प्रमुखा विकल्पसूचिः उद्घाट्यताम्
आर्यासाहस्री
वेङ्कटरमणभट्टः


॥ आर्यासाहस्री ॥


अतिसुखिनि सुन्दराङ्गि श्रितजनमन्दारवल्लरि श्यामे ।

भारति कमलजजाये विद्यां बुद्धिं समुज्ज्वलां दिश मे ॥1॥

असदशसम्पद्भरिते शुभगुरुराजत्वकीर्तिबोधमयि ।

श्रीमातरखिलमातः स्तोतारं मां पुनीहि हे ललिते ॥2॥

अखिलजनमोदहेतोर्देवीश्वरि हे शिवे महाराज्ञि ।

मायाप्रकटितरूपे रूपत्रयभाविते नमो ललिते ॥3॥

अतिगुरुमहिमापूर्णे राज्ञां साम्राज्यदायिनी त्वमसि ।

गतिमतिदात्रि नमस्ते नादश्रीर्नादकोविदे पाहि ॥4॥

अमतांशुमौलिजाये ! हेमासनसुस्थिता महाकल्पा ।

सुखिनि सुखास्पदधाम्नि प्रणमन्तं त्वां सदैव मां पाहि ॥5॥

अमलकरचित्कलाञ्चज्योतिर्मुख्याङ्कुरात् समुद्भूते ।

भूरिमहिम्ना भरिते देवि सुरानन्ददात्रि मां पाहि ॥6॥

असुरगणमखिलमनिशं हन्तुं जातासि देवकार्यार्थम् ।

अहमिति धीरूपाग्नेः कण्डाद्ब्रह्माण्डजननि मां पाहि ॥7॥

अयुताधिकरविदीप्ते पूर्वाम्बुधिशैलतुङ्गशिखराग्रे ।

उद्यद्भानुसहस्रप्रभया विभ्राजिते नमो ललिते ॥8॥

अखिलामरजनयित्री सुगुणैः स्वैरेव शोभितं ललितम् ।

पाशं दधासि या त्वं सा त्वं मामम्ब पालयेरनिशम् ॥9॥

अयि परुषपाशहस्ते पुण्ड्राङ्कुशराजमानकरकमले ।

पुरुषार्थदायिपाणे भारति वाग्देवते नमो ललिते ॥10॥

अतिसुखदरूपमनिशं दधती हस्तेङ्कुशं सदा महसा ।

विभ्राजमानमूर्ते ललिते मामम्ब सन्ततं पाहि ॥11॥

अमलज्ञानाकारे मानसरूपेक्षुदण्डकोदण्डे ।

ग्रन्थिषु धृतषट्चक्रे ललिते मामम्ब सादरं पाहि ॥12॥

अभिनवचम्पकसुमसमनासादण्डेभिराममुखकमले ।

शुभकरि करुणामूर्ते मातर्ललिते नमोस्तु ते सततम् ॥13॥

अरुणरुचिपूरमज्जद्ब्रह्माण्डाखण्डमण्डलोल्लसिते ।

करुणामसृणापाङ्गे मातर्मां पाहि सन्ततं ललिते ॥14॥

अयि नीलकेशपाशे चाम्पेयाशोकललितपुन्नागैः ।

सौगन्धिकेन रचितं माल्यं दधतीं नमामि देवि त्वाम् ॥15॥

अतिरुचिरपद्मरागप्रत्युप्तस्वर्णरचितकेयूरे ।

दरहासभूषितास्ये  मातर्मां देवि सन्ततं पाहि ॥16॥

अतिसुरभिमगमदाञ्चत्‌फाले कोटीरमञ्जुलाभरणे ।

दुष्टसुरारिवधाय व्यापतनानाविधायुधे शिवे पाहि ॥17॥

अमलतरसुन्दराननमन्दिरमाङ्गल्यतोरणभृकुटि ।

सुभ्रूगणपरिवारे धीरे मां पाहि सन्ततं ललिते ॥18॥

अतिदुर्भरतरजघने  दरलीलासक्तमीनरुचिराक्षि ।

अयि सुन्दराङ्गि मातर्मातस्त्वां चिन्तये सदा हदये ॥19॥

अमलतरतारकालिज्योतिर्न्यक्कारिनासिकाभरणे ।

कुमुदवनबन्धुवदने गुणवति मां पाहि ते नमो ललिते ॥20॥

असुरकम्बकदम्बप्रसवसुकर्णावतंसवत्‌कर्णे ।

कमलापतिसहजाते जाते प्रीता भवाम्ब मयि ललिते ॥21॥

अमलतररुचिमहोज्वलताङ्कीभूतरविशशङ्कयुते ।

अमरकुलसेविताङ्घ्रे नित्यं मां पाहि वत्सले ललिते ॥22॥

अमलसुधाकरलाञ्छनसन्निभमगनाभिपङ्कवत्फाले ।

कमलजवदननिवासे तावकमङ्घ्रिद्वयं मुदा वन्दे ॥23॥

अमलतरपद्मरागादर्शतिरस्कारकारिसुकपोले ।

अतुलास्यहास्यलास्ये कमलाक्षि त्राहि जनमिमं सरले ॥24॥



 

अभिनवविद्रुमशोभापरिभविदन्तच्छदेन सङ्कलिते ।

शुभगुणगणसंवलिते  श्रीपतिवन्द्येम्ब पाहि मां ललिते ॥25।

अतिविमलसाधुविद्याप्राङ्कुररूपद्विजद्विपङ्कियुते ।

मतिमति विधिहरिमान्ये त्वं कुरु कारुण्यमयि मयीह भृशम् ॥26॥

अमलतरनागवल्लीकर्पूरक्रमुकसौरभादेव ।

आह्लादयन्त्यशेषाशांस्त्वं जयसि शोभया देवि ॥27॥

अमतस्यन्दिवचोभिस्त्रपयन्ती कच्छपीं निजां वीणाम् ।

मधुरालापैरपि पिकमम्बुजनयने त्वमेव मां पाहि ॥28॥

अनलाक्षमात्मरमणं  मन्दस्मितपूरलीनहदयं तम् ।

विदधास्यजस्रमाराद् धीरा त्वं पाहि शैलजे सततम् ॥29॥

असदृशनिजचिबुकश्रीशोभितकम्बुद्युतिस्फुरत्कण्ठि ।

कुसुमायुधमदहारिणि मातर्मां पाहि विजितकलकण्ठि ॥30॥

अमलेन्दुधरनिबद्धश्रीमन्माङ्गल्यसूत्रवत्कण्ठि ।

कमलाक्षाब्जजवन्द्ये  पार्वति माङ्गल्यदात्रि मां पाहि ॥31।

अनघकनकाङ्गदाढ्ये  श्रीमद्भुजदण्डमण्डिते महिते ।

कनकगिरिचापधर्तुर्भर्तर्वाचि स्थितेम्ब मां पाहि ॥32॥

अनघमणिघटितहेमग्रीवाचिन्ताकमौक्तिकाभरणे ।

विनयनतमस्तकं मां पालय दीनं च शमय मदमोहौ ॥33॥

अभिमतनिजपतिहर्षस्फुरितानर्घाश्मनिस्तुयोरोजे ।

अभिजनपूजितचरणे  नतिरियमयि तेस्तु चरणयोर्देवि ॥34॥

अवनम्रनाभिरूपावालजरोमालिफलककुचयुगले ।

अवहितभुवनत्राणे  शम्भोः प्राणाधिकेम्ब मां पाहि ॥35॥

अवहितरोमावल्या सूचितवल्लद्वलग्नशुभदेशे ।

अविनयमम्ब मदीयं जहि सुरसन्तोषभाग्यमयकोशे ॥36॥

अतिघनवक्षोरुहयोर्वहनायाबद्धवलिमहादशने ।

गतिरसि मतिरसि सततं मम माता त्वमेव मां पाहि ॥37॥

अरुणारुणकौसुम्भश्रीमद्वासःश्रियाढ्यकटिभागे ।

कुरु मां तव करुणायाः  पात्रं गोत्रं मनश्च पावय मे ॥38॥

अगणितमणिकिङ्किणिकारशनादाम्ना विराजतेद्रिसुते ।

नगवरकुलमणिदीपे  दिश मम काव्याङ्गनाकपामम्ब ॥39॥

अनलाक्षपाणिपद्मद्वयवेद्या परुषसुरभिललिताङ्गी ।

जनयित्री लोकानां मयि कुरु करुणां स्वभावसुरभितनो ॥40॥

अनघद्युतिमाणिक्यस्फुरितकिरीटाभजानुयुग्मयुते ।

अनुनय मयि कुरु वाणि त्वयि तु मयि त्वं दयस्व हे ललिते ॥41॥

अहिरिपुमणिकतमन्मथतूणीराकारजानुयुगलाढ्ये ।

महितगुणराजमाने मम मनसि त्वं वसाम्ब हरवेद्ये ॥42॥

अतिपीनगूढगुल्फे मतिमति मत्याश्रये सतां सततम् ।

कतिनां समितिषु कुरु मां सुमतिं सम्भावितं च हे ललिते ॥43॥

अयि कमठपष्ठविजयिप्रपदद्वयराजमानपदकमले ।

नियतिनियामकजाये सपदि कपां धेहि मयि निजे ललिते ॥44॥

अरुणनखदीप्तिमज्जज्जनहदयध्वान्तनाशसुप्रीते ।

करुणामसणापाङ्गे जननि त्वामाश्रयाम्यहं सततम् ॥45॥

अयि पदयुगलज्योतिर्न्यक्कृतपाथोजवनरुचे महसा ।

नियमितदीप्तिमदे त्वं जयसि हि दीप्त्यास्व मयि तथा महसा ॥46॥

अविरतमपि शिञ्जाने मणिमयपादाङ्गदे दधानेम्ब ।

भवभयहारिणि तारिणि संसाराम्भोनिधेः सदा पाहि ॥47॥

अनुपमहंसवधूटीं जित्वा गत्या विराजमानेम्ब ।

अनुचरचरचरमेनं तव शिवजाये पुनीहि मामम्ब ॥48॥

अभिनवहेमसवर्णे देवि महारूपशेवधे सविधे ।

जयति च सवर्णसिंही त्वं मां पायाश्च सिंहसंहनना ॥49॥

आभरणराजिकान्त्या निजतनुदीप्त्यावतारुणच्छाया ।

सौभगपरिपूर्णा त्वं सुभगं कुरु मां दयासुधावष्ट्या ॥50॥

आपादमौलिदेशादनवद्याङ्गाङ्गबन्धुरे सुकरे ।

श्रीपादशोभमाने जननि त्वामेव याम्यहं शरणम् ॥51॥

आपादमौलिविलसन्नानाभूषावलीप्रभाच्छन्ने ।

आपादमौलिसुषमापिहिते मां पाहि सन्ततं ललिते ॥52॥

आशाम्बरवामाङ्के वाल्लभ्यादेव सानुरागमपि ।

आरोपितनिजमूर्ते दुर्गे देवि त्वमेव मां पाहि ॥53।

आददति ये पवित्रे हदये तेषां सदा शिवा भासि ।

मोदयसि सन्ततं त्वं तानेवानेकभाग्यदा जयसि ॥54॥

आधिव्याधिविहीने स्वाधीनात्मप्रिये प्रभावेण ।

अधिगतभुवनध्याने साधीयो मे हितं त्वया ललिते ॥55॥

आधिनिवारिणि नमतां साधुनुते मेरुशृङ्गमध्यस्थे ।

साधूपकारशीले साधय मत्कार्यमुत्तमं ललिते ॥56॥

आकाशान्तःकलया निहितश्रीनगरनायिके गौरि ।

साकारभाग्यरूपे  रूपगुणोद्योगभेदवति जयसि ॥57॥

आपादितसकलाशे श्रीसखि चिन्तामणिप्रिये महादेवि ।

वासोरुचिसंवलिते दासे मयि ते दयस्व हे ललिते ॥58॥

आर्ये विधिहरिरुद्रेश्वररूपब्रह्मपीठमारूढे ।

नार्यवतारिणि भद्रे मारवधूटीप्रिये नमो ललिते ॥59॥

आपाटलसरसीरुहकान्तारान्तःस्थिते गुणोल्लसिते ।

श्रीपादजितसरोजे शरणं भव मे भवे भवे ललिते ॥60॥

कार्याकार्याभिज्ञे शौर्यश्रीमत्कदम्बवनवासे ।

आर्यानन्दिनि मायाकार्यानन्दान्वितेम्ब मां पाहि ॥61॥

आश्रितपालनचतुरे पीयूषाम्भोधिमध्यगेहस्थे ।

आश्रितसुरपरिवारे दशशतपत्राब्जपीठगे पाहि ॥62॥

आनतभक्ताभीष्टं मानयितुं दातुमसि च कामाक्षी ।

दीनानाथशरण्ये मानय मामम्ब सादरं ललिते ॥63॥

आराधयन्ति ये त्वां तेषामानन्ददायिनी नित्यम् ।

नारीकिरीटशोभाराधितचरणेम्ब पाहि मां ललिते ॥64॥

आनतसुरमुनिबन्दैरनवरतस्तूयमानपदकमले ।

दानवनाशिनि तुभ्यं नतिरियमास्तां जयाम्ब हे ललिते ॥65॥

आर्ये भण्डवधोद्यतशक्तिचमूभिस्समावते देवि ।

कार्येषु मे सहाया कार्यप्रज्ञाप्रदास्व मयि ललिते ॥66॥

आश्रितसम्पत्करणीशक्त्यारूढेभसेविते समरे ।

आश्रितसुरपरिवारे धीरे मामम्ब पाहि हे ललिते ॥67॥

आरूढवाजिसेनावारितकोट्यश्वसेनया सहिते ।

आपीतासवमत्ते चित्ते ते मे नुतिस्सदा भवतु ॥68॥

आरुह्य चक्रराजस्यन्दनमखिलायुधानि परिगह्य ।

वीरावेशकराले  वैरिषु समरेषु कोपने जय हे ॥69॥

आरुह्य गेयचक्रस्यन्दनमेकं च सेव्यमानेम्ब ।

श्यामलया मन्त्रिण्या समरससमरे नमोस्तु ते ललिते ॥70॥

आरुह्य च किरिचक्रस्यन्दनमनघं धुरि प्रतिष्ठितया ।

दण्डाधिपवाराह्या शक्त्या सहिते जयाम्बिके ललिते ॥71॥

आक्रम्य दिव्यशक्त्या वह्निप्राकारमध्यमभ्येत्य ।

ज्वालामालिन्या त्वं जयसि रुचा समरभूतले ललिते ॥72॥

आराकाचन्द्रकलिकावद्धिप्रदशक्तिवद्धिसन्तुष्टे ।

उत्साहवद्धिहेतोः शक्तीनां त्वं जयाम्बिके ललिते ॥73॥

आक्रम्य भण्डपुत्रानखिलान् हत्वा जयेन सन्तुष्टे ।

बालाविक्रममुदिते समरे दुर्गांब ते नमो ललिते ॥74॥

आसुरविषङ्गदैत्यं मन्त्रिण्यम्बावधीद्रणे येन ।

श्यामज्याङ्कितहस्ते तुष्टे युद्धेन ते नमो ललिते ॥75॥

आर्ये भण्डभ्रातश्यामलयासीद्धतोंब ते समरे ।

मुदिता त्वमभूर्मातः सुररिपुहनत्यम्ब ते नमो ललिते ॥76॥

आस्यालोकनमात्रात् पत्युर्विघ्नेशमसज एव त्वम् ।

मायामसुरानपि तानवधीर्विघ्नेश एव कुशलतया ॥77॥

आसुरमायाविघ्नान् विघ्नेशोनाशयत्तदा ते हि ।

आनन्दयदपि भवतीं यस्ते पुत्रो हि तेन ते ललिते ॥78॥

आर्ये भण्डविमुक्तान् बाणानखिलान्निजाशुगेनैव ।

सत्वरमखण्डयस्त्वं तस्मात्तुभ्यं नमो नमो ललिते ॥79॥

आयोधने नियोद्धुं सिद्धे भण्डे कराङ्गुलीभ्यस्त्वम् ।

नारायणावतारानसजत् सहसैव ते नमो ललिते ॥80॥

आर्या पाशुपताग्निज्वालाभस्मीकतासुरे समरे ।

मूलाधारज्वाला सेयं ननु ते नमो नमो ललिते ॥81॥

आनीलकोमलाङ्गि श्रीललिते श्रीनिकेतने सवने ।

सौजन्यादिगुणानां त्वं मे सद्बुद्धिमनुगहाणाम्ब ॥82॥

आसुरबलमवधीस्त्वं कामेशास्त्रेण भण्डदैत्यं तम् ।

फालानलेन गिरिशो मदनमिवाजेयमम्बिके ललिते ॥83॥

आसुरभण्डवधात् त्वामजहरिशक्रादिदेवता अचलाः ।

भक्त्या शशंसुरम्बां वन्दे त्वामस्तु ते नमो ललिते ॥84॥

अद्भुतकलावतारे हरनयनप्लुष्टमदनजीवातो ।

आश्रितजनततिसुगमे श्रीदेवि त्वं दयस्व मयि दीने ॥85॥

इभवदनजननि ललिते शुभकरि परिपूर्णचन्द्रनिभवदने ।

अभयङ्करि जगतां मां देवि त्रायस्व सादरं तमिमम् ॥86॥

इनशशिपावकनयने कण्ठान्नीचैर्नितम्बपर्यंतम् ।

आकटितटमपि कण्ठान्मध्यमकूटावते नमो ललिते ॥87॥

इभराजमन्दगमने दढशक्त्याधारशोभिते महिते ।

अभयप्रदकरपद्मे पद्मास्ये पाहि मां मुदा ललिते ॥88॥

इभराजवाहना त्वं शुभकरमन्त्रात्मिका त्वमेवासि ।

अभयं दिश मे मातः शुभमपि सततं नमोस्तु ते ललिते ॥89॥

इदमम्ब मन्त्रराज्यं विविधं भागत्रयेण ते भाति ।

आकट्याकन्धरमामस्तकमित्याश्रयाम्यहं तु त्वाम् ॥90॥

इदमजकतजगदासीत् कुलरूपेणास्थिता श्रिया जयसि ।

हदयनिवासिनि नमतां जलजाक्षि त्वामहं भजे सततम् ॥91॥

इहकुलपालिनि जगतां सष्टिव्यापारपालिनी त्वमसि ।

महिताम्नायनुतां त्वां शिरसा वन्दे नमोस्तु ते ललिते ॥92॥

इहकुलहदयनिलीना विहिताशेषक्रियाकलापासि ।

महतामाश्रयदात्री त्वं मे शरणं भवानिशं ललिते ॥93॥

इदमखिलमेव विश्वं हदये वहसीक्षसे सदा दयया ।

मायातत्त्वमिदं ते गहनाद्गहनं नमो नमो ललिते ॥94॥

इदमम्ब विश्वतस्ते त्वयि च त्वं चात्र परमकुलरूपा ।

इह कुण्डलिनीपीठा कौलिन्याख्ये नमोस्तु ते ललिते ॥95॥

इदमम्ब विश्वमखिलं संयोज्यैवात्मनाहिता भवसि ।

हदि करुणामयि मयि ते करुणापातोस्तु ते नमो ललिते ॥96॥

इह जगति वर्तमाना लीलालीनेव वर्तसे सततम् ।

महितागमनुतचरणे दीनमपायान्निवारयेर्ललिते ॥97॥

इह ननु समतायुक्ता जीवब्रह्मद्वयेन चाद्वैता ।

विहिताचारविधारे भावय मामात्मनन्दनं ललिते ॥98॥

इह तु समन्वयितात्मा योगक्षेमाय मुक्तियत्नाय ।

महतामाश्रयरूपे भोगिमहावेणि ते नमो ललिते ॥99॥

इह भवसि देवि मूलाधारे हि श्रीस्त्वमेव ते प्रभया ।

विहिता चक्रावलिरपि विलसति योगिप्रियाय जय माये ॥100॥

इह मूलचक्रमध्ये ब्रह्मग्रन्थिच्छिदेव या त्वमसि ।

महिता सा मयि दयतां ब्रह्मवधूटीप्रिया सदा ललिता ॥101॥

इह मणिपूरोदयिनी सा त्वं चानाहताश्रया भवती ।

सहिता प्रणवमहिम्ना सात्त्विकरूपे नमोस्तु ते ललिते ॥102॥

इदमप्यनाहताब्जं श्रयसि त्वं चोन्नतं च हरिचक्रम् ।

भित्वानाहतचक्रे चक्रेश्वरि ते नमो नमो ललिते ॥103॥

इह षट्चक्रजगत्यामाज्ञाचक्राब्जवासिनी भवसि ।

विदितसमस्तविचारे धीरे मातर्नमोस्तु ते ललिते ॥104॥

इह तावदम्ब चक्रे त्वं भास्याज्ञाभिदे कतावासा ।

अयि जयसि लोकमातर्जंभारिप्रार्थिते नमो ललिते ॥105॥

इह दशशतदलकमले ग्रन्थीन् भित्वा स्थितोपरिष्टात् त्वम् ।

अहितासुरमदनाशिनि जय जय मातर्नमो नमो ललिते ॥106॥

इभपतिगतिमतिसमरे देवि सुधासारवर्षिणीन्दुमुखि ।

अभियातदैत्यन्त्रि श्रीमति मातर्नमोस्तु ते ललिते ॥107॥

इदमिह सहस्रपत्रं तव पीठं कल्पितं हि सरसिरुहम् ।

इदमारुह्य मनोज्ञं त्वं पीयूषं सतोभिवर्षसि हि ॥108॥

इच्छानुरूपकार्ये जीवब्रह्मैकताविधानकरि ।

अच्छस्मितमुखि सदये हदये भव मे नमोस्तु ते ललिते ॥109॥

इह चक्रषट्कमूलं मूलाधारं च तत्र कुण्डलिनी ।

आस्ते कण्डलितङ्गी सा त्वं भवसीति ते नमो ललिते ॥110॥

इनकरविकसितसरसिजललितमणालीयसूत्रसूक्ष्मकटि ।

दिनकरकोटिसमाने जलजमुखि श्रीर्नमोस्तु ते ललिते ॥111॥

इह भवसि शिववधूस्त्वं मदनवधूटी त्वमेव जातासि ।

नाम्ना प्रपञ्चमाता मातस्त्वामेव चिन्तये सततम् ॥112॥

इह भवसि भावना त्वं हदये हदयेपि भावनागम्या ।

भावनयानुगतेन ध्यानेन त्वं सतां भवेस्सुलभा ॥113॥

इह भवसि भववने त्वं परशुर्दावानलोथवा त्वं हि ।

महितकलावति गिरिजे भूयो भूयो नमांसि ते ललिते ॥ 114॥

इह सकलमङ्गलानां विहिता कर्त्रीति कारणं च तथा ।

महिताम्नायस्तवने विहिता माङ्गल्यमन्दिरे त्वमसि ॥115॥

इह भवसि भद्रमूर्तिः शिवजायासि त्वमेव जगति शिवा ।

अहिभूषणतनुहारिणि भव भयहारिण्यसि त्वमेव शिवे ॥116॥

इह भक्तभाग्यधात्री भक्तप्रीता त्वमेव भवसि ननु ।

वहसि शिवभारमखिलं भक्तनिधे ते नमो नमो ललिते ॥117॥

इह भक्तिरेव शुद्धा भवति कता प्रिया हि सुजनेन ।

विहगेशवाहनेड्ये मातस्तुभ्यं नतिर्मया विहिता ॥118॥

इष्टादिकर्मगम्या तुष्टै ते सैव यदि कता विमला ।

इष्टार्थदात्रि भजतां तुष्टा मय्यस्व सन्ततं ललिते ॥119॥

इष्टेतराणि सकलान्यष्टभुजैस्त्वं निवारयेर्ननु ते ।

अहितबलानि सदा त्वं नैजबलेनैव हन्तुमुदितासि ॥120॥

इष्टां सर्वेषां नः सृष्टिस्थितिनाशभयतमोहरणम् ।

इष्टां प्रदातुमीशे मुक्तिं मे देहि तां त्वमेवाम्ब ॥ 121॥

इष्टं वितरस्यर्थं नवरात्रान्ते त्वमेव देवानाम् ।

नादज्ञानदवाण्या सेवितचरणे नमोस्तु ते ललिते ॥ 122॥

इह दृश्यमानरूपो भूमूर्तिः शङ्करस्तदर्धाङ्गी ।

त्वमसि हि महिमापूर्णा हैमवति त्राहि मां त्वमेवाम्ब ॥123॥

इह चामुत्र च सुखदे महितगुणाढ्ये मुरारिसहजाते ।

सहजारुणमुखकमले जहि मम पापानिसञ्चितान्यम्ब ॥124॥

इष्टार्थदानशीले तुष्टा नमतां सपर्यया सतम् ।

इष्टप्रियासि सा त्वं पुष्टिं तुष्टिं च वितर मे ललिते ॥125॥

 इच्छारागद्वेषान् अभिहत्यात्मन्यशेषसुजनेच्छाम् ।

यच्छसि तुष्ट्या त्वं मेभीष्टानर्थान् प्रदेहि हे ललिते ॥ 126 ॥

इभवदनजननि साध्वि श्रीमत्सम्पूजिते जितामित्रे ।

प्रभवसि त्वं तापार्तं त्रातुं जनमम्ब निजकृपापाङ्गैः ॥127॥

इभवदनवन्द्यमाने शारदपूर्णेन्दुराजमानास्ये ।

त्रिभुवनजननि दयालो कारुण्यं ते सदास्तु मयि दासे ॥128॥

इष्टप्रदात्रि धात्रि त्रिनयनहदयप्रिये सदा ललिते ।

तुष्टस्वान्तसरोजे गुणमयि मां पाहि किन्नरोद्गीते ॥129॥

इष्टा हि तेम्ब शान्तिः स्वान्ते शान्तिप्रदासि ननु नमताम् ।

शातोदरि दरहासस्फुरदास्येन्दो नमोस्तु ते ललिते ॥ 130 ॥

इह च परत्राधारं कमपि विनाधारमात्मनोभ्येत्य ।

            त्रिपुटीरहितासि त्वं ब्रह्मैवासीति भावयामि त्वाम् ॥ 131 ॥

            इह च परत्र विशुद्धे चित्ते वाचि क्रियाकलापेषु ।

            भुवननिरञ्जनचित्ते चित्तागारे वसाम्ब मे ललिते ॥132॥

            इह शतपत्रसुपत्रे पतितं वारीव वर्तमाना त्वम् ।

            विहरसि सत्तासत्ताभवविषये त्वं तथैव मां पाहि ॥133॥

            इह परिशुद्धात्मा त्वं सत्यज्ञानाग्निदग्धतिमिरासि ।

            अज्ञानमन्धकारं जाने तेनासि विरहिता ललिते ॥134॥

            इह च परत्र च नाशो न हि ते निहिता पदे स्थिरे सततम् ।

            विहितविधायकधात्रा मित्रामित्रादिभेदरहितासि ॥135॥

            इष्टाकारविहीना ब्रह्मसरूपासि भावनातीता ।

            इष्टजनतुष्टिदात्री ब्रह्माणी त्वं रमापि भवसीह ॥136।

            इच्चारूपोद्वहने शक्तापि त्वं भवेनुरक्तापि ।

            व्याकुलतारहितासि श्रेयस्करि ते नमो नमो ललिते ॥137॥

            इष्टगुणत्रयरहिते तुष्ट्या लक्ष्म्या च तेजसा कलिते ।

            अष्टविधायुधहस्ते दुष्टघ्नी त्वं सदांब मां पाहि ॥138॥

            इह जगति शान्तरूपा कातरतारहितमानसा सततम् ।

            वहसि विचित्राकारा नाकारेणापि विरहिता भवसि ॥139॥

            इह चामुत्र च नित्या भङ्गुरता ते कदापि नैवास्ति ।

            विद्या कालातीता भङ्गासितचारुकुन्तले पाहि ॥140॥

            इह च विकारविहीना निश्चलचित्तासि कामरहितासि ।

            विहससि कामविकारानहितानां त्वं ममापि मातासि ॥141॥

            इहपरभेदविरहिता त्वं सुधया सिञ्चस्यशेषलोकमपि ।

            देहानपि तनुभाजां मधुरालापे त्वमेव मां पाहि ॥142॥

            इच्छोपाधिविहीने मुक्त्या सत्यात्मनापि सङ्गते महिते ।

            स्वच्छायाञ्चद्वसने भक्त्याश्लिष्टं कुरुष्व मां ललिते ॥143॥

            इच्छाविकारहीने स्वच्छायाच्छाद्यमानभुवनतले ।

            स्वच्छाययाभिरामे स्वच्छात्मानं विधेहि मामम्ब ॥144॥

            इह च परत्र च चिन्तारहिते द्वैताभिमानहीनेंब ।

            अहितविनाशिनिकान्ताक्रान्तस्वान्ते नमोस्तु ते ललिते ॥145॥

            इष्टाधारविहीने तुष्टात्माधारसङ्गते महिते ।

            पुष्टिः कतनतकष्टिश्रेष्ठे नित्यं नमोस्तु ते ललिते ॥146॥

            इच्छार्जितपदकमले नित्यविशुद्धे सदाहवे सिद्धे ।

            शिष्याभीष्टदहस्ते नित्यं वस मे हदम्बुजे शुद्धे ॥147॥

            इच्छारूपिणि मातर्नित्यविबुद्धे स्वभावपरिशुद्धे ।

            इच्छामि विश्वमातस्तव करुणापाङ्गपातमिह देवि ॥148॥

            इष्टिपरितुष्टचित्ते दुष्टाविद्यातमोविनिर्मुक्ते ।

            तुष्टा मयि भव चित्तेभीष्टं मे देहि करुणया युक्ते ॥149॥

            इच्छानुकूलवेषे सततं चोङ्काररूपिणी त्वमसि ।

            अच्छाम्बरपरिधाने चिन्तितफलदात्रि ते नमो ललिते ॥150॥

            इदमिति निश्चितरूपं तुभ्यं प्रादान्न कोपि ननु रूपम् ।

            तत्‌त्वमपावतरूपा प्रणतिस्तुभ्यं निरन्तरं भवतु ॥151॥

            इह तु न भवति कलङ्कस्त्वयि तव वदनेन्दुमण्डले नापि ।

            अहिता नासि सतां त्वं त्वं तव रूपेण निर्जितेवासि ॥152॥

            इह भवति नान्तरायो नोपाधिर्नापि नैजवेषो वा ।

            विहितागमपरतन्त्रा जगती विहिता त्वया नमो ललिते ॥153॥

            इह भवति तव नियन्ता नैकोपीशानमेकमपहाय ।

            श्रेयस्यथवा श्रेयानम्ब श्रेयो न हि त्वदत्रापि ॥154॥

            ईशान्नाशासेहं दैवीं सम्पत्तिमन्वहं दधतीम् ।

            ऐहिकमथवामुष्मिकसौख्यं प्राप्तुं मनस्सतर्कं मे ॥155॥

            ईशानासि सुराणां विषयाशानाशकारिणी त्वमसि ।

            ईशार्धाङ्गहरा त्वं श्रीशाद्यमरालिसेविता जयसि ॥156॥

            ईशापि सर्वजगतां मदरहिता मानिनी त्वमेवासि ।

            ईशानाज्ञाधीना हदयसरोजाधिरूढकरुणासि ॥157॥

            ईश्वरि जगतामाशाधीशाभीष्टप्रदायिनी त्वमसि ।

            ईश्वरकार्यकरी त्वं पाशान्मामाशु मोचयेरेव ॥158॥

            ईश्वरनियमितसरणौ चिन्तारहिताभिवर्धयस्व शमे ।

            आयुश्चेष्टापूर्तप्रणयिनि कुरु मङ्गलानि च मे ॥159॥

            ईश्वरसममहिमाढ्ये न्यूनाधिकसाम्यभेदवद्भिन्ना ।

            धीश्वरि वागीश्वरि मे मानसरङ्गे रमस्व धीनुन्ना ॥160॥

ईश्वरि दारसुतादिप्रापञ्चिकविषयमोहरहितासि ।

शाश्वतसुखदात्री त्वं शाश्वति जहि मे शुचं नमो ललिते ॥161॥

ईशप्रियकरि ललिते पुत्रकलत्रादिमोहपाशकरी ।

शाश्वतसुखदात्री त्वं शाश्वतसुखमेव देहि मे गिरिजे ॥162॥

ईक्षेथा न ममत्वं त्वं ममतारहितमानसा भवसि ।

अभिमानहीनहृदये सदया हृदयेन गिरिसुते जयसि ॥163॥

ईहाभिमानममताबोधनविच्छेदकारिणी त्वमसि ।

देहाभिमानमुक्ता मुक्ताताटङ्कमण्डिता जयसि ॥164॥

ईक्षणरसनाश्रोत्रत्वङ्निसाग्राह्यपापनिर्मुक्ता ।

राक्षसबलमिव पापं नाशयसीहाम्ब ते नमो ललिते ॥165॥

ईशाननयनदहनज्वालादग्धस्मरा सकरुणासि ।

पापविनाशकरी त्वं पुण्यमयी चासि ते नमो ललिते ॥166॥

ईश्वरि कोपविहीने शाश्वतशान्तिप्रसादसङ्कलिते ।

शश्वन्नमतामिष्टं शाश्वतमसकृत् प्रदातुमर्हा त्वम् ॥167॥

ईश्वरि कोपदवाग्निप्रशमकरी त्वं समस्तजन्तूनाम् ।

शाश्वतशान्तिसुखे मे वितर दयापाङ्गभङ्गि हे ललिते ॥168॥

ईशार्धाङ्गसुयोगादन्याशापाशविरहिताभिहिता ।

क्लेशापायविहीना भवसि भवाम्भोधितारिणी त्वमसि ॥169॥

ईहारहिता भवती लोभवतां लोभनाशिनी भवसि ।

देहिषु दयसे सततं त्वमिहामुत्रापि भाग्यदा भवसि ॥170॥

ईतिभयनाशिनी त्वं संशयरहितासि साधुनिवहेषु ।

भूतेशहदयदयिते संशयभूतं जहि त्वमखिलेषु ॥171॥

ईशो न देवनामा कोपि न सत्यं न धर्म इति नैव ।

दोषैकदर्शिनां त्वं प्रतिवदतां चाशयं निवारयसि ॥172॥

ईशो ब्रह्म तथा त्वं कथिता जन्मादिबन्धरहितासि ।

केसरिकिशोरि समरे हिमगिरिकान्तारचारिणी त्वमसि ॥173॥

ईश्वरगहिणी भूत्वा जननं मरणं च देहिनां कुरुषे ।

शाश्वतसुखेच्छुकानां शरणं सा त्वं महात्मनां भवसि ॥174॥

ईश्वरि जगतां हृदये भ्रान्तिविकल्पादिभावनारहिता ।

ऐश्वर्यदानशीले नमतां प्रालेयशैलजे भवसि ॥175॥

            ईशानवल्लभा त्वं दोषविहीना च बाधया रहिता ।

क्लेशानुपशमय त्वं भवभीतानां भवाश्रयं देहि ॥176॥

ईशार्धदेहघटिता क्लेशकरद्वैतभावनारहिता ।

द्वेषासूयारहिता क्लेशापायघ्नि पालय त्वं माम् ॥177॥

ईश्वरतत्त्वाभिज्ञा  ज्ञातव्यार्थप्रकाशिका सदया ।

ईश्वरि विध्यण्डानां भेदमतिघ्नि प्रियं सतां देहि ॥178॥

ईश इव नाशरहिते शाश्वतसुखदात्रि देहिनां भजतां ।

ईशानतोषहेतो शश्वच्छश्वन्नमोस्तु ते ललिते ॥179॥

ईशानवल्लभात्वान्मृत्युं सर्वासुहारिणं जेतुं ।

ईशा त्वमेव नूनं मृत्युं जयसि त्वमेव मे शरणम् ॥180॥

ईहामोहविहीने क्रियया रहिता च कर्मणा जगते ।

देहानिव वहसि त्वं शक्तित्रयमप्यवश्यमेव ननु ॥181॥

ईरयसि दातुमखिलं सुजनं नादातुमीहसे दानम् ।

कस्मादपि भुवि तस्मात् परिजनरहितेव भाससे ललिते ॥182॥

ईश्वरि निरुपमरूपे निरुपमशौर्यॆऽम्ब निस्तुलाभिख्यो ।

ईश्वरकतचिरतपसामनुपमफलरूपिणी त्वमसि ॥183॥

ईक्षणचिकुरसुनीले नीलाकाशोपमे रमे देवि ।

राक्षसमर्दनधीरे बाले बालेन्दुराजिते पाहि ॥184॥

ईश्वरि निरपाया त्वं दारयसीहार्थिसम्भवापायम् ।

ईश्वरभक्तिमतां ते चरणं शरणं सदा स्थिरं देवि ॥185॥

ईश्वरि रूपगुणेषु व्यत्ययरहिते हिते सतां सततम् ।

कोपि कदाचिदपायो न भवति कस्माच्च तेम्बिके ललिते ॥186॥

ईश्वररविगणनाथश्रीनाथैस्त्वं हि सेविता सुजनैः  ।

धीराराधनसुलभा भवसि खलानां तु दुर्लभा त्वमसि ॥187॥

ईतिमयजटिलसंसतिविहितव्यवहारपाशमुच्छिद्य ।

पश्यति यस्स तु भवतीं तदितरजनतातिदुर्लभा त्वमसि ॥188॥

ईश्वरदुरितनिहन्त्री त्वमसि च दुर्गा च दुर्गमा भवसि ।

दुर्गैकसेवकानां सात्त्विकरूपा नमोस्तु ते ललिते ॥189॥

ईतय इव हृदि नानाशोकावेगा भवन्ति कतिनां च ।

इह जगति देहभाजां लोकानां तान्निवारयेस्त्वं हि ॥190॥

ईप्सितवैदिकमपि तत्सुखमिह यत्पारमार्थिकं सत्यं ।

ईप्सितसेवाकर्त्रे सा त्वं दत्से हि पाहि मां ललिते ॥191॥

ईश्वरि दुष्टारीणां भीषणरूपा त्वमेव सम्भवसि ।

दुर्लभरूपे दुर्गे दुर्गमदुर्गाद्विमोचयेरम्ब ॥192॥

            ईशानासि हि जगतां लोकायतिकाद्यधर्ममार्गस्थान् ।

            नाशयितुमम्ब दुर्गे सकलदुराचारनाशमपि कुरुषे ॥193॥

            ईश्वरि दोषविहीने शाश्वतसौभाग्यदात्रि सावित्रि ।

            शाश्वतिकसम्पदं त्वं करुणारक्षां च देहि मे ललिते ॥194॥

            ईश्वरि करुणापूर्णे सर्वज्ञा त्वं च चक्रराजस्था ।

            सृष्टिस्थितिलयमर्मज्ञात्री धात्री च नस्सदा भवसि ॥195॥

            ईड्ये सतां गुणाढ्ये मातः कारुण्यवारिधे भजताम् ।

            करुणापाङ्गपयोदैः प्लावय दीनान्तरङ्गवसुधां च ॥196॥

            ईश्वरि सदशाधिकतारहिता सहिता च करुणया सततम् ।

            जगति भवत्या सदशी व्यक्तिर्नहि कापि दृश्यते ललिते ॥197॥

            ईश्वर्याद्या शक्तिर्जगतां त्वं तावदखिलभीतिहरा ।

            युक्त्या शक्तिसमष्ट्या जयसि त्वं देवि तेजसा रुचिरा ॥198॥

ईश्वरि मङ्गलमूर्ते कात्यायनि सर्वमङ्गले ललिते ।

पात्रं कुरु करुणायास्तव मां मातर्नमामि ते चरणम् ॥199॥

            उडुराजसुन्दरास्ये सन्मतिदात्री प्रणामनिरतानम् ।

            मडरमणि हसितलास्यस्फुरदाननचन्द्रिके नमो ललिते ॥200॥

            उडुराजचूडदयिते ब्रह्माण्डग्रामशासने रसिके ।

            मडनाट्यमार्दवेड्ये ब्रह्मानन्दप्रदे नमो ललिते ॥201॥

            उरगाधिपधतवसुधाद्यखिलधरालोकशासने दक्षे ।

            सरसीरुहदलनयने मातस्तुभ्यं नमो नमो ललिते ॥202॥

उरगेशकेशपाशे सकलालङ्कारशोभिते ललिते ।

द्विरदारिवाहने ते चरणं सर्वात्मना भजे सततम् ॥203॥

            उपरि तथोच्चैर्जगतां शासकवर्गे त्वया समं महिता ।

            शासितुमपरा नास्ति त्वय्ययत्तानि सकलभुवनानि ॥204॥

            उपनतसकलसुतन्त्रे विस्तारिणि विश्वमण्डलस्यापि ।

            तपनीयभूषणाढ्ये सा त्वं सर्वत्र पाहि मां सततम् ॥205॥

            उन्मग्नमग्नचित्ते संसाराम्भोनिधौ मनस्सु सताम् ।

            मुक्तिस्थितिमति सततं माहेश्वरि ते नमो नमो ललिते ॥206॥

उपमानविरहिता त्वं सकलब्रह्माण्डनायिका भवसि ।

माहेश्वरि मयि करुणां कुरु हे मातङ्गवंशजे ललिते ॥207॥

मडविजयकारिणि त्वं निजविजयादेव ते नमो ललिते ॥208॥

            उज्ज्वलतेजोराशे न भवत्युपमा जगत्‌त्रयेपि तव ।

            प्रज्वलति कीर्तिलक्ष्मीस्तव सौन्दर्यं तथा महालक्ष्मि ॥209॥

उपवीणयितुमलभ्ये मायावत्तं च दुर्गमं भुवने ।

अपहतसुमनोहदये भूयो भूयो नमोस्तु ते जननि ॥210॥

उज्वलरूपवती त्वं ब्रह्माण्डव्यापिनी महारूपा ।

प्रज्वालयसि च धाम्ना ब्रह्माण्डं ते नमो नमो ललिते ॥211॥

            उमया रमया वाण्या सहितैः सम्पूजिते सुराधीशैः ।

            हरिहरपरमेष्ठिभिरपि नित्याराध्यासि ते नमो ललिते ॥212॥

उपनतपातकनिवहं भजमानानां निवारयेरम्ब ।

उपमातीतमपीदं क्रूरं पापं ममापि जहि जननि ॥213॥

उपवर्णयन्ति मायां ज्ञानं कवयोपि सत्प्रशंसन्ति ।

जगतीकारणमायामाये चानन्ददे नमो ललिते ॥214॥

उर्वीधरवरजाता त्रिभुवनसारा पयोधिगम्भीरा ।

गर्वितसुररिपुनाशिनि सुभगा सा त्वं नमोस्तु ते ललिते ॥215॥

उत्तमशक्तिगरिष्ठे मेरोः पृष्ठे सदा कृतावासे ।

उत्तमगुणवति गिरिशप्रेयसि मां पाहि हे महाशक्ते ॥216॥

            उत्तमचरिताराध्ये त्रिभुवनसंमोहनाकते महिते ।

            चित्तजरमणीकोटिप्रतिमे मां त्वं तु दारकं पाहि ॥217॥

            उत्तमकमलभवाण्डव्यापिनि सौभाग्यसङ्गते सततम् ।

            निजवरभुवनागारे रममाणे ते नमो नमो ललिते ॥218॥

            उज्वलपिङ्गमहोभी राजितमूर्ते श्रिया युते सततम् ।

            प्रज्वालय मयि देवि ज्ञानमहादीपमम्ब हे ललिते ॥219॥

उत्तमदेहविभागज्योतिः स्तोमेन दीपयस्यखिलम् ।

जगदिदमम्बुजनयने नयनेनेक्षस्व मामिमं चपलम् ॥220॥

उन्माद्यदिन्द्रियाणां जगतां बलमेकमर्दयेस्त्वं हि ।

त्रातुं जगतीं प्रबला धर्मेणेहासि कोविदा ललिते ॥221॥

            उद्धतदैत्यनिषूदिनि निजबलपरिवद्धिकारिणी त्वमसि ।

            सिद्धसुरस्तुतपादे पादे प्रणतं पुनीहि मां ललिते ॥222॥

            उत्तमबुद्धिमती त्वं सर्वज्ञासि त्वमेव सिद्धिरपि ।

            उत्तमफलदात्री त्वं नित्यं नमतां नमोस्तु ते ललिते ॥223॥

            उत्तमबुद्ध्या सिद्ध्या साधितसंसाररक्षणा त्वमसि ।

            कमलमुखि कामदात्रि त्रिभुवनजननि त्वमेव मां पाहि ॥224॥

            उत्तमयोगिजनेश्वरि सकलामरबन्दशक्तिसंसिद्धे ।

            हरिहरविरिञ्चिरूपे शक्तिनियन्त्रि त्वमेव मां पाहि ॥225॥

            उज्वलरूपिणि नानामुद्राभिज्ञे समस्तबलमूले ।

            कर्मक्रियाश्रयत्वं वहसि त्वं देवि ते नमो ललिते ॥226॥

            उपधीनखिलानसुरैर्विहितानुन्मूल्य विजयिनी त्वमसि ।

            बीजाक्षरवरमन्त्रज्ञानाधारे नमो नमो ललिते ॥227॥

उद्धतसमस्तविश्वं यन्त्रगणं शक्तिदानपरिपुष्टम् ।

उद्धरसि यन्त्रदूरे यन्त्राधारेम्ब ते नमो ललिते ॥228॥

            उपगतषोडशवर्णैः स्वररूपैरेव च ते कलाः सकलाः ।

            ब्रह्माण्डपालनाय ख्याता जाता हि ते नमो ललिते ॥229॥

            उत्तमतत्त्वज्ञानप्रदमनुविद्यास्वरूपिणी त्वमसि ।

            विद्याकारे हद्ये जगतामाद्ये नमोस्तु ते ललिते ॥230॥

            उडुपतिमण्डलममतापूरमयं तेन सिञ्चसि क्षोणिम् ।

            भवसि हि चन्द्राभिख्या विद्या त्वं ते नमो नमो ललिते ॥231॥

उर्व्यादिपञ्चभूतख्यातमहारत्नपीठमध्यगते ।

ब्रह्माण्डमेव पीठं प्रणवसहस्रारपङ्कजं ननु ते ॥232॥

            उत्तम ओङ्कारस्थे प्रेताख्याताध्वरक्रमाराध्या ।

            उत्तमफलदासि त्वं वैश्वानरवर्गसेविता शुद्धा ॥233॥

            उज्ज्वलमूर्तिं साक्षादम्ब त्वामेव पूजयेत् देवीम् ।

            भैरव एव शिवोपि प्रथमोऽभूत्तेन ते नमो ललिते ॥234॥

ऊरीकृतनिजकार्यारम्भे नाट्यप्रिये महादेवे ।

नटति सति साक्षिणी त्वं करुणामूर्ते नमोस्तु ते ललिते ॥235॥

            ऊहातीताकारे कामेशार्धाङ्गयोगविख्याते ।

            त्रिभुवनपालिनि जननि प्रीता त्वं देहि मेम्ब कल्याणम् ॥236॥

ऊर्ध्वं नीचैर्मध्ये लोकास्सन्ति त्रयोपि ते वपुषि ।

भवनानि वा पुराणि त्वं पुरसुन्दर्यसीह मे जननी ॥237॥

            ऊहेयस्वरवर्णैः षोडशपूजाश्चतुर्भिरिह गुणिता ।

            उपचाराश्च सपर्यास्ता आधत्सेम्ब ! मातकारूपे ॥238॥

ऊहापोहो नायं षोडशवर्णाः स्वराः स्वतन्त्राश्च ।

निजभेदसङ्गतास्ते षष्टिकलास्ते चतुष्कलासहिताः ॥239॥

ऊरीकताक्षराणां योगादासन् हि शक्तयः सकलाः ।

योगिन्योमूर्नित्यं त्वामेवार्चंति ते नमो ललिते ॥240॥

            ऊनेतरदथवा सम्पूर्णं चन्द्रस्य मण्डलं यत्त्वम् ।

            तन्मध्यवासिनीति ज्योत्स्ना ख्यातासि ते नमो ललिते ॥241॥

            ऊरीकतसुरसुन्दररूपालङ्कारशोभिते ललिते ।

            दूरीकुरु मे दुरितं सकलं सकलात्मिका त्वमेवासि ॥242॥

ऊरीकृतनिजकार्ये ! साधितकार्या च सा त्वमेवासि ।

दूरीकृतभवबाधा त्रिभुवनसाम्राज्ञिकासि सा त्वमेवाम्ब ॥243॥

            ऊरीकृतामतास्ये ! चारुस्मितचारुचन्द्रिकोल्लास्ये ।

            दारक इति मां पाहि त्वं ननु विश्वप्रसूतिका जयसि ॥244॥

            ऊर्ध्वमधस्ताद्देहे सन्ति हि चक्राणि यत्सहस्रारम् ।

            चक्रं शिरसि तदेतद्भवनं श्रीदेवि त्वं भवेर्हि तत्रैव ॥245॥

ऊहातीतचरित्रे पर्वतराजस्य पुत्रि गायत्रि ।

प्रतिदेहवासिनी त्वं चैतन्यं चासि विश्वरूपा च ॥246॥

ऊर्ध्वमयूखैर्भास्वान् हिमवति कमलानि यानि बोधयति ।

तैरर्चंति हि मुनयस्त्वामनिशं देवि ते नमो ललिते ॥247॥

ऊरुद्वयेन रम्भां जित्वा त्वं विश्वराज्यसर्गेपि ।

सा रम्भा ननु नारी त्वं तावत्पुरुषकारसम्पन्ना ॥248॥

ऊर्जस्विपञ्चपीठान्यनवद्यान्यम्ब ते विराजन्ते ।

प्रेयांसि तानि तं च त्वत्पादाम्भोजपावितान्यम्ब ॥249॥

ऊर्जस्वि पञ्चकं ते विधिहरिरुद्रप्रभेदसञ्जातम् ।

त्रयमिदमपि तव पीठं ब्रह्मत्वं तावदेकमेवं हि ॥250॥

ऋतमम्ब ते स्वरूपं चिद्वा चैतन्यमेकमेवं हि ।

चिन्मय्यसि च तथा त्वं तव भासा त्वं विराजसे नितराम् ॥251॥

ऋतमेव ते प्रियं तत् पदमानन्दाय ते त्वमेव तथा ।

ब्रह्मानन्दाकारे सारसगमने त्वमेव मां पाहि ॥252॥

ऋषिमतमेव ज्ञानं विज्ञानं चानुभूतिसञ्जातम् ।

तदसि हि तद्द्वयरूपा त्वामेवं तावदाश्रये ललिते ॥253॥

ऋतमसि नित्यं चिन्त्या ध्यानं ध्याता च निश्चितं ध्येयम् ।

त्रिपुटीति चासि या त्वं सा त्वं मां पाहि ते नमो ललिते ॥254॥

ऋतरूपासि ऋतं तत् जीवयसि त्वं तदेव रक्षसि च ।

धर्माधर्मविदूरे मदगजगमनेम्ब पाहि मां ललिते ॥255॥

ऋतमिह विश्वं जाग्रत् जातं तद्रूपमेव ननु देवि ।

प्रणवस्यादिरकारस्त्वं भवसि त्वं भवानि मां पाहि ॥256॥

ऋतमम्ब जाग्रदिति यः कालो जीवस्य कार्यकालो हि ।

कालस्सोपि तवाम्ब स्फुरति हि रूपं नमोस्तु ते ललिते ॥257॥

            ऋतवाणि देवि ललिते तैजसरूपे मुदैकमरकन्दे ।

            ऋतधारिवेदमाता मातास्माकं त्वमेव ननु ललिते ॥258॥

            ऋक्षाधिपसमवदने रूक्षासुरनाशकारिणी त्वमसि ।

            सुप्तावस्थारूपे जागृहि चागरय चेतनान् सकलान् ॥259॥

            ऋतवादिसेव्यमाने प्रणवे तावन्मकार एवासि ।

            तन्मुख्यजीवरूपे श्रीदेवि त्वामहं सदा वन्दे ॥260॥

            ऋषिहृदयमात्रवेद्ये मुक्तावस्थात्रये त्रयीवेद्ये ।

            मगराजवाहने त्वां जीवन्मुक्तिस्वरूपिणीं वन्दे ॥261॥

            ऋतुराजार्चितपादे वदनाम्बुजचारुताकतामोदे ।

            सर्वावस्थारहिते ललिते मां पाहि सामभिर्गीते ॥262॥

ऋतमवलम्ब्य सदा त्वं जगतां सृष्टिं करोषि रजसैव ।

त्वमपि चतुर्मुखरूपा रक्षसि भुवनं नमोस्तु ते ललिते ॥263॥

ऋषिभिरशेषैरमरैराराधितपादपङ्कजे ललिते ।

निर्मितजगतीमेकां गोपायसि देवि ते नमस्सततम् ॥264॥

            ऋतुपतिरिव स च नैजं जगदिदमखिलं च रक्षसि त्वं हि ।

            तेन च सात्त्विकरूपा गोविन्दासीर्नमो नमो ललिते ॥265॥

            ऋतपरिपन्थितमो यत् तेन युता त्वं जगद्विनाशाय ।

            प्रभवसि हि रुद्ररूपा दीनजने त्वं तु वत्सला भवसि ॥266॥

            ऋतमपहाय समस्तं भूतग्रामं ततस्तमोरूपे ।

            स्थापयसि रुद्ररूपा परुषेव त्वं तिरोहितं कुरुषे ॥267॥

            ऋतगर्भलीनमेतत् भुवनं तावत् तिरोहितं कुरुषे ।

            अणुकणकणमध्ये त्वं भूतानीमानिपुनरपि स्रष्टुम् ॥268॥

            ऋतमयविधिहरिरुद्रा यावन्न भवन्ति तावदेव त्वम् ।

            भवसि जगदीश्वरी वा नित्या सकला शिवात्मिका भवसि ॥269॥

            ऋतमसि हरिहररूपा श्रीदेवि त्वं कलात्मिका भवसि ।

            सा त्वं सदाशिवा वा भवसि भवानी नमोस्तु ते ललिते ॥270॥

ऋतमवलम्ब्य जयेस्त्वं जगदिदमखिलं तथानुगृह्णासि ।

नतजनमपि निजकरुणापात्रं कुरुषे नमोस्तु ते ललिते ॥271॥

            ऋतबलवति गिरितनये सृष्टिव्यापारयोश्च विश्वलये ।

            उपसंहारे निरता त्वमसि तथानुग्रहेपि निष्णाता ॥272॥

            ऋतमतमेव हि सततं भवति च विश्वं तदेव पालयसि ।

            उपजीवसीव मन्ये त्वमसि सदा भानुमालिनो मध्ये ॥273॥

ऋततपसि वर्तमाना भैरवदयितासि भैरवी त्वं हि ।

ऋतमिह पालय सा त्वं शाश्वति नित्यं नमोस्तु ते ललिते ॥274॥

            ऋतशक्तिकामसम्पत्सहिता गर्भे जगत्‌त्रयाकलिता ।

            ऋक्षशतमालिनी त्वं विविधाकारा भवेर्नमो ललिते ॥275॥

            ऋतजगदुदयनिदानेदानेनूनेवनेषु निष्णाते ।

            सृष्टिलयभूतगमना विद्याविद्याविदम्ब मां पाहि ॥276॥

            ऋतहेमगर्भगर्भे चिच्छक्तेस्त्वं भवेर्महापूर्वा ।

            वाणीति तासु मूर्तित्रयजायास्तथैव सञ्जाताः ॥277॥

ऋतशिवसुन्दररूपे शमितसुरस्तोमहदयसन्तापे ।

कमलोदरसहजाते त्रिभुवनगीतेम्ब ते नमो ललिते ॥278॥

            ऋतचिच्छक्तिरभून्ननु ता एव श्रीरुमेति वाणीति ।

            लक्ष्मीर्विधिरिति रुद्रो वाणी गौरी हरितो जाताः ॥279॥

            ऋतकार्याणि विधातुं वाणीं ब्रह्मा रमां हरिः प्राप ।

            त्वां ललितामिह शर्वः सा मां पाहि त्वमेव हे ललिते ॥280॥

            ऋतमपि भुवनं भ्राता रक्षति भगिनी त्वमस्य किं कुरुषे ।

            दुर्गासि दुर्गतिं त्वं संहरसि त्वमेव हरयोषा ॥281॥

ऋतमपि जगदुदयति ते नयनाम्भोजे विकस्वरे जाते ।

मुकुलितवदने तस्मिन्मीलति चक्षुष्क्रिया त्वदालम्बा ॥282॥

            ऋतमयदशशतवदना दशशतनयना च सा त्वमेवासि ।

            ऋतमिह किं न तु जाने जानामि त्वां हि केवलं मायाम् ॥283॥

ऋतमथवानतमास्तामगणितनयना त्वमेव ननु भवसि ।

मतमभिमतमितरेषां किं वा स्यादत्र सा प्रमाणं त्वम् ॥284॥

ऋतमंब सप्तमादपि लोकान्नीचैः पदं तवोल्लसति ।

त्वमसि च वरशतचरणा करुणाभरणे त्वमंब मां पाहि ॥285॥

ऋतविधिकीटावधिकब्रह्माण्डैकप्रसूस्त्वमेवासि ।

अतुलितकरुणाभरणे ब्रह्ममयि त्वां भजे सदा मनसा ॥286॥

            ऋतवर्णाश्रमभेदानकरोस्त्वं देवि लोककुशलाय ।

            हितमवधत्तां लोकः सोयं नैजं तथा कुरुष्वांब ॥287॥

            ऋतवेदवर्गवाणी ता अप्याज्ञास्तवैव ननु देवि ।

            का तव वागितरा स्यान्मान्या न स्यादुपेक्षणीया वा ॥288॥

            ऋतपुण्यपापफलदा दाक्षायणि सा त्वमेव भवसि नृणाम् ।

            इति यदि कारय पुण्यं मा कारय पापलेशमप्यम्ब ॥289॥

            ऋतमम्ब श्रुतिरेषा वनिता ख्यातेति तच्छिरोदेशे ।

            पतति तव पादपद्मं सास्त्याज्ञाकारिणी तवादेशे ॥290॥

            ऋतवच्छ्रुतिरमणीनां सीमन्तेषूल्लसन्ति लीलास्ते ।

            धूलिकणास्सिन्दूरं धृतमिव तव पादपद्मरजसां च ॥291॥

ऋतसकलागमसंहतिशुक्तिसुसम्पुटकराजमाना सा ।

मुक्तारूपवती त्वं रमयसि तास्त्वां च ताश्च रमयन्ति ॥292॥

ऋतजीवजीवनार्थो मोक्षस्सायुज्यमम्ब के ते वा ।

वितरसि तत् तद्वा त्वं प्रियशतजीवेषु भवसि यदि देवि ॥293॥

            ऋतदेशसमयसुस्थितिभेदवशासि देवि परिपूर्णा ।

            सततमपि जगति सकला सर्वत्रापि त्वमम्ब मां पाहि ॥294॥

            ऋतमस्ति मह्यमेतद्विश्वं विश्वंभरासि सुखभोक्त्री ।

            इति ननु भावयसि त्वं भुंक्षे सौख्यं जगच्च भोजयसि ॥295॥

            ऋतमवति भुवनमखिलं भुवनार्तानामधीश्वरी त्वमसि ।

            पतितोद्धारिणि हरिणीचञ्चलनेत्रे सदाशिवे पाहि ॥296॥

ऋतलोकलोकजननी सकलब्रह्माण्डशासिका त्वमसि ।

गतिमतिरूपिणि जगतां त्वां तां वन्दे त्वमेव मे शरणम् ॥297॥

ऋतमिव चाधिविहीना यासि त्वं सैव जन्मरहिता त्वम् ।

इति सति का च्युतिरथवा भवति तवाप्यम्ब पाहि मां च त्वम् ॥298॥

ऋतमिदमम्ब विधाता तज्जनकस्त्वां सदा निषेवेते ।

सकलश्रुतिततिवचनं स्यादिति मन्येम्ब पाहि मां ललिते ॥299॥

            ऋतविषयबोधदात्री धात्री जगतोपि वल्लरीगात्री ।

            मतिशक्तिवर्धिनी त्वं पात्रीकुरु मां तवार्चनापात्रे ॥300॥

            ऋतमूलरूपमेव प्रणवं शंसन्ति पण्डिताश्चान्ये ।

            अपि नादवेदरूपा त्वामेवाहं नमामि तां ललिताम् ॥301॥

            ऋतमस्ति भाति चेष्टं रूपं नामेति पञ्चके नाम्नाम् ।

            रूपेण विरहिता त्वं ब्रह्मण एवासि रूपमयि धाम्ना ॥302॥

            ऋतहितकर एवैको ह्रीङ्कारस्तेऽम्ब भवति बीजेषु ।

            भवसि च सा त्वं वर्णस्स च बीजं वा त्वमेव बीजेषु ॥303॥

            ऋभवः स्तुवन्ति हि त्वां सति सत्प्रीत्यात्मिकां वरां देवीं ।

            ह्रीङ्कारबीजरूपां रूपेणानन्दकारिणा सहिताम् ॥304॥

            ऋभुनुतदिव्यचरित्रे मात्रे तुभ्यं नमो नमो जगतां ।

            ह्रीम्बीजपूज्यमाने मानेनाम्बास्तु ते नतिस्सततम् ॥305॥

            ऋभुमनुजदनुजमूर्तिषु मस्तकदेशेषु राजते यद्वा ।

            शुभकरसहस्रपत्रं तत्र त्वं हर्षवर्षिणी जयसि ॥306॥

            ऋभुगणकतनुतिमुदिते हेयोपादेयवर्जितेऽप्यजिते ।

            विभुरिति न हि ते नियतो नरसुरदैत्येषु कोऽपि हे ललिते ॥307॥

            ऋभुपतिनरपतिदानवपतिगणसम्पूज्यमानपदयुगले ।

अभिवादनपटुहृदयप्रतिफलिताकारशोभिते नम ओम् ॥308॥

ऋभुगणनरगणदानवगणराज्यानां त्वमेव साम्राज्ञी ।

अभिहितचरितासीति त्रिभुवनसंसारधूर्वहे धीरा ॥309॥

ऋभुपतिदयिताराध्ये ऋभुवनितानां च देवि ते मध्ये ।

ताभिरपि विदितहृदयश्श्रीकाभिस्त्वां भजे मनोमध्ये ॥310॥

ऋभुनरदानवजङ्गमहदयानां चान्यजीविहदयानाम् ।

अभिमतरञ्जनकारिणि शुभमयहदये सदाम्ब मां पाहि ॥311॥

            ऋभुवनिताहितकारिणि शुभमयनरयोषिदर्चनप्रीते।

            अभयादीप्सितदात्री श्रीमति भजतां कपालिनि त्राहि ॥ 312॥

ऋभुपतिनिजपतिकमलानाथाम्भोजासनादिहृदयानि ।

मानवहृदयान्यारात् रञ्जयसि त्वं तथा च रमणी त्वम् ॥313॥

                        ऋक्षपतिपक्षभाजां हृदयानन्दं यथा कला कुरुते ।

                        इक्षुक्षीरसुरास्ते ताः स्वारस्यं वितन्वते मनसि ॥314॥

            ऋणभयनाशिनि नृणां रणरणिकानां च मानसे विरसे ।

            अणिमादिसिद्धिहेतो रणदुज्वलचारुमेखले पाहि ॥315॥

            ऋभुवनिताभिर्वलयिता श्रीरूपेण या नन्दयति सर्वान् ।

            अपि मम गृहमानन्दय प्रह्वीकतनमनमत्र हे ललिते ॥316॥

            ऋणभारकतमतितापं मनसः शमयसि त्वं देवि ।

            यो ध्यायति त्वां नित्यं तं सुखयसि पूर्णेन्दुवक्त्रभासुरया ॥317॥

            ऋषिकुलमोदा भवती मनसा मन्त्रैकदर्शिनी त्वमसि ।

            रतिरूपासि सवित्री लोकानां त्वं पुनीहि मां ललिते ॥318॥

ऋषयोपि पाशबद्धा दयितासहिता रतिप्रिया भुवने ।

विषयाकृष्टमनस्काः तेषां बोद्ध्री त्वमेव ननु भवसि ॥319॥

ऋषिमानससरसीरुहवनहंसी त्वं ततस्सतां मार्गे ।

रक्षाकरीह भूत्वा गमयसि मातर्नमोस्तु ते ललिते ॥320॥

ऋषिजनमारकराक्षसनाशकरी त्वं बभूविथा ज्ञानम् ।

शमयितुमायुधहस्ता दुर्गे देवी तथा दयादुर्गा ॥321॥

            ऋषिजनमानसमनिशं यस्यां रमते तथैव दयसे त्वम् ।

            तन्मानसानि रमयसि परमब्रह्मरूपिणी त्वमसि ॥322॥

            ऋतुधर्मशालिनीनां वनितानां त्वं करोषि सुखबोधम् ।

            धर्मं पातिव्रत्यं त्वमसि सदा रमणलम्पटा देवि ॥323॥

ऋषिहृदयकामिता त्वं काम्या देवैश्च सकलजन्तूनाम् ।

विषयपराङ्मुखमनसां सुलभासुलभा सविषयिणां त्वमसि ॥324॥

ऋषभादिस्वरगेया कामकलाबोधिनी महादेवि ।

वृषवाहहृदयवेद्ये मातर्ललिते नमोऽस्तु ते देवि ॥325॥

ऋभुपत्युपवनसम्भवनीपद्रुमकुसुमसौरभप्रीते ।

अभिमतमधुमैरेये धूतापाये नमोऽस्तु ते ललिते ॥326॥

ऋतमयि मायातीते मायाप्रच्छन्नकान्तिमत्काये ।

प्रतिहतदुरितनिकाये कल्याणी त्वं नमोऽस्तु ते ललिते ॥327॥

            ऋभवः प्रभवः केचित् जगतीकन्दं न जानते तेऽपि ।

            शुभमयि भवतीं तस्मात्त्वं मां प्रणतं पुनीहि जगदम्ब  ॥328॥

            ऋतमूलविश्ववल्लीकन्दस्त्वं भवसि मूलरूपा वा ।

            कन्दस्सोऽपि शरीरे वस्तिविभागे विराजसे नृणाम् ॥329॥

            ऋतमवसि कुण्डलिन्यां कन्दो देहेऽस्ति यस्त्वमेवासि ।

            फणिनीहासि च सा त्वं का मे गतिरत्र वा विना भवतीम् ॥330॥

            ऋतमेव तावदेतत् करुणारससागरा त्वमेवेति  ।

            अत एव देवि भुवनं स्नेहं सौख्यं च भावयेस्त्वं हि ॥331॥

            ऋक्षाधीश इहास्ते षोडश धृत्वा कलाविकारी च ।

            षोडशकलाश्चतुर्भिर्गुणिता धृत्वा निरामया त्वमसि ॥332॥

            ऋतनुन्नसाधुविद्यानन्दानन्दप्रदा कलालापा ॥

            श्रुतिपेयगीतिरसिका त्वं तावद्देवि ते नमो ललिते ॥333॥

            ऋक्षपतिकोटिकान्ता कान्तारारामचारिणी ललिता ।

            रक्षितसुरनरभुवना त्वं तावन्मातराश्रितान् पाहि ॥334॥

            ऋक्षपतिकोटिनिर्मितिकारणकान्त्या स्फुरन्महारूपे ।

            वक्षोजभारनम्रे कम्रे कम्रत्वबन्धुरे पाहि॥ 335॥

            ऋतपथ्यकारिणी या सुरवनकादम्बसम्भवा मदिरा ।

            सा तव मानससुखदा प्रीता त्वं पाहि मामिमं ललिते ॥336॥

            ऋतमनतमुभयमेतद्दिनकररजनीशशासनीयतया ।

            वारुण्ये त्वं द्विविधा प्रेम्णा प्रथमां निषेवतां भवती ॥337॥

            ऋभवोपि सिन्धुलब्धां कपया ते देवि तां निषेवन्ते ।

            दिव्यामेव सुधां तत्प्रियममतं पातुमिच्छसि त्वं हि ॥338॥

            ऋभुषु च वरुणः प्रेयानमराणां मनुजदानवानां च ।

            वरुणप्रियममतं तद्विद्यारूपं तव स्वरूपमपि ॥339॥

            ऋभुवरुणसेव्यमाना नाडी नाडीश्वरी भवेत्तस्याम् ।

            जीवन्मुक्तानन्दा भवसि त्वं देवि ते नमो ललिते ॥340॥

            ऋभुषु नरेषु च द्विषद्वैरिषु या या विराजमानास्ताः ।

            विद्या अतीत्य विद्या त्वं जगदधिकासि ते नमो ललिते ॥341॥

            ऋतबोधिवेदमार्गौद्वावेवाद्यो भवाय भवमुक्त्यै ।

            मार्गो द्वितीय एव त्वं तद्वेद्यासि ते नमो ललिते ॥342॥

            ऋभुरिपुशुंभनिशुंभौ हत्वा त्रातुं त्वमेव विंध्यगिरौ ।

            निवससि नवनववेषा ख्याता सर्वत्र ते नमो ललिते ॥343॥

            ऋभुनरसुररिपुलोकान् अभयप्रदपाणिपल्लवैरेव ।

            त्वमसि ननु पालयित्री मातेवाम्ब स्तुते नमो ललिते ॥344॥

            ऋतवेदसोदरीणां इच्छाज्ञानक्रियाख्यशक्तीनाम् ।

            त्वमसि हि माता ख्याता कमलोदरभगिनी ते नमो ललिते ॥345॥

            ऋतपालिनि हरिमाये वैष्णवशक्ते समस्तभरणपटुशक्ते ।

            मूलप्रकते मातः त्वं मे जगतां च ते नमो ललिते ॥346॥

            ऋतमात्रवेदशक्ते स्वेच्छामात्रेण सकलकार्यरते ।

            अतिदैवतनिजशक्ते कृतिनिपुणे ते  नमो नमो ललिते ॥347॥

            ऋतनिगमवेद्यरूपे क्षितिजलपवनाग्निगगनमयरूपे ।

            धूताखिलविधपापे मातस्तुभ्यं नमो नमो ललिते ॥348॥

            ऋषिमनुनुतगुणरत्ने क्षितिजलदहनादिदेहिचररूपे ।

            मतिमन्मानसहंसी पाहि त्वं मां नमो नमो ललिते ॥349॥

            ऋतजातभूतजातज्ञातनाकानामीश्वराधीनम् ।

            मातेव जातपोतान् पालयसि त्वं नमोऽस्तु ते ललिते ॥350॥

            ऋतमथवानतमास्तां वद्धिं तनुषेनतं क्षयं तनुषे ।

            इति जगति त्वं द्वयमपि कुरुषे मातर्नमोस्तु ते ललिते ॥351॥

            ऋतवैरिकालदैत्यं क्षततनुमुक्तासुपञ्चकं कर्तुम् ।

            काली त्वमभूर्बालं क्षेत्रपमवितुं नमो नमो ललिते ॥352॥

            ऋतमेव विजयि विजयं क्षतिरहितं विदधती त्वं हि ।

            ऋतवेद्यपादपद्मे विजये मातर्नमो नमो ललिते ॥353॥

            ऋतधर्मपालिनी त्वं मितलोकासि त्वमेव सरसासि ।

            ऋतवत्यसि हदि शुचितां विमले मातर्नमो नमो ललिते ॥354॥

            ऋतमेव वन्द्यमखिलै रजसो दूरं च यत्तमोदूरम् ।

            अत एव दुर्गमा त्वं वन्द्ये सेव्ये नमो नमो ललिते ॥355॥

            ऋतजन्मभाग्यधात्री श्रुतिविद्वद्वृंदवत्सले सकले ।

            नुतिपरजनताहृदयोल्लासिनि मातर्नमो नमो ललिते ॥356॥

ऋतमयपदयुगयुगलां वाचं वाचंयमत्वमपि वेत्सि ।

बोधय बोधाद् विमलां ऋतवाचं मां नमो नमो ललिते ॥357॥

            ऋतवादिनि ऋतशीले नरनाथे वामकेशि हे सुभ्रु ।

            मेनाहिमगिरिबाले हरिवाहिनि ते नमो नमो ललिते ॥358॥

            ऋतसिंधुगर्भजाते ऋतपालिन्यम्ब हे महामाये ।

            श्रुतिगेयचारुपादे ऋतगेये ते नमो नमो ललिते ॥359॥

            ऋतपूर्णदहनगर्भे सततं त्वं वससि विश्वमहिगर्भे ।

            ऋतमणिशोभितकण्ठी सुतनो नित्यं नमो नमो ललिते ॥360॥

            ऋतमयि सकलापेक्षाव्रततेस्संपूर्णफलरूपे ।

            ऋतभक्तकल्पलतिके ऋतगर्भे ते नमो नमो ललिते ॥361॥

            ऋतमपि नयसि हि चित्तं व्रतरतिरथवा न वर्तते यस्य ।

            अतिकृपणत्वमवश्यं तनुषे त्वं पासि ते नमो ललिते ॥362॥

            ऋतविमलमानसानां अज्ञानध्वान्तविहितदृष्टीनाम् ।

            पाशविमुक्तिं मुक्तिं कुरुषे त्वं देवि ते नमो ललिते ॥363॥

            ऋतवेदविमुखमार्गानतिकलुषीभूतमानसानधर्मान् ।

            प्रतिपन्थिनस्समस्तान् अवधीस्त्वं ते नमो नमो ललिते ॥364॥

            ऋतविदितमात्मतत्त्वं स्मृतिनिहितं धर्ममोक्षयोर्मार्गम् ।

            भजतां स्वरूपिणी त्वं द्विजमुनिवन्द्ये नमोऽस्तु ते ललिते ॥365॥

            ऋतमतबाधात्रयमपि नितरामभ्येत्य दग्धहृदयानाम् ।

            आनन्दकारिणी त्वं प्रतिजहि पापानि ते नमो ललिते ॥366॥

            ऋभुभवबाधाः काश्चिन्नरकतिजाताश्च तास्समासाद्य ।

            तप्तानानन्दयसि त्वं तन्मां पाहि ते नमो ललिते ॥367॥

            ऋतमजरममतमाह श्रुतिरिति वद्धत्वविरहिता तरुणी ।

            मतिमलहारिणि मातस्त्वं मे मां पाहि ते नमो ललिते ॥368 ॥

            ऋतवचनदानपूजानिरताराध्ये तपस्विगुरुजाये ।

            नतिरतमनुजप्रीते मातर्मां पाहि ते नमो ललिते ॥369॥

            ऋतमयसुषुम्निकाये मध्यं चाध्यास्य शोभिताकारे ।

            तनुमध्येऽम्ब सुदायो नुतिरेषा ते नमो नमो ललिते ॥370॥

            ऋतलोकपूज्यमाने निजतनुमहसा तमोगुणघ्ने त्वम् ।

            लसदाभा व्यतिकरिणी ज्ञानान्दप्रदे नमो ललिते ॥371॥

            ऋतशुद्धबोधरूपे स्वयमेवात्मप्रभासमुल्लसिते ।

            नियमितनियतिकलापे धृतिमति वरदे नमो नमो ललिते ॥372॥

            ऋतमिति तच्चेत्यनुभववेद्यब्रह्मस्वरूपिणी त्वमसि ।

            अतिचतुरमतिसुगम्ये गम्ये यमिनां नमो नमो ललिते ॥373॥

            ऋतसहजदीप्तिरूपे शुद्धज्ञानस्वरूपिणी त्वमसि ।

            मतिमपि दिश मे ज्ञानं ज्ञानानन्दे नमो नमो ललिते ॥374॥

            ऋतविमुखानां तेषां सुरनरगन्धर्वमुख्यभेदानां ।

            आनन्दाधिकमेकं वहसि हि हर्षं नमो नमो ललिते ॥375॥

            ऋतमहितापानन्दादाकाशेऽन्तर्गता विशुद्धसत्त्वमयी ।

            सैव परापरकलिता शिवसोपानं त्वमेव ननु ललिते ॥376॥

            ऋतमत्यगम्यरूपा प्रकृतेश्चिद्रूपशोभिता माता ।

            इति भवसि देवि जगतां पाहि त्वं मां नमो नमो ललिते ॥377॥

            ऋतमयि पश्यन्ती त्वं नाम्ना शब्दार्थभावनारूपा ।

            योगविशारदवेद्या ध्येया तेषां नमो नमो ललिते ॥ 378॥

            ऋतगुणमयदृग्दृश्या सुकृतफलितेऽथ साधकाराध्या ।

            भवसि परदेवता त्वं भूयो भूयो नमोऽस्तु ते ललिते ॥379॥

            ऋतमेव वैखरीति त्वां नादज्ञानिनो वदन्त्यम्ब ।

            नादब्रह्म ब्रह्मज्ञानानन्दे नमो नमो ललिते ॥380॥

            ऋतवेदगोचरा त्वं तन्मात्राद्गेयमध्यमारावा ।

            साकारासि तथा त्वं मध्यमरूपे नमोऽस्तु ते ललिते ॥381॥

            ऋत इव जगति च भक्तस्वान्तसरोवारिमध्यचरहंसि ।

            ऋतपथचरहृद्गम्ये देवि त्वं पाहि ते नमो ललिते ॥382॥

            ऋतशिवहरिविधिपञ्चप्राणाख्यनाडिका त्वमेवासि ।

            तेन हि ते बलिनस्ते कार्ये सिद्धा नमो नमो ललिते ॥383॥

            ऋतमर्मवेदिनी त्वं कतमिहे कार्यं नभिस्तु जानासि ।

            नुतिमपि नमतां विहितां तामेकान्ते नमो नमो ललिते ॥384॥

            ऋतमिह भजतां मार्गे प्रेयसि चरतां मनोज्ञकृतपूजाम् ।

पूर्णामादाय त्वं वितरसि फलमम्ब ते नमो ललिते ॥385॥

            ऋतपथगामिनि सततं शृङ्गाराम्भोधिसारसम्पूर्णे ।

            चंचत्कलास्वरूपे शृङ्गाराख्ये नमोऽस्तु ते ललिते ॥386॥

            ऋतमिव विजयिनि सततं नतजनहृदयारविन्दमध्यस्थे ।

            प्रथितप्रहरणहस्ते मातस्तुभ्यं नमो नमो ललिते ॥387॥

            ऋतजालन्धरमुद्रावर्तिनि सङ्घातपीठमारूढे ।

            मतिमन्मानसहंसी त्वं जय मातर्नमो नमो ललिते ॥388॥

            ऋतमूलप्रणवङ्कितमोड्याणाख्यं विराजते पीठम् ।

            तव तावदास्थिता तत्पीठं महितं नमोऽस्तु ते ललिते ॥389॥

            ऋतमयि पराख्यशक्त्या मूलाधारस्थकुण्डलिन्या च ।

            देवि त्वमेव तेजोबिन्दुश्रीपीठवर्तिनी जयसि ॥390॥

            ऋतमेव गार्हपत्यं दक्षिणनामा क्रमात्त्रिचक्रेषु ।

            आहवनीयो गूढो यागस्त्रियुतेन सेविता त्वमसि ॥391॥

            ऋतमिह चान्तर्यागस्त्रिषु चक्रेषु त्रिधा स्थितेष्वेव ।

            आदाय गार्हपत्ये पश्चात्तेनाम्ब भवति ते ध्यानम् ॥392॥

            ऋतमूलगार्हपत्ये दक्षिणनाम्नीह पावकेष्वेव ।

            आहवनीये निहितव्यापारा देवि तर्पणं ननु ते ॥393॥

            ऋभुगणकामितफलदे ध्यानाभ्यासप्रियप्रसादकरि ।

            बन्धत्रयविद एव न बन्धनभीतिस्तव प्रसादेन ॥394॥

            ऋभ्वादिजीवगर्भं ब्रह्माण्डं तस्य साक्षिणी त्वमसि ।

            त्वयि साक्षिण्यां सत्यं का क्षतिरस्यास्ति देवि ते ललिते ॥395॥

            ऋभ्य्वादिसाक्षिणी त्वं देवि परं नास्ति कोपि तव साक्षी ।

            व्यापारमम्ब गूढं पश्श्येन्नैवात्र कोपि भुवनेषु ॥396॥

            ऋतधर्मकीर्तितेजोवैराग्यज्ञानषड्गुणैः पूर्णे ।

            वेदाङ्गदेवताभिः सहिते तुभ्यं नमो नमो ललिते ॥397॥

            ऋतषाड्गुण्यवती त्वं पुण्यवतीनां जगत्सु पुण्यवती ।

            तव सम्पदोऽप्यगण्याः कस्त्वां स्तोतुं क्षमेत हे ललिते ॥398॥

            ऋतमयि करुणाभरिते सततमपाङ्गाब्धिगलितसुधया त्वम् ।

            जीवयसि जीवलोकं जीवातुं त्वामहं भजे ललिते ॥399॥

            ऋतमपि भवती सा सा भवती नास्त्येव नो समा तेऽस्ति ।

            अत एव नायिका त्वं जगतां जगतां च नायकस्यापि ॥400॥

            ऋतमेतदेव मे स्यात् वपुरनपायीति भावमपनीय ।

            वितरतु विदेहमुक्तिं मुक्तापायं विधाय मे भवती ॥401॥

            ऋतमिव नाशविरहितस्वरषोडशिकाकते तथा तेषाम् ।

            संख्यानुरूपपुञ्जा तुष्टाभीष्टार्थदायिनी त्वमसि ॥402॥

            ऋक्षपतिमण्डलस्थाः पञ्चदशत्वं च षोडशाहत्य ।

            अविनाशिन्यो जाता जातानेताननारतं त्रातुम् ॥403॥

            ऋतमिव च जगदशेषं त्रातुं हालाहलं श्रियं कण्ठे ।

            दधतस्तपसार्धां हत्वा धत्सेऽम्ब ते नमो ललिते ॥404॥

            ऋक्षमणिहारभूते श्रयदणिमाद्यङ्गसिद्धिसङ्कलिते ।

            यक्षपतिमित्रदयिते मातस्तुभ्यं नमो नमो ललिते ॥405॥

            ऋक्षेशदहनदिनकरतेजोराशिं विधातुमिव धत्से ।

            द्युतिमयरूपमरूपा सत्यपि तुभ्यं नमो नमो ललिते ॥406॥

            ऋतमिव चाहं हदि हदि सिद्धा तिष्ठामि भावना चेति ।

            श्रीदेवी त्वं विदिता जीविभिरखिलैर्नमोऽस्तु ते ललिते ॥407॥

            ऋक्षेशमुखि सखी त्वं लक्ष्मीवाणीपुलोमजादीनाम् ।

            यक्षेशयोषिदीड्ये मातस्तुभ्यं नमो नमो ललिते ॥408॥

            ऋतसत्यादिगुणानां सृष्टेः कार्यं यदा न किञ्चिदपि ।

            शक्तिस्तदाविरासीः त्वं प्रकृतिर्नमोऽस्तु ते ललिते ॥409॥

            ऋतवत्यगोचरा त्वं मूलप्रकृतिरिति भवसि यत्सा त्वम् ।

            ऋतमव जगति समस्ते मातस्तुभ्यं नमो नमो ललिते ॥410॥

            ऋतमखिलदर्शि नित्यं त्वमपि तथा तद्विवर्धयस्येव ।

            कृतवसतिरसि हि मातः पायास्त्वं नस्सदा नमो ललिते ॥411॥

            एणाक्षि विविधरूपे रूपे रूपे स्थितावहित्था त्वम् ।

            भूरुहवह्निरिवासि हि जाग्रत्यव मां नमोऽस्तु ते ललिते ॥412॥

एकं ज्ञानमतं तद्भिन्नं त्वज्ञानमेव चैवं त्वम् ।

द्वेधा परापरेति प्रकटितभावासि ते नमो ललिते ॥413॥

एणाङ्कमिहिरपावकनयनो यश्शङ्करस्सदा तस्य ।

नयनानन्दकरेन्दुज्योत्स्नारूपासि ते नमो ललिते ॥414॥

एकात्मतात्मभक्तस्वान्तलसद्‌ध्वान्तभास्कराकारे ।

तेजस्विनि ते करुणा पायादस्मान् नमोऽस्तु ते धीरे ॥415॥

एकाकिनी यदा त्वं हिमवत्यासीर्निशुम्भशुम्भकते ।

शिवमेव दूतमकरोस्त्वं शिवदूती नमोऽस्तु ते ललिते ॥416॥

            एधित एव हि महिमा तावक ईशान इन्दुलोचनस्ते स्वामी ।

            ब्रह्मात्मनात्मनि त्वं स्थित्वाराध्यासि तस्य जगतां च ॥417॥

            एकं ब्रह्म तथैकः परमात्मायं हितेन सा त्वमसि ।

            शिवमूर्तिरेव रमणी सौभाग्यं देहि मे नमो ललिते ॥418॥

            एधेत ते कपा चेदङ्कोऽप्यायुक्तसम्पदेवेह ।

            कीर्त्यारोग्यबलश्रीजीवितकालैश्च ते नमो ललिते ॥419॥

            एकैश्वर्यवती त्वं लोकेशश्रीशशङ्कराभ्यधिका ।

            शाङ्कर्यसि भवभीरोर्भयनाशिन्यम्ब ते नमो ललिते ॥420॥

            एकीभूतशरीरा वपुषा नाथस्य शङ्करस्यासि ।

            प्रीणयसि तं त्वमेवं प्रीणयति त्वां स ते नमो ललिते ॥421॥

            एकमतेत्र रसानामाचारज्ञानसम्पदां महताम् ।

            नित्यं प्रियासि सा त्वं पालय मामम्ब ते नमो ललिते ॥422॥

            एकासनयमनियमज्ञानालम्बैश्च पूजिते विधिना ।

            सात्त्विककर्मठहदये नियतावासे नमोऽस्तु ते ललिते ॥423॥

            एकान्तवासशीले स्वान्ते स्वान्ते स्थिताप्रमेया त्वम् ।

            लोकानतिशेषेऽम्ब त्वामहमीडे नमोऽस्तु ते ललिते ॥424॥

            एकत्वदीप्तिकोशान् एकेभ्यो दीप्तिदायिनी त्वमसि ।

            लोकान्तरङ्गनिलये मातस्तुभ्यं नमो नमो ललिते ॥425॥

            एधस्सु दहन इव ते काये चैतन्यदीप्तदीप्तिरसि ।

            नित्यं समेधमाना दीपयतीदं जगत्‌त्रयं ललिते ॥426॥

एणाङ्कचारुवदने सदने माङ्गल्यदेवतानां च ।

भूयान्नतिरिह तुभ्यं वाचां मनसामगोचरे ललिते ॥427॥

एकं ब्रह्म च नित्यं जगदिति सा त्वं च चेतनारूपा ।

लोकं रमयसि लोको रमयतु चरितेन सन्ततं भवतीम् ॥428॥

एकं तमो गुहाढ्यं चैतन्यविरहितं सततम् ।

शक्तिस्वरूपिणी त्वं तमसो महतोऽपि ते नमो ललिते ॥429॥

एकाकृतिरसि न त्वं जडचेतनयोस्तदुभयरूपस्य ।

रूपत्रयं दधासि हि जडरूपायै नमोऽस्तु ते ललिते ॥430॥

एकैकवर्णयोगाद्विंशतिसहितानि सन्ति चत्वारि ।

बीजाक्षराणि मन्त्रे गायत्रीति प्रतीतरूपासि ॥431॥

एकैकवर्णयोगाद् व्याहतयस्सप्त लोकसामैव ।

शक्त्यवतारास्तव ताः पञ्चाशद्रूपिणी त्वमेवासि ॥ 432॥

एका हि राजशक्तिः फणिनीशक्तिः त्रिकालजा शुद्धा ।

शक्तिरिति सान्ध्यशक्तिः तासु त्वं भाससे नमो ललिते ॥433॥

            एति यमिहोपनयनं द्विजपदमभ्येत्यथात्मसंस्कृत्या ।

            तैरेव पूजनीया विप्रैस्संस्कारवद्भिरस्यम्ब ॥ 434 ॥

            एकीभूतैरखिलैस्तत्त्वैस्तत्त्वं महद्भवेदेकम् ।

            पीठमथ तव स्याद्बोधकमिष्टस्य तेजसो देवि ॥435॥

            एकं तदेव सत्त्वं ब्रह्म च गायत्र्यपीति ललितेति ।

            श्रीकण्ठकण्ठहाराधारितकण्ठी त्वमम्ब मां पाहि ॥ 436॥

            एकासनासि पत्या श्रीकण्ठेनापि निजविहारेषु ।

            लोकावनेषु समरे नानापीठायुधाकृतिर्भवसि ॥437॥

एकब्रह्मव्याहृतिविषयीभूता त्वमेव भवसीति ।

लोकत्रयं नमेत् त्वामार्यामार्याभिमानिनीं देवीम् ॥438॥

            एकैकस्यां तन्वां कोशाः पञ्चापि देवि राजन्ते ।

            ब्रह्मावासगृहाणि हि भवदावासाश्च ते नमो ललिते ॥439॥

            एकेनैव न शक्यं वर्णयितुं त्वामहीश्वरेणापि ।

            लोकातीतमहिम्ना जयसि हि सततं त्वमिष्टकादम्बा ॥440॥

            एकावस्था सुलभा भवति नरस्यापि यौवनावस्था ।

            नित्या हि तव तु सा त्वं जयसि तया देवि निश्चितावस्था ॥441॥

एकैश्वैर्यवतस्त्वं लोकाधीशस्य मानिनी भूत्वा ।

मदमानशालिनी स्याः कामं तुभ्यं नमो नमो ललिते ॥442॥

            एणीविलोलनयने मदघूर्णितपाटलाक्षि दैत्यवधम् ।

            कृत्वाऽसवमपि पीत्वा प्रोन्मत्ते ते नमो नमो ललिते ॥443॥

            एधितमधुपानमदा पाटलगण्डस्थली त्वमेवाम्ब ।

            साधयसि सकलकार्यं साधय मम कार्यमीप्सितं ललिते ॥444॥

            एति हि चन्दनगन्धद्रवमुख्यानेकचर्चितां देवी ।

            भौतिकमूर्तिस्तव तद्भवति हि भूताङ्गसुरभिचार्चिक्यम् ॥445॥

एति प्रियता हृदयं तव नवचाम्पेयकुसुमवहनाच्च ।

वाणीप्रियं हि सा गीर्भवति त्वद्धामवासिनी ललिते ॥446॥

            एतावान्महिमा ते नियतो नैवेति भासि कुशलानि ।

            सष्टिस्थितिलयकतिषु त्वं यत्कार्येषु दक्षिणा भवसि ॥447॥

            एनांसि हन्तुमर्हा सा त्वं श्रीदेवि कोमलाकारा ।

            नानाविधजनहदये मद्वङ्गी त्वं विराजसे नितराम् ॥448॥

            एकातिमहदहङ्कतिसुदृढप्राकारचेष्टिते जगतीम् ।

            एकात्मनात्मजठरे वहसि त्वं देवि ते नमो ललिते ॥449॥

एको हि ते प्रपञ्चस्तस्य त्वं नायिकासि मातापि ।

मातुरिव मास्त्वनास्था गर्भस्थेस्मिन्नितीरयेत्को वा ॥450॥

            एकात्मनात्मभूमिं धत्से त्वं देवि भोगिनी भूत्वा ।

            देहानपि शतरूपान् भुवनाधारे नमोऽस्तु ते ललिते ॥451॥

            ऐहिकसुखमिच्छन्तः सेवन्ते त्वां तथैव कैवल्यम् ।

            इच्छन्तोऽपि च मार्गो भिन्नस्तेषां फलं तथा दिशसि ॥452॥

            ऐहिकबाधाहर्तुर्गणनाथस्यापि कार्तिकेयस्य ।

            मातासि देवतास्त्वां सेवन्ते चेति ते नमो ललिते ॥453॥

            ऐश्वरभाग्यमवाप्य श्रेयो दातुं जगत्‌त्रयस्यापि ।

            सिद्धासि साधकानां मर्त्या रोचन्त एव ते तेषु ॥454॥

            ऐहिकमर्थं महतां साधयितुं पारमार्थिकं च तथा ।

            यतमानानां सततं फलमिह धत्से समानमेवाम्ब ॥455॥

            ऐन्द्रियपुष्टिमती त्वं जन्तूनां पुष्टिदायिनी भवसि ।

            ईश्वरहरिविधिकार्याण्यादाय त्वं तु जागरूकासि ॥ 456॥

            ऐन्द्रियमदसंहारिणि मतिरूपे सन्मतिप्रदात्री त्वम् ।

            अधिगतशुद्धविवेका त्वमसि हि दद्या विवेकमेकं मे ॥457॥

            ऐश्वर्यमिव ददासि त्वं शान्तिं शान्तिकान्तरूपासि ।

            शान्तिं स्वान्ते मह्यं दद्य्यास्त्वं मे नमो नमो ललिते ॥458॥

            ऐश्वर्यमतुलमास्तां तव कृपया त्वं जनेषु सकलेषु ।

            स्वस्तिमति देहि मह्यं स्वस्ति स्वस्तिप्रदा त्वमेवासि ॥459॥

            ऐश्वरतेजोधारिणि तेजोरूपे जगत्त्रयाधारे ।

            दारय भवभयमखिलं तारय जलधिं नमोऽस्तु ते ललिते ॥460॥

            ऐहिककष्टनिवारिणि पारत्रिकसौख्यदात्रि सावित्री ।

            दैहिकहार्दिकसौख्यं जनय च सख्यं जने जने जननि ॥ 461॥

            ऐश्वरमौलिविभूषा नन्दागारोद्भवा च सा दुर्गा ।

            आनन्दरूपिणी त्वं कल्याणी कामधेनुरपि भवसि ॥ 462॥

            ऐहिकपारत्रिकयोः सुखयोर्विघ्नान्निवारयस्येव  ।

            देहात्मात्मत्वधियां देवि त्वं देहि देहि सुविवेकम् ॥ 463॥

            ऐश्वर्यवत्यसि त्वं रविशशिपवमानमित्रनेत्रासि ।

            नाडीत्रयत्रिमार्गा देवि त्वं पाहि ते नमो ललिते ॥464॥

            ऐन्द्रियनिवहे नयनं प्रथमं नारी स्मराभदेहानाम् ।

            तद्द्वयजयिनी सा त्वं लोलाक्षी कामरूपिणी जयसि ॥465॥

            ऐशमहिम्ना तुष्टे शिष्टाभीष्टार्थदानसन्तुष्टे ।

            अक्षरमालाशक्ते मालिनिमातर्नमोस्तु ते ललिते ॥466॥

            ऐतिह्याधिकसत्त्वं पञ्चाशद्वर्णमालिकारत्नम् ।

            वर्णहंसी सोऽहं सा त्वं द्वयीह नमोऽस्तु ते ललिते ॥467॥

            ओंकारमूलपीठे व्याहृतिसमसप्तमातृकारूपे ।

            स्वरवर्णमातृका त्वं मातस्तुभ्यं नमो नमो ललिते ॥468॥

            ओघसमाकुलसंसतिसागरगर्भे निमज्जतां देहान् ।

            धारयसि जीवयसि सा त्वं मलयाद्रिस्थासि ते नमो ललिते ॥469॥

            ओघावर्ते सा त्वं भ्रामयसि स्वार्थमप्यनालोच्य ।

            कुण्डलिनी त्वं तु तथा बद्धासीहाम्ब ते नमो ललिते ॥470॥

            ओषधिनिधिमत्तनये सुमुखी गाम्भीर्यशालिनी त्वमसि ।

            धीशालिनी चकम्पे समरे सुरवैरिबलमवेक्ष्य त्वाम् ॥471॥

ओजस्विनी च फणिनी मूलाधारस्थिता सहस्रारे ।

कुरुते कपाटबन्धं त्वमपि तथैवाम्ब भवसि गणनीया ॥472॥

            ओढुमशेषं भुवनं सुभ्रु त्वं भवसि जगति कुण्डलिनी ।

            मूढानोढ्री सा त्वं प्राज्ञानेतान् कुरुष्व हे जननि ॥473॥

            औदार्यधैर्यसुभगे मातुर्विश्वम्भरे स्थिरे रुचिरे ।

            त्वं शोभनासि नित्यं मातस्तुभ्यं नमो नमो ललिते ॥474॥

            औपयिककार्यकरिणी करिणीगम्भीरगामिनी त्वमसि ।

            सुरनायिकासि सा त्वं दीनानस्मान् सदा मुदा पाहि ॥475॥

            औदार्यपूर्णचित्ते चित्ते चित्ते सदा नॄणां वससि ।

            कलकण्ठमधुरकण्ठी कण्ठीरववाहना त्वमेवासि ॥476॥

            औदार्यमात्मनीव त्वयि कान्तिः काममस्ति दुर्वारा ।

            वारयसि तेन च तया बाह्यान्तर्ध्वान्तसन्ततिं हि नॄणाम् ॥477॥

            औदार्यं कियदिति ते को वा शंसेत् प्रविश्य तव हृदयम् ।

            यत्त्वं सृष्टिविधाने प्रेरयसीशं तमेव निजरमणम् ॥478॥

            औदार्यवत्यपि त्वं दश्या नैवास्यणोरणुत्वेन ।

            मूलाधारगफणिनी यशसि त्वं देवि ते नमो ललिते ॥479॥

            औषधसञ्जीवनमिव वज्रमणिं दीप्तिशक्तिसंयुक्तम् ।

            भासयसि सकलवस्तु द्योतयसि त्वं तदेव ननु ललिते ॥480॥

            औषधिपनाडिकायां त्वं देहे भवसि वामभागस्था ।

            दिनकरनाड्यां दयितस्तव भवतीतीश्वरी त्वमेवासि ॥481॥

            औषधमिव तव करुणा सुरभिरिवाकाशचारिणी भवति ।

            तमसि वयोविहितां तां त्रिविधावस्थां विना स्थिता भवसि ॥482॥

            औदार्यहार्दकरुणापालितभुवने समस्तगुणसहिते ।

            सिद्धेश्वरि परिशुद्धे चित्ते काये वचस्सु मां पाहि ॥483॥

            औपाधिकोपधीनां नाथा नाथाश्रिता हि कुण्डलिनी ।

            जीवन्मुक्तावस्थां दातुं यमिनां सदा स्थिता भवसि ॥484॥

            औदार्यशीलदेया अणिमाद्या सिद्धयो महादेवि ।

            विद्यासिद्धिसुरूपे त्वामुपजीवन्ति सन्ततं ललिते ॥485॥

            औदार्यशालिनी त्वं सा कुण्डलिनी द्वयीति युवयोस्तु ।

            देवीह मुक्तिमार्गे जीवन्मुक्ताद्ध्वदीपिके स्याताम् ॥486॥

            औषधिपतिधरदयिते मातर्ललिते यशस्सुधाविचले ।

            ओजो धेहि मयि त्वं मतिमति शुद्धां च ते नमो ललिते ॥487॥

            औदार्यदात्रि नमतां नृणां चक्रे विशुद्धनाम्नि त्वं ।

            निवससि कतनिजनिलया चक्राराध्ये निधेहि मयि सत्त्वम् ॥488॥

            औरसपुत्रा ननु ते सर्वे सर्वेश्वरी त्वमेवासि ।

            आरक्तवर्णयुक्ता काले काले स्थिते नमो ललिते ॥489॥

            औडुपदिनकरतारारूपाक्षित्रयसमन्विता गगने ।

            तेजोमयि मयि करुणां कुर्वीथास्त्वं नमोऽस्तु ते ललिते ॥490॥

            औपाधिकभयनाशिनिखड्वाङ्गाद्यायुधोज्वलाकारे ।

            निहतसुरवैरिवर्गे त्राहि त्राहि त्वमेव मां ललिते ॥491॥

            औडुकपथ इह गगने जगतीदं स्यात्कृतं धरावरणं ।

            तस्मात्तदेकमास्ते वदनाम्भोजं नमोऽस्तु ते ललिते ॥492॥

            औषधमिव मधुरसवन्मधुरं परमान्नमम्ब ते प्रीत्यै ।

            भवति हि विहितं सततं प्रीता तेनार्जितेन मनसा स्याः ॥ 493॥

            अंहस्तमसां हन्त्री त्वं तावद्देवि देहिनां भवसि ।

            भवसिंधुतारयित्री गात्रे गात्रे त्वमिन्द्रियाधीशा ॥494॥

            अंहोमयपशुपालननिरता तद्भीतिहारिणी त्वमसि ।

            रंहस्तवाम्ब गत्याः समरे समरे सहेत को वाम्ब ॥495॥

            अम्बुजमेकं दशशतपत्रं वर्णाः स्वरा इह स्वैराः ।

            सन्ति हि सन्ततमस्मिन् कृतवसतिस्त्वं विराजसे ललिते ॥496॥

            अम्बुजमनाहताख्यं पीठं तव चक्रनामकं विहितम् ।

            स्वरमध्रुवं दधाना तत्त्वं त्वं वैष्णवी च जय ललिते ॥497॥

            अम्बरमिव घनसहितं श्यामा त्वं चासि वैष्णवीनाम्नी ।

            अम्बुजनाभसखी त्वं भवसि हि सततं नमोऽस्तु ते ललिते ॥498॥

            अम्भोगतिरपि कुटिला गमनं ते तेन डाकिनी त्वमसि ।

            सिंहासनमधिरूढा जीवनदात्रीह देहिनां ललिते ॥499 ॥

            अम्बुजमधिवससि त्वं तन्नाम्नानाहतं नभस्तत्त्वम् ।

            वदनद्वयसम्पन्ना तेन त्वं राजसे नमो ललिते ॥500॥

            अंशुच्छुरितद्विरदभ्राजितवदनाभ्रवृन्दनीलाङ्गी ।

            शिंशुपसुमललितोष्ठे नित्यं दंष्ट्रोज्वले ललिते ॥501॥

            अंहःस्तोमक्षयकरजपमणिमालाभिरामशुभकण्ठी ।

            सोऽहं नाहङ्कारी त्वच्चरणाम्भोजभम्भरो ललिते ॥502॥

            अङ्गेषु रुधिरपूरे स्वामिनिरुधिरासवेन सोन्मत्ते ।

            अंशव इव ते दिनकच्छशिताराकारिणो हि ते ललिते ॥503॥

            अङ्कुशमुख्यप्रहरणभीकररूपाभिरावतासि त्वम् ।

            शक्तिभिरुल्लसितासि द्वादशभिस्ते नमो नमो ललिते ॥504॥

            अंशुमति मातरगजे किंशुकरक्ताम्बरे शुभाकारे ।

            त्वं शुभमिह कुरु मयि हे शङ्करि तुभ्यं नमो नमो ललिते ॥505॥

            अंहांसि मे क्षमस्व त्वं तावल्लोकलोचना भवसि ।

            स्निग्धान्नमोदमाना मातर्मां पाहि ते नमो ललिते ॥506॥

            अंशावतारभाजां  वीराणां शौर्यसाह सन्तुभ्यम् ।

            रोचेत रोचमाने  धाम्ना नित्यं नमोऽस्तु ते ललिते ॥507॥

            अंशुमदनाहताब्जे काकिनीख्यासि सा त्वमेवैका ।

            पालनमोक्षसुखस्य त्वं दात्री ते नमो नमो ललिते ॥508॥

            अङ्गेऽस्ति नाभिदेशे मणिपूरकचक्रमम्बुजाकारम् ।

            भवति तदेव हि निलयं तव तत्तुभ्यं नमो नमो ललिते ॥509॥

            अम्बुजमिव मणिपूरं व्योमानलवायुतत्त्ववल्ललितम् ।

            तद्गुणवत्त्रिविधास्यं भवति च तत्र स्थितासि हे ललिते ॥510॥

            अङ्कुशवज्राद्यायुधधारिणि संसारजलनिधेस्तरणे ।

            रणमेदिनीषु धीरे धीराकारे नमोऽस्तु ते ललिते ॥511॥

            अम्बुज इव मणिपूरे दशदलदशवर्णशोभिते ललिते ।

            दशभिर्डामर्यादिभिरुल्लसिते ते नमो नमो ललिते ॥512॥

            अंशुकभूषणभीषणनानायुधयोगचित्रिताकारे ।

            आपाटलाङ्गवल्लि त्रिभुवनजननि त्वमेव मे शरणम् ॥513॥

            अङ्गामिषाभिमाने मङ्गळमूर्ते जितारिकुलकीर्ते ।

            माङ्गल्यदानशीले भगवति मातर्नमोऽस्तु ते ललिते ॥514॥

            कल्याणि कल्पवल्लि प्रणतानां कर्मसाक्षिणी त्वमसि ।

            गुडमधुरान्नप्रीते नमदिष्टार्थप्रदे नमो ललिते ॥515॥

            कमले मणिपूरे च स्थितिमति चाशेषभक्तसुखदात्री ।

            जाठर इव दहनोऽङ्गे त्वमसि हि नित्यं नमोऽस्तु ते ललिते ॥516॥

            कनकाचलतटवासे सकलसुखानां च दात्रि मृदुगात्रि ।

            लाकिन्यम्बारूपे सर्वाविद्याविनाशिनि त्राहि ॥ 517॥

            कटितटवर्तिनि देहे स्वाधिष्ठानेऽम्बुभूमितत्त्वमये ।

            निवससि सकलसुखाय श्रीललिते ते नमोऽस्तु तत्त्वमयि ॥518॥

            कल्याणि चक्रमध्ये स्वाधिष्ठाने नभोऽम्बुवायुदहनाश्च ।

            तत्त्वात्मना स्युरस्मिन् सा त्वं वससीति ते नमो ललिते ॥519॥

            करवालशूलचक्राद्यायुधविभ्राजमानकरजाले ।

            शरभिन्नदैत्यनिवहे मातस्तुभ्यं नमो नमो ललिते ॥520॥

            कमलदलकेसराभे हेमाभे सूक्ष्ममध्यमे रामे ।

            विमलतरहसितवदने मातस्तुभ्यं नमो नमो ललिते ॥ 521॥

            कलुषविरहितं चक्रं स्वाधिष्ठानं समस्तनाडीनाम् ।

            स्थानं फणिनीशक्त्या दर्पाय स्यान्नमो नमो ललिते ॥522॥

            कायगरमेदसि त्वं देवी तत्र स्थितासि सा नित्यम् ।

            भाययसि धूर्तनिवहं सुजनानुद्धरसि ते नमो ललिते ॥523॥

            कादम्बरीप्रिया त्वं मधुपानासक्तमानसा भवसि ।

            कादम्बमन्दगमने मातस्तुभ्यं नमो नमो ललिते ॥524॥

            कामचरवरविमाने दध्यन्नासक्तमानसे सततम् ।

            सीमातिशायिकरुणे मातस्तुभ्यं नमो नमो ललिते ॥525॥

            काकिन्यम्बारूपे शोकव्यामोहसाध्वसै रहिते ।

            लोकविनोदनशीले मातस्तुभ्यं नमो ललिते ॥526॥

            कान्तारविन्दमूलाधारारूढेऽ हिचक्रमारूढे ।

            शान्तातिकोमलाङ्गी मातस्तुभ्यं नमो नमो ललिते ॥527॥

            कान्ते स्वाधिष्ठाने षड्दलवत्पद्ममण्डिते महति ।

            बन्धिन्यादिसमष्ट्या शक्त्या युक्ते नमोऽस्तु ते ललिते ॥528॥

            कान्तसुषड्दलपद्मं बभमयरलवर्णसंयुतं ललितम् ।

            कान्तक्षितितत्त्वार्थं तत्ते स्थानं भवेद्धि ते ललिते ॥529॥

            कान्ते मूलाधारे गगनमरुद्वह्निजलधरैः तत्त्वैः ।

            पञ्चाननासि शक्तिः कुण्डलिनी त्वं नमोऽस्तु ते ललिते ॥530॥

            कीकससङ्घस्वामिन्यसि भूतत्वेन सुसङ्गता त्वं हि ।

            लोकाभ्युदयविधात्री मातस्तुभ्यं नमो नमो ललिते ॥531।

            कोमलगात्र्यपि हस्तैरङ्कुशपाशाधिधारिणी भवसि ।

            कामचरासुरदमनी त्वमसि हि मातर्नमोऽस्तु ते ललिते ॥ 532 ॥

            कामचरि कमलनयने चतसृभिरभिमानदेवताभिश्च ।

            वरदादिभिराकलिते मातस्तुभ्यं नमो नमो ललिते ॥533॥

            कामितमुद्गदलान्ने कामितफलदे समस्तभक्तानाम् ।

            सोमसुधामदुहासे मातस्तुभ्यं नमो नमो ललिते ॥534॥

            काली कुण्डलिनी या शाकिन्याभ्यां समन्वितैव तया ।

            नियतेव भासि सा त्वं भासि तया देवि ते नमो ललिते ॥535॥

            कोमलमाज्ञाचक्रं भ्रूमध्ये बैन्दवाग्निसान्निध्ये ।

            अस्ति ननु मातकाया ऋषभाख्यं धाम तेऽपि सल्ललिते ॥536॥

            कान्तिष्विव रविकान्तिर्वर्णे शुक्लः प्रधान इति सा त्वम् ।

            शुक्लासि देहकान्त्या ज्योत्स्नीवेन्दोर्नमोऽस्तु ते ललिते ॥537॥

            कीर्तित आज्ञाविद्भिः ललिताज्ञाचक्र एव सा त्वमसि ।

            तावच्छडानना त्वं तस्यै तुभ्यं नमो नमो ललिते ॥538॥

            कोमलमज्जासंस्थे धात्रभिमानिन्यपीह सा त्वमसि ।

            करुणारुणितापाङ्गे जय जय मातर्नमोऽस्तु ते ललिते ॥539॥

            कान्तिमति हंसवत्या शक्त्यासि त्वं क्षमावतीनाम्ना ।

            दक्षद्व्यक्षरयुक्ते मातस्तुभ्यं  नमो नमो ललिते ॥540॥

            कामितशाल्यन्नादे कामितफलदानशीलतामान्ये ।

            सामजवदनसरोजालोकनमुदिते नमोऽस्तु ते ललिते ॥541॥

            कोमलहाकिन्याख्या काचन शक्तिर्विराजते चक्रे ।

            चक्रेशपूजिताङ्घ्रे विज्ञानस्थे नमोऽस्तु ते ललिते ॥542॥

            कोमलसहस्रपत्रे कमले कमलोद्भवार्चिते ललिते ।

            निवससि सा त्वमजस्रं मातस्तुभ्यं नमो नमो देवि ॥543॥

            कान्तासि सर्ववर्णैस्तच्छक्त्यालंकतासि मातङ्गि ।

            कान्तार्पितार्धदेहे देहे देहेसि शक्तिरेवाम्ब ॥544।

            कामायुधानि धृत्वा कामितरूपाखिलानि निशितानि ।

            रामासेनासहिता जयसि हि मातर्नमोऽस्तु ते ललिते ॥ 545॥

            कार्येषु वीर्यरूपा ब्रह्मपदेवासि बीजरूपा वा ।

            मायाधारवती त्वं जयसि हि मातर्नमोस्तु ते ललिते ॥546॥

            कमलारमण इव त्वं भवसि हि विष्वग्विलासिमुखपद्मा ।

            सुमुखि प्रसीद मातर्दीनेधीने त्वयीह मयि देवी ॥547॥

            कामयसे त्वमशेषाण्यन्नानि श्रेष्ठभक्तदत्तानि ।

            आस्वादय तदब्रह्म हि सर्वं चान्नं त्वमेव ननु ललिते ॥548॥

            कल्याणगुणवती त्वं याकिन्यम्बास्वरूपिणी भवसि ।

            पर्यायेण च षट्सु त्वं चक्राब्जेषु सञ्चरस्येव ॥549॥

            कल्याणतारकेषु ज्वलतो वैश्वानरस्य दयितासु ।

स्वाहानाम्नी ब्रह्मज्योतिश्चासि त्वमेव ननु ललिते ॥550॥

कामितफलादा लोके पितदेवानां स्वधाभिधाना त्वम् ।

धूमशिखस्य च वह्नेर्जायारूपासि ते नमो ललिते ॥551॥

कामान्तकाङ्गतरङ्गे रममाणा त्वं जडानभिज्ञा च ।

भवसि कदाचिदिव त्वं भवसि च मुक्तिस्थिता नमो ललिते ॥552॥

कारुण्यामतवष्टिं कुरुतेपाङ्गद्वयं निजेषु सदा ।

मेधा नृणां मनस्सु त्वं ननु लोके नमोऽस्तु ते ललिते ॥553॥

कर्णाकर्णिकया ते श्रुतिरिव वदनांशुनिस्सृता वाणी ।

आज्ञाकरी वराज्ञा भवति हि सा त्वं नमोऽस्तु ते ललिते ॥554॥

कीर्तितवेदादेशं स्मरति चयार्थं च संहितारूपा ।

धर्मस्य सा स्मृतिस्त्वं शब्दार्थज्ञानबोधिनी ललिते ॥555॥

का वास्त्यजाण्डगर्भे त्वत्सदशी को नु किं तुलां याति ।

तव देवि सकलहत्सु त्वमसि हि तद्भद्रमासुव त्वं मे ॥556॥

कासादिसर्वरोगान् काये श्लेष्मादिदोषसम्भाव्यान् ।

नाशयसि वैद्यराज्ञी त्वमसि हि मातर्नमोऽस्तु ते ललिते ॥557॥

कीर्तिरसि पुण्यरूपा लभ्या पुण्येन कीर्तनश्रवणैः ।

पुण्यैर्नंदसि च त्वं मातस्तुभ्यं नमो नमो ललिते ॥558॥

कामारिहार्दमूर्ते सुरवनिताभिः पुलोमसुतयापि ।

देव्यार्चितासि बन्धान्मोचयसि त्वं नमोऽस्तु ते ललिते ॥ 559॥

कादम्बिनीव भङ्गी नीलेव च नीलकान्तिकान्तस्ते ।

चिकुरो विभाति धाम्ना मातर्नीराजितासि ते ललिते ॥560॥

कार्याकार्यविचारे नित्या नित्यादिवस्तुतत्त्वे वा ।

विदधाति या विचारं सा विद्या त्वं नमोऽस्तु ते ललिते ॥561॥

खमपि च नादं बिन्दुं व्याप्य च या भाति तां कलां ललितां ।

आक्रम्य विश्वसृष्टिं कुर्वाणा त्वं विराजसे ललिते ॥562॥

खानिलदहनाम्बुधराः पञ्च हि भूतानि दैवकर्माणि ।

जनिमतिहेतव एते सर्वापत्तीर्निवारयेर्मृत्योः ॥563॥

गणनीयाग्रे महताममराणां त्वं शिवेखिलानां च ।

भवसि हि नित्यमचिंत्या कलिकल्मषनाशिनि त्वमेवासि ॥564॥

गण्याखिलामराणां तेजस्तोमस्तव स्वरूपं हि ।

पुण्यानि तव कृपायाः फलरूपाण्यम्ब ते नमो ललिते ॥565॥

            गायन्ति गानरसिकास्सेवन्तेन्ये हितार्थिनो भवतीम् ।

            नाशयसि कालभीतिं भीतानां ते नमो नमो ललिते ॥566॥

            गारुडमणिनीलाङ्गीं गुरुरपि विष्णुर्निषेवते भगवान् ।

            निजकार्यसाधिकेति त्वां तेनासीत् स विष्णुरेवाम्ब ॥567॥

            गिरिराजपुत्रि ललिते ताम्बूलादानसेवनोल्लसिते ।

            यद्‌द्वादशगुणयुक्तं ताम्बूलं ते प्रियं हि ते ललिते ॥568॥

            गिरिवनचरमगनयने नयनानन्दप्रदे सतां सुराणां च ।

            हरिहरकार्यकरी त्वं रक्षां कुरु मे नमोऽस्तु ते ललिते ॥569॥

            गिरिशमनोहरि दाडिमकुसुमरुचे देवि देवताजननि ।

            चारुतरवसनशोभाभरिते ललिते नमोऽस्तु ते ललिते ॥570॥

            गिरिमहिबद्धं कत्वा क्षीरपयोधिं च मथितमथ कृत्वा ।

            अमतमवापुरर्मर्त्याः त्वमभूस्तेभ्यो हि मोहिनी ललिते ॥571॥

            गीताखिलगुणभूषे सकलैर्विश्वातिशायिनी त्वमसि ।

            गीतागुरुसहजाते मातर्मां पाहि सर्वथा सततम् ॥572॥

            गुरुतरसुखमानन्दं दद्यास्त्वं देवि योगिनां समताम् ।

            गुरुतरमपहर मामकपापं पापघ्नि ते नमो ललिते ॥573

            गुरुरम्ब तेऽस्ति जगतः तव भर्ता शङ्करो हि सौख्यमिह ।

            स ददाति च सा त्वं च श्रेयस्करि ते नमो नमो ललिते ॥574॥

गूडार्थबोधिनी त्वं सहदयरूपासि रविरपीहासि ।

सा त्वमसि नित्यतप्ता मातस्सर्वत्र पाहि मां पूर्णम् ॥575॥

            गूढो भक्तनिधिर्वा मयि नैवास्ति प्रकाश्यमानो वा ।

            नाहं भक्त इह स्यां भक्तनिधिं ते कुरुष्व मामम्ब ॥576॥

            गूहितभुवननियन्त्री स्वस्मिन्नस्मिन्निगूढमज्ञानम् ।

            मोहयति यत्तु चित्तं तदपि त्वं प्राग्विनाशयेरम्ब ॥577॥

            गृहमिव निजमतिरम्यं स्वामी त्वं विश्वमन्दिरं च निजम् ।

            रक्षसि हि तेन सा त्वं ब्रह्माण्डस्यासि नायिका ललिते ॥578॥

            गेहिषु मैत्रीकरुणासन्तोषाद्यास्तु सद्गुणा यत्र ।

            तेषु प्रसीदसि त्वं करणविशुद्धः प्रियाय ते ललिते ॥579॥

            गेयचरित्रे पात्रे करुणावष्टिप्रदे सुधामोदे ।

            अन्ते त्रिमूर्तिकार्ये शान्ते त्वं विश्वसाक्षिणी भवसि ॥580॥

            गैरिकरागवदधरे वचसा मधुरे गलत्कपासारे ।

            शक्तिषु चाद्या त्वमसि ब्राह्मीशक्तिश्च ते नमो ललिते ॥581॥

            गोत्रोदितप्रभावे ब्रह्मासक्ते निरञ्जने सततम् ।

            पात्रीकुरु करुणाया मामपि तव देवि मे नतिर्ललिते ॥582॥

            गौरवकारकमदिरामापीयापीय चालसेवासि ।

            ब्रह्मानन्दपयोधौ मग्नोन्मग्ने नमोऽस्तु ते ललिते ॥583॥

            गन्धादिगुणविदूरे शुद्धज्ञानात्मिके च ते ललिते ।

            श्रुत्याधारवचोभिर्गम्ये रम्ये नमोऽस्तु ते ललिते ॥584॥

            गङ्गाग्रजे द्विजेड्ये ब्राह्मी माहेश्वरीति कौमारी ।

            वैष्णव्यथ वाराहींद्राणी चामुंडिका त्वमेवासि ॥585॥

            गम्भीरे श्रीललिते वर्णावलिवर्णमातकारूपे ।

            वर्णेषु धवलवर्णे ब्रह्मानन्दप्रदे नमो ललिते ॥586॥

गङ्गेव मूर्ध्नि शम्भोस्तव गृहमुद्योतते महाकूटे ।

ब्रह्मणि लीनं च कलातीतं देहे सहस्रपत्रगतम् ॥587॥

घनकरजघनस्तनयोर्भारादानम्रकायकल्पलते ।

बिसमदुलदोस्सुशाखारुचिरे तुभ्यं नमो नमो ललिते ॥588॥

घनपथचरसुरवन्दैः सेवितचरणाम्बुजेम्ब महनीये ।

नाथादधिकोदारे पात्री धात्री भव त्वमेव मयि ॥589॥

घातुकदानवनिवहं सकलं संहत्य सज्जनेषु दयाम् ।

दधती दयार्द्रमूर्तिस्त्वमसि हि मातर्नमो नमो ललिते ॥590॥

घीङ्कृतिमद्गजराजं समरे समरेऽधिरुह्य वैरिबलम् ।

नाशयसि नाशरहिते नाशय मत्पापमम्ब हे ललिते ॥ 591॥

घुष्टं समस्तमुनिभिर्ब्रह्मैकं सत्यशुद्धमेवेति ।

त्वमसि हि तथात्मविद्याहृद्यानाद्या नमोऽस्तु ते ललिते ॥592॥

घोषयसि तां हि विद्यां ब्रह्मानन्दप्रदायिनी त्वमसि ।

महती विद्या सा त्वं सारस्वतसाररूपिणी भवती ॥593॥

घण्टानिनादमुख्यैर्दशभिर्नादैर्विराजते ललिते ।

सकलमहिमाभिरामे श्रीविद्ये ते नमो नमो देवि ॥594॥

चपलाक्षि चारुशीले विद्याविद्यासु सङ्गता भवसि ।

कोट्यधिकशक्तियुक्ता नानारूपा विराजसे ललिते ॥595॥

चय एव हि वर्णानां पदमपि कमलं तवापि मञ्जुतमम् ।

शक्तय एव पदानां दासीभूता भवन्ति ते ललिते ॥596॥

चतुराम्नायाराध्ये स्वरवर्गीयाश्च योगवाहाश्च ।

नाडीत्रयमपि कोटित्रयमिति ललिते तवैव रूपाणि ॥597॥

चतुरे तव मनुग्रमध्ये षोडशवर्णा भवन्ति बीजानि ।

पञ्चदशाक्षरवत्यपि मन्त्रे श्रीबीजसङ्गता भवती ॥598॥

चतुरासि देवबृन्दे कामो भवसि स्वरैरशेषैस्तु ।

तत्कोटिसेविता त्वं तत्सदशी चासि ते नमो ललिते ॥599॥

चारुतरवर्णयोगात्पवनाद्याः सम्भवन्ति वेदाश्च ।

पदवर्णकोटिशक्तिप्रकटितरूपा त्वमेव ननु ललिता ॥600॥

चारुस्मितसितवदने दशशतदलसहितकमलमुल्लसति ।

नरवपुषि शिरसि जलजे त्वं तस्मिन् वससि सादरं ललिते ॥601॥

चारुतरचन्द्रवर्णे रत्नश्रीमद्विभूषणैः कर्णे ।

भूषितवत्यसि ललिते सा त्वं मां पाहि ते नमो देवि ॥ 602॥

चित्रतरतिलकसुन्दरफाले राकेन्दुचारुतरवदने ।

भ्रूमध्यवर्तिचक्रं वपुषि नरस्यापि भवति तव पीठम् ॥603॥

चित्रतरमम्बरस्थं शक्रतनुर्भाति तत्समानं ते ।

चित्रतरमम्बरं यद्धारयसि त्वं नमोस्तु ते ललिते ॥604॥

चीनाम्बरपरिधाने हृदये चक्रेष्वनाहते वससि ।

तच्छासनमिह नूनं शाश्वतमेवास्त्यनाहतं ललिते ॥605॥

चेतनबोधात्तावकभास्वानुल्लसति खे यथा किरणैः ।

कत्वोच्चैस्तान्विलससि देवि त्वं चाप्यनाहते चक्रे ॥606॥

चैतन्यशालि चक्रं मूलाधारं त्रिकोणवल्ललितं ।

ध्याने बलवति चित्ते मातर्गगने रविर्यथोल्लससि ॥607॥

चोरनिशाचरवीरान्नाशयसि त्वं हि या शरीरे सा ।

अज्ञानरूपभाजस्तेषां शक्तिं विनाशयेर्ललिते ॥608॥

चञ्चद्ब्रह्मांडमिव प्रतिपदमभिमान एक एवास्ते ।

मोक्षविरोधे दक्षं तद्यज्ञध्वंसिनी त्वमेवासि ॥609॥

चञ्चलमनसां भीतिं नाशयितुं त्वं परिप्लवापाङ्गी ।

विकसितनयना भवसि च कुण्डलिनी त्वं नमोऽस्तु ते ललिते ॥610॥

छविपूरपूरिताङ्गी दरहासोद्भासितानने ललिते ।

भवतु तवाननकान्तिः स्वान्ते शान्तिप्रदेव मे सततम् ॥611॥

उन्नामय हृत्कमलं बोधय बोधं त्वमेव मे ललिते ॥612॥

छायेव चण्डभानोर्मोक्षप्राप्त्यै स्थिता हि कुण्डलिनी ।

मूलाधारे खनिरिव महसां सा त्वं नमोऽस्तु ते ललिते ॥613॥

छिन्नासुरशतदेहे माता त्वं लोकनाददेहानाम् ।

अमतस्य च कुण्डलिनी नाम्नां नित्यं नमोऽस्तु ते ललिते ॥614॥

जनमनसि दैत्यरूपं सिद्धमशुद्धं निकाममज्ञानम् ।

तारकबलमिव हन्तुं स्वान्ते गुहजन्मभूरभूर्ललिते ॥615॥

जाग्रच्चित्तसरोजे मुद्रायोगेन योगिनामेव ।

आज्ञाचक्रगतास्सध्यानं देवाऽस्तु पाहि मां ललिते ॥616॥

जितदैत्यराजचक्रे मार्गे सिद्धासि निग्रहस्य त्वं ।

निग्रहमार्गस्सोयं ध्यानाभ्यासो हि योगिनां ललिते ॥617॥

जीविसुखप्रदशीले शुद्धकलारूपधारिणीन्दुमुखि ।

दहराकाशाधारे मातस्तुभ्यं नमो नमो ललिते ॥618॥

जेत्री जगतां च त्वं प्रतिपदमारभ्य पौर्णमास्यन्तम् ।

पञ्चदशाहोभिस्त्वं पूजार्हा भवसि ते नमो ललिते ॥619॥

जैत्रशरचापहस्ते शुद्धज्ञानात्मिके कलारूपे ।

अहमिति मतिरपि विमला मूर्धनि भात्यम्ब ते नमो ललिते ॥620॥

जैत्रसमाधिरतानामहमिति विमला मतिर्यदा सकला ।

देवि कलाकारा त्वं काराकारे भवेऽपि मां पाहि ॥621॥

जोषमिदमम्ब हृदयं तिष्ठति नैव क्वचित् परिभ्रमिति ।

काव्यकलादिविनोदैः स्थापय तद्रूपिणी ममापि तल्ललिते ॥622॥

जङ्गमबोधिनि कमलावाणी सेव्ये प्रकीर्णकैरम्ब ।

मङ्गलमातनु हि त्वं नमते भजते च मे सदा ललिते ॥623॥

जातानुरागहृदया हृदये हृदये रमस्व देहवती ॥624॥

झषशिशुतिमिमयजलधिः संसारोयं हि पालिनी त्वमसि ।

द्रष्टुममेया दश्यादश्या मे स्याः कदा शुभम्योर्मे ॥625॥

झरकोटिकोटिसिन्धोरन्तः स्यादेव संसतेर्नैव ।

जीवात्मिकास्ति भवती चैतन्यं धन्यमुभयसाम्येन ॥626॥

झटिति च जटिले च घटयसि जननी त्वं जीवराशिमिह ललिते ।

परमासि पावनात्मा संपदिदं तेम्ब विश्वगार्हस्थम् ॥627॥

टङ्कतिजीवमये त्वं कोशे सञ्चरसि पालयन्तीव ।

प्राणानम्ब शरीरे जीवानां सद्मरूपिणी त्वमसि ॥628॥

टीकातीतां भवतीं शंसेद्वक्तापि कस्समग्रतया ।

पावनरूपे ललिते पावय सपरिग्रहं च मामम्ब ॥629॥

डयनाटकरतमनसि स्थैर्यं त्वं धेहि मे बधान त्वं ।

औदुम्बरफलसदशब्रह्माण्डान्यम्ब सन्ति ते वपुषि ॥630॥

डाकिन्यादिचमूस्ते सविधे जागर्त्यनारतं भवति ।

जगतां कारणमम्ब त्वच्छक्तिस्साहि केवला भवति ॥631॥

भानुशतकोटिधाम्नि द्योतयसि द्योतसे त्विषा ललिते ॥632॥

डिम्बाडम्बरमुदिते डम्बरममरारिजं न मर्षयसि ।

गुह्यास्यवेद्यरूपा मनसा तुभ्यं नमो नमो ललिते ॥633॥

डिम्बानसुराणां त्वं मातत्वादम्ब पालयस्येव ।

कैवल्यदानविषये पश्यसि पात्रं नमोस्तु ते ललिते ॥634॥

डोलारोहणशीले समये सञ्चारमखिलमाश्रयसि ।

त्रिपुरा त्रेता चासि त्रित्वविशेषाभिमानिनी ललिते ॥635॥

ढक्काद्यायुधहस्ते दिव्यशरीरे स्मितैकशक्ते त्वं ।

जनयसि जगति हि जन्तूनन्तकवैरिप्रिये नमो ललिते ॥636॥

ढौकन्ते ये ये ते त्वयि वृद्धिं यान्ति भक्तियोगेन ।

पातालभूमिलोकस्वर्गजनाराध्यमानपदपद्मे ॥637॥

तनुगात्रि देवि सृष्टिस्थितिलयकार्यार्थमेव जातासि ।

वाणी ब्रह्मा लक्ष्मीर्विष्णुर्गौरी शिवश्च शिवरूपे ॥638॥

तनुषु दशास्तिस्रः स्युः मर्त्यानां पूर्वदेवानां ।

त्रिदशाधीशासि त्वं त्रिदशारहितापि ते नमो ललिते ॥639॥

तनिमानमुपनय त्वं दुरितं मे त्रिविधवर्णमयि ।

बीजाक्षरेषु वासे प्रणवत्वेनास्तु ते नमो ललिते ॥640॥

तनुमन्मानसगेहे निवसन्ती त्वं सुरप्रियैर्गन्धैः ।

नामाक्षरत्रयेक्षे षडपि भवन्त्यम्ब बीजवर्णास्ते ॥641॥

तव ललिततिलकदेशे सीमन्ते चासि मङ्गलायतने ।

सिन्दूरमम्ब तेन त्वं माङ्गल्यप्रदायिनी भवसि ॥642॥

तव नामेति वर्णद्वय एवास्ते हरी रमा चेति ।

तद्द्वयरूपासि त्वं प्रणवाकारापि ते नमो ललिते ॥643॥

तरणिसमधामपूर्णे पूर्णेन्दूद्योतमानमुखचन्द्रे ।

चन्द्रार्धचूडजाये जायेतात्रापि किं कपामयि ते ॥644॥

तन्वा श्यामलवर्णे विष्णोर्भगिनी यदा त्वमेव भवेः ।

प्रालेयशैलजाता जाता गौरी नमोऽस्तु ते ललिते ॥645॥

तव गुरुरासीद्दक्षो न्यक्कारात्पत्युरीश्वरस्यापि ।

तेन कृताद्गिरिपुत्री पत्ये शर्वाय सा त्वमेवासीः ॥646॥

तपसि च चतुरासि त्वं गाने गन्धर्वसेविता भवसि ।

देवादिविश्वगर्भा देवि त्वं स्थूलसूक्ष्मरूपापि ॥647॥

तपनीयचारुगर्भा सवितुस्तेजःस्वरूपिणी ललिता ।

ईश्वरहिरण्यगर्भाकारा कारुण्यवारिधे पाहि ॥648॥

करुणाभरणासि त्वं तरुणी दैत्याधमान्निहन्तुमिह ।

त्रिपुरानसुरान् हन्तुं दानवनिवहं तदन्यदपि भवसि ॥649॥

तनुमद्वचनचतुष्कं भेदान्नादस्य परिमितं भवति ।

वाग्वादिनां च नाथं त्वं तेषां ते नमो नमो ललिते ॥650॥

तपसि रतानां ध्यानैर्गम्या त्वं ध्यानयोगिनामेव ।

मानवमानससुगमा भव भवजाये नमोऽस्तु ते ललिते ॥651॥

तनुधरगणनातीते देशकलाकालमानदुर्बोधाम् ।

जानातु कथमयं त्वां लोकश्शोकघ्नि ते नमो ललिते ॥652॥

तनुषे ब्रह्मज्ञानं बोधयसि त्वं भवामयं हन्तुम् ।

माता केवलमसि न हि गुरुरपि मातर्नमोऽस्तु ते ललिते ॥653॥

तनुधारि सौख्यकारि ज्ञानं प्रापञ्चिकं भवेन्नैव ।

ब्रह्मज्ञानं किन्तु ज्ञानं नेच्छन्ति तस्करा ललिता ॥654॥

तथ्यं ब्रह्मज्ञानं जन्मजरामरणरोगभैषज्यम् ।

वेदान्तशान्तिगीतं वेद्या तेनासि ते नमो ललिते ॥655॥

त्वद्ध्यानं हावर्णे षट्पदगणनीलचिकुरेम्ब ।

कालत्रयपरिबाधारहिते तुभ्यं नमो नमो ललिते ॥656॥

तरुणी च राजपुत्री नपभोगानन्दवर्धिता ललिता ।

लोपामुद्रानर्च त्वामम्बागस्त्यवल्लभा सुभगा ॥657॥

तनुषे विचित्रमेतद्विश्वं विश्वंभरानुजे ललिते ।

लीलाकतमिदमखिलं मायारचितं विभाति तव ललिते ॥658॥

तनुगतचर्मदशा त्वं द्रष्टुमशक्यासि दश्यरहितेति ।

त्वां कीर्तयन्त्यशेषाः शेषाभरणप्रियाङ्गने पाहि ॥659॥

तव नास्त्यदश्यवस्तु क्वापि त्वं सर्वमीक्षसे कोपि ।

पश्येन्नमेन्न च त्वां रव्याकारे नमोऽस्तु ते ललिते ॥660॥

तत्त्वमिदं तव किं वा बोधः स्यादिन्द्रियैर्यदेतदिति ।

विज्ञानमाहुरेके साक्षात् त्रिविधासि तत्र हे ललिते ॥661॥

तव नास्त्यवेद्यविषयो यदखिलविषयं त्वमेव जानासि ।

जीवो ब्रह्मविलोके ब्रह्मैव स्यादवश्यमयि ललिते ॥662॥

तत्त्वविदां मतमेवं योगो जीवात्मनोर्द्वयोर्मिलनम् ।

एतत्कार्याकारा त्वमसि हि मातर्नमोऽस्तु ते ललिते ॥663॥

तपसि रतानामध्वा ध्यानाभ्यासात्मको भवेदेव ।

सोप्यष्टाङ्गसमेतस्तद्गुरुरूपा त्वमेव ननु ललिते ॥664॥

तपयिति साधनमेकं योगो मूलं हि तस्य योगस्य ।

अर्हसि तद्द्वयमम्ब त्वं योग्या तस्य भवसि हे ललिते ॥665॥

तत्वात्मिकेम्ब ललिते योगाज्जीवात्मनोर्जिताराते ।

आनन्ददात्रि जगतो मातस्तुभ्यं नमो नमो ललिते ॥666॥

तत्त्वमयदेहवर्तिनि जीवे लीने मुदेव सम्भवसि ।

जीवप्राणधुरं त्वं वहसि त्रेतादियुगयुगं ललिते ॥667॥

तत्त्वज्ञानमदीड्ये काङ्क्षाज्ञानक्रियात्मिके सत्त्वे ।

देवि त्वमेव यासि त्वं तच्छक्तित्रयं भवेर्ललिते ॥668॥

तत्त्वप्रधानमेवं ब्रह्माण्डं त्वं शिवे तदाधारा ।

तव चरणशरणमेतद्विश्वं शश्वन्नमोस्तु ते ललिते ॥669॥

तनुषे हि कार्यमखिलं प्रापञ्चिकमम्ब न प्रतिष्ठा त्वम् ।

तनयेषु सुप्रसन्ना बोधय बोधं नमोऽस्तु ते ललिते ॥670॥

तम इव शासत् तमसा रजसा सृष्टेर्भवेः स्वयं तच्च ।

भेदविरहितापि त्वं धत्से कार्याय ते नमो ललिते ॥671॥

तथ्यादन्यद्विश्वं मलिनप्रकतेस्तथा त्वमेवासि ।

भूतान्यष्टाङ्गयुता मातस्त्वं चाष्टमूर्तिरेवासि ॥672॥

तव गुणवर्गे रजसस्तमसा प्रकृतिस्तदेव मिलितासि ।

मलिना हि सा तु शुद्धा सात्त्विकमाया त्वमेव भवसीह ॥673॥

तपसाप्यगम्यरूपे तापससेव्ये तिरोहिताकारे ।

कारयसि लोकयात्रां साष्टाङ्गी त्वं द्वितीयया ललिते ॥674॥

तमसो महसोप्यपरा भवसि त्वं तावदेकिका ललिता ।

सृष्टिं मानयसि त्वं लयकारिण्या त्वया जगत्सुखितम् ॥675॥

तत्त्वादिकाधिकारे तत्त्वादेवास्थितोत्तमा निजया ।

आकृत्यैव हि कार्यं कुरुषे मालिन्यपूर्णया ललिते ॥676॥

तव भवति रूपमेकं ब्रह्मानन्दप्रदा च भवति तथा ।

कविजननुतचरणे त्वं निर्लिप्तासीह ते नमो ललिते ॥677॥

तनुलीलात्मानात्मज्ञानं जगतीह कोटिभेधेन ।

जीवस्त्वबेध आत्मा द्वैतातीतानि ते नमो ललिते ॥678॥

तनुमन्नमवति चान्नात्पुरुषः श्रुतिरप्येवं हि सा समाचष्टे ।

न भवति यदन्नदानादन्यत्वं धत्स एव न हि तस्मै ॥679॥

तनुषे त्वमालयान् सा पश्चाज्जीवान् प्रवेशयेस्तत्र ।

तनुषे रक्षणमम्बा भूत्वा तेषां नमोऽस्तु ते ललिते ॥680॥

तव जीवितस्य चादिर्नान्तस्तेनासि केवलं नित्या ।

त्वमनादिरखिलसम्पद्भरितानन्दात्मिकासि हे ललिते ॥681॥

तनुषु प्राणा अभवन् भूतानां जीवितं तदाशा च ।

ब्रह्म च साक्षी जीवः ब्रह्मैक्यं त्वं करोषि हे ललिते ॥682॥

तव भवति रूपमेकं बृहदस्मान्नाधिकं भवेदेव ।

बृहती त्वमेव माद्याराध्यास्येकासि ते नमो ललिते ॥683॥

तपसि रतानपि यमिनो योजयसि ब्रह्मणि स्वयं जीवान् ।

ब्रह्मण इति स हि भवति ब्रह्माणं भासि ते नमो ललिते ॥684॥

तथ्यप्रिया त्वमेव ब्राह्मी माता नमोऽस्तु ते ललिते ॥685॥

तथ्यं तप इति युगलं पालयसीति त्वमेव वन्द्यासि ।

ब्रह्मानन्दा भूत्वा दद्यास्त्वं मे नमोऽस्तु ते ललिते ॥686॥

तव भवति सत्यशुद्धो बलिरुपहारो यथा सतामेवम् ।

सात्त्विकबलमुदिता त्वं तात्त्विकदृष्टिं जने जने धेहि ॥687॥

तव भवति भाषितानां रूपं तावच्चतुर्विधं भुवने ।

भाषासु नादसारो निहितो भाषात्मिके नमो ललिते ॥688॥

तव देवि कार्यजातं ब्रह्माण्डसैव रक्षणं भवति ।

अगणितसेनासहिता भवसि त्वं नमो नमो ललिते ॥689॥

तव भवति नापि भावो नाभावो द्वन्द्ववर्जिता त्वमसि ।

भावयति ये यथा त्वां भवसि तथा तस्य भावनाकाये ॥690॥

तव करणीया पूजा सुलभा सुमुखी तया भवस्येव ।

ज्ञानं वितरसि सा त्वं सात्त्विकपूजाप्रसादिता ललिते ॥691॥

तव चरणसेवकानां भवति न क्वापि दुर्गतिर्दुर्गे ।

शुभकरि शोभनरूपे मातर्मां पाहि पाहि मां ललिते ॥692॥

तरुणतमालश्यामे श्यामे मोक्षप्रदे तमोहन्त्रि ।

सुलभे भजतां सततं मङ्गलमार्गावलम्बने पाहि ॥693॥

तरुणेन्दुचारुमौलेरीशितुरास्यामतात्मिका भवसि ।

शरणार्थितापहन्त्री त्वं तावद्देवि ते नमो ललिते ॥694॥

तव देवि भूमिराज्यं सुरराज्यं च त्रिमूर्तिवरराज्म् ।

राज्यं ब्रह्मपदाख्यं वितरसि नमतां चतुर्विधं ललिते ॥695॥

तव नीचैरपि राज्यं सप्तविधं भवति चोपरिष्टाश्च ।

एवं चतुर्दशानां राज्ञी त्वं भवसि सर्वराज्यानाम् ॥696॥

तव मन एव हि करुणापरिवतमम्बास्ति सन्ततं तेन ।

सततं प्रकाशसे त्वं मातस्तुभ्यं नमो नमो ललिते ॥697॥

तव चरणकिङ्कराणां हेतोर्धत्सेम्ब पारमेष्ठित्वम् ।

भवति न तव करुणायाः सीमा तुभ्यं नमो नमो ललिते ॥698॥

तथ्यं धनमथ धान्यं विद्यानीतिर्विधेयता ख्याता ।

आवश्यका हि तैस्त्वं भवसि हि लक्ष्मीषु राज्यलक्ष्मीस्त्वम् ॥699॥

तरुणिमकरुणापूर्णे ललिते मातर्मनोज्ञचापधरे ।

सकलश्रीपरिपूर्णः कोशस्तव वर्धते श्रिया साकम् ॥700॥

तरुणतरतुरगनागा पादातं चेति ते रथाश्चेति ।

चतुरङ्गबलमजस्रं सिद्धं तन्नायिका त्वमेकासि ॥701॥

तव पादसेवकानां साम्राज्यं दास्यसि प्रसन्ना त्वं ।

को वा त्वया समानो दाता जातो प्रसूरपारदो ललिते ॥702॥

तथ्यातथ्यविचित्रो लोकस्तथ्ये सदा करोषि रतिम् ।

त्वं भवसि तथ्यनिष्ठा सत्ये सर्वं प्रतिष्ठितं भवति ॥703॥

तव भवति सिन्धुवेलाकाञ्चीधाम्ना क्षितिस्तवैवाम्ब ।

भूमाताप्यसि तेन त्वं ते चरणं सदाऽस्तु मे शरणम् ॥704॥

तव देवि योगदीक्षापेक्षा त्वधिकासि दीक्षिता तेन ।

जलनिधिमधिवससि त्वं तुभ्यं नित्यं नमो नमो ललिते ॥705 ॥

तव रूपमेव गूढं त्वं गुहमातासि तत्तमोहन्त्री ।

गूढात्मरूपिणी त्वं तस्मादेवासि ते नमो ललिते ॥706॥

तव रूपमाश्रितानां ब्राह्मीरूपा त्वमेव वा गुह्या ।

ब्रह्मतयास्यतिगुह्या प्रणवाकारा नमोऽस्तु ते ललिते ॥707॥

तव वर्णमन्त्रमध्ये ब्राह्मी ख्याताऽसि सा विनिर्मुक्ता ।

नानोपाधिमुखेभ्यः सा ब्रह्माणी त्वमेव ननु ललिते ॥708॥

तथ्यात्मिका च विद्या ब्राह्मी तावत् सती शिवा जाता ।

ब्रह्मात्मिकाऽपि तस्मात् तावद्रूपे महःप्ररोह इति ॥709॥

तथ्यान्वितासि सर्वे स्वाचारे सन्ति सज्जना नित्यं ।

सत्सम्प्रदायरूपे माता त्वं जयसि ते नमो ललिते ॥710॥

तथ्यात्मिकासि विद्या विनयस्तुष्टिश्च जगति सौजन्यम् ।

विद्यालक्षणमेतद्दद्याद्विद्या तदम्ब ते करुणा ॥711॥

तव नाम्नि ये तु वर्णाः शुद्धास्सन्ति स्वराश्चतुर्थस्तु ।

बोधयति मुक्तिमार्गं तद्‌द्रूपा त्वं नमोऽस्तु ते ललिते ॥712॥

तव रूपमेव बोधो नारायण एव बोधको भवति ।

गुरुमण्डलमध्यस्था त्वं हि गुरूणां शिवासि गुरुरूपा ॥713॥

तत्त्वात्मकं हि रूपं तव सा त्वं चासि पालयित्रीह ।

संसारमार्गिणस्तान् गुरुरूपा तत्पदेन मुदितासि ॥714॥

तपसा रविणा शक्त्या सेव्याऽसि त्वं त्रिभिस्तदन्यैश्च ।

बीजाक्षरेण च त्वां वन्दे सोऽहं पुनः पुनश्चैवम् ॥715॥

तरणिरिव तिमिरमम्बा स्यादज्ञानं परस्य हरसि त्वम् ।

तद्द्रूपा त्वं रविणा लक्ष्म्या ललितेर्चिताऽसि ननु शक्त्या ॥716॥

तथ्या विशुद्धरूपा माया ज्ञानप्रदा कला वा या ।

सा त्वं मधुमत्यसि ते ब्रह्मानन्दप्रदे नमो ललिते ॥717 ॥

तनुवरविलग्नलग्नद्युतिमत्काञ्चीनिबद्धकौशेया ।

भूम्याकारे मातर्मामव तुभ्यं नमो नमो ललिते ॥718॥

तनुरेव जीवगेहं तव गुणगणना त्वयापि नो शक्या ।

तेषां माता त्वेका सा भवसि त्वं नमोऽस्तु ते ललिते ॥719॥

तनुषु मतिहृदयभावा निधयस्स्युर्भुवि च वसतां हि ।

निहितास्तथैव रहसि त्वं नित्यं भवसि गुह्यरूपाद्या ॥720॥

तनुरसि शिरीषमृदुला भूरूपायास्तवाम्ब कारुण्यम् ।

तेन त्वयि जागर्ति हि मातस्तुभ्यं नमो नमो ललिते ॥721॥

तत्त्वाभिमानिनी त्वं भूरूपा ते गुरुत्वमपि भवति ।

तत्त्वं प्रियं गुरुत्वं मातस्तुभ्यं नमो नमो ललिते ॥722॥

तव देवि विजयते हि स्वातन्त्र्यं ब्रह्मरूपिणी यदसि ।

तनुषे त्वं निजरक्तां ललिते तुभ्यं नमस्स्वतन्त्रायै ॥723॥

तनुकरि भूमाता त्वं लोकान्वहसि त्वमेव तान् पाहि ।

त्वयि सत्यामिति ललिते नित्यं वन्देम्ब सर्वतन्त्रां च ॥724॥

तापसनिवहे महितास्तथ्यं बोद्धुं ययाचिरे हि हरं ।

गुरुरभवदथ स मुनयः शिष्यास्ते भवति दक्षिणामूर्तिः ॥725॥

तापसपूजितपादे सनकाद्याराध्यमानपदकमले ।

श्रीपतिसायुज्यमपि त्वं दत्से देवि ते नमो ललिते ॥726॥

तापत्रयपरिचारिणि शैवज्ञानप्रदे शुभाकारे ।

ब्रह्मज्ञानानन्दं सा त्वं दत्से नमोऽस्तु ते ललिते ॥727॥

तारयसि सागरात्त्वं नौकास्येका त्वमेव ननु ललिते ।

ज्ञानकले असि सा त्वं तापत्रयमम्ब जहि मदीयमिदम् ॥728॥

तापघ्नानन्दकला भवसि त्वं कामितार्थदात्री च ।

ब्रह्मानन्दसमानो नानन्दस्तं त्वमेव मे देहि ॥729॥

तापसवीरस्स शिवो गुरुरपि जगतां वटद्रुमालम्बी ।

वपुषा स दक्षिणाशावदनस्तद्रूपिणी त्वमेवाम्ब ॥730॥

तापप्रशमकरी सा मूर्तिस्ते सैव दक्षिणा भवति ।

हितयोर्युवयोरेका सापि प्रेमात्मिकाम्ब पायान्माम् ॥731॥

तापसदाक्षिणमूर्तिस्तव भवति प्रेमरूपिणी ललिते ।

भवसि प्रियकरणी त्वं नमतां भजतामनारतं मनसा ॥732॥

तापसहृदयनिवासिनि ललिते ललितेक्षणे सदा नाम्ना ।

पठनश्रवणध्यानैरानन्दसि भक्तभक्तिवश्या त्वम् ॥733॥

तानयुतगानविद्यामानिनि सा त्वं सदसि ते नन्दी ।

गायति नृत्यति चाराच्चारानन्दिनि सदा तव प्रीत्यै ॥734॥

तानैर्गानैर्नटति हि नटराजस्त्वं शिवार्धदेहगता ।

नटराजराजरमणी त्वं मे शरणं नमोऽस्तु ते ललिते ॥735॥

ताम्यद्विश्वक्षेमंकरि करिणीमन्थरे धराधारे ।

मिथ्याजगदाधारे मिथ्यामिथ्याद्वयप्रिया त्वमसि ॥736॥

तावकभुवने तावन्मिथ्यातथ्ये सदा भवेतां हि ।

मायेति कार्यतुल्यं मिथ्याजगदस्थिरं हि ते ललिते ॥737॥

तावककरुणामुक्तिं वितरसि भजते जनाय सा त्वमसि ।

साक्षाद्धि मुक्तिरूपा सा त्वं मां पाहि ते नमो ललिते ॥738॥

तावकलास्याद्विश्वं रमते प्रिया हि ते लास्यम् ।

लीलाताण्डवपण्डितदयिते मां पाहि ते नमो ललिते ॥739॥

तावकमेकं सृजति हि रक्षति रूपं तथैवमपरं तु ।

नाशयति जगदिदं सा लयकरिणी त्वं पुनीहि मां ललिते ॥740॥

तिष्ठसि च त्वं कुपिता स्पष्टवती सुप्तमीश्वरं हि पदा ।

त्वमभूरपत्रपिष्णुर्लज्जारूपे नमोऽस्तु ते ललिते ॥741॥

तिष्ठन्ति देवलोके रम्भाद्या गाननाट्यनिष्णाताः ।

त्वामानमन्ति लास्यैर्गीतैरानन्दयन्ति ननु ललिते ॥ 742॥

तीव्रभवदावराशावमलसुधावष्टिकारिणी त्वमसि ॥

ऐहिकपारत्रिकयोः सुखयोर्दात्री त्वमेव ननु ललिते ॥743॥

तीव्रतरदुरितपादपमेदुरसंसारविपिनदावाग्ने ।

पालितसमस्तलोके लोकेश्वरि ते नमो नमो ललिते ॥744॥

तीव्रतरदैन्यतूले वातूलात्वं भवत्यवश्यमिह ।

ललिते ललितापाङ्गे त्वं गेया मे गतिर्भवती ॥745॥

तीव्रज्वराध्वान्तरवे ज्योतिष्मति चारुलोचनाम्भोजे ।

पायय सुकतसुधां मां मातस्तुभ्यं नमो नमो ललिते ॥746॥

तीव्रतरामताम्शुर्भाग्याम्भोधे त्वमेव भवसि ननु ।

प्रणतानां च शिवे त्वं भाग्यं सकलं प्रवर्धयेरनिशम् ॥747॥

तुलयितुमलमिह न हि ते करुणां यद्भक्तचित्तकेकिघना ।

ललितासि पालयित्री त्वं मातस्ते नमो नमो ललिते ॥748॥

तूलायितं शरीरं ये ये तन्वन्ति घातुकारोहाः ।

दम्भोलिरिव नगानां भवसि हि तेषां नमोऽस्तु ते ललिते ॥749॥

तृणचय इव दवदावो मृत्युद्रुमबृन्दपरशुरस्यम्ब ।

रोगभवरोगवैद्या हृद्यानाद्यासि ते नमो ललिते ॥750॥

तेजस्विनि दयमाने दीने दीने जने जने ललिते ।

मातर्माहेश्वरि मयि कुरु करुणां ते नमो नमो ललिते ॥ 751॥

तेजोवशीयमायुः श्रुत्याशिषमम्ब मे श्रुतामेकाम् ।

भक्तप्रियकरी त्वं दद्या हृद्यां नमो नमो ललिते ॥752॥

तेजस्सर्वाधिक्याज्जडरूपाग्ने क्षुधा महाग्रासा ।

जगदेतदेवमन्ते ग्रासीकत्वात्सि ते नमो ललिते ॥753॥

तैलमिव दीपमेनं जाठरदहनं क्षुधेव वर्धयसि ।

तत्त्वमसि रुद्रशक्त्या कल्पे कल्पे महाशना ललिते ॥754॥

तोषो न ते क्षुधः स्यादन्ते मुञ्चेर्न देवि पर्णानि ।

तेनापर्णा ख्याता पायास्त्वं मां बुधार्चिते ललिते ॥755॥

तौर्यत्रिकमरिनिवहे समरे समरे त्वमेव कारयसि ।

युद्भवसि चण्डिका त्वं चण्डा मा भूर्मयि त्वमयि ललिते ॥756॥

त्वं चण्डमम्ब मुण्डं न्यवधीस्त्वं देवि तामसी वृत्तिम् ।

राजसतामसरूपे नाम्ना ख्याते नमोऽस्तु ते ललिते ॥757॥

तन्द्रालस्यविहीने त्वमसि क्षरविश्वरूपिणी क्वचन ।

अक्षरमसि च ब्राह्मश्रीललिते ते नमो नमो ललिते ॥ 758॥

दयमानाक्षिसरोजे नियमितभुवने त्वशासना देवि ।

प्रभुतायां तव लोकाः शोकविहीना हि ते नमो ललिते ॥759॥

दरहासशोभमाना भवसि त्वं विश्वधारिणी ललिता ।

सुरसुन्दरीसपर्यापर्यायादानमोदमानाम्ब ॥760॥

दमयस्यम्ब समस्तं समदं दैत्यान्वयं स्वयं समरे ।

धर्मार्थकामसौख्यं वितरसि जगते नमो नमो ललिते ॥761॥

दिवि भुवि बलिसदने त्वं भवसि हि सत्त्वरजस्तमो दधती ।

सात्त्विकराजसतामसगुणवृत्यम्बास्तु ते नमो ललिते ॥762॥

दिनकर इव भवसि त्वं ललिते त्रिगुणात्मिका च सत्त्वमयी ।

अनुनयकतनुतिरेषा तोषायाम्बास्तु ते कथञ्चिदपि ॥763॥

दिशसि दयामयि नाकं सुकृतेन त्वं च यज्वना नियतम् ।

विशदधियामपवर्गं सुकृतं ज्ञानोदयोज्वलानां हि ॥764॥

दीनदयालुतया ते मनसि सरोषापि भवसि रिपुवर्गे ।

नानोपाधिविमुक्तस्वान्ते शान्ते नमोऽस्तु ते ललिते ॥765॥

दीपयसि लोकमात्मज्योतिर्दीपेन चान्द्रपुष्पाभा ।

रूपत्रयमपि धत्वा लोकत्रयमम्ब रक्षसि त्वं हि ॥766 ॥

दीपयसि धामनिवहं देहे देहे प्रविश्य चेतयसि ।

ओजोवत्यसि यत्त्वं तेजोरूपे नमोऽस्तु ते ललिते ॥767॥

दीप्तिधरासि धराश्रीदीप्तिकरी त्वं श्रिया समुज्वलसि ।

आप्तव्यमस्ति न हि ते किञ्चन कामप्रदाम्ब सा त्वमसि ॥768॥

दीनशरण्ये होमो जप इति पूजेति कार्यमखिलं च ।

ध्यानं चाग्नौ विहितं यज्ञो यज्ञस्वरूपिणी त्वमसि ॥769॥

दीक्षितकर्म हि यजनं यजनं विष्णुस्वरूपमेवास्ति ।

त्वं भवसि तस्य भगिनी मातर्ललिते प्रियव्रता त्वमसि ॥770॥

दुर्गाऽसि दुर्गतिघ्नी कर्मालभ्यासि तद्दुराराध्या ।

स्वर्गेऽपि भोगदूरा ज्ञाताराध्याऽसि ते नमो ललिते ॥771॥

दुर्वारेन्द्रियपञ्चकविजितानां त्वं सदा दुराधर्षा ।

सर्वेषामपि गर्वं चर्वसि हि त्वं नमोऽस्तु ते ललिते ॥772॥

दूरीकृतभवतापे पाटलिकाकुसुमपाटले चटुले ।

बिल्वमिव पशुपतेस्ते पाटलिकैवाम्ब रोचते देवि ॥773॥

दूरीकुरु मम दुरितं दारय दारिद्र्यदारु मे दह वा ।

महती त्वमसि हि नाम्ना वपुषा मातर्नमो ललिते ॥774॥

दूरं नीचैरुपरि च भवसि हि नीचैरहीशरूपेण ।

धारयसि मेरुनिलया जगतीमप्यम्ब ते नमो ललिते ॥775॥

दूरे मेरावचले पुरममराणां विराजते तत्र ।

मन्दारभूरुहात्तत्पुष्पं प्रियमम्ब ते नमो ललिते ॥776॥

देवैर्मानवदेवैः पञ्चप्राणैस्समर्पिते शक्त्या ।

आत्मस्वरूपिणी त्वं वीराराध्येतिगीयसे ललिते ॥777॥

देवारिवैरिणी त्वं  ब्रह्माण्डव्याप्तमूर्तिरेवासि ।

भावयति कोत्र रूपं त्वं भावातीतमम्ब तद्भवति ॥778॥

देवाभिमानिनी त्वं ललिते सम्भवसि देवकार्येषु ।

देवान्वितैव समये विरजा विभ्राजसे सदा विमला ॥779॥

देहेन विश्ववदना सर्वदिगालोकिलोचना भवसि ।

मोहयसि विश्वमेतन्मुह्यसि न त्वं नमोऽस्तु ते ललिते ॥780॥

दैत्यविनाशिनि देवि त्वं चान्तर्यामिनीह भूतेषु ।

प्रेरयसि विषयजाले चित्तं चित्तं हि देहिनां ललिते ॥781॥

दैविकमार्गं गगनं भवती चापूर्य तेजसा महता ।

देवि त्वमेव जयिनी भवसि श्रीदेवि ते नमो ललिते ॥782॥

दैविकसम्पदुपेते श्रुत्या गीते सुराङ्गनागीते ।

प्राणान्वितरसि सा त्वं देहिकृते देवि ते नमो ललिते ॥783॥

दैहिकशक्तिषु पञ्च प्राणाः प्रबला हि ते त्वमेवासि ।

साहसिकसत्त्वरूपे रूपे रूपे त्वमेव ननु ललिते ॥784॥

दोरतिराजितकरभे करभोरूणां करार्चिते महिते ।

दूरीकुरु हृदयान्तस्तिमिरं तिमिरघ्नि ते नमो ललिते ॥785॥

दोर्दण्डखण्डितासुरचण्डबले वह्निमण्डले भुवनम् ।

पालयसि बालकानां शरणं माताऽसि ते नमो ललिते ॥786॥

दौर्गत्यतूलवात्या सत्यायैवावतारिणी त्वमसि ।

स्वर्गापवर्गदात्री त्वं तावद्देविके नमो ललिते ॥787॥

दण्डधरजयिनि राज्यं निहितं त्वया हि सचिवासु ।

श्यामलकादिषु तस्माज्जयसि जगद्राज्यमम्ब ते ललिते ॥788॥

धरणिर्मानवधात्री नीचैः पातालसप्तकं ललिते ।

उपरि व्याहतिमहिता लोकास्तावत्तवाश्रये सन्ति ॥789॥

धत्से त्रीनपि लोकान् देवानां मर्त्यपन्नगानां च ।

उत्सेधभाज एतानातनुषे त्वं नमोऽस्तु ते ललिते ॥790॥

धारयसि विश्वभारं चेमं जैत्रं तवास्ति ननु दैन्यम् ।

राजसतामसरूपा समरेरातीन् निवारयेस्त्वं हि ॥791॥

धिक्कतदानवसेने धुरि चान्यत्रापि वर्तसे त्वं हि ।

न्यक्कृतवैरीभघटी त्रिगुणातीते नमो नमो ललिते ॥792॥

धीमति धुरि सा नृत्यं मह्यं भवसि बोधदष्ट्यैव ।

तेन परापररूपा ख्यातासि त्वं नमोऽस्तु ते ललिते ॥793॥

धीशक्त्यगम्यरूपे ज्ञानानन्दामतात्मरूपधरे ।

लोकब्रह्माकारे ज्ञानसुवेद्ये नमोऽस्तु ते ललिते ॥794॥

धुरिते सुखिनो जगति सुखजीवब्रह्मणोस्समं च सताम् ।

भूतेषु चात्मनोस्त्वं नियतिस्तुभ्यं नमो नमो ललिते ॥795॥

धूर्जटिपत्नि नमस्ते धात्रि स्तवनप्रिये सदानन्दे ।

आर्जवमातनुषे त्वं भक्तजने ते नमो नमो ललिते ॥796॥

धतिधात्रि जीवजगतां षोडशसङ्ख्यागुणान्विता भवती ।

वर्णानां च कलानां ऋतवत्यास्ते गणो नमो ललिते ॥797॥

धेनुरसि सुमानसानां सा साध्वानन्दप्रदायिनी महिता ।

आनतसज्जनसुखदा साध्वी त्वं देवि ते नमो ललिते ॥798॥

धैर्यस्थैर्ययुतं मे कुरु हृदयं कामरूपिणी सततम् ।

पीतासवे सवेलामेतां पायाः क्षितिं नमो ललिते ॥799॥

धौताम्बरपरिधाने जातानन्दे कलानिधे सततम् ।

कार्याकार्यविदं मां कुर्यास्तुभ्यं नमो नमो ललिते ॥800॥

नळिनाक्षि वेदमातः त्वत्तः काव्यप्रिया च वागुदिता ।

काव्यकलानां ज्ञानं जनय मयि त्वं नमोऽस्तु ते ललिते ॥801॥

नवरसमयमधुराक्षरपदरचनाशावती प्रसन्ना च ।

भवसि हि रसरूपा त्वं रसनारङ्गे रमस्व मम ललिते ॥802॥

नवरसनिधिरसि नादानन्दिनि सर्वत्र वर्तमानेम्ब ।

भवभवजनिमज्जनना त्वं मे शरणं नमोऽस्तु ते ललिते ॥803॥

नतगात्रि गोत्रकीर्तिं वर्धयसि त्वं निजाश्रितानां च ।

श्रुतिवचनगीयमाने पुष्पाङ्गी त्वं नमोऽस्तु ते ललिते ॥804॥

नरसुरकुलपरिपालिनि चारुचरित्रे पुरातनी देवि ।

सुरनरकिन्नरदानवधीराधारे नमोऽस्तु ते ललिते ॥805॥

नरहरिसरसिजसम्भवनिटिलाक्षानप्यसूत या देवी ।

सरसिजवदना पूज्या सा त्वं जगतां नमोऽस्तु ते ललिते ॥806॥

नरहृदयभाववीचीरवकारयसि त्वमेव सङ्कल्पम् ।

परमिह साफल्यं ते करुणामालम्बतेम्ब हे ललिते ॥807॥

नलिनदलायतनयने सुलभदयापाङ्गबन्धुरे ललिते ।

जलरुहनयनाराध्ये मातर्मां पारिते नमो देवि ॥808॥

न हि रविशशिताराभा विद्युद्दीप्तिश्च साम्यतामेति ।

यस्मादधिकस्तेजोराशिस्त्वं देवि ते नमो ललिते ॥809॥

नायास्यति तुलनां ते ज्योतिश्चात्येति यत्त्विषस्सर्वाः ।

यत् स्फुरति दहनराशेर्धामाधिकमस्ति तत्त्वमसि देवि ॥810॥

नारायणि नरकार्णवकारिणि परमाणुरूपिणि श्रीशे ।

तारय मां भवजलधेर्ललिते मातर्नमोस्तु ते सततम् ॥811॥

नारायणमदनान्तकसरसिजभवधाम तेजसातीते ।

स्वीयेन सर्वमान्ये ब्रह्मानन्दे नमोऽस्तु ते ललिते ॥812॥

नानायुधहस्तापि त्वं भवपाशच्छिदं करे पाशम् ।

मानिनि धारयसीदं युक्तं ते भाति ते नमो ललिते ॥813॥

नानापापविधायकमज्ञानं पाशमीशरिपुधार्यम् ।

द्वयमपि नाशयसि त्वं सकृदपि नमतां नमोऽस्तु ते ललिते ॥814॥

नाशयसि मन्त्रशक्तीरखिलास्त्वं चाभिचारकैर्विहिताः ।

कितवानपि तान् सुजने कैतवकत्यं वितन्वतां ललिते ॥815॥

नानावताररूपा रूपातीतापि तान् गुणानेव ।

त्रीनादाय जगत्यै जयसि हि मातर्नमोस्तु ते ललिते ॥816॥

निरवद्यहृद्यचरिते निर्गुणरूपेम्बिके निराधारे ।

शरणागतपरिपालिनि दीनं मां पाहि ते नमो ललिते ॥817॥

नित्या त्वमसि न भुवनं तद्भुक्त्वा वाविनाशिपुष्पफला ।

तप्यसि देवानन्दे ब्रह्मणि हंसेन सारसे रमसे ॥818॥

नीरजगन्धिनि नित्यं मुनिमानसहंसि हंसकुलमुदिते ।

वारिदबन्दसवर्णे हेमच्छाये सिताङ्गि मां पाहि ॥819॥

नीतिपथसत्यमार्गे ब्रह्मपदं चानुवर्तमाना त्वम् ।

मातरसि सत्यरूपा गमयसि साधून् निजाध्वना सा त्वम् ॥820॥

नीतिमनुसरति लोको नीतिं सत्यं च पालयन्नेव ।

याति सुखमिह परत्र च नो चेन्मातस्त्वमेव दण्डयसे ॥821॥

नीलापाङ्गतरङ्गै रक्षितभुवने जगत्त्रयीजननि ।

बालारुणवरवसने रक्ष त्वं मां नमोऽस्तु ते ललिते ॥822॥

नुतयो भवन्ति वाचो मातस्ते तेन केनचिद्विधिना ।

इति मतमनुचिन्त्यामूर्ललिते वाचस्तव प्रियास्सन्तु ॥823॥

नुतिमेवार्हसि नित्यं सत्यं साध्वीत्वपालनं स्त्रीणाम् ।

इति ननु सत्यसि नाम्ना सत्यधना मातरात्मचरितेन ॥824॥

नुतिपरवचनानन्दिनि शतधतिशक्त्यैकशक्तिरेवासि ।

नुतशक्तशक्तिरूपे सति सत्यब्रह्मरूपिणी त्वमसि ॥825॥

नूतनजलधरकेशे नाशितभुवनार्तिसंभवक्लेशे ।

मातरुदारमनस्के पातय मयि दृष्टिमाततां कलये ॥826॥

नकुलं देवकुलं ते सन्ततिरेवाम्ब दैत्यकुलमेवम् ।

सकलकुलानां जननी त्वमसि हि तुभ्यं नमो नमो ललिते ॥827॥

नेह तवैकं कार्यं गुरुतरमस्त्यम्ब तेन बहुरूपा ।

भवसि जगत्त्रयजननी पदवी गुर्वी हि ते नमो ललिते ॥828॥

नैतिकपदनिरता ये ते त्वामर्चन्ति विधिवदेवाम्ब ।

ज्ञानधना अन्येषां हितमिह कुर्वन्ति ते प्रभावेण ॥829॥

नोदयसि बीजसारं तेनैवोदेति पादपस्तु फले ।

वेदमयि प्रविशसि त्वं भूतानि त्वं चतुर्विधानि चातनुषे ॥830॥

नौरसि भजतां सततं तारयितुं जननमरणवाराशिम् ।

सततं रमयसि तानिह चतुरे चण्डि त्वमेव मां पाहि ॥831॥

नन्दीशवन्दिताङ्घ्रे नियमायत्तां करोषि जगतीं तु ।

आज्ञासि तेन सर्वे निजनिजकार्ये रतास्सदा ललिते ॥832॥

नन्दयसि नन्दनानां हृदयानि त्वं त्वया नियुक्ता ये ।

कुर्वन्ति नैजकार्यं पवनः पवतेग्निरुज्वलत्यनिशम् ॥833॥

नन्दयतीन्दुः पवनः पवते भानुः प्रबोधयत्यखिलान् ।

आज्ञानुवर्तिनस्ते श्रुतिरेवात्र प्रमाणमम्ब ननु ॥834॥

परमाधारे जगतां जगदीश्वरि जननमरणभीतिहरे ।

प्रकटितविश्वाकारे मातस्तुभ्यं नमो नमो ललिते ॥835॥

परवति जगति दया ते दुरितहरे क्रौर्यमिव तु ते चित्रम् ।

जगदीश्वरि ते चरितं साधुं कुरु मां पुनीहि ते तनयम् ॥836॥

पवनान् पञ्चासूनपि पञ्चाप्यवसि त्वमिन्द्रियाण्यम्ब ।

विनियोजय तान्युचिते कार्ये त्वं नैजचेतनानम्ब ॥837॥

पवनानुकूलजीवाः काङ्क्षापेक्षोदिताक्षराण्येव ।

पीठानि तेम्ब तस्मात् पञ्चाशत्‌पीठरूपिणी त्वमसि ॥838॥

पवनादिशक्तयो वा हरिपुरहरपद्मजादिशक्तिर्वा ।

त्वां तु नियन्तुमशक्ता निर्लेपा त्वं विराजसे ललिते ॥839॥

पर्वतराजकुमारी त्वमसि हि जगदीश्वरी विविक्तस्था ।

चर्वितराजसतामसगर्वे शर्वे भवेह मयि सदया ॥840॥

पावनगात्रि मुमुक्षोर्मुक्तिं दत्सेसि वीरमाता त्वम् ।

अज्ञाननाशिनी त्वं रक्षसि वीरान् महीतले ललिते ॥841॥

पावय मामयि ललिते पावकजलवायुभूमयं भुवनम् ।

पावनमार्गे नियतं वियतस्त्वमेव भवसि ननु ॥842॥

पावितनतजनहृदये डाम्भिकजनगर्वचर्विणी त्वमसि ।

मुक्तिप्रदा मुकुन्दा योजय जनहृदयपङ्कजान्यम्ब ॥843॥

पावनतरपदरूपे निर्वाणानन्दरूपिणी ब्राह्मि ।

देवि दयमयि गिरिजे कातरतां मे निवारयेर्ललिते ॥844॥

पितपितपितजनमूले मूलप्रकृतेश्च मूलरूपा त्वम् ।

आकाराणां मौलिकविग्रहरूपासि तत्त्वतो ललिते ॥845॥

पितवनचरशिवदयिते भावानामप्यनेकरूपाणाम् ।

बोधवति भावगम्ये बहुभावस्थे नमोऽस्तु ते ललिते ॥846॥

पीननितम्बिनि पीनस्तनभारानम्रचपलतनुवल्ली ।

पीतासवारुणाक्षि क्षरमपि जगदवसि करुणया ललिते ॥847॥

पुण्यवति पुण्यदात्री त्वमसि हि भवरोगनाशिनी जननी ।

भवचक्रचालयित्री चक्रेश्वरि चक्रधारिणी त्वमसि ॥848॥

पुण्यविवर्धकवेदच्छन्दस्सारान्विते कवीन्द्रनुते ।

पुण्यविवर्धिनि नमतां मातस्तुभ्यं नमो नमो ललिते ॥849॥

पूताम्नायमतानां विविधविचारान् विविच्य बोधयताम् ।

शास्त्राणामपि सारस्त्वं तावद्भवसि देवि कल्याणि ॥850॥

पृथगवनसारदानाद् मन्त्राः पात्रैस्तु गोपनीयासि ।

तद्वस्तुरूपिणी त्वं गीताचार्यादिभिश्च गीतासि ॥851॥

पेलवताङ्गे कार्श्यं तव तु वलग्ने स्तनद्वये जघने ।

विपुलत्वमतिमनोज्ञं परिणाहस्ते मनोहरा त्वमसि ॥852॥

पैतकसम्पदिवान्ते सुकतवतां कल्पवल्लरी त्वमसि ।

परमोदारा भवसि हि वृद्धिमतीहाम्ब देवि हे ललिते ॥853॥

पोतेषु पोतवाहानमितश्रीकीर्तिसौख्यसम्पन्ना ।

अन्यानपि तन्वाना ललिते चोद्दामवैभवा जयसि ॥854॥

पौर्णिमशशधरवदने नानावर्णस्वरूपिणी त्वमसि ।

अरुणश्यामलधवलप्रीतिमती त्वं विराजसे ललिते ॥855॥

पङ्कजषट्कविहारिणि जन्मजरामरणतप्तलोकानाम् ।

विश्रान्तिदायिनी त्वं शाश्वतसुखदासि वन्दिनां ललिते ॥856॥

पाण्डित्यवेद्यरूपे श्रुत्यन्तोद्घुष्टतापसा भोग्ये ।

पाण्डित्यदात्रि भजतां मातस्तुभ्यं नमो नमो ललिते ॥857॥

पिण्डीकृतच्छटान्वितभुवने पृथगात्मतातनुदप्ते ।

शान्तिमती च कला त्वं खप्रणवाधःस्थितासि गुहजननी ॥858॥

फलभारनतलताङ्गी मातङ्गी त्वं मदालसा नित्यम् ।

फलदलचरुसुमपूजा सात्त्विकरूपा तु रोचते तुभ्यम् ॥859॥

फलिनीलताफलान्विततरुरुल्लसति यथाम्ब त्वं लससि ।

अलघुकपामयि मयि ते करुणास्तां देवि ते नमो ललिते ॥860॥

फाले चन्द्रकलापे शोभावृद्धिं करोति गम्भीरे ।

मौलीन्दुरिन्दुशोभां वर्धयति त्वं प्रसीद मयि ललिते ॥861॥

बत बत गगनान्तःस्था गम्भीरा गर्वितासि सा नित्यम् ।

अहमिति सकलं वेत्सि त्वं ननु सर्वत्र पूर्णरूपतया ॥862॥

बलवत्येव कला ते नादो बिन्दुस्ततोधिकस्तेन ।

गानप्रियासि सा त्वं प्रणवाकारा हि सन्ततं ललिते ॥863॥

बालादिशक्तिसेनापालितभुवने मनोहरध्याने ।

लीलामयि मयि करुणां सततं कुरु देवि चञ्चलापाङ्गी ॥864॥

बाढं प्रकाशमाने कैतवरहितेम्ब कल्पनारहिते ।

गूढार्थमयि मयि त्वं देवि दयेथाः सदैव दयनीये ॥865॥

बालेव भासमाना त्वं कान्ता पापहारिणी भवसि ।

लीलाकल्पितभुवनेश्वरि भुवनमङ्गले ललिते ॥866॥

बालाराध्ये तपसा युक्ते बालेन्दुभासिते ललिते ।

लीलाताण्डवपण्डितदेहार्धं प्राप्तवत्यपि त्वमसि ॥867॥

बाधा अतीत्य सकला बाधाक्रान्तान् विलोक्य यजमानान् ।

आधिविमुक्तान् कुरुषे त्वमिदं भुवनं च पालयेरेव ॥868॥

बाधावारिणि जगतां क्षेमङ्करि कारणेभ्य उन्मुक्ते ।

साधुजनगीयमाने सततं मामम्ब पालयेरेव ॥869॥

बुधविबुधवन्द्यमाने कामरतिप्रीतमानसे सदये ।

कनकाञ्चितताटङ्के मातर्नतिरस्तु ते सुरैर्गिते ॥870॥

बोधयसि लोकयात्रां दाक्षिण्यं त्यागशीलतां सहजाम् ।

भीतिमिह कति विदुर्वा जाने नाहं प्रबोध मयि ललिते ॥871॥

बोधविहीना बाला वयमिह बोधप्रदीपदानेन ।

अस्मानुद्धर लीलाविग्रहधारिणि मयि प्रसीद शिवे ॥872॥

बोधकरूपिणि जगतां जननमतिद्वन्द्वशृङ्खलारहिते ।

नाशातीते मातः त्वं नः कामं प्रदेहि हे ललिते ॥873॥

बन्धूककुसुमशोभे शोभेथास्स्वाङ्गसंपदस्सततम् ।

सौन्दर्यसंपदेका रमयति जगतीं तवाम्ब हे ललिते ॥874॥

बन्धनशतमिह भुवने तैस्त्वमखिलानिहैव बन्धयसि ।

सिन्धौ संसाराख्ये घातयसि त्वं कुतो न जानेम्ब ॥875॥

भजतामनन्तसुखदा वाजिवरूथादिसम्पदा कलिता ।

भुजनिहितलोकभारा राजीवाक्षि त्वमेव ननु ललिते ॥876॥

भजतामपि सुखदा त्वं सुजनानां च प्रसीदसीहैव ।

विजयत एव समाधिः समतारूपस्त्वयीह हे देवि ॥877॥

भक्तिप्रियासि सा त्वं प्रीतिस्ते देवि देवताख्याता ।

युक्तिकतपूजनानां पूजा ते रोचते सदा ललिते ॥878॥

भयसाध्वसरहितानां स्वाचारेण निजेच्छया चरताम् ।

जयदा सुखदा न भवसि नीचानां दुष्टनाशिनी त्वमसि ॥879॥

भवमुक्तिमिच्छतां तु श्रेयोहेतुर्हि कर्मवेदमतम् ।

देवर्षीपितगणानां करुणामादाय भवति मनुजो हि ॥880॥

भवति जगत्त्रयमेवं वेदत्रयमिष्टकार्यसिद्धिकृते ।

सन्ध्यात्रयमनलानां त्रयमिति देवि प्रसिद्धमिह ललिते ॥881॥

भवसागरपतितानां त्रयमुद्धरणीयमापदां भवति ।

भवसि त्रयी त्रिवर्गा सर्वाधारा त्वमेव ननु ललिते ॥882॥

भवसि त्रिस्थानस्था देवि त्वं त्रिपुरपालिनी चासि ।

भवति ब्रह्म तु मूलं तत्त्वं तत्त्वं तवेदमेव ननु ॥883॥

भवसि हि निरामया त्वं भुवनं कुरुषे निरामयं सततं ।

भवति न कोप्याधारो भवभवने ते त्वदर्थमपि ललिते ॥884॥

भवसि भुवनावलम्बो लम्बोदरकार्तिकेयजनयित्री ।

भुवनत्रयपरिपालिनि कम्बुग्रीवा त्वमेव मे जननी ॥885॥

भवसि हि रममाणा त्वं ज्ञानानन्दस्वरूपिणी ज्ञाने ।

स्वीये स्वस्मिन्नेवं स्वयमिव विभ्राजसे श्रिया ललिते ॥886॥

भवशोकनाशिनी त्वं सजसि सुधासारमादरेणाम्ब ।

पालयसि तेन भुवनं भुवनम्भरि मे भवेः कपालम्बा ॥887॥

भयमयजनिमतिजलधौ मग्नानामवनपण्डिता त्वमसि ।

भवदावकवलितानामार्तानां पालिनी त्वमेवाम्ब ॥888॥

भवपङ्कराशिमग्नानुद्धर्तुं त्वं हि पण्डिता भवसि ।

भवपथगत्या लग्नानुधृत्य त्वं निवारयेरार्तीः ॥889॥

भवपाशयन्त्रितानां भुवि बहवस्सन्ति हितकराश्च मखाः ।

भवभयनाशिनि ललिते भवसि हि यागप्रिया त्वमेवेह ॥890॥

भवसि त्वमम्ब ललिते दैवीसम्पत्प्रदा च यागकरी ।

भवसि च रुद्राणी त्वं भक्तानां सकलसौख्यदानकरी ॥891॥

भवसि च यजमाना त्वं भुवनानामेकनायिका च त्वम् ।

यजमानजीवशक्तिस्त्वमसि हि लोकपालिनी च त्वम् ॥892॥

भवसि जगत्त्रयमूढ्वा धर्माधर्मौ त्वमेव धारयसि ।

धर्मा भवन्त्यनेके धर्माधारे धराधरोद्भूते ॥893॥

भवसुखरूपिणि ललिते दहनः पवनोपि विधिहरिप्रमुखाः ।

अमरा धनमिच्छन्ति त्वं धनराशेरधीश्वरी भवसि ॥894॥

भवसि धनधान्यसम्पद्‌वृद्धिकरी त्वं समस्तसुखदात्री ।

भुवनप्राणप्राणे प्राणाधारा शिवस्य भर्तुरपि ॥895॥

भवति हि जातिः प्रथमं पश्चाद्वर्णा भवन्ति तेषु च ते ।

विप्राः प्रथमे ललिते सा त्वं विप्रप्रियाऽसि गुहजननि ॥896॥

भवसि ननु विप्ररूपा विप्रैः संसेविता च नियमेन ।

विप्रप्रियमातिष्ठेस्त्वं तावद्देवि धर्ममर्मज्ञे ॥897॥

भवभवसम्भवजन्तुभ्रमणं कारयसि मायया बध्वा ।

सृष्टिस्थितिलययातायातानां त्वं तु हेतुरेवासि ॥898॥

भगवति विश्वग्रासे ग्रासे ग्रासे प्रमोदविकचाक्षी ।

जगदीश्वरि शिवमाये कज्जलवर्णे त्वमम्ब मां पाहि ॥899॥

भगवति विद्रुमवर्णे जगदानन्दप्रदेम्ब शुभवर्णे ।

अगणितमहिमापूर्णे नानाभूषाप्रियेम्ब मां पाहि ॥900॥

भगवति वैष्णवि कमले करधतकमलेम्ब सात्त्विकी माये ।

जगदवनकोविदे त्वां वन्दे मां पाहि हेमसमकाये ॥901॥

भगवति विश्वव्यापिनि नगधरविष्णुस्वरूपिणी त्वमसि ।

जगदागमलीलानुगताकारे नमोम्ब ते ललिते ॥902॥

भासारुणसितकालाकारे मूर्तित्रयान्विते वरदे ।

हासद्युतिविकचास्ये श्रीले मां पाहि कुन्ददति ललिते ॥903॥

भानुसुधाकरनयने जननविहीने जनार्दनाधीने ।

मानवतीडितरूपे जननि रमे पाहि मां दयाधीने ॥904॥

भाग्यान्वितेम्ब सृष्टेर्मूलस्थानायिते श्रीया कलिते ।

बुद्धिब्रह्माकारे कूटस्थे ते नमो नमो ललिते ॥905॥

भाग्यप्रदेम्ब मायायोग्यगुणाकारवर्णवृत्तिधरे ।

विश्वाकारे धीरे विश्वेश्वरि ते नमोऽस्तु ते ललिते ॥906॥

भारतभाग्यविधात्री वीरपरीता त्वचलपतिपुत्री ।

वीरसभा ते सततं माता रोचेत रुचिरतरगात्रि ॥907॥

भाग्यायत्तार्चा ते भक्तायत्ता त्वमम्ब भवसि ननु ।

भाग्यं भक्तिं च विना कथमर्चेयं प्रसीद मयि जननि ॥908॥

भाग्यप्रदापि सा त्वं निष्कामा सुकृतदुष्कृतै रहिता ।

जगतीति ते जगन्नो भवति भवायैव ते नमो ललिते ॥909॥

भावे स्थितासि या त्वं जन्तूनां भवसि भावभेदज्ञा ।

सा वेदशास्त्रगम्या गानज्ञे देवि नाट्यतत्त्वज्ञे ॥910॥

भारति गानरसज्ञे नादाकारे द्विधासि नृत्यविधौ ।

वरततमुख्यैर्वाद्यैरुल्लसिते देवगायकैः कलिते ॥911॥

भारति नादमयी त्वं हृदये नादोप्यनाहतो भवति ।

बहिराहतनादस्त्वं ललिते नादस्वरूपिणी त्वमसि ॥912॥

भारत्यनाहताख्यो नादो हृदये त्वमेव नादमयी ।

चारुतरनादरूपा दृश्यश्रव्यात्मना त्वमेवासि ॥913॥

भावो देहे सोऽहं मतिरित्यज्ञानसम्भवा त्वं तु ।

भौतिकमस्थिरमिति सद्भावं बोधयसि ते नमो ललिते ॥914॥

भिदुरं विपदचलानां त्वमसि च विपदो जहि त्वमस्य मम ।

शक्ता द्रष्टुमसि त्वं प्रज्ञादृष्ट्या त्वमम्ब मां पाहि ॥915॥

भिद्यदरविन्दगर्भे रम्ये या भाति कर्णिका सेव ।

मूले सहस्रपत्रे बिन्दुस्सोहं त्वमेव ननु लससि ॥916॥

भीषणभवदावघने सूक्ष्मस्थूलाख्यतत्त्वनिर्मुक्ते ।

भूषणभूषिणि कोकिलवाणि श्रीवाणि ते नमो ललिते ॥917॥

भुवनमवतीर्य जेत्री भावाधीना स्वकीयमूलमपि ।

विस्मृत्य पातुकाः स्युस्तत्त्वमयि त्वं समुद्धरेरस्मान् ॥918॥

भुवनाधीश्वरि तत्त्वं पफभावार्थप्रबोधिनी त्वमसि ।

ज्ञेयं ब्रह्म च सा त्वं विप्रज्ञेया त्वमेव ननु ललिते ॥919॥

भुवने वेदाः स्तवनं कर्मज्ञानं च गानविद्यां च ।

प्राहुस्त्रिविधाः साम्नां गानं प्रियमम्ब ते सतां भवति ॥920॥

भुवनत्रयपरिपालिनि माता पीयूषरूपिणी भवसि ।

ब्रह्मस्वरूपिणी त्वं रमय मनो मे नमोऽस्तु ते ललिते ॥921॥

भूतेशवल्लभा त्वं भूतानां पालने रता सततम् ।

भौतिककष्टमशेषं शमय त्वं मे कुलोकसञ्जातम् ॥922॥

भूतानामसि माता विश्वेशप्रेयसी त्वमेवासि ।

भूतानुषङ्गिणी त्वं त्वामहमीडे नमोऽस्तु ते ललिते ॥923॥

भेषजमसि हि भवामयभाजां संसारतरणनौका त्वम् ।

दोषं मर्षय मातर्मामकमम्भोजलोचने ललिते ॥924॥

भैरवि दक्षिणमार्गे वामपथे वा त्वमेव भवसि ननु ।

सव्यापसव्यमार्गद्वयमप्याश्रित्य राजसे सततम् ॥925॥

भोगीशभूषजाये सर्वापन्नाशकारिणी त्वमसि ।

योगीशयोगगम्ये स्वस्था नित्यं त्वमेव ननु भवसि ॥926॥

भोगीशकेशपाशे प्रेममयी त्वं सदाश्रया भवसि ।

प्रेमाम्ब तेऽस्तु नित्यं मयि ते नित्यं त्वमेव मां पाहि ॥927॥

भौतिकभोगविरक्ते ब्रह्मणि परमे मुदा सदासक्ते ।

निजभुवनावनासक्ते मातर्मां पाहि देवि शिवशक्ते ॥928॥

भम्भरवेणि शुभाङ्गि त्वं भवतापं निवारयेः कृपया ।

अम्भोरुहदलनयने शुम्भमदघ्नि त्वमम्ब मां पाहि ॥929॥

भञ्जय मम हृदयारीन् रञ्जय हृदयं प्रदेहि मम शान्तिम् ।

अञ्जलिराबद्धस्ते मातर्मां पाहि ते नमो ललिते ॥930॥

मनसा स्मरामि देवीं जनय ज्ञानं मयि त्वमेव वरम् ।

सोऽहं भावेनार्यैः सेवितचरणे नमोऽस्तु ते ललिते ॥931॥

महितं चैतन्यं ते दिव्यार्घ्यं भवति दिव्यकुसुमं च ।

नित्योदयान्विता त्वं भवसि हि जननि त्वमेव मे शरणम् ॥932॥

मार्ताण्डारुणमूर्ते मूर्तीभूताश्रितामितप्रीते ।

जातानेतानवतादस्मान् भवानि हरदयिते ॥933॥

मातस्त्वमुत्तराशासेव्या साध्यासि बोधमार्गेण ।

ख्याताम्नायविधानैराराध्या च त्वमेव भवसि ननु ॥934॥

मानसमलमोचयिता ललितापाङ्गस्तवाम्ब मनुजानाम् ।

सा त्वं जगदाकारा भवसि ब्रह्मासि पाहि मामेनम् ॥935॥

मितभुवनेम्ब भवाब्धेस्तरणं कैवल्यमेव ननु धत्से ।

यदि दयसे त्वमनर्घां कुरु करुणां ते शिवेम्ब मयि वत्से ॥936॥

मीनाक्षि नादरूपे श्रुतिवचनैरेव मोदमानाम्बा ।

क्लेशभयनाशिनी त्वं नुतिलक्ष्या भवसि जगदम्ब ॥937॥

मुक्तिप्रदेम्ब ललिते नुतिसरितस्त्वां प्रयान्ति सिन्धुमिव ।

नुतिपरवचसाराध्ये मय्यस्तां ते कृपा सदा देवि ॥938॥

मुखरीकृतकलवीणे श्रुतिततिसंस्तूयमाननिजविभवे ।

अखिलाम्नायविदर्चामाददती त्वं विराजसे ललिते ॥939॥

मूर्खं निपुणं कुरुते करुणापाङ्गस्तवाम्ब हे ललिते ।

मामपि करुणापाङ्गैर्निपुणं कुरु मे त्वमेव ननु शरणम् ॥940॥

मृदुहृदयासि सदा त्वं मातरुदारासि नायिका जगताम् ।

विदुरखिला विबुधास्त्वां सदयं मामम्ब पालयेस्सततम् ॥941॥

मेधाविनी त्वमेवं मेधाविनमम्ब कुरु दयादृष्ट्या ।

बोधय बोधममोघं पालय ललिते कृपासुधावृष्ट्या ॥942॥

मैत्रादिवासनानां सत्यं सुलभं भवत्यशेषाणाम् ।

मङ्गलमूर्ते ललिते शृणु कृपया मे स्तवात्मिकां वाणीम् ॥943॥

मोदयतु मानसं ते मातर्जगतां च मामकीर्वाणीः ।

सादरमाकर्णय ते नुतिमेतां मे त्वमम्ब कल्याणी ॥944॥

मौढ्यं वारय दार्ढ्यं वर्धय वचनेषु मम दयाभरिते ।

आढ्यं सुरसम्पत्या कुरु मामम्बेष्टसम्पदा कलिता ॥945॥

मञ्जुलगात्रि सवित्री विश्वेशा त्वं च सकलजगतोस्य ।

धात्री भवसि हि तन्मां पालय दोषान् ममापि निर्वास्य ॥946॥

अञ्जलिरयि ते रचितो मां पायाः साधुहत्सरोहंसि ॥947॥

मञ्जुलवदनसरोजे ब्रह्मानन्दात्मिकेम्ब सुरमान्ये ।

सङ्कल्परूपिणी त्वं जयसि सदा हंसगामिनी ललिते ॥948॥

मञ्जुलमम्बरमम्बरव्योम भवत्केीशपाश एवास्ते ।

मञ्जुविमानस्था त्वं जयसि सुरस्तोमवन्दिता जगति ॥949॥

यक्षेशमित्रजाये माधुर्यं नास्ति मे गले गातुम् ।

दक्षो नाहं स्तोतुं कथमहमाराधयामि वा भवतीम् ॥950॥

यमजयिनि यामिनीशप्रोल्लसदास्ये दयासुधाजलधे ।

मर्षय मम यदि दोषा मातः पायाः सदा त्वमेवेमम् ॥951॥

यामवतीशसमानं भवदाननमम्ब हरतु मम पापम् ।

व्योमचरवरविमाने सञ्चरसि त्वं हितं विधातुमिह ॥952॥

याथार्थ्यमम्ब विश्वं रक्षसि या त्वं तदेनमपि सा त्वम् ।

मामवसि चेति मन्ये नम इत्यम्ब ब्रवीमि ते मनसा ॥953॥

याचे तथापि सोऽहं वाचा मनसा सदाम्बिकां भवतीम् ।

वाचामगोचरा त्वं यद्भद्रं मे तदेव वितरेति ॥954॥

यागाः पञ्च च पञ्च त्यागायत्ता हि पञ्च वेदोक्ताः ।

पञ्चाग्निहोत्रमुख्याः पाराध्याश्चापि सन्ति ननु सुखदाः ॥955॥

यागेषु चाग्निहोत्रप्रमुखाः सन्त्येव बहुविधा यज्ञाः ।

इष्टविशेषतया ते रोचेतेयं स्तुतिस्तु मख एव ॥956॥

योगाधीश्वरि शङ्करि रागद्वेषादिभावनारहिते ।

भो गगनाम्बुसमीरानलपञ्चकमञ्चकशायिनी त्वमसि ॥957॥

योगे यागे ध्येया ब्रह्मानन्दात्मिका त्वमेवैका ।

पञ्चानामसि नाथा भूतानां भूतधात्रि हे ललिते ॥958॥

यौगिकवैदिकपूजाविविधास्सन्ति प्रकाममुपचाराः ।

भौतिकतन्मात्रकतापूजा प्रीत्यै भवेत्तवैकाम्ब ॥959॥

यन्त्राधारा भवसि त्वमपि सुवर्णाक्षराङ्कमयमेव ।

यन्त्रमनेकविधं ते मन्त्राङ्कं देवि भवति ननु ललिते ॥960॥

रचयसि चित्रमयं त्वं भुवनं मायाख्यकुञ्चमादाय ।

शाश्वति शाश्वतसुखदे मायासाम्राज्ञि ते नमो ललिते ॥961॥

रमयसि शम्भुमदभ्रं कमनीयाकारविभ्रमैरम्ब ।

क्षमयार्चितासि मातः शाम्भवि तुभ्यं नमः क्षमाधारे ॥962॥

रजसा सजसि हि भुवनं रक्षसि भूतानि देवि सत्त्वेन ।

अजहरिरूपधरा त्वं भवसि धराकारधारिणी ललिते ॥963॥

रथमकरोत् त्रिपुरेभ्यः पृथिवीं यस्ते पतिः शिवो ललिताम् ।

कथमवसि त्वमसूस्त्वं शिवमावोढुं किमम्ब न त्रातुम् ॥964॥

राजा भूमिधराणां तेजोराशिः सुतासि ननु तस्य ।

राजीवाक्षि दयामयि मातर्मां पाहि सन्ततं ललिते ॥965॥

राक्षसकोटिविमर्दिनि सकलैश्वर्यप्रदायिनी त्वमसि ।

साक्षिण्यपि ननु जगतां श्रीकरि मातर्नमोऽस्तु ते ललिते ॥966॥

रिपुदमनमात्मशक्त्या निपुणा समरे विधाय कृतकृत्या ।

सा त्वमसि देवकार्ये धर्मिण्यार्ये त्वमेव ननु ललिते ॥967॥

रीतिरवेद्या ननु ते निपुणैरपि धर्मवर्धिनी त्वमसि ।

मातर्लोकातीते विपदः सर्वा निवारय त्वं मे ॥968॥

रुद्रप्रियकरि रुद्रे भद्रमुखि त्वं मयि प्रसीद शिवे ।

भद्रं कुरु कल्याणि त्वं विनयो मे कृतोऽयमेव ननु ॥969॥

रूक्षासि रिपुषु नित्यं वृद्धिश्चासीन्दुमण्डले सुजने ।

पक्षीव हृदयभावे साक्षिण्यसि मे निधेहि मां सुजने ॥970॥

रेखाभिरञ्चिताङ्घ्रे श्रीकरि भद्राभिरागरालोके ।

लेखालिगीयमाने काकलिकाढ्ये नमोऽस्तु ते ललिते ॥971॥

रूपयसि रिपुषु पूर्वं भ्रूचापं तदनु करधतं चापम् ।

रूपवति खलविदूरे सर्वातीते शमात्मिके पाहि ॥972॥

रौद्रं रौद्रे वदनं भद्रं भद्रेषु तावकं रुचिरम् ।

भद्रमिह भद्ररूपे मयि कुरु नित्यं त्वमेव धीरत्वम् ॥973॥

रञ्जय सुजनमनांसि तु भञ्जय दनुजाधमानुदारेम्ब ।

रञ्जकसुजनकदम्बे भञ्जय पापानि मे सकादम्बे ॥974॥

रम्भोरु मङ्गळाङ्गि प्रणताभीष्टप्रदेम्ब मुनिगीते ।

सुखकरि सदये हृदये मातर्मातङ्गि ते नमो ललिते ॥975॥

ललितारविन्दहस्ते सुमुखी त्वं भवसि पूजया प्रीता ।

ललिते सुवासिनीनां साध्वी त्वं भवसि भवमयि प्रीता ॥976॥

लास्यप्रियासि लीलालास्यप्रियहृदयवल्लभा त्वमसि ।

आशोभमानमूर्तिस्तर्पणजलबिन्दुमात्रतुष्टासि ॥977॥

लास्यं तनोति वदने हास्यं ते लासयति च बुधहृदयम् ।

भवसि च विशुद्धहृदया जय ललिते शक्रपूजिता सदया ॥978॥

लिपिशतभाषारूपे रूपातीते बहुविधाकारे ।

मधुरामतरसवर्षिणि मातर्मां पाहि सज्जनाधारे ॥979॥

लीनासि जगति जगतीं कुक्षौ निक्षिप्य रक्षसि प्रीता ।

लीलारविन्दभङ्गी नादानुमुदितेऽस्तु वन्दनं ललिते ॥980॥

लुभ्यति जगती तुभ्यं सभ्यानिभ्यान् करोषि यदि दयसे ।

अभ्युदयमिच्छतेम्ब त्वं मे यच्छायतिं शुभं सदये ॥981॥

लेखाराधितपादे लावण्यमयी च पूर्वजे जगताम् ।

जननादाश्रितसुखदा त्रिपुराम्बा त्वं पुनीहि मां ललिते ॥982॥

लोकालोकनशीले दशमुद्राराधिते नमो ललिते ।

शोकविनाशिनि नमतां वन्दे त्वामम्ब किन्नरैर्गीते ॥983॥

लौल्यमतिलङ्घनीयं भवति यदा पासि नस्तदा सदया ।

मानसलौल्यविहीनो वाचां निचयेन तोषयाम्यम्ब ॥984॥

लम्बोदरफणिचक्रे द्वादशशतपत्रवासिनी त्वमसि ।

दशविधमुद्रारूपा यमिजनवश्या च ते नमो ललिते ॥985॥

शतपत्रपत्रनेत्रे करुणापूरेण बन्धुरापाङ्गि ।

दशमुद्रार्चितपादे ध्यानाधीने त्वमेव मां पाहि ॥986॥

शशिधरकमलजमुरहरवशगा मुद्रार्चिता भवेदेव ।

किमुत तथार्चनविदुषां विषये मामम्ब पालयेरेव ॥987॥

शशिमुखि सम्भवसि त्वं मुद्रासुज्ञानमुद्रिकारूपा ।

ज्ञानेनैव च गम्या ज्ञानज्ञेयात्मिका त्वमेवासि ॥988॥

शारदशशिसितहासे दशशतदलकमलगामिपथबोध्री ।

भवसि ननु मूलमुद्रा मुद्राखण्डत्रयेश्वरी ललिते ॥989॥

शितिकण्ठशक्तिरूपे मृत्योर्दर्पोऽपि नाशितः शक्त्या ।

तव देवि गुणवती त्वं ललिते यासि त्रिकोणगुणसाम्यम् ॥990॥

शीतापाङ्गि विशुद्धे पूर्णचरित्रे शिवप्रिये ललिते ।

वाञ्छितफलदात्री त्वं कुण्डलिनी त्वं पुनीहि मां सततम् ॥991॥

शुद्धाभ्यासस्तुतिभिर्वेद्ये ध्यानेन सेवया भजताम् ।

षड्विधतत्त्वाद्ध्यानं तीर्त्वा बिन्दुस्थितासि सा त्वं हि ॥992॥

शूलिनि करुणामूर्ते षट्चक्राणि त्वदीयपीठानि ।

शेषे सहस्रपत्रे साधकसुखदात्री ते नमो ललिते ॥993॥

शोकामयहरकरुणापूर्णापाङ्गे शुचिस्मिते ललिते ।

शोकमशेषं मामकमपहर मां पाहि ते नमो विहितम् ॥994॥

षण्मुखगणपतिजननी त्वं सर्वानवसि करुणया सततम् ।

शरवणभवनुतसुगुणे शर्वाणी त्वं सदैव मां पाहि ॥995॥

षड्जादिनादमोदिनि षड्गुणसम्पत्तिसंयुते ललिते ।

अज्ञानतिमिरदीपा त्वमसि हि जगतां नस्सुखं देहि ॥996॥

षट्चक्रचारिणी त्वं ज्ञानानन्दप्रदायिनी नमताम् ।

कुण्डलिनीति त्वमसि हि नित्याराध्या च तन्मुखाद्भवसि ॥997॥

षाड्गुण्यपूर्णचित्ते चक्रान्तर्वासिनी तदाधारा ।

जगतामसि सुखदात्री जगदीश्वरि पाहि मां कपापाङ्गैः ॥998॥

सात्त्विकराजसतामसपूजा आदाय तत्समानफलम् ।

दत्त्वा रक्षसि बालान् सात्त्विकपूजा तव प्रियैव ननु  ॥1000॥

साधयसि कार्यजातं स्वनिदेशादेव शासनं कोऽपि ।

नोल्लङ्घयेत् त्वमम्ब श्रीचक्रागारवासिनी भवसि ॥1001॥

सारस्वतसाम्राज्ये नादविचारादेव मोदमानासि ।

सारस्वतविधिसुलभां नुतिशक्तिं मे प्रदेहि हे ललिते ॥1002॥

सारसगामिनि ललिते लीलाक्षणमात्रपालनख्याते ।

वाहय करुणास्रोतः श्वासोच्छ्वासेषु देहिनां ललिते ॥1003॥

सिद्धिप्रदेम्ब सीमाकारिणि जगतां च सुमुखि सूक्ष्मतनो ।

सृष्टिकरि देवतानां सोमसमेता सौख्यदास्व  मयि नित्यम् ॥1004॥

हरहारवेणि ललिते हितकरि सर्वोत्तमेषु सुतभावे ।

हुतवहसम्भवमाता त्वमसि हि तुभ्यं नमोऽस्तु   हे ललिते ॥1005॥

हेमाङ्गदाङ्गशोभातोषितभुवनत्रये महादेवि ।

शिवशक्त्यभेदरूपे विश्वाधारेम्ब पाहि मां ललिते ॥1006॥

क्षतिरिह यदि नुतिकुसुमस्रजि सोढ्वा धारय त्वमेवाम्ब ।

कण्ठे श्रीकण्ठेन त्वमपि रमस्वाम्ब रमय मां च हरम् ॥1007॥

ज्ञानधनपूज्यमाने ज्ञानानन्दे सदा शिवानन्दे ।

मतिकुसुमपालके ते प्रीतिं तनुतामियं कृतिर्ललिते ॥1008॥

"https://sa.wikisource.org/w/index.php?title=आर्यासाहस्री&oldid=205953" इत्यस्माद् पुनः प्राप्तिः