← सूक्तं १०.६५ ऋग्वेदः - मण्डल १०
सूक्तं १०.६६
वसुकर्णो वासुक्रः।
सूक्तं १०.६७ →
दे. विश्वे देवाः। जगती, १५ त्रिष्टुप्


देवान्हुवे बृहच्छ्रवसः स्वस्तये ज्योतिष्कृतो अध्वरस्य प्रचेतसः ।
ये वावृधुः प्रतरं विश्ववेदस इन्द्रज्येष्ठासो अमृता ऋतावृधः ॥१॥
इन्द्रप्रसूता वरुणप्रशिष्टा ये सूर्यस्य ज्योतिषो भागमानशुः ।
मरुद्गणे वृजने मन्म धीमहि माघोने यज्ञं जनयन्त सूरयः ॥२॥
इन्द्रो वसुभिः परि पातु नो गयमादित्यैर्नो अदितिः शर्म यच्छतु ।
रुद्रो रुद्रेभिर्देवो मृळयाति नस्त्वष्टा नो ग्नाभिः सुविताय जिन्वतु ॥३॥
अदितिर्द्यावापृथिवी ऋतं महदिन्द्राविष्णू मरुतः स्वर्बृहत् ।
देवाँ आदित्याँ अवसे हवामहे वसून्रुद्रान्सवितारं सुदंससम् ॥४॥
सरस्वान्धीभिर्वरुणो धृतव्रतः पूषा विष्णुर्महिमा वायुरश्विना ।
ब्रह्मकृतो अमृता विश्ववेदसः शर्म नो यंसन्त्रिवरूथमंहसः ॥५॥
वृषा यज्ञो वृषणः सन्तु यज्ञिया वृषणो देवा वृषणो हविष्कृतः ।
वृषणा द्यावापृथिवी ऋतावरी वृषा पर्जन्यो वृषणो वृषस्तुभः ॥६॥
अग्नीषोमा वृषणा वाजसातये पुरुप्रशस्ता वृषणा उप ब्रुवे ।
यावीजिरे वृषणो देवयज्यया ता नः शर्म त्रिवरूथं वि यंसतः ॥७॥
धृतव्रताः क्षत्रिया यज्ञनिष्कृतो बृहद्दिवा अध्वराणामभिश्रियः ।
अग्निहोतार ऋतसापो अद्रुहोऽपो असृजन्ननु वृत्रतूर्ये ॥८॥
द्यावापृथिवी जनयन्नभि व्रताप ओषधीर्वनिनानि यज्ञिया ।
अन्तरिक्षं स्वरा पप्रुरूतये वशं देवासस्तन्वी नि मामृजुः ॥९॥
धर्तारो दिव ऋभवः सुहस्ता वातापर्जन्या महिषस्य तन्यतोः ।
आप ओषधीः प्र तिरन्तु नो गिरो भगो रातिर्वाजिनो यन्तु मे हवम् ॥१०॥
समुद्रः सिन्धू रजो अन्तरिक्षमज एकपात्तनयित्नुरर्णवः ।
अहिर्बुध्न्यः शृणवद्वचांसि मे विश्वे देवास उत सूरयो मम ॥११॥
स्याम वो मनवो देववीतये प्राञ्चं नो यज्ञं प्र णयत साधुया ।
आदित्या रुद्रा वसवः सुदानव इमा ब्रह्म शस्यमानानि जिन्वत ॥१२॥
दैव्या होतारा प्रथमा पुरोहित ऋतस्य पन्थामन्वेमि साधुया ।
क्षेत्रस्य पतिं प्रतिवेशमीमहे विश्वान्देवाँ अमृताँ अप्रयुच्छतः ॥१३॥
वसिष्ठासः पितृवद्वाचमक्रत देवाँ ईळाना ऋषिवत्स्वस्तये ।
प्रीता इव ज्ञातयः काममेत्यास्मे देवासोऽव धूनुता वसु ॥१४॥
देवान्वसिष्ठो अमृतान्ववन्दे ये विश्वा भुवनाभि प्रतस्थुः ।
ते नो रासन्तामुरुगायमद्य यूयं पात स्वस्तिभिः सदा नः ॥१५॥


सायणभाष्यम्

‘ देवान् हुवे ' इति पञ्चदशर्चं षष्ठं सूक्तम् । ऋष्याद्याः पूर्ववत् । “ देवान् हुवे ' इत्यनुक्रान्तम् । पृष्ठ्याभिप्लवषडहयोः पञ्चमेऽहनीदं वैश्वदेवनिविद्धानम् । सूत्रितं च -- इहेह व इति चतस्रो देवान् हुव ' इति वैश्वदेवम् ' (आश्व. श्रौ. ७, ५) इति ॥


दे॒वान्हु॑वे बृ॒हच्छ्र॑वसः स्व॒स्तये॑ ज्योति॒ष्कृतो॑ अध्व॒रस्य॒ प्रचे॑तसः ।

ये वा॑वृ॒धुः प्र॑त॒रं वि॒श्ववे॑दस॒ इन्द्र॑ज्येष्ठासो अ॒मृता॑ ऋता॒वृध॑ः ॥१

दे॒वान् । हु॒वे॒ । बृ॒हत्ऽश्र॑वसः । स्व॒स्तये॑ । ज्यो॒तिः॒ऽकृतः॑ । अ॒ध्व॒रस्य॑ । प्रऽचे॑तसः ।

ये । व॒वृ॒धुः । प्र॒ऽत॒रम् । वि॒श्वऽवे॑दसः । इन्द्र॑ऽज्येष्ठासः । अ॒मृताः॑ । ऋ॒त॒ऽवृधः॑ ॥१

देवान् । हुवे । बृहत्ऽश्रवसः । स्वस्तये । ज्योतिःऽकृतः । अध्वरस्य । प्रऽचेतसः ।

ये । ववृधुः । प्रऽतरम् । विश्वऽवेदसः । इन्द्रऽज्येष्ठासः । अमृताः । ऋतऽवृधः ॥१

"बृहच्छ्रवसः प्रभूतान्नान् “ज्योतिष्कृतः आदित्याख्यस्य तेजसः कर्तॄन् “प्रचेतसः प्रकृष्टज्ञानांस्तान् “देवान् “अध्वरस्य अस्य यज्ञस्य “स्वस्तये अविनाशाय निर्विघ्नेन यज्ञपरिसमाप्तये “हुवे आह्वयामि । “विश्ववेदसः सर्वधनाः “इन्द्रज्येष्ठासः। इन्द्रो ज्येष्ठः प्रधानो येषाम् । इन्द्रनेतृका इत्यर्थः । “अमृताः मरणधर्मरहिताः “ऋतावृधः यज्ञेन प्रवृद्धाः "ये देवाः “प्रतरम् अत्यन्तं “ववृधुः वर्धन्ते ॥


इन्द्र॑प्रसूता॒ वरु॑णप्रशिष्टा॒ ये सूर्य॑स्य॒ ज्योति॑षो भा॒गमा॑न॒शुः ।

म॒रुद्ग॑णे वृ॒जने॒ मन्म॑ धीमहि॒ माघो॑ने य॒ज्ञं ज॑नयन्त सू॒रय॑ः ॥२

इन्द्र॑ऽप्रसूताः । वरु॑णऽप्रशिष्टाः । ये । सूर्य॑स्य । ज्योति॑षः । भा॒गम् । आ॒न॒शुः ।

म॒रुत्ऽग॑णे । वृ॒जने॑ । मन्म॑ । धी॒म॒हि॒ । माघो॑ने । य॒ज्ञम् । ज॒न॒य॒न्त॒ । सू॒रयः॑ ॥२

इन्द्रऽप्रसूताः । वरुणऽप्रशिष्टाः । ये । सूर्यस्य । ज्योतिषः । भागम् । आनशुः ।

मरुत्ऽगणे । वृजने । मन्म । धीमहि । माघोने । यज्ञम् । जनयन्त । सूरयः ॥२

“इन्द्रप्रसूताः इन्द्रेण तत्तत्कार्येषु प्रेरिताः “वरुणप्रशिष्टाः वरुणेनानुशिष्टा अनुमोदिताः “ये मरुतः “ज्योतिषः द्योतमानस्य “सूर्यस्य स्वस्वकर्मणि सर्वस्य प्रेरकस्यामुष्यादित्यस्य “भागं भजनीयं लोकम् “आनशुः आनशिरे व्याप्तवन्तः । सूर्यमधिष्ठाय वर्तन्त इत्यर्थः । “वृजने शत्रूणां छेदके “माघोने मघवत इन्द्रस्य संबन्धिनि “मरुद्गणे तेषां मरुतां गणे “मन्म मननीयं स्तोत्रं “धीमहि दध्मः । कुर्मः। किंच “सूरयः प्राज्ञा यजमानास्तन्निमित्तमेव “यज्ञं “जनयन्त जनयन्ति । तेषां हविष्प्रदानाय कुर्वन्ति ।।


इन्द्रो॒ वसु॑भि॒ः परि॑ पातु नो॒ गय॑मादि॒त्यैर्नो॒ अदि॑ति॒ः शर्म॑ यच्छतु ।

रु॒द्रो रु॒द्रेभि॑र्दे॒वो मृ॑ळयाति न॒स्त्वष्टा॑ नो॒ ग्नाभि॑ः सुवि॒ताय॑ जिन्वतु ॥३

इन्द्रः॑ । वसु॑ऽभिः । परि॑ । पा॒तु॒ । नः॒ । गय॑म् । आ॒दि॒त्यैः । नः॒ । अदि॑तिः । शर्म॑ । य॒च्छ॒तु॒ ।

रु॒द्रः । रु॒द्रेभिः॑ । दे॒वः । मृ॒ळ॒या॒ति॒ । नः॒ । त्वष्टा॑ । नः॒ । ग्नाभिः॑ । सु॒वि॒ताय॑ । जि॒न्व॒तु॒ ॥३

इन्द्रः । वसुऽभिः । परि । पातु । नः । गयम् । आदित्यैः । नः । अदितिः । शर्म । यच्छतु ।

रुद्रः । रुद्रेभिः । देवः । मृळयाति । नः । त्वष्टा । नः । ग्नाभिः । सुविताय । जिन्वतु ॥३

“वसुभिः एतन्नामकैरष्टभिर्देवैः सहितः “इन्द्रः “नः अस्मदीयं “गयम्। गृहनामैतत् । प्राप्तव्यं गायते शब्द्यतेऽत्रेति वा गयं गृहम् । “परि “पातु परिरक्षतु । तथा “अदितिः देवमाता “आदित्यैः देवैः सह “नः अस्मभ्यं “शर्म सुखं प्रयच्छतु । किंवा “देवः दीप्यमानः “रुद्रो “रुद्रेभिः स्वपुत्रैः मरुद्भिः सह “नः अस्मान् “मृळयति सुखयतु । मृड सुखने ' । लेट्याडागमः । अपि वा “त्वष्टा प्रजापतिः “ग्नाभिः देवपत्नीभिश्छन्दोभिः “सुविताय सुष्ठु प्राप्तव्यायाभ्युदयाय “नः अस्मान् “जिन्वतु प्रीणयतु ॥


अदि॑ति॒र्द्यावा॑पृथि॒वी ऋ॒तं म॒हदिन्द्रा॒विष्णू॑ म॒रुत॒ः स्व॑र्बृ॒हत् ।

दे॒वाँ आ॑दि॒त्याँ अव॑से हवामहे॒ वसू॑न्रु॒द्रान्स॑वि॒तारं॑ सु॒दंस॑सम् ॥४

अदि॑तिः । द्यावा॑पृथि॒वी इति॑ । ऋ॒तम् । म॒हत् । इन्द्रा॒विष्णू॒ इति॑ । म॒रुतः॑ । स्वः॑ । बृ॒हत् ।

दे॒वान् । आ॒दि॒त्यान् । अव॑से । ह॒वा॒म॒हे॒ । वसू॑न् । रु॒द्रान् । स॒वि॒तार॑म् । सु॒ऽदंस॑सम् ॥४

अदितिः । द्यावापृथिवी इति । ऋतम् । महत् । इन्द्राविष्णू इति । मरुतः । स्वः । बृहत् ।

देवान् । आदित्यान् । अवसे । हवामहे । वसून् । रुद्रान् । सवितारम् । सुऽदंससम् ॥४

“अदितिर्द्यावापृथिवी द्यावापृथिव्यौ “महत् महान् “ऋतं सत्यभूतोऽग्निः “इन्द्राविष्णू “मरुतः च “बृहत् परिवृढः “स्वः आदित्यः एते देवाः सर्वत्र स्वमहिम्ना वर्तन्ते । एतान् “देवान् आदित्यादीन् “सुदंससं सुकर्माणं “सवितारम् एतन्नामानं च “अवसे रक्षणाय “हवामहे वयमाह्वयामहे ।।


सर॑स्वान्धी॒भिर्वरु॑णो धृ॒तव्र॑तः पू॒षा विष्णु॑र्महि॒मा वा॒युर॒श्विना॑ ।

ब्र॒ह्म॒कृतो॑ अ॒मृता॑ वि॒श्ववे॑दस॒ः शर्म॑ नो यंसन्त्रि॒वरू॑थ॒मंह॑सः ॥५

सर॑स्वान् । धी॒भिः । वरु॑णः । धृ॒तऽव्र॑तः । पू॒षा । विष्णुः॑ । म॒हि॒मा । वा॒युः । अ॒श्विना॑ ।

ब्र॒ह्म॒ऽकृतः॑ । अ॒मृताः॑ । वि॒श्वऽवे॑दसः । शर्म॑ । नः॒ । यं॒स॒न् । त्रि॒ऽवरू॑थम् । अंह॑सः ॥५

सरस्वान् । धीभिः । वरुणः । धृतऽव्रतः । पूषा । विष्णुः । महिमा । वायुः । अश्विना ।

ब्रह्मऽकृतः । अमृताः । विश्वऽवेदसः । शर्म । नः । यंसन् । त्रिऽवरूथम् । अंहसः ॥५

“धीभिः प्रज्ञाभिर्युक्तः “सरस्वान् एतन्नामा “धृतव्रतः धृतकर्मा “वरुणः च “पूषा “महिमा महत्त्वेन युक्तः “विष्णुः च “वायुः “अश्विना अश्विनौ “ब्रह्मकृतः कर्मकृतः स्तोतॄणामन्नदातारो वा “विश्ववेदसः सर्वधना व्याप्तज्ञाना वा “अंहसः पापरूपाणां शत्रूणां हन्तार: “अमृताः एते देवाः “नः अस्मभ्यं “त्रिवरूथं त्रिष्कम्भं त्रिकक्ष्यं “शर्म गृहम् । यद्वा । त्रिवरूथम् । द्रोणाधवनीयपृतभृत्संज्ञकानि त्रीणि पात्राणि यत्र व्रियन्ते संभज्यन्ते तद्यज्ञसाधनं गृहम् । “यंसन् प्रयच्छन्तु । यच्छतेर्लेटि सिप्यडागमः ॥ ॥ १२ ॥


वृषा॑ य॒ज्ञो वृष॑णः सन्तु य॒ज्ञिया॒ वृष॑णो दे॒वा वृष॑णो हवि॒ष्कृत॑ः ।

वृष॑णा॒ द्यावा॑पृथि॒वी ऋ॒ताव॑री॒ वृषा॑ प॒र्जन्यो॒ वृष॑णो वृष॒स्तुभ॑ः ॥६

वृषा॑ । य॒ज्ञः । वृष॑णः । स॒न्तु॒ । य॒ज्ञियाः॑ । वृष॑णः । दे॒वाः । वृष॑णः । ह॒विः॒ऽकृतः॑ ।

वृष॑णा । द्यावा॑पृथि॒वी इति॑ । ऋ॒तव॑री॒ इत्यृ॒तऽव॑री । वृषा॑ । प॒र्जन्यः॑ । वृष॑णः । वृ॒ष॒ऽस्तुभः॑ ॥६

वृषा । यज्ञः । वृषणः । सन्तु । यज्ञियाः । वृषणः । देवाः । वृषणः । हविःऽकृतः ।

वृषणा । द्यावापृथिवी इति । ऋतवरी इत्यृतऽवरी । वृषा । पर्जन्यः । वृषणः । वृषऽस्तुभः ॥६

“यज्ञः एषोऽस्मदीयः “वृषा कामानां वर्षितास्तु । तथा “यज्ञियाः यज्ञार्हा देवाश्च “वृषणः “सन्तु । किंच “देवाः स्तुतिकारिण ऋत्विजः “वृषणः धनवर्षणे कारणानि सन्तु साधुस्तुतिकरणेन । तथा “हविष्कृतः हविषां कर्तारोऽध्वर्य्वादयः “वृषणः अव्यग्रतया मन्त्रसाहित्येन च हविष्प्रदानेन । अपि च “ऋतावरी यज्ञवत्यौ “द्यावापृथिवी द्यावापृथिव्यौ “वृषणा हविरुत्पादनेन कामानां वर्षयित्र्यौ भवताम् । तथा “पर्जन्यः इन्द्रः “वृषा अपां वर्षिता भवतु। “वृषस्तुभः वर्षणशीलस्तुतिभिर्देवान् स्तुवन्तः सर्व ऋत्विजः “वृषणः भवन्तु ॥


अ॒ग्नीषोमा॒ वृष॑णा॒ वाज॑सातये पुरुप्रश॒स्ता वृष॑णा॒ उप॑ ब्रुवे ।

यावी॑जि॒रे वृष॑णो देवय॒ज्यया॒ ता न॒ः शर्म॑ त्रि॒वरू॑थं॒ वि यं॑सतः ॥७

अ॒ग्नीषोमा॑ । वृष॑णा । वाज॑ऽसातये । पु॒रु॒ऽप्र॒श॒स्ता । वृष॑णौ । उप॑ । ब्रु॒वे॒ ।

यौ । ई॒जि॒रे । वृष॑णः । दे॒व॒ऽय॒ज्यया॑ । ता । नः॒ । शर्म॑ । त्रि॒ऽवरू॑थम् । वि । यं॒स॒तः॒ ॥७

अग्नीषोमा । वृषणा । वाजऽसातये । पुरुऽप्रशस्ता । वृषणौ । उप । ब्रुवे ।

यौ । ईजिरे । वृषणः । देवऽयज्यया । ता । नः । शर्म । त्रिऽवरूथम् । वि । यंसतः ॥७

वृषणा वर्षणशीलौ “पुरुप्रशस्ता बहुभिः प्रशस्तौ “अग्नीषोमा अग्नीषोमौ “वाजसातये अन्नलाभाय “उप “ब्रुवे अहमुपस्तौमि । पुनः “वृषणौ इति आदरार्थम् । "यौ देवौ “वृषणः ऋत्विजः “देवयज्यया । देवा इज्यन्तेऽत्रेति देवयज्या यज्ञः । ‘ छन्दसि निष्टर्क्य ' इति निपातितः । तेन “ईजिरे यजन्ते हविर्भिः पूजयन्ति “ता तौ प्रसिद्धौ “नः अस्मभ्यं “त्रिवरूथं त्रिष्कम्भं “शर्म गृहं “वि “यंसतः विशेषेण प्रयच्छताम् ॥


धृ॒तव्र॑ताः क्ष॒त्रिया॑ यज्ञनि॒ष्कृतो॑ बृहद्दि॒वा अ॑ध्व॒राणा॑मभि॒श्रिय॑ः ।

अ॒ग्निहो॑तार ऋत॒सापो॑ अ॒द्रुहो॒ऽपो अ॑सृज॒न्ननु॑ वृत्र॒तूर्ये॑ ॥८

धृ॒तऽव्र॑ताः । क्ष॒त्रियाः॑ । य॒ज्ञ॒निः॒ऽकृतः॑ । बृ॒ह॒त्ऽदि॒वाः । अ॒ध्व॒राणा॑म् । अ॒भि॒ऽश्रियः॑ ।

अ॒ग्निऽहो॑तारः । ऋ॒त॒ऽसापः॑ । अ॒द्रुहः॑ । अ॒पः । अ॒सृज॒न् । अनु॑ । वृ॒त्र॒ऽतूर्ये॑ ॥८

धृतऽव्रताः । क्षत्रियाः । यज्ञनिःऽकृतः । बृहत्ऽदिवाः । अध्वराणाम् । अभिऽश्रियः ।

अग्निऽहोतारः । ऋतऽसापः । अद्रुहः । अपः । असृजन् । अनु । वृत्रऽतूर्ये ॥८

“धृतव्रताः धृतकर्माणो जात्या “क्षत्रियाः । यद्वा । क्षत्रं बलं तदर्हाः । “यज्ञनिष्कृतः । यज्ञं प्रति निर्गमनं यज्ञनिः । तस्य कर्तारः “बृहद्दिवाः महातेजस्काः “अध्वराणां रक्षोभिरहिंसितानां यज्ञानाम् “अभिश्रियः अभिसेवकाः “अग्निहोतारः अग्निर्होता आह्वाता येषां तादृशाः “ऋतसापः। ‘ षप समवाये ' । सत्यभाजः अत एव “अद्रुहः केषांचिदप्यद्रोग्धारः । यद्वा । द्रुहेः कर्मण्यौणादिकः क्विप् । कैश्चिदप्यहिंस्याः । एवंप्रभावा देवा: वृत्रतूर्ये । वृत्रस्तूर्यते हिंस्यतेऽत्रेति वृत्रतूर्यः संग्रामः । तस्मिन् अपामावरकशत्रुवधे “अपः उदकानि “अन्वसृजन् अन्वसारयन् ॥


द्यावा॑पृथि॒वी ज॑नयन्न॒भि व्र॒ताप॒ ओष॑धीर्व॒निना॑नि य॒ज्ञिया॑ ।

अ॒न्तरि॑क्षं॒ स्व१॒॑रा प॑प्रुरू॒तये॒ वशं॑ दे॒वास॑स्त॒न्वी॒३॒॑ नि मा॑मृजुः ॥९

द्यावा॑पृथि॒वी इति॑ । ज॒न॒य॒न् । अ॒भि । व्र॒ता । आपः॑ । ओष॑धीः । व॒निना॑नि । य॒ज्ञिया॑ ।

अ॒न्तरि॑क्षम् । स्वः॑ । आ । प॒प्रुः॒ । ऊ॒तये॑ । वश॑म् । दे॒वासः॑ । त॒न्वि॑ । नि । म॒मृ॒जुः॒ ॥९

द्यावापृथिवी इति । जनयन् । अभि । व्रता । आपः । ओषधीः । वनिनानि । यज्ञिया ।

अन्तरिक्षम् । स्वः । आ । पप्रुः । ऊतये । वशम् । देवासः । तन्वि । नि । ममृजुः ॥९

“देवासः देवा इन्द्रादयः “द्यावापृथिवी द्यावापृथिव्यौ “अभि अभिलक्ष्य “व्रता व्रतेन स्वेन कर्मणा “आपः । सुब्व्यत्ययः । अप उदकानि “ओषधीः च तथा “यज्ञिया यज्ञार्हान् “वनिनानि वने भवान् पलाशादीन् वृक्षान् “जनयन् उदपादयन् । किंच ते देवाः “स्वः सर्वम् “अन्तरिक्षम् “आ “पप्रुः तेजसापूरयन्ति । किमर्थम् । “ऊतये रक्षणाय शत्रुभ्यो बाधाभावाय । अपि च "वशं काम्यमानम्। ' वशिरण्यरुपसंख्यानम् ' ( पा. सू. ३. ३. ५८. ३) इत्यकर्तरि कारकेऽप् । तं यज्ञं “तन्वि स्वशरीरे “नि “ममृजुः नितरां शुद्धमलंकृतं चक्रुः ॥


ध॒र्तारो॑ दि॒व ऋ॒भव॑ः सु॒हस्ता॑ वातापर्ज॒न्या म॑हि॒षस्य॑ तन्य॒तोः ।

आप॒ ओष॑धी॒ः प्र ति॑रन्तु नो॒ गिरो॒ भगो॑ रा॒तिर्वा॒जिनो॑ यन्तु मे॒ हव॑म् ॥१०

ध॒र्तारः॑ । दि॒वः । ऋ॒भवः॑ । सु॒ऽहस्ताः॑ । वा॒ता॒प॒र्ज॒न्या । म॒हि॒षस्य॑ । त॒न्य॒तोः ।

आपः॑ । ओष॑धीः । प्र । ति॒र॒न्तु॒ । नः॒ । गिरः॑ । भगः॑ । रा॒तिः । वा॒जिनः॑ । य॒न्तु॒ । मे॒ । हव॑म् ॥१०

धर्तारः । दिवः । ऋभवः । सुऽहस्ताः । वातापर्जन्या । महिषस्य । तन्यतोः ।

आपः । ओषधीः । प्र । तिरन्तु । नः । गिरः । भगः । रातिः । वाजिनः । यन्तु । मे । हवम् ॥१०

“दिवः द्युलोकस्य “धर्तारः धारयितारः “ऋभवः सत्येन भासमानाः "सुहस्ताः शोभनवजाद्यायुधयुक्तहस्ता देवास्तथा “महिषस्य महतः “तन्यतोः शब्दस्य । ‘ तनु विस्तारे । ‘ ऋतन्यञ्जि इति यतुच्प्रत्ययः । शब्दस्य कर्तारौ “वातापर्जन्या वातश्च पर्जन्यश्च तत्कार्याः “आपः “ओषधीः ओषधयश्च “नः अस्माकं “गिरः स्तुतीः “प्र “तिरन्तु प्रवर्धयन्तु । प्रपूर्वस्तिरतिर्वृद्ध्यर्थः । तथा “रातिः दाता “भगः भजनीयोऽर्यमा च “वाजिनः । ‘ अग्निर्वायुः सूर्यस्ते वै वाजिनः' (तै. ब्रा. १. ६. ३. ९) इति तैत्तिरीयब्राह्मणम् । एते देवाश्च “मे मदीयं “हवम् आह्वानं “यन्तु अभिगच्छन्तु ॥ ॥ १३ ॥


स॒मु॒द्रः सिन्धू॒ रजो॑ अ॒न्तरि॑क्षम॒ज एक॑पात्तनयि॒त्नुर॑र्ण॒वः ।

अहि॑र्बु॒ध्न्य॑ः शृणव॒द्वचां॑सि मे॒ विश्वे॑ दे॒वास॑ उ॒त सू॒रयो॒ मम॑ ॥११

स॒मु॒द्रः । सिन्धुः॑ । रजः॑ । अ॒न्तरि॑क्षम् । अ॒जः । एक॑ऽपात् । त॒न॒यि॒त्नुः । अ॒र्ण॒वः ।

अहिः॑ । बु॒ध्न्यः॑ । शृ॒ण॒व॒त् । वचां॑सि । मे॒ । विश्वे॑ । दे॒वासः॑ । उ॒त । सू॒रयः॑ । मम॑ ॥११

समुद्रः । सिन्धुः । रजः । अन्तरिक्षम् । अजः । एकऽपात् । तनयित्नुः । अर्णवः ।

अहिः । बुध्न्यः । शृणवत् । वचांसि । मे । विश्वे । देवासः । उत । सूरयः । मम ॥११

“समुद्रः समुन्दनशीलः स्यन्दमानोदकः “सिन्धुः एतन्नामकः “अन्तरिक्षं द्यावापृथिव्योरन्तरा मध्ये क्षितमुषितं “रजः मध्यमलोकम् “अज “एकपात् । अजायमान एक एव पद्यते । एतत्संज्ञको देवः “अर्णवः उदकवान् “तनयित्नुः स्तनयित्नुर्मेघः “बुध्न्यः अन्तरिक्षे भवः “अहिः एतत्संज्ञक एते देवाः “मे मम “वचांसि वक्तव्यानि स्तोत्राणि “शृणवत् प्रत्येकं शृणोतु । “उत अपि च “सूरयः प्राज्ञाः “विश्वे “देवासः देवाः “मम स्तोत्राणि शृण्वन्तु ।।


स्याम॑ वो॒ मन॑वो दे॒ववी॑तये॒ प्राञ्चं॑ नो य॒ज्ञं प्र ण॑यत साधु॒या ।

आदि॑त्या॒ रुद्रा॒ वस॑व॒ः सुदा॑नव इ॒मा ब्रह्म॑ श॒स्यमा॑नानि जिन्वत ॥१२

स्याम॑ । वः॒ । मन॑वः । दे॒वऽवी॑तये । प्राञ्च॑म् । नः॒ । य॒ज्ञम् । प्र । न॒य॒त॒ । सा॒धु॒ऽया ।

आदि॑त्याः । रुद्राः॑ । वस॑वः । सुऽदा॑नवः । इ॒मा । ब्रह्म॑ । श॒स्यमा॑नानि । जि॒न्व॒त॒ ॥१२

स्याम । वः । मनवः । देवऽवीतये । प्राञ्चम् । नः । यज्ञम् । प्र । नयत । साधुऽया ।

आदित्याः । रुद्राः । वसवः । सुऽदानवः । इमा । ब्रह्म । शस्यमानानि । जिन्वत ॥१२

हे देवाः “मनवः मनुष्या वयं “वः युष्मदीयाय “देववीतये । देवानां वीतिर्भक्षणं यस्मिन् स यज्ञः । तस्मै यज्ञाय “स्याम यज्ञकर्तारो भवेम । ततः “नः अस्मदीयं “यज्ञं “साधुया । सुपो याजादेशः । साधु कल्याणं “प्राञ्चं प्राचीनं “प्र “णयत प्रकृष्टाञ्चनं कुरुत । हे “आदित्याः हे "रुद्राः रुद्रपुत्रा मरुतः हे “सुदानवः शोभनदाना हे “वसवः “इमा इमानि “शस्यमानानि “ब्रह्म ब्रह्माणि स्तोत्राणि “जिन्वत प्रीणयत ॥


अप्तोर्यामेऽच्छावाकातिरिक्तोक्थस्य ' दैव्या होतारा ' इत्येषा परिधानीया । सूत्रितं च – उभा उ नूनं दैव्या होतारा प्रथमा पुरोहितेति परिधानीया ' ( आश्व. श्रौ. ९. ११) इति ॥

दैव्या॒ होता॑रा प्रथ॒मा पु॒रोहि॑त ऋ॒तस्य॒ पन्था॒मन्वे॑मि साधु॒या ।

क्षेत्र॑स्य॒ पतिं॒ प्रति॑वेशमीमहे॒ विश्वा॑न्दे॒वाँ अ॒मृताँ॒ अप्र॑युच्छतः ॥१३

दैव्या॑ । होता॑रा । प्र॒थ॒मा । पु॒रःऽहि॑ता । ऋ॒तस्य॑ । पन्था॑म् । अनु॑ । ए॒मि॒ । सा॒धु॒ऽया ।

क्षेत्र॑स्य । पति॑म् । प्रति॑ऽवेशम् । ई॒म॒हे॒ । विश्वा॑न् । दे॒वान् । अ॒मृता॑न् । अप्र॑ऽयुच्छतः ॥१३

दैव्या । होतारा । प्रथमा । पुरःऽहिता । ऋतस्य । पन्थाम् । अनु । एमि । साधुऽया ।

क्षेत्रस्य । पतिम् । प्रतिऽवेशम् । ईमहे । विश्वान् । देवान् । अमृतान् । अप्रऽयुच्छतः ॥१३

“प्रथमा मुख्यौ “पुरोहिता पुरोहितौ पुरतो निहितौ “दैव्या देवसंबन्धिनौ “होतारा होतारावेतन्नामानौ अग्न्यादित्यौ “अन्वेमि हविर्भिरनुगच्छामि। ततः “ऋतस्य यज्ञस्य “पन्थां पन्थानं “साधुया कल्याणं विघ्नराहित्येन “अन्वेमि अनुगच्छामि । अनन्तरं “प्रतिवेशं समीपे वर्तमानं “क्षेत्रस्य “पतिं पालयितारमेतन्नामानम् “अमृतान् मरणधर्मरहितान् “अप्रयुच्छतः अप्रमाद्यतः “विश्वान् सर्वान् “देवान् च “ईमहे धनं याचामहे ॥


वसि॑ष्ठासः पितृ॒वद्वाच॑मक्रत दे॒वाँ ईळा॑ना ऋषि॒वत्स्व॒स्तये॑ ।

प्री॒ता इ॑व ज्ञा॒तय॒ः काम॒मेत्या॒स्मे दे॑वा॒सोऽव॑ धूनुता॒ वसु॑ ॥१४

वसि॑ष्ठासः । पि॒तृ॒ऽवत् । वाच॑म् । अ॒क्र॒त॒ । दे॒वान् । ईळा॑नाः । ऋ॒षि॒ऽवत् । स्व॒स्तये॑ ।

प्री॒ताःऽइ॑व । ज्ञा॒तयः॑ । काम॑म् । आ॒ऽइत्य॑ । अ॒स्मे इति॑ । दे॒वा॒सः॒ । अव॑ । धू॒नु॒त॒ । वसु॑ ॥१४

वसिष्ठासः । पितृऽवत् । वाचम् । अक्रत । देवान् । ईळानाः । ऋषिऽवत् । स्वस्तये ।

प्रीताःऽइव । ज्ञातयः । कामम् । आऽइत्य । अस्मे इति । देवासः । अव । धूनुत । वसु ॥१४

“ऋषिवत् पूर्वं ऋषय इव “देवान् “ईळानाः स्तुवन्तः “वसिष्ठासः वसिष्ठकुलजाता ऋषयः “पितृवत् वसिष्ठवत् “स्वस्तये अविनाशाय “वाचं स्तोत्रम् “अक्रत कुर्वन्ति । करोतेर्लुङि मन्त्रे घस इति च्लेर्लुक् । हे “देवासः देवाः यूयं “कामम् अस्मदभिलाषम् “एत्य आगत्य “अस्मे अस्मासु “वसु गवादिलक्षणं धनम् “अव “धूनुत अभिमुखं प्रेरयत । तत्र दृष्टान्तः । “प्रीताइव यथा प्रीताः संहृष्टाः। “ज्ञातयः बन्धवः स्वजनस्य धनं प्रेरयन्ति तद्वद्धविर्दानेन स्तुतिकरणेन च बन्धुष्वस्मासु धनं प्रेरयतेति भावः ॥


दे॒वान्वसि॑ष्ठो अ॒मृता॑न्ववन्दे॒ ये विश्वा॒ भुव॑ना॒भि प्र॑त॒स्थुः ।

ते नो॑ रासन्तामुरुगा॒यम॒द्य यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥१५

दे॒वान् । वसि॑ष्ठः । अ॒मृता॑न् । व॒व॒न्दे॒ । ये । विश्वा॑ । भुव॑ना । अ॒भि । प्र॒ऽत॒स्थुः ।

ते । नः॒ । रा॒स॒न्ता॒म् । उ॒रु॒ऽगा॒यम् । अ॒द्य । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥१५

देवान् । वसिष्ठः । अमृतान् । ववन्दे । ये । विश्वा । भुवना । अभि । प्रऽतस्थुः ।

ते । नः । रासन्ताम् । उरुऽगायम् । अद्य । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥१५

एषा ऋक् पूर्वमेव व्याख्यायि ॥ ॥ १४ ॥

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.६६&oldid=314197" इत्यस्माद् प्रतिप्राप्तम्