← सूक्तं ९.४५ ऋग्वेदः - मण्डल ९
सूक्तं ९.४६
अयास्य आङ्गिरसः।
सूक्तं ९.४७ →
दे. पवमानः सोमः। गायत्री।


असृग्रन्देववीतयेऽत्यासः कृत्व्या इव ।
क्षरन्तः पर्वतावृधः ॥१॥
परिष्कृतास इन्दवो योषेव पित्र्यावती ।
वायुं सोमा असृक्षत ॥२॥
एते सोमास इन्दवः प्रयस्वन्तश्चमू सुताः ।
इन्द्रं वर्धन्ति कर्मभिः ॥३॥

शुक्रामन्थीग्रहप्रचारः

आ धावता सुहस्त्यः शुक्रा गृभ्णीत मन्थिना ।
गोभिः श्रीणीत मत्सरम् ॥४॥
स पवस्व धनंजय प्रयन्ता राधसो महः ।
अस्मभ्यं सोम गातुवित् ॥५॥
एतं मृजन्ति मर्ज्यं पवमानं दश क्षिपः ।
इन्द्राय मत्सरं मदम् ॥६॥


सायणभाष्यम्

‘ असृग्रन्' इति षडृ चं द्वाविंशं सूक्तम्। ऋष्याद्याः पूर्ववत् । “ असृग्रन्' इत्यनुक्रान्तम् । गतो विनियोगः ॥


असृ॑ग्रन्दे॒ववी॑त॒येऽत्या॑सः॒ कृत्व्या॑ इव ।

क्षरं॑तः पर्वता॒वृधः॑ ॥१

असृ॑ग्रन् । दे॒वऽवी॑तये । अत्या॑सः । कृत्व्याः॑ऽइव ।

क्षर॑न्तः । प॒र्व॒त॒ऽवृधः॑ ॥१

असृग्रन् । देवऽवीतये । अत्यासः । कृत्व्याःऽइव ।

क्षरन्तः । पर्वतऽवृधः ॥१

"पर्वतावृधः पर्वतैरभिषवग्रावभिर्वृद्धाः पर्वतेषु जाता वा “क्षरन्तः सोमाः “देववीतये यज्ञाय “अत्यासः अश्वाः “कृत्व्याइव यथा कर्मण्या अश्वाः तद्वत् "असृग्रन् सृज्यन्ते ।।


परि॑ष्कृतास॒ इन्द॑वो॒ योषे॑व॒ पित्र्या॑वती ।

वा॒युं सोमा॑ असृक्षत ॥२

परि॑ऽकृतासः । इन्द॑वः । योषा॑ऽइव । पित्र्य॑ऽवती ।

वा॒युम् । सोमाः॑ । अ॒सृ॒क्ष॒त॒ ॥२

परिऽकृतासः । इन्दवः । योषाऽइव । पित्र्यऽवती ।

वायुम् । सोमाः । असृक्षत ॥२

“इन्दवः यागेषु क्लिद्यमानाः “सोमाः "परिष्कृतासः परिष्कृता अलंकृताः सन्तः “पित्र्यावती पितृमती “योषेव अलंकृता कन्यका यथा वरं प्रति गच्छति तद्वत् “वायुं प्रति “असृक्षत गच्छन्ति ॥


ए॒ते सोमा॑स॒ इन्द॑वः॒ प्रय॑स्वन्तश्च॒मू सु॒ताः ।

इन्द्रं॑ वर्धंति॒ कर्म॑भिः ॥३

ए॒ते । सोमा॑सः । इन्द॑वः । प्रय॑स्वन्तः । च॒मू इति॑ । सु॒ताः ।

इन्द्र॑म् । व॒र्ध॒न्ति॒ । कर्म॑ऽभिः ॥३

एते । सोमासः । इन्दवः । प्रयस्वन्तः । चमू इति । सुताः ।

इन्द्रम् । वर्धन्ति । कर्मऽभिः ॥३

“इन्दवः दीप्ताः “प्रयस्वन्तः अन्नवन्तः “एते अस्मिन् कर्मणि वर्तमाना अमी “सोमासः सोमाः “चमू चम्वोरधिषवणफलकयोः “सुताः अभिषुताः सन्तः “कर्मभिः यागैः “इन्द्रं “वर्धयन्ति प्रीणयन्तीत्यर्थः ॥


आ धा॑वता सुहस्त्यः शु॒क्रा गृ॑भ्णीत म॒न्थिना॑ ।

गोभिः॑ श्रीणीत मत्स॒रं ॥४

आ । धा॒व॒त॒ । सु॒ऽह॒स्त्यः॒ । शु॒क्रा । गृ॒भ्णी॒त॒ । म॒न्थिना॑ ।

गोभिः॑ । श्री॒णी॒त॒ । म॒त्स॒रम् ॥४

आ । धावत । सुऽहस्त्यः । शुक्रा । गृभ्णीत । मन्थिना ।

गोभिः । श्रीणीत । मत्सरम् ॥४

हे “सुहस्त्यः शोभनहस्ता ऋत्विजः “आ “धावत । मां संप्रति आगच्छत । “मन्थिना सह “शुक्रा शुक्रं च “गृभ्णीत गृह्णीत सोमम् । “मत्सरं सोमं “गोभिः गोविकारैः पयोभिः “श्रीणीत संस्कुरुत च ॥


स प॑वस्व धनंजय प्रयं॒ता राध॑सो म॒हः ।

अ॒स्मभ्यं॑ सोम गातु॒वित् ॥५

सः । प॒व॒स्व॒ । ध॒न॒म्ऽज॒य॒ । प्र॒ऽय॒न्ता । राध॑सः । म॒हः ।

अ॒स्मभ्य॑म् । सो॒म॒ । गा॒तु॒ऽवित् ॥५

सः । पवस्व । धनम्ऽजय । प्रऽयन्ता । राधसः । महः ।

अस्मभ्यम् । सोम । गातुऽवित् ॥५

हे “धनंजय शत्रुसंबन्धिनां जनानां जेतः “सोम “गातुवित् अभीष्टमार्गस्य लम्भकः “अस्मभ्यं “महः महतः “राधसः धनस्य “प्रयन्ता प्रदाता च यः “सः त्वं “पवस्व क्षर ॥


ए॒तं मृ॑जन्ति॒ मर्ज्यं॒ पव॑मानं॒ दश॒ क्षिपः॑ ।

इन्द्रा॑य मत्स॒रं मदं॑ ॥६

ए॒तम् । मृ॒ज॒न्ति॒ । मर्ज्य॑म् । पव॑मानम् । दश॑ । क्षिपः॑ ।

इन्द्रा॑य । म॒त्स॒रम् । मद॑म् ॥६

एतम् । मृजन्ति । मर्ज्यम् । पवमानम् । दश । क्षिपः ।

इन्द्राय । मत्सरम् । मदम् ॥६

“मर्ज्यं मर्जनीयं शोध्यं “पवमानं क्षरन्तं “मत्सरं मदकरम् “एतम् इमं “मदं सोमं दशसंख्याकाः “क्षिपः अङ्गुलयः । ‘ व्रिशः क्षिपः' इत्यङ्गुलिनामसु पाठात् । इन्द्रार्थं “मृजन्ति पवित्रे शोधयन्ति ॥ ॥ ३ ॥

सम्पाद्यताम्

मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.४६&oldid=400568" इत्यस्माद् प्रतिप्राप्तम्