← अध्यायः २४ अहिर्बुध्नसंहिता
अध्यायः २५
[[लेखकः :|]]
अध्यायः २६ →
अहिर्बुध्नसंहितायाः अध्यायाः


सुदर्शनयन्त्रवैभववर्णनं नाम पञ्चविंशोऽध्यायः
ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम्।
सुदर्शनस्य तद्दिव्यं भर्गो देवस्य धीमहि।।

यन्त्रवैभवं प्रदर्शयितुमुक्तार्थानुवादः
नारदः---
भगवन् सम्यगाख्यातं विस्तरेण 1यथातथम्।
यत्कारणं यदाधारं यत्प्रमाणमिदं जगत् ।। 25.1 ।।
तथा धर्मार्थकामानां स्वरूपं 2साधनं तथा।
परविद्या तथा विद्या तथा चाध्यात्मसंज्ञिता ।। 25.2 ।।
मुक्तिश्च परमा प्रोक्ता बन्धस्तत्साधनं3 तथा।
वर्णाश्रमविभागश्च तद्धर्माश्च विशेषतः ।। 25.3 ।।
सर्वेषामेव वर्णानां राज्ञां रक्षाविधिस्तथा।
राज्ञां तु रक्षणविधिर्दिव्योऽयं वर्णितस्तथा ।। 25.4 ।।
कथं किल कलौ प्राप्ते राज्ञां रक्षाविधिर्भवेत्।
संक्षेपतः कलिस्वरूपकथनम्
न यक्ष्यन्ति न दास्यन्ति न होष्यन्ति द्विजातयः ।। 25.5 ।।


1.यथातथा D
2.साधनानि च D
3.तद्भावनं D


न सर्वे स्वेषु धर्मेषु करिष्यन्ति मतिं कलौ।
शक्तयः सर्वमन्त्राणां प्रयास्यन्ति तिरस्कृतिम्।। 25.6 ।।
निर्वीर्याश्च भविष्यन्ति राजानः सत्त्ववर्जिताः।
निर्धना हृतराज्याश्च दस्युभिः परिपीडिताः ।। 25.7 ।।
अल्पक्षीरा भविष्यन्ति गावः प्राप्ते कलौ युगे।
प्रजाः क्षुधार्ताश्च 4कलाववग्रहनिपीडिताः ।। 25.8 ।।
पाषण्डधर्मनिरता भगवन्तं जनार्दनम्।
निन्दनादीन् करिष्यन्ति तमः प्राया ह्यवेदिनः ।। 25.9 ।।

तादृशे कलौ राज्ञां रक्षाविध्युपायप्रश्नः
इत्थं दोषास्पदे काले राज्ञां रक्षाविधिः कथम्।
संपत्स्यते शक्तिहीनैर्द्विजैः सत्त्वविवर्जितैः ।। 25.10 ।।
येनोपायेन रक्षा स्यात्तं5 मे ब्रूहि सुनिश्चितम्।
सर्वज्ञ त्वदृते वक्तुं कः शक्नोति महेश्वर ।। 25.11 ।।

तत्प्रतिवचनारम्भः
अहिर्बुध्न्यः-------
साधु साधु यदेतत् त्वं पृष्टवानसि नारद।
सत्यमेतत् कलौ रक्षाविधिर्मन्त्रैर्न युज्यते ।। 25.12 ।।
तथापि भक्त इति ते कथयामि श्रृणुष्व तम्।


4.कलौ पापग्रह B C
5.तन्मे A B C


सर्वेषामेव भूतानां 6राज्ञां चैव विशेषतः ।। 25.13 ।।
रक्षाविधिं परं गुह्यं तन्त्राणां सारमुत्तमम्।

स्वकृतपितामहशिरश्छेदमहापापप्रशमाय नारायणात् सुदर्शनयन्त्रप्राप्तिकथनम्

मम नारायणेनोक्तं पुण्ये बदरिकाश्रमे ।। 25.14 ।।
पितामहशिरश्छेदमहापातकशान्तये।
सर्वबाधाप्रशमनं सर्वदुःखनिवारणम् ।। 25.15 ।।

तन्महिमसंक्षेपः
सर्वसिद्धिप्रदं सर्वसंपदामेककारणम्।
पराभिचारशमनं परराज्यप्रदं 26शुभम् ।। 25.16 ।।
27कलिदोषापहरणं सर्वशत्रुनिबर्हणम्।
यस्य संस्मरणेनैव नॄणां नश्यन्ति शत्रवः ।। 25.17 ।।
दस्यवो नष्टविषया विद्रवन्ति दिशो दश।
यन्त्रं यस्य गृहे न्यस्तं तस्य सर्वं प्रसिध्यति।। 25.18 ।।
यो राजा यन्त्रमेतत्तु सादरं कारयेद् गृहे।
तस्य भूमण्डलं सर्वं भवेद् वश्यं न संशयः ।। 25.19 ।।
सौदर्शनस्य यन्त्रस्य माहात्म्यं वर्णितं मया।


6.राज्ञां रक्षा A B C
7.शिवम् B C
8.कलिदोषहरं शान्तं D


सुदर्शननारसिंहयन्त्रफलप्रदर्शनम्
सुदर्शनेन युक्तस्य नारसिंहस्य यन्त्रकम् ।। 25.20 ।।
यः कारयति तस्यान्यो लोको वश्यो भवेदपि।
एतल्लेखनमात्रेण सर्वं 28संपद्यते नृणाम् ।। 25.21 ।।
विष्णुपञ्जरयन्त्रफलप्रदर्शनम्
विष्णुपञ्जरयन्त्रस्य करणेनैव देवताः।
सर्वाः प्रसीदन्ति सदा किं पुनर्मनुजादयः10 ।। 25.22 ।।
समुदितयन्त्रत्रयफलस्याशक्यवर्णनत्वम्
एषां त्रयाणां यन्त्राणां समाहारफलं मया।
वक्तुं न शक्यते सर्वं सर्वज्ञेनापि नारद ।। 25.23 ।।
महासुदर्शनयन्त्रफलम्
महासुदर्शनस्येह यन्त्रस्य करणाद् द्विजः।
त्रैलोक्यं समवाप्नोति किं पुनर्मण्डलं भुवः ।। 25.24 ।।
एकत्र कल्पितसुदर्शननारसिंह-
मन्यत्र केवलसुदर्शनमुज्ज्वलाङ्गम्।
संकल्पितोभयमुखं घटितास्त्रजालं
श्रीविष्णुपञ्जरगतं युतमन्त्रजालम् ।। 25.25 ।।


9.संपत्स्यते E.F
10.मनुजा द्विज D



माहासुदर्शनमपुण्यकृतां जनाना-
मप्राप्यमाश्रितसुखप्रदमेकयन्त्रम्।
तेजोमयं सकललोकनमस्कृतं यत्
तत् कारयेत् सकललोकजयं यदीच्छेत् ।। 25.26 ।।

इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां सुदर्शनयन्त्रवैभववर्णनं नाम पञ्चविंशोऽध्यायः
आदितः श्लोकाः 1470
  ----------*****---------