ऋग्वेदः सूक्तं १.१७४

(ऋग्वेद: सूक्तं १.१७४ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं १.१७३ ऋग्वेदः - मण्डल १
सूक्तं १.१७४
अगस्त्यो मैत्रावरुणिः
सूक्तं १.१७५ →
दे. इन्द्रः। त्रिष्टुप्

पृष्ठ्ये षडहे स्तोमवृद्धौ स्तोमातिशंसनार्थं होत्रकैरेतच्छस्तव्यम्।


त्वं राजेन्द्र ये च देवा रक्षा नॄन्पाह्यसुर त्वमस्मान् ।
त्वं सत्पतिर्मघवा नस्तरुत्रस्त्वं सत्यो वसवानः सहोदाः ॥१॥
दनो विश इन्द्र मृध्रवाचः सप्त यत्पुरः शर्म शारदीर्दर्त् ।
ऋणोरपो अनवद्यार्णा यूने वृत्रं पुरुकुत्साय रन्धीः ॥२॥
अजा वृत इन्द्र शूरपत्नीर्द्यां च येभिः पुरुहूत नूनम् ।
रक्षो अग्निमशुषं तूर्वयाणं सिंहो न दमे अपांसि वस्तोः ॥३॥*
शेषन्नु त इन्द्र सस्मिन्योनौ प्रशस्तये पवीरवस्य मह्ना ।
सृजदर्णांस्यव यद्युधा गास्तिष्ठद्धरी धृषता मृष्ट वाजान् ॥४॥
वह कुत्समिन्द्र यस्मिञ्चाकन्स्यूमन्यू ऋज्रा वातस्याश्वा ।
प्र सूरश्चक्रं वृहतादभीकेऽभि स्पृधो यासिषद्वज्रबाहुः ॥५॥
जघन्वाँ इन्द्र मित्रेरूञ्चोदप्रवृद्धो हरिवो अदाशून् ।
प्र ये पश्यन्नर्यमणं सचायोस्त्वया शूर्ता वहमाना अपत्यम् ॥६॥
रपत्कविरिन्द्रार्कसातौ क्षां दासायोपबर्हणीं कः ।
करत्तिस्रो मघवा दानुचित्रा नि दुर्योणे कुयवाचं मृधि श्रेत् ॥७॥
सना ता त इन्द्र नव्या आगुः सहो नभोऽविरणाय पूर्वीः ।
भिनत्पुरो न भिदो अदेवीर्ननमो वधरदेवस्य पीयोः ॥८॥
त्वं धुनिरिन्द्र धुनिमतीरृणोरपः सीरा न स्रवन्तीः ।
प्र यत्समुद्रमति शूर पर्षि पारया तुर्वशं यदुं स्वस्ति ॥९॥
त्वमस्माकमिन्द्र विश्वध स्या अवृकतमो नरां नृपाता ।
स नो विश्वासां स्पृधां सहोदा विद्यामेषं वृजनं जीरदानुम् ॥१०॥


  • १.१७४.३

सायणभाष्यम्

‘त्वं राजा' इति दशर्चं दशमं सूक्तमागस्त्यमैन्द्रं त्रैष्टुभम् । ‘त्वं राजा दश' इत्यनुक्रान्तम् । पृष्ठ्ये षळहे स्तोमवृद्धौ स्तोमातिशंसनार्थं होत्रकैरेतच्छस्तव्यम् । ‘ऐन्द्राणि त्रैष्टुभान्यमरुच्छब्दान्यावपेरन्’ (आश्व. श्रौ. ७. १२) इति सूत्रम् ॥


त्वं राजे॑न्द्र॒ ये च॑ दे॒वा रक्षा॒ नॄन्पा॒ह्य॑सुर॒ त्वम॒स्मान् ।

त्वं सत्प॑तिर्म॒घवा॑ न॒स्तरु॑त्र॒स्त्वं स॒त्यो वस॑वानः सहो॒दाः ॥१

त्वम् । राजा॑ । इ॒न्द्र॒ । ये । च॒ । दे॒वाः । रक्ष॑ । नॄन् । पा॒हि । अ॒सु॒र॒ । त्वम् । अ॒स्मान् ।

त्वम् । सत्ऽप॑तिः । म॒घऽवा॑ । नः॒ । तरु॑त्रः । त्वम् । स॒त्यः । वस॑वानः । स॒हः॒ऽदाः ॥१

त्वम् । राजा । इन्द्र । ये। च । देवाः । रक्ष । नॄन् । पाहि । असुर । त्वम् । अस्मान् ।

त्वम् । सत्ऽपतिः । मघऽवा । नः । तरुत्रः । त्वम् । सत्यः । वसवानः । सहःऽदाः ॥ १ ॥

हे "इन्द्र “त्वं “राजा अधिपतिः सर्वस्य जगतः । किंच "ये “देवाः मरुदादयः सन्ति तेषामपि विशेषेण । अतो हे "असुर शत्रूणां निरसितः “त्वं “नॄन् अस्मान् कर्मनेतॄन् यजमानान् “रक्ष पालय। विशेषतोऽस्मानपि रक्ष । “त्वं च “सत्पतिः सतां सतः कर्मफलस्य वा पाता “मघवा धनवान् “नः अस्माकं “तरुत्रः तारयिता पापात् किंच “त्वं “सत्यः अबाध्यः सत्यफलो वा “वसवानः स्वतेजसा सर्वं छादयन् वसूनि वा कुर्वन् स्तोतृभ्यः “सहोदाः सहसो बलस्य दाता भवेति शेषः ॥


दनो॒ विश॑ इन्द्र मृ॒ध्रवा॑चः स॒प्त यत्पुर॒ः शर्म॒ शार॑दी॒र्दर्त् ।

ऋ॒णोर॒पो अ॑नव॒द्यार्णा॒ यूने॑ वृ॒त्रं पु॑रु॒कुत्सा॑य रन्धीः ॥२

दनः॑ । विशः॑ । इ॒न्द्र॒ । मृ॒ध्रऽवा॑चः । स॒प्त । यत् । पुरः॑ । शर्म॑ । शार॑दीः । दर्त् ।

ऋ॒णोः । अ॒पः । अ॒न॒व॒द्य॒ । अर्णाः॑ । यूने॑ । वृ॒त्रम् । पु॒रु॒ऽकुत्सा॑य । र॒न्धीः॒ ॥२

दनः । विशः । इन्द्र । मृध्रऽवाचः । सप्त। यत् । पुरः । शर्म । शारदीः । दर्त् ।

ऋणोः । अपः । अनवद्य । अर्णाः । यूने। वृत्रम् । पुरुऽकुत्साय । रन्धीः ॥ २ ॥

हे "इन्द्र त्वं वृत्रसंबन्ध्यसुराणां पुरभेदनसमये “मृधवाचः मर्षणवचनाः "विशः तदीयाः प्रजाः “शर्म सुखं यथा भवति तथा “दनः अदमयः ॥ दमेरिदं रूपम् । यद्वा । वर्णव्यत्ययः ॥ नदः । अनदः अशब्दयः असुरप्रजाः । अतिभयंकरशब्दमकरोः। कदेति आह। “यत् यदा “शारदीः प्रत्यग्राः। यद्वा । एतत्संवत्सरलक्षकः । संवत्सरपर्यन्तं दृढीकृता अपि । “सप्त “पुरः एतत्संख्याकाः पुरीः "दर्त् अदारयः ॥ पुरुषव्यत्ययः । दृणातेर्लङि छान्दसो विकरणस्य लुक् ।' रात्सस्य' (पा. सू. ८. २. २४ ) इति नियमात् तलोपाभावः ॥ तथा कृत्वा हे "अनवद्य कातरत्वानिन्दावन् हे इन्द्र “अर्णाः अरणशीलाः “अपः तदीयदुर्गस्थानानि उदकाश्रयाणि तटाकादीन् “ऋणोः । अगमयः प्रावर्तयः । भग्नान्यकरोः । एवमुपद्रुत्य “पुरुकुत्साय एतन्नाम्ने राज्ञे "यूने नित्यतरुणाय तदर्थं “वृत्रम् एतन्नामकमसुरं “रन्धीः असाधयः अहनः । अयमैतिहासिकपक्षः । निरुक्तरूढ्या तु हे इन्द्र मृध्रवाचो विशो मर्षणध्वनियुक्ता वृष्टिरूपाः प्रजा दनः अदमयः । अशब्दयो वा । अवर्षय इत्यर्थः । कदा । यद्यदा सप्त पुरः शारदीर्दर्त् सर्पणस्वभावान् प्रत्यग्रान् वृष्ट्या जगत्पूरकान् मेघानदारयः तदेत्यर्थः । तथा कृत्वा हे अनवद्य अर्णा अरणस्वभावा अपः ऋणोः अगमयः प्रावर्तयः कुल्यादिरूपेण । अनन्तरं यूने पुरुकुत्साय वृत्रं मुख्यं मेघं रन्धीः असाधयः अहनः । अयमर्थः ‘त्वं ह त्यदिन्द्र सप्त युध्यन् । (ऋ. सं. १. ६३. ७) इत्यादिमन्त्रान्तरेषु प्रसिद्धः । यास्कस्त्वेवं व्याख्यात्- दनो दानमनसो नो मनुष्यानिन्द्र मृदुवाचः कुरु ' ( निरु. ६. ३१ ) इति ॥


अजा॒ वृत॑ इन्द्र॒ शूर॑पत्नी॒र्द्यां च॒ येभि॑ः पुरुहूत नू॒नम् ।

रक्षो॑ अ॒ग्निम॒शुषं॒ तूर्व॑याणं सिं॒हो न दमे॒ अपां॑सि॒ वस्तो॑ः ॥३

अज॑ । वृतः॑ । इ॒न्द्र॒ । शूर॑ऽपत्नीः । द्याम् । च॒ । येभिः॑ । पु॒रु॒ऽहू॒त॒ । नू॒नम् ।

रक्षो॒ इति॑ । अ॒ग्निम् । अ॒शुष॑म् । तूर्व॑याणम् । सिं॒हः । न । दमे॑ । अपां॑सि । वस्तोः॑ ॥३

अज । वृतः । इन्द्र । शूरऽपत्नीः । द्याम् । च । येभिः । पुरुऽहूत । नूनम् ।।

रक्षो इति । अग्निम् । अशुषम् । तूर्वयाणम् । सिंहः । न । दमे । अपांसि । वस्तोः ॥ ३ ॥

हे “इन्द्र शूरपत्नीः शूरैः रक्षोभिः पालिताः “वृतः । वर्तन्ते आस्विति वृतोऽसुरपुरीः । यद्वा । शूरा यजमानाः । तैः पालिताः वृतो वेदिभूमीः । “अज गच्छ जेतुम् । तथा कृत्वा “द्यां “च "नूनम् अवश्यम् अज । किं त्वमेक एव न । हे “पुरुहूत बहुभिर्बहुधा वा आहूतेन्द्र "येभिः मरुदादिभिरनुगतोऽसि तैः सहितः सन् । तथा कृत्वा “अशुषम् आशोषयितारमशान्तं वा “तूर्वयाणं तूर्णगमनम् “अग्निं वैद्युतं होमाधारं वा अग्निं “रक्षो रक्षस्वैव । किमर्थं रक्षणमिति उच्यते । “दमे गृहे "अपांसि कर्माणि कुर्वन् "वस्तोः वस्तुम् । यद्वा । वासयितुं स्थापयितुम् । कारयितुमित्यर्थः । यज्ञद्विट्सु हतेष्वग्नौ सुस्थिरे सति यागाद्यनुष्ठानपरः स्थास्यामीत्यर्थः । रक्षणे दृष्टान्तः । “सिंहः इव । स यथा स्वाश्रयभूतं वनं गजाद्युपद्रवपरिहारेण रक्षति तद्वत् । असुरपुरभङ्गगमने वा दृष्टान्तः । सिंहो यथा निर्भयो विरोधिमृगान् हन्तुं धावति तद्वत् ॥


शेष॒न्नु त इ॑न्द्र॒ सस्मि॒न्योनौ॒ प्रश॑स्तये॒ पवी॑रवस्य म॒ह्ना ।

सृ॒जदर्णां॒स्यव॒ यद्यु॒धा गास्तिष्ठ॒द्धरी॑ धृष॒ता मृ॑ष्ट॒ वाजा॑न् ॥४

शेष॑न् । नु । ते । इ॒न्द्र॒ । सस्मि॑न् । योनौ॑ । प्रऽश॑स्तये । पवी॑रवस्य । म॒ह्ना ।

सृ॒जत् । अर्णां॑सि । अव॑ । यत् । यु॒धा । गाः । तिष्ठ॑त् । हरी॒ इति॑ । धृ॒ष॒ता । मृ॒ष्ट॒ । वाजा॑न् ॥४

शेषन् । नु। ते । इन्द्र । सस्मिन् । योनौ । प्रऽशस्तये । पवीरवस्य । मह्ना ।

सृजत् । अर्णांसि। अव । यत् । युधा। गाः । तिष्ठत् । हरी इति । धृषता । मृष्ट । वाजान् ॥४॥

हे “इन्द्र “ते शत्रवः “सस्मिन् सर्वस्मिन् समाने वा “योनौ स्वकीये स्थाने अन्तरिक्षे वा । योनिरन्तरिक्षम्। “नु क्षिप्रं “शेषन् शेरताम् ।। शीङो लेटि अडागमः। व्यत्ययेन परस्मैपदम्। सिब्बहुलम् इति सिप् । किमर्थम्। “प्रशस्तये प्रशंसनाय त्वत्स्तुतये। त्वन्महिमज्ञापनाय' इत्यर्थः। किं सेवनादिसाधनेनेत्याह । “पवीरवस्य कुलिशस्य कुलिशशब्दस्य वा “मह्ना महिम्ना । त्वद्वज्रप्रहारेण हता मेघाः शत्रवो वा तत्रैव शेरते निपातेन पलायन्ते इत्यर्थः । किंच “यत् यदा “युधा प्रहरणसाधनेनायुधेन युद्धेन वा “गाः गच्छसि तदा “अर्णांसि उदकानि अव “सृजत् अवासृजः । अवाङ्मुखम् अपातयः ॥ पुरुषव्यत्ययः ॥ तदर्थं "हरी अश्वौ “तिष्ठत् अध्यतिष्ठः ॥ अत्रापि पुरुषव्यत्ययः । यद्वा । यदा हरी अधितिष्ठसि तदावासृजः । अथैवं कृत्वा “वाजान् अन्नानि सस्यादिलक्षणानि “धृषता धर्षकेण सामर्थ्येन “मृष्ट शोधय प्रवर्धयेत्यर्थः ।।


वह॒ कुत्स॑मिन्द्र॒ यस्मि॑ञ्चा॒कन्स्यू॑म॒न्यू ऋ॒ज्रा वात॒स्याश्वा॑ ।

प्र सूर॑श्च॒क्रं वृ॑हताद॒भीके॒ऽभि स्पृधो॑ यासिष॒द्वज्र॑बाहुः ॥५

वह॑ । कुत्स॑म् । इ॒न्द्र॒ । यस्मि॑न् । चा॒कन् । स्यू॒म॒न्यू इति॑ । ऋ॒ज्रा । वात॑स्य । अश्वा॑ ।

प्र । सूरः॑ । च॒क्रम् । वृ॒ह॒ता॒त् । अ॒भीके॑ । अ॒भि । स्पृधः॑ । या॒सि॒ष॒त् । वज्र॑ऽबाहुः ॥५

वह । कुत्सम् । इन्द्र । यस्मिन् । चाकन् । स्यूमन्यू इति । ऋज़ा । वातस्य । अश्वा ।

प्र । सूरः । चक्रम् । वृहतात् । अभीके । अभि । स्पृधः। यासिषत् । वज्रऽबाहुः ॥ ५ ॥

हे “इन्द्र “कुत्सम् एतन्नामानमृषिं प्राप्तं “स्यूमन्यू । ‘स्यूमकम्' (नि. ३. ६. ५) इति सुख- नाम । तदिच्छन्तौ सततगामिनौ वा “ऋज्रा ऋजुगामिनौ “वातस्य वायोः समानवेगौ “अश्वा तदीयावश्वौ "वह प्रस्थापय । “यस्मिन् हविषि निमित्तभूते सति कुत्सं “चाकन कामयसे तर्पयसे वा हविरादिकम् । तदर्थं “सूरः प्रेरकः सूर्यः “चक्रं स्वमण्डलं स्वरथचक्रं वा “अभीके आसन्ने देशे “बृहतात् ऊर्ध्वं गमयतु प्रकाशयतु । अथ परोक्षेणाह। “वज्रबाहुः अयमिन्द्रः “स्पृधः संग्रामं कुर्वतः शत्रून् “अभि “यासिषत् अभियातु ॥ ॥ १६ ॥


ज॒घ॒न्वाँ इ॑न्द्र मि॒त्रेरू॑ञ्चो॒दप्र॑वृद्धो हरिवो॒ अदा॑शून् ।

प्र ये पश्य॑न्नर्य॒मणं॒ सचा॒योस्त्वया॑ शू॒र्ता वह॑माना॒ अप॑त्यम् ॥६

ज॒घ॒न्वान् । इ॒न्द्र॒ । मि॒त्रेरू॑न् । चो॒दऽप्र॑वृद्धः । ह॒रि॒ऽवः॒ । अदा॑शून् ।

प्र । ये । पश्य॑न् । अ॒र्य॒मण॑म् । सचा॑ । आ॒योः । त्वया॑ । शू॒र्ताः । वह॑मानाः । अप॑त्यम् ॥६

जघन्वान् । इन्द्र । मित्रेरून् । चोदऽप्रवृद्धः । हरिऽवः । अदाशून् ।

प्र । ये । पश्यन् । अर्यमणम् । सच । आयोः । त्वया । शूर्ताः । वर्तमानाः । अपत्यम् ॥६॥

हे “इन्द्र “हरिवः हरिभ्यां तद्वन् त्वं “चोदप्रवृद्धः चोदनैः स्तोत्रैः प्रवृद्धः सन् "अदाशून् अदातॄन् “मित्रेरून् मित्राणां यजमानानाम् ईरयितॄन् बाधकान् तद्वैरिणां मित्रत्वं गच्छतो वा “जघन्वान् हतवानसि। किंच "ये “अर्यमणं दातारं त्वां “प्र “पश्यन् पश्यन्ति ते नराः "आयोः मनुष्यस्याध्वर्य्वादेः हविर्लक्षणान्नस्य वा "सचा सह “शूर्ताः क्षिप्रा हविष्प्रदानेन “त्वया “अपत्यं कुलस्यापातयितारं पुत्रं “वहमानाः ये सन्ति ते प्र पश्यन् । यद्वा । ये अर्यमणं त्वां पश्यन्ति ते एवं भवन्ति । यद्वा । ये नरा अर्यमणं यं कंचिद्दातारं पश्यन् पश्यन्तस्त्वामयजन्त आयोर्मनुष्यस्य सचा सहायभूतास्त्वया शूर्ताः क्षिप्ता वर्जिता अपत्यं पुत्रं वहमाना ये सन्ति तान् जघन्वान् भवेत्यर्थः ।।


रप॑त्क॒विरि॑न्द्रा॒र्कसा॑तौ॒ क्षां दा॒सायो॑प॒बर्ह॑णीं कः ।

कर॑त्ति॒स्रो म॒घवा॒ दानु॑चित्रा॒ नि दु॑र्यो॒णे कुय॑वाचं मृ॒धि श्रे॑त् ॥७

रप॑त् । क॒विः । इ॒न्द्र॒ । अ॒र्कऽसा॑तौ । क्षाम् । दा॒साय॑ । उ॒प॒ऽबर्ह॑णीम् । क॒रिति॑ कः ।

कर॑त् । ति॒स्रः । म॒घऽवा॑ । दानु॑ऽचित्राः । नि । दु॒र्यो॒णे । कुय॑वाचम् । मृ॒धि । श्रे॒त् ॥७

रपत्। कविः । इन्द्र । अर्कऽसातौ । क्षाम् । दासाय । उपऽबर्हणीम् । करिति कः ।।

करत् । तिस्रः । मघऽवा । दानुऽचित्राः । नि । दुर्योणे । कुयवाचम् । मृधि । श्रेत् ॥ ७ ॥

हे “इन्द्र त्वां "कविः क्रान्तदर्शी अनूचानो वा होता “अर्कसातौ अर्चनीयस्यान्नस्य लाभे निमित्तभूते सति “रपत् स्तौति । यद्वा । एतन्नामर्षी रपत् अस्तौत् अन्नार्थम् । तस्यातिप्रभूतमन्नं प्रादाः इत्यर्थः । तथा च "दासाय प्राण्युपक्षपयित्रेऽसुराय “क्षां भूमिम् उपबर्हणीं शय्यां “कः अकरोः । हत्वा भूमावपातय इत्यर्थः । करोतेर्लुङि ‘मन्त्रे घस' इति च्लेर्लुक् ॥ अथ परोक्षकृतः । “मघवा धनवान् अयमिन्द्रः “तिस्रः भूमीः । दार्शिकपाशुकसौमिकरूपा भूमीः क्षित्यन्तरिक्षद्युरूपा वा भूमीः “दानुचित्राः दानेन देयैर्धनैर्वा चायनीयाः “करत् करोति । यद्वा । तिस्रः अयोरजतहिरण्यमयाः पुरीर्दानुचित्राः खण्डनेन चित्रा अकरोत् । तथा “दुर्योणे दुष्टयोनौ स्थाने एतन्नामकस्य राज्ञः प्रीत्यर्थं वा “कुयवाचं कुत्सितं शब्दायन्तमेतन्नामानमसुरं "मृधि संग्रामे “नि “श्रेत् हिंसितवान् ॥


सना॒ ता त॑ इन्द्र॒ नव्या॒ आगु॒ः सहो॒ नभोऽवि॑रणाय पू॒र्वीः ।

भि॒नत्पुरो॒ न भिदो॒ अदे॑वीर्न॒नमो॒ वध॒रदे॑वस्य पी॒योः ॥८

सना॑ । ता । ते॒ । इ॒न्द्र॒ । नव्याः॑ । आ । अ॒गुः॒ । सहः॑ । नभः॑ । अवि॑ऽरणाय । पू॒र्वीः ।

भि॒नत् । पुरः॑ । न । भिदः॑ । अदे॑वीः । न॒नमः॑ । वधः॑ । अदे॑वस्य । पी॒योः ॥८

सना । ता । ते । इन्द्र । नव्याः । आ । अगुः । सहः । नभः । अविऽरणाय । पूर्वीः ।

भिनत् । पुरः । न । भिदः । अदेवीः । ननमः । वधः । अदेवस्य । पीयोः ॥ ८ ॥

हे “इन्द्र “ते तव संबन्धीनि “सना सदातनानि नित्यानि तानि शौर्याणि “नव्याः नवतराः इदानींतना ऋषयः “आगुः आगच्छन्ति स्तुतिव्याजेन प्राप्नुवन्तीत्यर्थः । कानि तानीति उच्यते । “पूर्वीः बह्वीः “नभः हिंसाः ॥ नभेर्हिंसार्थात् क्विप् । तदन्तस्येदं रूपम् ॥ “ता हिंसाः “अविरणाय अविगतरणाय संग्रामनाशनाय “सहः अभ्यभवः । तदर्थं “भिदः भेत्तॄर्घातिकाः “अदेवीः आसुरीः “पुरो न पुरीरपि “भिनत् विदारितवानसि । पुरुषव्यत्ययः । नशब्दश्चार्थे ॥ तथा “अदेवस्य अस्तुत्यस्य “पीयोः हिंसकस्यासुरस्य “वधः वज्रं “ननमः अनमयः अनुकूलमकरोः ॥ यद्वा । हे इन्द्र सना नित्यं तत्तकाले ते तव संबन्धिन्यः ता तानि । लिङ्गव्यत्ययः । ताः पूर्वीः पुरातन्य आपो नव्या नूत्नाः स्तुत्याः सत्यः आगुः आगच्छन्ति । किमर्थम् । अविरणाय अविरमणाय प्राणिनामविनाशाय । तदर्थं नभो हिंसकान् बन्धकान् वा मेघान् सहः मर्षणमकरोः । किंच अदेवीः पुरः अवर्षणेनादेवनशीलानुदकपुटबन्धनान् भिनत् भिन्नानकरोः । तथा अदेवस्य अदेवनशीलस्य पीयोः प्रतिकूलस्य वृत्रस्य वधर्वज्रं ननमः अनमयः ॥


त्वं धुनि॑रिन्द्र॒ धुनि॑मतीरृ॒णोर॒पः सी॒रा न स्रव॑न्तीः ।

प्र यत्स॑मु॒द्रमति॑ शूर॒ पर्षि॑ पा॒रया॑ तु॒र्वशं॒ यदुं॑ स्व॒स्ति ॥९

त्वम् । धुनिः॑ । इ॒न्द्र॒ । धुनि॑ऽमतीः । ऋ॒णोः । अ॒पः । सी॒राः । न । स्रव॑न्तीः ।

प्र । यत् । स॒मु॒द्रम् । अति॑ । शू॒र॒ । पर्षि॑ । पा॒रय॑ । तु॒र्वश॑म् । यदु॑म् । स्व॒स्ति ॥९

त्वम् । धुनिः । इन्द्र । धुनिऽमतीः । ऋणोः । अपः । सीराः । न । स्रवन्तीः ।

प्र । यत् । समुद्रम् । अति । शूर। पर्षिं । पारय । तुर्वशम् । यदुम् । स्वस्ति ॥९॥

हे “इन्द्र “त्वं “धुनिः कम्पयिता शत्रूणामसि । अतः “धुनिमतीः कम्पनोपेततरङ्गवतीः । अथवा । धुनिर्नाम जलप्रतिरोधकारी असुरः । स एव प्रतिबन्धकतया यासां तादृशीः । “अपः “ऋणोः अगमयः भूमावपातयः । तत्र दृष्टान्तः । “स्रवन्तीः प्रवहन्तीः “सीरा “न । नदीनामैतत् । सरणवतीर्नदीरिव । तद्वत्संतती इत्यर्थः। एवं कृत्वा हे “शूर “यत् यदा “समुद्रम् अति "पर्षि अतिक्रम्य पूरयस्युदकं तदानीं “तुर्वशं “यदुम् उभावपि राजर्षी “स्वस्ति अविनाशं “पारय अपालयः संपूर्णजलवर्षणेन । तथा च मन्त्रान्तरं-’त्वमपो यदवे तुर्वशायारमयः' (ऋ. सं. ५. ३१. ८) इति ।।


त्वम॒स्माक॑मिन्द्र वि॒श्वध॑ स्या अवृ॒कत॑मो न॒रां नृ॑पा॒ता ।

स नो॒ विश्वा॑सां स्पृ॒धां स॑हो॒दा वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥१०

त्वम् । अ॒स्माक॑म् । इ॒न्द्र॒ । वि॒श्वध॑ । स्याः॒ । अ॒वृ॒कऽत॑मः । न॒राम् । नृ॒ऽपा॒ता ।

सः । नः॒ । विश्वा॑साम् । स्पृ॒धाम् । स॒हः॒ऽदाः । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥१०

त्वम् । अस्माकम् । इन्द्र । विश्वध । स्याः । अवृकऽतमः । नराम् । नृऽपाता ।।

सः । नः। विश्वासाम् । स्पृधाम् । सहःऽदाः । विद्याम । इषम् । वृजनम् । जीरऽदानुम् ॥१०॥

हे “इन्द्र “त्वमस्माकं “विश्वध विश्वस्मिन्नपि काले विश्वप्रकारैर्वा “अवृकतमः । यद्वा । दातृतम इत्यर्थः । “स्याः भव । तथा “नरां “नृपाता अस्मदीयानां पुत्रभृत्यादिरूपाणां बहूनां मनुष्याणां सर्वदा रक्षको भव । अपरो नृशब्दोऽनुवादः । किंच “सः त्वं “विश्वासां “स्पृधां सर्वासां स्पर्धानिमित्तानाम् अस्मत्सेनानां “सहोदाः तासामर्थाय बलस्य दाता भव । विद्यामेति गतम् ॥ ॥ १७ ॥



मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१७४&oldid=214575" इत्यस्माद् प्रतिप्राप्तम्