अद्वैतसिद्धिः/प्रथमपरिच्छेदः भागः १

अद्वैतसिद्धिः
मधुसूदनसरस्वती
प्रथमपरिच्छेदः भागः २ →

 

[1-1-1]           प्रथम: परिच्छेदः

[ 1-1-1]

 

[1-1-2]           2.विप्रतिपत्तिविचारः

 

श्रीमधुसूदनसरस्वतीविरचिता

 अद्वैतसिद्धिः

मायाकल्पितमातृतामुखमृषाद्वैतप्रपञ्चाश्रयः

सत्यज्ञानसुखात्मकः श्रुतिशिखोत्थाखण्डधीगोचरः।

मिथ्याबन्धविधूननेन परमानन्दैकतानात्मकं

मोक्षं प्राप्त इव स्वयं विजयते विष्णुर्विकल्पोज्झितः।।1।।

श्रीरामविश्वेश्वरमाधवानामैक्येन साक्षात्कृतमाधवानाम्।

स्पर्शेन निर्धूततमोरजोभ्यः पादोत्थितेभ्योऽस्तु नमो रजोभ्यः।।2।।

बहुभिर्विहिता बुधैः परार्थं विजयन्तेऽमितविस्तृता निबन्धाः।

मम तु श्रम एष नूनमात्मम्भरितां भावयितुं भविष्यतीह।।3।।

श्रद्धाधनेन मुनिना मधुसूदनेन सङ्गृह्य शास्त्रनिचयं रचितातियत्नात्।

बोधाय वादिविजयाय च सत्वराणामद्वैतसिद्धिरियमस्तु मुदे बुधानाम्।।4।।

 

      विप्रतिपत्तिविचारः

 

तत्राद्वैतसिद्धेर्द्वैतमिथ्यात्वसिद्धिपूर्वकत्वाद् द्वैतमिथ्यात्वमेव प्रथममुपपादनीयम्। उपपादनं च स्वपक्षसाधनपरपक्षनिराकरणाभ्यां भवतीति तदुभयं वादजल्पवितण्डानामन्यतमां कथामाश्रित्य सम्पादनीयम्। तत्र च विप्रतिपत्तिजन्यसंशयस्य विचाराङ्गत्वान्मध्यस्थेनादौ विप्रतिपत्तिः प्रदर्शनीया। यद्यपि विप्रतिपत्तिजन्यसंशयस्य न पक्षतासम्पादकतयोपयोगः, सिषाधयिषाविरहसहकृतसाधकमानाभावरूपायास्तस्याः संशयाघटितत्वात्। अन्यथा श्रुत्याऽऽत्मनिश्चयवतोऽनुमित्सया तदनुमानं न स्यात्। वाद्यादीनां निश्चयवत्त्वेन संशयासम्भवा दाहार्यसंशयस्यातिप्रसञ्जकत्वाच्च। नापि विप्रतिपत्तेः स्वरूपत एव पक्षप्रतिपक्षपरिग्रह फलकतयोपयोगः। `त्वयेदं साधनीयम्' `अनेनेदं दूषणीयम्' इत्यादिमध्यस्थवाक्यादेव तल्लाभेन विप्रतिपत्तिवैयर्थ्यात्। तथापि विप्रतिप्रत्तिजन्यसंशयस्यानुमित्यनङ्गत्वेऽपि व्युदसनीयतया विचाराङ्गत्वमस्त्येव। तादृशसंशयं प्रति विप्रतिपत्तेः क्वचिन्निश्चयादिना प्रतिबन्धादजनकत्वेऽपि स्वरूपयोग्यत्वात्। वाद्यादीनां च निश्चयवत्त्वे नियमाभावात्। `निश्चितौ हि वादं कुरुतः' इत्याभिमानिकनिश्चयाभिप्रायम्। परपक्षमालम्ब्याप्यहङ्कारिणो विपरीतनिश्चयवतो जल्पादौ प्रवृत्तिदर्शनात्। तस्मात् समयबन्धादिवत् स्वकर्तव्यनिर्वाहाय मध्यस्थेन विप्रतिपत्तिः प्रदर्शनीयैव।

 

      तत्र मिथ्यात्वे विप्रतिपत्तिः- ब्रह्मप्रमातिरिक्ताबाध्यत्वे सति सत्त्वेन प्रतीत्यर्हं चिद्भिन्नं प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगि न वा ? पारमार्थिकत्वाकारेणोक्त निषेधप्रतियोगि न वेति। अत्र च पक्षतावच्छेदकसामानाधिकरण्येन साध्यसिद्धेरुद्देश्यत्वात् पक्षैकदेशे साध्यसिद्धावपि सिद्धसाधनतेति मते शुक्तिरूप्ये सिद्धसाधनवारणाय ब्रह्मज्ञानेतराबाध्यत्वं पक्षविशेषणम्। यदि पुनः पक्षतावच्छेदकावच्छेदेनैव साध्यसिद्धिरुद्देश्या तदैकदेशे साध्यसिद्धावपि सिद्धसाधनाभावात् तद्वारकं विशेषणमनुपादेयम्। इतरविशेषणद्वयं तु तुच्छे ब्रह्मणि च बाधवारणायादरणीयमेव। प्रत्येकं वा विप्रतिपत्तिः - वियन्मिथ्या न वा ? पृथिवी मिथ्या न वेति। एवं वियदादेः प्रत्येकं पक्षत्वेऽपि न घटादौ सन्दिग्धानैकान्तिकता। पक्षसमत्वाद् घटादेः। तथा हि - पक्षे साध्याभावसन्देहस्यानुगुणत्वात् पक्षभिन्न एव तस्य दूषणत्वं वाच्यम्। अत एवोक्तं `साध्याभावनिश्चयवति हेतुसन्देहे एव सन्दिग्धानैकान्तिकते' ति। पक्षत्वं तु साध्यसन्देहवत्त्वम्। साध्यगोचरसाधकमानाभाववत्त्वं वा। एतच्च घटादिसाधारणम्। अत एव तत्रापि सन्दिग्धानैकान्तिकत्वं न दोषः। पक्षसमत्वोक्तिस्तु प्रतिज्ञाविषयत्वाभावमात्रेण। न च तर्हि प्रतिज्ञाविषयत्वमेव पक्षत्वम्। स्वार्थानुमाने तदभावात्।

[ 1-1-2]

 

[1-1-3]           3.मिथ्यात्वे परोक्तानुमानानि

    

      एवं विप्रतिपत्तौ प्राचां प्रयोगाः - विमतं मिथ्या दृश्यत्वात्, जडत्वात्, परिच्छिन्नत्वात्, शुक्तिरूप्यवदिति। नावयवेष्वाग्रहः। अत्र स्वनियामकनियतया विप्रतिपत्त्या लघुभूतया पक्षतावच्छेदो न विरुद्धः। समयबन्धादिना व्यवधानात्। तस्य अनुमानकालासत्त्वेऽपि उपलक्षणतया पक्षतावच्छेदकत्वम्।

 

      यद्वा विप्रतिपत्तिविषयतावच्छेदकमेव पक्षतावच्छेदकम्। प्राचां प्रयोगेष्वपि विमतमिति पदं विप्रतिपत्तिविषयतावच्छेदकावच्छिन्नाभिप्रायेणेत्यदोषः।               

[ 1-1-3]

 

[1-1-4]           4.मिथ्यात्वनिर्वचनम्

[ 1-1-4]

 

[1-1-5]           5.दृश्यत्वस्वरूपविचारः

[ 1-1-5]

 

[1-1-6]           6.मिथ्यात्वे परोक्तश्रुतिः

[ 1-1-6]

 

[1-1-7]           7.प्रथममिथ्यात्वभङ्गः

 

      ननु किमिदं मिथ्यात्वं साध्यते ? न तावत् `मिथ्याशब्दोऽनिर्वचनीयतावचनः' इति पञ्चपादिकावचनात् सदसत्त्वानधिकरणत्वरूपमनिर्वाच्यत्वम्। तद्धि किम् असत्त्वविशिष्ट सत्त्वाभावः ? उत सत्त्वात्यन्ताभावासत्त्वात्यन्ताभावरूपं धर्मद्वयम् ? आहोस्वित् सत्त्वात्य न्ताभाववत्त्वे सति असत्त्वात्यन्ताभावरूपं विशिष्टम् ? नाद्यः। सत्त्व:wमात्राधारे जगत्यसत्त्वविशिष्टसत्त्वानभ्युपगमात्। विशिष्टाभावसाधने सिद्धसाधनात्। न द्वितीयः। सत्त्वासत्त्वयोरेकाभावे अपरसत्त्वावश्यकत्वेन व्याघातात्। निर्धर्मकब्रह्मवत्सत्त्वराहित्येऽपि सद्रूपत्वेन अमिथ्यात्वोपपत्त्या अर्थान्तराच्च। शुक्तिरूप्ये अबाध्यत्वरूपसत्त्वव्यतिरेकस्य सत्त्वेन बाध्यत्वरूपासत्त्वस्य व्यतिरेकासिद्ध्या साध्यवैकल्याच्च। अत एव न तृतीयः। पूर्ववद् व्याघातात्, अर्थान्तरात्साध्यवैकल्याच्चेति चेत्, मैवम्। सत्त्वात्यन्ताभावासत्त्वात्यन्ताभावरूप धर्मद्वयविवक्षायां दोषाभावात्। न च व्याहतिः। सा हि सत्त्वासत्त्वयोः परस्परविरहरूपतया वा ? परस्परविरहव्यापकतया वा ? परस्परविरहव्याप्यतया वा ? तत्र नाद्यः। तदनङ्गीकारात्। तथा ह्यत्र त्रिकालाबाध्यत्वरूपसत्त्वव्यतिरेको नासत्त्वम्। किं तु क्वचिदप्युपाधौ सत्त्वेन प्रतीयमानत्वानधिकरणत्वम्। तद्व्यतिरेकश्च साध्यत्वेन विवक्षितः। तथा च त्रिकालाबाध्यविलक्षणत्वे सति क्वचिदप्युपाधौ सत्त्वेन प्रतीयमानत्वरूपं साध्यं पर्यवसितम्। एवं च सति न शुक्तिरूप्ये साध्यवैकल्यमपि। बाध्यत्वरूपासत्त्वव्यतिरेकस्य साध्याप्रवेशात्। नापि व्याघातः, परस्परविरहरूपत्वाभावात्। अत एव न द्वितीयोऽपि। सत्त्वाभाववति शुक्तिरूप्ये विवक्षितासत्त्वव्यतिरेकस्य विद्यमानत्वेन व्यभिचारात्। नापि तृतीयः। तस्य व्याघाताप्रयोजकत्वात्। गोत्वाश्वत्वयोः परस्परविरहव्याप्यत्वेऽपि तदभावयोरुष्ट्रादावेकत्र सहोपलम्भाद्। यच्च निर्धर्मकस्य ब्रह्मणः सत्त्वराहित्येऽपि सद्रूपवत्प्रपञ्चस्य सद्रूपत्वेनामिथ्यात्वोपपत्त्या अर्थान्तरमुक्तम् तन्न। एकेनैव सर्वानुगतेन सर्वत्र सत्प्रतीत्युपपत्तौ ब्रह्मवत् प्रत्येकं प्रप़ञ्चस्य सत्स्वभावताकल्पने मानाभावात्। अनुगतव्यवहाराभावप्रसङ्गाच्च। सत्प्रतियोगिकासत्प्रतियोगिकभेदद्वयं वा साध्यम्। तथा चोभयात्मकत्वेऽन्यतरात्मकत्वे वा तादृग्भेदासम्भवेन ताभ्यामर्थान्तरानवकाशः।

 

      न च असत्त्वव्यतिरेकांशस्यासद्भेदस्य च प्रपञ्चे सिद्धत्वेनांशतः सिद्धसाधनमिति वाच्यम्। `गुणादिकं गुण्यादिना भिन्नाभिन्नं समानाधिकृतत्वात्' इति भेदाभेदवादिप्रयोगे तार्किकाद्यङ्गीकृतस्य भिन्नत्वस्य सिद्धावपि उद्देश्यप्रतीत्यसिद्धेर्यथा न सिद्धसाधनम् तथा प्रकृतेऽपि मिलितप्रतीतेरुद्देश्यत्वान्न सिद्धसाधनम्। यथा तत्त्वाभेदे घटः कुम्भ इति सामानाधिकरण्यप्रतीतेरदर्शनेन मिलितसिद्धिरुद्देश्या तथा प्रकृतेऽपि सत्त्वरहिते तुच्छे दृश्यत्वादर्शनेन मिलितस्य तत्प्रयोजकतया मिलितसिद्धिरुद्देश्येति समानम्।

 

      अत एव सत्त्वात्यन्ताभाववत्त्वे सत्यसत्त्वात्यन्ताभावरूपं विशिष्टं साध्यमित्यपि साधु। न च मिलितस्य विशिष्टस्य वा साध्यत्वे तस्य कुत्राप्यप्रसिद्ध्या अप्रसिद्धविशेषणत्वम्। प्रत्येकं प्रसिद्ध्या मिलितस्य विशिष्टस्य वा साधने शशश्रृङ्गयोः प्रत्येकं प्रसिद्ध्या शशीयश्रृङ्गसाधनमपि स्यादिति वाच्यम्। तथाविधप्रसिद्धेः शुक्तिरूप्य एवोक्तत्वात्। न च निर्धर्मकत्वाद् ब्रह्मणः सत्त्वासत्त्वरूपधर्मद्वयशून्यत्वेन तत्रातिव्याप्तिः। सद्रूपत्वेन ब्रह्मणः तदत्यन्ताभावानधिकरणत्वात्। निर्धर्मकत्वेनैवाभावरूपधर्मानधिकरणत्वाच्चेति दिक्। इति सदसद्विलक्षणत्वरूपमिथ्यात्वविचारः।।1।।

[ 1-1-7]

 

[1-1-8]           8.द्वितीयमिथ्यात्वभङ्गः

 

      प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वं वा मिथ्यात्वम्। ननु प्रतिपन्नोपाधौ त्रैकालिकनिषेधस्य तात्त्विकत्वे अद्वैतहानिः, प्रतिभासिकत्वे सिद्धसाधनम्, व्यावहारिकत्वेऽपि तस्य बाध्यत्वेन तात्त्विकसत्त्वाविरोधितया अर्थान्तरम्, अद्वैतश्रुतेरतत्त्वावेदकत्वं च, तत्प्रतियोगिनोऽप्रातिभासिकस्य प्रपञ्चस्य पारमार्थिकत्वं च स्यादिति चेन्न। प्रपञ्चनिषेधाधिकरणीभूतब्रह्माभिन्नत्वान्निषेधस्य तात्त्विकत्वेऽपि नाद्वैतहानिकरत्वम्। न च तात्विकाभावप्रतियोगिनः प्रपञ्चस्य तात्त्विकत्वापत्तिः। तात्त्विकाभावप्रतियोगिनि शुक्तिरजतादौ कल्पिते व्यभिचारात्। अतात्त्विक एव वा निषेधोऽयम्। अतात्त्विकत्वेऽपि न प्रातिभासिकः, किं तु व्यावहारिकः। न च तर्हि निषेधस्य बाध्यत्वेन तात्त्विकसत्त्वाविरोधित्वादर्थान्तरमिति वाच्यम्। स्वाप्नार्थस्य स्वाप्यनिषेधेन बाधदर्शनात्। निषेधस्य बाध्यत्वं पारमार्थिकसत्त्वाविरोधित्वे न तन्त्रम्। किं तु निषेध्यापेक्षया न्यूनसत्ताकत्वम्। प्रकृते च तुल्यसत्ताकत्वात् कथं न विरोधित्वम् ? न च निषेधस्य निषेधे प्रतियोगिसत्त्वापत्तिरिति वाच्यम्। तत्र हि निषेधस्य निषेधे प्रतियोगिसत्त्वमायति यत्र निषेधस्य निषेधबुद्ध्या प्रतियोगिसत्त्वं व्यवस्थाप्यते। न निषेधमात्रं निषिध्यते। यथा रजते नेदं रजतमिति ज्ञानानन्तरम् इदं नारजतमिति ज्ञानेन रजतं व्यवस्थाप्यते। यत्र तु प्रतियोगिनिषेधयोरुभयोरपि निषेधस्तत्र न प्रतियोगिसत्त्वम्। यथा ध्वंससमये प्रागभावप्रतियोगिनोरुभयोर्निषेधः। एवंच प्रकृतेऽपि निषेधबाधकेन प्रतियोगिनः प्रपञ्चस्य तन्निषेधस्य च बाधनान्न निषेधस्य बाध्यत्वेऽपि प्रपञ्चस्य तात्त्विकत्वम्। उभयोरपि निषेध्यतावच्छेदकस्य दृश्यत्वादेस्तुल्यत्वात्। न चातात्त्विकनिषेधबोधकत्वे श्रुतेरप्रामाण्यापत्तिः। ब्रह्मभिन्नं प्रपञ्चनिषेधादिकम् अतात्विकमित्यतात्विकत्वेन बोधयन्त्याः श्रुतेरप्रामाण्यासम्भवात्।

 

      ननु तन्निषेधप्रतियोगित्वं किं स्वरूपेण, उतासद्विलक्षणस्वरूपानुपमर्देन पारमार्थिकत्वाकारेण वा। नाद्यः, श्रुत्यादिसिद्धोत्पत्तिकस्यार्थक्रियासमर्थस्याविद्योपादानकस्य तत्त्वज्ञाननाश्यस्य च वियदादे रूप्यादेश्च धीकालविद्यमानेन असद्विलक्षणस्वरूपेण त्रैकालिकनिषेधायोगात्। नापि द्वितीयः; अबाध्यत्वरूपपारमार्थिकत्वस्य बाध्यत्वरूप मिथ्यात्वनिरूप्यत्वेन अन्योन्याश्रयात्। पारमार्थिकत्वस्यापि स्वरूपेण निषेधे प्रथमपक्षोक्तदोषापत्तिः, अतस्तस्यापि पारमार्थिकत्वाकारेण निषेधे अनवस्था स्याद् इति चेन्मैवम्। स्वरूपेणैव त्रैकालिकनिषेधप्रतियोगित्वस्य प्रपञ्चे शुक्तिरूप्ये चाङ्गीकारात्। तथा हि- शुक्तौ रजतभ्रमनन्तरम् अधिष्ठानतत्त्वसाक्षात्कारे रूप्यं नास्ति नासीन्न भविष्यतीति स्वरूपेणेव, `नेह नाने ' ति श्रुत्या च प्रपञ्चस्य स्वरूपेणैव निषेधप्रतीतेः। न च तत्र लौकिकपरमार्थरजतमेव स्वरूपेण निषेधप्रतियोगीति वाच्यम्। भ्रमबाधयोर्वैयधिकरण्यापत्तेः, अप्रसक्तप्रतिषेधापत्तेश्च। न च तर्ह्युत्पत्त्याद्यसम्भवः। न ह्यनिषिद्धस्वरूपत्वमुत्पत्त्यादिमत्त्वे तन्त्रम्। परैरनिषेध्यरूपत्वेनाङ्गीकृतस्य वियदादेरुत्पत्त्याद्य नङ्गीकारात्। किन्तु वस्तुस्वभावादिकमन्यदेव किञ्चित् प्रयोजकं वक्तव्यम्। तस्य मयापि कल्पितस्य स्वीकारात्।

 

      न च त्रैकालिकनिषेधं प्रति स्वरूपेणापणस्थं रूप्यं पारमार्थिकत्वाकारेण प्रातिभासिकं वा प्रतियोगीति मतहानिः स्यादिति वाच्यम्। अस्याचार्यवचसः पारमार्थिक लौकिकरजततादात्म्येन प्रतीतं प्रातिभासिकमेव रजतं प्रतियोगीत्यर्थः। तच्च स्वरूपेण पारमार्थिकत्वेन वेत्यनास्थायां वाशब्दः। एतावदुक्तिश्च पुरोवर्तितादात्म्येनैव रजतं प्रतीयत इति मतनिरासार्थं, लौकिकपरमार्थरजततादात्म्येनापि प्रतीयत इति प्रतिपादयितुं च। तदुक्तं तत्त्वप्रदीपिकायाम् - `तस्माल्लौकिकपरमार्थरजतमेव नेदं रजतमिति निषेधप्रतियोगीति पूर्वाचार्याणां वाचोयुक्तिरपि पुरोवर्तिनि रजतार्थिनः प्रवृत्तिदर्शनात् लौकिक परमार्थरजतत्वेनापरोक्षतया प्रतीतस्य कालत्रयेऽपि लौकिकपरमार्थरजतमिदं न भवतीति निषेधप्रतियोगितामङ्गीकृत्य नेतव्ये ' ति। अयमाशयः- एकविभक्त्यन्तपदोपस्थापिते धर्मिणि, प्रतियोगिनि च नञोऽन्योन्याभावबोधकत्वनियमस्य व्युत्पत्तिबलसिद्धत्वाद् `घटः पटो न भवतीति' ति वाक्यवद् `इदं रजतं न भवती' ति वाक्यस्य अन्योऽन्याभावबोधकत्वे स्थिते अभिलापजन्यप्रतीतितुल्यत्वादभिलप्यमानप्रतीतेः `नेदं रजत' मिति वाक्याभिलाप्य प्रतीतेरन्योन्याभावविषयत्वमेव। तथा च इदंशब्दनिर्दिष्टे पुरोवर्तिप्रातीतिकरजते रजतशब्दनिर्दिष्ट व्यावहारिकरजतान्योन्याभावप्रतीतेरार्थिकं मिथ्यात्वम्। `नात्र रजत' मिति वाक्याभिलप्या तु प्रतीतिरत्यन्ताभावविषया। भिन्नविभक्त्यन्तपदोपस्थापितयोरेव धर्मिप्रतियोगिनोर्नञः संसर्गाभावबोधकत्वनियमात्। सा च पुरोवर्तिप्रतीतरजतस्यैव व्यावहारिकमत्यन्ताभावं विषयीकरोतीति कण्ठोक्तमेव मिथ्यात्वम्। अतो नापसिद्धान्तो नान्यथाख्यात्यापत्तिर्न वा ग्रन्थविरोध इत्यनवद्यम्।

 

      नन्वेवम् अत्यन्तासत्त्वापातः, प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वं ह्यन्यत्रासत्त्वेन सम्प्रतिपन्नस्य घटादेः सर्वत्र त्रैकालिकनिषेधप्रतियोगित्वं पर्यवसितम्। अन्यथा तेषामन्यत्र सत्त्वापातात्। न हि तेषामन्यत्र सत्ता सम्भवतीति त्वदुक्तेश्च। तथा च कथमसद्वैलक्षण्यम्, न हि शशश्रृङ्गादेरितोऽन्यदसत्त्वम्। न च निरुपाख्यत्वमेव तदसत्त्वम्; निरुपाख्यपदेनैव ख्यायमानत्वात्। नाप्यप्रतीयमानत्वमसत्त्वम्;असतोऽप्रतीतौ असद्वैलक्षण्यज्ञानस्य सत्प्रतीतिनिरासस्यासत्पदप्रयोगस्य चायोगात्। न चापरोक्षतया अप्रतीयमानत्वं तत्, नित्यातीन्द्रियेष्वतिव्याप्तेः इति चेन्मैवम्; सर्वत्र त्रैकालिकनिषेधप्रतियोगित्वं यद्यपि तुच्छानिर्वाच्ययोः साधारणम्। तथापि क्वचिदप्युपाधौ सत्त्वेन प्रतीत्यनर्हत्वमत्यन्तासत्त्वम्। तच्च शुक्तिरूप्ये प्रपञ्चे च बाधात् पूर्वं नास्त्येवेति न तुच्छत्वापत्तिः। न च बाधात् पूर्वं शुक्तिरूप्यं प्रपञ्चो वा सत्त्वेन न प्रतीयते। एतदेव सदर्थकेनोपाधिपदेन सूचितम्। शून्यवादिभिः सदधिष्ठानकभ्रमानङ्गीकारेण क्वचिदप्युपाधौ सत्त्वेन प्रतीत्यनर्हत्वरूपासद्वैलक्षण्यस्य (क्वचिदप्युपाधौ सत्त्वेन प्रतीत्यर्हत्वरूपस्य) शुक्तिरूप्ये प्रपञ्चे चानङ्गीकारात्।

 

      नन्वेवं सति यावत्सदधिकरणकात्यन्ताभावप्रतियोगित्वं पर्यवसितम्। तथा च केवलान्वय्यत्यन्ताभावप्रतियोगिषु गगनादिषु तार्किकाणां सिद्धसाधनम्। यदधिकरणं यत्सत् तन्निष्ठात्यन्ताभावप्रतियोगित्वं तस्य मिथ्यात्वमिति विवक्षयाम्, अधिकरण पदेनावृत्तिनिराकरणेऽपि संयोगसम्बन्धेन समवायसम्बन्धेन वा यद् घटाधिकरणं समवायसम्बन्धेन संयोगसम्बन्धेन वा घटस्य तन्निष्ठात्यन्ताभावप्रतियोगितया सर्वेषु वृत्तिमत्सु दुरुद्धरं सिद्धसाधनम्। येन सम्बन्धेन यद्यस्याधिकरणं तेन सम्बन्धेन तन्निष्ठात्यन्ताभावप्रतियोगित्वमिति विवक्षायाम् अव्याप्यवृत्तिषु संयोगादिषु सिद्धसाधनम् इति चेन्न। येन रूपेण यदधिकरणतया यत् प्रतिपन्नं तेन रूपेण तन्निष्ठात्यन्ताभावप्रतियोगित्वस्य प्रतिपन्नपदेन सूचितत्बात्। तच्च रूपं सम्बन्धविशेषोऽवच्छेदकविशेषश्च। न हि सम्बन्धविशेषमन्तरेण भूतले घटाधिकरणता प्रतीयते, अवच्छेदकविशेषमन्तरेण वा वृक्षे कपिसंयोगाधिकरणता। तथा च येन सम्बन्धविशेषेण येन चावच्छेदकविशेषेण यदधिकरणताप्रतीतिर्यत्र भवितुमर्हति, तेनैव सम्बन्धविशेषेण तेनैव चावच्छेदकविशेषेण तदधिकरणकात्यन्ताभावप्रतियोगित्वं तस्य मिथ्यात्वमिति पर्यवसिते क्व सिद्धसाधनम् ?

 

      यदि पुनः ध्वंसप्रागभावप्रतियोगित्वमिवात्यन्ताभावप्रतियोगित्वमाकाशादौ न स्यात्। साधकमानाभावस्य तुल्यत्वाद्। इहाकाशो नास्तीति प्रत्यक्षप्रतीत्यसम्भवाद्। अनुमाने चानुकूलतर्काभावात्। सामान्यतो दृष्टमात्रेण ध्वंसप्रागभावप्रतियोगित्वस्यापि सिद्धिप्रसङ्गात्। तद्व्यतिरेकेण कस्यचित् कार्यस्यानुपपत्तेरभावाच्च। एवं संयोगसम्बन्धेन घटवति भूतले समवायसम्बन्धेन घटाभावसत्त्वे मानाभावाल्लाघवेन घटात्यन्ताभावत्वेनैव घटसामानाधिकरण्य विरोधित्वकल्पनात् सम्बन्धविशेषप्रवेशे च गौरवाद् घटसमवायाद्यभावमात्रविषयकतया प्रतीतेरुपपत्तेः, आधाराधेयभावस्य प्रत्यक्षसिद्धत्वेन घटस्यावृत्तित्वशङ्कानुदयाद्, उक्तयुक्तेश्च न घटादेरत्यन्ताभावसामानाधिकरण्यम्। एवं संयोगतदभावयोर्नैकाधिकरण्यम्। अग्रे वृक्षः कपिसंयोगी मूले ने 'ति प्रतीतेरग्रमूलयोरेव संयोगतदभाववत्तयोपपत्तेः, तदा सन्मात्रनिष्ठात्यन्ताभावप्रतियोगित्वमेव मिथ्यात्वं मन्तव्यम्।

 

      न चैवं सति भावाभावयोरविरोधात्तज्ज्ञानयोर्बाध्यबाधकभावो न स्यादिति वाच्यम्। भिन्नसत्ताकयोरविरोधेऽपि समसत्ताकयोर्विरोधात्। यत्र भूतले यस्य घटस्यात्यन्ताभावो व्यावहारिकः तत्र स घटो न व्यावहारिक इति नियमात्। न चैवं सति `शुक्तिरियं न रजत' मिति ज्ञानविषयीभूताभावस्य व्यावहारिकत्वेन पुरोवर्तिप्रतीतरजतस्य व्यावहारिकत्वापहारेऽपि प्रातीतिकसत्त्वानपहाराद् बाधोत्तरकालेऽपि `इदं रजत' मिति प्रतीतिः स्यादिति वाच्यम्। तत्र `इयं शुक्तिः' रित्यपरोक्षप्रमया प्रातीतिकरजतोपादानाज्ञाननिवृत्तौ प्रातीतिकसत्त्वस्याप्यपहारात्। शुक्त्यज्ञानस्य प्रातीतिकरजतोपादानत्वेन तदसत्त्वे प्रातीतिकरजतासत्त्वस्यावश्यकत्वात्। अत एव यत्र परोक्षयाऽधिष्ठानप्रमया न भ्रमोपादानाज्ञाननिवृत्तिः,तत्र व्यावहारिकत्वापहारेऽपि प्रातीतिकत्वानपहारात् `तिक्तो गुडः' इत्यादिप्रतीतिरनुवर्तत एव। एकमखण्डब्रह्मसाक्षात्कारात्पूर्वं परोक्षबोधेन प्रपञ्चस्य व्यावहारिकत्वापहारेऽपि प्रतीतिरनुवर्तत एव। अधिष्ठानाज्ञाननिवृत्तौ तु नानुवर्तिष्यते।

 

      एतेन उपाधिशब्देनाधिकरणमात्रविवक्षायामर्थान्तरम्। वाय्वधिकरणकात्यन्ता भावप्रतियोगित्वेऽपि रूपस्यामिथ्यात्वाद्। अधिष्ठानविवक्षायां तु भ्रमोपादानाज्ञान विषयस्याधिष्ठानत्वेनान्योन्याश्रयत्वम्। ज्ञानस्य भ्रमत्वे विषयस्य मिथ्यात्वम्, विषयस्य मिथ्यात्वे च ज्ञानस्य भ्रमत्वमिति परास्तम्; उक्तरीत्या अधिकरणविवक्षायां दोषाभावात्। न च `स एवाधस्ताद्' इति श्रुत्या प्रतिपन्नो देशकालाद्युपाधौ परमार्थतो ब्रह्मणोऽभावात्तत्रातिव्याप्तिरिति वाच्यम्। निर्धर्मके तस्मिन्नभावप्रतियोगित्वरूपधर्माभावात्। न चैवं - सत्यत्वमपि तत्र न स्यात्, तथा च `सत्यं ज्ञानमनन्त' मित्यादिश्रुतिव्याकोप इति वाच्यम्। अधिकरणातिरिक्ताभावानभ्युपगमेनोक्तमिथ्यात्वाभावरूपसत्यत्वस्य ब्रह्म स्वरूपत्वाविरोधात्। एतेन स्वप्रकाशत्वाद्यपि व्याख्यातम्। परप्रकाश्यत्वाभावो हि स्वप्रकाशत्वम्, कालपरिच्छेदाभावो नित्यत्वम्, देशपरीच्छेदाभावो विभुत्वम्, वस्तुपरिच्छेदाभावः पूर्णत्वमित्यादि। तथा च भावरूपधर्मानाश्रयत्वेऽपि ब्रह्मणः सर्वधर्माभावरूपतया न काऽप्यनुपपत्तिरिति सर्वमवदातम्।

 

      इति सदसद्विलक्षणत्वरूपद्वितीयमिथ्यात्वविचारः।।

[ 1-1-8]

 

[1-1-9]           9.तृतीयामिथ्यात्वभङ्गः

 

      ज्ञाननिवर्त्यत्वं वा मिथ्यात्वम्। ननु - उत्तरज्ञाननिवर्त्ये पूर्वज्ञाने अतिव्याप्तिः, मुद्गरपातादिनिवर्त्ये च घटादावव्याप्तिः, ज्ञानत्वेन ज्ञाननिवर्त्यत्वविवक्षायामप्ययं दोषः, अधिष्ठानसाक्षात्कारत्वेन निवर्त्ये शुक्तिरजतादौ च ज्ञानत्वेन ज्ञाननिवर्त्यत्वाभावात् साध्यविकलता। ज्ञानत्वव्याप्यधर्मेण ज्ञाननिवर्त्यत्वविक्षायां ज्ञानत्वव्याप्येन स्मृतित्वेन ज्ञाननिवर्त्ये संस्कारे अतिव्याप्तिरिति चेन्न, ज्ञानप्रयुक्तावस्थितिसामान्यविरहप्रतियोगित्वं हि ज्ञाननिवर्त्यत्वम्। अवस्थितिश्च द्वेधा स्वरूपेण कारणात्मना च; सत्कार्यवादाभ्युपगमात्। तथा च मुद्गरपातेन घटस्य स्वरूपेणावस्थितिविरहेऽपि कारणात्मनावस्थितिविरहाभावाद्, ब्रह्मज्ञानप्रयुक्त एव स इति नातीतघटादावव्याप्तिः। अत एवोत्तरज्ञाननिवर्त्ये पूर्वज्ञाने न सिद्धसाधनम्;  न वा वियदादौ ब्रह्मज्ञाननाश्यत्वेऽपि तद्वदेव मिथ्यात्वासिद्ध्याऽर्थान्तरम्; उत्तरज्ञानेन लीनस्य पूर्वज्ञानस्य स्वकारणात्मनावस्थानादवस्थितिसामान्यविरहानुपपत्तेः। शशविषाणादाववस्थितिसामान्यविरहेऽपि तस्य ज्ञानप्रयुक्तत्वाभावान्नातिव्याप्तिः। शुक्तिरजता देश्चापरोक्षप्रतीत्यन्यथानुपपत्त्या प्रतिभासकाले अवस्थित्यङ्गीकारान्न बाधकज्ञानं विना तद्विरह इति न साध्यविकलता। अत एवोक्तं विवरणाचार्यैः- अज्ञानस्य स्वकार्येण प्रविलीनेन वर्तमानेन वा सह ज्ञानेन निवृत्तिर्बाध'इति। वार्तिककृद्भिश्चोक्तम्-

 

`तत्त्वमस्यादिवाक्योत्थसम्यग्धीजन्ममात्रतः।

अविद्या सह कार्येण नासीदस्ति भविष्यति।। इति।

 

`सह कार्येण नासी' दिति लीनेन कार्येण सह निवृत्त्यभिप्रायम्, `सह कार्येण न भविष्यती' ति तु भाविकार्यनिवृत्त्यभिप्रायमित्यन्यदेतत्। रूप्योपादानमज्ञानं स्वकार्येण वर्तमानेन लीनेन वा सहाधिष्ठानसाक्षात्कारान्निवर्तते। तत्तद्भ्रमोपादानानाम् अज्ञानानां भेदाभ्युपगमादिति न दृष्टान्ते साध्यवैकल्यम्, मुद्गरपातान्तरं घटो नास्तीति प्रतीतिवदधिष्ठानज्ञानानन्तरं शुक्त्यज्ञानं तद्गतरूप्यं च नास्तीति प्रतीतेः सर्वसंमतत्वात्। ज्ञानत्वव्याप्यधर्मेण ज्ञाननिवर्त्यत्वमित्यपि साधु। उत्तरज्ञानस्य पूर्वज्ञाननिवर्तकत्वं च न ज्ञानत्वव्याप्यधर्मेण ? किंत्विच्छादिसाधारणेनोदीच्यात्मविशेषगुणत्वेन उदीच्यत्वेन वेति न सिद्धसाधनादि। नापीच्छाद्यनिवर्त्ये स्मृतित्वेन ज्ञाननिवर्त्ये संस्कारे अतिव्याप्तिः, स्मृतित्वेन स्मृतेः संस्कारनिवर्तकत्वे मानाभावात्। स्मृतौ हि जातायां संस्कारो दृढो भवतीत्यनुभवसिद्धम् तेषां दृढत्वं च समानविषयकसंस्कारानेकत्वमित्यदोषः। वस्तुतस्तु साक्षात्कारत्वेन ज्ञाननिवर्त्यत्वं विवक्षितम्; अतो न पूर्वेक्तदोषः। नापि निश्चयत्वेन ज्ञानत्वव्याप्यधर्मिण ज्ञाननिवर्त्ये संशये अतिव्याप्तिरिति सर्वमवदातम्।

            इति तृतीयमिथ्यात्वविचारः    

 

[ 1-1-9]

 

[1-1-10]          10.चतुर्थमिथ्यात्वभङ्गः

 

      स्वाश्रयनिष्ठात्यन्ताभावप्रतियोगित्वं वा मिथ्यात्वम्। तच्च स्वात्यन्ताभावाधिकरण एव प्रतीयमानत्वम्, अतः पूर्ववैलक्षण्यम्। दूषणपरिहारश्च पूर्ववत्। न च संयोगिनि समवायिनि वा देशे तदत्यन्ताभावासम्भवः, सम्भवे तूपादानत्वाद्यनुपपत्तिरिति वाच्यम्, काले सहसंभववद् देशेऽपि सहसम्भवाविरोधात्, प्रागभावसत्त्वेनोपादानत्वाविरोधाच्च। न च अत्यन्ताभावाधिकरणे प्रागभावस्याप्यनुपपत्तिरिति वाच्यम्। काले व्यभिचारात्। न च काले प्रागभावत्यन्ताभावयोः सामानाधिकरण्यम् इदानीं घटात्यन्ताभावः, इदानीं घटप्रागभाव इति प्रतीतिबलादङ्गीकृतम्, देशे तु तदुभयसामानाधिकरण्ये न किञ्चिदपि प्रमाणमिति वाच्यम्, मित्यात्वानुमितेः श्रुत्यादेश्च प्रमाणत्वात्। विषमसत्ताक भावाभवयोरविरोधः पूर्वमुपपादितः। न च असत्यतिव्याप्तिः, स्वात्यन्ताभावाधिकरण एव सत्त्वेन प्रतीयमानत्वस्य विवक्षितत्वात्। न च `तद्धैक आहुरसदेवेदमग्र आसी' दिति श्रुत्या असतः सत्त्वप्रतीतेस्तत्रातिव्याप्तिर्दुष्परिहरेति वाच्यम्, `सदेवेदमग्र आसी' दित्यस्यार्थस्याभाव एव नञा प्रतिपाद्यते, न त्वसतः सत्त्वम्, विरोधातुः अतो नातिव्याप्तिः। सर्वं चान्यत् पूर्वोक्तमेवानुसन्धेयमित्युपरम्यते।।

      इति चतुर्थमिथ्यात्वविचारः।।                                   

[ 1-1-10]

 

[1-1-11]    11.पञ्चममिथ्यात्वभङ्गः

 

      सद्विविक्तत्वं वा मिथ्यात्वम्। सत्त्वं च प्रमाणसिद्धत्वम्। प्रमाणत्वं च दोषासहकृतज्ञानकरणत्वम्, तेन स्वप्नादिवत्प्रमाणसिद्धभिन्नत्वेन मिथ्यात्वं सिध्यति। प्रमाणसिद्धत्वं चाबाध्यत्वव्याप्यमित्यन्यत्। अत्राप्यसति निर्धर्मके ब्रह्मणि चातिव्याप्तिवारणाय सत्त्वेन प्रतीयमानत्वं विशेषणं देयम्। तयोः सत्त्वप्रकारकप्रतीतिविषयत्वाभावात्। अत एव सद्विविक्तत्वमित्यत्र सत्त्वं सत्ताजात्यधिकरणत्वं वा ? अबाध्यत्वं वा ? ब्रह्मरूपत्वं वा ? आद्ये घटादावाविद्यकजातेस्त्वयाभ्युपगमेनासम्भवः, द्वितीये बाध्यत्वरूपमिथ्यात्व पर्यवसानम्, तृतीये सिद्धसाधनमिति निरस्तम्, अनभ्युपगमादेव। सदसद्विलक्षणत्वपक्षोक्त युक्तयश्चात्रानुसन्धेयाः। अवशिष्टं च दृष्टान्तसिद्धौ वक्ष्यामः।।

 

      इत्यद्वैतसिद्धौ पञ्चममिथ्यात्वनिरुक्तिः।।     

 

[ 1-1-11]

 

[1-1-12]    12.अथ सामान्यतो मिथ्यात्वभङ्गः

 

      ननु- उक्तमिथ्यात्वस्य मिथ्यात्वे प्रपञ्चसत्यत्वापातः, एकस्मिन् धर्मिणि प्रसक्तयोः विरुद्वधर्मयोरेकमिथ्यात्वे अपरसत्यत्वनियमात्, मिथ्यात्वसत्यत्वे च तद्वदेव प्रपञ्चसत्यत्वापत्तेः। उभयथाप्यद्वैतव्याघात इति चेन्न; मिथ्यात्वमिथ्यात्वेऽपि प्रपञ्चसत्यत्वानुपपत्तेः। तत्र हि विरुद्धयोर्धर्मयोरेकमिथ्यात्वे अपरसत्यत्वम्‌, यत्र मिथ्यात्वावच्छेदकमुभयवृत्ति न भवेत्; यथा परस्परविरहरूपयो रजतत्वतदभावयोः शुक्तौ, यथा वा परस्परविरहव्यापकयो रजतभिन्नत्वरजत्वयोः तत्रैव; तत्र निषेध्यतावच्छेदकभेदनियमात्। प्रकृते तु निषेध्यतावच्छेदकमेकमेव दृश्यत्वादि। यथा गोत्वाश्वत्वयोरेकस्मिन् गजे निषेधे गजत्वात्यन्ताभावव्याप्यत्वं निषेध्यताच्छेदकमुभयोस्तुल्यमिति नैकतरनिषेधे अन्यतरसत्त्वम्, तद्वत्। यथा च सत्यत्वमिथ्यात्वयोर्न परस्परविरहरूपत्वम्, न वा परस्परविरहव्यापकत्वम्, तथोपपादितमधस्तात्। परस्परविरहरूपत्वेऽपि विषमसत्ताकयोरविरोधात्, व्यावहारिक मिथ्यात्वेन व्यावहारिकसत्यत्वापहारेऽपि काल्पनिकसत्यत्वानपहारात्, तार्किकमतसिद्ध संयोगतदभाववत् सत्यत्वमिथ्यात्वयोः समुच्चयाभ्युपगमाच्च। एकस्य साधकेन अपरस्य बाध्यत्वं विषमसत्ताकत्वे प्रयोजकम्,यथा शुक्तिरूप्यतदभावयोः। एकबाधकबाध्यत्वं च समसत्ताकत्वे प्रयोजकम्, यथा शुक्तिरूप्यशुक्तिभिन्नत्वयोः अस्ति च प्रपञ्चतन्मिथ्यात्व योरेकब्रह्मज्ञानबाध्यत्वम्। अतः समसत्ताकत्वान्मिथ्यात्वबाधकेन प्रपञ्चस्यापि बाधान्नाद्वैतक्षति रिति कृतमधिकेन।

 

इति मिथ्यात्वसामान्योपपत्तिः। 

[ 1-1-12]

 

[1-1-13]    13. अथ दृश्यत्वहेतुभङ्गः

 

      ननु - मिथ्यात्वे साध्ये हेतूकृतं यद् दृश्यत्वं तदप्युपपादनीयम्। तथा हि- किमिदं दृश्यत्वम् ? वृत्तिव्याप्यत्वं वा ? फलव्याप्यत्वं वा ? साधारणं वा ? कदाचित् कथञ्चित् चिद्विषयत्वं वा ? स्वव्यवहारे स्वातिरिक्तसंविदन्तरापेक्षानियतिर्वा ?अस्वप्रकाशत्वं वा ? नाद्यः, आत्मनो वेदान्तजन्यवृत्तिव्याप्यत्वेन तत्र व्यभिचारात्। अत एव न तृतीयोऽपि। नापि द्वितीयः नित्यातीन्द्रिये शुक्तिरूप्यादौ च तदभावेन भागासिद्धि साधनवैकल्ययोः प्रसङ्गात्। नापि चतुर्थः, ब्रह्म पूर्वं न ज्ञातमिदानीं वेदान्तेन ज्ञातमित्यनुभवेन आत्मनि व्यभिचारात्। नापि पञ्चमः, ब्रह्मण्यप्यद्वितीयत्वादिविशिष्टव्यवहारे संविदन्तरापेक्षानियतिदर्शनेन व्यभिचारात्। नापि षष्ठः, स हि अवेद्यत्वे सत्यपरोक्षव्यवहारयोग्यत्वाभावरूपः। तथा च शुक्तिरूप्यादेरपि अपरोक्षव्यवहारयोग्यत्वेन साधनवैकल्याद्- इति चेन्मैवम्, फलव्याप्यत्वव्यतिरिक्तस्य सर्वस्यापि पक्षस्य क्षोदक्षमत्वात्। न च वृत्तिव्याप्यत्वपक्षे ब्रह्मणि व्यभिचारः, अन्यथा ब्रह्मपराणां वेदान्तानां वैयर्थ्यप्रसङ्गादिति वाच्यम्, शुद्धं हि ब्रह्म न दृश्यम्, `यत्तदद्रेश्यम्- इति श्रुतेः, किन्तूपहितमेव, तच्च मिथ्यैव, न हि वृत्तिदशायां अनुपहितं तद्भवति। न च `सर्वप्रत्ययवेद्ये वा ब्रह्मरूपे व्यवस्थिते' इति स्ववचनविरोध इति वाच्यम्, तस्याप्युपहितपरत्वात्।

 

      न च - एवं सति शुद्धसिद्धिर्न स्यादिति- वाच्यम्, स्वत एव तस्य प्रकाशत्वेन सिद्धत्वात्। ननु - अज्ञाते धर्मिणि कस्यचित् धर्मस्य विधातुं निषेद्धुं वा अशक्यत्वेन शुद्धे दृश्यत्वं निषेधता शुद्धस्य ज्ञेयत्वमवश्यं स्वीकरणीयम्। न च स्वप्रकाशत्वेन स्वतः सिद्धे शुद्धे श्रुत्या दृश्यत्वनिषेध इति वाच्यम्। शुद्धं स्वप्रकाशमिति शब्दजन्यविशिष्टवृत्तौ शुद्धाप्रकाशे तस्य स्वप्रकाशत्वासिद्धेः इति - चेत्, न। वृत्तिकाले वृत्तिरूपेण धर्मेण शुद्धत्वासम्भवात् शुद्धस्य वृत्तिविषयत्वं न सम्भवति, अतः `शुद्धं स्वप्रकाशम्- इति वाक्यस्य लक्षणया अशुद्धत्वमस्वप्रकाशत्वव्यापकमित्यर्थः। तथा च अशुद्धत्वव्यावृत्त्या शुद्धे स्वप्रकाशता पर्यवस्यति, यथा भेदनिषेधेन अभिन्नत्वम्। न च शुद्धपदेन अभिधया लक्षणया वा शुद्धाप्रकाशे तत्प्रयोगवैयर्थ्यमिति वाच्यम्, पर्यवसितार्थमादाय सार्थकत्वोपपत्तेः। एवं च `शुद्धं न दृश्यं न मिथ्या' इत्यस्याप्यशुद्धत्वं दृश्यत्वमिथ्यात्वयोर्व्यापकमित्येतत्परत्वेन शुद्धे दृश्यत्वमिथ्यात्वयोर्व्यतिरेकः पर्यवस्यति। एतेन स्फुरणमात्रमेव मिथ्यात्वे तन्त्रम्, लाघवाद्; अतः `स्वतः स्फुरदपि ब्रह्म मिथ्यैवे' ति शून्यवादिमतमपास्तम्; स्वतः स्फुरणरूपतायाः शुक्तिरूप्यादावभावात्, स्फुरणविषयत्वस्य ब्रह्मण्यसिद्धेः।

 

      ननु - विशिष्टज्ञाने विशेष्यस्यापि भाने श्रुत्या विशिष्टस्य दृश्यत्वेनैव विशेष्यस्यापि दृश्यत्वाद् व्यभिचारः, न च `विष्णवे शिपिविष्टाये' त्यादौ विशिष्टस्य देवतात्ववद् विशिष्टस्य विषयत्वम्, अग्नीषोमयोर्मिलितयोर्देवतात्ववद्वा मिलितस्य विषयत्वम्, अतो न विशेष्ये विषयत्वमिति वाच्यम्, तद्वदेव विशेषणस्याप्यविषयत्वे भागासिद्धिप्रसङ्गाद् इति चेन्न, विशेष्यतापन्नस्य विषयत्वेऽपि क्षत्यभावात्, तस्य मिथ्यात्वाभ्युपगमात्। अत एव उपहितविषयत्वेऽप्युपधेयविषयत्वमक्षतमेव इति अपास्तम्, उपहितात्मना तस्यापि मिथ्यात्वाभ्युपगमात्, ज्ञानान्तरविषयत्वेन विशेषणे भागासिद्ध्यभावाच्च। ननु वेदान्तजन्याखण्डवृत्तेरुपहितविषयत्वे तदानीमुपाध्यन्तराभावेन तस्या एवोपधायकत्वात् स्वविषयत्वापत्तिः। न चेष्टापत्तिः। शाब्दबोधे शब्दानुपस्थिताभाननियमेन वृत्तेः शब्दानुपस्थिताया भानानुपपत्तेः। यथाकथञ्चिदुपपत्तौ वा न ततोऽज्ञानतत्कार्ययोर्निवृत्तिः स्याद्। अज्ञानतत्कार्याविषयकज्ञानस्यैव तदुभयनिवर्तकत्वाद्। अन्यथा `अहमज्ञः अयं घट' इत्यादिज्ञानानामप्युपहितविषयकत्वेन अज्ञाननिवर्तकत्वप्रसङ्ग इति चेन्न। वृत्तेः शाब्दवृत्तावनवभासमानाया एवोपधायकत्वाभ्युपगमात्। तदुक्तं कल्पतरुकृद्भिः `शुद्धं ब्रह्मेति विषयीकुर्वाणा वृत्तिः स्वस्वेतरोपाधिनिवृत्तिहेतुरुदयते, स्वस्या अपि उपाधित्वाविशेषात्। एवं च नानुपहितस्य विषयता। वृत्त्युपरागोऽत्र सत्तयोपयुज्यते;न तु भास्यतया विषयकोटिप्रवेशेने'अयमभिप्रायः - यथा अज्ञानोपहितस्य साक्षित्वेऽपि नाज्ञानं साक्षिकोटौ प्रविशति, जडत्वात्। किं तु साक्ष्यकोटावेव। एवं वृत्त्युपहितस्य विषयत्वेऽपि न वृत्तिविषयकोटौ प्रविशति; स्वस्याः स्वविषयत्वानुपपत्तेः। किं तु स्वयमविषयोऽपि चैतन्यस्य विषयतां सम्पादयतीति न काप्यनुपपत्तिः। एतेन ज्ञानाज्ञानयोरेकविषयत्वं व्याख्यातम्; अज्ञानमपि हि स्वोपधानदशायामेव ब्रह्म विषयी करोति; स्वानुपधानदशायां स्वस्यैवाभावात्। तथा च ज्ञानाज्ञानयोरुभयोरप्युपाध्यविषयकत्वे सत्युपहितविषयकत्वात् समानविषयत्वमस्त्येव। एतेन उपाधिविषयज्ञानानामज्ञानानिवर्तकत्वं व्याख्यातम्; अज्ञानस्यो पाध्यविषयत्वेन समानविषयत्वाभावात्, समानविषयत्वेनैव तयोर्निवर्त्यनिवर्तकभावात्।

      वस्तुतस्तु- शब्दाजन्यवृत्तिविषयत्वमेव दृश्यत्वम्, अन्यथा शशविषाणं तुच्छमित्यादिशब्दजन्यवृत्तिविषये तुच्छे व्यभिचारस्य दुरुद्धत्वात्। एवं च सति शुद्धस्य वेदान्तजन्यवृत्तिविषयत्वेऽपि न तत्र व्यभिचारः, तुच्छशुद्धयोः शब्दाजन्यवृत्तिविषय त्वानभ्युपगमात्। यद्वा- सप्रकारकवृत्तिविषयत्वमेव दृश्यत्वम्, प्रकारश्च सोपाख्यः कश्चिद्धर्मः, तेन निष्प्रकारकज्ञानविषयीभूते शुद्धे निरुपाख्यधर्मप्रकारकज्ञानविषयीभूते तुच्छे च न व्यभिचारः। अभावत्वस्यापि सोपाख्यत्वादभावत्वप्रकारकज्ञानविषयीभूते  अभावे न भागासिद्धिः। उपाख्या च अस्तीति धीविषयत्वादित्यन्यत्। एतेन वृत्तिव्याप्यफलव्याप्ययोः साधारणं व्यवहारप्रयोजकविषयत्वरूपं दृश्यत्वमपि हेतुः,ब्रह्मणि तुच्छे च व्यभिचारपरिहारोपायस्योक्तत्वात्। यद्वा दृश्यत्वं चिद्विषयत्वम्, तच्च यथा कथञ्चित् चित्सम्बन्धित्वरूपं हेतुः, तच्च न चैतन्ये अभेदे भेदनान्तरीयकस्य सम्बन्धस्याभावाद्, अतो न व्यभिचारः। तुच्छे च व्यभिचारः परिहरणीयः। यद्वा- स्वव्यवहारे स्वातिरिक्तसंविदपेक्षानियतिरूपं दृश्यत्वं हेतुः; संविच्छब्देन विषयाभिव्यक्तं वा वृत्त्याभिव्यक्तं वा शुद्धं वा चैतन्यमात्रमभिप्रेतम्, तथा च घटादौ नित्यातीन्द्रिये साक्षिभास्ये च सर्वोऽपि व्यवहारः स्वातिरिक्तसंवित्सापेक्ष इति नासिद्धिः। व्यवहारश्च स्फुरणाभि वदनादिसाधारणः। तत्र ब्रह्मणः स्फुरणरूपे व्यवहारे नित्यसिद्धे स्वातिरिक्तसंविदपेक्षा नास्तीति नियतिपदेन व्यभिचारवारणम्। स्वगोचरयावद्व्यवहारे स्वातिरिक्तसंविदपेक्षायां पर्यवसानात्। अत एवास्वप्रकाशत्वरूपं दृश्यत्वमपि हेतुः; स्वप्रकाशत्वं हि स्वापरोक्षत्वे स्वातिरिक्तानपेक्षत्वम्, `यत्साक्षादपरोक्षाद् ब्रह्मे' ति श्रुतेः। तथा चान्यानधीनापरोक्षत्वं पर्यवसितम्; तन्निरूपितभेदवत्त्वं हेतुः। तच्च नित्यपरोक्षे अन्याधीनापरोक्षे च घटादावस्तीति नासिद्धिः। न च- ब्रह्मणोऽपि ब्रह्मप्रतियोगिककाल्पनिकभेदवत्त्वात्तत्र व्यभिचारः, अकल्पित भेदस्य क्वाप्यसिद्धत्वादिति वाच्यम्, तद्भेदस्यान्यानधीनापरोक्षत्वरूपधर्मानिरूपितत्वात्। जीवत्वेश्वरत्वादिरूपस्य अन्यस्यैव धर्मस्य तन्निरूपकत्वात्। एवं चावेद्यत्वे सत्यपरोक्षव्यवहारयोग्यत्वाभावरूपं दृश्यत्वमपि हेतुः। न च- फलव्याप्यत्वाभावविशिष्टं यदपरोक्षव्यवहारयोग्यत्वम्, तस्य ब्रह्मणीवाविद्यान्तः करणादौ शुक्तिरूप्यादौ च सत्त्वेन असिद्धिसाधनवैकल्ये इति वाच्यम्; अज्ञाननिवर्तकवृत्तिविषयत्वयोग्यत्वस्यापरोक्ष व्यवहारयोग्यत्वपदेन विवक्षितत्वात्, तस्य चाविद्यादौ शुक्तिरूप्यादौ चासत्त्वात् नासिद्धिसाधनवैकल्ये। यथा च घटादेः फलव्याप्यत्वम्, तथाग्रे वक्ष्यामः। अविद्यानिवृत्तेः पञ्चमप्रकारत्वपक्षे तत्र व्यभिचारवारणाय अज्ञानकालवृत्तित्वं हेतुविशेषणं देयम्। ते नैव तुच्छेपि न व्यभिचारः। एवमेव सर्वेषु हेतुषु व्यभिचारपरिहाराय यतनीयम्। सद्विविक्तत्वमात्रे तु साध्ये तुच्छे पञ्चमप्रकाराविद्यानिवृत्तौ च न व्यभिचारगन्धोऽपीति सर्वमवदातम्।। इति अद्वैतसिद्धौ दृश्यत्वहेतूपपत्तिः।।

    

[ 1-1-13]

 

[1-1-14]    14.जडत्वहेतुभङ्गः

 

            जडत्वमपि हेतुः। ननु - किमिदं जडत्वम् ? अज्ञातृत्वं वा ? अज्ञानत्वं वा ? अनात्मत्वं वा ? नाद्यः; त्वन्मते पक्षनिक्षिप्तस्यैवाहमर्थस्य ज्ञातृत्वात्तत्रासिद्धेः, शुद्धात्मनोऽज्ञातृत्वेन तत्र व्यभिचाराच्च। नापि द्वितीयः,वृत्त्युपरक्तचैतन्यस्यैव ज्ञानत्वेन केवलाया वृत्तेः केवलस्य चैतन्यस्य चाज्ञानत्वेन वृत्तावसिद्धिपरिहारेऽपि चैतन्ये व्यभिचारतादवस्थ्यात्। नापि तृतीयः, आत्मत्वस्यैव निरूपयितुमशक्यत्वात्। तद्धि न जातिविशेषः, त्वयात्मन एकात्वाभ्युपगमाद्, विशिष्टशत्मनां भेदेऽपि तेषां पक्षकुक्षिनिक्षिप्तत्वात्। नाप्यानन्दरूपत्वम्, वैषयिकानन्दे तद्व्यतिरेकस्य हेतोरसिद्धेः, तस्याप्यात्मत्वे अज्ञानपक्षोक्तदोषः प्रसञ्जनीय इति- चेत्, मैवम् द्वितीयतृतीयपक्षयोः दोषाभावात्। तथा हि `अज्ञानत्वं जडत्वमि' ति पक्षे नात्मनि व्यभिचारः, अर्थोपलक्षितप्रकाशस्यैव ज्ञानत्वेन मोक्षदशायामपि तदनपायात्। न च अभावे सप्रतियोगित्कववदिच्छाज्ञानादिष्वपि सविषयकत्वस्य स्वाभाविकत्वादिच्छायामिव ज्ञानेऽपि तस्य समानसत्ताकत्वमिति वाच्यम्; ज्ञानस्य हि सविषयत्वं विषयसम्बन्धः,  स च न तात्त्विकः, किन्त्वाध्यासिकः, वक्ष्यमाणरीत्या तात्त्विकसम्बन्धस्य निरूपयितुमशक्यत्वात्, अतो न तस्य स्वाभाविकत्वम्; न हि शुक्तौ रूप्यं स्वाभाविकम्। एवं च ज्ञानोपाधिकस्यैव सविषयत्वस्य इच्छादिष्वभ्युपगमात् नतरां तत्र तस्य स्वाभाविकत्वम्। न चैवं ज्ञानवद् विषयसम्बन्धं विनापि कदाचिदिच्छायाः सत्त्वापत्तिरिति- वाच्यम्; सविषयत्वप्रयोजकोपाध्यपेक्षया अधिकसत्ताकत्वस्य तत्र प्रयोजकत्वाद्, इच्छायाश्च तत्समानसत्ताकत्वात्। न च त्वया मोक्षावस्थायामात्मनो निर्विषयत्वाङ्गीकाराद् आनन्दाप्रकाशे तदपुमर्थत्वं स्यादिति वाच्यम्; तदा ह्यानन्द एव प्रकाशो न त्वानन्दस्य प्रकाशत्वम्, अर्थोपलक्षितप्रकाशत्वं वा तदास्त्येवेति न ज्ञानत्वहानिरित्युक्तम्। ननु - तथापि ज्ञातुरभावात् तदा तन्न ज्ञानम्; न हि भोक्तृहीना भुजिक्रिया भवति। न च- अनादित्वेन क्रियारूपत्वाभावाद् अनपेक्षत्वमिति वाच्यम्;अनादेः प्रागभावस्य प्रतियोगिनि, जातेर्व्यक्तौ, जीवब्रह्म विभागस्य धर्मिप्रतियोगिनोः,अज्ञानस्य चाश्रयविषययोः , ब्रह्मसत्तायाश्च कर्तर्यपेक्षादर्शनात्, अन्यथा `अस्ति ब्रह्मे' त्यादौ कर्तरि लकारो न स्यात्। एवं चातीतादिज्ञानस्य ईश्वरज्ञानस्य च उत्पत्त्यर्थमर्थानपेक्षत्वेऽपि तन्निरूप्यत्वदर्शनेन ज्ञानस्य ज्ञातृज्ञेयनिरूप्यत्वं स्वभावः,अन्यथा `इदमहं जानामी' त्यनुभवो न स्यात्, `ज्ञातुरर्थप्रकाशस्य ज्ञानत्वा' दिति विवरणविरोधश्च स्याद्- इति चेन्नः जातेर्व्यक्तिनिरूप्य त्वेऽपि कदाचित्तदसम्बन्धवदुपपत्तेः, सम्बन्धप्रयोजकोपाध्यपेक्षया अधिकसत्ताकत्वात्। अत एव ज्ञानस्य सज्ञेयत्वं सज्ञातृत्वं च न स्वाभाविकम्। तथा हि- सज्ञेयत्वं तावत् ज्ञेयजन्यत्वं वा ? ज्ञेयव्याप्यत्वं वा ? नाद्यः, परोक्षज्ञाने चाभावात्। नापि द्वितीयः, `यदा ज्ञानं तदा अर्थ' इति कालिकव्याप्तौ पूर्ववद् व्यभिचाराद्, दैशिकव्याप्तिस्तु दूरनिरस्तैव, ज्ञातरितदभावात्। न च यदा `अपरोक्षज्ञानं तदार्थ' इति कालिकव्याप्तौ नास्ति व्यभिचारः, आत्मा च `यद् साक्षाद् अपरोक्षाद् ब्रह्मे' ति श्रुतेरपरोक्षज्ञानरूप इति सोऽप्यर्थव्याप्त इति- वाच्यम्; ईश्वरज्ञाने योगिज्ञाने च व्यभिचारात्। `यदैन्द्रियकं ज्ञानं तदार्थ' इति तुव्याप्तिः सर्वसंमता। न चात्मरूपे ज्ञाने ऐन्द्रियकत्वम् अस्तीति न तया विरोधः। ननु - `यदा अपरोक्षं ज्ञानं तदार्थ' इति व्याप्त्यनभ्युपगमे `इदं रजत' मित्यपरोक्षज्ञानान्यथानुपपत्त्या अनिर्वचनीय रजतसिद्धिर्नस्यात्, अर्थं विनाप्यपरोक्षत्वोपपत्तेः - इति चेन्न, `इदं रजतमहं जानामी' त्यनुसन्धीयमानं यत् ज्ञानविषयत्वं तस्याश्रयान्तरानुपपत्त्या अनिर्वचनीयरजत सिद्धेर्वक्ष्यमाणत्वात्। अत एव परोक्षभ्रमेऽपि अनिर्वचनीयार्थसिद्धिः। जन्यापरोक्षत्वेन वा अर्थव्याप्यता, आर्षज्ञानस्यापरोक्षत्वानभ्युपगमात्। तथा च नानिर्वचनीयरजत सिद्ध्युनुपपत्तिः। एवं सज्ञातृकत्वमपि किं ज्ञातृजन्यत्वम् ? ज्ञातृव्याप्यत्वम् ? ज्ञातृसमवेतत्वं वा ? आद्ये ईश्वरज्ञाने व्यभिचारः, ज्ञाननित्यत्वस्य साधयिष्यमाणत्वाच्च। द्वितीयेऽपि अप्रयोजकता। न तृतीयः, ज्ञानजन्यत्ववत् ज्ञानसमवेतत्वस्यापि सम्भवात्, ज्ञानस्य गुणत्वक्रियात्वयोरनभ्युपगमेन द्रव्याश्रयत्वानुमानायोगात्, कदाचित् ज्ञातृज्ञेयसम्बन्धेनैव अनुभवस्य विवरणवाक्यस्य च उपपत्तेः। `अस्ति ब्रह्मे ' ति च लकारो न ब्रह्मसत्तां प्रति ब्रह्मणः कर्तृत्वमाह, नित्यत्वेन तदसम्भवात्, किन्तु साधुत्वार्थ इति द्रष्टव्यम्। ननु - प्रमाभक्रमभिन्नं न ज्ञानम्, न चात्मस्वरूपं ज्ञानं प्रमा, तद्विषयस्याविद्या देस्तात्त्विकत्वापातात्। न च अप्रमा,दोषजन्यत्वापाद्- इति चेन्न; तार्किकसिद्धेश्वरज्ञानवद् घटादिनिर्विकल्पकवच्च स्वभावत उभयवैलक्षण्येनाप्युपपत्तेः, तत्रापि ईश्वरज्ञानस्य प्रमात्वे गुणजन्यत्वस्य, भ्रमत्वे दोषजन्यत्वस्य चापत्तेः, निष्प्रकारके च निर्विकल्पके तद्वति तत्प्रकारकत्वस्य तदभाववति तत्प्रकारकत्वस्य चानुपपत्तेः, जन्यसविकल्प कत्वेन भ्रमप्रमान्यतरत्वनियमे चास्माकं क्षत्यभावाद्,विलक्षणवृत्तिद्वयोपरागेण च स्वभावतो भ्रमप्रमाविलक्षणस्याप्यात्मज्ञानस्य तदुभयरूपेण व्यवहारोपपत्तेः। न च - ज्ञानपदपाच्य भिन्नत्वविवक्षायाम् उपाधेरपि ज्ञानपदवाच्यत्वात्तत्रासिद्धिः, ज्ञानपदलक्ष्यभिन्नत्वविवक्षायां तु घटादेरपि ज्ञानपदलक्ष्यत्वात्तत्राप्यसिद्धिरिति -वाच्यम्; ज्ञानपदजन्यप्रतीतिविशेष्यभिन्नत्वं विवक्षायामुक्तदोषाभावात्। एवमानन्दभिन्नत्वरूपमनात्मत्वं मुपपाद्यम्, वैषयिकानन्दस्यापि ब्रह्मरूपत्वात्, तदुपाधिमात्रस्यैवोत्पत्तिविनाशप्रतियोगित्वात्। न च- ज्ञानभिन्नत्वस्या नन्दभिन्नत्वस्य च काल्पनिकस्य ब्रह्मणि सत्त्वात्, तत्र व्यभिचार इति- वाच्यम्; धर्मिसमानसत्ताकतद्भेदस्य हेतुत्वात्। अनौपाधिकत्वेन वा भेदो विशेषणीयः, तुच्छे पञ्चमप्रकाराविद्यानिवृत्तौ च व्यभिचारपरिहारः पूर्ववत्। एवम्- अस्वप्रकाशत्वं वा जडत्वम्, तच्च पूर्वमेवोपपादितमिति शिवम्।। इत्यद्वैतसिद्धौ जडत्वहेतूपपत्तिः।।

 

[ 1-1-14]

 

[1-1-15]    15.परिच्छिन्नत्वहेतुभङ्गः

 

      परिच्छिन्नत्वमपि हेतुः। तच्च देशतः कालतो वस्तुतश्चेति त्रिविधम्। तत्र देशतः पिरच्छिन्नत्वम् - अत्यन्ताभावप्रतियोगित्वम्। कालतः परिच्छिन्नत्वम्- ध्वंसप्रतियोगित्वम्। वस्तुतः परिच्छिन्नत्वम्- अन्योऽन्याभावप्रतियोगित्वम्। ननु समवायसम्बन्धेनात्यन्ताभावप्रतियोगित्वम् आत्मनि व्यभिचारि। तस्याप्याकाशादिवत् क्वाप्यसमवेतत्वात्। संयोगसम्बन्धेनात्यन्ताभावप्रतियोगित्वमाकाशादावसिद्धम्। तस्य यावन्मूर्तसंयोगित्वनियमात्। अमूर्तनिष्ठात्यन्ताभावप्रतियोगित्वाभिप्राये तु आत्मनि व्यभिचारस्तदवस्थः। सर्वसम्बन्धित्वाभाव विवक्षायामपि सर्वसम्बन्धशून्ये परमात्मनि व्यभिचारः। अज्ञाने सर्वसम्बन्धिन्यसिद्धिश्च। ध्वंसप्रतियोगित्वमपि आकाशादावसिद्धम्। तेषां परैर्नित्यत्वाभ्युपगमात्। अन्योन्या भावप्रतियोगित्वं चात्मनि व्यभिचारि। तस्य जडनिष्ठान्योन्याभावप्रतियोगित्वाद्, अन्यथा जडत्वापत्तेः इति चेन्न। अत्यन्ताभावे अन्योन्याभावे च प्रतियोगिसमसत्ताकत्वविशेषणेन आत्मनि व्यभिचारपरिहारात्। अज्ञानाकाशादौ च स्वसमानसत्ताकात्यन्ता भावान्योन्या भावप्रतियोगित्वसत्त्वेन असिद्ध्यभावात्। अविद्याकाशादेर्व्यावहारिकस्य पारमार्थिकाभावपक्षे `स्वान्यूनसत्ताके'ति विशेषणं देयम्। अत एव प्रातिभासिकशुक्तिरूप्यादेर्व्या वहारिकाभावप्रतियोगित्वेऽपि न साधनवैकल्यम्। निरुक्तमिथ्यात्वप्रकाराणामेवंरूपत्वाभावात् न साध्याविशिष्टता। ध्वंसप्रतियोगित्वं चाकाशादौ नासिद्धम्। `तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः' इति श्रुतिसिद्धजन्यत्वेनानुमितत्वात्। `आकाशवत्सर्वगतश्च नित्य'इत्यत्र चात्मनिदर्शनत्वं स्वसमानकालीनसर्वगतत्वेन, आभूतसम्प्लवावस्थायित्वेन चेति द्रष्टव्यम्। `अतोऽन्यदार्त'मितिश्रुत्या अनात्ममात्रस्यैव विनाशित्वप्रतिपादनात्।

 

      अत एव घटादयः स्वानुगतप्रतिभासे वस्तुनि कल्पिताः, विभक्तत्वाद्, यथा सर्पमालादिकं स्वानुगतप्रतिभासे रज्ज्वा इदमंशे विभज्यते, `एवं ब्रह्मण्यनुगच्छति घटादिकं विभज्यते, सन् घटः, सन् पट'इति आनन्दबोधोक्तमपि साधु। विभक्तशब्देन स्वसमानसत्ताकभेदप्रतियोगित्वरूपवस्तुपरिच्छेदस्य विवक्षितत्वात् न ब्रह्मतुच्छयोर्व्यभिचारः। न च - `खण्डो गौर्मुण्डो गौ' रित्येवमादिस्वानुगतप्रतिभासे गोत्वादौ व्यक्तीनामकल्पित्वाद् व्यभिचार इति-वाच्यम्। सत्सामान्यातिरिक्तगोत्वादिसामान्यानभ्युपगमात्, गोत्वाद्यभ्युपगमेऽपि गोत्वादिव्यञ्जकतावच्छेदकसामान्यानभ्युपगमात्। व्यक्तिविशेषाणामेवाननुगतानां सास्नादिमत्त्वाद्युपाध्यनुगतानां वा तद्व्यञ्जकत्ववद् व्यक्तिविशेषविशिष्टत्वेन सत्सामान्यस्यैव तत्तद्व्यवहारजनकत्वोपपत्तेः। अत एव - `घटादिकं, सद्रूपे कल्पितम्, प्रत्येकं तदनुविद्धत्वेन प्रतीयमानत्वात् प्रत्येकं चन्द्रानुविद्धजलतरङ्गचन्द्रवत् इति ब्रह्मसिद्धिकारोक्तमपि साधु। ननु- सदर्थस्य ब्रह्मणः रूपादिहीनस्याऽसंसारमज्ञानावृतस्य शब्दैकगम्यस्य कथं घटः सन्नित्यादिबुद्धिविषयता स्यात् ?तथा च `घटोऽनित्य' इत्यनेन घटगतानित्यतेव `घटः स' न्नित्यनेनापि घटगतमेव सत्त्वं गृह्यते। न च - स्वरूपेणाप्रत्यक्षस्य राहोश्चन्द्रावच्छेदेनेव ब्रह्मणोऽपि घटाद्यवच्छेदेनैव प्रत्यक्षतेति - वाच्यम्। शब्दाद्यवच्छिन्नस्यापि गगनादेः श्रावणत्वाद्यापातात्। राहोस्तु दूरदोषेणाज्ञातस्य नीलस्य योग्यस्य शुक्लभास्वरचन्द्र सम्बन्धाच्चाक्षुषता उक्ता- इति चेन्न। यतः सदात्मना न ब्रह्मणो मूलाज्ञानेनावृतत्वम्। किन्तु घटाद्यवच्छिन्नशक्त्यज्ञानेनैव। तथा च चक्षुरादिजन्यवृत्त्या तदावरणभङ्गे सति `सन्घट' इत्यत्र ब्रह्मणः स्फुरणे बाधकाभावात्। न च- रूपादिहीनतया चाक्षुषत्वाद्यनुपपत्तिः बाधिकेति- वाच्यम्। प्रतिनियतेन्द्रियग्राह्येष्वेव रूपाद्यपेक्षानियमात्। सर्वेन्द्रियग्राह्यं तु सद्रूपं ब्रह्म। नातो रूपादिहीनत्वेऽपि चाक्षुषत्वाद्यनुपपत्तिः। सत्तायाः परैरपि सर्वेन्द्रियग्राह्यत्वाभ्युपगमाच्च। तदुक्तं वार्तिककृद्भिः -

 

`अतोऽनुभव एवैको विषयोऽज्ञातलक्षणः।

अक्षादीनां स्वतः सिद्धो यत्र तेषां प्रमाणता।।' इति।

 

      कालस्य च रूपादिहीनस्य मीमांसकादिभिः सर्वेन्द्रियग्राह्यत्वाभ्युपगमात्। नच - शब्दावच्छिन्नस्याकाशस्यापि श्रावणत्वं स्यादिति- वाच्यम्; स्वभावतो योग्यस्य हि केनचिन्निमित्तेन प्रतिरुद्धयोग्यताकस्यावच्छेदकादिना योग्यता सम्पाद्यते, यथा दूरदोषेण प्रतिरुद्धयोग्यताकस्य राहोश्चन्द्रसम्बन्धेन । एवं चावरणेन प्रतिरुद्धयोग्यताकं ब्रह्म घटाद्यवच्छेदेन योग्यं भवति, नभस्तु स्वभावायोग्यमेव, न प्रतिरुद्धयोग्यताकम्, येन शब्दावच्छेदेन योग्यं भवेत्। यद्वा- द्रव्यग्रहे चक्षुषो रूपापेक्षा, न त्वन्यग्रहे। ब्रह्म तु न द्रव्यम्, `अस्थूलमनण्वह्रस्वमदीर्घ ' मिति श्रुत्या चतुर्विधपरिमाणनिषेधेन द्रव्यत्व प्रतिषेधात्। अतो नानुपपत्तिः। अस्तु वा द्रव्यम्। तथाप्यध्यस्तद्रव्यत्ववति गुणादौ रूपानपेक्षचाक्षुषत्वदर्शनेन धर्म्यन्यूनसत्ताकद्रव्यत्ववत्येव चक्षू रूपमपेक्षते। ब्रह्मणि च द्रव्यत्वं धर्म्यपेक्षया न्यूनसत्ताकमवेति न तद्ग्रहे रूपाद्यपेक्षा। कल्पितत्वं च स्वाभाववति प्रतीयमानत्वं वा, स्वरूपज्ञाननिवर्त्यत्वं वेत्यन्यदेतत्। तस्मात् परिच्छिन्नत्वमपि भवति हेतुरिति सिद्धम्। इति परिच्छिन्नत्वहेतूपपत्तिः।

[ 1-1-15]

 

[1-1-16]    16.अंशित्वादिहेतुभङ्गः

 

      चित्सुखाचार्यैस्तु- `अयं पटः, एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगी, अंशित्वाद्, इतरां शिवद् इत्युक्तम्। तत्र तन्तुपदमुपादानपरम्। तेन स्वोपादाननिष्ठात्यन्ताभावप्रतियोगित्वलक्षणमित्यात्वसिद्धिः। न च- कार्यस्य कारणाभेदेन तदनाश्रितत्वात् सिद्धसाधनम्, अनाश्रितत्वेनान्याश्रितत्वेन वा उपपत्त्या अर्थान्तरं च इति वाच्यम्। अभेदे कार्यकारणभावव्याहत्या कथञ्चिदपि भेदस्यावश्याभ्युपेयत्वात्। न च `तदनन्यत्वमारम्भण शब्दादिभ्य' इत्यधिकरणविरोधः। उपादानव्यतिरेकेणोपादेयं नास्तीत्यस्यैव तदर्थत्वात्। बाधत्तन्मात्राश्रितत्वेन पक्षविशेषणाद्वा नार्थान्तरम्। न च प्रकृतेऽपि बाधः। तस्योद्धरिष्यमाणत्वात्। न चात्यन्ताभावस्य प्रामाणिकत्वाप्रामाणिकत्वविकल्पावकाशः । तस्य प्रागेव निरस्तत्वात्। न च- कस्यचित् पटस्य संयोगवृत्त्यैतत्तन्तुषु सत्त्वेन तत्र व्यभिचार इति वाच्यम्। तत्समवेतस्य तन्निष्ठात्यन्ताभावप्रतियोगित्वमङ्गीकुर्वतः तत्संयोगिनस्तन्निष्ठा त्यन्ताभावप्रतियोगित्वाङ्गीकारेण पक्षसमत्वात्।  न चाव्याप्यवृत्तित्वे नार्थान्तरम्। पटतदभावयोरेकाधिकरणवृत्तौ विरोधस्य जगति दत्तजलाञ्जलित्वप्रसङ्गात्, संयोगतदभावयोरप्येकाधिकरणवृत्तित्वानभ्युपगमात्। अभ्युपगमे वा एतत्तन्तुत्वावच्छिन्नवृत्ति त्वमत्यन्ताभावस्य विशेषणं देयम्, एवमेतत्कालीनत्वमपि। तेन कालान्तरीयाभावमादाय नार्थान्तरम्। न चेह तन्तुषु पट इति प्रत्यक्ष बाधः। तस्य भ्रमसाधारणतया चन्द्रप्रादेशिकत्वप्रत्यक्षवदप्रामाण्यशङ्कास्कन्दितत्वेनाबाधकत्वात्। बाधोद्धारे च विस्तरेणै तद्वक्ष्यामः। न च- अन्यासमवेतस्यांशित्वमेतत्तन्तु समवेतत्वं विना न युक्तमिति विरुद्धो हेतुरिति- वाच्यम्। एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वेऽप्येतत्तन्तुसमवेतस्य सत्त्वेनांशित्वस्य साध्येनाविरोधात्। एतन्निष्ठात्यन्ताभावाप्रतियोगित्वं हि एतत्समवेतत्वे प्रयोजकं न भवति, परमते केवलान्वयिधर्ममात्रस्य एतत्समवेतत्वापत्तेः। किन्त्वेतन्निष्ठप्रागभावप्रतियोगित्वादिकम्। तच्चैतन्निष्ठात्यन्ताभावप्रतियोगित्वेऽपि न विरुद्धमित्युपपादितमधस्तात्। एतत्समवेतत्वं चैतदुपादानकत्वम्, न तु नित्यसम्बन्धशालित्वम्, तस्यानभ्युपगमात्। ननु- अयं पट एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगी न, एतत्तन्त्वारब्धत्वाद्, व्यतिरेकेण पटान्तरवदिति प्रतिरोधः। न चाप्रसिद्धविशेषणत्वम्। एतन्निष्ठात्यन्ताभावप्रतियोगित्वं किञ्चिन्निष्ठात्यन्ता भावप्रतियोगि, संसर्गाभावप्रतियोगित्वव्याप्यत्वात्, प्रागभावप्रतियोगित्ववदिति सामान्यतस्त त्प्रसिद्धेः। न च - आकाशात्यन्ताभावस्य घटादौ संसर्गाभावप्रतियोगित्व व्याप्यत्वग्रहात् तस्य च केवलान्वयित्वेन किञ्चिन्निष्ठात्यन्ताभावप्रतियोगित्वाभावात् यत्र व्यभिचार इति वाच्यम्। संसर्गाभावप्रतियोगित्वानधिकरणे केवलान्वयिनि धर्मे सत्त्वेनाकाशात्यन्ताभावस्य संसर्गाभावप्रतियोगित्वाव्याप्यत्वेन व्यभिचाराभावाद् इति चेन्न, यत्रैतत्तन्तुनिष्ठात्यन्ता भावप्रतियोगित्वम्, तत्रैतत्तन्त्वारब्धत्वाभाव इति व्यतिरेकव्याप्तावेतन्निष्ठप्रागभावाप्रतियोगित्वस्योपाधित्वेन प्रतिरोधस्य हीनबलत्वाद्, एतत्तन्त्वारब्धत्वाभावव्यापकस्यैतत्तन्तु निष्ठप्रागभावाप्रतियोगित्वस्य पक्षावृत्तेः पक्षवृत्तितया सन्दिह्यमानैतत्तन्तुनिष्ठात्यन्ता भावप्रतियोगित्वाव्यापकत्वात्। दृश्यत्वाद्यनुपपत्तिप्रतिकूलतर्कपराहतेर्वक्ष्यमाणत्वाच्च। अत एव एतत्तन्त्वनारब्धत्वमपि नोपाधिः। उपाधिव्यतिरेकेण साध्यव्यतिरेक साध्यमाने सोपाधिकत्वस्योक्तत्वात्। अव्याप्यवृत्तिसंयोगाभ्युपगमे तत्र व्यभिचाराच्च। अत एव यत्रैतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वम्, तत्रैतत्तन्त्वनारब्धत्वमिति न साध्यव्यापकताग्रहोऽपि। तत्रैव व्यभिचारादिति सर्वमनवद्यम्।।

      एवं च `विमतं ज्ञानव्यतिरेकेणासत्, ज्ञानव्यतिरेकेणानुपलभ्यमानत्वात्, स्वप्नादिवदि' ति विद्यासागरोक्तमपि साधु। ज्ञानव्यतिरेकेणासत्त्वमुक्तमिथ्यात्वान्यतमत्वं चिदाभासे सत्त्येवोपलभ्यमानत्वं हेतुरिति न किञ्चिदनुपपन्नम्। एवमन्येषामपि प्रयोगा यथायोगमुपपादनीया इति शिवम्। इत्यंशित्वहेतूपपत्तिः।

[ 1-1-16]

 

[1-1-17]    17.दृश्यत्वादेः सोपाधिकत्वम्

 

      ननु -दृश्यत्वादिहेतवः सोपाधिकाः। तथाहि स्वबाधकाभिमताबाध्यदोषप्रयुक्तभानत्वं स्वबाधकाबाध्यबाधकं प्रति निषेध्यत्वेन विषयत्वं वा विपक्षाद् व्यावृत्तं समव्याप्तम्। अत एव व्यतिरेकव्याप्तिमदुपाधिः इति चेन्न। ब्रह्मज्ञानमात्रबाध्ये देहात्मैक्ये मिथ्याभूते साध्याव्यापकत्वात्। पर्वतावयववृत्त्यन्यत्वादिवत् साधनवत्पक्षमात्रव्यवर्तकविशेषणवत्त्वेन पक्षेतरत्वतुल्यत्वाच्च। न च बाधोन्नीतत्वात् सोऽप्युपाधिः। बाधस्याग्रे निरसिष्यमाणत्वाद्। अपि च यद्व्यतिरेकस्य साध्यव्यतिरेकसाधकत्वं तस्यैव साध्यव्यापकत्वम्, इतरांशे अनुकूलतर्काप्रसरात्। तथा च `क्षित्यादिकं न कर्तृजन्यम् शरीराजन्यत्वा' दित्यत्र यथा शरीरविशेषणवैयर्थ्यान्न शरीरजन्यत्वं कर्तृजन्यत्वव्यापकम्, एवं `वियदादिकं न मिथ्या स्वबाधकाभिमताबाध्यदोष प्रयुक्तभानत्वरहितत्वा ' दिति साध्यव्यतिरेकसाधने स्वबाधकाभिमताबाध्यभागस्य वैयर्थ्यात् स्वबाधकाभिमताबाध्यदोषप्रयुक्तभानत्वं न मिथ्यात्वव्यापकम्। दोषप्रयुक्तभानत्वं तु भवति साध्यव्यापकम्। तच्च साधनव्यापकमपीति नोपाधिः। दृश्यत्वादिनैव मिथ्यात्ववत्तस्यापि साधनात्। एवं द्वितीयोपाधावपि `स्वबाधकाबाध्यबाधकं प्रती' ति विशेषणं व्यतिरेकसाधने व्यर्थम्। विशेष्यभागस्तु साध्यसाधनयोर्व्यापक इति नोपाधिः। अत एवाधिष्ठानत्वाभिमत समसत्ताकदोषवद्धेतु जन्यज्ञानविषयत्वमुपाधिः। अत्र च ब्रह्मणोऽपि बौद्धकल्पितदोषवद्धेतुजन्यक्षणिकत्वादि ज्ञानविषयत्वात्, समव्याप्तिसिद्ध्यर्थमधिष्ठान समसत्ताकेति विशेषणम्, न तु पक्षमात्र व्यावृत्त्यर्थम्, अतो न पक्षेतरतुल्यतेत्यपास्तम्। ब्रह्मणीव ब्रह्मणि कल्पिते क्षणिकत्वादावपि मिथ्याभूते धर्मे अधिष्ठानसमसत्ताकदोषवद्धेतुजन्यज्ञानाविषयत्वादुपाधेः साध्याव्याप्तेः। व्यतिरेकसाधने व्यर्थविशेषणत्वस्योक्तत्वाच्च। नापि श्रुतितात्पर्याविषयत्वमुपाधिः। श्रुतितात्पर्यविषयत्वस्य ब्रह्ममात्रनिष्ठतया तदभावस्य साधनव्यापकत्वात्। नापि प्रातिभासिकत्वमुपाधिः। तद्धि ब्रह्मज्ञानेतरबाध्यत्वम्। तस्य च देहात्मैक्ये मिथ्याभूतेऽप्य सत्त्वेन साध्याव्याप्तेः। व्यतिरेके व्यर्थविशेषणत्वाच्च। नापि प्रतिभासमात्रशरीरत्वमुपाधिः। दृष्टिसृष्टिपक्षे साधनव्यापकत्वात्, परेषामसिद्धेश्चेति। इति दृश्यत्वादीनां सोपाधित्वभङ्गः।।

 

[ 1-1-17]

 

[1-1-18]    18.दृश्यत्वादेः आभाससाम्यम्

 

      ननु- विमतं प्रातिभासिकम् दृश्यत्वात्, ब्रह्म मिथ्या व्यवहारविषयत्वाद् असद्विलक्षणत्वाद्वा शुक्तिरूप्यवदित्याद्याभाससाम्यम्- इति चेन्न। जगतो व्यावहारिकसत्त्व बाधे व्यवहारानुपपत्तिः, ब्रह्मणो मिथ्यात्वे शून्यवादापत्तिश्चेति प्रतिकूलतर्कपराघातेन तयोरसाधकत्वात्। प्रकृते च प्रतिकूलतर्कस्य निरसिष्यमाणत्वात्। किञ्च प्रतिभासिकत्वं ब्रह्मज्ञानेतरबाध्यत्वम् ? प्रतिभासमात्रशरीरत्वं वा ? आद्ये साध्ये देहात्मैक्ये व्यभिचारः, अप्रयोजकत्वं च। द्वितीये दृष्टिसृष्टिमतेन सिद्धसाधनम्। एवं ब्रह्मणि मिथ्यात्वे साध्ये सोपाधिके सिद्धसाधनम्। अनुपाधिके व्यवहारविषयत्वरूपो हेतुरसिद्धः। वेदान्तजन्यवृत्ति विषयत्वाभ्युपगमेऽप्यप्रयोजकः। एवमसद्विलक्षणत्वमपि ब्रह्मण्यसिद्धमेव। क्वचिदप्युपाधौ सत्त्वेन प्रतीत्यनर्हत्वं ह्यसत्त्वम्, सद्विलक्षणत्वं च क्वचिदप्युपाधौ सत्वेन प्रतीत्यर्हत्वरूपम्, तच्च शुद्धे ब्रह्मणि नास्त्येव। न च - बाध्यत्वमसत्त्वम्, तद्विलक्षणत्वं चाबाध्यत्वम्, तच्च ब्रह्मण्यस्त्येवेति- वाच्यम्, अबाध्यत्वेन बाध्यत्वलक्षणामिथ्‌यात्वसाधने विरोधात्, शुक्तिरूप्यदृष्टान्तस्य साधनविकलत्वाच्च, शून्यवादस्याग्रे निराकरिष्यमाणत्वाच्च। तस्मान्न दृश्यत्वादीनामाभाससाम्यमिति सिद्धम्। इति आभाससाम्यभङ्गः।

[ 1-1-18]

 

[1-1-19]    19.सत्त्वनिरुक्तिः

 

      ननु `सन् घट' इत्याद्यध्यक्षबाधितविषया दृश्यत्वादय इति चेन्न; चक्षुराद्यध्यक्षयोग्यमिथ्यात्वविरोधिसत्त्वानिरुक्तेः। तथा हि- न तावत् प्रमाविषयत्वं, तद्योग्यत्वं, भ्रमाविषयत्वं वा तदृक्सत्त्वम्। चक्षुराद्यगम्यभ्रमप्रमाघटितत्वेन चक्षुराद्ययोग्यत्वाद्, वक्ष्यमाणदूषणगणग्रासाच्च। तथा हि- नाद्यः, असति प्रमाणाप्रवृत्तेः प्रमाविषयत्वात्प्राक् सत्त्वस्य वक्तव्यत्वेन तस्य तदन्यत्वात्। सत्त्वनिरूपणं विना सदर्थविषयकत्वरूपप्रमात्वस्य निरूपणे चान्योन्याश्रयात्। मिथ्याभूतस्यापि शुक्तिरजतसंसर्गस्य व्यवसायद्वारा साक्षाच्च निषेध्यत्वादिना प्रमाविषयत्वाभ्युपगमाच्च। नापि द्वितीयः, योग्यताया अनिरूपणात्। न तृतीयः, असिद्धेः, सर्वस्यैव क्षणिकत्वादिना भ्रमविषयत्वाभ्युपगमात्। अत एव नासत्त्वाप्रकारकप्रमाविषयत्वमपि, अन्योन्याश्रयाच्च। नापि सत्त्वप्रकारकप्रमाविषयत्वम्, आत्माश्रयात्। नाप्यसत्त्वप्रकारकभ्रमाविषयत्वं सत्त्वम्, अन्योन्याश्रयात्। नापि प्रतिपन्नोपाधौ त्रैकालिकसत्त्वनिषेधविरहः, आत्माश्रयात्। नापि सत्ता जातिरर्थक्रियाकारित्वमसद्वैलक्षण्यं वा, एतेषां मिथ्यात्वाविरोधित्वेन तत्प्रत्यक्षेण मिथ्यात्वानुमाने बाधाभावात्। नापि वेदान्त्यभिमतमिथ्यात्वाभावः सत्त्वम्, तुच्छेऽतिव्याप्तेः। नाप्यसद्विलक्षणत्वे सत्यनारोपितत्वम्, अनारोपितत्वं हि आरोपाविषयत्वम्, तच्चासम्भवि। सर्वस्यापि क्षणिकत्वादिना आरोपविषयत्वात्। नापिअस्तित्वप्रकारकप्रमां प्रति कदाचित् साक्षाद्विषयत्वं कालसम्बन्धित्वं वा सत्त्वम्। अस्तित्वं च वर्तमानत्वम्। न तु सत्त्वमतो नात्माश्रयः। अतीतादिरपि कदाचिद् वर्तत एवेति नाव्याप्तिः। आरोपितं च कालत्रयासम्बन्धित्वेन बाधेन बोधितमिति न द्वितीयलक्षणेऽतिव्याप्तिरिति। वाच्यम् - प्रमात्वस्य सत्त्वघटितत्वेन चक्षुराद्ययोग्यत्वेन च पूर्वोक्तदोषाद्, वर्तमानत्वप्रकारकप्रमाविषयत्वेऽपि मिथ्यात्वाविरोधाच्च। द्वितीयमपि न मिथ्यात्वविरोधि। शुक्तिरूप्यस्यापि प्रतिभासकालसम्बन्धित्वात्। बाधेन तात्त्विककालत्रय सम्बन्धनिषेधेऽप्यतात्त्विककाल सम्बन्धस्यानिषेधात्। नापि तात्त्विककालसम्बन्धित्वं तत्। तात्त्विकत्वस्याद्याप्यनिरूपणात्। निरूपणे वा शैषवैयर्थ्यात्। ननु - भवन्मते यत् सत्त्वं ब्रह्मणि, तदेवेह मम। उक्तं हि- `यादृशं ब्रह्मणः सत्त्वं तादृशं स्याज्जगत्यपि। तत्र स्यात्तदनिर्वाच्यं चेदिहापि तथास्तु नः।' इति। न च- तत्रापरिच्छिन्नत्वं सत्त्वम्, तच्च न जगतीति-वाच्यम्। तुच्छस्यापरिच्छिन्नत्वेऽपि सत्त्वानभ्युपगमान्नापरिच्छिन्नत्वं सत्त्वम्। किं त्वन्यदेव। तच्च ब्रह्मणीव भ्रमाधिष्ठानत्वाच्छुक्तिकादेरपि भविष्यतीति- चेत्, नूनं विवाहसमये कन्यायाः पित्रा निजगोत्रं पृष्टस्य यदेव भवतां गोत्रं तदेव ममापि गोत्रमिति वदतो वरस्य भ्राता भवान्, यतो जामातृश्वशुरयोरेकगोत्रत्वे विवाहानुपपत्तिवज्जगद्ब्रह्मणोरेकसत्त्वे जगतोऽसत्त्वमेव स्यात्। तथा हि- स्वप्रकाशाद्वितीयचैतन्यरूपत्वमेव ब्रह्मणः सत्त्वम्। तदेव चेज्जडस्यापि जगतस्तदा रजतत्व विरोधिशुक्तिसत्तया रजतस्येव जडत्वविरोधिस्वप्रकाशसत्तया जगतः स्वरूपतो मिथ्यात्वोपपत्तेः। चैतन्यस्यैवावच्छिन्नानवच्छिन्नाज्ञानविषयत्वेन सर्वभ्रमाधिष्ठानत्वाभ्युपगमान्न भ्रमाधिष्ठानत्वेन शुक्त्यादेः सत्त्वसिद्धिः। नन्वेवमपि सर्वदेशीयत्रैकालिकनिषेधप्रतियोगित्वमसत्त्वं तुच्छनिर्वचनीयसाधारणम्। तदभावः सत्त्वम्। तच्च ब्रह्मणीव जगत्यपीति ब्रूमः। न च संयोगेऽव्याप्तिः, तस्याव्याप्यवृत्तित्वाभ्युपगमात्। तदभ्युपगमे च व्याप्यवृत्तित्वेनाभावो विशेषणीयः। नापि वियत्यव्याप्तिः, तदत्यन्ताभावस्य केवलान्वयित्वानङ्गीकारेण लक्षणस्य विद्यमानत्वादेव। न हि कस्मिंश्चिद् देशे काले वा तस्याभावः, नित्यविभुत्वभङ्गप्रसङ्गात्। आकाशात्यन्ताभावस्य केवलान्वयित्वाभ्युपगमे च वृत्तिमत्प्रतियोगिकत्वेनाभावो विशेषणीयः - इति चेन्न। चक्षुराद्ययोग्यानेकपादर्थ घटितत्वेनैतादृशसत्त्वस्य ग्रहणे चक्षुरादेरसामर्थ्यात्। न हि सर्वदेशीयत्रैकालिक वृत्तिमत्प्रतियोगिकव्याप्यवृत्तिनिषेधप्रतियोगित्वं कस्यापि प्रत्यक्षम्। येन तदभावः प्रत्यक्षो भवेत्। वृत्तिमत्प्रतियोगिकत्वव्याप्यवृत्तित्वपरित्यागेऽपि सर्वदेशीयत्वत्रैकालिकत्वयोरयोग्यत्वात्।

 

      ननु- स्वदेशकालवृत्तिनिषेधप्रतियोगित्वाभावे गृह्यमाणे कालत्रयमध्ये वर्तमानकालस्य सर्वदेशमध्ये प्रकृतदेशस्यापि प्रवेशेन तत्र निषेधप्रतियोगित्वाभावस्य गृहीतत्वात्तत्संवलितं कालत्रयवृत्तिसर्वदेशीयनिषेधप्रतियोगित्वरूपं मिथ्यात्वं नानुमानेन ग्रहीतुं शक्यते- इति चेन्न। स्वदेशकालवृत्तिसकलनिषेधप्रतियोगित्वस्य चक्षुराद्‌ययोग्यत्वेन तदभावस्य सुतरां तदयोग्यत्वात्। स्वदेशकालवृत्तियत्किञ्चिन्निषेधाप्रतियोगित्वस्य मिथ्यात्वाविरोधित्वात्। स्वप्रतियोगिकात्यन्ताभावासामानधिकरण्यस्य च स्वप्रतियोगिकात्यन्ताभावाप्रसिद्ध्या केवलान्वयिनि, सम्बन्धभेदेन घटादौ चासिद्धेः। स्वात्यन्ताभावयावदधिकरणावृत्तित्वं वा, स्वात्यन्ताभावयत्किञ्चिदधिकरणावृत्तित्वं वेति विकल्पेन पूर्वोक्तदोषाच्च। तस्मात्तत्प्रकारान्तरस्य निरूपयितुमशक्यत्वान्मिथ्यात्वाविरोधित्वाच्च स्वसमानाधिकरणयावदत्यन्ताभावप्रतियोगित्वा भावरूपमेव सत्त्वमुपेयम्। तच्च न चक्षुरादियोग्यमित्युक्तम्। ननु यस्मिन्कस्मिंश्चित् स्वदेशकालवृत्तिनिषेधे एतद्‌देशैतत्कालवृत्तिनिषेधत्वं ज्ञात्वा तेन प्रत्यासत्तिभूतेनोपस्थापितानां स्वदेशकालवृत्तिसकलनिषेधानां प्रतियोगित्वस्याभावो घटे ग्राह्यः। ततः सार्वदिकसर्वदेशीयनिषेधप्रतियोगित्वस्य ग्रहणं घटे दुर्घटमिति- चेन्न। एवं सामान्यलक्षणया सर्वनिषेधेषूपस्थितेष्वपि तत्प्रतियोगित्वाभावस्य चक्षुरादिना ग्रहीतुमशक्यत्वात्। योग्यप्रतियोगिक एव हि संसर्गाभावो योग्यः। न चाशेषनिषेधानां प्रतियोगित्व मतीन्द्रियसाधारणं चक्षुरादियोग्यम्।

 

      वस्तुतस्तु- सामान्यं नेन्द्रियप्रत्यासत्तिः, मानाभावात्। न च - महानसीयधूमेन्द्रियसंयोगेन तत्रैव व्याप्तिग्रहे पर्वतीयधूमादनुमितिर्नस्यात्, सामान्यस्य च धूमत्वादेः प्रत्यासत्तित्वे तस्यापि प्रत्यासन्नत्वात्तत्र व्याप्तिग्रहे ततोऽनुमितिरिति -वाच्यम्। पर्वतीयधूमेन्द्रियसन्निकर्षदशायां धूमत्वेन प्रकारेण गृहीतस्मृतव्याप्तेस्तत्र वैशिष्ट्यग्रहसम्भवात्। `सुरभि चन्दनम्' इतिवद् विशेष्येन्द्रियसन्निकर्षविशेषणज्ञानासंसर्गाग्रहरूपाया विशिष्ठज्ञानसामग्र्याः पूर्णत्वात्। व्यप्तिस्मृतिप्रकारेण वा पक्षधर्मताज्ञानस्य हेतुता। महानसीय एव धूमो धूमत्वेन व्याप्तिस्मृतिविषयो भवति। धूमत्वेन पर्वतीयधूमज्ञानं चापि जातम्, तच्च सामान्यलक्षणां विनैव। तावतैवानुमितिसिद्धेः। न च- सामान्यप्रत्यासत्तिं विना धूमो वह्निव्यभिचारी न वेति अनुभूयमानः संशयो न स्यात्, प्रसिद्धे धूमे वह्निसम्बन्धावगमाद् अप्रसिद्धस्य चाज्ञानादिति- वाच्यम्। प्रसिद्धधूम एव तत्तद्धूमत्वादिना व्याप्तिनिश्चयेऽपि धूमत्वेन तत्संशयोपपत्तेः। तथा चोक्तं मणिकृता - `घटत्वेनेतरभेदनिश्चयेऽपि पृथिवीत्वादिना तत्र संशयसिषाधयिषे भवत एवेति। निश्चितेऽप्यर्थे प्रामाण्यसंशयाहितसंशयवद् धूमत्वं वह्निव्यभिचारिवृत्ति न वेति संशयादपि तादृशसंशयोपपत्तेश्च। एतेन वायू रूपवान्नवेति संशयोऽपि व्याख्यातः।

 

      ननु - सिद्धे नेच्छा, किन्तु असिद्धे। सा च स्वसामानविषयकज्ञानजन्या। तच्च  ज्ञानं न सामान्यप्रत्यासत्तिं विना। न च - सिद्धगोचरसुखत्वप्रकारकज्ञानादेवाज्ञाते सुखे भवतीच्छा। समानप्रकारकत्वमात्रस्य नियामकत्वादिति वाच्यम्। रजतत्वेन प्रकारेण रजते अनुभूयमाने घटादौ रजतत्वप्रकारकेच्छाप्रसङ्गात्। न च प्रकाराश्रयत्वमपि नियामकम्। रजतभ्रमाच्छुक्ताविच्छानुदयप्रसङ्गात्। तथा च समानप्रकारकत्वे सति समानविषयकत्वं तन्त्रम्। अत एवाख्यातिपक्षे रजतस्मरणस्यैव शुक्तौ प्रवर्तकत्वमित्यपास्तमिति चेन्न। यतो रजतभ्रमाच्छुक्ताविच्छा नास्त्येव किन्त्वनिर्वचनीये रजत इत्यनिर्वचनीयख्यातौ वक्ष्यते। प्रकाराश्रयत्वं नियामकं वदन्नख्यातिवादी परमेवं विभीषणीयः। तथा च प्रकाराश्रयत्वस्य नियामकत्वादन्यथाख्यातिपक्षोऽपि निरस्त एव। न च तर्हि भ्रमत्वं न स्याद्, इदं रजतमिति भ्रमत्वाभिमतज्ञानस्य व्यधिकरणप्रकारत्वानभ्युपगमादिति वाच्यम्। बाधित विषयत्वेन हि भ्रमत्वं न तु व्यधिकरणप्रकारत्वेन, तस्यापि विषयबाधप्रयोज्यत्वादिति हि वक्ष्यते। ननु - अभावज्ञानस्य प्रतियोगिज्ञानजन्यत्वात्, प्रौढप्रकाशयावत्तेजोविरहरूपस्य समसः प्रत्यक्षता न स्यात्। सामान्यप्रत्यासत्तिं विना प्रतियोग्यनुपस्थितेरिति- चेन्न। अस्मन्मते तमसो भावान्तरत्वात्। न च- तथापि तद्व्यञ्जकत्वात्तदपेक्षेति -वाच्यम्। स्वरूपसत एव तादृक्तोजोविरहस्य तमोव्यञ्जकत्वम्, न तु ज्ञातस्य मानाभावादित्यभ्युपगमात्। अन्येषां मते तादृक्तेजोविरहज्ञानस्यापेक्षितत्वेऽपि प्रतियोगितावच्छेदकप्रकारकज्ञानादेव तत्सम्भवेन तदर्थं सकलप्रतियोगिज्ञानजनिकायाः सामान्यप्रत्यासत्तेरनुपयोगात्। न च गोत्वाभावज्ञानं गोत्वत्वप्रकारकज्ञानजन्यम्। तच्च गवेतरावृत्तित्वे सति सकलगोवृत्तित्वरूपं सामान्यप्रत्यासत्तिमन्तरेण न शक्यमवगन्तुमिति साम्प्रतम्। यत्किञ्चिद्गोव्यक्तेरेव गोत्वत्वरूपत्वात्। एतेन प्रागभावप्रतीतिरपि व्याख्याता। किञ्च अनागतज्ञानस्यापेक्षित्वे अनुमानादेव तद्भविष्यति। तथा च न्यायकुसुमाञ्जलौ-

 

"शङ्का चेदनुमाऽस्त्येव न चेच्छङ्का कुतस्तराम्।

व्याघातावधिराशङ्का तर्कः शङ्कावधिर्मतः।।"

 

इत्यन्त शङ्कोपपादकमनागतज्ञान मनुमानादेवेत्युक्तम्। अनुमानं च - वर्तमानपाकः पाकप्र्वकालीनः पाकत्वादतीत पाकवदित्यादि। न च चरमपाके व्यभिचारः। साध्यसिद्धयुपजीवकस्य व्यभिचारज्ञानस्यादोषत्वात्। अन्यथा सिद्ध्यसिद्धिव्याघातात्। किस शब्दादपि सकलधूमपाकादिगोचरज्ञानसेभवः। न च शङ्कादिपूर्वं शब्दस्योपस्थितिनियमाभाव इति वाच्यम्। कदाचिदेव शब्दादनुभूतस्य तदानीं प्रमृष्टतत्ताकस्मृतिसम्भवात्। ननु अनुमितेर्विशेषणज्ञानजन्यत्वेन सामान्यप्रत्यासत्तिसिद्धिः। न चानुमानान्तराद्विशेषण ज्ञानमनवस्थानादिति चेन्न। विशेषणतावच्छेदकप्रकारकज्ञानादेव साध्यविशेषणकपक्ष विशेष्यकानुमितिसम्भवात्। एतेन- `सुरभि चन्दनम्' इत्यादिविशिष्टज्ञानाय कल्पिता ज्ञानलक्षणा प्रत्यासत्तिरपि निरस्ता। चन्दनत्वेन सुरभित्वानुमानोपपत्तेः। अन्यथा साध्यविशिष्टपक्षप्रत्यक्षोपपत्तेरनुमानमात्रोच्छेदप्रसङ्गात्। न च- अभावसाध्यककेवल व्यतिरेकिणि साध्यप्रसिद्धेरनङ्गत्वात्तत्र क्लृप्ताया अनुमितिसामग्र्याः प्रत्यक्षसामग्रीतो बलवत्त्वमिति वाच्यम्। अर्थापत्तिवादिभिरस्माभिस्तदनभ्युपगमात्। पर्वतवृत्तिधूमो वह्निव्याप्य इति परामर्शात् साध्यविशेष्यकपक्षविशेषणकानुमित्यभ्युगमे तु नैव काप्यनुपपत्तिः। अनुमितेः पक्षविशेष्यत्वनियमे मानाभावात्।

 

      किं च धूमत्वादिसामान्यं न स्वरूपतः प्रत्यासत्तिः। धूलीपटले धूमभ्रमानन्तरं धूमत्वेन सकलधूमनिष्ठवह्निव्याप्तिग्रहानुदयप्रसङ्गात्। तत्र स्वरूपतो धूमत्वाभावात्। न चेष्टापत्तिः। तदुत्तरकालमनुमित्यनुदयापत्तेः। तथा च धूमत्वज्ञानं प्रत्यासत्तिरिति वाच्यम्। तच्च धूमेन्द्रियसन्निकर्षदशायां धूमज्ञानात् प्राङ्नास्त्येव। निर्विकल्पके मानाभावात्। विशिष्टज्ञानत्वेन विशेषणज्ञानत्वेन च कार्यकारणभावानभ्युपगमात्। अवश्यक्लृप्तकार्यकारण भावविशेषेणैव सर्वव्यवहारोपपत्तेः। न च धूमत्वेन सन्निकृष्टधूमव्यक्तिज्ञानान्तरं तत्समानाकारमसन्निकृष्टधूमगोचरं ज्ञानान्तरमुत्पद्यत इत्यत्र मानमस्ति। धूमत्वेन पुरोवर्तिनं धूमं साक्षात्करोमि न व्यवहितमित्यनुभवाच्च। अन्यथा जगतीगतसकलधूमव्यक्तीरहं साक्षात्करोमीत्यनुव्यवसीयेत । न चैवमनुभवमात्रशरणैरभ्युपेयते। किं च सामान्यप्रत्या सत्त्यङ्गीकारे यत् प्रमेयम्। तदभिधेयम्, यत्प्रमेयवत्  तदभिधेयवदित्यादिव्याप्तिपरिच्छेदे सार्वज्ञ्यापत्तिः। न चेष्टैव सा। परज्ञानविषयो घटो न वेत्यादिसंशयानुपपत्तेः। न च घटत्वप्रकारकघटविषयकनिश्चयो घटसंशयविरोधी। प्रमेयमिति निश्चयस्तु घटविषयोऽपि न घटत्वप्रकारक इति वाच्यम्। भासमानवैशिष्ट्यप्रतियोगिन एव प्रकारत्वात्। घटत्वस्यापि प्रमेयमिति ज्ञाने भासमानवैशिष्ट्यप्रतियोगित्वात्। घटत्वप्रकारकनिश्चयस्य घटत्वज्ञानजन्यत्व विशेषणाददोष इति चेत्, न। विशेषणज्ञानत्वेनैव तस्य जनकता वाच्या। तस्याः प्रागेव निरासात्। स्वरूपसम्बन्धविशेषाभ्युपगमे चानिर्वचनीयवादापत्तेः इत्यादिदूषणानि बहुतरमूहनीयानि। तस्मात् सामान्यप्रत्यासत्त्या निषेधमात्रप्रतियोगित्वोपस्थितौ तदभावग्रहाद् बाध इत्यनुपपन्नमेव। इति सामान्यप्रत्यासत्तिभङ्गेन लौकिकालौकिकप्रत्यक्षबाधोद्धारः।

 

      अथ साक्षिबाधोद्धारः। ननु प्रत्यक्षस्य वर्तमानमात्रग्राहित्वे शुक्तिरूप्यादेः प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वरूपं मिथ्यात्वं कथं प्रत्यक्षं स्यात् ? अथ तत्र रजतत्वविरोधिशुक्तित्वे साक्षात्कृते तदन्यथानुपपत्त्या च रजतत्वाभावे निश्चिते मिथ्यैव रजतमभादिति तादृङ्निषेधप्रत्ययः स्वसम्बन्धसर्वावभासकेन साक्षिणैवोपपन्नः, तर्हि साक्षात् स्वविषयस्य गगनादेर्भाविकालनिषेधाप्रतियोगित्वं सकलकालग्राहिणा साक्षिणा गृह्यतामिति चेन्न। साक्षिणो विद्यमानसर्वावभासकत्वेनाविद्यमानभाविबाधाभावभासकत्वानुपपत्तेः। साक्षिज्ञानस्य भ्रमप्रमासाधारणत्वेन प्रमाणाबाधकत्वाच्च। ननु ज्ञानप्रामाण्यं गृह्णन् साक्षी घटादिगतमबाध्यत्वं गृह्णात्येव। न हि विषयाबाधमनन्तर्भाव्य प्रामाण्यग्रहणं नाम इति चेन्न। व्यवहारकालाबाध्यत्वमात्रेण प्रवृत्तावपि संवादोपपत्तेः। तद्रूपगतप्रामाण्यस्य साक्षिणा ग्रहणेऽपि विरोधाभावात्। न हि घटादिज्ञानस्य संवादिप्रवृत्तिजनकतावच्छेदकं प्रामाण्यं त्रिकालाबाध्यविषयकत्वम्। किन्तु शुक्तिरूप्यादिज्ञानव्यावृत्तं व्यवहारकालाबाध्यविषयक सकलज्ञानवृत्तिव्यवहारकालाबाध्यविषयकत्वमेव। तच्च न भाविकालबाधविरोधीत्युक्तम्। भाविकालबाधतदभावौ च न मानं विना साक्षिमा ग्रहीतुं शक्यौ। तस्य विद्यमानमात्रग्राहित्वादिति चोक्तम्। ननु तर्हि देहात्मैक्यज्ञानमुष्णं जलमित्यादि ज्ञानं च प्रमा स्यात्। व्यवहारदशायां विषयाबाधाद् इति चेन्न। आब्रह्मज्ञानमबाधितत्वेन तेषामपि घटादिज्ञानसमानयोगक्षेमत्वात्।

 

      ननु कालान्तरस्थमपि यद् बाधकं तदपि किं यत्कालावच्छेदेन अनेन स्वार्थो गृहीतस्तत्कालावच्छेदेनैव तन्निषेधति, उतान्यकालावच्छेदेन ? आद्ये कथमस्य प्रामाण्यम् ? अन्त्ये तु अनित्यत्वादिकमेव इति चेन्न। अबाध्यत्वरूपप्रामाण्यस्य प्रपञ्चज्ञाने मयाऽनङ्गीकारात्। यत्कालावच्छेदेनैवानेन स्वार्थो गृहीतस्तत्कालावच्छेदेनैव तन्निषेधाभ्युपगमात्। तच्च प्रामाण्यं मयाऽभ्युपेयते यद् व्यवहारदशायां विपरीतप्रमारूपबाधकस्यानुत्पन्नत्वादस्त्येव। न च यद् भवतां घटादिबुद्धेः प्रातिभासिकबुद्धितो वैलक्षण्यं विषयस्य व्यावहारिकसत्त्वसाधकं तदेवेह मम विषयस्य पारमार्थिकसत्त्वसाधकमस्त्विति वाच्यम्। प्रातिभासिकबुद्धिवैलक्षण्यं हि घटादिबुद्धेः सप्रकारकज्ञानाबाध्यविषयत्वादिरूपम्। तन्न पारमार्थिकसत्त्वं घटादेः साधयितुं शक्तम्। देहात्मैक्यज्ञाने ब्रह्मज्ञानाव्यवहितभ्रमे च व्यभिचारात्। ननु - `घटस्सन्', `रूप्यं मिथ्या' इति प्रतीत्योरविशेषे कथं `घटो मिथ्या', रूप्यमिथ्यात्वं न मिथ्या' इति विशेषः ? न च तदपि मिथ्यैव, रूप्यतात्त्विकत्त्वापत्तेः इति चेन्न। मिथ्यात्वमिथ्यात्वेऽपि यथा न रूप्यस्य तात्त्विकत्वं तत्रोपपत्तेरुक्तत्वात्। न च पारमार्थिकसत्त्वस्य प्रत्यक्षागोचरत्वे तन्निषेधश्रुतीनां अप्रसक्तप्रतिषेधकता स्यादिति वाच्यम्। तासां चक्षुरादिप्रसक्ततनिषेधपरत्वात्। पारमार्थिकत्वेन द्वैतनिषेधपरत्वेऽपि नाप्रसक्तनिषेधकत्वम्। परोक्षप्रसक्तेः सम्भवात्। `नान्तरिक्षेऽग्निश्चेतव्यः ' इत्यादिवदप्रसक्तप्रतिषेधस्याप्युपपत्तेश्च। न च अतात्त्विकप्रपञ्चे यदि तात्विकत्वमप्यध्यक्षेण न गृह्यते कथं तर्हि तस्यातत्त्वावेदकत्वम् ? न हि तदेव तत्त्वेनावेदयदतात्त्विकं नाम, दृश्यते च सार्वलौकिकः प्रपञ्चे पारमार्थिकत्वानुभव इति वाच्यम्। न ह्यस्माकं तत्त्वावेदकत्वं तद्वति तत्प्रकारकत्वम्, तद्भिन्नत्वमतत्त्वावेदकत्वम्। किन्त्वबाधितविषयकत्वं तत्त्वावेदकत्वम्, बाधितविषयत्वं चातत्त्वावेदकत्वम्। अबाधितविषयत्वं तु श्रौते ब्रह्मज्ञान एव, न तद्भिन्नज्ञाने। तात्पर्यवद्वेदत्वेनैव तत्त्वावबोधकत्वात्। तथा च प्रपञ्चप्रत्यक्षस्य तात्त्विकत्वागोचरत्वेऽप्यतत्त्वावेदकत्वं सङ्गच्छते। सार्वलौकिकी पारमार्थिकत्वप्रसिद्धिस्तु जलगतपिपासोपशमनसामर्थ्यप्रसिद्धिवत् परोक्षतयाऽप्युपपन्ना नापरोक्षत्वपर्यवसायिनी।

    

तस्मादध्यक्षयोग्यस्य सत्त्वस्येहानिरुक्तितः।

नाध्यक्षबाधो मिथ्यात्वलिङ्गस्यात्रोपपद्यते।।

 

न लौकिकं न सामान्यजन्यं साक्ष्यात्मकं न च ।।1।।

प्रत्यक्षं बाधते लिङ्गं मिथ्यात्वस्यानुमापकम्।।

 

इति प्रत्यक्षयोग्यसत्त्वानिरुक्त्या प्रत्यक्षबाधोद्धारः ।।2।।

[ 1-1-19]

 

[1-1-20]    20.प्रत्यक्षस्य ज्ञात्या उपक्रमादिन्यायैश्च प्राबल्यम्

 

      `किञ्चेदं रूप्यं' इत्यत्र इदमितिवत् `सन् घटः' इत्यत्रापि सदित्यधिष्ठानभूतं ब्रह्मैव भासते। न च चाक्षुषादिज्ञाने रूपादिहीनस्य ब्रह्मणः कथं स्फुरणमिति वाच्यम्। रूपादिहीनस्यापि कालादिन्यायेन स्फुरणस्य प्रागेवोपपादितत्वात्। नन्वेवं `नीलो घटः' `मिथ्या रूप्यम्' असन्नृश्रृङ्गम् 'इत्यादावपि `नीलः' इत्यादिरधिष्ठानानुवेध इति स्यात्। न च नैल्यं घटादिष्वस्ति, सत्त्वं तु नेति वाच्यम्। अस्यारोपितत्वसिद्ध्युत्तर कालीनत्वेनान्योन्याश्रयाद्, अन्यथा `सत्यं ज्ञानं' इत्यत्रापि सत्यमित्यधिष्ठानानुवेध एव स्यात् इति चेन्न। सन्नित्यस्य `घटः'इत्यनेन सामानाधिकरण्यस्य बाधित्वात्। तथा हि- सत्ताजातिस्फुरणनिबन्धनं वा, स्वरूपसत्त्वनिबन्धनं वा, कालत्रयाबाध्यत्वनिबन्धनं वा सामानाधिकरण्यं स्यात्। न चाभावादिसाधारणसत्प्रतीतौ सत्ताजातिस्फुरणं सम्भवति। अभावादिषु त्वयापि तदनङ्गीकारात्। न च क्वचित्साक्षात्सम्बन्धेन क्वचित् परम्परासम्बन्धेन सदिति प्रतीत्युपपत्तिः। विजातीयसम्बन्धेन सामानाकारप्रतीत्यनुपपत्तेः। अन्यथा सम्बन्धेभेद एव न सिध्येत्। न च स्वरूपसत्त्वेनाभावादौ तत्प्रतीतिः, अननुगमात्। अननुगतेनापि अनुगतप्रतीतौ जातिमात्रोच्छेदप्रसङ्गात्। अत एव न सर्वत्रापि स्वरूपसत्त्वेनैव सद्‌व्यवहारः। एकेनैव सर्वानुगतेन सर्वत्र सत्प्रतीत्युपपत्तौ बहूनां तद्धेतुत्वकल्पने मानाभावात्। नापि कालत्रयाबाध्यत्वनिबन्धनं तत्। तस्य चक्षुराद्यगम्यत्वस्योक्तत्वात्। `सदिदं रजतम्' इत्यादिभ्रमे अभावाच्च। तस्मादेकं सर्वाधिष्ठानमेव सदिति सर्वत्रानुभूयत इति युक्तम्। नीलादेस्तु घटादिसामानाधिकरण्ये किमपि नास्ति बाधकम्। न वा नीलादेरधिष्ठानत्वं सम्भवति। प्रागसत्त्वात्। नीलपीतादिप्रातिस्विकानन्ताधिष्ठानकल्पने गौरवात्। अधिष्ठेयेन तुल्ययोगक्षेमत्वाच्च। अधिष्ठेयविषमसत्ताकमेव ह्यधिष्ठानं भवति। `मिथ्या रूप्यम् असन्नृश्रृङ्गम्' इत्यादौ मिथ्यात्वासत्त्वयोरधिष्ठानत्वशङ्कापि नास्ति। शून्यवादापत्तेः। तत्र चानुपपत्तिरुक्ता, वक्ष्यते च। यत्तु `सत्यं ज्ञानमनन्तम्'इत्यत्रापि तथा स्याद् इति। तन्न। यतो न तत्र सत्तासम्बन्धेन सत्त्वम्, किन्तु स्वरूपेणैवेत्युक्तदोषानवकाशात्। न चैवं घटादावपि स्वरूपेणैव तथात्वम्। पूर्वमेव निराकृतत्वात्। इति सन्घट इति प्रत्यक्षेऽधिष्ठानानुवेधनिरूपणम्।

 

      किं च निश्चितप्रामाण्यमेव प्रत्यक्षमितरबाधकं भवेत्, न चात्र प्रामाण्यं निश्चितम्; आगमविरोधाद्, अनुमानविरोधाद्, भाविबाधाभावानिर्णयाच्च। ननु प्रत्यक्षमेव प्रबलमनुमानागमबाधकम्। नानुमानागमौ। प्रत्यक्षाप्रामण्ये तद्विरोधाभावेनानुमानागमयोः प्रामाण्यम्, तयोः प्रामाण्ये च तद्विरोधात् प्रत्यक्षाप्रामाण्यमित्यन्योन्याश्रयात्। न हि प्रत्यक्षस्य प्रामाण्येऽप्येवमन्योन्याश्रयः। तस्यानपेक्षत्वाद् इति चेन्न। चन्द्रतारकादिपरिमाणप्रत्यक्षे अनुमानागमविरोधेन तस्याप्रामाण्यदर्शनात्, तेनापि स्वप्रामाण्यसिद्ध्यर्थमितराविरोधस्यावश्यमपेक्षणीयत्वात्। तथा चान्योऽन्याश्रयतुल्यत्वात् परस्परविरोधेन प्रामाण्यसन्देहे सत्यनाप्ताप्रणीतत्वादिना प्रमाजनकत्वव्याप्तेर्वेदप्रामाण्यनिश्चये जाते तेन स्वतस्सम्भावितदोषस्य प्रत्यक्षस्य बाधात् अस्मन्मते क्वान्योऽन्याश्रयः ? अन्यथा देहात्मैक्यप्रत्यक्षबुद्ध्या बाधाद् देहभिन्नत्वमप्यात्मनो नागमानुमानाभ्यां सिद्ध्येत्।

 

      ननु प्रत्यक्षमनुमानाद्यपेक्षया जात्यैव प्रबलम्। कथमन्यथा औष्ण्यप्रत्यक्षेएण वह्निशैत्यानुमितिप्रतिबन्धः ? न च तत्रोपजीव्यत्वनिबन्धनं प्रत्यक्षस्य बाधकत्वम्। धर्म्यादेश्चक्षुरादिनैव सिद्धेस्त्वचोऽनुपजीव्यत्वात्। किञ्च प्रत्यक्षस्य प्राबल्यमनुमानाद्य गृहीतरेखोपरेखादिग्राहकत्वादनुमानाद्यनिवर्तितदिङ्मोहादिनिवर्तकत्वाच्च इति चेन्न। त्वाचप्रत्यक्षस्याप्युपजीव्यत्वेनैव शैत्यानुमितिप्रतिबन्धकत्वसम्भवात्। चक्षुरादिना धर्म्यादि ग्रहेऽपि त्वचं विना साध्यप्रसिद्धेरभावात्। तथा च न जात्या प्राबल्ये मानमस्ति।

 

      तदगृहीतग्राहित्वमपि न प्राबल्ये प्रयोजकम्। प्रत्यक्षागृहीतधर्मादिग्राहकत्वेन परोक्षप्रमाणस्यैव प्राबल्यापत्तेः। नाप्यनुमानाद्यनिवर्तितदिङ्मोहादिनिवर्तकत्वेन प्राबल्यम्। एतावता हि वैधर्म्यमात्रं सिद्धम्। न च तावतेतरप्रमाणापेक्षया प्राबल्यं भवति। अन्यथा त्वाचप्रत्यक्षानिवर्तितवंशोरगभ्रमनिवर्तकत्वाच्चक्षुषोऽपि   त्वगपेक्षया प्राबल्यं स्यात्। ततश्च चित्रनिम्नोन्नतज्ञानस्य चाक्षुषस्य तद्विरोधित्वाचज्ञानाद् बाधो न स्यात्। प्रत्युतागमस्यैव सर्वतः प्राबल्यं स्मार्यते- `प्राबल्यमागमस्यैव जात्या तेषु त्रिषु स्मृतम्' इति। न च तद्वैदिकार्थविषयमिति वाच्यम्। अद्वैतस्यापि वैदिकार्थत्वात्। `क्व च प्रत्यक्षतः' प्राप्तमनुमागमबाधितम् इति तु परीक्षितप्रामाण्‌यप्रत्यक्षविषयम्। ननु - प्रत्यक्षस्यासञ्जात विरोधित्वादुपक्रममन्यायेनैव प्राबल्यम्। उक्तं हि- `असञ्जातविरोधित्वादर्थवादो यथाश्रुतः। आस्थेयस्तद्विरुद्धस्य विध्युद्देशस्य लक्षणा' इति चेन्न। यत एकवाक्यस्थपरस्परसापेक्षपदत्वेन उभयोः साम्ये सत्युपक्रमस्थवेदपदानुरोधेनोपसंहारस्थर्गादिपदानां मन्त्रमात्रवाचिनां कृत्स्नवेदपरत्वे निर्णीतेऽपि न प्रकृते तन्न्यायः सम्भवति। उभयोः साम्याभावाद्। गृहीतप्रमाणभावश्रुत्यपेक्षया भ्रमविलक्षणत्वेनानिश्चितस्य प्रत्यक्षस्य न्यूनबलत्वात्। अन्यथा `इदं रजतं' इति भ्रमोऽपि `इयं शुक्तिः' इति आप्तोपदेशापेक्षया प्रबलः स्यात्। एतेन लिङ्गात् श्रुतेरिव शीघ्रगामित्वात् प्रत्यक्षस्य प्राबल्यम्। तदुक्तम्- `प्रत्यक्षे चानुमाने च यथा लोके बलाबलम्। श्रीघ्रमन्थरगामित्वात्तथैव श्रुतिलिङ्गयोः' इत्यपास्तम्; परीक्षितस्य मन्थरगामिनोऽपि प्राबल्यात्।

 

      न च `यदाहवनीये जुहोति' इत्यस्मात् `पदे जुहोति' इत्यस्य विशेषविषयत्वेन प्राबल्यवद् घटविषयसत्त्वाग्राहिणः प्रत्यक्षस्य सामान्यतो द्वैतनिषेधकश्रुत्यपेक्षया प्राबल्यमिति वाच्यम्। सामान्यविशेषन्यायस्य निश्चितप्रमाणभावोभयविषयत्वात्। अन्यथा `अयं गौरश्वः' इत्यादेरपि गौरश्वो न भवतीत्यादितः प्राबल्यं भवेत्।

 

      न च यथा `यत्किञ्चित्प्राचीनमग्नीषोमीयात्तेनोपांशु चरन्ति' इत्यत्रत्यस्य यत्किञ्चिच्छब्दस्य यत्किञ्चित्प्रकृतवाचित्वेन सामान्याविषयत्वेऽपि दीक्षणीयाव्यतिरिक्ते सावकाशत्वाद् `यावत्या वाचा कामयीत तावत्या दीक्षणीयायामनुब्रूयात् ' इत्यनेन निरवकाशेन सङ्कोचस्तथा प्रत्यक्षेण निरवकाशेन वृत्त्यन्तरेणानेकार्थत्वेन वा विषयान्तरपरत्वेन सावकाशायाः श्रुतेः सङ्कोचः किं न स्यादिति वाच्यम्। तात्पर्यलिङ्गैरुपक्रमादिभिर्द्वैतनिषेधपरत्वे अवधृते अद्वैतश्रुतेरपि निरवकाशत्वात्। प्रत्यक्षस्यापि व्यावहारिकद्वैतविषयतया सावकाशत्वाद्। विरुद्धयोश्च द्वयोः `अहं मनुष्यः' इत्यादिप्रत्यक्ष `आकाशवत्सर्वगतश्च नित्यः 'इत्यादिश्रुत्योरिव तात्त्विकप्रामाण्यानुपपत्त्या कस्यचिद् व्यावहारिकं कस्यचित्तात्विकं प्रामाण्यमभ्युपेयम्। अत्यन्ताप्रामाण्यस्यान्याय्यत्वात्। तत्राद्वैतश्रुतेर्व्यावहारिकप्रामाण्यसम्भवे द्वैतग्राहिप्रत्यक्षा देस्तात्त्विकं प्रामाण्यं भवेत्। तदसम्भवे तु बलादेवाद्वैतश्रुतेस्तात्त्विकं प्रामाण्यमिति प्रत्यक्षादेर्व्यावहारिकं प्रामाण्यं पर्यवस्यतीति कृतबुद्धयो विदाङ्कुर्वन्तु।

 

      ननु पञ्चदशरात्रे प्रथमेऽहन्यग्निष्टुन्नामके नामातिदेशेन एकाहाग्निष्टुद्धर्मभूता सुब्रह्मण्याग्नेयी प्राप्ता। तस्या अल्पविषयायाश्चतुर्दशाहस्सु चोदकेन प्राप्तया ऐन्द्र्या सुब्रह्मण्यया बहुविषयया यथा बाधः, बहुबाधस्यान्याय्यत्वात् तथा द्वैतग्राहिप्रत्यक्षतदुपजीव्यनुमानकर्मकाण्ड सगुणोपासनावाक्यादिरूप बहुप्रमाणाबाधायाद्वैतवाक्यस्य प्रतीतार्थबाधः किं न स्यात् ? तदुक्तम्- `बहुप्रमाणविरोधे चैकस्याप्रामाण्यं दृष्टं शुक्तिरजतादिज्ञाने ' इति चेन्न। दृष्टान्ते बहुविषयया बाधोऽत्र बहुभिरिति वैषम्यात्। देहात्मैक्ये प्रत्यक्षानुमानशब्दाभासादिसत्त्वेऽपि देहात्मभेदबोधकस्यानन्य परत्वेनप्राबल्यवदत्रापि अनन्यपरत्वेनाद्वैतश्रुतेः प्राबल्याद्, विद्याविद्याभेदेन विद्वदविद्वत्पुरुषभेदेन च विरोधाभावादिति। ।। प्रत्यक्षस्य जात्युपक्रम न्यायादिभिः प्राबल्यनिराकरणम्।।                                               

[ 1-1-20]

 

[1-1-21]    21.प्रत्यक्षस्य उपजीव्यत्वेन प्राबल्यम्

 

      ननु - उक्तन्यायैः प्रत्यक्षस्य जात्या प्राबल्याभावेऽपि उपजीव्यत्वेन प्राबल्यम्। उपजीव्यत्वं चानुमानागमापेक्षिताशेषार्थग्राहकतया। सा च क्वचित् साक्षात् क्वचित्परम्परया दृष्टं चापेक्षितैकदेशग्राहिणामप्युपजीव्यत्वम्, तद्विरुद्धग्रहणे तेन बाधश्च। यथा घटविभुत्वानुमाने पक्षग्राहिणा अक्ष्णा, नरशिरश्शुचित्वानुमाने साध्यग्राहकेणागमेन, मनोवैभवानुमाने ज्ञानासमवाय्याधारत्वहेतुग्राहकेणानुमानेन। किमु वक्तव्यमपेक्षिताशेषग्राहिणा स्वविरुद्धग्राहकस्य बाधः ? चक्षुरादेश्च शब्दतज्जन्यज्ञानप्रामाण्याद्यग्राहित्वेऽपि तद्‌ग्राहिश्रोत्रसाक्ष्यादिसजातीय त्वादुपजीव्यत्वम्। दृष्टं च नरशिरः कपालाशुचित्वबोधकागमस्य तच्छुचित्वानुमानोप जीव्यशुचित्वागमसजातीयत्वेन तदनुमानात् प्राबल्यम्। न चेन्द्रियमपि स्वज्ञानार्थ मनुमानमुपजीवतीति सम एवोपजीव्योपजीवकभावः। अज्ञातकरणतया ज्ञानजननार्थ मनुमानानपेक्षणात्। अनुमानागमादिना तु ज्ञानजननार्थमेव तदपेक्षणादिति विशेषाद् इति चेन्न। उपजीव्याविरोधात्। तथा हि -यत्स्वरूपमुपजीव्यते तन्न बाध्यते। बाध्यते च तात्त्विकत्वाकारः। स च नोपजीव्यते। कारणत्वे तस्याप्रवेशात्। तदुक्तम्-

 

`पूर्वसम्बन्धनियमे हेतुत्वे तुल्य एव नौ।

हेतुतत्वबहिर्भूतसत्त्वासत्त्वकथा वृथा।।' इति

 

किञ्चापेक्षितग्राहित्वमात्रेण चेदुपजीव्यता, तया च बाधकत्वम्, तदाऽपेक्षितप्रतियोगिग्राहकत्वेन `इदं रजतम्' इति भ्रमस्य बाधोपजीव्यत्वात् कथं `नेदं रजतम्' इति बाधबुद्धिस्तद्विरुद्धोदियात् ? अथ निषेध्यार्थसमर्पकतया प्रतियोगिज्ञानत्वेन तस्योपजीव्यत्वेऽपि तत्प्रामाण्यं नोपजीव्यम्। न हि प्रतियोगिप्रमात्वेनाभावज्ञानजनकता, गौरवात्। प्रतियोगिभ्रमादप्यभावज्ञानदर्शनाच्च। किन्तु तज्ज्ञानत्वेनैव, लाघवात्। अतस्तद्विरुद्धविषयकं ज्ञानमुदियादेवेति ब्रूषे, तुल्यमिदं प्रकृतेऽपि, पक्षज्ञानत्वादिना कारणता, न तु तत्प्रमात्वादिनापीति। अथ यत्प्रामाण्यं स्वरूपसिद्ध्यर्थमपवादनिरासार्थं च यत्प्रामाण्यमुपजीवति तत्तस्योपजीव्यम्, यथा स्मृतेरनुभवः। न च रजतभ्रमस्तथा इति चेत्, तर्हि व्याप्तिधियोऽपि नानुमित्युपजीव्यत्वं स्यात्। लिङ्गाभासादपि वह्निमति वह्निप्रमादर्शनात्। ननु येन विना यस्योत्थानं नास्ति तत्तस्योपजीव्यमित्येव वक्तव्यम्। तथा च रजतभ्रमस्योपजीव्यत्वमस्त्येव, न तु प्राबल्यम्। न ह्युपजीव्यत्वमात्रेण प्राबल्यम्। किन्तु परीक्षिततया। परीक्षा च सजातीयविजातीयसंवादविसंवादाभावौ। न च तौ रजतभ्रमे स्तः। प्रकृते चाक्षस्य परीक्षितत्वेन प्राबल्यम्। अस्ति हि `सन् घटः' इति विशेषदर्शनजन्यज्ञानान्तरं घटार्थक्रियाप्रत्यक्षे क्लृप्तदूरादिदोषाभावश्च। एवमेव जीवेशाभेदश्रुतौ निषेध्यार्पकभेदश्रुतिः साक्षिप्रत्यक्षं चादोषत्वात् परीक्षितमिति। तदपि न बाध्यम्। एवमेव च दोषाभावादिज्ञानरूपपरीक्षायामपि अनाश्वासे वेदे पौरुषेयत्वाभावज्ञाने, त्वदुक्तानुमाने च योग्यानुपलब्ध्यादिना हेत्वाभासादिराहित्यज्ञाने, ब्रह्ममीमांसायां प्रत्यधिकरणं सिद्धान्त्यभिप्रेतार्र्थ, उपक्रमाद्यानुगुप्यज्ञाने चानाश्वासः स्यादिति प्रमाणतदाभासव्यवस्था न स्यात् इति चेन्न। परीक्षा हि प्रवृत्तिसंवादविसंवादाभावदोषाभावादिरूपा। तया च स्वसमानदेशकालीनविषयाबाध्यत्वं प्रामाण्यस्य व्यवस्थाप्यते, धूमेन स्वसमानदेश कालीनवह्निरिव। तथा च व्यवहारदशामात्राबाध्यत्वं देहात्मैक्यसाधारणं परीक्षितप्रमाणे व्यवस्थितमिति कथमत्यन्ताबाध्यत्वाभावग्राहकागमानुमानयोः प्रवृत्तिर्न स्यात् ? तस्माद्विश्वास -प्रमाणतदाभासव्यवस्था जीवेशभेदादिकं च व्यावहारिकमित्युपपन्नमेव सर्वं जगन्मिथ्येति।

 

      ननु- प्रत्यक्षाप्रामाण्ये तत्सिद्धस्य व्याप्त्यदेर्बाधेनानुमेयादेरनुमित्यादिप्रामाण्यस्य च बाधः। अनुमेयादेर्व्याप्त्यादिना अनुमितिप्रामाण्यादिना च समानयोगक्षेमत्वात्। अन्यथा प्रातिभासिकव्याप्त्यादिमता बाष्पाध्यस्तधूमेन तात्विको व्यावहारिको वाग्निर्व्याव हारिकव्याप्त्यादिमता धूमेन तात्विकोऽग्निर्व्यावहारिकेणाबाधेन विरुद्धधर्माधिकरणत्वेन च विश्वस्य जीवेशभेदस्य च तात्विकं सत्त्वं सिध्येत्- इति चेन्न। एतावता हि व्याप्त्यादिसमानसत्ताकमनुमेयं सिद्ध्यत्वित्यापत्तेः फलितोऽर्थः। स चायमनुमेयादेर्व्याप्त्यादिना समसत्ताकत्वनियमोऽप्यस्ति। व्यभिचारिणापि लिङ्गेन साध्यवति पक्षे अनुमितिप्रमादर्शनात्। ध्वनिधर्मह्नस्वत्वदीर्घत्वादिविशिष्टत्वेन मिथ्याभूतैरपि नित्यैर्विभुभिर्वर्णैः सत्या शाब्दप्रमितिः क्रियत इति मीमांसकैरभ्युपगमात्। गन्धप्रागभावावच्छिन्ने घटे तात्विकव्याप्त्यादिमतापि पृथिवीत्वेनातात्विकगन्धानुमितिदर्शनात्। प्रतिबिम्बेन न बिम्बानुमितिदर्शनात्। न च तत्रापि बिम्बरहितावृत्तित्वरूपा व्याप्तिस्तात्विक्येवेति वाच्यम्। एवं सत्यवृत्तिगगनादेरपि व्याप्यतापत्तेः। न च तत्र बिम्बपूर्वकत्वमेवानुमीयते, बिम्बव्यतिरेकप्रयुक्त व्यतिरेकप्रतियोगित्वरूपेणाप्रातिभासिकेन हेतुनेति वाच्यम्। प्रयुक्तत्वं हि न तज्जनकत्वजन्यत्वादिरूपम्। व्यतिरेकयोः परस्परं तदभावात्। किन्तु व्याप्यव्यापकभावः। तथा च बिम्बव्यतिरेकव्यापकव्यतिरेकप्रतियोगित्वं हेतुः। स चाकाशादौ व्यभिचार्येव। तस्मात्तत्र प्रतिबिम्बेनैव बिम्बानुमानम्। अनुमेयस्य लिङ्गव्याप्त्यादिसमान सत्ताकत्वनियमस्यापास्तत्वात्। एतेन शब्देऽपि योग्यतासमानसत्ताकेन शब्दार्थेन भवितव्यम्, योग्यतावाक्यार्थयोः समानसत्ताकत्वनियमादिति कथं वेदान्तवाक्यार्थो योग्यताबाधेऽप्यबाधितः स्यदिति परस्तम्। वेदान्तवाक्ये अखण्डार्थरूपवाक्यार्थाबाधरूपाया योग्यताया अप्यबाधाच्च। न च तथापि वेदान्ततज्ज्ञानतत्प्रामाण्यमिथ्यात्वे कथं तात्विकाद्वैतसिद्धिरिति वाच्यम्। शब्दतज्ज्ञानतात्विकत्वं हि न विषयतात्विकत्वे तन्त्रम्। इदं रजतमित्यनाप्तवाक्यस्य तज्जन्यभ्रमस्य च त्वन्मते तात्विकत्वेऽपि तद्विषयस्यातात्विकत्वात्। न च ज्ञानप्रामाण्यस्य मिथ्यात्वे विषयस्यापि मिथ्यात्वं शुक्तिरूप्यज्ञाने दृष्टमिति प्रकृतेऽपि ज्ञानप्रामाण्‌यमिथ्यात्वे विषयस्यापि मिथ्यात्वं स्यादिति वाच्यम्। प्रामाण्यमिथ्यात्वं हि न विषयमिथ्यात्वे प्रयोजकम्। भ्रमप्रमाबाहिर्भूते निर्विकल्पके विषयबाधाभावात्। किन्तु तदभाववति तत्प्रकारकत्वादिरूपमप्रामाण्यमेव तथा। तच्च प्रकृते नास्त्येव। न च अर्थाबाधरूपप्रामाण्यस्य मिथ्यात्वादर्थस्यापि मिथ्यात्वं स्यादिति वाच्यम्; अबाधितार्थविषयत्वं हि यत् प्रामाम्यं तस्य मिथ्यात्वम् प्रकृते नार्थबाधात्। तद्बाधकप्रमाणासम्भवात्। तस्य सर्वबाधावधित्वात्। किन्तु तद्विषयत्वरूपसम्बन्धबाधात्तथा। तथा चाबाधितार्थविषयत्वरूपप्रमाण्यमिथ्यात्वेऽपि नार्थो मिथ्या। विशिष्टस्यैकांशमिथ्यात्वेऽप्यपरांशसत्यत्वात्, यथा दण्डबाध निबन्धनदण्डिपुरुषबाधेऽपि पुरुषो न बाधित एवेति। ।। इति अद्वैतसिद्धौ प्रत्यक्षस्योपजीव्यत्वभङ्गः।।

 

[ 1-1-21]

 

[1-1-22]    22.प्रत्यक्षस्य अनुमानबाध्यत्वे बाधकम्

    

      किञ्च विपक्षबाधकसचिवमनुमानमपि प्रत्यक्षबाधकम्। ननु - एवमपि `औदुम्बरीं स्पृष्ट्वा उद्गायेत्', `ऐन्द्र्या गार्हपत्यमुपतिष्ठते', `शरमयं बर्हिर्भवति' इति श्रुतित्रयग्राहि प्रत्यक्षं यथाक्रमं `औदुम्बरी सर्वा वेष्टयितव्या' इति स्मृतिरूपेण सर्ववेष्टनश्रुत्यनुमानेन, `कदाचन स्तरीरसि नेन्द्र सश्चसि दाशुषे' इति मन्त्रसामर्थ्यलक्षणेनेन्द्रशेषत्वश्रुत्यनुमानेन चोदनालिङ्गरूपेण कुशश्रुत्यनुमानेन च बाध्येतेति सर्वमीमांसोन्मूलिना स्यादिति- चेन्न। वैषम्यात्। तथा हि -किमिदमापाद्यते, श्रुतित्रयग्राहिप्रत्यक्षमनुमानैर्बाध्येतेति वा, प्रत्यक्षविषयीभूतश्रुतित्रयमिति वा ? नाद्यः, विरोधाभावेन तद्बाध्यबाधकभावस्य शास्त्रार्थत्वाभावात्, अस्माभिगरनभ्युपगमाच्च। अनुक्तोपालम्भमात्रत्वे निरनुयोज्यानु योगापत्तेः। अतएव न द्वितीयः। प्रत्यक्षविषयीभूतश्रुतित्रयस्य लिङ्गबाधकत्वपरेऽपि शास्त्रे प्रत्यक्षस्य लिङ्गबाध्यत्वे विरोधाभावात्। नहि शब्दप्रत्यक्षयोरैक्यमस्ति। शब्दस्यच सर्वप्रमाणापेक्षया बलवत्त्वमवोचाम। तस्मान्मौढ्यमात्रमेतन्मीमांसाविरोधोद्भावनम्।

 

      ननु प्रत्यक्षस्य लिङ्गबाध्यत्वे बह्न्यौष्ण्यप्रत्यक्षं शैत्यानुमानस्य आत्मस्थायित्वप्रत्यभिज्ञानं च क्षणिकत्वानुमानस्य बाधकं न स्यात्, प्रत्युतानुमानमेव तयोर्बाधकं स्यात् इथि चेन्न। अर्थक्रियासंवादेन श्रुत्यनुग्रहेण च तत्र प्रत्यक्षयोः प्राबल्येनानुमानबाधकत्वात्। अपरीक्षितप्रत्यक्षं हि परीक्षितानुमानापेक्षया दुर्बलं, `नीलं नभः' इति प्रत्यक्षमिव नभो नीरूपत्वानुमानापेक्षया। अतो न सामान्यतो दृष्टमात्रेण सर्वसङ्करापत्तिः। नन्वेवं पशुत्वेन श्रृङ्गानुमानमपि स्यात्। लाघवात् पशुत्वमेव श्रृङ्गित्वे तन्त्रं, न तु तद्विशेषगोत्वादिकम्; अननुगतत्वेन गौरवादित्येतत्तर्कसध्रीचीनत्वेन प्रत्यक्षापेक्षया प्राबल्यात्। अनुकूलतर्कसाचिव्यमेव हि अनुमाने बलम्। एवं च येन केनचित् सामान्‌यधर्मेण सर्वत्र यत्किञ्चिदनुमेयम्, लाघवतर्कसाचिव्यस्य सत्त्वात्। तावतैव च प्रत्यक्षबाधकत्वादिति व्यावहारिक्यपि व्यवस्था न स्यात्। न ह्यत्र प्रत्यक्षबाधादन्यो दोषोऽस्ति इति चेन्न। अयोग्यश्रृङ्गादिसाधने प्रत्यक्षबाधस्यासम्भवेन तत्र व्याप्तिग्राहकतर्केष्वाभासत्वस्य त्वयाऽपि वक्तव्यत्वेन व्यवस्थाया उभयसमाधेयत्वात्। न हि तर्काभाससध्रीचीनमनुमानं प्रमाणमिति केनाप्युपेयते। अत उपपन्नं सत्तर्कसचिवमनुमानं प्रत्यक्षस्य बाधकमिति। इति प्रत्यक्षस्यानुमानबाध्यत्वसिद्धिः।      

[ 1-1-22]

 

[1-1-23]    23.प्रत्यक्षस्य शद्बबाध्यत्वे बाधकम्

 

      किं च परीक्षितप्रमाणभावशब्दबाध्यमपि प्रत्यक्षम्। ननु - प्रत्यक्षं यदि शब्दबाध्यं स्यात्तदा जैमिनिना `तस्माद्धूम एवाग्नेर्दिवा ददृशे नार्चिः' इत्याद्यर्थवादस्य `अदितिर्द्यौः' इत्यादिमन्त्रस्य च दृष्टविरोधेनाप्रामाण्ये प्राप्ते `गुणवादस्तु' `गुणादविप्रतिषेधः स्यात्' इत्यादिना गौणार्थता नोच्येत। `तत्सिद्धिजातिसारूप्यप्रशंसाभूमलिङ्गसमवायाद्' - इति तत्सिद्धिपेटिकायां `यजमानः प्रस्तर' इत्यादेगौणार्थता च नोच्येत। त्वयाऽपि प्रत्यक्षाविरोधाय तत्त्वम्पदयोर्लक्षणा नोच्येता। श्रुतिविरोधे प्रत्यक्षस्यैवाप्रामाण्यसम्भवात्। न च - तात्पर्यलिङ्गानामुपक्रमादीनामत्र सत्त्वान्नाद्वैतश्रुतीनाममुख्यार्थत्वमिति वाच्यम्। `यजमानः प्रस्तरः' इत्यादावप्यपूर्वत्वाद्येकैकलिङ्गस्य तात्पर्यग्राहकस्य विद्यमानत्वात्। एकैकलिङ्गस्य तात्पर्यनिर्णायकत्वे लिङ्गान्तरमनुवादकमेव। त्वन्मते प्रत्यक्षसिद्धे भेदे श्रुतिरिव। किं बाहुल्येन इति चेन्न। वाक्यशेषप्रमाणान्तरसंवादार्थक्रियादिरूपपरीक्षापरीक्षितस्य प्रत्यक्षस्य प्राबल्येन व्यवहारदशायामेव एतद्विरुद्धार्थग्राहिणो `धूम एवाग्नेर्दिवा ददृशे', `अदितिर्द्यौः' `जयमानः प्रस्तर' इत्यादेस्तद्विरोधेनामुख्यार्थत्वेऽप्यद्वैतागमस्य परीक्षितप्रमाणविरोधाभावेन मुख्यार्थत्वोपपत्तेः। प्रत्यक्षादेर्हि परीक्षया व्यावहारिकप्रामाण्यमात्रं सिद्धम्। तच्च नाद्वैतागमेन बाध्यते। बाध्यते तु तात्विकं प्रामाण्यम्। तत्तु परीक्षया न सिद्धमेव। अतो न वरोधः। `धूम एवाग्नेः' इत्यादेस्तु मुख्यार्थत्वे प्रत्यक्षादेर्व्यावहारिकं प्रामाण्यं व्याहन्येत। अतो विरोधात्तत्रामुख्यार्थत्वमिति विवेकः।

 

      यत्तु- प्रत्यक्षाविरोधाय तत्त्वम्पदयोर्लक्षणा नाश्रीयेतेति तन्न। षड्विधलिङ्गैर्गतिसामान्येन चाखण्ड एवावधार्यमाणस्य तात्पर्यस्यानुपपत्तेर्जीवेशगतसर्वज्ञत्वकिञ्चिज्ज्ञत्वादीना मैक्यान्वयानुपपत्तेश्च। तात्पर्यविषयीभूताखण्डप्रतीतिनिर्वाहाय लक्षणाङ्गीकरणस्यैवोचितत्वात्। तात्पर्यविषयीभूतान्वयनिर्वाहाय लक्षणाश्रयणस्य सर्वत्र दर्शनात्। न च एवं सति अमुख्यार्थत्वं स्यादिति वाच्यम्। तद्धि प्रतीयमानार्थपरित्यागेनार्थान्तरपरत्वं वा ? अशक्यार्थत्वं वा ? नाद्यः। सामानाधिकरण्येन प्रतीयमानस्यैक्यस्यात्यागात्। नान्त्यः, जहदजहल्लक्षणाश्रयणेन शक्यैकदेशपरित्यागेऽपि `सोऽयं देवदत्तः' इत्यादिवाक्य इव शक्यैकदेशस्यान्वयाभ्युपगमात्। विशेषणबाधेन विशेष्यमात्रान्वयस्यैवात्र लक्षणाशब्देन व्यपदेशात्। तथा चोक्तं वाचस्पतिमिश्रैः- `प्रस्तरादिवाक्यमन्यशेषत्वादमुख्यार्थम्, अद्वैत वाक्यं त्वनन्यशेषत्वान्मुख्यार्थमेव। उक्तं हि शाबरभाष्ये - `न विधौ परः शब्दार्थ' इति। यथा चापूर्वत्वाद्येकैकतात्पर्यलिङ्गेन `यजमानः प्रस्तरः' इत्याद्यर्थवादवाक्यानां न स्वार्थपरत्वं तथा वक्ष्यामः। ननु अन्यशेषत्वानन्यशेषत्वे नामुख्यार्थत्वमुख्यार्थत्वयोः प्रयोजके। किं तु मानान्तरविरोधाविरोधौ। अन्यशेषेऽपि मानान्तराविरोधे `इयं गौः क्रय्या बहुक्षीरा' इत्यादौ लोके, `सोऽरोदीत्' इत्यादौ च वेदे प्रस्तरादिवाक्यवदमुख्यवृत्तेरनाश्रयणाद्। अनन्यशेषेऽपि `सोमेन यजेत' इत्यादौ वैयधिकरण्येनान्वये विरुद्धत्रिकद्वयापत्त्या सामानाधिकरण्येनान्वये प्रत्यक्षाविरोधाय च सोमवता यागेनेति मत्वर्थलक्षणाया आश्रयणात्। एवं विचारविधायके `अथातो ब्रह्मजिज्ञासा' इति सूत्रे `तद्विजिज्ञासस्व' इति श्रुतौ च मानान्तरविरोधेन विध्यन्वयाय जिज्ञासाशब्देन विचारलक्षणायाः `सर्वं खल्विदं ब्रह्म' इत्यादौ चामुख्यार्थतायाः स्वीकृतत्वात्। सर्वस्यापि वाक्यस्यावाच्ये ब्रह्मणि लक्षणाया एवेष्टत्वेनामुख्यार्थत्वनिषेधायोगाच्च। अन्वयानुपपत्तेस्तात्पर्यानुपपत्तेर्वा लक्षणाबीजस्य विध्यविधिसाधारणत्वाच्च। शाबरं तु वचनमर्थवादमुख्यात्वाय विधौ न लक्षणेत्येवम्परम्। तस्मान्न प्रत्यक्षं शब्दबाध्यम् इति चेन्न। भावानवबोधात्। तात्पर्यविषयीभूतार्थबोधकत्वं हि मुख्यार्थत्वम्। न शक्यार्थमात्रबोधकत्वम्। अन्यार्थतात्पर्यकत्वाच्चमुख्यार्थत्वम्। न लाक्षणिकत्वमात्रम्। तथा चाद्वैतागमस्य स्वतात्पर्यविषयीभूतार्थबोधकत्वनिर्वाहाय लक्षणाश्रयणेऽपि मुख्यार्थत्वमुपपन्नमित्यवोचाम।  एवं च `सोमेन यजेत' इत्यादि विशिष्टविधेर्विशेषणे तात्पर्याभावान्मत्वर्थलक्षणायामपि स्वार्थापरित्यागाच्च नामुख्यार्थत्वम्। जिज्ञासापदे तु ज्ञाधातुनेष्यमाणज्ञानलक्षणाङ्गीकारानङ्गीकारमतभेदेऽपि सत्प्रत्ययस्य विचारे जहल्लक्षणाभ्युपगमस्योभयत्र तुल्यत्वात्, शक्यार्थपरित्यागेऽपि विधितात्पर्यनिर्वाहात् नामुख्यार्थत्वम्। नहि वाक्यार्थप्रतीत्यन्यथानुपपत्त्या पदमात्रे लक्षणायामपि वाक्यस्यामुख्यार्थत्वम्। प्रतीतस्यार्थस्यानन्यशेषत्वेन मुख्यत्वात्। यत्र पुनः प्रतीत एव वाक्यार्थोऽन्यशेषत्वेन कल्प्यते, तत्र वाक्यस्यामुख्यार्थत्वमेव। अन्यद्धि पदतात्पर्यमन्यच्च वाक्यतात्पर्यम्। `सौन्धवमानय' `गङ्गायां वसन्ति' इत्यादौ वाक्यतात्पर्यैक्येऽपि पदतात्पर्यभेदात्। `विषं भुङ्क्ष्व' इत्यादौ पदतात्पर्याभेदेऽपि वाक्यतात्पर्यभेदात्। अत एव `इयं गौः क्रय्या बहुक्षीरा' इत्यादिवाक्यार्थस्यावश्यं क्रेतव्येति विधिशेषत्वेन तत्प्राशस्त्यलक्षकत्वात्, `सोऽरोधीत्' इत्यादि वाक्यार्थस्य च `बर्हिषि रजतं न देयं हिरण्यं दक्षिणा ' इति विधिशेषत्वेन रजतनिन्दाद्वारा तत्प्राशस्त्यलक्षकत्वात्। `सर्वं खल्विदं ब्रह्म तज्जलान्' इति वाक्यार्थस्य `शान्तउपासीत' इति शमविधिशेषत्वेनात्यनायाससिद्धत्वरूपतत्प्राशस्त्यलक्षकत्वादमुख्यत्वमेव। अतएव मानान्तर विरोध एव लक्षणेत्यपास्तम्। `इयं गौः क्रय्या बहुक्षीरा' इत्यादिना प्राशस्त्यलक्षणायां व्यभिचारात्। किं तु परमतात्पर्यविषयीभूतार्थप्रतीतिनिर्वाहायैव सर्वार्थवादेषु लक्षणा। एतावांस्तु विशेषः- विधिप्राशस्त्ये लक्षणातः प्रागर्थवादवाक्यार्थज्ञानम्। तस्यप्रमाणान्तरविरोधे बाध एव, यथा `प्रजापतिरात्मनो वपामुदखिदत्' इत्यादौ। अतएव तत्र गुणवादमात्रम्। प्रमाणान्‌तरप्राप्तौ त्वनुवादमात्रम् `अग्निर्हिमस्य भेषजं' इत्यादौ। अतएव तदुभयत्राबाधिताज्ञातज्ञापकत्वरूपप्रामाण्यशरीरानिर्वाहादप्रामाण्यम्। यत्र पुनः प्रमाणान्तरप्राप्तिविरोधौ न स्तस्तत्र प्रामाण्यशरीरनिर्वाहाद् भूतार्थवादत्वम्‌- यथा `इन्द्रो वृत्राय वज्रमुदयच्छत्' इत्यादौ अयमेव देवताधिकरणन्यायः। ननु तर्हि `आदित्यो यूपः' इत्यादौ वाक्यार्थप्रतीत्यर्थमेव लक्षणाङ्गीकारादमुख्यार्थत्वं न स्यात्। न स्याद्यद्यादित्यसदृशो यूप इति वाक्यार्थपर्यवसानं स्यात्। किं तु गुणवृत्त्या प्रतीतस्यापि वाक्यार्थस्य यूपे पशुं बध्नातीति विधिशेषत्वेन तत्प्राशस्त्यलक्षकत्वमस्त्येव, तेनैवामुख्यत्वम्, न त्वादित्यपदगौणतयेति तत्सिद्धिपेटिकायां सर्वोदाहरणेष्वप्यवान्तरवाक्यार्थप्रतीतये गुणवृत्तिप्रकाराः प्रदर्शिता इति द्रष्टव्यम्। कर्मप्राशस्त्यलक्षणा तु सर्वार्थवादसाधारणी तत्रास्त्येवेति नामुख्यार्थत्वानुपपत्तिः। अत उपपन्नं प्रस्तरादिवाक्यवैषम्यम् अद्वैतवाक्यस्य। यच्चोक्तम् अर्थवादमुख्यार्थत्वाय विधौ न लक्षणेत्येवम्परं शबरस्वामिवचनमिति, तन्न। अश्वप्रतिग्रहेष्टौ `प्रतिगृह्णीयात्' इति विधौ प्रतिग्राहयेदिति व्यवधारणकल्पनया अर्थवादानु सारेण प्रयोजकव्यापारलक्षणाया अङ्गीकारणात्। तस्माद्विधौ तात्पर्यवति वाक्ये प्रतीयमानवाक्यार्थातिरिक्तोऽन्यः शेषी नास्तीत्येवम्परमेव तद्वचनम्। अतः सिद्धमद्वैतागमस्य लाक्षणिकत्वेऽपि मुख्यार्थत्वात् प्रत्यक्षबाधकत्वमिति शिवम्।। इति प्रत्यक्षस्यागमबाध्यत्वम्।।

[ 1-1-23]

 

[1-1-24]    24.अपच्छेदन्यायवैषम्यम्

 

      किं चापच्छेदन्यायेनाप्यागमस्य प्राबल्यम्। यथा हि `पौर्वापर्ये पूर्वदौर्बल्यं प्रकृतिवत्' इत्यधिकरणे उद्गात्रपच्छेदनिमित्तकादक्षिणयागेन परेण प्रतिहर्त्रपच्छेदनिमित्तक सर्वस्वदक्षिणयागस्य पूर्वसिद्धनिमित्तस्य बाध इति स्थितं, तथेहापि उदीच्यागमेन पूर्वस्य प्रत्यक्षस्य बाधः। ननु प्रतिहर्त्रपच्छेदनिमित्तकसर्वस्वदक्षिणयागस्य प्रतिहर्तृमात्रापच्छेदे, युगपदपच्छेदे, क्रमेणापच्छेदेऽपि प्रतिहर्त्रपच्छेदस्य पश्चात्त्वे चावकाश इति युक्तः उद्गात्रपच्छेदनिमित्तकादक्षिणयागेन बाधः। अन्यथा `यदि प्रतिहर्ता अपच्छिद्येत सर्ववेदसं दद्यात्' इति शास्त्रमप्रामाणं स्यात्। अत एव `विप्रतिषेधाद्विकल्पः स्यात्' इत्यधिकरणे द्वयोर्युगपदपच्छेदे विकल्प उक्तः। किं च `यद्युद्गाता जघन्यः स्यात्पुनर्यज्ञे सर्ववेदसं दद्याद्यथेतरस्मिन्' इत्यधिकरणे उद्गात्रपच्छेदस्य प्रतिहर्त्रपच्छेदात्परत्वे उद्गात्रपच्छेदनिमित्तं पूर्वं प्रयोगं दक्षिणाहीनं सम्पाद्य कर्तव्यज्योतिष्टोमस्य द्वितीयप्रयोगे `तद्दद्याद्यत्पूर्वस्मिन् दास्यन् स्यात्' इति श्रुत्युक्ता या दक्षिणा सा पूर्वभाविप्रतिहर्त्रपच्छेद निमित्तकपूर्वप्रयोगस्थसर्वस्वदित्साया अबाधेन सर्वस्वरूपैव, न तु या ज्योतिष्टोमे नित्या द्वादशशतरूपा। तस्मान्न प्रतिहर्त्रपच्छेदस्य सर्वथा बाधः। किं तु प्रयोगान्तरे निक्षेप इत्युक्तम्। उक्तं हि टिप्टीकायाम्- `तस्य प्रयोगान्तरे निक्षेपः' इति। अपि च क्रमिकनिमित्तद्वयेन क्रमेणादक्षिणसर्वस्वदक्षिणयोः प्रयोगयोः सम्भवेन विरोध एव नास्ति, यथा बदरफले क्रमिकनिमित्तवत्तोः श्यामरक्तरूपयोः। उक्तं ह्यपच्छेदाधिकरणे- `नैमित्तकशास्त्रस्य ह्ययमर्थः- निमित्तोपजननात् प्रागन्यथाकर्तव्योऽपि क्रतुर्निमित्ते सत्येवं कर्तव्यः' इति। तस्मादपच्छेदन्यायः सावकाशविषयः। अद्वैतागमेन प्रत्यक्षबाधे तु न प्रत्यक्षप्रमाण्यस्यावकाशोऽस्ति इति चेन्न। उद्गात्रपच्छेदाभावे युगपदुभयापच्छेदे प्रतिहर्त्रपच्छेदस्य उद्गात्रपच्छेदे पश्चात्त्वे च ज्योतिष्टोमद्वितीयप्रयोगे प्रतिहर्त्रपच्छेदनिमित्तक सर्वस्वदक्षिणयागप्रतिपादकशास्त्रस्य सावकाशत्ववद्व्यावहारिकप्रामाण्ये प्रत्यक्षस्यापि सावकाशत्वात्। तत्रैकप्रयोगे विरोधवदत्रापि तात्त्विकत्वांशे विरोधात्। अत एव सगुणसप्रपञ्चश्रुत्योर्निर्गुणनिष्प्रपञ्चश्रुतिभ्यामपच्छेदन्यायेन बाध इति सुष्ठूक्तम्। तदुक्तमानन्दबोधाचार्यौः - `तत्परत्वात्परत्वाच्च निर्दोषत्वाच्च वैदिकम्। पूर्वस्य बाधकं नायं सर्प इत्यादिवाक्यवत्।।' इति।

 

      ननु मानान्तरविरोधे श्रुतेस्तत्परत्वमसिद्धम्। परत्वं तु प्रमानन्तरभ्रमे व्यभिचारि। दृश्यते च `न क्त्वा सेट्' इति परं प्रति `मृडमृदगुधकुशक्लिशवदवसः क्त्वा' इति  पूर्वमपि बाधकम्। निर्दोषत्वं त्वर्थान्तरप्रामाण्येनान्यथासिद्धम्। तदुक्तम्- `तत्परत्वमसिद्धत्वात्परत्वं व्यभिचारतः। निर्दोषताऽन्यथासिद्धेः प्राबल्यं नैव साधयेत्।। इति चेन्न। प्रत्यक्षादेर्व्यावहारिकं प्रामाण्यं, श्रुतेस्तु तात्त्विकमिति विरोधाभावेन तत्परत्वसिद्धेः। परशब्देन च मानान्तराबाधितपरत्वं विवक्षितम्। तेन प्रमानन्तरभ्रमे न व्यभिचारः। तस्य तदुत्तरभाविमानबाध्यत्वात्। `न क्त्वा सेट्' इत्यस्य तु पाठतः परत्वेऽपि स्वभावसिद्धकित्त्वस्यानेनापाकरणं विना पुनस्तत्प्रतिप्रसवार्थ `मृडमृद' इत्यादेरप्रवृत्तेस्तदपेक्षया अर्थतः पूर्वत्वमेव। अपवादापवादे उत्सर्गस्यैव स्थिरत्वात्। निर्दोषत्वमपि नान्यथासिद्धम्। तात्पर्यविषय एव प्रामाण्यस्याभ्युपेयत्वाद् इत्यबोधमात्रविजृम्भितमपच्छेद न्यायवैषम्याभिधानमिति। ।। इत्यपच्छेदन्यायवैषम्यभङ्गः।।'

[ 1-1-24]

 

[1-1-25]    25.मिथ्यात्वानुमितेः अग्निशैत्यानुमितिसाम्यम्

 

      ननु यदि प्रत्यक्षबाधितमप्यनुमानं साधयेत्तदा वह्न्यनौष्ण्यमपि साधयेत्। तथा च कालात्ययापदिष्टकथा सर्वत्रोच्छिद्येत। न च औष्ण्यप्रतियोगिकाभावे साध्ये पक्ष एव प्रतियोगिप्रसिद्धिरित तत्र बाधः सावकाशः। प्रकृते तु सत्त्वं व्यावहारिकं प्रत्यक्षसिद्धम्। तदविरुद्धं च मिथ्यात्वम्, तस्य पारमार्थिकसत्त्वविरोधित्वात्। अतो न व्यावहारिकसत्त्वग्राहकेणाध्यक्षेण बाध्यत इति वाच्यम्। वह्निविशेषे औष्ण्याभावानुमाने शैत्यानुमाने वा तदभावात्। पक्षातिरिक्तस्य प्रतियोगिप्रसिद्धिस्थलस्य तत्र सत्त्वात्। नच यत्र प्रत्यक्षं प्रबलं तत्र बाधव्यवस्था, न चात्र तथेति न बाध इति वाच्यम्। प्रकृतेऽप्यौष्ण्यप्रत्यक्षसमकक्षस्य प्राबल्यप्रयोजकस्य विद्यमानत्वात्। अनौष्ण्यानु मितेर्मिथ्यात्वानुमितेश्च समानयोगक्षेमत्वात्। न च मिथ्यात्ववादिनां प्रतिपन्नोपाधावौष्ण्यनिषेध ग्राह्यनुमानेन मिथ्यात्वानुमितेः समत्वमिष्टमेवेति वाच्यम्। औष्ण्यानौष्ण्ययोर्भावाभावरूपतया तदनुमितिसाम्येऽपि शैत्यानुमितिसाम्यस्यानभ्युपगमात्। शैत्यस्यौष्ण्याभावरूपत्वाभावात्। तस्माद् बाधस्य दोषता वा त्याज्या, औष्ण्यप्रत्यक्षा - यजमानत्वप्रत्यक्षादेः सत्त्वप्रत्यक्षापेक्षया विशेषो वा वक्तव्यः। न च औष्ण्यप्रत्यक्षं परीक्षितोभयवादिसिद्धप्रमाण्यम्। सत्त्वप्रत्यक्षं तु न तथेति विशेष इति वाच्यम्। सत्त्वप्रत्यक्षेऽपि प्रामाण्यासम्मतौ हेत्वभावात्। परीक्षायास्तुल्यत्वाद् इति चेन्मैवम्। विरुद्धार्थग्राहित्वेन विशेषात्। प्रत्यक्षसिद्धाय जमानत्वौष्ण्यादिवच्छब्दलिङ्गग्राह्ययजमानत्वानौष्ण्याद्यपि व्यावहारिकमिति समत्वात्प्रत्यक्षेण बाध्यते। प्रकृते तु सत्त्वं व्यावहारिकं प्रत्यक्षसिद्धम्। तद्विरुद्धं च न मिथ्यात्वम्। तस्य पारमार्थिकसत्वविरोधित्वात् । अतो न तद् व्यावहारिकसत्त्वग्राहकेणाध्यक्षेण बाध्यते।

 

      ननु एवं वदतस्तव कोऽभिप्रायः ? किं तात्त्विकविषयत्वाद् बाधकतैव मिथ्यात्वानुमानादेर्न बाध्यता ? उत सत्त्वमिथ्यात्वग्राहिणोर्व्यावहारिकत्त्विकविषययोः परस्परविरुद्धविषयत्वाभावात् न बाध्यबाधकभावः ? अन्त्येऽपि किमध्यक्षसिद्धव्यावहारिकसत्त्वमगृहीत्वैव तदसिद्धस्य तात्त्विकसत्त्वस्यैवाभावं गृह्णात्यनुमानादि ? उत प्रत्यक्षविषयीकृतस्यैव तात्त्विकमभावम् ? नान्त्यः। प्रत्यक्षविषयाभावग्राहिणि तदबाधकत्वोक्त्ययोगात्। न द्वितीयः। प्रत्यक्षागृहीतप्रतिषेधकत्वेनाप्रसक्तप्रतिषेधापत्तेः, प्रत्यक्षविषयस्य तात्त्विकत्वापत्तेश्च। न प्रथमः। उपजीव्यप्रत्यक्षविरोधेनानुमित्यादिविषयस्य तात्विकत्वासिद्धेः। इति चेन्न। प्रथमे द्वितीये च पक्षे अनुपपत्त्यभावात्। तथा हि- प्रथमे पक्षे न तात्त्विकत्वासिद्धेः, यस्मात् `इदं रजतं' इत्यनेन `नेदं रजतं 'इत्यस्य बाधादर्शनात् परीक्षितमेव बाधकमभ्युपेयम्। परीक्षा च प्रवृत्तिसंवादादिरूपा व्यवहारदशायामबाध्यत्वं विनाऽनुपपन्ना तद्दशा बाधग्राहीणं बाधते, नाद्वैतश्रुत्यनुमानादिकमित्युक्तमेव। द्वितीयेऽपि पक्षे नाप्रसक्तप्रतिषेधः, परोक्षप्रसक्तेः सम्भवात्। यत्तु, केचिदात्मनि तात्त्विकसत्त्वप्रसिद्ध्या प्रसक्तिमुपपादयन्ति, तन्न। न हि प्रतियोगिज्ञानमात्रं प्रसक्तिः,किं तर्हि निषेधाधिकरणकप्रतियोगिज्ञानम्। न चात्मा निषेधाधिकरणम्। तस्मात्परोक्षप्रसक्तिरेव दर्शनीया। अथवा, मा भूत् प्रसक्तिः। अभावप्रत्यक्षे हि संसर्गरोपत्वेन सोपयुज्यते। शब्दानुमानयोस्तु तस्याः क्वोपयोगः। न चाप्रसक्तौ निषेधवैयर्थ्यम्। अनर्थनिवृत्तिरूपस्य प्रयोजनस्य विद्यमानत्वात्। न च प्रत्यक्षविषयतात्त्विकत्वापत्तिः, तद्विषयाधिकरणस्यैव पारमार्थिकत्वव्यतिरेकस्य बोधनात्। तथा च न काऽप्यनुपपत्तिः। तदुक्तं खण्डनकृद्भिः-

 

`पारमार्थिकमद्वैतं प्रविश्य शरणं श्रुतिः।

विरोधादुपजीव्येन न बिभेति कदाचन।।' इति।

 

ननु एवमप्यनौष्ण्यं तात्त्विकमिति तदनुमितिरपि न बाध्येत व्यावहारिकौष्ण्यग्राहिणाध्यक्षेण। एवं `च आदित्यो यूप' इत्यादावपि

 

`तात्त्विकादित्यतां यूपस्याश्रित्य शरणं श्रुतिः।

विरोधादुवजीव्येन न बिभेति कदाचन।।'

 

इत्याद्यपि स्यात् इति चेन्न। अनौष्ण्यं तात्त्विकं स्यादिति कोऽर्थः ? यदि तत्त्वत औष्ण्यं नास्तीत्यर्थः, तदा अद्वैते पर्यवसानादिष्टापत्तिः। यदि व्यवहारतोऽपि नास्तीति, तदा व्यवहाराविसंवेदादिरूपपरीक्षितत्वविशिष्टमौष्ण्यप्रत्यक्षं बाधकमिति नानौष्ण्यस्य तात्त्विकत्वसिद्धिः। एतेन शैत्यानुमानं व्याख्यातम्। एवमादित्ययूपभेदस्य तत्त्वतो व्यवहारतो वा निषेधे योज्यम्। श्रुतेरन्यशेषतया आदित्ययूपाभेदपरत्वाभावेन परीक्षितप्रत्यक्षविरोधेन गौणार्थतया स्तावकत्वोपपत्तेश्च। अत एव `तात्त्विकादित्यतां यूपस्य' इत्यादिना अद्वैतश्रुतेः `आदित्यो यूपः' इत्यादिश्रुतिसाम्यापादनम् अपास्तम्। न च अनुमितिसिद्धमिथ्यात्वग्राहकत्वे सत्यद्वैतश्रुतिरनुवादिका स्यात्, यथाऽग्निर्हिमस्य भेषजम्' इत्यादिश्रुतिः प्रमाणान्तरगृहीतहिमनिवारणशक्त्यनुवादिकेति वाच्यम्, स्वस्वचमत्कारानुसारिणोऽनुमानस्य सकलसाधारण्याभावेन तस्य श्रुत्यनुवादकत्वाप्रयोजकत्वात्। तदुक्तं - `तर्काप्रतिष्ठानात्' इत्यत्र वाचस्पतिमिश्रैः-

 

`यत्नेनानुमितोऽप्यर्थः कुशलैरनुमातृभिः।

अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते।।'इति।

 

दृष्टान्तीकृतश्रुतौ तु हिमनिवृत्तिकारणताया वह्नौ सर्वसाधारणप्रत्यक्षार्थापत्तिभ्या मवसेयत्वाद्वैषम्यम्। तस्मान्मिथ्यात्वानुमानस्य न वह्निशैत्यानुमितिसाम्यम्। इति मिथ्यात्वानुमानस्य शैत्यानुमितिसाम्यभङ्गः।।  

[ 1-1-25]

 

[1-1-26]    26.प्रत्यक्षस्य लिङ्गाद्यबाध्यत्वे बाधकोद्धारः

 

      किं च परीक्षितत्वेनैव प्राबल्यं, नोपजीव्यत्वादिना। अनुमानशब्दबाध्यत्वस्य प्रत्यक्षेऽपि दर्शनात्। तथा हि- इदं रजतमिति प्रत्यक्षस्यानुमानाप्तवचनाभ्यां, नभोनैल्यप्रत्यक्षस्य नीरूपत्वग्राहकानुमानेन, `गौरोऽहं' इत्यस्य `अहमिहैवास्मि सदने जानानः' इत्यस्य चन्द्रप्रादेशिकत्वप्रत्यक्षस्य चानुमानागमाभ्यां `पीतः शङ्खस्तिक्तो गुडः' इत्यादेश्चानुमानाप्तवचनाभ्यां बाधो दृश्यते। ननु साक्षात्कारिभ्रमे साक्षात्कारिविशेषदर्शनमेव विरोधीत्यभ्युपेयम्; अन्यथा परोक्षप्रमाया अपरोक्षभ्रमनिवर्तकत्वोपपत्तौ वेदान्तवाक्यानामपरोक्ष ज्ञानजनकत्वव्युत्पादनप्रयासे व्यर्थः स्याद् इति चेन्न। `नायं सर्पः' इत्यादिवाक्यादिना सविलासाज्ञाननिवृत्त्यभावेऽपि भ्रमगताप्रमाणत्वज्ञापनेन भ्रमप्रमाणत्वबुद्धेस्तद्विषयसत्यताबुद्धेश्च निवर्तनात्। तावता च भ्रमनिवर्तकत्वव्यपदेशात्। भ्रमे प्रामाण्यविभ्रमस्य तद्विषये सत्यताविभ्रमस्य च परोक्षत्वेनापरोक्षबाधानपेक्षत्वात्। न हि दुष्टकरणाजन्यत्वमबाधितविषयत्वं वा प्रामाण्यं कस्यचित् प्रत्यक्षम्। न वा सर्वदेशसर्वकालसर्वपुरुषाबाध्यत्वरूपं विषयसत्यत्वम्। अतस्तयोः परोक्षप्रमाबाध्यत्वमुचितमेव। तयोश्च बाधितयोः रजतादिभ्रमः स्वरूपेण सन्नपि स्वकार्याक्षमत्वादसन्निवेति बाधित इत्युच्यत इत्यनवद्यम्।

 

      ननु - `इदं रजतम्' इत्यत्र सयुक्तिकं प्रत्यक्षं बाधकं, न युक्तिमात्रम्। `गौरोऽहम्' इत्यत्रापि `मम शरीरम्' इति बलवत् प्रत्यक्षमेव बाधकम्। `अहमिहैवास्मि सदने जानान' इति तु प्रमाणमेव, जीवस्याणुत्वाद् इति चेन्न। रजताभेदशरीराभेदप्रत्यक्षयोर्जाग्रतोः युक्त्या प्रतिबन्धाक्षमत्वे तद्विषयप्रत्यक्षोत्पत्ते रवोनवकाशात्। न च तत्र परम्परासम्बन्धेन कर्दमलिप्ते वस्त्रे `नीलं वस्त्रम्' इतिवद् `गौरोऽहम्' इति गौणम्; कर्दमवस्त्रयोरिव शरीरात्मनोर्भेदानध्यवसायेन दृष्टान्तदार्ष्टान्तिकयोर्वैषम्यात्। तथा चात्रैक्याध्यास एवोचितः। एवं च `उष्णं जलम्' इत्यत्रापि यदि कर्दमवस्त्रयोरिव तोयतेजसोर्भेदग्रहः, तदा गौणतैव। यदिच शरीरात्मवद् भेदानध्यवसायस्तदाऽध्यास एव। तथा च युक्तिबाध्यमेवेति तदप्युदाहरणम्। यत्त्वहमिहैवेति प्रमाणमित्युक्तम्, तन्न। आत्मनः `आकाशवत् सर्वगतश्च' इति सर्वगतत्वेन इहैवेति व्यवच्छेदस्याप्रमाणिकत्वात्। न च जीवोऽणुः, युगपदेव पादशिरोऽवच्छेदेन सुखदुःखानुभवात्। न ह्योकोऽणुरेकदा व्यवहितदेशद्वयावच्छिन्नो भवति। नच युगपत्प्रतीतिर्भ्रमः, उत्सर्गसिद्धप्रामाण्यपरित्यागे बीजाभावात्। विस्तरेण चैतदग्रे वक्ष्यामः।

 

      ननु- नभोनैल्यप्रत्यक्षस्य नीरूपत्वग्राहकानुमानेन न बाधः, लिङ्गाभावात्। न च परममहत्त्वद्रव्यानारम्भकत्बादेर्लिङ्गत्वम्, त्वन्मते असिद्धेः। निःस्पर्शत्वं तु तमसि व्यभिचारि। पृथिव्यादित्रयेतरभूतत्वादि चाप्रयोजकम्। तथा च नीरूपत्वग्राहकसाक्षिप्रत्यक्षमेव तद्बाधकं वाच्यम्, न च रूपग्रहणासमर्थस्य साक्षिणः कथं नीरूपत्वग्राहकत्वमिति वाच्यम्। पिशाचाग्राहकस्यापि चक्षुषस्तदभावग्राहकत्ववदुपपत्तेः, परेणापि साक्षिणोऽपि रूपवत्तमोग्राहकत्वाभ्युपगमाच्च अचाक्षुषेऽपि नभसि वायाविव चक्षुषैव रूपाभावग्रहणसम्भवेन चाक्षुषप्रत्यक्षबाधाद् इति चेन्न। `नीलं नभः' इत् प्रत्यक्षे जाग्रति रूपाभावग्रहणस्य चक्षुषा साक्षिणा चासम्भवात्। तथा च बलवती युक्तिरेव तद्बाधिका। न च लिङ्गाभावः, चक्षुरन्वयव्यतिरेकानुविधायिरूपाविशेषितप्रतीतिविषयत्वाद्रूपवदिति लिङ्गसम्भवात्। न चाप्रयोजकत्वम्, नभो यदि सरूपं स्यात्तदा चक्षुरन्वयव्यतिरेकानु विधायिप्रतीतौ रूपासम्बन्धितया विषयो न स्यादिति तर्कोपपत्तेः। न चेष्टापत्तिः, सविधे रूपासम्बन्धितया नभसः सिद्धेः सर्वजनसम्मतत्वात्। नभसः साक्षिवेद्यतायामपि चक्षुरन्वयव्यतिरेकानुविधानमवर्जनीयमेव। अन्यथाऽन्धस्यापि तद्ग्रहणं स्यात्। न च पञ्चीकरणाद्रूपवदारब्धत्वेन नभसो नीरूपत्वं बाधितमिति वाच्यम्। त्रिवृत्करणपक्षेऽस्य दूषणस्यानवकाशात्। पञ्चीकरणपक्षेऽपि अपञ्चीकरणदशायां यस्मिन् भूते यो गुणः स पञ्चीकरणाद्व्यवहारयोग्यो भवतीत्येतावन्मात्राभ्युपगमान्नाकाशे रूपारम्भप्रसङ्गः। न च `नायं सर्पः' इत्युक्तोऽपि, `किमेवं वदसि परम् ? अपि पुनः परामृश्य पश्यसि ?' Fइति प्रतिवचनदर्शनान्न शब्दमात्रं रज्जुसर्पादिभ्रमनिवर्त्तकम्, किं तु प्रत्यक्षमेवेति वाच्यम्। प्रतिवचनस्थले भ्रमप्रमादादिशङ्काक्रान्तत्वेन `नायं सर्पः' इत्यादेर्दुर्बलतया न भ्रमनिवर्तकत्वम्। यत्र तु तादृक्शङ्कानाक्रान्तत्वं तत्र भ्रमनिवर्तकतैव। अत एव तादृक्शङ्कानाक्रान्तपित्रादिवचसि नेदृक्प्रतिवचनं, किन्तु सिद्धवत्प्रवृत्त्यादिकमेव। ज्वालैक्यप्रत्यक्षमप्येवमेव युक्तिबाध्यम्। न च निर्वापितारोपितस्थले स्पष्टतरभेदप्रत्यक्षबाधितं तदित्यन्तत्रापि दीर्घेयं न ह्रस्वेति भेदप्रत्यक्षमेव तद्बाधकमिति वाच्यम्। निर्वापितारोपितातिरिक्तस्थले तावदयं विचारः। तत्र च दीर्घेयं न ह्रस्वेति भेदप्रत्यक्षं वक्तुमशक्यम्। यैव ह्रस्वा सैवेदानीं दीर्घेति ह्रस्वत्वदीर्घत्वाभ्यामुपस्थितयोरभेदस्य साक्षात्क्रियमाणत्वात्। तथा च ज्वालाप्रत्यभिज्ञा युक्तिबाध्यैव। सर्वदा पित्तदूषितनेत्रस्य `षीतः शङ्खः' इत् प्रत्यक्षे चन्द्रप्रादेशत्वप्रत्यक्षे च परोक्षातिरिक्तस्य बाधकस्य शङ्कितुमप्यशक्यत्वाद् युक्त्यादिबाध्यतैव वक्तव्या।

 

 

      ननु सर्वत्रैवात्र प्रकारान्तरेणासात्कल्पे प्रत्यक्षे मानान्तरप्रवृत्तिः। तथा हि- द्विविधं ज्ञानम्। द्विकोटिकमेककोटिकं च। अन्त्यमपि द्विविधं अप्रामाण्यशङ्काकलङ्कितं तदकलङ्कितं च। तत्राद्यौ सर्वप्रमाणावकाशदौ। अर्थापरिच्छेदकत्वादप्रामाण्य शङ्काकलङ्कितत्वाच्च। अप्रामाण्यधीकलङ्कितत्वं च द्वेधा भवति। दुष्टकरणकत्व निश्चयादर्थाभावनिश्चयाच्च। तथा शैलाग्रस्थितविटपिनां प्रादेशिकत्वप्रतीतिर्दूरदोषनिबन्धना दृष्टेति दूरतस्थस्य चन्द्रमसः प्रादेशिकत्वप्रत्ययो दोषनिबन्धन एवेति निर्णीयते। एवमाकाशे समीपे नीरुपत्वनिश्चयाद् दूरे रूपवत्त्वधीर्दूरदोषजन्येति प्रागेव निश्चियते। `पीतः शङ्खः' इत्यादि प्रत्यक्षं तु प्राथमिकपरीक्षितप्रत्यक्षेण `शङ्खो न पीतः' इत्यर्थाभाव निश्चयादप्रामाण्यज्ञानास्कन्दितमेवोत्पद्यते। एवं सवितृसुषिरादिप्रत्यक्षमपि । तथा च चन्द्रादिप्रादेशिकत्वप्रत्यक्षं दूरादिदोषनिश्चयात्, `पीतः सङ्खः' इत्यदिप्रत्यक्षं प्राथमिकार्थाभावनिश्चयादेव बाधितमिति पश्चादनुमानागमादिप्रसर इति न ताभ्यां तद्वाधः। येन हि यस्य भ्रमत्वं ज्ञायतेः, तत्तस्य बाधकमित्युच्यते। न च चन्द्रप्रादेशिकत्वादिप्रत्यक्षस्यागमादिना भ्रमत्वं ज्ञायते। भ्रमत्वज्ञानोत्तरकालमेव तत्प्रवृत्तेः। अप्रमाण्यज्ञानाकलङ्कितं तु स्वार्थपरिच्छेदकं निःशङ्कप्रवृत्तिजननयोग्यम्। यथा `वह्निरुष्ण एव',`प्रस्तरो यजमानभिन्न एव', `घटः सन्नेव इत्यादि तन्नान्यस्यावकाशदं नान्येन बाध्यम्। न ह्यत्र प्रागेव दूरादिदोषधीर्वा अर्थाभावनिश्चयो वा कोट्यन्तरालम्बित्वं वाऽस्ति। किं च क्वचित् प्रत्यक्षं प्रत्यक्षान्तरगौरवाद्युक्तिबाध्यं भवतु, क्वचिच्च लिङ्गादिकं श्रुतिगौरवात् श्रुत्यनुसारिप्रकरणादिबाध्यं भवतु, राजामात्य इव राजगौरवेण राजभृत्यबाध्यः, तथापि न युक्तिमात्रस्य प्रकरणमात्रस्य वा प्रत्यक्षलिङ्गादिबाधकत्वम्। प्रत्यक्षाद्यनुसारित्वस्य सर्वत्राभावात्। न हि प्रधानभूताचमनादिपदार्थविषयया `आचामेदुपवीति दक्षिणाचारः' इत्यादिस्मृत्या पदार्थधर्मभूतक्रमादिविषया `वेदं कृत्वा वेदिं करोति' इति श्रुतिर्वेदकरणानन्तरं क्षुतनिमित्तकाचमनोपनिपाते बाध्यत इत्यन्यत्रापि तथा भवितव्यामिति चेत्, मैवम्।यतो युक्तिरेवैषा। यद् यद्दूरस्थाल्पपरिमाणज्ञानं,तत् तद्दूरदोषनिबन्धनमप्रमा, शैलाग्रस्थविटप्यल्पपरिमाणज्ञानवत् इदमपि तथेति। तथा चैवंरूपया युक्त्यैव चन्द्रप्रादेशिकत्वादिप्रत्यक्षस्य बाधं वदन् युक्त्या न प्रत्यक्षस्य बाध इति वचनेनाजैषीः परं मन्दबुद्धे ! मन्दाक्षम्, न तु परम्। एवं `पीतः शङ्खः' इति प्रत्यक्षेऽपि प्राचीनार्थाभावप्रत्यक्षं न बाधकम्, तस्येदानीमभावात्। न च तत्स्मृतिर्बाधिका, तस्या अनुभवाद् दुर्बलत्वात्। केवलं युक्त्युत्पादन एव सोपयुज्यते। तेन युक्त्यागमाभ्यामेवोदाहृतस्थलेषु बाधः।

 

      यत्तु क्वचिद्युक्त्यादेर्बाधकत्वदर्शनमात्रेण सर्वत्र न बाधकत्वं वक्तुं शक्यम्, युक्त्यादिबाधकताया अनुस्रियमाणप्रत्यक्षगौरवनिबन्धनत्वात् इत्युक्तम्। तदनुक्तोपालम्भनम्। न हि मया क्वचिद् दर्शनमात्रेण युक्तर्बाधकता सर्वत्रोच्यते, अपि तु चन्द्रप्रादेशिकत्वशङ्खपीतत्वप्रत्यक्षादौ यावदागमादेर्बाधकताप्रयोजकं दृष्टं तावत्सत्त्वेन। न च तत्रानुस्रियमाणं प्रत्यक्षमस्ति, यद्गौरवेण बाधकतायामन्यथासिद्धिं ब्रूयाः। तस्माच्चन्द्रप्रादेशिकत्वप्रत्यक्षस्य प्रपञ्चसत्त्वप्रत्यक्षस्य च तुल्यवदेव बाध्यता। युक्त्यागमयोश्च तुल्यवदेव बाधकतेति। न हि चन्द्रप्रदेशिकत्वप्रत्यक्षेऽपि प्रागेव दुष्टकरणकत्वनिश्चयः। नैकट्यस्यापि क्वचिद् दोषत्वेन सर्वत्र परिमाणज्ञानाविश्वासप्रसङ्गात्। किन्त्वागमादिना बाधानन्तरमेव। तद्वत् प्रकृतेऽपि मिथ्यात्वसिद्ध्यनन्तरमेवाविद्यारूपदोषनिश्चयः। तथा च सर्वात्मना साम्यम्। यत्तु दृष्टस्य वस्तुनो बलवद्दृष्टिं विना अन्यद्बाधकं नास्तीत्युक्तं तद् दुर्बलशब्दलिङ्गादिविषयम्। यदप्युक्तं विवरणे, `यत्राविचारपुरस्सरमेव प्रत्यक्षावभासमप्यनुमानादिना बाधितमुच्छिन्नव्यवहारं भवति। तत्र तथा भवतु। यत्र पुनर्विचार पदवीमुपारूढयोर्ज्ञानयोर्बलाबलचिन्तया बाधनिश्चयस्तत्र नानुमानादिना प्रत्यक्षस्य मिथ्यात्वसिद्धिः' इति तदपि गृहीतप्रामाण्यकशब्दतदुपजीव्यनुमानातिरिक्तयुक्तविविषयम्। एकत्र प्रामाण्यनिश्चये बलाबलचिन्ताया एवानवकाशात्।। ।। इति प्रत्यक्षस्य लिङ्गाद्यबाध्यत्वे बाधकम्।।    

[ 1-1-26]

 

[1-1-27]    27.अथ प्रत्यक्षस्य भाविबाधकशङ्का भङ्गः।

 

      एवं च `भाविबाधनिश्चयाच्च' इति यदुक्तं तदप्युपपन्नतरमेव। प्रकारान्तरेणाबाधितस्य चन्द्रप्रादेशिकत्वप्रत्यक्षस्य यथा आगमेन बाधः तथा प्रकारान्तरेणाबाधितस्य `सन् घटः' इत्यादिप्रत्यक्षस्य मिथ्यात्वबोधकागमेन बाध इति निर्णयात्। एवं च भाविबाधशङ्कामादाय यत्परैर्दूषणमुक्तं तदनुक्तोपालम्भतया अपास्तम्। वस्तुतस्तु बाधशङ्कामादायापि प्रत्यक्षस्य बाधकतोद्धारः समीचीन एव। प्रत्यक्षशब्दयोर्बलाबलविचारात् प्राक् किमयं शब्द उपचरितार्थः, आहोस्वित् प्रत्यक्षमप्रमाणमिति शङ्कायामुभयोरबाधकत्वप्राप्तौ तात्पर्यलिङ्गैः श्रूयमाणार्थरतया निश्चितस्यागमस्योपचरितार्थत्वशङ्काव्युदासेन लब्धावकाशत्व सम्भवात्। न च शब्दलिङ्गयोः प्रत्यक्षाबाधकतया प्रत्यक्षान्तरस्याप्रमाणतया शङ्क्यमानत्वेनाबाधकतया च बाधकसामान्याभावे निश्चिते बाधशङ्का न युक्तेति वाच्यम्। शब्दलिङ्गयोः प्रत्यक्षबाधकत्वस्य व्यवस्थापितत्वात् प्रत्येकं विशेषाभावनिश्चयेऽपि विशेषाणामियत्तानवधारणदशायां संशयसम्भवात्। प्रत्यक्षस्याप्रमाणतया शङ्क्यमानत्वेन शङ्काविरहोपपादनस्यासम्भवदुक्तिकत्वाच्च।

 

      अथैवं जाग्रदादिज्ञानस्याप्रमात्वे स्वप्नदृष्टस्य शुक्तिरूप्यादेश्च बाधासिद्धौ कथं दृष्टान्तसिद्धिः स्यादिति चेन्न, आरोप्यसत्ताधिकसत्ताकविषयत्वेनाऽपेक्षिकप्रमाणत्वेनान्यून सत्ताकविषयत्वेन वा बाधकत्वात्। अत एव यदुक्तं बौद्धं प्रति भट्टवार्तिके-

 

`प्रतियोगिनि दृष्टे च जाग्रद्वोधे मृषा भवेत्।

स्वप्नादिदृष्टिरस्माकं तव भेदोऽपि किङ्कृतः।।'

 

इति तत्सङ्गच्छते। ननु भ्रमकालीनापरोक्षबुद्ध्यविषयविशेषविषयैव धीर्बाधिका दृष्टा। न च विश्वबाधिका धीस्तथेति चेन्न। अधिष्ठानतत्त्वज्ञानत्वेनैव भ्रमनिवर्तकत्वात्। विश्वनिवर्तकब्रह्मज्ञानस्य तथात्वात्। न च सप्रकारिकैव धीर्भ्रमनिवर्तिका, इयं तु निष्प्रकारिका कथं तथेति वाच्यम्। निवर्तकतायां सप्रकारकत्वस्य गौरवादप्रवेशात्। ननु आवश्यकः सप्रकारकत्वनियमः। व्यावृत्ताकारज्ञानत्वेनैव भ्रमनिवर्तकत्वात्। अन्यथा अनुवृत्ताकारज्ञानादपि तन्निवृत्त्यापत्तेरिति चेत्। सत्यम्। व्यावृत्ताकारत्वेन ज्ञानस्य भ्रमनिवर्तकता, न तु तत्र विशेषप्रकारकत्वनियमः। तथा हि- व्यावृत्ताकारता हि द्वेधा भवति। विशेषणाद् उपलक्षणाच्च। तत्राऽद्ये सप्रकारकत्वनियमः। द्वितीपेऽपि धर्मान्तरस्य यदुपलक्षणं तस्माद् व्यावृत्ताकारत्वे सप्रकारकतैव। यदि तु स्वरूपोपलक्षणाद् व्यावृत्ताकाराता तदा निष्प्रकारकतैव। उपलक्षणस्य तत्राप्रवेशात्। स्वस्य च स्वस्मिन्नप्रकारत्वात्। न च प्रमेयत्वादिवत् स्वस्यैव स्वस्मिन् प्रकारत्वमिति वाच्यम्। त्वयापि केवलान्वयिन्येवागत्या तथाङ्गीकारात्। न तु सर्वत्र। अत आकारप्रकारयोरभेदाद् ब्रह्माकारतैव ब्रह्मबुद्धेस्तत्प्रकारतेति चेत्। न विशिष्टबुद्धेर्विशेष्याकारत्वेऽपि तदप्रकारकत्वात्, आकारप्रकारयोर्भेदात्। आकारश्च वृत्तिनिष्ठः कश्चिद्धर्मोऽसाधारणव्यवहारहेतुरिति वक्ष्यते। तस्माद्यथाऽऽकाशपदाच्छब्दा श्रयत्वोपलक्षितधर्मिस्वरूपमात्रं ज्ञायते तद्वदत्रापि द्वितीयाभावाद्युपलक्षितब्रह्मस्वरूपज्ञानं व्यावृत्ताकारं द्वैतनिवर्तकमपरोक्षम्। यथा च शब्दात्तादृग्ज्ञानसम्भवस्तथा वक्ष्यते। न च बाधकधियां भ्रमतद्धेत्वज्ञानदोषाध्यस्तद्रष्ट्रादीनामबाधकत्वं दृष्टमिति कथं ब्रह्मज्ञानस्य तद्बाधकत्वं घटतामिति वाच्यम्। यत्र हि स्वप्ने द्रष्टारं दुष्टकरणवन्तं कल्पयित्वा तस्य भ्रमं कल्पयति तत्र जागरज्ञानेन सर्वेषां निवृत्तिदर्शनात्। जाग्रद्दशायामपि यदा मनुष्यप्रतिकृतौ चैतन्यं कल्पयित्वा तत्समीपवर्तिन्यनादर्श एवादर्शत्वं कल्पयित्वा स्वप्रतिबिम्बमयं पश्यतीति कल्पयति तदा नायं-चेतनो न चायमादर्श इति प्रमया सर्वनिवृत्तिदर्शनाच्च नेयमदृष्टचरी कल्पना। तथा चेयं शुक्तिरित्याद्यधिष्ठानज्ञानं रज्ज्वां सर्पभ्रममिव द्रष्ट्राद्यध्यासं मा निवीवृतत् तत्कस्य हेतोः? तदधिष्ठानसाक्षात्कर्तवाभावात्। ब्रह्मज्ञानं त्वाकाशादिप्रपञ्चभ्रममिव द्रष्टुर्दोषादिभ्रममपि निवर्तयेदेव तत्कस्य हेतोः ? अशेषभ्रमाधिष्ठानतत्त्वसाक्षात्कारत्वात्। एवं च बाधबुद्धित्वं न दोषाद्यबाधकत्वे प्रयोजकम्, अपि तु तद्भ्रमाधिष्ठानतत्त्वसाक्षात्कारभिन्नत्वमिति द्रष्टव्यम्। ननु कल्पितत्वादुक्तदृष्टान्ते तद् बाध्यताम्। इह तु कथमिति चेत् ? हन्त ! ब्रह्मव्यतिरिक्तस्य सर्वस्य कल्पितत्वमङ्गीकुर्वतामस्माकमिदमनिष्टं महदापादितं देवानाम्प्रियेण।

 

      ननु साक्षिप्रत्यक्षं न बाध्यम्, दोषाजन्यत्वात्। प्रत्युत श्रुतिजनिताद्वैतज्ञानमेव बाध्यम्, तात्पर्यभ्रमरूपदोषजन्यत्वादिति चेत्, न। चैतन्यस्य स्वरूपतो दोषाजन्यत्वेऽपि तदवच्छेदिकाया अविद्यावृत्तेर्दोषजन्यत्वात्। तत्प्रतिफलितचैतन्यस्यैव साक्षिपदार्थत्वात्। अद्वैततात्पर्यग्रहस्य च प्रत्यक्षाद्यविरोधेन प्रमारूपतया दोषत्वाभावात् न तज्जन्यमद्वैतज्ञानं बाध्यम्। भ्रमजन्यत्वस्य विषयबाधाप्रयोजकत्वाच्च। न च बाधकतुल्यमानताकद्वैत श्रुतिसंवादिद्वैतप्रत्यक्षं कथं बाध्यमिति वाच्यम्। द्वैतस्य प्रत्यक्षादिलौकिकमानसिद्धत्वेन तद्बोधकश्रुतेरनुवादकतया फलवदज्ञातस्वार्थतात्पर्यकाद्वैतश्रुतिसाम्याभावात्। ननु बाधकधीबोध्यं न बाध्यम्। भेदश्च बाधकधीबोध्यः। तया स्वविषयस्य भिन्नत्वेनैव ग्रहात्। नेद रजतमितिवद् अभिन्नतयोदासीनतया वा ग्रहणे बाधकत्वायोगादिति चेत्, न। बाधकधियो भेदविषयत्वानभ्युपगमात्। इयं शुक्तिरित्येवबाधबुद्ध्युदयात्। तस्यास्तु नेदं रजतमिति भेदबुद्धिः फलम्। व्यावृत्ताकारतैव बाधधिय आवश्यकी। सा च स्वरूपोपलक्षणबलान्निष्प्रकारकब्रह्मज्ञानेऽपि अस्तीति न बाधकधीबोध्यत्वं भेदस्य। ननु स्वप्नविलक्षणफलपर्यन्तपरीक्षायामपि चेच्छङ्का स्यात् तदा अद्वैतश्रुतितत्प्रत्यक्षतत्प्रामाण्य शङ्कायामद्वैतश्रुतिरपि न सिद्ध्येत्। बाधेऽपि बाधशङ्कायामबाधितबाधप्रसिद्धिरपि न स्याद्, बाधितबाधशङ्कायाश्चाबाध्यत्वाविरोधित्वात्। भाविबाधेऽपि बाधशङ्कापातेन स्वक्रियाव्याघातश्च स्यात्। शङ्काप्रत्यक्षेऽपि शङ्कायां शङ्कापि न सिद्ध्येत्। एवं सर्वत्र शङ्काप्रसरात् सर्वविप्लवापत्तिरिति चेत्, मैवं मंस्थाः। यतः समत्वेन प्रमाणान्तरे उपस्थित एव निश्चितेऽपि सत्त्वादौ शङ्का भवतीति ब्रूमः, न तु निश्चितमात्रे शङ्का भवतीति। तथा च यदुक्तं बौद्धं प्रति भट्टवार्तिके-

 

`दुष्टज्ञानगृहीतार्थप्रतिषेधोऽपि युज्यते।

गहीतमात्रबाधे तु स्वपक्षोऽपि न सिद्ध्यति।।'

 

इति, तदपि न विरुध्यते। गृहीतमात्रबाधस्य तच्छङ्कायाश्चानुक्तेः।

 

ननु सत्त्वादिप्रत्यक्षे क्लृप्तदूरादिदोषाभावनिश्चये कथं शङ्कोदयः ? न च क्लृप्तानामभावनिश्चयेऽप्यक्लृप्तस्य शङ्का स्यात्। शब्दे क्लृप्तवक्तृनिबन्धनदोषस्य नित्यत्वेन वेदे अभावेऽपि दोषान्तरशङ्कायाः सुवचत्वात्। नच स्वाप्नप्रत्यक्षे तदा दूराद्यभावनिश्चयेऽप्यप्रमाण्यदर्शनेन तद्वदत्रापि शङ्केति वाच्यम्। शून्यमेव तत्त्वमिति स्वाप्नवेदेऽपि तदा भ्रान्त्यादिदोषाभावनिश्चियेऽप्यप्रामाण्यदर्शनस्य वेदेऽपि समानत्वात्। स्वप्नवैषम्यानुभवस्तूभयत्रापि समान इति चेत्‌न। सत्त्वप्रत्यक्षाद्वैतागमयोः क्लृप्तदोषाभावनिश्चयस्य समानत्वेन प्रामाण्यशङ्कायामप्रतिबन्धकत्वात्। न हि सत्प्रतिपक्षे उभयत्र दोषाभावनिश्चयः किमत्र तत्त्वमिति जिज्ञासां प्रतिबध्नाति। विरुद्धविशेषादर्शनकालिकस्यैव विशेषदर्शनस्य शङ्काप्रतिबन्धकत्वात्। अवच्छेदकवृत्त्य नित्यत्वेनच साक्षिप्रत्यक्षस्य दोषजन्यत्वोक्तेः। अत एव यदुक्तं तार्किकैः - `तदेव ह्याशङ्क्यते' यस्मिन्नाशङ्क्यमाने स्वक्रियाव्याघातादयो दोषा न भवन्तीति। उक्तं च भट्टवार्तिके बौद्धं प्रति-

 

`इहं जन्मनि केषाञ्चिन्न तावदुपपद्यते

योग्यवस्थागतानां तु न विद्मः किं भविष्यति।।'

 

इति। तथा च प्रामाण्यस्योत्पत्तौ ज्ञप्तौ च स्वतस्त्वादिह चोत्पत्तिस्वतस्त्वापवादस्य दोषस्य ज्ञप्तिस्वतस्त्वापवादस्य बाधस्य चादर्शनात्, निर्मूलशङ्कायाश्च स्वक्रियाविरोधेनानुत्थानाभ्युपगमात् सुस्थं प्रत्यक्षस्य प्रामाण्यमिति- तदपि निरस्तम्। आगमादिप्रमाणमूलकशङ्काया एव स्वीकारात्। रूप्यादिनिषेधस्य तु `नेदं रजत' मित्यादेरद्वैत श्रुत्यनुगुणत्वेन नाप्रामाण्यशङ्कास्कन्दनम्। अते न वृद्धिमिच्छतो मूलहान्यापत्तिः। नापि `सन् घटः' इत्यादेः `नेदं रजतं' इत्यनेन समानयोगक्षेमता; अद्वैतश्रुति विरोधाभ्यां विशेषात्। अत एव- सौषुप्तिकानन्दानुभवस्याप्यप्रामाण्ये कथमात्मन आनन्दरूपता तात्त्विकी ? आनन्दश्रुतेरनुभूतातात्त्विकानन्दानुवादकत्वोपपत्तेरिति अपास्तम्। आनन्दस्य ब्रह्मरूपत्वेनाद्वैतश्रुतिविरोधाभावेन तदप्रामाण्यप्रयोजकाभावात्। अत एव नानन्द श्रुतेरप्रामाण्यम्। तदुक्तं खण्डने-

 

`अत्यन्तासत्यपि ज्ञानमर्थे शब्दः करोति हि।

अबाधात्तु प्रमामत्र स्वतः प्रामाण्यनिश्चलाम्।।' इति।

 

उक्तं च सुरेश्वरवार्तिके-

 

`अतोऽवबोधकत्वेन दुष्टकारणवर्जनात्।

अबाधाच्च प्रमाणत्वं वस्तुन्यक्षादिवत् श्रुतेः।।' इति।

 

अत्र चाक्षादिवदिति निदर्शनं व्यावहारिकप्रामाण्यमात्रेणेति द्रष्टव्यम्। एवं च तात्त्विकप्रामाण्याभावेऽपि प्रत्यक्षादीनां व्यावहारिकप्रामाण्याभ्युपगमात् न स्वक्रियाव्याघातः।

 

न वा,

 

`प्रत्यक्षमनुमानं च शास्त्रं च विविधागमम्।

त्रयं सुविदितं कार्यं धर्मशुद्धिमभीप्सता।।'

 

इत्यादि स्मृतिविरोधः। तस्मात्सिद्धं बाधनिश्चयेन तच्छङ्कया वा प्रत्यक्षादेरद्वैत गमानुमानाद्यविरोधित्वम्। इति भाविबाधोपपत्त्या प्रत्यक्षबाधोद्धारः।।

[ 1-1-27]

 

[1-1-28]    28.अथ प्रत्यक्षस्य पारमार्थिकसत्त्वग्राहित्वविवरणम् ।

[ 1-1-28]

 

[1-1-29]    29.अथ विश्वमिथ्यात्वस्यानुमानबाधः

 

      स्यादेतत्- अध्यक्षस्य भिन्नविषयत्वादिना बाधाक्षमत्वेऽपि अनुमानमेव बाधकं स्यात्। तथा हि- ब्रह्मप्रमान्येन, वेदान्ततात्पर्यप्रमितिजन्यज्ञानान्येन वा, मोक्षहेतुज्ञानान्येन वा अबाध्यत्वे सत्यसत्त्वानधिकरणत्वे सति ब्रह्मान्यद्, विमतं वा सत् परमार्थसद्वा, प्रातिभासिकत्वानधिकरणत्वे सत्यसद्विलक्षणत्वाद्, ब्रह्मवद्, व्यतिरेकेण शशश्रृङ्गवद्वेति चेन्न। त्वन्मते प्रातिभासिकस्याप्यसत्त्वेन व्यर्थविशेषणतया व्याप्यत्वासिद्धेः। अस्मान्मतमाश्रित्य हेतूकरणे च देहात्मैक्ये ब्रह्मज्ञानेतराबाध्ये व्यभिचारात्। न हि प्रातिभासिकत्वं ब्रह्मज्ञानेतरबाध्यत्वादन्यत्। त्वयाहि प्रातिभासिकस्य शुक्तिरूप्यादेरपक्षत्वाय सत्यन्तमाद्यं विशेषणत्रयं विकल्पेन पक्षे प्रक्षिप्तम्। तत्र ब्रह्म वृत्तिव्याप्यमिति मतेनाद्यम्। तदनभ्युपगमे तु शाब्दप्रमां प्रति तात्पर्यप्रमा हेतुरिति मतेन द्वितीयम्। अन्योन्याश्रयत्वात् न सा हेतुरिति मतेन तृतीयम्। तथा च प्रातिभासिकस्यासत्त्वानधिकरणत्वमङ्गीकृतमेव।

अन्यथा तुच्छवारकासत्त्वानधिकरणत्वविशेषणेनैव तद्व्यावृत्तावेतावत्प्रयासवैयर्थ्यापत्तेः। एवं च देहात्मैक्यस्यापि पक्षत्वे बाध एव। बाधे च सति पक्षविशेषणस्य पक्षत्वस्यासिद्ध्याऽऽश्रयासिद्धिरपि। अत एव स्वबाधकाभिमताऽबाध्यदोषजन्यज्ञानाविषयत्वे सतीति वा, स्वबाधकाभिमताबाध्यबाधाविषयत्वे सतीति वा, स्वसमानाधिकरणकर्मप्रागभाव समानकालीनज्ञानावाध्यत्वे सतीति वा वेशेषणप्रक्षेपेऽपि न निस्तारः। देहात्मैक्ये पूर्वोक्तदोषाव्यावृत्तेरेव।

 

      यत्तु - प्रथमे साध्ये व्यावहारिकसत्त्वमादाय सिद्धसाधनम्। द्वितीयसाध्ये तु वादिनः परमार्थत्वविशेषणं व्यर्थम्। व्यावर्त्याप्रसिद्धेः इति। तन्न। व्यावहारिकसत्त्वं सत्त्वेन व्यवहारमात्रमिति मतेन प्रथमप्रयोगात्। अनुगतं पृथग्व्यावहारिकं सत्त्वमिति तु मते द्वितीयः प्रयोगः। न च विशेषणं व्यर्थम्। परार्थानुमाने परं प्रति सिद्धसाधनोद्धारस्य तत्प्रयोजनत्वात्। ईश्वरानुमाने जन्यकृत्यजन्यानीत्यत्र मीमांसकं प्रति जन्यत्वस्येव विश्वपरमार्थत्ववादिनं प्रति परमार्थत्वस्य प्रमेयत्वादिवदुपरञ्जकत्वेन विशेषणत्वोपपत्तेश्च। तस्मात् पूर्वोक्त एव दोषः। हेतौ च व्यर्थविशेषणत्वदोषः। यद्यपि मतद्वयेऽपि अप्रामाणिकस्यापि निषेधप्रतियोगित्वाभ्युपगमादारोपितत्वेनोभयसंमतत्वरूपस्य वा, प्रतिभासमात्रशरीरत्वरूपस्य वा, प्रतिभासिकत्वस्य प्रसिद्धिरस्ति। अन्यथा सिद्धान्तेऽपि मिथ्यात्वानुमाने प्रातिभासिकान्यस्यैव पक्षीकर्तव्यत्वाद्दोषसाम्यं स्यात्। तथापि हेतौ प्रातिभासिकत्वविशेषणं व्यर्थम्। अनधिकरणत्वे सत्यसत्त्वानधिकरणत्वमात्रस्यैव परमार्थसत्त्वसाधकत्वोपपत्तेः। शुद्धमेव हि ब्रह्म दृष्टान्तत्वेनाभ्युपेयम्। धर्मवतो दृष्टान्तत्वे साध्यवैकल्यापत्तेः। साध्यन्तु बाधाभावरूपत्वादधिकरणस्वरूपमेव न धर्मः। धर्म्यतिरिक्ताभावानभ्युपगमस्योक्तत्वात्। तथा च चक्षुस्तैजसत्वानुमाने रूपादिषु मध्य इत्यस्यासिद्धिवारकस्यापि व्याप्तिग्रहौपयिकत्वेन व्यभिचारवारकविशेषणतुल्यतया यद्यपि सार्थकत्वम्। व्यभिचारवारकस्यापि सार्थकत्वे व्याप्तिग्रहौपयिकत्वमात्रस्य तन्त्रत्वात्। तथापि `क्षित्यादिकं न कर्तृजन्यं शरीराजन्यत्वात्' इत्यत्र शरीरस्येव व्याप्तिग्रहानुपयोगित्वेन प्रातिभासिकत्वस्य वैयर्थ्यमेव। आकाशादावजन्यत्वकर्तृजन्यत्वाभावयोरिव निर्धर्मके ब्रह्मण्यनधिकरणत्वपरमार्थसत्त्वयोर्व्याप्तिग्रहोपपत्तेः। तथा चैकामसिद्धिं परिहरतो द्वितीयासिद्ध्यापत्तिः। स्वरूपासिद्धिपरिहारार्थं विशेषणं प्रक्षिपतो व्याप्यत्वासिद्धिरित्यर्थः। व्याप्तावनुपयोगस्य दर्शितत्वात्। किं च व्यावहारिकसत्त्वमात्रेणैवोपपत्तेः, उक्तहेतोर प्रयोजकत्वम्। परमार्थसत्त्वे बाधानुपपत्तिलक्षणप्रतिकूलतर्कपराघाताच्च।

 

      ननु ब्रह्मण्यसत्प्रतिभासिकव्यावृत्तिरूपं हेतुं प्रति व्यावर्तकतया प्रयोजकत्वेन परमार्थसत्त्वं क्लृप्तम्। अपृथिवीव्यावृत्तिं प्रति तद्विवीत्वस्येवारसद्व्यावृत्तिं प्रति तद्विरुद्धसत्त्वस्यैव प्रयोजकत्वात्। ज्ञानत्वानन्दत्वादिकं तु न तत्प्रयोजकम्। साक्षादसत्त्वाविरोधित्वात्। प्रपञ्चे तदभावाच्च। तथा च ब्रह्मविश्वसाधारणं परमार्थसत्त्वमेव तत्प्रयोजकम्। न च विश्वमिथ्यात्वात् परमार्थसत्त्वमपि न विश्वसाधारणं, ज्ञानत्वानन्दत्वादिवदिति वाच्यम्, अन्योऽन्याश्रयापत्तेः इति चेद्, अयुक्तमेतत्। न हि प्रातिभासिकासतोरेक व्यावृत्तिरुभयी वा समव्याप्ता, येनैकप्रयोजकप्रयोज्य भवेत्। किन्तु प्रातिभासिकव्यावृत्तिप्रयोजकं ब्रह्मविश्वासत्साधारणमेव वक्तव्यम्। असत्यपि प्रातिभासिकत्वाभावात्। एवमसद्व्यावृत्तावपि प्रयोजकं ब्रह्मविश्वप्रातिभासिकसाधारणमेव वक्तव्यम्। प्रातिभासिकेऽप्यसत्त्वाभावात्। तथा च तत्प्रयोजकद्वयसमावेशादेव ब्रह्मण्युभयव्यावृत्त्युपपत्तौ नीलत्वघटत्वरूपावच्छेदकद्वय समावेशोपपन्ननीलघटत्ववन्नातिरिक्तप्रयोजककल्पनायामस्ति किञ्चिन्मानमिति कृतबुद्धयः एव विदाङ्कुर्वन्तु। नित्यत्वं चोपाधिः। तुच्छप्रतिभासिकयोर्नित्यत्बव्यतिरेके साध्यव्यतिरेकदर्शनात्।

 

      अत एवानिषेध्यत्वेन प्रमां प्रति साक्षाद्विषयत्वादित्यपि न हेतुः। किं च प्रमात्वं तद्वति तत्प्रकारकत्वं तत्त्वावेदकत्वं वा ? आद्ये दृष्टान्‌तस्य साधनवैकल्यम्। न हि परमार्थसतः शुद्धस्य ब्रह्मणः सप्रकारकज्ञानविषयत्वम्। न च धर्मवतो दृष्टान्ततेत्युक्तम्। तस्य पक्षकुक्षिनिक्षिप्तत्वेन निश्चितसाध्यवत्त्वाभावात्। द्वितीये  तत्त्वावेदकत्वस्याबाधित विषयत्वरूपत्वेन साध्याविशेषपर्यवसानाद्धेतुग्रहे सिद्धसाधनम्। हेत्वग्रहे तु स्वरूपासिद्धिः। यत्तु- प्रमाविषयत्वमात्रेणैव परमार्थत्वोपपत्तौ विशेषणे व्यर्थे इति। तन्न। पुरोवर्तिनं रजततया जानामीत्याद्यनुव्यवसायरूपप्रमाविषये प्रातिभासिके व्यभिचारवारकत्वात् साक्षात्पदस्य। तत्रैव च मिथ्यात्वप्रमितेः साक्षाद्विषये व्यभिचारवारकत्वाद् अनिषेध्यत्वेनेत्यस्य। न ह्यनुव्यवसायमिथ्यात्वप्रमे न भवतः।

 

      नाप्यनिषेध्यत्वेनेश्वरं प्रति साक्षादपरोक्षत्वं हेतुः। सत्यत्वसिद्धिं विना अनिषेध्यत्वेनेत्यंशस्यासिद्धेः। तथा चान्योन्याश्रयः। न चेश्वरज्ञानविषयस्य प्रप़ञ्चस्य मिथ्यात्वे तस्य भ्रान्तत्वप्रसङ्गः। मिथ्याभूतस्य मिथ्यात्वेनैव ग्रहणाद्ऐन्द्रजालिकवद् भ्रान्तत्वायोगात्। अन्यथा सविषयकभ्रमज्ञातृत्वेन भ्रान्तत्वस्य दुर्वारत्वापत्तेः। अथ निषेध्यत्वेन ज्ञाने तत्पालनार्थमीश्वरस्य प्रवृत्तिर्न स्यात् न, ऐन्द्रजालिकप्रवृत्तिवदीश्वरप्रवृत्तेरपि तथाविधत्वात्।

 

      नापि सप्रकारकबाध्यार्थक्रियाकारित्वं हेतुः। सप्रकारकजाग्रद्वोधाबाध्य स्वप्नजलावगाहनप्रियासङ्गमादिविशेषिताप्रमाणीभूतज्ञानस्यार्थक्रियाकारित्वदर्शनेन तद्विषये तत्र व्यभिचारात्। अथ तत्र ज्ञानमेव सुखादिजनकं, तच्चाबाध्यमेवेति मतम्। तदसत्। ज्ञानमात्रस्य हि तादृक्सुखाजनकत्वेन किञ्चिद्विशेषितस्यैव तथात्वं वाच्यम्। ज्ञाने च विशेषो नार्थातिरिक्तः। तदुक्तम्- `अर्थेनैव विशेषो हि निराकारतया धियाम्-' इति। अर्थेनेत्यर्थ एवेत्यर्थः। तथा च मिथ्याभूतविशेषितस्य जनकत्वाभ्युपगमे मिथ्याभूतस्यापि जनकत्वाद्व्यभिचार एव। तथा चोक्तं शास्त्रदीपिकायां बौद्धं प्रति - `अथ सुखज्ञानमेवार्थक्रिया तच्चव्यभिचार्येव। न हि क्वचिदप्यसति सुखे सुखज्ञानमस्तीत्यशङ्क्य सत्यमेतन्न तु तेन पूर्वज्ञानप्रामाण्याध्यवसानं युक्तम्। अप्रमाणेनापि प्रियासङ्गमविज्ञानेन स्वप्नावस्थायां सुखदर्शनाद्' इति। ननु विषयविशेषोपलक्षितस्यैव ज्ञानस्य सुखजनकत्वमस्तु। तत् कुतो विषयस्य जनकत्वमिति चेन्न। स्वरूपाणामननुगततया ज्ञानत्वादेश्चातिप्रसक्ततया अनुगतानतिप्रसक्तोपलक्ष्यतावच्छेदकाभावादुपलक्षणत्वासम्भवात्। ननु विशेषणत्वमप्यसम्भवि। अनागतज्ञानजन्ये तत्कालाविद्यमानस्य विषयस्य पूर्वभाविरूपजनकत्वासम्भवाद् इति चेन्न। स्वव्यापारजन्ये व्यापारिणोऽसतो जनकत्ववत् स्वज्ञानजन्येऽप्यसतो जनकत्वसम्भवात्। अतीतानागतावस्थस्यासत्त्वधर्माश्रयत्वेनैवाभ्युपगमात्। अन्यथा ध्वंसप्रागभावप्रतियोगित्व तज्ज्ञानविषयत्वादीनामनाश्रयत्वापत्तेः। प्रमाणबलात् कारणत्वाभ्युपगमस्यात्रापि तुल्यत्वात्। किञ्च स्वरूपाबाध्यस्य विषयाबाध्यत्वदर्शनेन विषयबाधे स्वरूपबाधस्यावश्यकतया स्वप्नादिज्ञानं सदेवेत्यस्य वक्तुमशक्यत्वात्। अनादित्वस्य विषमव्याप्तस्योपाधित्वाच्च। न च अर्थक्रियाकारित्वं प्रति परमार्थत्वस्य ब्रह्मणि प्रयोजकत्वेनावधारणादकारणककार्योत्पत्ति रूपविपक्षबाधकतर्केण हेतोः साध्यव्यापकतया तदव्यापकतयोपाधेः साध्याव्यापकत्वमिति वाच्यम् प्रातिभासिकरज्जुसर्पादौ भयकम्पादिकार्यकारित्वदर्शनेन प्रातिभासिकसाधारणस्य तुच्छव्यावृत्तस्य प्रतीतिकालसत्त्वस्यैवार्थक्रियाकारित्वं प्रति प्रयोजकत्वात्। प्रातिभासिकस्यार्थक्रियाकारित्वानभ्युपगमे सप्रकाराबाध्येति हेतुविशेषणवैयर्थ्यापत्तेः। कस्मिन्नपि देशे कस्मिन्नपि काले केनापि पुरुषेणाबाध्यत्वं हि परमार्थसत्त्वम्। तदपेक्षया प्रतीतिकालसत्त्वस्य लघुत्वाच्च। किञ्च शुद्धस्यार्थक्रियाकारित्वाभावात् साधनविकलत्वम्। उपहितस्य पक्षनिक्षेपात् साध्यविकलत्वम्।

 

      आरोपितमिथ्यत्वकत्वादित्यपि न हेतुः। आरोपितत्वं प्रातिभासिकत्वं चेत्, प्रपञ्चे हेतोरसिद्धिः। तत्सिद्धेः पारमार्थिकसिद्ध्युत्तरकालीनत्वात्। व्यावहारिकत्वं चेत्, शुक्तिरूप्यादौ व्यभिचारः। उभयसाधारण्येऽप्ययमेव दोषः।

 

      कल्पकरहितत्वादित्यपि न हेतुः। असति व्यभिचारात्। यथाश्रुतस्यासुद्धेश्च। ननु नासिद्धिः। शुद्धं हि चैतन्यं न कल्पकम्, अदुष्टत्वात्। नोपहितम्। कल्पित्वादेवान्यथानवस्थानात्। तथा च यावद्विशेषाभावे कल्पकसामान्याभावसिद्धिः इति चेन्न। शुद्धस्याप्यनाद्यविद्योपधानवशेन कल्पकत्वोपपत्तेः। कल्पकत्वं हि कल्पनां प्रत्याश्रयत्वं, विषयत्वं, भासकत्वं वा। तच्च, सर्वं कल्पनासमसत्ताकत्वेन शुद्धत्वाव्याघातकम्। तदुक्तं सङ्क्षेपशारीरके-

 

`आश्रयत्वविषयत्वभागिनी निर्विभागचितिरेव केवला।

पूर्वसिद्धतमसो हि पश्चिमो नाश्रयो भवति नापि गोचरः।।'

 

इति। अस्तु वोपहितस्य कल्पकत्वम्। न चानवस्था। अविद्याध्यासस्याध्यासान्तरानपेक्षत्वात्। स्वपरसाधारणसर्वनिर्वाहकत्वोपपत्तेः। अकल्पितस्य कल्पकत्वादर्शनाच्च। कल्पितप्रति बिम्बविशिष्टादर्शादेरादर्शान्तरे प्रतिबिम्बकल्पकत्वदर्शनाच्च। बिम्बस्य द्वितीयादर्श संमुखत्वाभावेन तत्र कल्पकत्वायोगात्। अन्यथा अतिप्रसङ्गात्। विस्तरेण चैतदग्रे वक्ष्यामः। तदेवं निराकृताः परमार्थसत्त्वे साध्ये षडमी हेतवः। एवमन्येऽपि निराकार्याः। अथ विमतं, न सद्विलक्षणम्, असद्विलक्षणत्वादात्मवदिति अनुमानान्तरं भविष्यतीति मतम्। तन्न। प्रातिभासिके शुक्तिरूष्यादौ व्यभिचारात्। न च तत्रासद्विलक्षणत्वहेतुरेव नास्तीति वाच्यम्। असद्विलक्षणत्वाभावे हि अपरोक्षतया प्रतीतिरेव न स्यात्। ननु तर्ह्यसद्विलक्षणत्वे तद्विरुद्धसद्विलक्षणत्वायोगः,तथा च साध्यस्यापि विद्यमानत्वान्न व्यभिचार इति चेन्न। सत्त्वे सर्वजनसिद्धबाधविरोधात्। गजादौ गोवैलक्षण्येऽपि तद्विरुद्धाश्ववैलक्षण्ययोगवत् सद्वैलक्षण्येऽप्यसद्वैलक्षण्ययोगोपपत्तेः प्रथममिथ्यात्व निरुक्तावुक्तत्वात्।

 

      ननु - विमतं,न चैतन्याज्ञानकार्यं, न तत्कार्यधीविषयः, न तत्कार्यसत्त्ववत्, न तज्ज्ञानबाध्यसत्त्ववद्वा, तस्मिन्नपरोक्षेऽप्यनिषेध्यत्वेन साक्षाद्भासमानत्वाद्, यदेवं तदेवम्, यथा घटे अपरोक्षेऽप्यनिषेध्यत्वेन साक्षाद्भासमानः पटो न घटाज्ञानकार्यादिः। विपक्षे च तदापरोक्ष्ये तदज्ञानव्याहतिरेव बाधिका। न चासिद्धिः, अधिष्ठानतया सुखादिसाक्षित्वेन चेदानीमपि चैतन्यापरोक्ष्याद्- इति चेन्न। सामान्याकारेणापरोक्ष्येऽपि शुक्त्यादौ रजतादेरनिषेध्यत्वेन साक्षाद्भासमानतया तन्न व्यभिचारात्। अथ व्यावृत्ताकारेण यस्मिन् भासमाने यदनिषेध्यत्वेन साक्षाद् भासते, न तत्तदज्ञानकार्यादीति व्याप्तिरिति मन्यसे, तर्ह्यसिद्धिः। नहि चैतन्यमिदानीं भ्रमनिवर्तकत्वाभिमतव्यावृत्ताकारापरोक्षप्रतीतिविषयः। तथा सत्यधिष्ठानमेव न स्यात्। यदा तु वेदान्तवाक्यजन्यवृत्तौ व्यावृत्ताकारतया अपरोक्षं तदा अनिषेध्यत्वेन प्रपञ्चे आपरोक्ष्यशङ्काऽपि नास्ति। अतः प्रमाणजन्यासाधारणाकारभानस्यैवाज्ञानविरोधित्वान्नापरोक्षतामात्रेणाज्ञानपराहतिप्रसङ्गः। यत्त्वज्ञानपदेन ज्ञानाभावोक्तौ सिद्धसाधनम्; अनिर्वचनीयज्ञानोक्तौ च तस्य खपुष्पायमाणत्वेन प्रतियोग्यप्रसिद्धिरिति तत्तुच्छम्। असप्रतियोगिकाभावं स्वीकुर्वतः पराभ्युपगममात्रेणैव प्रतियोगिप्रसिद्धिसम्भवात्।

 

      ननु- विमतं, नात्मन्यध्यस्तम्; आत्मसाक्षात्कारवत्प्रवृत्तिविषयत्वात्, यदेवं तदेवं, यथा घटसाक्षात्कारवत्प्रवृत्तिविषयो घटो न तत्राध्यस्तः। न चासिद्धिः, ईशजीवन्मुक्तयोरात्मसाक्षात्कारवतोरपि जगद्रक्षणभिक्षाटनादौ प्रवृत्तेः, शङ्खे अध्यस्तमपि पीतत्वं न शङ्खश्वेतत्वसाक्षात्कारवत्प्रवृत्तिविषय इति न तत्र व्यभिचार -इति चेन्न। प्रतिबिम्बे व्यभिचारात्। सहि मुखैक्यसाक्षात्कारवत्प्रवृत्तिविषयो मुखेऽध्यस्तः। तद्व्यतिरेकेणोपलभ्यमानत्वस्योपाधित्वाच्च।

 

      एवं च- विमतं, नेश्वरमायाकल्पितं, तं प्रत्यपरोक्षत्वात्, यदेवं तदेवं, यथा चैत्रं प्रत्यपरोक्षो घटो न चैत्रमायाकल्पितः। विमतं, न जीवकल्पितं, तस्मिन् सुषुप्तेऽप्यवस्थितत्वात्, आत्मवत्। न चासिद्धिः, प्रत्यभिज्ञानाद्। अदृष्टादेरभावे पुनरुत्थानायोगाच्च - इत्यपि निरस्तम्। आद्ये ऐन्द्रजालिकं प्रत्यपरोक्षे तन्मायाकल्पिते व्यभिचारात्। मायाविद्ययोरभेदेन देहात्मैक्यभ्रमे व्यभिचाराच्च। द्वितीये त्वसद्धेः। न च प्रत्यभिज्ञया प्रपञ्चस्य स्थायित्वसिद्धेर्नासिद्धिः। सुषुप्तिकालस्थायित्वासाधकत्वस्य प्रत्यभिज्ञाया दृष्टिसृष्टिसमर्थने वक्ष्यमाणत्वात्, अदृष्टादेः कारणात्मनाऽवस्थितत्वेन पुनरुत्थानसम्भवाच्च।।

 

      मिथ्यात्वं आत्मान्यसर्ववृत्ति न, मिथ्यामात्रवृत्तित्वात्, शुक्तिरूप्यत्ववद् इत्यपि न। मिथ्यात्वन्यूनवृत्तित्वस्योपधित्वात्। मिथ्यात्वं च सदसद्विलक्षणत्वं, सद्विलक्षणत्वमात्रं वा। आद्ये सिद्धसाधनम्। तस्यात्मान्यसर्वमध्यपतितासद्वृत्तित्वाभावात्। द्वितीये तु हेतौ मिथ्यापदस्य सदसद्वैलक्षण्यपरत्वे स्वरूपासिद्धिः। सद्वैलक्षण्यरूपे पक्षे तुच्छसाधारणे सदसद्विलक्षणेतरावृत्तित्वरूपहेत्वभावात्। तस्यापि सद्वैलक्षण्यमात्रपरत्वे सन्दिग्धानैकान्तिकता। साध्याभाववत्यात्मभेदे हेतुसन्देहात्। अप्रयोजकत्वादिकं च पूर्वोक्तं दूषणमनुवर्तत एव।

 

      आत्मा, परमार्थसदन्यः, परमार्थत्वादनात्मवत्। न च कल्पितात्म प्रतियोगिकभेदेनार्थान्तरम्। कल्पितमिथ्यात्वेन मिथ्यात्वानुमानेऽपि सिद्धसाधनापत्तेरित्यपि न। व्यावहारिकपदार्थमादाय सिद्धसाधने अतिप्रसङ्गाभावात्। अनानन्दत्वस्योपाधित्वाच्च।

 

      अथ आत्मा, यावत्स्वरूपमनुवर्तमानानात्मवान्, यावत्स्वरूपमनुवर्तमान भावरूपानात्मवान् वा, स्वज्ञानाबाध्यानात्मवान्, स्वज्ञानाबाध्यभावरूपानात्मवान्वा, पदार्थत्वाद्, भावत्वाद्वा घटादिवद् इति। अत्र पञ्चमप्रकाराविद्यानिवृत्त्यभ्युपगमपक्षे सिद्धसाधनपरिहाराय साध्ययोर्भावरूपपदमनात्मविशेषणमित्यपि मन्दम्। `यावत्स्वरूपं' इत्यस्य यत्किञ्चित्स्वरूपपरत्वे सिद्धसाधनाद्। आत्मस्वरूपपरत्वे साध्याप्रसिद्धेः। न हि यावदात्मस्वरूपमनुवर्तमानोऽनात्मा प्रसिद्धोऽस्ति। तथा सत्यनुमानवैयर्थ्यात्। अथ - स्वरूपपदस्य समभिव्याहृतपरत्वाद् व्याप्तिग्रहदशायां दृष्टान्तस्वरूपं पक्षधर्मताग्रहदशायां चात्मस्वरूपमेव प्राप्यत इति न साध्याप्रसिद्धिर्न वा सिद्धसाधनमिति - चेन्न। शब्दस्वभावोपन्यासस्यानुमाने अनुपयोगात्। स्वज्ञानाबाध्येत्यत्र स्वशब्देऽपि तुल्योऽयं दोषः.

 

      अथ एव- विमता, बन्धनिवृत्तिः, स्वप्रतियोगिविषयविषयकज्ञानाबाध्यानात्म समकालीना, उक्तज्ञानाबाध्यभावरूपानात्मसमानकालीना वा, बन्धनिवृत्तित्वात्; निगडबन्धनिवृत्तिवदित्यपि - निरस्तम्; पक्षदृष्टान्तयोर्बन्धपदार्थस्यैकस्याभावेन स्वरूपासिद्धि साधनवैकल्यान्यतरापातात्। स्वपदे चोक्तः साध्याप्रसिद्धिदोषः। हेतौ च बन्धेतिविशेषणवैयर्थ्याद् व्याप्यत्वासिद्धिः। अप्रयोजकत्वं च कस्याश्चिन्निवृत्तेरनात्मसमान कालीनत्वदर्शनं निवृत्तिमात्रस्य तथात्वसाधनेः, संसारकालीनाया दुःखनिवृत्तेः समानाधिकरणदुःखप्रागभावकालीनत्वदर्शनमिव दुःखनिवृत्तिमात्रस्य तथात्वसाधने।

 

नन्वेवं सामान्यानुमानेषु निराकृतेषु विशेष्यानुमानं भविष्यति-

 

1. आत्मधीः, न स्वविषयविषयकधीबाध्या, धीत्वात् शुक्तिधीवत्- इत्यपि बालभाषितम्; स्वविरोध्यविषयक ( प्रत्ययविषयक) त्वस्योपाधित्वात्। अन्धोऽयं रूपज्ञानवानित्यन्धस्य रूपविषतया कल्पितं यद् ज्ञानं तस्य रूपं नान्धगम्यमिति स्वविषयविषयकप्रत्ययबाध्यत्वदर्शनेन व्यभिचारात्। कल्पितत्वात्तत्र तद्बाधने प्रकृतेऽपि वृत्तेः कल्पितत्वं समम्। धीपदेन चैतन्यमात्रविवक्षायां तु सिद्धसाधनमेव।

 

2.आत्माधिष्ठानकभ्रमहेतुः, न स्वकार्यभ्रमाधिष्ठानज्ञानबाध्यः, भ्रमहेतुत्वाद्, यदेवं तदेवम्, यथा सुक्त्यधिष्ठानकभ्रमहेतुकाचादी' त्यपि च साधु। व्यावृत्ताकाराधिष्ठानज्ञानानवधित्वस्य स्वकार्यभ्रमाधिष्ठानानारोपितत्वस्य वा उपाधित्वाद्। दूरादिदोषादुपलादौ यत्र चाकचक्यकल्पना तेन चाकचिक्यदोषेण शुक्ताविव रजतकल्पना, तत्राधिष्ठानज्ञानेन चाकचिक्यरूप्ययोरुभयोरपि बाधदर्शनेन व्यभिचाराच्च।

 

3. ब्रह्मान्यदनादि, परमार्थसत्, अनादित्वात्, ब्रह्मवदित्यपि न भद्रम्। तत्र ध्वंसाप्रतियोगित्वस्योपाधित्वात्।

 

4. ब्रह्म, देशकालसम्बन्धं विना नावतिष्ठते, पदार्थत्वाद्, घटवदित्यपि न। कालसम्बन्धं विना नावतिष्ठत इत्यस्य यदा ब्रह्म तदावश्यं कालसम्बन्ध इत्येवंरूपा व्याप्तिरर्थः। तथा च सिद्धसाधनम्। न हि यस्मिन् काले ब्रह्म तस्मिन् काले ब्रह्मणः कालसम्बन्धो नास्ति। एवं यत्रात्मा तत्र कालसम्बन्ध इति दैशिकव्याप्तावपि सिद्धसाधनम्। न हि देशकालासम्बन्धः कदाप्यस्ति। परममुक्तौ तु न देशो न काल इति सुस्थिरं सिद्धसाधनम्।

 

5. ब्रह्मान्यद्वेदैकगम्यं धर्मादि, परमार्थसत्, श्रुतितात्पर्यविषयत्वाद्, ब्रह्मवादित्यपि न साधु। परमार्थिकत्वेन श्रुतितात्पर्यविषयत्वस्योपाधित्वात्।

 

6. साक्षिवेद्यं सुखादि, परमार्थसत्, अनिषेध्यत्वेन दोषाजन्यज्ञानं प्रति साक्षाद्विषयत्वाद्, आत्मवदित्यपि न; शुक्तिरूप्यादिषु व्यभिचारात्। तेषां दोषजन्यवृत्तिविषयत्वेऽपि दोषाजन्यसाक्षिविषयत्वात्। शुद्धस्य वृत्तिविषयत्वानभ्युपगमे दृष्टान्तस्य साधनविकलत्वाच्च। दोषजन्यज्ञानाविषयत्वविवक्षायां चाऽसिद्धो हेतुः। साक्ष्यवच्छेदिकाया अविद्यावृत्तेर्दोषजन्यत्वात्। असद्गोचरशाब्दज्ञानात्मकविकल्पस्य दोषाजन्यत्वेनासति व्यभिचाराच्च। आत्मनो वृत्तिविषयत्वाभ्युपगमे दोषजन्यदेहात्मैक्य भ्रमविषयत्वात् साधनविकलो दृष्टान्तः। तदनभ्युपगमे तु अविषयत्वमात्रस्यैव परमार्थसत्त्वसाधकत्वोपपत्तौ दोषजन्यज्ञानेति विशेषणवैयर्थ्याद्व्याप्यत्वासिद्धिः। तावन्मात्रं च पक्षे स्वरूपासिद्धमित्यन्यत्र विस्तरः।

 

7. विमतं, परमार्थसत्, स्वविषयज्ञानात्पूर्वभावित्वाद्, आत्मवदित्यपि न। दृष्टसृष्टिपक्षे असिद्धेः। विषमव्याप्तस्यानादित्वस्योपाधित्वाच्च।

 

8.अन्योन्याभावातिरिक्तैतद्घटसमानाधिकरणैतद्घटप्रतियोगिकाभावत्वं, एतद्घट समानकालीनवृत्ति, अन्योन्याभावातिरिक्तैतद्घटसमानाधिकरणैतद्घटप्रतियोगिकाभावमात्र वृत्तित्वात्, एतद्घटप्रागभावत्ववद्, व्यधिकरणधर्मावच्छिन्नाभावपक्षे व्यधिकरणधर्मा नवच्छिन्नेत्यपि विशेषणीयम्। अत्र च स्वसमानाधिकरणः स्वसमानकालीनोयोऽत्यन्ता भावस्तदप्रतियोगित्वलक्षणसत्त्वसिद्धिरित्यपि न साधु। साधनावच्छिन्नसाध्यव्यापकस्यैतद्घटप्रति योगिकजन्यजनकान्यतरमात्रवृत्तित्वस्योपाधित्वात्। न च - पक्षीभूतधर्मस्यात्यन्ता भाववृत्तित्वसन्देहे साधनाव्यापकत्वसन्देह इति- वाच्यम्, विपक्षवाधकतर्कानवतारदशायां सन्दिग्धोपाधेरपि दूषणत्वसम्भवात्। घटात्यन्ताभावत्वे च व्याभिचारात्। संयोगसम्बन्धेन घटवत्यपि भूतले समवाय सम्बन्धेन घटात्यन्ताभावसत्त्वात् साध्याभाववति तत्र हेतोर्वृत्तेरित्यलमतिविस्तरेण। इत्यद्वैतसिद्धौ विश्वसत्यत्वानुमानभङ्गः।

 

      अत मिथ्यात्वे विशेषानुमानम्

 

मिथ्यात्वे च विशेषतोऽनुमानानि - (1)ब्रह्मज्ञानेतराबाध्यब्रह्मान्यासत्त्वानधिकरणत्वं पारमार्थिकसत्त्वाधिकरणावृत्ति, ब्रह्मावृत्तित्वात्, शुक्तिरूप्यत्ववत्, परमार्थसद्भेदवच्च। (2) विमतं मिथ्या, ब्रह्मान्यत्वात्, शुक्तिरूप्यवत्। (3)परमार्थसत्त्वं, स्वसमानाधिकरणान्योन्याभावप्रतियोग्यवृत्ति, सदितरावृत्तित्वाद्, ब्रह्मत्ववत्। (4)ब्रह्मत्वमेकत्वं वा सत्त्वव्यापकम्, सत्त्वसमानाधिकरणत्वाद्, असद्वैलक्षण्यवत्। (5)व्याप्यवृत्तिघटादिः, जन्याभावातिरिक्तस्वसमानाधिकरणाभावमात्रप्रतियोगी, अभावप्रति योगित्वाद्, अभिधेयत्ववत्। अभिधेयत्वं हि परमते केवलान्वयित्वादन्योऽन्या भावमात्रप्रतियोगि। स च समानाधिकरण एव। अस्मान्मते तु मिथ्यैवेति, नोभयथापि साध्यवैकल्यम्। (6) अत्यन्ताभावः, प्रतियोग्यशेषाधिकरणवृत्तिमात्रवृत्ति, प्रतियोग्यवच्छिन्नवृत्तिमात्रवृत्ति वा, नित्याभावमात्रवृत्तित्वाद्, अन्योन्याभावत्ववत्। (8) घटात्यन्ताभावत्वं (स्व) प्रतियोगि जनकाभावसमानाधिकरणवृत्ति, एतत्कपालसमानकालीनैतद्घटप्रतियोगिकाभाववृत्तित्वात्, प्रमेयत्ववत्। (9) एतत्कपालमेतद्घटात्यन्ताभावाधिकरणमाधारत्वात्पटादिवत्। (10) ब्रह्मत्वं न परमार्थसन्निष्ठान्योऽन्याभावप्रतिंयोगितावच्छेदकम्, ब्रह्मवृत्तित्वादसद्वैलक्षण्यवत्। (11) परमार्थसत्प्रतियोगिको भेदो न परमार्थसन्निष्ठः, परमार्थसत्प्रतियोगिकत्वात्, परमार्थसत्त्वावच्छिन्नप्रतियोगिकाभाववत्।(12) भेदत्वावच्छिन्नं सद्विलक्षणप्रतियोग्यधि करणान्यतरवद्, अभावत्वाच्छुक्तिरूप्यप्रतियोगिकाभाववत्। (13) परमार्थसन्निष्ठो भेदः, न परमार्थसत्प्रतियोगिकः परमार्थसदधिकरणत्वात्, शुक्तिरूप्यप्रतियोगिकभेदवत्। (14) मिथ्यात्वं ब्रह्मतुच्छोभयातिरिक्तत्वव्यापकम्, सकलमिथ्यावृत्तित्वात्, मिथ्यात्वसमावनाधि करणात्यन्ताभावाप्रतियोगित्वाद्वा, दृश्यत्ववत्। (15) दृश्यत्वं परमार्थसदवृत्ति, अभिधेय मात्रवृत्तित्वाच्छुक्तिरूप्यत्ववत्। (16) दृश्यत्वं परमार्थसद्भिन्नत्वव्याप्यम्, दृश्येतरावृत्ति धर्मत्वात्, प्रातिभासिकत्ववत्। (17) उभयसिद्धमसद्विलक्षणं मिथ्यात्वासमानाधि करणधर्मानधिकरणम्, आधारत्वाच्छुक्तिरूप्यवत्। (18) प्रतियोग्यवच्छिन्नो देशः, अत्यन्ताभावाश्रयः, आधारत्वात्कालवत्। (19)आत्मत्वावच्छिन्नं परमार्थसत्त्वाधि करणप्रतियोगिक भेदत्वावच्छिन्नरहितं परमार्थसत्वात्, परमार्थसत्वावच्छिन्नवत्। परमार्थसति परमार्थसद्भेदाङ्गीकारवादिमतेऽपि स भेदो न परमार्थसत्त्वावच्छिन्ननिष्ठः, किन्तु घटत्वाद्यवच्छिन्ननिष्ठ एव। (20) शुक्तिरूप्यं मिथ्यात्वेन प्रपञ्चान्न भिद्यते, व्यवहारविषयत्वाद्, ब्रह्मवत्। साध्यसत्त्वमत्र त्रेधा - स्वस्यामिथ्यात्वेनोभयोर्मिथ्यात्वेनोभयोरमिथ्यात्वेन वा। तत्रान्तिमपक्षस्यासम्भवात् पक्षे साध्यसिद्धिपर्यवसानं मध्यमपक्षेण, दृष्टान्ते तु प्रथमपक्षेणेति विवेकः। (21)विमतं मिथ्या, मोक्षहेतुज्ञानाविषयत्वे सत्यसदन्यत्वात्, शुक्तिरूप्यवत्। (22) मोक्षहेतुज्ञानविषयत्वं परमार्थसत्त्वव्यापकम्, परमार्थसत्त्वसमानाधिकरणत्वात्, पारमार्थिकत्वेन श्रुतितात्पर्यविषयत्ववत्। (23) एतत्पटात्यन्ताभावः, एतत्तन्तुनिष्ठः, एतत्पटानाद्यभावत्वात्, एतत्पटान्योन्याभाववत्। तन्तुनाशजन्यपटनाशस्य कदापि तन्तुवृत्तिता नास्तीति तत्र व्यभिचारवारणायानादिपदम्। यस्य पटस्याश्रयविभागेन नाशस्तदत्यन्ताभावस्य पक्षत्वे त्वनादिपदमनादेयमेव। अत्र चैतत्पटप्रतियोगिकात्यन्ताभावत्वावच्छिन्नस्य पक्षीकरणान्न सम्बन्धान्तरेणात्यन्ताभावमादायांशतः सिद्धसाधनम्, पक्षतावच्छेदकावच्छेदेन साध्यसिद्धे रुद्देश्यत्वात्। समवायसम्बन्धावच्छिन्नो व्यधिकरणधर्मानवच्छिन्नश्च यः एतत्पटात्यन्ताभावः, स एव वा पक्षः। तन्तुशब्देन च पटोपादानकारणमुक्तम्। तत्र च प्रागभावस्य सत्त्वान्न तेन व्यभिचारः। कार्यकारणयोरभेदेन सिद्धसाधनादि दूषणानि प्रागेव तत्त्वप्रदीपिकानुमानोपन्यासे निराकृतानि। (24) यद्वा समवायसम्बन्धावच्छिन्नोऽयमेतत्पटा त्यन्ताभावः, एतत्तन्तुनिष्ठः, एतत्पटप्रतियोगिकात्यन्ताभावत्वात्, सम्बन्धान्तरावच्छिन्नैतत्पटा त्यन्ताभाववदिति विशिष्यानुमानम्। (25) अव्याप्यवृत्तित्वानधिकरणत्वे सत्युक्तपक्ष तावच्छेदकवत्, स्वसमानाधिकरणात्यन्ताभावप्रतियोगि, अनात्मत्वात्, संयोगवत्। न च विश्वात्यन्ताभावे व्यभिचारः, तस्याधिकरणस्वरूपत्वे अनात्मत्वहेतोरेवाभावात्। अतिरिक्तत्वे तस्य मिथ्यात्वेनात्यन्ताभावप्रतियोगितया साध्यस्यैव सत्त्वात्। न च - अत्यन्ताभावस्यात्यन्ताभावे तत्प्रतियोगित्वलक्षणमिथ्यात्वासिद्धिरिति वाच्यम्; अभावे अभावप्रतियोगित्वस्य भावगताभावप्रतियोगित्वविरोधित्वात्, प्रागभावस्यात्यन्ताभाव प्रतियोगित्वेऽपि तत्प्रतियोगित्वस्य घटादौ सर्वसिद्धत्वात्। उपपादितञ्चैतन्मिथ्यात्वमिथ्यात्वे। अत्र चाव्याप्यवृत्तित्वानधिकरणशब्देनैकदेशावच्छेदेनाविद्यामानत्वं पक्षविशेषणं विवक्षितम्। एतेन- स्वसमानधिकरणात्यन्ताभावप्रतियोगित्वोक्तौ बाधः। अवयववृत्तित्वानधिकरणत्वोक्तौ घटादीनामपक्षत्वापत्तिरिति दूषणद्वयमपास्तम्। अनात्मत्वेहेतुस्तु जडत्वहेतुव्याख्यानेनैव व्याख्यातः। (26) अत एव नित्यद्रव्यान्यदव्याप्यवृत्तित्वानधिकरणमुक्तपक्षतावच्छेदकवत्, केवलान्वय्यत्यन्ताभावप्रतियोगि, पदार्थत्वात्, नित्यद्रव्यवदित्यपि साधु। दृष्टान्तश्चायं पररीत्या, स्वमते तु शुक्तिरूप्यवदित्येव। न च - स्वरूपेणात्यन्ताभावप्रतियोगित्वे अत्यन्तासत्त्वापातः, तद्वैलक्षण्यप्रयोजकाभावदिति -वाच्यम्, उत्पत्तिनिवृत्त्योरन्यतरप्रतियोगित्वेन परिहारात्। (27) आत्मत्वावच्छिन्नधर्मिको भेदो न परमार्थसत्प्रतियोगिकः, आत्माप्रतियोगिकत्वात्, शुक्तिरूप्यप्रतियोगिकभेदवत्। न च घटपटसंयोगे व्यभिचारः, हेतुमत्तया निर्णीते अङ्कुरादाविव साध्यसन्देहस्यादोषत्वात्। एवमन्येऽपि प्रयोगा यथोचितमारचनीया विपश्चिद्भिरिति दिक्।

 

`हेतवोऽभीष्टसिद्ध्यर्थं सम्यञ्चो बहवश्च नः।

अल्पाः परस्य दुष्टाश्चेत्यत्र स्पष्टमुदीरितम्।।

अभीष्टसिद्धावनुकूलतर्कबलाबलं चात्र परीक्ष्य यत्नात्।

प्रवक्ष्यते दोषगणः परेषां न खेदनीयं तु मनोऽधुनैव।'

इत्यद्वैतसिद्धौ विश्वमिथ्यात्वे विशेषतोऽनुमानानि।।                      

[ 1-1-29]

 

[1-1-30]    30.अथ विश्वामिथ्यात्वस्यागमादिबाधः।।

 

      ननु- अस्तु शब्दबाधः, तथाहि - `विश्वं सत्यम्', `यच्चिकेत सत्यमित्तन्न मोघम्', `याथातथ्यतोऽर्थान् व्यदधाच्छाश्वतीभ्यः समाभ्यः' इत्यादिश्रुतिभिः `असत्यमप्रतिष्ठं ते जगदाहुरनीश्वर' मित्यदिस्मृतिभिः `नाभाव उपलब्धेः' `वैधर्म्याच्च न स्वप्नादिव' दित्यादिसूत्रेश्च विश्वस्य सत्यत्वप्रतिपादनादिति - चेन्न। श्रुतेस्तत्परत्वाभावात्। तथा हि-

 

`विश्वं सत्यं मघवाना युवोरिदापश्चन प्रमिनन्ति व्रतं वाम्।

अच्छेन्द्राब्रह्मणस्पती हविर्नोऽन्नं युजेव वाजिना जिगात'-

 

मिति ऋक्संहिताद्वितीयाष्टकवाक्यस्यायमर्थः - हे इन्द्राब्रह्मणस्पती ! मघवाना मघवानौ घनवन्तौ मघमिति धननाम, मखवन्ताविति वा। विश्वं सर्वं सत्यं कर्म, सद्भूतत्वात्, फलस्यावश्यम्भावित्वाद्वा। तादृशं कर्म युवोरित् युवयोः इत् इत्थमवधारणे वा। युवामेवोद्दिश्य सर्वाणि कर्माण्यनुष्ठेयानीत्यर्थः। आपो व्यापनशीला देवताः, चनेत्येतत्पदद्वयसमुदायः, ऐकपद्यं त्वध्यापकसम्प्रदायसिद्धम्। वां युवयोर्व्रतं सङ्कल्पं कर्म वा न प्रमिनन्ति न हिंसन्ति (मीङ्हिंसायां, क्रैयादिकः,)किन्त्वनुमोदन्त इति यावत्। नोऽस्माकं हविर्दध्यादिकं अन्नं च पुरोडाशादिकं च। अच्छ अभिलक्ष्य। वाजिना वेगवन्तावश्वविव। युजा युक्तौ सन्तौ। जिगातं देबयजनमागच्छतम्। (जिगातिर्गतिकर्मा जौहोत्यादिकः) अन्नं घासं प्रति अश्वाविवेति वा। यद्वा- हे इन्द्राब्रह्मणस्पती ! विश्वं सर्वं, सत्यं सत्यत्वेन परिदृश्यमानं जगत्, युवोरित् युवयोरेव, युवाभ्यामेव सृष्टम्। अथवा- युवयोरेव विश्वं सर्वं स्तोत्रं, सत्यं यथार्थम्, यद्यत् गुणजातं स्तुत्या प्रतिपाद्यते तत्सर्वं युवयोर्विद्यमानमेव न त्वारोपितमित्यर्थः। आपो व्यापनशीला देवताः, अबुपलक्षितानि पञ्चमहाभूतानि वा। युवयोर्व्रतं जगदुत्पादनाख्यं कर्म न हिंसन्ति। इत्थं महानुभावौ युवां जिगातम्। शेषं पूर्ववद्व्याख्येयम्। तथा च स्तुतिपरतया नास्य विश्वसत्यत्वे तात्पर्यम्।।

 

`शाक्मना शाको अरुणः सुपर्ण आ यो महः शूरः सनादनीलः।

यच्चिकेत सत्यमित्तन्न मोघं वसु स्पार्हमुत जेतोत दाता'

 

इत्यस्यापि अष्टमाष्टकस्थस्येन्द्रस्तुतिपरतया न विश्वसत्यत्वे तात्पर्पम्। तथा हि- शाक्मना शाकैव शाक्मा तेन शाक्मना बलेन। शाकः शक्तः, स्वशक्त्यैव सर्वं कर्तुं शक्त इत्यर्थः। न हीन्द्रस्य सहायान्तरापेक्षास्ति, इन्द्रत्वादेव। अरुणः अरुणवर्णः कश्चित् शोभनपर्णः पक्षी आ गच्छतीत्यध्याहारः, उपसर्गश्रुतेः। यो महो महान् शूरः विक्रान्तः, सनात् पुराणः, अनीलः अनीडः नीडस्याकर्ता। न हीन्द्रः अग्निवत् कुत्रचिदपि यज्ञे निकेतनं करोति। एवं सुपर्ण इत्यादिरूपकेणेन्द्रमाह। स इन्द्र इदमिदानी कर्तव्यमिति यच्चिकेत जानाति, तत्सत्यमित्सत्यमेव, न मोघं न व्यर्थम्। स्पार्हं स्पृहणीयं वसु निवासार्हं धनं जेता जयति शत्रुभ्यः सकाशात्। उत अपि,दाता ददाति च स्तोतृभ्यः। जेता दातेति तृन्। तेन `न लोके' त्यादिना षष्ठीप्रतिषेधः। एवमेवान्यदपि सत्यत्वप्रतिपादकमुन्नेयम्। `याथातथ्यतोऽर्थान् व्यदधा' दित्यपि वाक्यं न प्रपञ्चसत्यत्वे प्रमाणम्। तस्य पूर्वसृष्टप्रकारेण सर्जनमर्थः, न तु जगत्सत्यत्वं जगत्सर्जनगतसत्यत्वं वा। यत्र च स्तुत्यादिपरत्वं नास्ति, तत्रापि प्रत्यक्षसिद्धानुवादकतया `अग्निर्हिमस्य भेषज' मित्यादिवाक्यवन्न तत्परत्वम्। न च - त्वन्मते सर्वत्र ब्रह्मसत्त्वस्यैव स्फुरणात्तदतिरिक्तस्य कालक्षयाबाध्यत्वरूपस्य घटादिसत्त्वस्य प्रत्यक्षेणाप्राप्तेः तद्वोधकत्वेन श्रुतेर्नानुवादकत्वमिति वाच्यम्; इतरसत्त्वबाधपुरस्सरत्वाद् ब्रह्मसत्त्वस्फुरणाभ्युपगमस्य तत्रैव सत्यादिपदप्रवृत्तिस्वीकारेण तदतिरिक्तविश्वसत्यत्वस्य शाब्दबोधाविषयत्वात् तदादायानुवाद कत्वापरिहारात्। अथ - `पृथिवी इतरभिन्न, `न हिंस्यात्सर्वा भूतानी' त्यादौ घटादावेकदेशे प्रत्यक्षेण, ब्राह्मणादावेकदेशे वाक्यान्तरेण, विधेयसिद्धावपि सर्वत्रासिद्धत्वाद् यथा नानुवादकत्वं, तथा विश्वमात्रसत्यत्वस्य प्रत्यक्षेणाप्राप्तत्वत् नानुवादकगत्वमिति- मैवम्; दृष्टान्ते हि पृथिवीत्वं हिंसात्वं च एकोऽनुगतो धर्म इति तदवच्छेदेन विधेयस्याप्राप्तत्वेन तत्र नानुवादकत्वं युक्तम्, इह तु विश्वत्वं नाम नैको धर्मोऽस्ति, किन्तु विश्वशब्दः सर्वनामत्वात्तेन तेन रूपेण घटपटादीनामुपस्थापकः। तेषु च प्रत्येकं सत्त्वं गृहीतमेवेति कथं नानुवादकत्वम् ? प्रकारवैलक्षण्याभावात्। न च एकशाखास्थविधिवाक्यैकार्थशाखान्तरस्थ विधिवाक्यस्य पुरुषान्तरं प्रतीव येन पुंसा वादिविप्रतिपत्त्यादिना घटादिसत्ता प्रत्यक्षेण न निर्णीता, तं प्रत्यर्थवत्त्वेन नानुवादकत्वमिति- वाच्यम्, एवं सत्यनुवाद स्थलस्यैवाभावप्रसङ्गात्। न च सर्वाविवादस्थलमेवोदाहरणम्, सर्वाविवादस्य निश्चेतुमशक्यत्वात्। पुरोवादपूर्वकत्वादनुवादस्यात्रायं पुरोवाद इत्यस्यैवाभावात् न शाखान्तरस्थवाक्यस्यानुवादकत्वप्रसङ्गः।

 

      यत्तु- बृहदारण्यकभाष्ये देहभिन्नात्मबोधिकायाः `अस्तीत्येवोपलब्धव्य' इत्यादिश्रुतेः प्रत्यक्षप्राप्तानुवादित्वमाशङ्क्य वादिविप्रतिपत्तिदर्शनादित्यादिना तत्परिहृतम्; तथा च प्रत्यक्षसिद्धसत्त्वग्राहकत्वेऽपि वादिविप्रतिपत्ति निरासार्थकत्वेन नानुवादकत्वं प्रकृतेऽपीत्युक्तं तदयुक्तम्। भाष्यार्थानवबोधात्। तथाहि तत्र वादिविप्रतिपत्तिदर्शनेन देहव्यतिरिक्तत्वेनात्मनः प्रत्यक्षतैव नास्ति। अन्यथा प्रत्यक्षप्रामाण्यवादिनश्चार्वा कादेस्तत्र विप्रतिपत्तिर्न स्यादित्युक्तम्, न तु वादिविप्रतिपत्तिनिरासेनास्तीत्यादेस्सार्थकत्वम्, अननुवादकत्वं वा। तथा चोक्तं तत्रैव- तस्माज्जन्मान्तरसम्बन्ध्यात्मास्तित्वे जन्मान्तरेष्टानिष्टप्राप्तिपरिहाविशेषोपाये च शास्त्रं प्रवर्तत इति। ननु - चातुर्मास्यमध्यपर्वणोः `द्वयोः प्रणयन्ती ' ति वाक्यस्य चोदकप्राप्ताग्निप्रणयनव्यतिरिक्ताग्नि प्रणयनविधायकत्वात् प्रत्यक्षप्राप्तव्यावहारिकसत्त्व विलक्षणत्रिकालनिषेधाप्रतियोगित्वरूपसत्त्वप्रमापकत्वं प्रकृतेऽस्त्विति - चेन्न। त्रैकालिकसत्त्व निषेधश्रुतिविरोधेन विश्वसत्यत्वश्रुतेस्त्रैकालिकसत्त्वपरत्वाभावात्। न च - वैपरीत्यमेव किं नस्यात् ? विनिगमकाभावादितिवाच्यम् ; तात्पर्यन्यथानुपपपत्तिगतिसामान्यानामेव विनिगमकत्वात्। अद्वैतश्रुतिर्हि षड्विधतात्पर्यलिङ्गोपेता। तत्र त्रिविधं तात्पर्यलिङ्गं प्रामाण्यशरीरघटकमर्थनिष्ठम ज्ञातत्वमबाधितत्वं प्रयोजनवत्त्वं च। त्रिविधं तु शब्दनिष्ठमतिप्रसङ्गवारकमुपक्रमोप संहारयोरैकरूप्यम् अभ्यासः, अर्थवादश्चेति। तत्र शब्दनिष्ठलिङ्गत्रये तावन्न विवादः। सर्वासामेवोपनिषदामेव प्रवृत्तत्वात्। मानान्तरासिद्धतया मोक्षहेतुज्ञानविषयतया च अज्ञातत्वं सप्रयोजनत्वं च निर्विवादमेव। अबाधितत्वमात्रं सन्दिग्धम्। तच्चान्यथानुपपत्त्या गतिसामान्येन च निर्णीयते। न हि सर्वप्रप़ञ्चनिषेधरूपमद्वैतं व्यावहारिकम्, येन तत्र श्रुतेर्व्यावहारिकं प्रामाण्यं स्यात् ; अतस्तत्र तात्त्विकमेव प्रामाण्यम्, द्वैतसत्यत्वं तु व्यावहारिकम्। अतस्तत्र न श्रु-तेस्तात्त्विकं प्रामाण्यम्। परस्परविरुद्धयोर्द्वयोस्तात्त्विकत्वायोगाद्, वस्तुनि च विकल्पासम्भवात्, तात्त्विक व्यावहारिकप्रामाण्यभेदेन च व्यवस्थोपपत्तेः, अतत्परत्वेनावधारितस्य विश्वसत्यत्ववाक्यस्यै वान्यथा व्याख्यातुमुचितत्वात्। तथा हि - चतुर्धा हि सामानाधिकरण्यम्‌- अध्यासे `इदं रजत' मित्यादौ, बाधायां `स्थाणुः प्रमानि' त्येवमादौ, विशेषणविशेष्यभावेन `नीलमुत्पलमित्यादौ' अभेदेन `तत्त्वमसी'त्येवमादौ। अत्र च बाधायामध्यासे वा सामानाधिकरण्योपपत्तेर्न सत्यत्वबोधकश्रुतेः षड्विधतात्पर्यलिङ्गोपेताद्वैतश्रुतिबाधकत्वम्। ननु आत्मन आनन्दत्वबोधिका श्रुतिरपि `सुखं सुप्तोऽस्मी' ति साक्षिप्रत्यक्षसिद्धानन्दानुवादिना सत्त्वश्रुतिवद्भवेत् इति चेन्न, साक्षिण उपहितानन्दविषयत्वेन श्रुतेश्च निरुपाधिकानन्दविषयत्वेन भिन्नविषयत्वादनुवादत्वायोगात्। तदा हि स्वरूपानन्दो गृह्यते। स्वरूपं चाज्ञानोपहितमेव साक्षिविषयः। ननु - `तत्त्वमसी' त्यादौ नवकृत्वोऽभ्यासवत्, पिपासितस्य जलगोचरप्रमाणसम्प्लववत्, ऐक्ये षड्विधतात्पर्यलिङ्गवत्, भावरूपाज्ञाने प्रत्यक्षसिद्धे `तमआसी' दित्यादिश्रुतिवत्, सत्त्वश्रुतिर्दार्ढ्यार्था- इति चेन्न। अशेषविशेषग्राहिप्रत्यक्षप्राप्ते दार्ढ्यार्थमन्यानपेक्षणात्। पिपासितस्य शब्दलिङ्गनन्तरं जले प्रत्यक्षमपेक्षितम्, न तु प्रत्यक्षानन्तरं शब्दलिङ्गेः न च तर्हि `तम आसी' दित्यादेः न किञ्चिदवेदिषमिति प्रत्यक्षसिद्धाज्ञानदार्ढ्यार्थत्वं न स्यादिति - वाच्यम्, `तम आसी' दित्यस्य सृष्टिपूर्वकालसम्बन्धित्वेनाज्ञानग्राहितया सुषुप्तिकालसम्बन्धित्वेनाज्ञानग्राहकं प्रत्यक्षमपेक्ष्य भिन्नविषयत्वेनैव प्रामाण्यसम्भवात्।

 

      ननु - `षड्विंशतिरस्य वङ्क्रय' इति मन्त्रस्याश्वमेधे चोदकप्राप्तस्य `चतुस्त्रिंशद्वाजिनो देवबन्धो' रिति वैशेषिकमन्त्रेणापोदितस्य षड्विंशतिरित्येव ब्रूयादिति वचनवत् प्रत्यक्षप्राप्तजगत्सत्त्वस्य मिथ्यात्वश्रुत्यापाततोऽपोदितस्य प्रतिप्रसवार्थं सत्त्वश्रुतिः इति चेन्न, मिथ्यात्वश्रुतेः प्रत्यक्षबाधकत्वाभ्युपगमे तस्याः बलवत्त्वेन तद्विरोधात् सत्यत्वश्रुतेरन्यपरत्वाद् देवताधिकरणन्यायासम्भवाच्च प्रतिप्रसवार्थत्वस्य वक्तुमशक्यत्वात्।

 

      ननु सत्त्वप्रत्यक्षप्रामाण्ये तेनैव मिथ्यात्वश्रुत्यनुमानादिबाधः, तदप्रामाण्ये न तेन सत्त्वश्रुतेरनुवादकत्वम्- इति चेन्न, प्रत्यक्षाप्रामाण्येऽपि तत्सिद्धबोधकस्यानुवादकत्वसम्भवात्। न हि प्रमितप्रमापकत्वमनुवादकत्वम्,किन्तु पश्चाद्वादकत्वमात्रम्। पश्चात्वं च प्रमाणावधिकमप्रमाणावधिकं चेति न कश्चिद्विशेषः। न च श्रुतेः सर्वसिद्धप्रमाणभावायाः सदर्थत्वायाननुवादकत्वाय च प्रत्यक्षाप्राप्ततात्त्विकसत्त्वविषयत्वमवश्यं वक्तव्यम्। तथा चाप्रमाणेन प्रत्यक्षेण कथं श्रुतेरनुवादकत्वमिति -वाच्यम्; सत्त्वांशस्य प्रत्यक्षसिद्धत्वेऽपि वाक्यार्थस्य क्रियादिसमभिव्याहारसिद्धस्यापूर्वत्वेन तद्विषयतयैवानुवादकत्वोपपत्तावद्वैत श्रुतिविरुद्धतात्त्विकसत्त्वकल्पनायास्तदर्थमयोगात्। परमार्थसद्विषयता तु सर्वश्रुतीनां शुद्धब्रह्मतात्पर्यकत्वेनैव,अवान्तरतात्पर्यमादाय व्यावहारिकसद्विषयतेति कर्मकाण्डप्रामाण्योप पादने वक्ष्यते। न च प्रत्यक्षं स्वप्रामाण्यनिर्णनार्थं श्रुतिसंवादमपेक्षत इति न तेन श्रुतेरनुवादकत्वम्। अन्यथा `सत्यं ज्ञानम्' `नेह नाने' त्यादिश्रुतिरप्यनुवादिनी स्यात्, ब्रह्मसत्त्वस्य लोकतो भ्रमाधिष्टानत्वेन लिङ्गेन च मिथ्यात्वस्य दृश्यत्वाद्यनुमानेना वेदमूलप्रवाहानादिविज्ञानवादादिना च प्राप्तेरिति वाच्यम्। यदि हि दृष्टेऽप्यर्थे प्रत्यक्षं स्वप्रामाण्यनिर्णयाय श्रुतिसंवादमपेक्षेत तदा श्रुतिसंवादविरहिणि दृष्टे कुत्रापि निश्शङ्कप्रवृत्तिः न स्यात्। न स्याच्चैव `मग्निर्हिमस्य भेषजमित्याद्यपि अनुवादकम्। न चेष्टापत्तिः, मानान्तरगृहीतप्रमाणभावप्रत्यक्षनिर्णीते मानान्तरस्याननुवादकत्वे जगत्यनुवादकत्वकथोच्छेद प्रसङ्गात्। न च `सत्यं ज्ञानम्' `नेह नाने' त्यादेरप्यनुवादकतापत्तिः। अनुवादकता हि न तावत् प्रत्यक्षेण। ब्रह्मत्वसामानाधिकरण्ये सत्त्वादिकं ह्यनेन प्रतिपादनीयम्। प्रागेव निराकृतत्वात्। नापि प्रवाहानादिविज्ञानवादिमतेन। तस्यापौरुषेयश्रुत्यवधिक पूर्वत्वाभावात्।

 

      न च- सत्त्वश्रुतेः सत्त्वप्रत्यक्षानपेक्षत्वात् न सापेक्षानुवादकत्वम्। निरपेक्षानुवादकत्वं तु धारावहनवन्नाप्रामाण्यहेतुः, उक्तं हि नयविवेके- `सापेक्षानुवादे हि न प्रमितिः, न तु दैवादनुवादे, धारावहनवदिति ' इति -वाच्यम्। यतो लाघवादनुवादकत्वमेवाप्रामाण्ये प्रयोजकम्। न तु सापेक्षानुवादकत्वम्। अनधिगतार्थबीधकत्वस्य प्रामाण्यघटकत्वस्य तावतैव गतार्थत्वात्। न च तर्हि धारावहनबुद्धावप्रामाण्यम्, तस्यः वर्तमानार्थग्राहकत्वेन तत्तत्क्षणविशिष्टग्राहकतया अनुवादकत्वाभावात्। किं च श्रुतेरतत्परत्वे प्राप्तत्वमात्रमेव प्रयोजकम्। अन्यथा वैफल्येन स्वाध्यायविधिग्रहणानुपपत्तेः। अपि चेयं सत्त्वश्रुतिरपि सत्त्वप्रत्यक्षसापेक्षत्वात् सापेक्षानुवादिन्येव। न हि सत्त्वप्रत्यक्षं विना तन्मूलशक्त्यादिग्रहमूलकशब्दप्रवृत्तिसम्भवः। अत एव "यत्र तु प्रमाणान्तरसंवादस्तत्र प्रमाणान्तरादिवार्थवादादपि सोऽर्थः प्रसिध्यति, द्वयोः परस्परानपेक्षयोः प्रत्यक्षानुमान योरिवैकार्थे प्रवृत्तेः, प्रमात्रपेक्षया त्वनुवादकत्वम्। प्रमाता ह्यव्युत्पन्नः प्रथमं प्रत्यक्षादिभ्यो यथाऽर्थमवगच्छति, न तथाऽऽम्नायतः, तत्र व्युत्पत्त्यपेक्षत्वात्" इति वाचस्पत्युक्तमप्येतमर्थं संवदति। तेनाम्नायस्य व्युत्पत्यपेक्षत्वेन प्रत्यक्षसापेक्षत्वस्यैवोक्तेः। न च वादिविप्रतिपत्तिनिरासप्रयोजनवत्वेन न निष्प्रयोजनानुवादकत्वम्। सप्रयोजनानुवादकत्वं तु न स्वार्थपरत्वविरोधि। विद्वद्वाक्ये समुदायद्वित्वापादनरूपप्रयोजनवत्त्वेनानुवाद्यस्वार्थपरताया दृष्टत्वात्। अत एव तत्र वाक्यैकवाक्यतोक्ता। अन्यथा अर्थवादवत् पदैकवाक्यतैव स्यादिति वाच्यम्। प्रत्यक्षसिद्धे वादिविप्रतिपत्तिनिरासरूपप्रयोजनवत्त्वेन प्रमाणान्तरस्य सप्रयोजनतया स्वार्थपरत्वोक्तौ `अग्निर्हिमस्य भेषज' मित्याद्यपि तेनैव प्रयाजनेन सप्रयोजनं स्वार्थपरं च स्यात्। तथा च न प्रत्यक्षसिद्धे वादिविप्रतिपत्तिनिरासार्थमन्यापेक्षा। दृष्टान्ते तु समुदायानुवादेन द्वित्वसम्पादनस्योद्देश्यस्यान्यतो लब्धुमशक्यतया तेन प्रयोजनेन स्वार्थपरत्वस्य वक्तुं शक्यत्वात्। एतदभिप्रायं च पूर्वोक्तं नयविवेकवाक्यम्। न च अनुवादत्वेऽपि नैष्फल्यमात्रम्, न त्वप्रामाण्यम्, याथार्थ्यमेव प्रामाण्यं, न त्वनधिगतार्थत्वे सति याथार्थ्यमिति वाच्यम्। तात्पर्यविषये शब्दः प्रमाणम् `यत्परः शब्दः स शब्दार्थ' इत्यभियुक्ताभ्युपगमात्। अन्यथा स्वाध्यायविधिग्रहणानुपपत्तेरुक्तत्वाच्च। न ह्यन्यतः सिद्धेऽर्थे शास्त्रतात्पर्यम्, अतो न तत्र प्रामाण्यम्, यदाहुर्भट्टाचार्याः `अप्राप्ते शास्त्रमर्थव ' दिति।

 

      ननु अयमनुवादो न `वायुर्वै क्षेपिष्ठा देवते' त्यादिवत् स्तुत्यर्थः। न वा

`दध्ना जुहोती' त्यादिवदन्यविधानार्थः। अनुवाद्यत्वेऽपि अन्यविधानाय प्रमाणानूदितस्य तात्त्विकत्वनियमात्। नहि `व्रीहीन् प्रोक्षती' त्यादावारोपितव्रीह्यादेर्धीः, अनुवाद्यस्यासत्त्वे ह्याश्रयासिद्धौ धर्मधर्मिसंसर्गरूपानुमितिवेद्य इवानुवाद्यविधेयसंसर्गरूपवाक्यार्थो बाधितः स्याद् इति चेन्न। अस्यानुवादस्याप्राप्तान्यप्राप्त्यर्थत्वात्। न च प्रमाणानूदितस्य तात्त्विकत्वनियमः। स्वप्नाध्याये, शुक्तौ `नेदं रजत' मिति वाक्ये न व्यभिचारात्। अथ तत्र ज्ञानविषयतया निषेध्यतया चानुवाद इति न तात्त्विकत्वम्, तर्हि प्रकृतेऽपि `नेह नाने' ति निषेधार्थत्वादस्यानुवादस्य न तात्त्विकत्वमिति गृहाण। अत एव वाक्यार्थस्यासत्त्वप्रसङ्गः, तात्पर्यविषयस्य सत्त्वात्।

 

      अथ `किं चने' त्यनेनैवानुवादस्य कृतत्वात् किमधिकेनेति चेन्न, सामान्यतो निषेधस्य हि `किं चने ' त्यनेन निषेध्यसमर्पणेऽपि विशिष्य निषेधे विशिष्य निषेध्यसमर्पणस्योपयोगात्। अथ निषेधवाक्यस्य न निषेध्यसमर्पकवाक्यान्तरापेक्षा, अन्यथा `न कलञ्जं भक्षये ' दित्यादावपि निषेध्यसमर्पणार्थं `कलञ्जं भक्षये' दित्यादिवाक्यान्तरसापेक्षत्वप्रसङ्गः इति चेन्न, सर्वत्रापेक्षानियमाभावात्। सति सम्भवे प्रकृते त्यागायोगात्। `अतिरात्रे षोडशिनं गृह्णाति' `नातिरात्रे षोडशिनं गृह्णाती' त्यदौ वाक्यान्तरप्राप्तस्य निषेधदर्शनाच्च। न च तद्वदेव विकल्पापत्तिः, सिद्धे वस्तुनिविकल्पायोगात्। षोडशिग्रहणाग्रहणवाक्ययोरुभयोरपि मानान्तराप्राप्तविषयत्वेन तुल्यबलत्ववदिह सत्त्वश्रुतेर्मानान्तरप्राप्तविषयत्वेन निषेधश्रुतेश्चा प्राप्तविषयत्वेन तुल्यबलत्वाभावाच्च। अत एव निषेधवाक्यप्राबल्यात्तदनुरोधेनेतरन्नीयते।

 

      अथ -अप्राप्तान्यप्रार्प्त्थत्वेऽप्यलौकिकस्य `आपश्च न प्र मिनन्ती' इत्यादिपदार्थसंसर्गस्य विधेयस्य सत्त्वान्न निषेध्यार्थानुवादकत्वमिति चेन्न, तदन्यपरत्वस्य प्रागेवोक्तत्वात्। ननु `यत्तन्ने ' ति निषेधानुवादलिङ्गाभावान्नानुवादः। न। यत्किञ्चिल्लिङ्गाभावेन लैङ्गिकाभावस्य वक्तुमशक्यत्वात् ननु तर्हि `तत्सत्यमि' त्याद्यपि `न सत्तन्नासदुच्यत' इति, `असद्वा इदमग्र आसी' दिति च निषेधाय ` सन् घटः' `सद् घटज्ञानम्' `सत्सुखस्फुरण' मित्यादिसिद्धब्रह्मसत्त्वानुवादि स्याद्- इति चेन्न। ब्रह्मत्वसामानाधिकरण्येन सत्त्वस्य प्रत्यक्षादिभ्योऽप्राप्तेः। शून्यवादप्रसङ्गेन तस्य निषेधायोगाच्च। `इदं सर्वं यदयमात्मे' त्यत्रानुवादलिङ्गसम्भवेन कल्पनाच्च। एवमानन्दश्रुतेरपि, `अदुःखमसुखं सम' मिति निषेधाय न प्रत्यक्षप्राप्तानन्दानुवादित्वम्, दुःखसाहचर्येण सुखस्यापि वैषयिकस्यैव ग्रहणेन तन्निषेधाय ब्रह्मरूपसुखानुवादायोगात्। एतच्च सर्वमुक्तं विवरणे- "निष्प्रपञ्चास्थूलादिवाक्यानुसारेण `इदं सर्वं यदयमात्मे' त्यादीनि निषेध्यसमर्पकत्वेनैकवाक्यतां प्रतिपद्यन्ते, सुषुप्तौ निष्प्रपञ्चतायाः पुरुषार्थत्वदर्शनाद् " इति। अथ- निष्प्रपञ्चता न पुरुषार्थः। मूर्च्छायां तत्त्वादर्शनात्, न च तदा तदज्ञानमात्रं न तु तदभाव इति वाच्यम्, समं सुषुप्तावपीति- चेन्न। मूर्च्छायां स्वरूपसुखस्फुरणाभावात्। तथा च सूत्रम्- "मुग्धेऽर्धसम्पत्तिः परिशेषाद् " - इति। सुषुप्तिमुक्तिकालीननिष्प्रपञ्चतायां स्वरूपसुखानुभवेन तस्याः पुरुषार्थत्वात्। तथा च श्रुतिः "द्वितीयाद्वै भयं भवति" इति। अथ `तस्मादेकाकी न रमत' इति श्रुतेः सप्रपञ्चतापि पुरुषार्थः। न। तस्या दुःखसाधनत्वेन पुरुषार्थत्वायोगात्। कर्मकाण्डवदस्याः श्रुतेः अविवेकिपुरुषपरत्वाच्च।

 

      ननु `पृथगात्मानं प्रेरितारं च मत्वा जुष्टस्ततस्तेनामृतत्वमेती' ति भेदज्ञानस्य मोक्षहेतुत्वश्रवणात् कथं न सप्रपञ्चता पुरुषार्थ इति चेन्न। मतेः पूर्वं ममापि प्रेरकपृथक्त्वदृष्टेः, सगुणब्रह्मज्ञानवत् प्रेरकत्वेन ब्रह्मज्ञानस्यापि परम्परयोपकारकत्वात्। `एकधैवानुद्रष्टव्य'- मित्यादिवाक्यस्वारस्यादभेदज्ञानस्यैव साक्षात् मोक्षहेतुत्वात्। अत एव प्रेरकत्वज्ञानस्य जोषहेतुत्वमुक्तम्। तथोत्तरत्रापि `वेदविदो विदित्वा लीना ब्रह्मणि तत्परा ये विमुक्तास्तदात्मतत्त्वं प्रसमीक्ष्य देही एकः कृतार्थो भवते वीतशोक' इत्यभेद एव श्रूयते। अतो न भेदज्ञानस्य मोक्षहेतुत्वम्। एतेन `नेह नाने' ति श्रुतिरेव `विश्वं सत्यम्' इत्यबाध्यत्वरूपबाधनिषेधाय विज्ञानवादादिप्राप्तविश्वनिषेधानुवादिनी किं न स्यादिति निरस्तम्। भावाभावयोः परस्परविरहरूपत्वे समेऽपि भावग्रहो निरपेक्षत्वात् नाभावग्रहमपेक्षते। अभावग्रहस्तु सप्रतियोगिकतया भावग्रहमपेक्षते। अतो `नेति नेति' श्रुतेरेव सत्त्वश्रुत्यपेक्षा, न तु सत्त्वश्रुतेर्नेति श्रुत्यपेक्षा, अन्यथा अन्योन्‌याश्रयापत्तेः।

 

      ननु उत्सर्गापवादन्यायोऽस्तु यथा हि `न हिंस्यात् सर्वा भूतानी' ति श्रुतिरविशेषप्रवृत्तापि हिंसात्वसामान्यस्य प्रत्यक्षादिप्राप्तत्वान्निषेध्योपस्थितौ नाग्नीषोमीयवाक्यमपि निषेध्यसमर्पणायापेक्षते, तथा `नेतिने' त्यादिश्रुतिरविशेषप्रवृत्तापि प्रत्यक्षप्राप्तघटादि सत्त्वरूपनिषेध्यमादाय निराकाङ्क्षा सती न प्रत्यक्षाप्राप्तधर्माधर्मादिसत्यत्वबोधिकां `विश्वंसत्य' मित्यादिश्रुतिमपि निषेध्यसमर्पणायापेक्षितुमर्हति। यत्र तु मानान्तरेण निषेध्यस्याप्राप्तिस्तत्र निषेधश्रुतिः निषेध्यसमर्पणाय श्रुत्यन्तरमपेक्षत एव। यथा षोडशिग्रहणाग्रहणयोः मानान्तरेण निषेध्योपस्थितावपि वाक्यापेक्षणे अग्नीषोमीयहिंसाया अपि निषेध्यत्वेनाधर्मत्वं स्याद् इति चेत्, मैवम्, अग्नीषोमीयवाक्यस्य निषेधविषयन्यूनविषयत्वेनानन्यशेषतया स्वार्थतात्पर्यवत्तवेन च न निषेध्यसमर्पणद्वारेण निषेधवाक्यशेषता। विश्वं सत्य'मित्यादेस्तु निषेधविषयसमविषयत्वेन स्वार्थतात्पर्यरहित्त्वेन च निषेध्यसमर्पणद्वारेण निषेधवाक्यशेषतोचितैव। अत एव प्रत्यक्षाप्राप्तधर्मादिसत्त्वोपस्थापनेन वाक्यसाफल्यमपि। स्वार्थतात्पर्यरहितत्वेन च नाग्नीषोमीयवाक्यतुलत्यत्वमित्युक्तम्। अतो दृश्यत्वादिहेतोर्धर्माद्यंशेऽपि श्रुत्या न बाधः।

 

      अथवा व्यावहारिकसत्त्वपरेयं विश्वसत्यत्वश्रुतिः। न च व्यावहारिकसत्त्वे सर्वाविप्रतिपत्तेस्तत्प्रतिपादनवैयर्थ्यम्। दशाविशेषे स्वर्गनरकादिसत्त्वप्रतिपादनेन तत्प्राप्ति परिहारार्थं प्रवृत्तिनिवृत्त्योरेव तत्प्रयोजनत्वात्। व्यावहारिकत्वं च ब्रह्मज्ञानेतराबाध्यत्वं न तु अबाध्यत्वम्, मिथ्यात्वबोधकश्रुतिविरोधात्। न चैवं दृढभ्रान्तिजनकत्वाद् अत्यन्ताप्रामाण्यापत्तिः, स्वप्नार्थप्रतिपादनवदुपपत्तेः। एतावानेव विशेषः - तत् प्रातिभासिकम्, इदं तु व्यावहारिकमिति। ननु मिथ्यात्वश्रुतेर्लक्षणया अखण्डचिन्मात्रपरत्वेन सत्त्वबोधनाद् अविरोधित्वमेव। न। अखण्डार्थबोधस्य द्वितीयाभावबुद्धिद्वारकत्वेन जगत्सत्यत्वविरोधित्वात्। न च प्रपञ्चसत्यत्वश्रुतेरप्रामाण्यप्रसङ्गः, अतत्त्वावेद कत्वस्यावान्तरतात्पर्यमादायेष्टत्वात्। परमतात्पर्येण तु तत्त्वावेदकत्वं सर्वश्रुतीनामपि समम्। प्रातिभासिकव्यावृत्तस्य व्यावहारिकस्य तद्वति तत्प्रकारकत्वादिरूपस्य निराकर्तुमशक्यत्वात्। आसां व्यावहारिकं प्रामाण्यमव्याहतमेव। `असद्वा इदमग्र आसी' दित्यादिश्रुत्यनुरोधेनापि `तत्सत्य' मित्यादिश्रुतिर्न ब्रह्मणि व्यावहारिकसत्त्वपरा। ब्रह्मणो व्यवहारातीतत्वात्। तस्यापरमार्थत्वेन च निरधिष्ठानतया शून्यवादापत्तेः। किञ्चित्तत्त्वमगृहीत्वा च बाधानुपपत्तेः। अत एव सत्यत्वश्रुतिविरोधेन मिथ्यात्वश्रुतिरेवान्यपरेत्यपि न। षड्विधतात्पर्यलिङ्गोपेतत्वेन मिथ्यात्वश्रुतेरनन्यपरतया प्रबलत्वात्। वैदिकतात्पर्यविषयस्य च तात्त्विकत्वनियमेन तात्पर्यज्ञापकानामपि लिङ्गानामर्थतथात्व एव पर्यवसानात्। सत्त्वश्रुतिवाक्यस्थपदानां चान्यपरत्वान्न सत्त्वे तात्पर्यलिङ्गाशङ्का।

 

      ननु यदि सत्त्वश्रुतिः प्रत्यक्षप्राप्तार्थत्वान्न स्वार्थपरा, तर्हि मिथ्यात्वश्रुतिरपि तद्विरुद्धार्थत्वात् स्वार्थपरा न स्यात्। तत्प्राप्तितद्विरोधयोस्तात्पर्याभावहेत्वोरुभयत्रापि समत्वाद् इति चेन्न। प्रत्यक्षापेक्षया चन्द्राधिकपरिमाणबोधकागमस्येव मिथ्यात्वबोधकागमस्यापि बलवत्वेन प्रत्यक्षप्राप्तानुवादिसत्त्वश्रुत्यपेक्षयापि बलवत्त्वात् (प्राप्तार्थाप्राप्तार्थयोर्विरोधे प्राप्तार्थस्याप्राप्तविध्यर्थत्वेनान्यशेषत्वनियमादप्राप्तार्थस्यैवानन्यशेषत्वेन बलवत्त्वात्।) अन्यथो भयोरपि अप्रामाण्यापत्तेः। तदुक्तं सङ्क्षेपशारीरके - `अतत्परा तत्परवेदवाक्यैर्विरुध्यमाना गुणवाद एवेति'। अत एवानन्यशेषमिथ्यात्वश्रुतिविरोधात् न प्रत्यक्षागृहीतत्रिकाला बाध्यत्वरूपसत्यत्वपरा जगत्सत्यत्वश्रुतिरित्युक्तम्। अद्वैतश्रुतेश्च प्राबल्ये निरवकाशत्वतात्पर्य वत्त्वादिकमेव प्रयोजकम्, न निषेधवाक्यत्वम्। एतेन निषेधवाक्यत्वेन प्राबल्ये किति तद्धिते वृद्धिविधायकात् `किति च' इति सूत्रात् सामान्यतो गुणवृद्धिनिषेधकं क्ङिति चेति सूत्रं बलवत् स्याद्, अग्नीषोमीयवाक्यादहिंसा वाक्यम्, षोडशिनो ग्रहणवाक्यादग्रहणवाक्यम्, `सत्यं ज्ञानमनन्त' मित्यादिवाक्याद्‌ `असद्वा इदमग्र आसी' दित्यादिवाक्यं च बलवत् स्यादित्यपास्तम्। सामान्यविशेषभावादिना सावकाशत्वनिरवकाशत्वादिरूपबलवैपरीत्यात्। `विश्वं सत्य' मित्यादेस्तु व्यावहारिक सत्त्वविषयतया अन्यशेषतया च सावकाशत्वादेः प्रागुक्तत्वात्। तस्मान्न सत्त्वश्रुतिविरोधः। नापि

 

असत्यमप्रतिष्ठं ते जगर्दाहुरनीश्वरम्।

एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः।। (गीo)

 

इत्यादिस्मृतिविरोधः, सद्विविक्तत्ववादिनो मम जगत्यसद्वैलक्षण्याङ्गीकारेण तत्प्रतिपादकस्मृति विरोधाभावात्।

 

      ननु `नाभाव उपलब्धे' `वैधर्म्याच्च न स्वप्नादिव' दिति सूत्रद्वयेन जगतः पारमार्थिकसत्त्वबोधनेन विरोधः। न चानेन शून्यवादिनिरासार्थेनासद्वैलक्षण्यमात्रप्रतिपादनान्न विरोधः। अर्थक्रियाकारित्वलक्षणस्यासद्वैलक्षण्यस्य शून्यावादिमतेऽपि सत्त्वेन तन्मतनिरासार्थत्वानुपपत्तेः। निषेधाप्रतियोगित्वरूपस्यासद्वैलक्षण्यस्य त्वयाप्यनङ्गीकारात्। असद्वैलक्षण्यमात्रस्य साधने सूत्रे स्वप्नवैलक्षण्योक्त्ययोगाच्च। व्यावहारिकसत्यत्वमात्रेण स्वप्नवैलक्षण्यस्य त्वयाप्यङ्गीकाराद्। असद्वैलक्षण्यमात्रस्य तन्मतेऽपि सत्वाच्च। तदुक्तं बौद्धैः- `द्वे सत्ये समुपाश्रित्य बुद्धानां धर्मदेशना' इति चेन्न। सूत्रार्थानवबोधात्। तथा हि - सद्रूपाद् ब्रह्मणो जगत्सर्गं वदतः समन्वयस्य सर्वमसदित्यनुमानेन विरोधसन्देहे

 

`सन्नासन्न सदसन्न नचानुभयतत्त्वकम्।

विमतं तर्कपीड्यत्वान्मरीचिषु यथोदकम्।।'

 

इति ब्रह्मसाधारण्यां निस्तत्त्वतायां प्राप्तायां सूत्रेण परिहारः। सतो ब्रह्मणो नाभावः न शून्यत्वम्, उपलब्धेः सत्त्वेन प्रामाणात् प्रतीतेः। तथा च किञ्चित्परमार्थसदवश्यं शून्यवादिनापि स्वीकार्यम्, अन्यथा बाधस्य निरवधिकत्वप्रसङ्गादिति सूत्रार्थः। स च न प्रपञ्चमिथ्यात्वविरोधी। तथा चोक्तं -

 

`बाधितोऽपह्नवो मानैः व्यावहारिकमानता।

मानानां तात्त्विकं किञ्चिद् वस्तु नाश्रित्य दुर्भणा।।' इति।

 

नापि स्वप्नवैधर्म्योक्त्ययोगः, तस्याः `विमतं निस्तत्त्वं तर्कपीड्यत्वात् मरुमरीचिकाजलव' दित्यनुमाने बाध्यत्वप्रमाणा गम्यत्वदोषजन्यत्वाद्युपाधिप्रदर्शनपरत्वात् विज्ञानवादनिराकरणपरेणापि नानेन सूत्रेण विरोधः। रुपादिरहितब्रह्मजगदुपादानत्वप्रति पादकसमन्वयस्य नीलाद्याकारं विज्ञानं साधयता अनुमानेन विरोधसन्देहे-

 

स्वप्नधीसाम्यतो बुद्धेर्बुध्याऽर्थस्य सहेक्षणात्।

तद्भेदेनानिरुप्यत्वात् ज्ञानाकारोऽर्थ इष्यताम्।।

 

विमता धीः, न ज्ञानव्यतिरिक्तालम्बना, धीत्वात्, स्वप्नधीवत्। विपक्षे च ज्ञानाभानेऽप्यर्थभानप्रसङ्गो बाधकः। नहि भिन्नयोरश्वमहिषयोः सहोपलम्भनियमोऽस्ति। तस्मान्न ज्ञानातिरिक्तं सदिति प्राप्ते परिहातसूत्रं `नाभाव उपलब्धे' रित्यादि।

 

बाधेन सोपाधिकतानुमाने उपायाभावेन सहोपलम्भः।

सारूप्यतो बुद्धितदर्थभेदस्थूलार्थभङ्गो भवतोऽपि तुल्यः।।

 

सूत्रार्थस्तु - नाभावः ज्ञानातिरिक्तस्यार्थस्य नासत्वम्, किन्तु व्यवहारदशाबाध्यार्थक्रियाकारित्व रूपं सत्त्वमेव। उपलब्धेः ज्ञानातिरेकेण प्रमाणैरुपलब्धेः। स्वप्नवैधर्म्योक्तिः बाध्यत्वाद्युपाधिप्रदर्शनाय। तेन बाधात् सोपाधिकत्वाच्च पूर्वानुमानं दुष्टमित्यर्थः। तस्मान्नैवमपि विरोधशङ्का। तदुक्तं तस्मान्न ज्ञानाकारोऽर्थः, किन्तु बाह्यःष स चार्थक्रियाकारित्वसत्त्वोपेतोऽपि अद्वैतश्रुतिवशाद् ब्रह्मणि कल्पितो न परमार्थसन्निति सिद्धान्तस्य सुगतमताद्भेद इति। उक्तं चात्मतत्त्वविवेके-

 

`न ग्राह्यभेदमवधूय धियोऽस्ति वृत्ति

स्तद्वाधने बलिनि वेदनये जयश्रीः।

नो चेदनिन्द्यमिदमीदृशमेव विश्वं

तथ्यं तथागतमतस्य तु कोऽवकाशः।।'इति

 

धर्मिग्राहकमानबाधश्च प्रागेव परिहृत इति शिवम्।। इति विश्वमिथ्यात्वस्यागमादिबाधोद्धारः।।                                                                                   

[ 1-1-30]

 

[1-1-31]    31.असतः साधकत्वे बाधकविवरणम्

 

      ननु सत्त्वसाधकानां मिथ्यात्वसाधकानुमानेभ्यः प्राबल्यम्। मिथ्यात्व साधकप्रतिज्ञाद्युपनीतपक्षादीनां मिथ्यात्वाबोधने सर्वमिथ्यात्वासिद्धिः, तद्बोधने परस्परव्याहतिराश्रयासिद्ध्यादिकं चेति चेन्न। मिथ्यात्वसाधकप्रतिज्ञाद्युपनीतपक्षादीनां मिथ्यात्वबोधनेऽपि व्याहत्यभावात्। प्रतिज्ञादिभिस्तेषां त्रिकालाबाध्यत्वरूपसत्त्वाप्रतिपादनात्। ननु साधकत्वान्यथानुपपत्त्या परमार्थसत्त्वमायाति। परमार्थसत एव साधकत्वात्। साधकतायाः प्राक्सत्त्वघटितत्वात्। न तु धीमात्रविषयत्वम्, अपरोक्षधीविषयत्वम्, सत्त्वेन तादृशधीविषयत्वं वा साधकताप्रयोजकम्। तुच्छे नित्यातीन्द्रिये चातिव्याप्त्यव्याप्तिभ्याम्। तत्त्वेन ज्ञानमपि न तत्र प्रयोजकम्। वह्नित्वेनाज्ञातेऽपि वह्नौ दाहकत्वदर्शनाद्। वह्नित्वेन ज्ञातेऽपि गुञ्जापुञ्जे तददर्शनाच्च। नापि त्रिचतुरकक्ष्यास्वबाधितासत्त्वप्रतीतिस्तन्त्रम्। आत्मनो गौरत्वेनानित्यत्वस्य नभसो नैल्येन स्पर्शवत्त्वस्य चापत्तेः। गौरोऽहं; `नीलं नभः' इत्यादिप्रतीतावपि त्रिचतुरकक्ष्यास्वबाधाद्, यौक्तिकबाधस्य त्वन्मते प्रकृतेऽपि भावादिति चेन्न। यादृश्या बुद्ध्या तव नभोनैल्यादिधीव्यावृत्तया घटादौ सत्त्वसिद्धिः तादृग्बुद्धिविषयत्वस्यैव साधकत्वे तन्त्रत्वात्। अत एव लोकप्रसिद्धिस्तन्त्रमितीष्ट सिद्ध्युक्तमप्युक्ताभिप्रायेण सम्यगेव। एवं त्रिचतुरकक्ष्यास्वबाधिता वादिप्रतिवादिप्राश्निकादीनां सत्तवबुद्धिस्तन्त्रमित्युपपन्नमेव। गुञ्जापुञ्जस्य वह्नित्वे, आत्मनो गौरत्वे, नभसो नीलत्वे च तादृग्बुद्धिविषयत्वस्य तवाप्यसम्प्रतिपत्तेः। अन्यथा तेषामपि तत्र सत्त्वसिद्धिप्रसङ्गात्।

 

      अथ यादृश्या शब्दे क्लृप्तदोषरहितया बुद्ध्या तव ब्रह्मणि सत्त्वसिद्धिः तादृश्या प्रत्यक्षे क्लृप्तदोषरहितया मम जगति सत्त्वसिद्धिरस्तु, साधकतुल्यत्वादिति चेन्न। ब्रह्मसत्त्वबुद्धिवद् जगत्सत्त्वबुद्धेरबाधितत्वाभावात्। त्रिकालाबाध्यत्वरूपस्य सत्त्वस्य प्रत्यक्षाविषयताया उक्तत्वाच्च। न च बुद्धिविषयत्वस्य तन्त्रत्वे वह्नित्वेनाज्ञातस्य वह्नेरदाहकत्वप्रसङ्गः, अमृतत्वेन ज्ञातस्य च विषस्य सञ्जीवकत्वप्रसङ्ग इति वाच्यम्। वह्नौ तादृग्बुद्धिविषयत्वस्येश्वरादिसाधारणस्य सत्त्वात्। विषे सञ्जीवकत्वप्रसङ्गस्य नभोनैल्यादितुल्यत्वात्। वस्तुतस्तु ज्ञाताज्ञातसाधारणं व्यावहारिकं सत्त्वमेव साधकत्वे तन्त्रम्। तच्च ब्रह्मज्ञानेतरबाध्यत्वमेव। तच्च न मिथ्यात्वघटितम्। अत्यन्ताबाध्ये ब्रह्मज्ञानबाध्ये च तुल्यत्वात्। अत एव नेदं परमार्थसत्त्वव्याप्यम्। एवं च परमार्थसत्त्वस्य साधकतायामतन्त्रत्वेन तदभावेऽपि न साधकतानुपपत्तिः।

 

      एतेन- व्यावहारिकत्वं ब्रह्मज्ञानबाध्यत्वं वा ? व्यावहारिकविषयत्वे सति सत्त्वं वा ? सत्त्वेन व्यवहारमात्रं वा ? नाद्यः। मिथ्यात्वसिद्धेः प्राक् तदसिद्ध्या अन्योन्याश्रयात्। नापि द्वितीयः। तस्यास्माकं मिथ्यात्वविरोधित्वेनेष्टत्वात्। न तृतीयः। सत्त्वाभावे साधकत्वानुपपत्तेरिति-निरस्तम्। उक्तनिरुक्तेरदुष्टत्वात्। न च हेत्वादीनां व्यावहारिकसत्त्वे साध्यस्यापि व्यावहारिकसत्त्वमेव स्यादनुमितिविषयसाध्यस्य परामर्शविषयहेतुना समानसत्ताकत्वनियमादिति वाच्यम्। दृश्यत्ववन्मिथ्यात्वस्यापि व्यावहारिकत्वेन समानसत्ताकत्वस्येष्टत्वात्। समानसत्ताकत्वनियमासिद्धेश्च। धूलीपटले धूमभ्रमादपि वह्न्यनुमितिप्रमादर्शनाद्। गन्धव्याप्यपृथिवीत्वप्रमातोऽपि गन्धप्रागभावावच्छिन्ने घटे पक्षे बाधास्फूर्तिदशायामनुमितिभ्रमदर्शनाच्च। मिथ्यात्वस्य मिथ्यात्वेऽपि तत्त्वावेदक श्रुतिवेद्यत्वोपपत्तिः। सत्त्वेन सत इव मिथ्यात्वेन मिथ्याभूतस्यापि प्रमाणगम्यत्वाविरोधाद्। एकांशे तत्त्वावेदकत्वाभावेऽपि अपरांशे तत्त्वावेदकत्वोपपत्तेः।

 

      ननु व्यावहारिकत्वं साधकतायामतन्त्रम्। अज्ञानादिसाधके परमार्थसति साक्षिणि तदभावादिति चेन्न। ब्रह्मज्ञानेतराबाध्यत्वस्यात्यन्ताबाध्येऽपि सत्त्वस्योक्तत्वात्। त्रैविद्यविभागे पारमार्थिकव्यावृत्तव्यावहारिकत्वनिरुक्तावपि जनकतायां तत्साधारण्येऽप्यदोषात्। वस्तुतस्तु- साक्ष्यप्यज्ञानोपहित एवाज्ञानादिसाधकः। स च व्यावहारिक एव। अनुपहितेन परमार्थसदाकारेण तस्यासाधकत्वात्। एवं च व्यावहारिकसत्त्वमेव सर्वत्र साधकतायां प्रयोजकमिति स्थितम्। यथा चाज्ञानोपहितस्य साक्षित्वेऽपि नात्माश्रयादिदोषः तथोक्तं दृश्यत्वहेतूपपादने प्राक्। अग्रे च वक्ष्यते। यत्र च यत्साधकं व्यावहारिकम् तत्र तद् व्यावहारिकम्। यत्र तु साधकं प्रातीतिकं, तत्र फलमपि तथैव, न तु व्यावहारिकमिति सर्वविधिप्रतिषेधादिव्यवहारासङ्करः। अत एव लोकस्यापि व्यतिक्रमे विचारस्य यादृच्छिकवाङ्मात्रतापत्तिरित्युदयनोक्तमपि निरस्तम्, व्यावहारिकसत्त्वेन लोकमर्यादा नतिक्रमात्। भट्टाचार्यवचनानि विरुद्धत्वेन भासमानानि सत्त्वत्रैविध्यनिरूपणायामविरोधेन व्याख्यास्यन्ते। तस्मात् पक्षादिसर्वमिथ्यात्वसाधनेऽपि न व्याहतिः।। इत्यद्वैतसिद्धौ असतः साधकत्वोपपत्तिः।  

[ 1-1-31]

 

[1-1-32]    32.असतः साधकत्वाभावे बाधकोद्धारः

 

      ननु सत्त्वापेक्षया तुच्छविलक्षणत्वादेर्गौरवतरत्वेन साधकत्वे कथं तन्त्रत्वमिति चेन्न। त्रिकालबाधविरहरूपस्य सत्त्वस्य लघुत्वाभावात्। जात्यादिरूपस्य तस्य मिथ्यात्वाविरोधित्वाद्। उभयसिद्धे सद्विविक्ते साधकत्वदर्शनेन पारमार्थिकसत्त्वस्य साधकत्वाप्रयोजकत्वाच्च। तथा हि- प्रतिबिम्बे बिम्बसाधकत्वं तावदस्ति। तस्य बिम्बात्मना सत्त्वेऽपि प्रतिबिम्बाकारेणासत्त्वात् परमार्थसत्त्वं न साधकत्वे प्रयोजकम्। एवं स्वाप्नार्थस्यासतोऽपि भाविशुभाशुभसूचकत्वम्। यद्यपि तत्रत्यदर्शनस्यैव सूचकत्वम्। `पुरुषं कृष्णं कृष्णदन्तं पश्यति' इत्यादिश्रुतिबलात्। तथापि दर्शनमात्रस्यातिप्रसक्तत्वेन विषयोऽप्यवश्यमपेक्षणीय एव। एवं स्फटिकलौहित्यस्य उपाधिसन्निधानसाधकत्वं च। न च लौहित्यं स्फटिके न मिथ्या, किन्तु धर्ममात्रप्रतिबिम्ब इति न पृथगुदाहरणमिति वाच्यम्। धर्मिभूतमुखादिनैरपेक्ष्येण तद्धर्मभूतरूपादिप्रतिबिम्बादर्शनात्। प्रतिबिम्बस्या व्याप्यवृत्तित्वनियमेन लौहित्यस्य स्फटिके व्याप्यवृत्तित्वप्रतीत्ययोगाच्च। लौहित्ये स्फटिकस्य त्वारोपे तस्य प्रतिबिम्बत्वम्, स्फटिके लौहित्यारोपे तु तस्य मिथ्यात्वमिति विवेकः। "स्फटिकमणेरिवोपधाननिमित्तो लोहितिमा" इति लोहितिमनो मिथ्यात्वं दर्शितं प्रतिबिम्बसत्यत्ववादिभिः पञ्चपादिकाकृद्भिः। एवं रेखातादात्म्येनारोपितानां वर्णानामर्थ साधकत्वम्। न च-रेखास्मारिता वर्णा एवार्थसाधका इति-वाच्यम्। आशैशवमयं ककारोऽयं गकार इत्यनुभवाद्, अभेदेनैव स्मरणाद्। विवेके सत्यपि दृढतरसंस्कारवशात् नारोपनिवृत्तिः। अत एव ककारं पठति लिखति चेति सार्वलौकिको व्यवहारः। वर्णारोपितदीर्घह्रस्वत्वादीदां च नगो नाग इत्यादावर्थविशेषप्रत्यायकत्वम्। न च वर्णेष्वनारोपितध्वनिसाहित्यं तदभिव्यक्तत्वरूपं वा दैर्ध्यं प्रत्यायकम्, एवं ह्रस्वत्वादिकमपीति वाच्यम्। ध्वनीनामस्फुरणेऽपि दीर्घो वर्ण इत्यादिप्रत्ययात्।

 

      ननु आरोपितेन वर्णदैर्घ्यादिना कथं तात्त्विकार्थसिद्धिः ? न ह्यारोपितेन धूमेन तात्त्विकवह्निसिद्धिरिति चेन्न। साधकतावच्छेदकरूपवत्त्वमेव साधकतायाः प्रयोजकम्, न त्वारोपितत्वमनारोपितत्वं वा। धूमाभासस्य त्वसाधकत्वम् साधकतावच्छेदकरूपव्याप्त्यभावात् नासत्त्वाद्। अनाभासत्वग्रहश्च तत्र बहुलोर्ध्वतादिग्रहणवद्व्याप्तिग्रहणार्थमेवापेक्षितः। तदुक्तं वाचस्पतिमिश्रैः- `यथा सत्यत्वविशेषेऽपि चक्षुषा रूपमेव ज्ञाप्यते न रसः तथैवासत्त्वाविशेषेऽपि वर्णदैर्घ्यादिना सत्यं ज्ञाप्यते, न तु धूमाबासादिना' इति। दृष्टं हि मायाकल्पितहस्त्यादेः रज्जुसर्पादेश्च भयादिहेतुत्वं, सवितृसुषिरस्य च मरणसूचकत्वं, शङ्काविषस्य च मरणहेतुत्वम्। `ननु तत्र शङ्कैव भयमुत्पाद्य धातुव्याकुलतामुत्पादयतीति सैव मरणहेतुः, न तु शङ्कितं विषमपि। एवं सवितृसुषिरमायाकल्पितगजादीनामपि ज्ञानमेव तत्तदर्थक्रियाकारि, न त्वर्थोऽपि। तथा च सर्वत्रोदाहृतस्थलेषु ज्ञानमेव हेतुः। तच्च स्वरूपतः सत्यमेव। अन्वयव्यतिरेकावपि ज्ञानस्यैव कारणतां ग्राहयतः। न हि सन्निहितं सर्पमजानानो बिभेति। न च अर्थानवच्छिन्नस्य ज्ञानस्य हेतुत्वेऽतिप्रसङ्गादर्थावच्छिन्नमेव ज्ञानं हेतुः। तथा चार्थोऽपि हेतुरेवेति वाच्यम्, अर्थावच्छिन्नस्य ज्ञानस्य हेतुत्वेऽपि अवच्छेदकस्यार्थस्य ताटस्थ्येनाहेतुत्वोपपत्तेः (1)घटावच्छिन्नस्य तदत्यन्ताभावतद्‌ध्वंसादेर्घटदेशकालभिन्नदेशकालादित्वेऽप्यवच्छेदकस्य घटस्य तदभाववत्, (2) घटेच्छाब्रह्मज्ञानयोर्घटज्ञानवेदान्तसाध्यत्वेऽपि घटब्रह्मणोः तदभाववत्, (3)घटप्रागभावस्य घटं प्रति जनकत्वेऽपि घटस्याजनकत्ववत्, (4)विशेषादर्शनस्य भ्रमं प्रति जनकत्वेऽपि विशेषदर्शनस्य तदभाववत्, (5)विहिताकरणस्य प्रत्यवायजनकत्वेऽपि विहितकरणस्य तदभाववत्, (6)स्वर्ग कामनायाः यागजनकत्वेऽपि स्वर्गस्य तदजनकत्ववत्, (7) अतीतादिस्मृत्यादेर्दुः स्वादि जनकत्वेऽप्यतीतादेस्तदजनकत्ववत्, (8)असद्विषयकपरोक्षज्ञानस्य तद्‌व्यवहारहेतुत्वेऽप्य सतस्तदभाववत्, (9) चिकीर्षित घटबुद्धेर्घटहेतुत्वेऽपि घटस्य तदहेतुत्ववत्, (10) ब्रह्म ज्ञानस्य तदज्ञाननिवर्तकत्वेऽप्युदासीनस्वभावस्य ब्रह्मणस्तदभाववत्, (11)ब्रह्माज्ञानस्य जगत्परिणामिकारणत्वेऽपि ब्रह्मणस्तदभाववच्च। न च-तथापि मिथ्यार्थे ज्ञानव्यावर्त कताऽस्तीत्यसतोऽपि हेतुत्वमिति-वाच्यम्। न हि व्यावृत्तिधीहेतुत्वं व्यावर्तकत्वम्। किन्तु व्यावृत्तिधीहेतुधीविषयत्वमेव। सत्यपि दण्डे तदज्ञाने व्यावृत्त्यज्ञानात्। अथावच्छेदकस्य मिथ्यात्वे अवच्छिन्नस्यापि तन्नियमः। न। तुच्छज्ञाने तुच्छवैलक्षण्ये च तुच्छत्वस्य, प्रातिभासिकाद्वैलक्षण्ये प्रातिभासिकत्वस्य, पञ्चमप्रकारायामात्मस्वरूपभूतायां वा अनिर्वचनीयाज्ञानस्य निवृत्तौ चतुर्थप्रकरानिर्वचनीयत्वस्य, पारमार्थिकात्मस्वरूपे तद्भिन्ने वा अनृतद्वैतस्याभावेऽनृतत्वस्य चादर्शनात् तत्रावच्छेदकानामसदादीनां ताटस्थ्येऽत्रापि तथास्त्विति-चेत्, अत्रोच्यते। यदुक्तं ताटस्थ्यलक्षणमुपलक्षणत्वमेव सर्वत्रावच्छेदस्येति, तन्न। विशेषणत्वे सम्भवत्युपलक्षणत्वायोगात्। विशेषणबाधपूर्वकत्वादुपलक्षणत्वकल्पनायाः। अन्यथा, `दण्डी प्रैषानन्वाह ', `लोहितोष्णीषा ऋत्विजः प्रचरन्ति' इत्यादावपि वेदे दण्डलौहित्यादेरुपलक्षणत्वात् तदभावेऽपि अनुष्ठानप्रसङ्गः। `सर्वादीनि सर्वनामानि' इत्यत्र सर्वशब्दस्य सर्वनामसंञ्ज्ञा न स्यात्। `जन्माद्यस्य यतः' इत्यत्र जन्मनो ब्रह्मलक्षणत्वं न स्यात्, विशेषणार्थत्वेन तदगुणसंविज्ञानबहुव्रीहिसम्भवेऽप्युपलक्षणार्थत्वेनातद् गुणसंविज्ञानब्रीहिस्वीकारप्रसङ्गात्। एवं `असिपाणयः प्रवेश्यन्ताम्' इत्यादिलौकिक प्रयोगेऽपि। प्रतिबिम्बादिज्ञानानां जनकत्वे च विशेषणतया प्रतिबिम्बादीनामपि जनकत्वे बाधाभावात् नोपलक्षणत्वपक्षो युज्यते। उदाहृतस्थलेषु सर्वत्र बाधकमस्त्येवेति विशेषः। तथा हि- प्रथमे घटदेशकालौ गृहीत्वा तद्भिन्नदेशकालत्वं तदत्यन्ताभावादौ ग्राह्यम्। घटस्यापि तत्सम्बन्धे तद्‌देशकालभिन्नदेशकालत्वमेव व्याहतं स्यात्। द्वितीये त्विष्टापत्तिः। क्वचिद् घटज्ञानस्य घटेच्छाजनकत्ववद् घटं प्रत्यपि जनकत्वाद्। ब्रह्मणो वेदान्तसाध्यत्वे तु नित्यत्वविरोधः। तृतीये प्रागभाववद् घटस्य स्वजनकत्वे प्रतियोगिप्रागभावयोः समानकालीनत्वापत्तिः। स्वावधिकपूर्वत्वघटितजनकत्वस्य स्वस्मिन् व्याहतत्वं च। चतुर्थे पञ्चमे च प्रतियोगितदभावयोः सहावृत्त्या भ्रमप्रत्यवाययोरनुपपत्तिप्रसङ्गः। षष्ठे कामनावत् कामनाविषयस्य यागजनकत्वे तस्य प्राक्‌सत्तया तत्कामनैव व्याहन्येत, सिद्धे इच्छाविरहात्। सप्तमे अतीतस्य जनकत्वे कार्याव्यवहितपूर्वकाले स्वस्वव्यापारान्यतरसत्त्वापत्तिः। अष्टमे असतो जनकत्वे निःस्वरूपत्वव्याघातः। नवमे चिकीर्षितघटज्ञानवत् स्वस्य जनकत्वे पूर्ववद् व्याघातः। दशमे उदासीनस्य ब्रह्मणो न निवर्तकत्वम्। स्वरूपतः उपहितस्यैव वृत्तिविषयत्वेन तस्याविषयत्वाद्। उपहितस्य च निवर्तकत्वमस्त्येव। एकादशे ब्रह्माज्ञानस्य परिणामिकारणत्वेऽपि न ब्रह्मणो जगत्कारणत्वम्, कार्ये जडत्वोपलम्भात्। एवंविधबाधकबलेन तत्रोपलक्षणत्वस्वीकारात्। न च प्रकृते बाधकमस्ति। अव्यवहितदेशकालादिवृत्तित्वस्य प्रातिभासिकसाधारणत्वात्। इदानीमत्र सर्प इत्यादिप्रतीत्यविशेषात्। न हि क्वचिद् बाधकबलेन मुख्यपरित्यागः कृत इति सर्वत्र तथैव भविष्यति। उत्कर्षाद्यनुविधानाच्च। तथा हि- स्वप्ने जागरे चोत्कृष्टकलधौतदर्शनाद् उत्कृष्टं सुखम् उत्कृष्टसर्पादिदर्शनाच्चोत्कृष्टं भयादि दृश्यते। विषयस्याकारणत्वे तदुत्कर्षानुविधानं कार्ये न स्यात्। न ह्यकारणोत्कर्षः कार्यमनुविधत्ते इति न्यायात्। न च ज्ञानप्रकर्षादेव तत्प्रकर्षः, ज्ञानेऽपि विषयगतप्नकर्षं विहायान्यस्य प्रकर्षस्याभावात्।

 

      अथ ज्ञानगता जातिरेव प्रकर्षः, न चाक्षुषत्वादिना सङ्करप्रसङ्गाद्। विषयप्रकर्षेणैवोपपत्तौ चाक्षुषत्वादिव्याप्यनानाजात्यङ्गीकारे गौरवान्मानाभावाच्च। किं च ज्ञानस्य भयादिजनकत्वे सर्पाद्यवच्छिन्नत्वमेव कारणतावच्छेदकमास्थेयम्। ज्ञानत्वेन जनकत्वे अतिप्रसङ्गात्। तथा च मिथ्यात्वावच्छिन्नत्वाकारेण ज्ञानस्य मिथ्यात्वाद् भ्रमस्थले ज्ञानमात्रस्य जनकत्वेऽपि मिथ्याभूतस्य जनकत्वमागतमेव। जनकतावच्छेदकरूपेण च मिथ्यात्वे रूपान्तरेण च मिथ्यात्वे रूपान्तरेण सत्त्वमप्यसत्त्वात् नातिरिच्यते; अनुपयोगात्। तदुक्तं खण्डनकृद्भिः- `अन्यदा सत्त्वं तु पाटच्चरलुण्ठितवेश्मनि यामिकजागरण वृत्तान्तमनुसरति'इति। स्वरूपेणापि तु भ्रमज्ञानस्य मिथ्यात्वमस्त्येव। स्वरूपतो बाधाभावे विषयतोऽप्यबाधप्रसङ्गात्। न च गुणजन्यत्वमुपाधिः, तस्याप्यापाद्यत्वेन वह्न्यनुमाने वह्निसामग्र्या इव साधनव्यापकत्वेनानुपाधित्वाद्। विषय इव मिथ्यात्वप्रयोजकदोषादिसमवहितसामग्र्या ज्ञानेऽपि अविशेषाच्च। तुच्छज्ञानतद्वैलक्षण्यादौ च तुच्छत्वादर्शनमबाधकम्। अवच्छेद्यावच्छेदकयोः सर्वत्र सारूप्यनियमानभ्युपगमात्। प्रकृते चावच्छेदक इवावच्छेद्येऽपि मिथ्यात्वप्रयोजकरूपतुल्यत्वेन सारूप्योपपत्तेः। सर्वसाधारणं चैकं कारणत्वमभ्युपगम्यैतदवोचाम। वस्तुतस्तु-दण्डतन्त्वादिसाधारणमेकं कारणत्वं नास्त्येव। यत्र तव सत्वमवच्छेदकं (तत्र न) मम तुच्छविलक्षणत्वादिकम्, किं तु कार्यतावच्छेदकं घटत्वपटत्वादि, कारणतावच्छेदकं च दण्डतन्त्वादि। तद्भेदाच्च कारणत्वं भिन्नम्। यथा गोगवयसादृश्यमन्यद् भ्रातृभगिन्यादिसादृश्यमन्यत्। तत्र नैकमवच्छेदकम्, किन्तु गवयत्वभगिनीत्वादिकमेव। तद्वदत्रापि दण्डत्वादिकमेव सत्त्वासत्त्वोदासीनमवच्छेदकं वाच्यम्। तथा च जनकत्वानुसारेण न सत्त्वासत्त्वसिद्धिः। तदुक्तं खण्डनकृद्भिः-

 

`पूर्वसम्बन्धनियमे हेतुत्वे तुल्य एव नौ।

हेतुतत्त्वबहिर्भूतसत्त्वासत्त्वकथा वृथा।।' इति

अन्तर्भावितसत्त्वं चेत् कारणं तदसत्ततः।

नान्तर्भावितसत्त्वं चेत् कारणं तदसत्ततः।। 'इति च।

न चैवम्- अन्तर्भावितसत्त्वं चेदधिष्ठानमसत्ततः।

नान्तर्भावितसत्त्वं चेदधिष्ठानमसत्ततः।।' इति

 

 

इति तवापि समानमिति-वाच्यम्। ममाधिष्ठाने स्वरूपत एव सत्ताङ्गीकारः। तव तु कारणे स्वरूपातिरिक्तत्ताङ्गीकार इति विशेषात्। यत्तु अर्थो न ज्ञानस्य जनकतायामवच्छेदकोऽपि। मानाभावात्। न चातिप्रसङ्गः। विषयावच्छेदमनपेक्ष्यैव सर्पज्ञानस्यासर्पज्ञानाद्व्यावृत्तिसिद्धेः। तथा हि- सर्पज्ञानस्यासर्पज्ञानाद्व्यावृत्तिर्व्यावर्त काधीना। न च विषयस्तत्सम्बन्धो वा व्यावर्तकः। स्वरूपातिरिक्तद्विष्ठसम्बन्धाभावात्। असम्बद्धस्य चाव्यावर्तकत्वात्। अथ सम्बन्धान्तरमन्तरेण विशिष्टव्यवहारजननयोग्यं ज्ञानस्वरूपमेव वा ज्ञानमात्रनिष्ठः कश्चिद्धर्मो वा सम्बन्धः तर्हि विषयमनन्तर्भाव्यैव ज्ञानात्तद्गतधर्माद्वा विशेषसिद्धिरित्यायातम्। किं च सर्पज्ञानमसर्पज्ञानाद्धर्म्यन्तर सम्बन्धमनपेक्ष्य विलक्षणम्, तज्जनकविलक्षणजन्यत्वाद्, यवाङ्कुरात् कलमाङ्कुरवत्, तज्जन्यविलक्षणजनकत्वाद्वा, यवबीजात्कलमबीजवत्। न च विलक्षणविषयसम्बन्धेनैव हेत्वोरुपपत्तावप्रयोजकत्वम्। तथात्वे हि यवबीजतदङ्कुरविलक्षणजन्यजनके कलमाङ्कुरतद्वीजेऽपि यवाङ्कुरतद्वीजाङ्कुराभ्यां कलमाङ्कुर तद्वीजत्वरूपस्वाभाविकवैलक्षण्यं विना कदाचिदुपलक्षणीभूतचैत्रादिसम्बन्धित्वमात्रेण विलक्षणे स्याताम्। साक्षात्कारोऽपि परोक्षज्ञानादन्यसम्बन्धितामात्रेण विलक्षणः स्यात्। एवं च यथा प्रतियोगिनमनन्तर्भाव्यैव घटस्याभावोऽभावान्तराद्, यथा च विषयमनन्तर्भाव्यैव शिलोद्धरणकृतिर्माषोद्धरणकृतितः, यथा चातीतादिज्ञानमसद्विषयकपरोक्षज्ञानव्यवहारौ च ज्ञानान्तरादितः, यथा च घटस्मृतिर्घटानुभवाद्, यथा च घटस्य परोक्षज्ञानं तदपरोक्षज्ञानाद् विलक्षणम्, अन्यथा तत्तत्कार्यसङ्करः स्याद्, एवं सर्पज्ञानमपि रज्जौ सर्पज्ञानस्य भ्रमत्वेनाधिकजन्यत्वेऽपि सर्पज्ञानत्वेन तद्धेतुजन्यत्वात् स्वत एव वा असर्पज्ञानाद्विलक्षणमिति न कोऽपि दोषः। न चाभावादावपि प्रतियोग्यादेरवच्छेदकत्वम्। ध्वंसादेः कृतेरतीतादिज्ञानस्य च सत्तासमये प्रतियोगिविषययोरसत्त्वाद् इति। तन्न। सर्पज्ञानत्वावच्छिन्नस्यासर्पज्ञानाद् व्यावृत्तौ प्रयोजकं न तत्तत्स्वरूपमेव। सर्वज्ञानसाधारण्याभावात्। किन्त्वनुगतो धर्मः कश्चित्। सोऽपि सर्पज्ञानमात्रे न जातिरूपः, प्रत्यक्षत्वानुमानत्वादिना सङ्करप्रसङ्गात्, किन्तूपाधिरूपः। स च स्वरूपसम्बन्धेनाध्यासिकसम्बन्धेन वा सम्बन्धिभूतविषयादन्यो न भवति,मानाभावात्। अत एव धर्म्यन्तरसम्बन्धमनपेक्ष्य विलक्षणमुत्युक्तानुमानं बाधितं द्रष्टव्यं व्यभिचारि च। तथा हि-घटसंयोगः, पटसंयोगान्न जात्या भिद्यते, तदवृत्तिजात्यनधिकरणत्वात्, किन्तु घटरूपोपाधिनैवेति धर्म्यन्तरसम्बन्धमपेक्ष्यैव विलक्षणे घटसंयोगत्वावच्छिन्ने साध्याभाववति उक्तहेतुसत्त्वाद् व्यभिचारः, अप्रयोजकत्वम्। न च उपलक्षणीभूतचैत्रसम्बन्धेनापि कलमाङ्कुरादेर्व्यावृत्ततापत्तिः, विपक्षबाधायामिष्टापत्तेः। न हि जातेर्व्यावर्तकत्वे उपाधिरव्यावर्तको भवति। एवं शिलोद्धरणमाषोद्धरणकृत्योः परस्परं जात्या व्यावृत्तावपि विषयरूपोपाधिनाऽपि व्यावृत्तिरविरुद्धा। शिलोद्धरणो च जातिविशेषविशिष्टायाः कृतेर्जनकत्वेन तद्रहिताया माषोद्धरणकृतेस्तदनिष्पत्तिरदोषः। व्यावृत्तेरन्यतोऽपि सिद्धिसम्भवे कार्यकारणभावादिनिर्वाहाय जातिविशेषस्यापि कल्पनात्। अतीतासद्धिषयकज्ञानव्यवहारादौ चातीतासतोरेव व्यावर्तकत्वम्। न हि व्यावृत्तिधीजनकत्वं तत्, येन सत्त्वाभावे प्राक्सत्त्वशरीरतया न स्यात्। किं तु व्यावृत्तिधीजनक धीविषयत्वमित्युक्तम्। तच्चातीतादौ सुलभमेव। अत एवाभावादिनिदर्शनमपि निरस्तम्। उक्तरूपव्यावर्तकत्वस्यात्यन्तासत्यपि सम्भवेन कदाचित् सति सम्भवस्य कैमुतिकन्यायसिद्ध। ननु विषयस्य व्यावर्तकत्वेऽपि सर्वत्र विशेषणत्वासम्भवाद् उपलक्षणत्वमेव वाच्यम्। उपलक्षणेन चोपलक्ष्यगतस्वसम्बन्धव्यतिरिक्तः कश्चिद्धर्म एवोपस्थाप्यते, काकेनेव गृहसम्बन्धिना तद्गतसंस्थानविशेषः। तथा च स एव व्यावर्तक इति विषयसम्बन्धमनपेक्ष्य स्वगतेनैव धर्मेण ज्ञानस्य व्यावृत्तिसिद्धिरिति चेन्न। विषयस्य विशेषणत्ववदुप लक्षणत्वस्याप्यनम्युपगमात्। येन हि स्वोपरागाद्विशेष्ये व्यावृत्तिबुद्धिर्जन्यते तद्विशेषणं व्यावृत्तिबुद्धिकाले विशेष्योपरञ्जकमित्यर्थः, यथा गोत्वादि। येन च स्वोपरागमुदासीनं कुर्वता विशेष्यगतव्यावर्तकधर्मोपस्थापनेन व्यावृत्तिबुद्धिर्जन्यते तदुपलक्षणम्, यथा काकादि। यत्तु-विशेष्ये नोपरञ्जकम्, न वा धर्मान्तरोपस्थापकम्, अथ च व्यावर्तकं तदुपाधिः। यथा पङ्कजशब्दप्रयोगे पद्मत्वम्, यथा वोद्भिदादिशब्दप्रयोगे यागत्वावान्तरजातिविशेषः। अत्र हि पद्मत्वयागत्वावान्तरधर्मौ पङ्कजनिकर्तरि फलोद्भेदनकर्तरि च न धर्मान्तरमुपस्थापयतः, अप्रतीतेः। न वा स्वोपरक्तां बुद्धिं जनयतः,समुदाये शक्त्यन्तरानभ्युपगमाद्। अथ च कुमुदज्योतिष्टोमादिभ्यो व्यावर्तकावित्युपाधी एव। इदं च प्राभाकराणां भाट्टानां च संमतमुदाहरणयुगलम्। तार्किकाणां त्वाकाशशब्दप्रयोगे शब्दाश्रयत्वमुदाहरणम्। अत एवाविद्यादिकं साक्षित्वादावुपाधिरिति सिद्धान्तो वेदान्तिनाम्। अतो यत्र विषयस्य विशेषणत्वं न सम्भवति, तत्कालासत्त्वात्, तत्रोपाधित्वाभ्युमगमान्नोपलक्षणत्वनिबन्धन दोषावकाशः। सन्देहे तु विशेषणत्वमेवाभ्यर्हि तत्वादुपेयते। तस्माद्विषय एव सर्वत्र ज्ञाने व्यावर्तकः। एकविषयकस्मृत्यनुभवयोः परोक्षापरोक्षयोश्च विषयमनपेक्ष्य जात्या परस्परव्यावृत्तिदर्शनात्। सर्वत्र विषयनिरपेक्षा जातिरेव व्यावर्तिकेति न युक्तम् भिन्नविषयके समानजातीये तदसम्भवात्। न च तत्रापि चातिरस्ति क्षीरादिमाधुर्यवदिति वाच्यम्। चाक्षुषत्वादिना सङ्करस्योक्तत्वात्। न च तव मते तत्तद्‌वृत्तेस्तत्तदाकारत्वेन चैतन्यस्य तत्प्रतिबिम्बितत्वेन तदभिव्यक्तत्वेन वा मम तु तत्तज्ज्ञानस्य तत्तदीयस्वभावत्वेन तत्तद्व्यवहारजननशक्तत्वेन वा स्वत एव वैलक्षण्यमिति वाच्यम्। विषयस्यैवाकारसमर्पकत्वेन स्वभावव्यवहारयोः परिचायकत्वेन च तन्नैरपेक्ष्येण व्यावर्तकताया वक्तुमशक्यत्वाद्। अस्माभिश्च तुच्छे जनकत्वस्यानुक्तत्वात्। विशेषणत्वोपाधित्वयोः सम्भवे च नोपलक्षणत्वमित्युक्तम्। न च `कथमसतः सज्जायेत' इति श्रुत्या `नासतोऽदृष्टत्वात्' इति सूत्रेण `शशविषाणादिभ्यः सदुत्पत्त्यदर्शनाद्'- इत्यादिभाष्येण च विरोधः। तेषां तुच्छे जनकत्वनिषेधपरत्वाद्। अस्माभिश्च तुच्छे जनकत्वस्यानुक्तत्वात्। तस्मात् सद्विविक्तत्वं साधनमिति सिद्धम्।। इत्यद्वैतसिद्धौ असतः साधकत्वाभावे बाधकम्।।

             

[ 1-1-32]

          

                        advaitasidhi_comm_con

 

 

[1-1-33]           33. दृग्दृश्यसम्बन्धानुपपत्तिभङ्गः

 

            ननु मिथ्यात्वानुमानमप्रयोजकम्, सत्यत्वेऽपि दृश्यत्वोपपत्तेरिति चेन्न। दृग्दृश्यसम्बन्धानुपपत्तेः। न हि ज्ञानं ज्ञेयासम्बद्धमेव प्रकाशकम्, अतिप्रसङ्गात्। नापि सम्बद्धम्, आत्मस्वरूपस्य तदगुणस्य वा ज्ञानस्य ज्ञेयेन संयोगसमवाययोरभावात्। अन्यस्य चानाध्यासिकस्य सम्बन्धस्याभावात्।नच विषयविषयिभावः सः। तस्य विषयत्वविषयित्वरूपस्य एकैकमात्रनिष्ठत्वेन द्विष्ठसम्बन्धात्मकत्वासम्भवाद्। दुर्निरूपत्वाच्च। तथा हि (1)विषयत्वं किं ज्ञानजन्यफलाधारत्वम् ? किं वा (2) ज्ञानजन्यहानादिबुद्धिगोचरत्वम् ? उत (3)ज्ञानकर्मत्वम् ?(4) ज्ञानाकारार्पकत्वं वा ?(5)दृश्यमानत्वे सति तत्त्वं व ?(6) ज्ञानजन्यव्यवहारयोग्यत्वं वा ? (7) यत्सन्निकृष्टकरणेन यज्ज्ञानमुत्पाद्यते तत्त्वं वा ? (8)यस्यां संविदि योऽर्थोऽवभासते स तस्या विषयः, तथा च संविदि भासमानत्वमिति वा ? (9) सम्बन्धान्तरमन्तरा ज्ञानावच्छेदकत्वं वा ? आद्ये फलं न तावत् ज्ञातता, अनङ्गीकाराद्, अतीतादावभावाच्च। नापि हानादिः। गगनादौ तदभावात्। कलधौतमलादेरपि तज्ज्ञानविषयत्वप्रसङ्गाच्च। नाप्यभिज्ञाभिलपने, तयोर्ज्ञेयावृत्तित्वात्।नच विषयविषयिभावेन ते तत्र स्य इति वाच्यम्। तस्यैव विचार्यमाणत्वात्। अत एव न द्वितीयोऽपि। न तृतीयः। ईश्वरज्ञानस्यातीतादिज्ञानस्य च कर्मकारकाजन्यत्वेन निर्विषयत्वप्रसङ्गात्।नचतुर्थः। ज्ञानतदाकारयोरभेदेन सर्वेषां ज्ञानहेतुनां विषयत्वापाताद्। अनुमित्यादिविषये तदभावापाताच्च। न प़ञ्चमः। दृश्यमानत्वस्य विषयत्वघटितत्वेनात्माश्रयात्। न षष्ठः। योग्यातायां योग्यतान्तराभावात्।नच योग्यता योग्यतां विनैव योग्या, यथा दृश्यत्वं दृश्यत्वान्तरं विनैव दृश्यमिति वाच्यम्। अवच्छेदकरूपापिरचये योग्यताया एव ग्रहीतुमशक्यत्वात्।नच ज्ञानविषयत्वं तदवच्छेदकम्, आत्माश्रयात्। न सप्तमः। नित्येश्वरज्ञानस्य निर्विषयत्वप्रसङ्गात्। नाष्टमः, संविदिति न तावदधिकरणसप्तमी। ज्ञानस्य ज्ञेयानधिकरणत्वात्। नापि विषयसप्तमी, तस्यैव निरूप्यमाणत्वात्। संविदो विषयत्वं संवेद्यस्य च विषयित्वमिति वैपरीत्यापाताच्च। नापि सति सप्तमी। भासमानत्वस्य विषयताघटितत्वेनाऽत्माश्रयात्। नापि नवमः। मत्समवेतं रूपज्ञानमित्यत्र रूपज्ञानसमवायस्य सम्बन्धान्तरं विनैव रूपज्ञानावच्छेदकस्य `इदं रूपम्' इति ज्ञानेऽपि विषयत्वापातात्। ननु ज्ञानविषय इत्यभियुक्तप्रयोग एव ज्ञानविषययोः सम्बन्धः। यथा अभियुक्तस्य मन्त्र इति प्रयोगविषयत्वमेव मन्त्रलक्षणम्।नचान्योन्याश्रयः, पूर्वपूर्वप्रयोगमपेक्ष्योत्तरोत्तरप्रयोगादिति- चेन्न। एतावता हि ज्ञेयत्वमात्रं सामान्यतः स्यात्, न त्वेतज्ज्ञानविषयत्वम्।नचास्मिन् सादौ पूर्वप्रयोगमपेक्ष्य उत्तरोत्तरप्रयोगो वक्तुं शक्यते। तस्यानादिमात्रविश्रान्तत्वात्। किं च प्रयोगोऽपि स्वविषये सम्बन्ध इत्यात्माश्रयोऽपि ।

 

            ननु यज्ज्ञानं यदभिलपनरूपव्यवहारकारणं स तस्य विषयः। करणपाटवाद्यभावेन व्यवहारानुदयेऽपि सहकारिविरहप्रयुक्तकार्याभाववत्त्वरूपं कारणत्वमस्त्येव।नच निर्विकल्पकविषये अव्याप्तिः। तस्यानङ्गीकारात्।नच यत्तद्भ्यामननुगमो दोषः। कस्य को विषय इति अननुगतस्यैव प्रश्नविषयत्वेन तस्यादोषत्वात्।नच घटज्ञानानन्तरं प्रमादाद्यत्र पट इति व्यवहारस्तत्र घटज्ञानस्य पटाभिलपनरूपव्यवहारजनकत्वेन पटविषयत्वापत्तिः। समानविषयाभिलापं प्रत्येव ज्ञानस्य जनकतया घटज्ञानस्य भिन्नविषयतया तत्राजनकत्वादिति चेन्न। अभिलपनरूपव्यवहारजननयोग्यत्वं न प्रातिस्विकरूपेण निर्णेयम्। अवच्छेदकत्वस्य फलनिर्णेयत्वात्। प्रतिस्वं च फलादर्शनाद्। अजनितफले प्रातिस्विकयोग्यतायां मानाभावात्, किन्तु तत्र तत्रानुगततत्तद्वृत्तिविषयत्वेन, तथा च आत्माश्रयः। अत एव ज्ञानकर्मत्वं विषयत्वम्। कर्मत्वं च न कारकविशेषः, येनातीतादौ तदभावो भवेत्। किन्तु क्रियाधीनव्यवहारयोग्यत्वरूपातिशयवत्त्वम्। अन्यथा घटं करोतीत्यादावसिद्धं घटादि न जनकं, सिद्धं च न कृतिकर्मेति द्वितीयाविभक्तिरनर्थिका स्यादिति निरस्तम्। व्यवहारयोग्यत्वं न व्यवहाररूपफलोपहितत्वम्। कुत्रचित् प्रतिरुद्धे व्यवहारे अव्याप्तेः। नापि तत्स्वरूपयोग्यत्वम्। विषयत्वादन्यस्य तस्यासम्भवादिति पूर्वोक्तदोषात्। नच अवच्छेदकाद् भिन्नं सहकारिविरहप्रयुक्तकार्याभाववत्त्वं तदिति वाच्यम्। अनुगतावच्छेदकधर्मं विना तस्यापि ग्रहीतुमशक्यत्वात्। घटं करोतीत्यत्र सिद्धस्यैव कपालादेः कृतिकर्मता। (व्यापार्यतयाऽसिद्धस्यैव कृतिकर्मताङ्गीकारात्। अत एव निष्पादनावाचिधातुसमभिव्याहृतकर्मपदे शक्यावयवे निरूढलक्षणामाहुरसत्कार्यवादिनः। सत्कार्यवादिनां तु पूर्वे सतोऽप्यभिव्यञ्जनीयतया न कारकत्वकृतिकर्मत्वयोरनुपपत्तिः। एतेन- `यस्यां संविदि' इत्यादि पूर्वोक्तेऽपि न दोषः। संविदिति सति सप्तमी। भासमानत्वं च व्यवहारयोग्यत्वम्। तच्च सति कारणान्तरे व्यवहारावश्यम्भाव इत्येतदपि निरस्तम्।

 

            ननु यः सम्बन्धान्तरमनपेक्ष्य यज्ज्ञानावच्छेदको यज्ज्ञानानवच्छिन्नस्वभावश्च स तस्य विषयः। यद्यप्यात्मा स्वविषयज्ञानसमवायवान्, तथापि न तस्य ज्ञानावच्छेदे समवायापेक्षा। ज्ञानासमवायिनोऽपि घटादेस्तदवच्छेदकत्वदर्शनात्। यद्यपि च रूपज्ञानं मत्समवेतं, ध्वस्तमिष्टमित्यादौ रूपज्ञानाविषया अप्यात्मसमवायेच्छाध्वंसादयः सम्बन्धान्तरमनपेक्ष्य ज्ञानावच्छेदकाः, तथापि समवेतेष्यमाणप्रतियोग्यात्मकरूपज्ञानावच्छिन्नस्वभावा एव, सम्बन्धेच्छादीनां सम्बन्धीष्यमाणाद्यवच्छिन्नस्वभावत्वादिति नातिव्याप्तिः। ज्ञानविषयस्तु न ज्ञानावच्छिन्नस्वभावः। ज्ञानस्य घटाद्यवच्छिन्नस्वभावत्ववद् घटादेर्ज्ञानावच्छिन्न स्वभावत्वादर्शनात्। यद्यपि स्वग्राहकज्ञानविषयीभूतं ज्ञानविषयकानुमित्यनुव्यवसायादिकं (ज्ञानं)ज्ञानावच्छिन्नस्वभावम्, तथापि स्वयं यज्ज्ञानं प्रति विषयस्तदवच्छिन्नस्वाभावं नेति नाव्याप्तिरिति चेन्न। मत्समवेतं रूपज्ञानमित्याकारकज्ञानस्यात्म समवायविष कत्वाभावप्रसङ्गाद्। आत्मसमवायस्य सम्बन्धत्वेन सम्बन्धिभूतस्वज्ञानावच्छिन्नत्वाद्। घटस्य ज्ञानमिति प्रतीत्या घटावच्छिन्नस्वभावत्वं यथा ज्ञानस्य तथा ज्ञातो घट इति प्रतीत्या घटस्यापि ज्ञानावच्छिन्नस्वभावत्वेनासम्भवाच्च।

 

            अथ यज्ज्ञानं यदीयस्वभावं स तस्य विषयः। मत्समवेतं रूपज्ञानमित्यत्र तु समवाय एव रूपज्ञानावच्छिन्नस्वभावो न तु रूपज्ञानं तदवच्छिन्नस्वभावम्। इदं च ज्ञानस्यैव विषयत्वमुक्तम्, न त्विच्छादिसाधारणमिति नाव्याप्तिरिति चेन्न। यदीयस्वाभावमिति तद्धितस्य यद्विषयकत्वार्थकत्वे आत्माश्रयाद्। अर्थान्तरस्य च निरूपयितुमशक्यत्वाद्। रूपज्ञानाभावाभावस्य रूपज्ञानरूपत्वेन रूपज्ञानस्याप्यभावीयतया तद्विषयत्वापत्तेः। ननु ज्ञानजनककरणसन्निकर्षाश्रयत्वं तद्विषयत्वम्।नच रूपज्ञानकरणमनस्सन्निकर्षाश्रयस्यात्मनस्तद्विषयत्वापत्तिः। करणपदेनासाधारणज्ञानकरणस्यैव विवक्षितत्वात्। सन्निकर्षपदेनाप्यसाधारणज्ञानजनकसन्निकर्षस्यैवोक्तत्वादिति चेन्न। चक्षुर्मनस्संयोगस्यापि चाक्षुषज्ञानासाधारणकारणत्वेन मनसोऽपि चाक्षुषज्ञानविषयत्वापत्तेः। परोक्षविषये अव्याप्तेश्च।नच तत्र लिङ्गज्ञानं करणम्। तत्र च लिङ्गिनः तद्व्याप्तत्वं सम्बन्धोऽस्तीति वाच्यम्। लिङ्गस्यापि स्वज्ञानसम्बन्धित्वेनानुमितिविषयत्वापत्तेः।नचानुमितौ तद्व्याप्ततारूपसम्बन्ध एव विषयतानियामकः। व्यापकतावच्छेदकव्यापक सम्बन्धादीनामविषयत्वापत्तेः।नच ज्ञानकरणसन्निकर्षसमानाधिकरणो ज्ञानावच्छेदकत्व साक्षाद्व्याप्यधर्मो विषयत्वम्, इदं च नित्यपरोक्षसाधारणमिति वाच्यम्। वस्तुत्वादिकमेव विषयत्वमित्यापत्तेः। ज्ञानावच्छेदकत्वस्य एव विषयत्वमिति वाच्यम्, असिद्धेः। तथा हि - स्वरूपसम्बन्ध इत्यस्य स्वरूपं सम्बन्ध इत्यर्थत्वे संयोगादावतिव्याप्तिः।नच तदुभयान्यत्वं विशेषणम्। हिमवद्विन्ध्ययोरपि स्वरूपसम्बन्धापत्तेः। सम्बन्धान्तरमन्तरेण विशिष्टप्रतीतिजननयोग्यत्वं स्वरूपसम्बन्धं इति चेन्न। आत्मानं जानामीत्यत्राव्याप्तेः। तत्र सम्बन्धान्तरस्य समवायस्यैव सत्त्वाद्। अतीन्द्रियाभावादावव्याप्तेश्च। नहि तस्य विशिष्टप्रतीतिजननयोग्यत्वे मानमस्ति। अन्यथा तेन विशिष्टप्रत्ययजननापत्तेः। किं च विशिष्टप्रतीतिजननयोग्यत्वं धर्मो वा सम्बन्धः ? तादृशं स्वरूपद्वयमेव वा ? आद्ये स्वरूपस्य सम्बन्धत्वव्याघातः। प्रतीतिघटितस्यास्य चाक्षुषादिज्ञानागोचरत्वप्रसङ्गश्च। न द्वितीयः, अननुगमात्। किं चैवमभावभ्रमानुपपत्तिः। तत्रापि विशिष्टप्रतीतिसम्भवे स्वरूपसम्बन्धस्य सत्त्वात्।नच प्रमात्वघटितं तल्लक्षणम्। वास्तवसम्बन्धसत्त्वे प्रमात्वस्याप्यापाद्यत्वात्। अन्यथा तत्र तस्याप्रमात्वे सम्बन्धाभावः, तस्मिंश्च तस्याप्रमात्वमित्यन्योन्याश्रयात्।

 

            ननु सम्बन्धान्तरमन्तरेण विशिष्टप्रतीतिजननयोग्यतावच्छेदकावच्छिन्नस्वरूपस्य सम्बन्धत्वं संयोगत्वावच्छिन्नस्य दण्डीत्यादौ सम्बन्धत्ववद्, विशिष्टबुद्धिश्चावच्छेदका विषयिण्येवावच्छेद्यविषया। अतो न स्वरूपसम्बन्धगोचरविशिष्टबुद्धेश्चाक्षुषत्वविरोधः।नच तर्ह्यभावप्रमाभ्रमयोः स्वरूपद्वयमात्रविषयत्वाविशेषात् प्रमाभ्रमव्यवस्थानुपपत्तिरिति वाच्यम्। घटाभाववति घटाभावज्ञानत्वेन तद्भिन्नज्ञानत्वेनच व्यवस्थोपपत्तेः। ननु अतिरिक्ताविषयत्वे तस्यैवानुपपत्तिः न हि भवद्रीत्या तस्योभयात्मकत्वेन तदुभयसत्त्वेन व्यधिकरणप्रकारत्व रूपभ्रमत्वस्यैवाभावे भ्रमतदन्यत्वाभ्यां व्यवस्था सम्भवतीति चेन्न। घटाभावाभावस्य घटत्वेन तद्वति घटाभावज्ञानस्य व्यधिकरणप्रकारकत्वसम्भवात्। किं च भ्रमस्य वस्तुगत्या यद् घटवत् स विषयः। न तु प्रमाया इत्यतिरिक्तविषयत्वमस्त्येव।नचातीन्द्रियाभावे अव्याप्तिः। अत्यन्ताभावे प्रतियोगिदेशान्यदेशत्वं, प्रागभावादौ प्रतियोगिदेशत्वे सति प्रतियोगिकालान्यकालत्वम्, अन्योन्याभावे प्रतियोगितावच्छेदकदेशान्यदेशत्वं विशिष्टप्रत्यय जननयोग्यतावच्छेदकम्। तदवच्छिन्नत्वं च विशिष्टप्रतीत्यजनकेऽप्यतीन्द्रियाभावे सुलभम्। न ह्यरण्यस्थो दण्डो न घटनननयोग्यतावच्छेदकावच्छिन्न इति चेत्, नित्यस्यातीन्द्रियस्याकाशा त्यन्ताभावादेर्विशिष्टप्रतीतिजननयोग्यतावच्छेदकावच्छिन्नत्वे अवश्यं विशिष्टप्रत्ययजनकत्व प्रसङ्गात्। नित्यस्य स्वरूपयोग्यस्य सहकारिसमवधाननियमात्।

 

            किं च विशिष्टस्य प्रत्यय इत्यत्र स्वरूपसम्बन्धस्य षष्ठ्यर्थत्वे आत्माश्रयः। सम्बन्धमात्रस्य तदर्थत्वे आत्मत्वादिविशिष्टात्मसम्बन्धिसमूहालम्बनविषये घटपटादावति व्याप्तिः। तयोरपि विशिष्टसम्बन्ध्यविशिष्टविषयज्ञानजनकत्वात्। ज्ञानस्याभावः ज्ञातोऽभाव इति प्रतीत्योर्वैलक्षण्यं न स्यात्। ज्ञानाभावयेरुभयोरेवोभयत्र स्वरूपसम्बन्धत्वे विषयकृतविशेषाभावात्। अत एव विशिष्टप्रतीतिजननयोग्यत्वं ज्ञानज्ञेयादिस्थले अतिरिक्तमेव सम्बन्ध इति निरस्तम्। अतीन्द्रिये नित्याभावेऽव्याप्तेः। न हि तत्र विशिष्टप्रतीतिजननयोग्यता, फलोपधानापत्तेः। प्रतीतिघटितस्य चाक्षुषादिप्रतीतावविषयत्वप्रसङ्गाच्च। तस्मात्सत्यत्वे सम्बन्धानुपपत्तेराध्यसिक एव दृग्दृश्ययोः सम्बन्ध इति। इत्यद्वैतसिद्धौ प्रपञ्चसत्यत्वे दृग्दृश्यसम्बन्धभङ्गः।

 

            स्यादेतत्- सर्वस्यापि दृश्यस्य ब्रह्मात्मकदृगध्यस्तत्वेऽपि कस्यचित् कदाचित् कञ्चित् प्रति प्रकाशाय त्वयाऽपि तत्तत्सन्निकृष्टेन्द्रियजन्यतत्तदाकारवृत्तिद्वारक एवानावृतदृक्सम्बन्धः स्वीकृतः, तथा च सत्यत्वेऽपि तद्द्वारक एव सम्बन्धोऽस्तु, किमाध्यासिकसम्बन्धदुर्व्यसनेन ? न हि भवतां विज्ञानवादिनामिव तत्तज्ज्ञाने तत्तदर्थाध्यासस्वीकारः, शुद्धदृशः स्वतो भेदाभावाद् उपाधिविशिष्टाया भेदेऽपि घटादिवत्तस्या अपि मिथ्यात्वेनाधिष्ठानत्वायोगादिति, - चेन्न, प्रकाशस्य साक्षात् स्वसंसृष्टप्रकाशकत्वनियमेनचैतन्यस्य परम्परासम्बन्धेन विषयप्रकाशकत्वायोगात्। न हि प्रदीपः परम्परासम्बद्धं प्रकाशयति, अतो विषयाधिष्ठानचैतन्यमनावृतमेव प्रकाशकम्, आवरणभङ्गश्च वृत्त्या, अतो वृत्तेः पूर्वमाध्यासिकसम्बन्धे विद्यमानेऽपि दृश्याऽप्रतीतिरुपपन्ना। अत एव- वृत्तिप्रतिबिम्बित चैतन्यस्य घटप्रकाशकत्वे आध्यासिकसम्बन्धस्यातन्त्रतापातः, घटाभिव्यक्तचेतन्यस्य घटप्रकाशकत्वे आवश्यकेन वृत्तिप्रतिबिम्बितचैतन्येनैव घटप्रकाशोपपत्तौ तदधिष्ठानचैतन्याभिव्यक्तिकल्पनाया युक्तत्वात्।नच - शुद्धचैतन्यस्य चरमसाक्षात्कारात्पूर्वं नाभिव्यक्तिः, अभिव्यक्तस्य च घटाद्यवच्छिन्नचैतन्यस्य न तदधिष्ठानत्वम्, आत्माश्रयादिति- वाच्यम्, चरमसाक्षात्कारात् पूर्वमपि शुद्धचैतन्यस्याविद्यावशादधिष्ठानभूतस्य मूलाज्ञाननिवृत्तिलक्षणाभिव्यक्त्यभावेऽपि तदवस्थाविशेषादिनिवृत्तिलक्षणाभिव्यक्त्या विषयप्रकाशकत्वोपपत्तेः।नच - घटप्रकाशिकायाः दृशो मिथ्यात्वेनाधिष्ठानत्वं सत्यत्वे दोषाजन्यत्वेन प्रमात्वात् सत्यं स्वविषयं प्रति नाधिष्ठानत्वमित्युभयतः पाशारज्जुरिति -वाच्यम् यतो दोषाजन्यत्वं न प्रमात्वप्रयोजकम्, चैतन्यस्य सर्वत्र दोषाजन्यत्वात्, किन्तु दोषाजन्यवृत्त्यवच्छिन्नत्वम्, प्रकृते च तदभावात् न विषयस्य सत्यत्वम्, अतो मिथ्याभूतविषयं प्रत्याधिष्ठानत्वं सत्याया दृशो युक्तम्।

 

            ननु तात्त्विकसम्बन्धासम्भवे आध्यासिकसम्बन्धकल्पनम् ? स एव तु कुतः ? क्लृप्तसंयोगबाधे गुणगुणिनोः समवायवत्तदुभयबाधे तृतीयस्य सम्भवात्।नच तत्र मानाभावः, समवायवदनुमनाध्यक्षयोः सत्त्वात्। तथा हि - परस्परासंयुक्तासमवेत विशेषणविशेष्यकविशिष्टधीर्विशेषणविशेषसम्बलन्धविषया, विशिष्टधीत्वाद् दण्डीति विशिष्ट धीवद्;उक्ता जन्यप्रमा, विशेषणविशेष्यसम्बन्धनिमित्तिका, अबाधितजन्यविशिष्टधीत्वात्, संमतवत्; विमता धीः,अबाधितविशेषणविशेष्यसम्बन्धविषया, अबाधितजन्य विशिष्टधीत्वाद्दण्डीति विशिष्टधीवत्। गोमांश्चैत्र इत्यादिबुद्धेरपि पक्षकुक्षिनिक्षेप एवेति न तत्र व्यभिचारशङ्का। तथा च संयोगसमवायातिरिक्तसम्बन्धसिद्धिरिति -चेन्न, प्रथमे द्वितीये चार्थान्तरम्, आध्यासिकसम्बन्धस्यैव विषयत्वेन निमित्तत्वेनचोपपत्तेः। द्वितीये परोक्षधीषु व्यभिचारश्च। तृतीयेऽपि ब्रह्मज्ञानपर्यन्ताबाधितत्वेन सिद्धसाधनमेव। सर्वथा अबाधितधीविषयत्वे साध्ये साध्यवैकल्यम्।नच- तात्त्विकसम्बन्धबाधे आध्यासिकसम्बन्धसिद्धिः, तथा च संयोगसमवायातिरिक्ततात्त्विकसम्बन्धबाधपर्यन्तं नाध्यासिकसम्बन्धसम्भावना, तथा च             कथमर्थान्तरसिद्धसाधनसाध्यवैकल्यानीति वाच्यम्, तात्त्विकसम्बन्धस्य व्यापकानुपलब्ध्या बाधात्। तथाहि- तात्त्विकसम्बन्धस्य व्यापको देशकालविप्रकर्षाभावः। स चातीतादिविषयकज्ञानादीनां नास्त्येवेति कथं तात्त्विकस्तेषां सम्बन्धः ?नच- समवायवत् सम्बन्ध्यभावविप्रकर्षाद्यविरुद्धत्वेनैव तत्सिद्धिरिति वाच्यम्, समवायस्यापि देशकालविप्रकृष्टयोः सम्बद्धव्यवहाराप्रयोजकत्वात्। न हि सम्बन्ध्यभावेऽपि सन् समवायोऽद्य विनष्टं घटं श्वस्तनेन रूपेण विशिनष्टि।नचाध्यासिकत्वे सम्बन्धस्य साध्ये धर्मिग्राहकमानबाधः, विशिष्टबुद्धित्वेन प्रथमं तात्त्विकातात्विक साधारणसम्बन्धस्यैव सिद्धेः।

 

            किं च सम्बन्धग्राहक एव तात्त्विकसम्बन्धव्यापकानुपलब्धिरूपबाधसहकृतः आध्यासिकसम्बन्धे पर्यवस्यति। अतो न धर्मिग्राहकबाधशङ्कापि।नचैवं - युतसिद्धयोरेव संयोगरूपसम्बन्धदर्शनादयुतसिद्धिरपि समवायस्य बाधिका स्यादिति वाच्यम्, युतसिद्धयोरपि क्वचित्सम्बन्धादर्शनेन युतसिद्धत्वस्य सम्बन्धाप्रयोजकत्वाद्, यस्मिन् सत्यवश्यं सम्बन्धः, स एव सम्बन्धस्य प्रयोजक इति समव्याप्तत्वाभावेन युतसिद्ध्यनुपलब्धेरबाधकत्वाद्, यत्र सम्बन्धस्तत्रावश्यं युतसिद्धिरिति विषमव्याप्तिकल्पनेऽपि मानाभावाद्, अनुकूलतर्कादर्शनात्, देशकालीविप्रकर्षाभाववतां तु सर्वेषां सम्बन्धदर्शनेन विप्रकर्षे तददर्शनेनच समव्याप्ततया प्रयोजकस्य देशकालविप्रकर्षाभावस्यानुपलब्धेः सम्बन्धबाधकत्व स्यावश्यमङ्गीकरणीयत्वात्। न हि प्रयोजकाभावे प्रयोज्यसम्भवः।

 

            नन्वेवं- ध्वंसादरेतीतादिना, मिथ्यात्वलक्षणान्तर्गतस्यात्यन्ताभावस्य प्रतियोगिना,शक्तेः शक्येन अज्ञानस्याज्ञेयेन,इत्छाया इष्यमाणेन, व्यवहारस्य व्यवहर्तव्येन, वाक्यस्यार्थेन वृत्तिरूपज्ञानस्य ज्ञेयेन, सम्बन्धो नेति त्वद्वाक्योक्तसम्बन्धाभावस्य ज्ञानेनासम्बन्धात् स्वन्यायस्वक्रियास्ववचनविरोधाः स्युः, न हि ज्ञाने ज्ञेयमिव प्रतियोग्यादिक मभावादावध्यस्तमिति चेन्न, यद्यप्युक्तन्यायसाम्येन ध्वंसादीनां स्वप्रतियोग्यादिभिस्तात्त्विकः सम्बन्धो नास्त्येव, अध्यासोऽपि न ज्ञानज्ञेयन्यायेन, उभयोरपि मिथ्यात्वात्। तथापि प्रतीयमानं प्रतियोग्यनुयोगिभावादिकं सर्वथा न निराकुर्मः, किन्तु तात्त्विकाध्यासाभ्यां भिन्नमेव ज्ञेयकुक्षिनिक्षिप्तत्वात् मिथ्याभूतमङ्गीकुर्मः। स च संयोगादिवदतिरिक्तो वा स्वरूपं वा पराङ्गीकृतपदार्थान्तर्गतो वा तदतिरिक्तो वेत्यस्यां काकदन्तपरीक्षायां न नो निर्बन्धः।नच मिथ्यात्वसिद्धेः प्राक् तदसिद्ध्या अन्योन्याश्रयः, दृग्दृश्यसम्बन्धानुपपत्त्या ज्ञेयमात्रस्याध्यासिकत्वे सिद्धे तन्मध्यपतितस्य प्रतियोग्यभावादिसम्बन्धस्यापि मिथ्यात्वं, न तु प्रतियोग्यभावादिसम्बन्धमिथ्यात्वसिद्ध्यनन्तरं दृश्यमिथ्यात्वसिद्धिरिति व्यवहारोपयुक्तसम्बन्धसामान्यस्याप्रतिक्षेपात् न स्ववचनादिविरोधः। तदुक्तं खण्डनकृद्भिः-

 

बाधेऽदृढेऽन्यसाम्यात् किं ? दृढे तदपि बाध्यताम्।

क्व ममत्वं मुमुक्षूणामनिर्वचनवादिनाम् '।।इति।

 

नचादृढत्वं बाधस्य व्यापकानुपलब्धिरूपतर्कस्योक्तत्वात्, स्वक्रियादि विरोधरूपप्रतिकूलतर्कस्य परिहृतत्वाच्च। अत एव न जातिवादिसाम्यम्, तेन हि नियमसापेक्षानित्यत्वसाधककृतकत्वादौ नियमानपेक्षेण दर्शनमात्रेण रूपवत्त्वादिकमापाद्यते, न त्वस्माभिस्तथा नियमनिरपेक्षेण साहचर्यमात्रेण किञ्चिदापाद्यते।नचैवं ज्ञानज्ञेययोरपि प्रतियोग्यभावादिसमकक्ष्य एव सम्बन्धोऽस्त्विति वाच्यम्, परस्पराध्यासात्मकसम्बन्धासम्भवेनैव सम्बन्धान्तरकल्पनात्, तत्सम्भवे तस्यैव सम्बन्धत्वात्।नच अज्ञानविषयस्य ब्रह्मणो विषयिण्यज्ञानेऽनध्यासेन विषयस्य विषयिण्यध्यासनियमो न सिद्ध इति वाच्यम्, एवं नियमानभ्युपगमात्, किं तु ज्ञानाज्ञानयोरध्यास एव विषयेण सम्बन्धः। स च ज्ञाने ज्ञेयस्याज्ञेये चाज्ञानस्याध्यासाद् उपपद्यते। अत एवाध्यासिकसम्बन्धव्यतिरेकप्रदर्शने अज्ञानस्याज्ञेयेनेत्यनुदाहरणम्।

 

            ननु - श्रवणादीनां चरमसाक्षात्कारान्तानां स्वविषयेण ब्रह्मणा सम्बन्धानुपपत्तिः, न हि श्रवणादौ साक्षात्कारे वा ब्रह्माध्यस्तमिति चेन्न, साश्रात्कारो हि वृत्तिर्वा ? तदभिव्यक्तचैतन्यं बा ? आद्ये तस्याः ब्रह्मण्यध्यस्यत्वेनाज्ञानाज्ञेययोरिव सम्बन्धोपपत्तेः। अत एव श्रवणादिनापि मानसक्रियारूपेण न सम्बन्धानुपपत्तिः, द्वितीये तु अभेदेन तत्सम्बन्धानुपयोगात् तत्सम्बन्धानुपपत्तिर्न दोषाय। अत एव चरमसाक्षात्कारस्य ब्रह्मण्यध्यस्तत्वाद् यदि तद्विषयत्वं, तदा घटसाक्षात्कारस्यापि ब्रह्मण्यध्यस्तत्वात् तद्विषयत्वापत्तिरिति निरस्तम्, घटसाक्षात्कारस्य घटाभिव्यक्तचैतन्यरूपत्वे

 वृत्तिरूपत्वे तस्याः ब्रह्मण्यध्यासेऽपि नाधिष्ठानभूतस्य ब्रह्मणो विषयत्वम्, ब्रह्मविषयताप्रयोजकस्याध्यासविशेषस्य तत्राभावात्, तस्य च फलबलकल्प्यत्वात्, न हि चरमवृत्तौ ब्रह्माकारतावदत्राऽपि साऽनुभूयते, इच्छेष्यमाणयोस्तु ज्ञानद्वारक एव सम्बन्ध इति न पृथक्सम्बन्धापेक्षा।नच ज्ञाने सन्निकर्षाधीनस्येव स्मृतावनुभवाधीनस्येवेच्छायां ज्ञानाधीनस्य विषयसम्बन्धस्यानुभवात् सन्निकर्षादिभ्यो भिन्न इव ज्ञानाद् भिन्न एव सम्बन्धो वक्तव्य इति वाच्यम्, सम्बन्धानुभवस्य ज्ञानद्वारकसम्बन्धेनाप्युपपत्तेरतिरिक्तसम्बन्धकल्पने मानाभावात्, ज्ञानाधीनसम्बन्धान्तरस्याननुभवात्। ज्ञाने त्विन्द्रियसन्निकर्षादिना न सम्बन्धानुभवोपपत्तिः, इन्द्रियसन्निकर्षादीनामतीन्द्रियत्वेन तेषामनुमित्यादिनोपस्थितिं विनैव घटज्ञानमित्यादि सम्बन्धानुभवात्। स्मृतौ तु अनुभवाधीनसम्बन्धस्य शङ्कैव नास्ति, अनुभवस्य तदानीमसत्त्वाद्, उभयोरपि ज्ञानत्वेन तुल्यवदेव सम्बन्धसम्भवाच्च।नच समूहालम्बनजन्यैकविषयेच्छायामुभय विषयत्वापत्तिः, जनकज्ञानस्योभयविषयत्वादिति वाच्यम्, अतिरिक्तसम्बन्धपक्षेऽपि तुल्यत्वात्। अथैकविषयावच्छेदेनैव ज्ञानस्य जनकत्वात् नोभयविषयत्वं, समं ममाऽपि, जनकज्ञाने जनकतावच्छेदकविषयत्वस्यैव सम्बन्धत्वात्।नच नित्येश्वरेच्छाया विषयत्वसम्बन्धानुपपत्तिः, तस्या अस्माभिरनङ्गीकारात्, तार्किकाणामपि तत्साधकमानबलेन विलक्षणसम्बन्धकल्पनेऽपि जन्यज्ञानजन्येच्छयोरुक्तप्रकारेणैव विषयताभ्युपगमात्।नच - पुत्रादिधीजन्यसुखादेः पुत्रादि विषयत्वापत्तिःष इच्छान्यायादिति वाच्यम्, वैषम्यात्। ज्ञानस्य समानत्वेऽपि इच्छादावेव सविषयत्वप्रतीतिः, न तु सुखादौ। वस्तुस्वाभाव्यात् त्वयाप्यस्यैवार्थस्य वक्तव्यत्वात्। अन्यथा स्फटिके जपाकुसुमसन्निधानाल्लौहित्यवल्लोष्ठेऽप्यापद्येत।

 

            अथ धर्मे तात्पर्यस्यानघ्यासात्तात्पर्यसम्बन्धो न स्यात्, न। तात्पर्यं हि तत्प्रतीत्युद्‌देश्यकत्वम्, प्रतीतेश्च ज्ञेयान्तरेणेव धर्मेणाऽपि सम्बन्धोऽध्यस्य एव, प्रतीतिद्वारा च धर्मतात्पर्ययोः सम्बन्ध इत्यनुपपत्त्यभावात्।नच - ज्ञानस्य प्रकाशत्वेन प्रदीपसाम्येऽपि आन्तरत्वेन तद्वैलक्षण्यमङ्गीकर्तव्यम्, अत इच्छादिवद्विप्रकृष्टेनापि सम्बन्धःस्याद्, अन्यथा प्रदीपवदेवाध्यासिकसम्बन्धोऽपि न स्यात्, परोक्षवृत्तौ विप्रकृष्टसम्बन्धदर्शनाच्चेति वाच्यम्, देशकालविप्रकर्षाभावस्य सम्बन्धसामान्यप्रयोजकत्वे सम्भवत्यान्तरप्रतियोगिकसम्बन्धभिन्नसम्बन्ध एवास्य प्रयोजकत्वमिति कल्पनाबीजाभावात्। इच्छायास्तु नेष्यमाणेन साक्षात्सम्बन्धः, किं तु ज्ञानद्वारकः परम्परासम्बन्ध एवेत्युक्तम्। परोक्षस्थले तु यद्यप्यधिष्ठानचैतन्येन साक्षादेव सम्बन्धः, तथापि विषयाकारवृत्त्या साक्षात्सम्बन्धाभावाद् वृत्त्यवच्छिन्नचैतन्येन विषयस्य परम्परासम्बन्ध एव। ननु - तवापि मते ज्ञेयस्य न स्वज्ञानेऽध्यस्तत्वनियमः, अनध्यस्तस्य तुच्छस्य प़ञ्चमप्रकारत्वपक्षे अविद्यानिवृत्तेर्भावाद्वैतपक्षे अभावस्य चाऽदृग्रूपत्वेऽपि स्वज्ञानेऽनध्यासाद्, अपरोक्षैकरसे न्रह्यण्यध्यस्तस्य व्यावहारिकस्यातीतादेर्नित्यातीन्द्रियस्य च परोक्षानुभवरूपे स्वज्ञानेऽनध्यासात्, स्मर्यमाणस्य च स्मृतिरूपे स्वज्ञानेऽध्यासात्, प्रातिभासिकस्य च प्रातिभासिके स्वज्ञानेऽनध्यासात्, त्वन्मते भ्रमरूपज्ञानस्यापि कल्पितत्वादिति चेत्, मैवम्, तुच्छस्याज्ञेयत्वेन ज्ञाने अध्यासाभावाद्, ज्ञेयस्य हि ज्ञानेऽध्यासः, तुच्छस्य तु न ज्ञेयतेत्यग्रे वक्ष्यते। पञ्चमप्रकाराविद्यानिवृत्तेरपि प्रतियोग्यधिकरणे ध्वंसस्यापि तत्र वृत्तेरवश्यम्भावाद् अध्यास एव सम्बन्धः। वस्तुतस्त्वविद्यानिवृत्तेः पञ्चमप्रकारत्वं च भावाद्वैतं चानभ्युपगमपराहतम्। यथा चाविद्यानिवृत्तेर्ब्रह्मरूपत्वं सर्वाद्वैतं च तथोपरिष्टाद्वक्ष्यते। अपरोक्षैकरसे ब्रह्मण्यध्यस्तस्यातीतादेरनुमित्यादिरूपज्ञाने अनध्यासेऽपि यस्मिंश्चैतन्ये तदध्यस्तं तदेव चैतन्यमनुमित्यादिरूपवृत्त्यवच्छिन्नमिति नाध्यासानुपपत्तिः। अतिप्रसङ्गपरिहारार्थं चैतन्यस्य विषयसम्बन्धे वृत्त्युपरागापेक्षायामपि नाधिष्ठानत्वेन तदपेक्षा। एवमेव नित्यपरोक्षस्थले स्मृतिस्थलेऽपि प्रातिभासिकस्य प्रातिभासिक्यां वृत्तावनध्यासेऽप्यधिष्ठानविषयकवृत्त्यभिव्यक्तचैतन्य एवाध्यास इति न काप्यनुपपत्तिः।

 

            नच - रूप्यादिकमिदमंशावच्छिन्नचैतन्येऽध्यस्तम्, भासते न अविद्यावृत्तिप्रतिबिम्बित चैतन्येनेति विषयिणि ज्ञाने विषयस्याध्यासः कथमिति-वाच्यम्; एकावच्छिन्न एवापरावच्छेदेन निरपेक्षोपाधेरिवात्र भेदकत्वाभावात्। अत एव अभियुक्तैः फलैक्यादैक्यं ज्ञानस्योच्यते।नच - रूप्यादेः स्वज्ञानेऽध्यस्तत्वे रूप्यज्ञानस्याज्ञाने भ्रमोत्पत्तिस्तञ्ज्ञानेन तन्निवृत्तिरिति च स्याद्, अधिष्ठानाज्ञानज्ञानाभ्यामध्यासस्य जन्मनिवृत्त्योर्नियतत्वाद्, ज्ञानं रजतमिति प्रतीतिप्रसङ्गाच्चेति वाच्यम्; रजताकारवृत्त्यवच्छिन्नचैतन्यस्य रजतभ्रमाधिष्ठानत्वानभ्युपगमाद्, इदमंशावच्छिन्नचैतन्यमेव तु रजतभ्रमाधिष्ठानम्। तच्च दैवाद्रजताकारवृत्त्यवच्छिन्नचैतन्यमपि, नैतावता भ्रमाधिष्ठानत्वे तदपेक्षा। तस्य च भ्रमविरोधिशुक्तित्वाद्याकारेणाज्ञानं भ्रमकारणम्। तेनाकारेण च ज्ञानं भ्रमनिवर्तकम्। अत एव न ज्ञानं रजतमिति भ्रमाकारापत्तिः, वृत्त्यवच्छिन्नस्यैव ज्ञानत्वात्तस्य चाधिष्ठानत्वाभावात्। अधिष्ठानतादात्म्येनचारोप्यप्रतीतिरिति इदं रजतमित्येव भ्रमाकारः।

 

            ननु - घटादेः स्वसन्निकृष्टेन्द्रियजन्यस्वज्ञानात् पूर्वं सत्त्वेन तत्राध्यासो न युक्तः।नच या घटेन्द्रियसन्निकर्षजा वृत्तिस्तया घटो न प्रकाश्यः, येनच प्रकाश्यो घटाधिष्ठानचैतन्येन न तत्सन्निकर्षजनमिति वाच्यम्, वृत्त्यतिरिक्तज्ञाने मानाभावात्। अज्ञाननिवृत्तेरपि तत एव भावादिति चेन्न, वृत्त्युदयात् प्रागज्ञातार्थसिद्ध्यर्थं वृत्त्यतिरिक्तज्ञानस्यावश्यमभ्युपेयत्वात्। अन्यथा तस्य साधकाभावेन शशश्रृङ्गतुल्यतया सन्निकर्षतज्जन्यज्ञानहेतुत्वेन प्राक् सत्त्वकल्पना निष्प्रामाणिकी स्यात्। तस्माद्यादृशस्य घटादेरिन्द्रियसन्निकर्षाश्रयत्वेन ज्ञानकारणत्वम्, तादृशस्य साधकं किञ्चिन्मानमवश्यमभ्युपेयम्, अन्यथाऽन्वयव्यतिरेकयोरग्रहेण कार्यकारणभावाग्रहात् सर्वमानमेयादिव्यवस्थोच्छिद्येत। तच्च मानं न वृत्तिरूपम्। तदानीं वृत्तिकारणाप्रवृत्तेरिति तद्विलक्षणं नित्यं स्वप्रकाशमेकमेव लाघवाद्, वृत्तिगतोत्पत्तिविनाशजडत्वादिभिस्तदसंस्पर्शात्। तदेव च नानाविधोपाधि सम्बन्धान्नानाविधव्यवहारभाग् भवति नभ इव घटमणिकमल्लिकाद्युपाधिभेदेन; तच्चाज्ञानसाधकत्वात्स्वरूपतो नाज्ञाननिवर्तकं, वृत्त्युपरक्तं त्वज्ञाननिवर्तकमिति न वृत्तेरनुपयोगः। तथा च सर्वाज्ञानसाधके साक्षिचैतन्ये तस्मिन् घटादेरध्यास इति न काऽप्यनुपपत्तिः ? तदुक्तं सुरेश्वराचार्यैः-

 

सर्वतीर्थदृशां सिद्धिः स्वाभिप्रेतस्य वस्तुनः।

यदभ्युपगमादेव तत्सिद्धिर्वार्यते कुतः।।इति।

सर्वतीर्थदृशां तावत्सामान्यं मानलक्षणम्।

अज्ञातार्थावगमनं त्वदुक्ते तन्न युज्यते।।

स्वतः सिद्धोऽथवासिद्धो देहादिस्ते भवन् भवेत्।

प्रमाणानां प्रमाणत्वं नोभयत्रापि लभ्यते।

प्रमाणान्यन्तरेणापि देहादिश्चेत् प्रसिध्यति।

वद प्रमाणैः कोन्वर्थो न हि सिद्धस्य साधनम्।।

स्वतोऽसिद्धेऽप्रमेये तु नासतो व्यञ्जिका प्रमा।

नाभिव्यनक्ति सविता शशश्रृङ्गं स्फुरन्नपि।।इति।

नच `घटोऽयमित्यसावुक्तिराभासस्य प्रसादतः।

विज्ञातो घट इत्युक्तिर्ब्रह्मानुभवतो भवेत्।।'

 

            इति वदता वृत्तिप्रतिबिम्बितस्य घटानधिष्ठानचैतन्यस्य घटानुभवत्वोक्तिविरोध इति वाच्यम्। वृत्तिप्रतिबिम्बितचैतन्यस्य घटाधिष्ठानचैतन्येन सह भेदाभावात्, चैतन्यस्यैकत्वात्। यथा चैकस्यैव चैतन्यस्य सर्वभावकत्वं तथा विस्तरेणोपपादितं `नाभाव उपलब्धेरित्यस्मिन्नधिकरणे' भाष्यकृद्भिः।

 

            ननु - दृश्यत्वान्यथानुपपत्त्या मिथ्यात्वमित्यर्थापत्तिर्विवक्षिता ? किं वा सत्यत्वे दृश्यत्वं न स्यादित्यनुकूलतर्कमात्रम् ? नाद्यः, तत्सामग्र्यभावात्। तथा हि- आक्षेप्यस्योपपादकत्वम्, प्रमाणाविरुद्धत्वम्, आक्षेपकस्यानुपपद्यमानत्वं, प्रमितत्वं चेत्यर्थापत्तिसामग्री। प्रकृते चाक्षेप्यं सम्बन्धिनो मिथ्यात्वं मिथ्यात्वं नाक्षेपकस्य सम्बन्धस्योपपादकम्, प्रत्युत प्रतिकूलमेव।नचाध्यस्तत्वरूपसम्बन्धस्य न तत्प्रतिकूलत्वम्, तस्याद्याप्यसिद्धेरनाक्षेपकत्वात्। प्रत्यक्षादिविरुद्धं चेदमाक्षेप्यम्। नाप्येकस्य दृश्यत्वस्योपपत्तये प्रमितानेकस्य त्यागो युक्तः। आक्षेपकं च न दृगध्यस्तत्वम्, तस्यैव फलत आक्षेप्यत्वात्। नापि दृग्विषयत्वरूपो दृग्सम्बन्ध, तवासिद्धेः। न दृगधीनसिद्धिकत्वम्, दृग्विषयत्वातिरिक्तस्य तस्यासिद्धेः। नान्त्यः, सत्त्वेऽप्युक्तरीत्या सम्बन्धान्तरेणैव दृश्यत्वस्योपपन्नतया अनुपपत्तेरेवाभावादिति चेन्न, अनुकूलतर्कस्यैव प्रक्रान्तत्वेनार्थापत्तिर्वेत्यादिविकल्पानवकाशाद्, उभयथाप्यदोषाच्च। तथा हि- सत्यत्वे दृग्दृश्यसम्बन्धानुपपत्तिः। मिथ्यात्वं च तदुपपादकम्।नच तत्सम्बन्धप्रतिकूलम्, मिथ्यात्वेऽपि शुक्तिरूप्यस्येदमंशेऽध्यस्तत्वरूपसम्बन्धदर्शनेन सम्बन्धसामान्ये प्रतिकूलत्वाभावात्। आक्षेपकोऽपि दृग्विषयत्वरूपो दृक्सम्बन्ध एव अघ्यासरूपस्य दृग्विषयत्वस्य ममाऽपि सम्प्रतिपत्तेः तात्त्विकस्यैव तस्य निषेधात्।नचाध्यस्तत्वस्याद्याप्यसिद्धिः दृक्सम्बन्धसामान्यस्याक्षेपकस्य प्रसक्तविशेष निषेधेऽप्यध्यस्तत्वरूपविशेषपर्यवसानेनासिद्ध्यभावात्। न हि अध्यस्तसम्बन्धत्वेनाक्षेपकता किं तु सम्बन्धत्वेन। स चाध्यस्तत्वसम्बन्धसम्भावनयाप्यबाधित एवेति।नच- घटस्य ज्ञानमिति धीसिद्धसम्बन्धसामान्यस्याध्यस्तत्वं न विशेषः, न हि रूप्यस्य शुक्तिरिति प्रतीतिरस्तीति वाच्यम्, रूप्यस्य शुक्तिरिति प्रतीत्यभावेऽपि रूप्यस्य शुक्तिरधिष्ठानिमिति प्रतीत्या अध्यस्तत्वस्य सम्बन्धविशेषत्वसिद्धेः, चैत्रस्य मैत्र इति प्रतीत्यभावेऽपि चैत्रस्य पिता मैत्र इति प्रतीतिवत्। आक्षेप्यमप्यत्र प्रमाणाविरुद्धमेव, अध्यक्षादिविरोधस्य प्रागेव परिहृतत्वात्। आक्षेपके च प्रमितत्वमनपेक्षितमेव, अप्रमितेनापि प्रतिबिम्बेन बिम्बाक्षेपदर्शनात्। तर्कपरतायामपि नाप्रयोजनकता, सत्यत्वे सम्बन्धानुपपत्तेर्भवदुक्तन्यायखण्डनेन प्रथमत एवोपपादितत्वात्। दृश्यत्वाभावस्यापादकमत्र सत्त्वमनिर्वाच्यत्वाभावे वा, त्रिकालाबाध्यत्वं वा, उभयथाऽपि न दोषः।नचानिर्वाच्यत्वाभावस्य तुच्छे परोक्षधीवेद्यतया दृश्येऽपि सत्त्वेन व्यभिचारः, कारणासामर्थ्येन तत्र तदाकारवृत्तिसमुल्लासेऽपि दृक्सम्बन्धरूपस्य दृश्यत्वस्य तुच्छत्वविरोधिनस्तत्राभावात्,तुच्छाकारताया वृत्तिगतत्वेऽपि वृत्तिसम्बन्धस्य तुच्छगतत्वाभावोपपत्तेः। नापि - यथा सतो ब्रह्मणः स्वव्यवहृत्या सम्बन्धः, तथा घटादेरपि सत एव स्वज्ञानेन सम्बन्धोऽस्त्विति वाच्यम्, दृष्टान्ते ब्रह्मण्यध्यासस्यैव व्यवहृतिसम्बन्धत्वात्। तथा च उभयसम्बन्धिसत्त्वे विषयविषयिभावानुपपत्तिः नाप्रयोजकत्वादिना परिभूयते।

 

            एतेन-अध्यासिकः सम्बन्धो नाम अध्यस्तसम्बन्धो वा ? अध्यस्तत्वमेव वा ? आद्ये सम्बन्धस्य मिथ्यात्वेऽपि सम्बन्धिनो दृश्यस्य दृश इव मिथ्यात्वानुपपत्तिः, द्वितीये ज्ञानस्याप्यध्यस्तत्वेन तत्र अध्यासानुपपत्तिः स्वस्वज्ञानपरम्परायामध्यासस्वीकारे अनवस्था चेति निरस्तम्, ज्ञानं हि वृत्त्यवच्छिन्नं चैतन्यम्, तत्रावच्छेदिकाया वृत्तेर्जडाया अध्यस्तत्वेऽप्यवच्छेद्यस्य चैतन्यस्य प्रकाशरूपस्य अनध्यस्तत्वेन तत्र दृश्यस्याध्यासाद् दृश्यमिथ्यात्वेऽप्यनवस्थाविरहस्योपपत्तेः। अत एव -शाब्दवृत्तिविषयो ब्रह्म न वृत्तौ कल्पितमविद्याविषयो ब्रह्माविद्यायां न कल्पितं यथा तथा दृश्यं न दृशिकल्पितम्, तथा च दृग्दृश्यादेस्तात्त्विक एव सम्बन्धः, सामान्यसम्बन्धेनैवातिप्रसङ्गे निरस्ते विशेषजिज्ञासा विशेषोक्तिश्च विशेषजिज्ञासादिवदनर्थिकैवेति निरस्तम्, वृत्त्यविद्ययोः ब्रह्मणोऽनध्यासेऽपि तयोरेव ब्रह्मण्यध्यासात् सम्बन्धोपपत्तेः, अतस्तत्र तात्त्विकसम्बन्धाभावात्, कथं तद्‌दृष्टान्तेन दृग्दृश्ययोरपि तात्त्विकसम्बन्ध इत्युच्यते ? तथा च प्रसिद्धविशेषे बाधिते सामान्यस्यैव बाधशङ्कया अतिप्रसङ्गे प्राप्ते विशेषजिज्ञासाया विशेषोक्तेश्च साफल्यात्, न ते निरर्थिके। एतेन सम्बन्धस्य प्रामाणिकत्वे यथाकथ़ञ्चन लक्षणं भविष्यति। तथा हि- संयोगसमवायान्तर्भावे तल्लक्षणमेव लक्षणं भविष्यति, तदनन्तर्भावे तु तदुभयभिन्नसम्बन्धत्वमेव लक्षणमस्त्विति निरस्तम्, उक्तयुक्त्या प्रामाणिकसम्बन्धस्य संयोगसमवायान्तर्भावस्य च दूषितत्वात्। तदुभयबहिर्भूतसम्बन्धत्वं तु वयमपि न निरकुर्मः, किं तु तस्य प्रामाणिकत्वम्। किं च दृक्दृश्ययोः न तात्त्विकसम्बन्धः, सम्बन्धिभिन्नत्वे अनवस्थानात्।नच दृश्यत्वान्तरहीनस्य दृश्यत्वादेरिव सम्बन्धस्यापि स्वनिर्वाहकत्वं क्वचिद् भविष्यतीति वाच्यम्, दृश्यत्वमपि दृक्सम्बन्ध एव। तस्य च स्वनिर्वाहकत्वं न मायिकत्वं विनेति नास्माकं प्रतिकूलमभ्यधायि देवानां प्रियेण, अभिन्नत्वे सम्बन्धत्वायोगात्।नचैवमाध्यासिकसम्बन्धत्वेऽप्येतद्दोषप्रसङ्गः, तस्य मायिकत्वेन मायायाश्चाघटितघटनापटीयस्त्वेन सर्वानुपपत्तेर्भूषणत्वात्।नच -अतिप्रसङ्गनिराकरणार्थं दृग्दृश्ययोः सम्बन्धनिर्वचनं प्रकृतम्, न तु विषयत्वनिर्वचनम्, अतो विषयत्वखण्डनमनुक्तोपालम्भनमिति वाच्यम्; विषयत्वखण्डनेन निरुच्यमानप्रकृतसम्बन्धस्यैव खण्डनात्।नच - विषयित्वानिरुक्तावपि विषयिणः सत्यत्ववद् विषयत्वानिरुक्तावपि विषयः सत्यः स्यादिति वाच्यम्, विषयित्वानिरुक्तावपि विषयाध्यासेनैव तदुपपत्त्या विषयिणः सत्यत्वं युक्तम्, विषयत्वानिरुक्तौ तु विषयस्य सत्यत्वं न युक्तम्, विषयिणोऽनध्यस्तत्वेन विषयाध्यासमन्तरेणान्य स्योपपादकस्याभावत्। यत्र तु विषयिण एवाध्यासः, तत्र विषयः सत्य एव, यथाज्ञानविषयो ब्रह्म।नचोभयाध्यासः,शून्यवादप्रसङ्गात्। अन्यतराध्यासे च विनिगमकमनुवृत्तत्व व्यावृत्तत्वप्रकाशत्वजडत्वादिकमेव। तस्माद्विषयिणो नित्यदृशोऽनध्यासाद् विषयस्यै वात्राध्यासः।नच -`प्रमाणज्ञानं स्वविषयावरणे' त्याद्युक्त्वा दृग्विषयत्वरूपदृश्यत्वस्य हेतूकरणेनच त्वयाऽपि विषयत्वं विर्वाच्यमेवेति वाच्यम् तत्त्वतोऽनिर्वाच्यत्वेऽपिऽप्यध्यस्तत्वेन घटादिसमकक्षनिर्दाच्यत्वस्य सम्भवात्।

 

            ननु - कथं प्रमाणज्ञानविषयोऽध्यस्त इति - चेत् (न), प्रपञ्चविषयकज्ञाने तत्त्वावेदकत्वलक्षणप्रामाण्याभावादिति गृहाण। अत एव-

 

यादृशं विषयत्वं ते वृत्तिं प्रति चिदात्मनः।

तादृशं विषयत्वं मे दृश्यस्यापि दृशं प्रतीति

 

निरस्तम्, चिदात्मनोऽनध्यासेऽपि वृत्तेस्तत्राध्यस्तत्वेन तद्‌दृष्टान्तेन प्रकृतेऽनध्यासस्य वक्तुमशक्यत्वात्।

 

            स्यादेतत् - मित्यात्वं निर्वचता तत्साधनं दृश्यत्वादिकं निर्वक्तव्यमेव, न हि घटपटाद्यसङ्कीर्णाकारज्ञानं विना तद्विलक्षणव्यवहारः, अथानिरुक्तासङ्कीर्णाकारज्ञानमात्रेण तदुपपत्तिः तर्हि तुल्यं ममाऽपि। इयांस्तु विशेषः, यत्त्व स आकारः सद्विलक्षणः, मम तु त्वन्मतसिद्धप्रातिभासिकवैलक्षण्यसाधकमानसिद्धसत्ताकः, न हि लक्षणोक्त्यनुक्तिभ्यां सदसद्वैलक्षण्यरूपानिर्वचनीयत्वहानिलाभौ, ब्रह्मण्यपि श्रौतस्यापि जगत्कारणत्वादिलक्षणस्य कारणत्वखण्डनरीत्या असम्भवात्, त्वयैव-

 

`कीदृक्तत्प्रत्यगिति चेत्तादृगीदृगिति द्वयम्।

यत्र न प्रसरत्येतत्प्रत्यगित्यवधारये' ति

 

ब्रह्मणोऽपि दुर्निरूपत्वोक्तेश्च, प्रपञ्चेऽपि त्वदुक्तानिर्वाच्यत्वसमकक्षलक्षणसम्भवाच्च, `यत्कठिनं सापृथिवी' त्यादिश्रुत्या पृथिव्यादीनामपि लक्षणत्वोक्तेश्च। तस्मादनिर्वाच्यत्वं न सत्त्वविरोधि। सत्त्वेऽप्यद्भुतत्वादेवानिर्वाच्यत्वोपपत्तेः।नच निर्वाच्यत्वमपि सत्त्वप्रयोजकम्, न हि शुक्तिरूप्यस्यापीतरभेदसाधकं रूप्यत्वं प्रातीतिकजातिरूपतया सुवचमपि सत्यम्। किं च ब्रह्मण आनन्दत्वज्ञानत्वसत्यत्वस्वप्रकाशत्वादि खण्डनोक्तरीत्या दुर्वचमिति ब्रह्मतत्वतोऽनानन्दाद्यात्मकं स्यात्। तस्मादिक्षुक्षीरादिमाधुर्यवदनि र्वाच्यमपि विषयत्वं सदेवेति। अत्रोच्यते- दृश्यत्वादेरनिर्वचनीयत्वं किं सत्त्वेन, उत स्वरूपेण। नाद्यः, सत्त्वेनानिर्वचनीयत्वेऽपि तत्तदाभासलक्षणानालिङ्गितत्वमात्रेण हेतुत्वोपपत्तेः तन्निर्वचनानपेक्षणात्। न द्वितीयः तात्त्विकातात्त्विकसाधारणेन दृक्सम्बन्धित्वादिना रूपेण दृग्विषयत्वस्य निर्वक्तुं शक्यत्वात्। लक्षणोक्त्यनुक्त्योर्न सदसद्वैलक्षण्यरूपा निर्वाच्यत्वहानिलाभकरत्वमिति यदवोचः, तदपि न, पूर्वोक्तव्यापकानुपलब्धिसहिताया लक्षणानिरुक्तेः उक्तरूपानिर्वचनीयत्वप्रयोजकत्वात्।

 

            यत्त्वानन्दत्वादिना धर्मेण कीदृगित्यादिना स्वरूपेण च दुर्निरूपत्वाद् ब्रह्मणोऽप्यनिर्वचनीयत्वप्रसङ्ग इति, तन्न, आनन्दत्वादिधर्मवत्तया दुर्निरूपत्वेऽपि दुःखप्रत्यनीकत्वाद्युपलक्षितस्वरूपस्य सत्त्वेन निर्वक्तुं शक्यत्वात्।नचैवं प्रपञ्चे सत्त्वं शक्यनिर्वचनम्, बाधकसद्भावात्। अत एव- कठिनस्पर्शवत्त्वादिना पृथिवीत्वादीनां निर्वचनमस्त्येव, सत्त्वेऽप्यद्भुतत्वादिनानिर्वाच्यत्वोपपत्तिरिति निरस्तम्, न हि निरुक्तिविरहमात्रेणानिर्वाच्यत्वं ब्रूमः, किन्तु सत्त्वादिना निरुक्तिविरहेण। स च प्रपञ्चे बाधकादस्त्येव।नच - ज्ञाने विषयस्याध्यस्तत्वेन तदज्ञानजन्यं तज्ज्ञाननिवर्त्यं चाध्यासं प्रति विषयत्वं तदनुविद्धतया प्रतीत्यभावश्च न सम्भवातीति वाच्यम्, चैतन्यमात्राज्ञानजन्यत्वात्, तज्ज्ञाननिवर्त्यत्वाच्च घटादिप्रपञ्चस्येत्युक्तत्वात्। सदिति प्रतीयमानाधिष्ठानचैतन्यानुविद्धतया प्रतीयमानत्वमप्यस्त्येव। तस्मात्सत्त्वे दृग्दृश्यसम्बन्धानुपपत्तिर्दृढैव।। इत्यद्वैतसिद्धौ प्रपञ्चमिथ्यात्वानुकूलतर्कनिरूपणम्।।

 

इति श्रीमधूसूदन सरस्वतीविरचितायां अद्वैतसिद्धौ प्रथमपरिच्छेदे प्रथमो भागः                        

[ 1-1-33]