अग्निपुराणम्
















माहेश्वरस्नानलक्षकोटिहोमादयः

सम्पाद्यताम्

पुष्कर उवाच
स्नानं माहेश्रं वक्ष्ये राजादेर्जयवर्द्धनम् ।
दानवेन्द्राय बलये यज्जगादोशनाः पुरा ।। २६७.१ ।।

बास्करेऽनुदिते पीठे प्रातः संस्नापयेद्‌ घटैः ।
ॐ नमो भगवते रुद्राय च बलाय च पाण्डरोचितभस्मानुलिप्तगायाय ।
तद्यथा जय जय सर्वान् शत्रून् मूकय कलहविग्रहविवादेषु भञ्जय ।
ॐ मथ मथ सर्व्वपथिकान् योसौ युगान्तकाले दिधक्षति इमां पूजां रौद्रमूर्त्तिः सहस्त्रांशुः

शुक्लः स ते रक्षतु जीवतं ।
सम्बर्त्तकाग्नितुल्यश्च त्रिपुरान्तकरः शिवः ।
सर्वदेवमयः सोपि तव रक्षतु जीवितं लिखि लिखि खिलि स्वाहा ।।
एवं स्नातस्तु मन्त्रेण जुहुयात्तिलतण्ड्डलम् ।। २६७.२ ।।

पञ्चामृतैस्तु संस्नाप्य पूजयेच्छूलपाणिनं ।
स्नानान्यन्यानि वक्ष्यामि सर्वदा विजयाय ते ।। २६७.३ ।।

स्नानं घृतेन कथितमायुष्यवर्द्धनं परम् ।
गोमयेन च लक्ष्मीः स्याद् गोमूत्रेणाघमर्द्दनम् ।। २६७.४ ।।

क्षीरेण बलबुद्धिः स्याद्दध्ना लक्षअमीविवर्द्धनं ।
कुशोदकेन पापान्तः वञ्चगव्येन सर्वभाक् ।। २६७.५ ।।

शतमूलेन सर्वाप्तिर्गोश्रृङ्गोदकतोऽर्घजित् ।
पलाशविल्वकमलकुशस्नानन्तु सर्व्वदं ।। २६७.६ ।।

वचा हरिद्रे द्वे मुस्तं स्नानं रक्षोहणं परं ।
आयुष्यञ्च यशस्यञ्च धर्म्ममेधाविवर्द्धनम् ।। २६८.७ ।।

हैमाद्भिश्चैव माङ्गल्यं रूप्यताम्रोदकैस्तथा ।
रत्नोदकैस्तु विज्यः सौभाग्यञ्च प्रियङ्गुणा ।। २६८.८ ।।

फलाद्बिश्च तथारोग्यं धात्र्यद्भिः परमां श्रियम् ।
तिलसिद्धार्थकैर्ल्लक्ष्मीः सौभाग्यञ्च प्रियङ्गुणा ।। २६८.९ ।।

पद्मोत्पलकदम्बैश्च श्रीर्बलं बलाद्रुमोदकैः ।
विष्णुपादोदकस्नानं सर्वस्नानेभ्य उत्तमम् ।। २६८.१० ।।

एकाकी एककामायेत्येकोर्कं१ विधिवच्चरेत् ।
अक्रन्दयति सूक्तेन प्रबध्नीयान्मणिं करे ।। २६८.११ ।।

कुष्ठपाठा वचा शुण्ठी शङ्खलोहादिको मणिः ।
सर्व्वेषामेव कामानामीश्वरो भगवान् हरिः ।। २६८.१२ ।।

तस्य संपूजनादेव सर्व्वान्कामान्समश्नुते ।
स्नापयित्वा घृतक्षीरैः पूजयित्वा च पित्तहा ।। २६८.१३ ।।

पञ्चमुद्‌गबलिन्दत्वा अतिसारात् प्रमुच्यते ।
पञ्चगव्येन संस्नाप्य वातव्याधिं विनाशयेत् ।। २६८.१४ ।।

द्विस्रेहस्नपनात् श्लेष्मरोगहा चातिपूजया ।
घृतं तैलं तथा क्षौद्रं स्नानन्तु त्रिरसं परं ।। २६८.१५ ।।

स्नानं घृताम्बु द्विस्नेहं समलं घृततैलकम् ।
क्षौद्रमिक्षुरसं क्षीरं स्नानं त्रिमधुरं स्मृतम् ।। २६८.१६ ।।

घृतमिक्षुरसं तैलं क्षौद्रञ्च त्रिरसं श्रिये ।
अनुलेपस्त्रिशुक्लस्तु कर्पूरोशीरचन्दनैः ।। २६८.१७ ।।

चन्दनागुरुकर्पूरमृगदर्पैः सकुङ्कुमैः ।
पञ्चानुलेपनं विष्णोः सर्वकामफलप्रदं ।। २६८.१८ ।।

त्रिसुगन्धञअच कर्पूरं तथा चन्दनकुङ्कुमैः ।
मृगदर्पं सकर्पूरं मलयं सर्व्वकामदम् ।। २६८.१९ ।।

जातीफलं सकर्पूरं चन्दनञ्च त्रिशीतकम् ।
पीतानि शुक्लवर्णानि तथा शुक्लानि भार्गव ।। २६८.२० ।।

कृष्णानि चैव रक्तानि पञ्चवर्णानि निर्द्दिशेत् ।
उत्पलं पद्मजाती च त्रिशीतं हरिपूजने ।। २६८.२१ ।।

कुङ्कुमं रक्तपद्मानि त्रिरक्तं रक्तमुत्पलं ।
धूपदीपादिभिः प्रार्च्य विष्णुं शान्तिर्भवेन्नृणां ।। २६८.२२ ।।

चतुरस्रकरे कुण्डे ब्राह्मणाश्चाष्ट षोडस ।
लक्षहोमङ्कोटिहोमन्तिलाज्ययवधान्यकैः ।। २६८.२३ ।।

ग्रहानभ्यर्च्य गायत्र्या सर्व्वशान्तिः क्रमाद्भवेत् ।

इत्यादिमहापुराणो आग्नेये माहेश्वरस्नानलक्षकोटिहोमादयो नाम सप्तषष्ट्यधिकद्विशततमोऽध्यायः ।