← सूक्तं ९.५६ ऋग्वेदः - मण्डल ९
सूक्तं ९.५७
अवत्सारः काश्यपः
सूक्तं ९.५८ →
दे. पवमानः सोमः। गायत्री।


प्र ते धारा असश्चतो दिवो न यन्ति वृष्टयः ।
अच्छा वाजं सहस्रिणम् ॥१॥
अभि प्रियाणि काव्या विश्वा चक्षाणो अर्षति ।
हरिस्तुञ्जान आयुधा ॥२॥
स मर्मृजान आयुभिरिभो राजेव सुव्रतः ।
श्येनो न वंसु षीदति ॥३॥
स नो विश्वा दिवो वसूतो पृथिव्या अधि ।
पुनान इन्दवा भर ॥४॥


सायणभाष्यम्

‘प्र ते धाराः' इति चतुर्ऋचं त्रयस्त्रिंशं सूक्तम् । ऋष्याद्याः पूर्ववत् । ‘प्र ते धाराः ' इत्यनुक्रान्तम् । उक्तो विनियोगः ॥


प्र ते॒ धारा॑ अस॒श्चतो॑ दि॒वो न यं॑ति वृ॒ष्टयः॑ ।

अच्छा॒ वाजं॑ सह॒स्रिणं॑ ॥१

प्र । ते॒ । धाराः॑ । अ॒स॒श्चतः॑ । दि॒वः । न । य॒न्ति॒ । वृ॒ष्टयः॑ ।

अच्छ॑ । वाज॑म् । स॒ह॒स्रिण॑म् ॥१

प्र । ते । धाराः । असश्चतः । दिवः । न । यन्ति । वृष्टयः ।

अच्छ । वाजम् । सहस्रिणम् ॥१

हे सोम “ते तव “असश्चतः सङ्गरहिताः “धाराः “सहस्रिणम् अपरिमितसंख्याकं “वाजम् अन्नम् “अच्छ अस्मदर्थं “प्र “यन्ति प्रगच्छन्ति । तत्र दृष्टान्तः । “दिवो “न “वृष्टयः । यथा द्युलोकात् वर्षधारा निःसङ्गाः प्रजानामपरिमितमन्नं प्रयच्छन्ति तद्वदित्यर्थः ॥


अ॒भि प्रि॒याणि॒ काव्या॒ विश्वा॒ चक्षा॑णो अर्षति ।

हरि॑स्तुंजा॒न आयु॑धा ॥२

अ॒भि । प्रि॒याणि॑ । काव्या॑ । विश्वा॑ । चक्षा॑णः । अ॒र्ष॒ति॒ ।

हरिः॑ । तु॒ञ्जा॒नः । आयु॑धा ॥२

अभि । प्रियाणि । काव्या । विश्वा । चक्षाणः । अर्षति ।

हरिः । तुञ्जानः । आयुधा ॥२

“हरिः हरितवर्णः सोमः “विश्वा विश्वानि “प्रियाणि देवानां प्रीतिकराणि “काव्या काव्यानि कर्माणि “चक्षाणः पश्यन् “आयुधा स्वकीयान्यायुधानि “तुञ्जानः राक्षसान् प्रति प्रेरयंश्च “अभि “अर्षति यागं प्रति गच्छति ॥


स म॑र्मृजा॒न आ॒युभि॒रिभो॒ राजे॑व सुव्र॒तः ।

श्ये॒नो न वंसु॑ षीदति ॥३

सः । म॒र्मृ॒जा॒नः । आ॒युऽभिः॑ । इभः॑ । राजा॑ऽइव । सु॒ऽव्र॒तः ।

श्ये॒नः । न । वंसु॑ । सी॒द॒ति॒ ॥३

सः । मर्मृजानः । आयुऽभिः । इभः । राजाऽइव । सुऽव्रतः ।

श्येनः । न । वंसु । सीदति ॥३

“सुव्रतः सुकर्मा “सः सोमः “आयुभिः मनुष्यैर्ऋत्विग्भिः “मर्मृजानः शोध्यमानः “इभः गतभयः “राजेव यथा राजा “श्येनो “न यथा च श्येनस्तथा “वंसु उदकेषु वसतीवरीषु सीदति ॥


स नो॒ विश्वा॑ दि॒वो वसू॒तो पृ॑थि॒व्या अधि॑ ।

पु॒ना॒न इं॑द॒वा भ॑र ॥४

सः । नः॒ । विश्वा॑ । दि॒वः । वसु॑ । उ॒तो इति॑ । पृ॒थि॒व्याः । अधि॑ ।

पु॒ना॒नः । इ॒न्दो॒ इति॑ । आ । भ॒र॒ ॥४

सः । नः । विश्वा । दिवः । वसु । उतो इति । पृथिव्याः । अधि ।

पुनानः । इन्दो इति । आ । भर ॥४

हे “इन्दो सोम “सः अभिषुतः “पुनानः पबमानस्त्वं “दिवः “अधि दिवि स्थितानि “उतो अपि च “पृथिव्या अधि पृथिव्यां स्थितानि । अधीति सप्तम्यार्थानुवादः । “विश्वा विश्वानि “वसु वसूनि “नः अस्मभ्यम् “आ “भर आहर ॥ ॥ १४ ॥


मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.५७&oldid=208644" इत्यस्माद् प्रतिप्राप्तम्