← सूक्तं १३.०३ अथर्ववेदः - काण्डं १३
सूक्तं १३.४
ब्रह्मा
सूक्तं १३.०५ →
दे. अध्यात्मम्, रोहितादित्यदैवत्यम्। त्रिष्टुप् (षट् पर्यायाः)। - - - - -- -

१३.४
स एति सविता स्वर्दिवस्पृष्ठेऽवचाकशत्॥१॥
रश्मिभिर्नभ आभृतं महेन्द्र एत्यावृतः ॥२॥
स धाता स विधर्ता स वायुर्नभ उच्छ्रितम् ॥३॥
सोऽर्यमा स वरुणः स रुद्रः स महादेवः ॥४॥
सो अग्निः स उ सूर्यः स उ एव महायमः ॥५॥
तं वत्सा उप तिष्ठन्त्येकशीर्षाणो युता दश ॥६॥
पश्चात्प्राञ्च आ तन्वन्ति यदुदेति वि भासति ॥७॥
तस्यैष मारुतो गणः स एति शिक्याकृतः ॥८॥
रश्मिभिर्नभ आभृतं महेन्द्र एत्यावृतः ॥९॥
तस्येमे नव कोशा विष्टम्भा नवधा हिताः ॥१०॥
स प्रजाभ्यो वि पश्यति यच्च प्राणति यच्च न ॥११॥
तमिदं निगतं सहः स एष एक एकवृदेक एव ॥१२॥
एते अस्मिन् देवा एकवृतो भवन्ति ॥१३॥ {१५}

इति चतुर्थेऽनुवाके प्रथमं पर्यायसूक्तम्।