अथ चतुर्थोेऽङ्क:।
(तत: प्रविशति वानरकाञ्चुकीय:।)
काञ्चुकीय: - भो भो बलाध्यक्ष ! सन्नाहमाज्ञापय वानरवाहिनीम् ।
(प्रविश्य)23
बलाध्यक्ष: - आर्य! किंकृतोऽयं समुद्योग:।
काञ्चुकीय: - तत्रभवता हनूमतानीत: खल्वार्यरामस्य देव्या: सीताया वृत्तान्त:।
बलाध्यक्ष: - किमिति किमिति।
काञ्चुकीय: - श्रूयतां,
लङ्कायां किल वर्तते नृपसुता शोकाभिभूता भृशं
पौलस्त्येन विहारय धर्मसमयं संक्लेश्यमाना तत: ।
श्रुत्वैतद् भृशशोकतप्तमनसो रामस्य कार्यार्थिना
राज्ञा वानरवाहिनी प्रतिभया सन्नाहमाज्ञापिता ।। 9 ।।
बलाध्यक्ष: - एवम्। यदाज्ञापयति महाराज:।
काञ्चुकीय: - यावदहमपि सन्नद्धा वानरवाहिनीति महाराजाय निवेदयामि।
(निष्क्रान्तौ)
विष्कम्भक:।
(तत: प्रविशति रामो लक्ष्मण: सुग्रीवो हनूमांश्च।)
राम: - आक्रान्ता: पृथुसानुकुञ्जगहना मेघोपमा: पर्वता:
सिंहव्याघ्रगजेन्द्रपीतसलिला नद्यश्च तीर्णा मया ।
क्रान्तं पुष्पफलाढ्यपादपयुतं चित्रं महत् काननं
सम्प्राप्तोऽस्मि कपीन्द्रसैन्यसहितो वेलातटं साम्प्रतम् ।। 2 ।।
लक्ष्मण: - एष एष भगवान् वरुण:,
सजलजलधरेन्द्रनीलनीरो
विलुलितफेनतरङ्गचारुहार:।
समधिगतनदीसहस्रबाहु-
र्हरिरिव भाति सरित्पति: शयान:।। 3 ।।
राम: - कथं कथं भो:।
रिपुमुद्धर्तुमुद्यन्तं मामयं सक्तसायकम् ।
सजीवमद्य तं कर्तुं निवारयति सागर: ।। 4 ।।
सुग्रीव: - अये वियति
सजलजलदसन्निभप्रकाश:
कनकमयामलभूषणोज्ज्वलाङ्ग: ।
अभिपतति कुतो नु राक्षसोऽसौ
शलभ इवाशु हुताशनं प्रवेष्टुम् ।। 5 ।।
हनूमान् - भो भो वानरवीरा:! अप्रमत्ता भवन्तु भवन्त:।
शैलैद्र्रुमै: सम्प्रति मुष्टिबन्धैर्दन्तैर्नखैर्जानुभिरुग्रनादै:।
रक्षोवघार्थ युधि वानरेन्द्रास्तिष्ठन्तु रक्षन्तु च नो नरेन्द्रम् ।। 6 ।।24
राम: - राक्षस इति। हनूमान्! अलमलं सम्भ्रमेण।
हनूमान् - यदाज्ञापयति देव:।
(ततः प्रविशति विभीषणः)
बिभीषण: - भो:। प्राप्तोऽस्मि राघवस्य शिबिरसन्निवेशम्। (विचिन्त्य) अकृतदूतसम्प्रेषणमविदितागमनममित्रसम्बन्धिनं कथं नु खलु मामवगच्छेत्
तत्रभवान् राघव:। कुत:,
क्रुद्धस्य यस्य पुरत: सहितोऽप्यशक्त:
स्थातुं सुरै: सुररिपोर्युधि वज्रपाणि: ।
तस्यानुजं रघुपति: शरणागतं मां
किं वक्ष्यतीति हृदयं परिशङ्कितं मे ।। 7 ।।
अथवा, दृष्टधर्मार्थतत्त्वोऽयं साधु संश्रितवत्सल: ।
शङ्कनीय: कथं रामो विशुद्धमनसा मया ।। 8 ।।
(अधोऽवलोक्य) इदं रघुकुलवृषभस्य स्कन्धावारम्। यावदवतरामि। (अवतीर्य) हन्त इह स्थित्वा ममागमनं देवाय निवेदयामि।
हनूमान् - (ऊध्र्वमवलोक्य) अये कथं तत्रभवान् विभीषण:।
विभीषण: - अये हनूमान्। हनूमान्। ममागमनं देवाय निवेदय।
हनूमान् - बाढम्। (उपगम्य) जयतु जयतु देव:।
राजंस्त्वत्कारणादेव भ्रात्रा निर्विषयीकृत:।
विभीषणोऽयं धर्मात्मा शरणार्थमुपागत:।। 9 ।।
राम: - कथं विभीषण: शरणागत इति। वत्स लक्ष्मण! गच्छ, सत्कृत्य प्रवेश्यतां विभीषण:।
लक्ष्मण: - यदाज्ञापयत्यार्य:।
राम: - सुग्रीव! वक्तुकाममिव त्वां लक्षये।
सुग्रीव: - देव! बहुमायाश्छलयोधिनश्च राक्षसा:। तस्मात् सम्प्रधार्य प्रवेश्यतां विभीषण:।
हनूमान् - महाराज! मा मैवं,
देवे यथा वयं भक्तास्तथा मन्ये विभीषणम् ।
भात्रा विवदमानोऽपि दृष्ट: पुरे मया ।। 10 ।।
राम: - यद्येवं, गच्छ, सत्कृत्य प्रवेश्यतां विभीषण:।
लक्ष्मण: - यदाज्ञापयत्यार्य:। (परिक्रम्य) अये विभीषण:। विभीषण! अपि कुशली भवान्।
विभीषण: - अये कुमारो लक्ष्मण:। कुमार! अद्य कुशली संवृत्तोऽस्मि।
लक्ष्मण: - विभीषण! उपसर्पावस्तावदार्यम्।
विभीषण: - बाढम्।
(उपसर्पतः)
लक्ष्मण: - जयत्वार्य:।25
विभीषण: - प्रसीदतु देव:। जयतु देव:।
राम: - अये विभीषण:। विभीषण! अपि कुशली भवान्।
विभीषण: - देव! अद्य कुशली संवृत्तोऽस्मि।
भवन्तं पद्मपत्राक्षं शरण्यं शरणागत: ।
अद्यास्मि कुशली राजंस्त्वद्दर्शनविकल्मष: ।। 11 ।।
राम: - अद्यप्रभृति मद्वचनाल्लङ्केश्वरो भव।
विभीषण: - अनुगृहीतोऽस्मि।
राम: - विभीषण! त्वदागमनादेव सिद्धमस्मत्कार्यम्। सागरतरणे खलूपायो नाधिगम्यते।
विभीषण: - देव! किमत्रावगन्तव्यम्। यदि मार्गं न ददाति, समुद्रे दिव्यमस्त्रं तावद् विस्रष्टुमर्हति देव:।
राम: - साधुविभीषण! साधु। भवतु, एवं तावत् करिष्ये। (सहसोत्तिष्ठन् सरोषम्।)
मम शरपरिदग्धतोयपङ्कं
हतशतमत्स्यविकीर्णभूमिभागम् ।
यदि मम न ददाति मार्गमेनं
प्रतिहतवीचिरवं करोमि शीघ्रम् ।। 12 ।।
(तत: प्रविशति वरुण:।)
वरुण: - (ससम्भ्रमम्)
नारायणस्य नररूपमुपाश्रितस्य
कार्यार्थमभ्युपगतस्य कृतापराध: ।
देवस्य देवरिपुदेहहरात् प्रतूर्णं
भीत: शराच्छरणमेनमुपाश्रयामि ।। 13 ।।
(विलोक्य) अये अयं भगवान्,
मानुषं रूपमास्थाय चक्रशाङ्र्गगदाधर: ।
स्वयं कारणभूत: सन् कार्यार्थी समुपागत: ।। 14 ।।
नमो भगवते त्रैलोक्यकारणाय नारायणाय।
लक्ष्मण: - (विलोक्य) अये को नु खल्वेष:।
मणिविरचितमौलिश्चारुताम्रायताक्षो
नवकुवलयनीलो मत्तमातङ्गलील: ।
सलिलनिचयमध्यादुत्थितस्त्वेष शीघ्र-
मवनतमिव कुर्वंस्तेजसा जीवलोकम् ।। 15 ।।
विभीषण: - देव! अयं खलु भगवान् वरुण: प्राप्त:।
राम: - किं वरुणोऽयम्। भगवन्! वरुण! नमस्ते।
वरुण: - न मे नमस्कारं कर्तुमर्हति देवेश:। अथवा,
राजपुत्र! कुत: कोपो रोषें किमलं तव ।
कर्तव्यं तावदस्माभिर्वद शीघ्रं नरोत्तम ।। 16 ।।26
राम: - लङ्कागमने मार्गं दातुमर्हति भवान्।
वरुण: - एष मार्गः। प्रयातु भवान्। (अन्तर्हित:।)
राम: - कथमन्तर्हितो भगवान् वरुण:। विभीषण! पश्य पश्य भगवत्प्रसादान्निष्कम्पवीचिमन्तं सलिलाधिपतिम्।
विभीषण: - देव! साम्प्रतं द्विधाभूत इव दृश्यते जलनिधि:।
राम: - क्व हनूमान्।
हनूमान् - जयतु देव:।
राम: - हनूमान्! गच्छाग्रत:।
हनूमान् - यदाज्ञापयति देव:।
(सर्वे परिक्रमन्ति।)
राम: - (विलोक्य सविस्मयम्) वत्स लक्ष्मण! वयस्य विभीषण! महाराज सुग्रीव! सखे हनूमन्! पश्यन्तु पश्यन्तु भवन्त:। अहो विचित्रता
सागरस्य। इह हि,
क्वचित् फेनोद्गारी क्वचिदपि च मीनाकुलजल:
क्वचिच्छङ्खाकीर्ण: क्वचिदपि च नीलाम्बुदनिभ: ।
क्वचिद् वीचीमाल: क्वचिदपि च नक्रप्रतिभय:
क्वचिद् भीमावर्त: क्वचिदपि च निष्कम्पसलिल: ।। 17 ।।
भगवत्प्रसादादतीत: सागर:।
हनूमान् - देव! इयमियं लङ्का।
राम: - (चिरं विलोक्य) अहो राक्षसनगरस्य श्रीरचिराद् विपत्स्यते।
मम शरवरवातपातभग्ना
कपिवरसैन्यतरङ्गताडितान्ता ।
उदधिजलगतेव नौर्विपन्ना
निपतति रावणकर्णधारदोषात् ।। 18 ।।
सुग्रीव: ! अस्मिन् सुवेलपर्वते क्रियतां सेनानिवेश:। (उपविशन्ति)
सुग्रीव: - यदाज्ञापयति देव:। नील! एवं क्रियताम्।
(प्रविश्य)
नील: - यदाज्ञापयति महाराज:। (निष्क्रम्य प्रविश्य) जयतु देव:। क्रमान्निवेश्यमानासु सेनासु वृन्दपरिग्रहेषु परीक्ष्यमाणेषु पुस्तकप्रामाण्यात्
कुतश्चिदप्यविज्ञायमानौ द्वौ वनौकसौ गृहीतौ। वयं न जानीम: कर्तव्यम्। देवस्तस्मात् प्रमाणम्।
राम: - शीघ्रं प्रवेश्यत्वेतौ।
नील: - यदाज्ञापयति देव:। (निष्क्रान्त:)
(तत: प्रविशति नीलो वानरैर्गृह्यमाणौ वानररूपधारिणौ सम्पुटिकाहस्तौ शुकसारणौ च।)
वानरा: - अङ्घो भणथ। के तुम्हे भणथ। (अङ्घो भणतं कौ युवां भणतम्।)
उभौ - भट्ठा! अम्हे अय्यकुमुदस्स सेवआ। (भर्त:! आवामार्यकुमुदस्य सेवकौ।)27
वानरा: - भट्ठा! अय्यकुमुदस्य सेवअत्ति अत्ताण अवदिसन्ति (भर्त:! आर्यकुमुदस्य सेवकावित्यात्मानमपदिशत:।)
विभीषण: - (सावधानं शुकसारणौ विलोक्य)
स्वसैनिकौ न चाप्येतौ न चाप्येतौ वनौकसौ ।
प्रेषितौ रावणेनैतौ राक्षसौ शकसारणौ ।। 19 ।।
उभौ - (आत्मगतम्) हन्त कुमारेण विज्ञातौ स्व:। (प्रकाशम्) आर्य! आवां खलु राक्षसराजस्य विप्रतिपत्त्या विपद्यमानं राक्षसकुलं दृष्ट्वास्पदमलभमानौ
आर्यसंश्रयार्थं वानरूपेण सम्प्राप्तौ।
राम: - वयस्य! विभीषण! कथमिव भवान् मन्यते।
विभीषण: - देव!
एतौ हि राक्षसेन्द्रस्य सम्मतौ मन्त्रिणौ नृप! ।
प्राणान्तिकेऽपि व्यसने लङ्केशं नैव मुञ्चत: ।। 20 ।।
तस्माद् यथार्हं दण्डमाज्ञापयतु देव:।
राम: - विभीषण! मा मैवम्।
अनयो: शासनादेव न मे वृद्धिर्भविष्यति ।
क्षयो वा राक्षसेन्द्रस्य तस्मादेतौ विमोचय ।। 21 ।।
लक्ष्मण: - यदि विमुञ्चेत् सर्वस्कन्धावारं प्रविश्य परीक्ष्य पुनर्मोक्षमाज्ञापयत्वार्य:।
राम: - सम्यगभिहितं लक्ष्मणेन। नील! एवं क्रियताम्।
नील: - यदाज्ञापयति देव:।
राम: - अथवा एहि तावत्।
उभौ - इमौ स्व:।
राम: - अभिधीयतां मद्वचनात् स राक्षसेन्द्र:।
मम दारापहारेण स्वयङ्ग्राहितविग्रह: ।
आगतोऽहं न पश्यामि द्रष्टुकामो रणातिथि: ।। 22 ।।
इति।
उभौ - यदाज्ञापयति देव:। (निष्क्रान्तौ।)
राम: - विभीषण! वयमपि तावदानन्तरीयं बलं परीक्षिष्यामहे।
विभीषण: - यदाज्ञापयति देव:।
राम: - (परिक्रम्य विलोक्य) अये अस्तमितो भगवान् दिवाकर:। सम्प्रति हि,
अस्ताद्रिमस्तकगत: प्रतिसंहृतांशु: ।
सन्ध्यानुरञ्जितवपु: प्रतिभाति सूर्य: ।
रक्तोज्ज्वलांशुकवृते द्विरदस्य कुम्भे
जाम्बूनदेन रचित: पुलको यथैव ।। 23 ।।
(निष्क्रान्ता: सर्वे।)28
चतुर्थोऽङ्क:।