अलङ्कारमणिहारः (भागः ४)/अनुप्रासालङ्कारः (१२२)

               




   


अथ शब्दालंकारसरः (१२२)

इत्यर्थालंकृतयो यथामति निरूपिताः ।
निरूप्यन्तेऽथ दिङ्मात्रं शब्दालंकृतयः क्रमात् ॥

 यद्यपि प्रकाशकारादिभिरभ्यर्हितशब्दगत्वेनाभ्यर्हिता इति शब्दालंकारा अर्थालंकारेभ्यः पूर्वं निरूपिताः । काव्यानुशासनकारस्तु-- "अलंकाराः खलु द्विविधाः शब्दालंकारा अर्थालंकाराश्च, तत्रतावदर्थमधिकृत्य शब्दः प्रवर्तते, अतः प्रथममर्थालंकारा एवोदाह्रियन्ते" इत्याह । अतएव दण्डिप्रभृतिभिः अर्थालंकाराः प्रकर्षातिशयादादौ शब्दालंकारास्तु जघन्यतयाऽनन्तरं च निरूपिताः । अतएवास्माभिः काव्यानुशासनकृदादिमतावलम्बनेनार्थालंकारनिरूपणानन्तरमेव शब्दालंकारा निरूप्यन्ते ॥

 वर्णानुप्रासः--

 साम्यं व्यञ्जनमात्रस्य वर्णानुप्रास ईरितः ॥

 स्वरवैसादृश्येऽपि व्यञ्जनानां सादृश्यं यत् स वर्णानुप्रासः । व्यञ्जनसाम्यं यमकेऽप्यस्तीति तद्वारणाय मात्रपदम् । तेन स्वरव्यञ्जनसादृश्य एव यमकत्वस्य वक्ष्यमाणत्वान्न तत्रातिव्याप्तिः । स्वरव्यञ्जनसाम्यरूपलाटानुप्रासाव्याप्तिवारणाय वर्णपदं लक्ष्ये विशेषितम् । तथाच लाटानुप्रासस्य पदानुप्रासतया वर्णानुप्रासताविरहादलक्ष्यत्वेन न तत्राव्याप्तिर्दोषायेत्याहुः । रसाद्यनुगतः प्रकृष्टो न्यासोऽनुप्रासः । तदुक्तम्-- ‘प्रकृष्टो वर्णविन्यासो रसाद्यनुगतो हि यः । सोऽनुप्रासः' इति ॥

 द्विधा भवेदयं छेकवृत्त्यनुप्रासभेदतः ॥

 अयं वर्णानुप्रासश्च छेकानुप्रासो वृत्त्यनुप्रासश्चेति द्विविधः ।

छेकाः विदग्धाः तदभिमतोऽनुप्रासश्छेकानुप्रासः । वृत्तिर्नाम निय

तवर्णगतो रसविषयो व्यापारः रचनाविशेष इति यावत् । तदाश्रितोऽनुप्रास इत्याहुः ॥

 छेकानुप्रासः--

 छेकानुप्रासमाहुर्यत्साम्यं व्यञ्जनयोस्सकृत् ॥

यद्व्यञ्जनयोस्सकृत्साम्यं तं छेकानुप्रासमाहुः ॥

 यथावा--

 सन्ततमन्तःकरणं दिव्यं भव्यं भुजङ्गगिरिसङ्गि । धाम श्यामममेयं विन्दतु कन्दर्पदर्पहररूपम् ॥

 अत्र पूर्वार्धे नकारतकारयोः ङकारगकारयोः वकारयकारयोः उत्तरार्धे नकारदकारयोः रेफपकारयोश्च सकृत्साम्यम् ।

इदं च--

ततोऽरुणपरिस्पन्दमन्दीकृतवपुश्शशी ।
दध्रे कामपरिक्षामकामिनीगण्डपाण्डुताम् ॥

 इतिच्छेकानुप्रासस्योदाहरणदानेन व्यवधानसहिष्णुव्यञ्जनद्वयसकृत्साम्यस्य छेकानुप्रासतामभ्युपगच्छतां प्रकाशकारादीनां मतेन । विद्यानाथादीनां मते तु इदं लक्षणम्--

द्वयोर्द्वयोर्व्यञ्जनयोर्युग्मयोर्या निरन्तरा ।
आवृत्तिः क्रियते सोऽयं छेकानुप्रास ईर्यते ॥

 द्वयोद्वयोर्व्यञ्जनयोर्व्यञ्जनान्तराव्यवधानेनावृत्तिश्छेकानुप्रास इत्यर्थः । तेनाज्वर्णव्यवधानेऽपि न दोषः ॥

 यथावा--

 देवादेव श्रेयो रामारामस्ववक्षसो ज्यायः । ध्येयो हि योऽहिभूमीधरधरणीबालिकालिकाभरणम् ॥

 अत्र पादचतुष्टयेऽपि व्यञ्जनयुग्मानामव्यवधानेनावृत्तेश्छेकानुप्रासः ॥

 वृत्त्यनुप्रासः--

उल्लङ्घ्य संख्यानियमं पौनरुक्त्यं भवेद्यदि ।
एकद्वित्र्यादिवर्णानां वृत्त्यनुप्रासमूचिरे ॥

 अत्रैकस्य व्यञ्जनस्य सकृदावृत्तौ वैचित्र्यविरहात्सामर्थ्यादसकृदावृत्तिर्लभ्यते । द्वयोस्तु सकृदेव । अन्यथा छेकानुप्रासो भवेत् । व्यवधाने त्वसकृदावृत्तावपि न विरोधः । त्र्यादीनां सकृदसकृद्वा व्यवधानेनाव्यवधानेन वा आवृत्तिर्द्रष्टव्या । वृत्तिशब्देन वैदर्भ्यादयो विवक्षिताः । तदुपलक्षितोऽनुप्रासो वृत्त्यनुप्रासइत्याहुः ॥

 यथा--

 मुरघातुकमरतकवरविसृमररुचिनिचयमेचकीभूता । आलसति नीलचेलकनिचोलितेवाहिभूभृतो भूमिः ॥ २२३१ ॥

 फणिधरणीधररमणी रमणीयमणीललन्तिकालतिका । उन्मीलति काऽपि महामहिममही देवता मुदे जगताम् ॥ २२३२ ॥

 कोमलकमलजरुचिमदहररुचिमदुदारलोचने देवे । मुदिरमदरभसनिर्जयरभसि निजाङ्गेऽस्तु मम मनो लग्नम् ॥ २२३३ ॥

 द्वितीये पद्ये महामहिम्नां मही भूमिः आधारभूतेत्यर्थः । काऽपि देवतेति योजना । तृतीये मदरभसो मदवेगः तस्य निर्जये रभसि उल्लासवदित्यर्थः । ‘रभसो वेगहर्षयोः' इति विश्वः । अत्र पद्यत्रये यथायोगं एकद्वित्र्यादिवर्णानामावृत्तेर्वृत्त्यनुप्रासः । अत्र पूर्वत्र च स्वरसादृश्यमानुषङ्गिकम् । स्वरव्यञ्जनसादृश्यस्य यमकप्रयोजकत्वं वक्ष्यते ॥

 अथ लाटानुप्रासः--

 तात्पर्यमात्रभिन्ना या शब्दार्थपुनरुक्तता । सोऽयं शाब्दः काव्यविद्भिर्लाटानुप्रास ईर्यते ॥

 एवं वर्णगतमनुप्रासं प्रतिपाद्य वर्णसमुदायरूपशब्दगतमनुप्रासं निरूपयति— तात्पर्यमात्रेति । तात्पर्यमात्रभिन्नं शब्दार्थयोः पौनरुक्त्यं यत् सोऽयं शब्दो वर्णसमूहः तत्संबन्धी शाब्दः-- लाटजनप्रियत्वाल्लाटानुप्रास इति काव्यविद्भिरीर्यते । अत्र शब्द, पौनरुक्त्यमात्रं यमकेऽप्यस्तीति तद्वारणायार्थपदम् । यमके चार्थभेदान्न तत्पौनरुक्त्यम् । शब्दार्थपौनरुक्त्यमात्रं कथितपदत्वादिरूपदोषसाधारणमित्यतस्तात्पर्यमात्रभिन्नेति विशेषणमिति ध्येयम् ।

 वाक्यावृत्तौ पदावृत्तौ नामावृत्तौ च तत्त्रिधा ॥

 सः लाटानुप्रासः वाक्यपौनरुक्त्ये सुबन्ततिङन्तपदपौनरुक्त्ये नाम्नः प्रातिपदिकस्य पौनरुक्त्ये च त्रिविधो भवति ।

तत्राद्यो यथा--

 त्वं चेत्प्रसीदसि हरे वर्णाश्रमधर्मचर्यया किं नः । यदि न प्रसीदसि त्वं वर्णाश्रमधर्मचर्यया किं नः ॥ २२३४ ॥

 अत्र प्रथमार्धे वर्णाश्रमधर्मचर्यायाः भगवत्प्रसादरूपफलनिष्पत्तौ सत्यामनादरः, द्वितीयार्धे तादृशफलनिष्पत्त्यभावे अनादर इति तात्पर्यभेदेन वाक्यावृत्तेर्लाटानुप्रासः ॥

 यथावा--

 विषममृतं तस्य भवेद्यस्य मनो भवति माधवेऽस्खलितम् । विषममृतं तस्य भवेद्यस्य मनोभवति माधवे स्खलितम् ॥ २२३५ ॥

 नृत्यति हृदि यस्य हरिः कलिः कृतं तस्य भवति हन्त युगम् । शौरिर्न यस्य चेतसि कलिः कृतं तस्य भवति हन्त युगम् ॥ २२३६ ॥

 अत्राद्ये पद्ये यस्य श्रनिवासे चित्तमस्खलितं तस्य विषमप्यमृतं भवेत् प्रह्लादस्येव । यस्य चित्तं स्खलितं तस्य अमृतमपि विषं भवेदिति । द्वितीये श्रीनिवासध्यानबद्धादरस्य कलियुगमपि कृतयुगं तदन्यस्य कृतयुगमपि कलियुगमिति तात्पर्यभेदेन वाक्यावृत्तेर्लाटानुप्रासः ॥

कलिः कृतयुगं तस्य कृतं तस्य कलिर्युगम् ।
हृदये यस्य गोविन्दो यस्य चेतसि नाच्युतः ॥

 इति प्रमाणमत्र प्रत्यभिज्ञाप्यते । यद्यप्यत्र पद्यद्वयेऽपि पूर्वार्धयोर्विषकल्योरुद्देश्यत्वात्प्राथम्यं अमृतकृतयुगर्योर्विधेयत्वाज्जघन्यत्वं च युक्तम् । उत्तरार्धे तु उद्देश्यविधेयव्युत्क्रमनिर्देशरूपाविमृष्टविधेयांशरूपो दोषः । तथाऽपि तदस्फुरणदशायां प्रतीतिस्थगनविरहात् ईदृशमपि प्रकाशकारादिभिः प्राचीनैरुदाहृतमित्यस्माभिरप्युदाहृतम् ॥

 द्वितीयो यथा--

 तेषां चक्षुश्चक्षुस्तेषां जन्मैव जन्म मनुजानाम् । ये निध्यायन्त्यनिशं येऽनुध्यायन्ति फणिधरेशं तम् ॥ २२३७ ॥

 अत्र द्वितीयचक्षुर्जन्मशब्दयोरुत्कर्षलक्षणस्तात्पर्यभेदः । ननु ‘इन्दुरिन्दुरिव श्रीमान्’ इत्यादावनन्वयालंकारेऽपि शब्दार्थपौनरुक्त्यसंभवाल्लाटानुप्रासत्वमेव किं न स्यादिति चेत्सत्यं, यद्यप्यनन्वये अर्थपौनरुक्त्यमात्रं लक्षणं तथाऽपि निर्देशप्रतिनिर्देशयोरैकरूप्यविरहे पर्यायप्रक्रमदोषप्रसंगादानुषङ्गिकं शब्दपौनरुक्त्यम् । अत्र तूभयपौनरुक्त्यमप्यावश्यकमेवेति विषयभेदान्न कोऽपि विरोधः । तदुक्तं--

अनन्वये च शब्दैक्यमौचित्यादानुषङ्गिकम् ।
अस्मिंस्तु लाटानुप्रासे साक्षादेव प्रयोजकम् ॥

इति, इत्याहुः । नन्वेवमप्यनेनैव लाटानुप्रासेन सिद्धस्यैव चक्षुरादेस्तात्पर्यभेदेन चक्षुष्ट्वादिविधानाद्विध्यलंकारो माऽस्विति चेन्न । 'रामस्य गात्रमसि' इत्यादौ शब्दार्थपौनरुक्त्याभावस्थले विध्यलंकारस्यावश्यकत्वादत्राप्यर्थवशात्समावेशे अनयोरेकवाचकानुप्रवेशसंकरस्यैव वक्तुं युक्तत्वात् ॥

 यथावा--

 तद्दैवतं हि दैवतमहिगिरिशिखरेऽस्ति यन्महोदारम् । मनुजस्स एव मनुजस्सकृदपि वा येन

तत्स्मृतिं नीतम् ॥ २२३८ ॥

समासैक्ये तद्धितायां स्यात्समासासमासयोः । नामावृत्तौ पुनस्त्रेधा लाटानुप्रास ईरितः ॥

 एकस्मिन् समासे भिन्ने वा समासे समासासमासयोर्वा नाम्नः प्रातिपदिकस्य चावृत्तौ लाटानुप्रासः पुनस्त्रिविधो निष्पद्यते ॥

 यथा--

 अमृतामृतकरशिशिरा शिशिरावनिधरधृतिर्दयासीमा । सीमा पुरातनगिरां सा मां परदेवताऽवतादनिशम् ॥ २२३९ ॥

 दयाविषये असीमा अविद्यमानसीमा अतिवेलदयोर्मिळेत्यर्थः । दयायास्सीमा अवधिरिति वा । अमृतामृतेत्यत्र अमृतेति प्रातिपदिकस्यैकस्मिन् समासे शिशिरेत्यस्य भिन्ने समासे दया सीमासीमेत्यत्र समासासमासयोश्चावृत्तिः ॥

 पञ्चप्रकार एवं च लाटानुप्रास ईरितः ॥

 वाक्यावृत्तावेकः पदावृत्तावन्यः एकस्मिन् समासे नामावृत्तावितर: भिन्ने समासे नामावृत्तौ परः । समासासमासयोर्नामावृत्तावपर इति पञ्चविधो लाटानुप्रास उक्तः--

सितकरकररुचिरविभा विभाकराकारधरणिधरकीर्तिः ।
पौरुषकमला कमला साऽपि तवैवास्ति नान्यस्य ॥

इत्याद्युदाहरतां काव्यप्रकाशकारादीनामनुरोधेन ॥

 अत्रेदं चिन्त्यम्--द्वयोरपि करशब्दयोर्वाच्य एव विश्रान्ततयाऽन्यपरत्वविरहान्नस्ति तात्पर्यभेदः, तस्यैव तज्जीवातुत्वात् ।

अतोऽनुप्रासमात्रत्वमेवास्य । न च केवलकरादिपदानां स्वार्थविश्रान्तावपि समासे उपसर्जनीभूतानां स्वार्थत्यागेन परार्थवृत्तेस्तात्पर्यान्तरपरत्वमस्त्येवेति वाच्यम्, लक्षणासामग्रीविरहात् । अत्राप्यन्यपदार्थप्रधानत्वात्करशब्दस्य गुणीभाव एव न तु मुख्यार्थबाधः, स्वार्थ एव विश्रान्तेः । न हि गुणीभावमुख्यार्थबाधयोरेकत्वं सतो हि मुख्यार्थस्य किंचिदपेक्ष्य गुणीभावः । बाधस्तु स्वस्मिन्नेवाविश्रान्तिरित्यनयोर्महान् भेदः । नाप्यत्र लक्षणायां किंचित्प्रयोजनमित्येतत्पौनक्त्यमात्रम् । एतेन ‘अत्राब्जपत्रनयने नयने निमील्य’ इत्यत्र लाटानुप्रासं वदन् सर्वस्वकारोऽपि प्रत्युक्तः । अब्जपत्रशब्दस्याप्यपौनरुक्त्येन तस्य दुर्घटत्वादिति वदन्ति ॥