्षु, पिपठीःषु॥ चिकीः। चिकीर्षौ। चिकीर्भ्याम्। चिकीर्षु॥ विद्वान्। विद्वांसौ। हे विद्वन्॥ ,

वसोः सम्प्रसारणम्॥ लसक_३५५ = पा_६,४.१३१॥
वस्वन्तस्य भस्य सम्प्रसारणं स्यात्। विदुषः। वसुस्रंस्विति दः। विद्वद्भ्याम्॥

पुंसो ऽसुङ्॥ लसक_३५६ = पा_७,१.८९॥
सर्वनामस्थाने विवक्षिते पुंसो ऽसुङ् स्यात्। पुमान्। हे पुमन्। पुमांसौ। पुंसः। पुम्भ्याम्। पुंसु॥ ऋदुशनेत्यनङ्। उशना। उशनसौ। (अस्य संबुद्धौ वानङ्, नलोपश्च वा वाच्यः)। हे उशन, हेउशनन्, हेउशनः। हे उशनसौ। उशनोभ्याम्। उशनस्सु॥ अनेहा। अनेहसौ। हे अनेहः॥ वेधाः। वेधसौ। हे वेधः। वेधोभ्याम्॥

अदस औ सुलोपश्च॥ लसक_३५७ = पा_७,२.१०७॥
अदस औकारो ऽन्तादेशः स्यात्सौ परे सुलोपश्च। तदोरिति सः। असौ। त्यदाद्यत्वम्। वृद्धिः॥

अदसो ऽसेर्दादु दो मः॥ लसक_३५८ = पा_८,२.८०॥
अदसो ऽसान्तस्य दात्परस्य उदूतौ स्तो दस्य मश्च। आन्तरतम्याद्ध्स्वस्य उः, दीर्घस्य ऊः। अमू। जसः शी। गुणः॥

एत ईद्बहुवचने॥ लसक_३५९ = पा_८,२.८१॥
अदसो दात्परस्यैत ईद्दस्य च मो बह्वर्थोक्तौ। अमी। पूर्वत्रासिद्धमिति विभक्तिकार्यं प्राक् पश्चादुत्वमत्वे। अमुम्। अमू। अमून्। मुत्वे कृते घिसंज्ञायां नाभावः॥

न मु ने॥ लसक_३६० = पा_८,२.३॥
नाभावे कर्तव्ये कृते च मुभावो नासिद्धः। अमुना। अमूभ्याम् ३। अमीभिः। अमुष्मै। अमीभ्यः २। अमुष्मात्। अमुष्य। अमुयोः २। अमीषाम्। अमुष्मिन्। अमीषु॥

इति हलन्त पुंल्लिङ्गाः॥

  1. संज्ञाप्रकरणम्
  2. अच्सन्धिप्रकरणम्
  3. हल्सन्धिप्रकरणम्
  4. विसर्गसन्धिप्रकरणम्
  5. अजन्तपुंलिङ्गप्रकरणम्
  6. अजन्तस्त्रीलिङ्गप्रकरणम्
  7. अजन्तनपुंसकलिङ्गप्रकरणम्
  8. हलन्तपुंलिङ्गप्रकरणम्
  9. हलन्तस्त्रीलिङ्गप्रकरणम्
  10. हलन्तनपुंसकलिङ्गप्रकरणम्
  11. अव्ययप्रकरणम्
  12. भ्वादिप्रकरणम्
  13. अदादिप्रकरणम्
  14. जुहोत्यादिप्रकरणम्
  15. दिवादिप्रकरणम्
  16. स्वादिप्रकरणम्
  17. तुदादिप्रकरणम्
  18. रुधादिप्रकरणम्
  19. तनादिप्रकरणम्
  20. क्र्यादिप्रकरणम्
  21. चुरादिप्रकरणम्
  22. ण्यन्तप्रक्रिया
  23. सन्नन्तप्रक्रिया
  24. यङन्तप्रक्रिया
  25. यङ्लुगन्तप्रक्रिया
  26. नामधातवः
  27. कण्ड्वादिः
  28. आत्मनेपदप्रकिया
  29. परस्मैपदप्रकिया
  30. भावकर्मप्रकिया
  31. कर्मकर्तृप्रकिया
  32. लकारार्थप्रकिया
  33. कृत्यप्रक्रिया
  34. पूर्वकृदन्तप्रकरणम्
  35. उणादिप्रकरणम्
  36. उत्तरकृदन्तप्रकरणम्
  37. विभक्त्यर्थाः (कारकप्रकरणम्)
  38. केवलसमासः
  39. अव्ययीभावसमासः
  40. तत्पुरुषसमासः
  41. बहुव्रीहिसमासः
  42. द्वन्द्वसमासः
  43. समासान्तप्रकरणम्
  44. तद्धिते साधारणप्रत्ययप्रकरणम्
  45. अपत्याधिकारप्रकरणम्
  46. रक्ताद्यर्थकप्रकरणम्
  47. चातुरार्थिकप्रकरणम्
  48. शैषिकप्रकरणम्
  49. विकारार्थप्रकरणम्
  50. ठगधिकारप्रकरणम्
  51. प्राग्घितीयप्रकरणम्
  52. छयतोरधिकारप्रकरणम्
  53. ठञधिकारप्रकरणम्
  54. त्वतलाधिकारप्रकरणम्
  55. भवनाद्यर्थकप्रकरणम्
  56. मत्वर्थीयप्रकरणम्
  57. प्राग्दिशीयप्रकरणम्
  58. प्रागिवीयप्रकरणम्
  59. स्वार्थिकप्रकरणम्
  60. स्त्रीप्रत्ययप्रकरणम्