प्रमुखा विकल्पसूचिः उद्घाट्यताम्

ऋग्वेदः सूक्तं १.९५

(ऋग्वेद: सूक्तं १.९५ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं १.९४ ऋग्वेदः - मण्डल १
सूक्तं १.९५
कुत्स आङ्गिरसः
सूक्तं १.९६ →
दे. अग्निः, औषसोऽग्निर्वा। त्रिष्टुप् ।

प्रातरनुवाकस्याग्नेये क्रतौ त्रैष्टुभे छन्दसि इदमादिके द्वे सूक्ते (आश्व.श्रौ.सू. ४.१३)


द्वे विरूपे चरतः स्वर्थे अन्यान्या वत्समुप धापयेते ।
हरिरन्यस्यां भवति स्वधावाञ्छुक्रो अन्यस्यां ददृशे सुवर्चाः ॥१॥
दशेमं त्वष्टुर्जनयन्त गर्भमतन्द्रासो युवतयो विभृत्रम् ।
तिग्मानीकं स्वयशसं जनेषु विरोचमानं परि षीं नयन्ति ॥२॥
त्रीणि जाना परि भूषन्त्यस्य समुद्र एकं दिव्येकमप्सु ।
पूर्वामनु प्र दिशं पार्थिवानामृतून्प्रशासद्वि दधावनुष्ठु ॥३॥
क इमं वो निण्यमा चिकेत वत्सो मातॄर्जनयत स्वधाभिः ।
बह्वीनां गर्भो अपसामुपस्थान्महान्कविर्निश्चरति स्वधावान् ॥४॥
आविष्ट्यो वर्धते चारुरासु जिह्मानामूर्ध्वः स्वयशा उपस्थे ।
उभे त्वष्टुर्बिभ्यतुर्जायमानात्प्रतीची सिंहं प्रति जोषयेते ॥५॥*
उभे भद्रे जोषयेते न मेने गावो न वाश्रा उप तस्थुरेवैः ।
स दक्षाणां दक्षपतिर्बभूवाञ्जन्ति यं दक्षिणतो हविर्भिः ॥६॥
उद्यंयमीति सवितेव बाहू उभे सिचौ यतते भीम ऋञ्जन् ।
उच्छुक्रमत्कमजते सिमस्मान्नवा मातृभ्यो वसना जहाति ॥७॥
त्वेषं रूपं कृणुत उत्तरं यत्सम्पृञ्चानः सदने गोभिरद्भिः ।
कविर्बुध्नं परि मर्मृज्यते धीः सा देवताता समितिर्बभूव ॥८॥
उरु ते ज्रयः पर्येति बुध्नं विरोचमानं महिषस्य धाम ।
विश्वेभिरग्ने स्वयशोभिरिद्धोऽदब्धेभिः पायुभिः पाह्यस्मान् ॥९॥
धन्वन्स्रोतः कृणुते गातुमूर्मिं शुक्रैरूर्मिभिरभि नक्षति क्षाम् ।
विश्वा सनानि जठरेषु धत्तेऽन्तर्नवासु चरति प्रसूषु ॥१०॥
एवा नो अग्ने समिधा वृधानो रेवत्पावक श्रवसे वि भाहि ।
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥११॥



सायणभाष्यम्

॥ श्रीगणेशाय नमः ॥

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

प्रथमे मण्डले पञ्चदशेऽनुवाके प्रथमं सूक्तं व्याख्यातम् । द्वे विरूपे' इत्येकादशर्चं द्वितीयं सूक्तम् । अत्रानुक्रम्यते- द्वे एकादशौषसाय वाग्नये ' इति । ऋषिश्चान्यस्मात् ' इति परिभाषया कुत्सस्यानुवृत्तेराङ्गिरसः कुत्सः ऋषिः । अनादेशपरिभाषया त्रिष्टुप् छन्दः । उषसि प्रातःकाले हविर्भाक् योऽग्निरस्ति स देवता । यद्वा ।' आग्नेयं तत्' इति पूर्वोत्रोक्तत्वात् तुह्यादिपरिभाषया इदमादीनि पञ्च सूक्तानि केवलाग्निदेवत्यानि । अतोऽस्य सूक्तस्य औषसगुणविशिष्टोऽग्निः शुद्धोऽग्निर्वा देवता इति वाशब्दार्थः । प्रातरनुवाकस्याग्नेये क्रतौ त्रैष्टुभे छन्दसि इदमादिके द्वे सूक्ते । तथा च सूत्रितम् ‘ अथैतस्याः' इति खण्डे- द्वे विरूपे इति सूक्ते ' ( आश्व. श्रौ. ४. १३ ) इति । आश्विनशस्त्रे चैते ' प्रातरनुवाकन्यायेन तस्यैव समाम्नायस्य ' ( आश्व. श्रौ. ६. ५. ) इत्यतिदिष्टत्वात् ॥


द्वे विरू॑पे चरत॒ः स्वर्थे॑ अ॒न्यान्या॑ व॒त्समुप॑ धापयेते ।

हरि॑र॒न्यस्यां॒ भव॑ति स्व॒धावा॑ञ्छु॒क्रो अ॒न्यस्यां॑ ददृशे सु॒वर्चा॑ः ॥१

द्वे इति॑ । विरू॑पे॒ इति॒ विऽरू॑पे । च॒र॒तः॒ । स्वर्थे॒ इति॑ सु॒ऽअर्थे॑ । अ॒न्याऽअ॑न्या । व॒त्सम् । उप॑ । धा॒प॒ये॒ते॒ इति॑ ।

हरिः॑ । अ॒न्यस्या॑म् । भव॑ति । स्व॒धाऽवा॑न् । शु॒क्रः । अ॒न्यस्या॑म् । द॒दृ॒शे॒ । सु॒ऽवर्चाः॑ ॥१

द्वे इति । विरूपे इति विऽरूपे । चरतः । स्वर्थे इति सुऽअर्थे । अन्याऽअन्या । वत्सम् । उप । धापयेते इति ।

हरिः । अन्यस्याम् । भवति । स्वधाऽवान् । शुक्रः । अन्यस्याम् । ददृशे । सुऽवर्चाः ॥१

"स्वर्थे स्वरणे शोभनगमनागमने । यद्वा । अर्थः प्रयोजनम् । शोभनप्रयोजनोपेते "विरूपे विषमरूपे शुक्लकृष्णतया नानारूपे “द्वे अहोरात्रे "चरतः पुनःपुनः पर्यावर्तेते । ते चाहोरात्रे अग्नेः सूर्यस्य च जनन्यौ । तत्र रात्रेः पुत्रः सूर्यः । स हि गर्भवत् रात्रावन्तर्हितः सन् तस्याः चरमभागादुत्पद्यते। अह्नः पुत्रोऽग्निः । स हि तत्र विद्यमानोऽपि प्रकाशराहित्येन असत्कल्पः सन् तस्मात् अह्नः सकाशात् निर्मुक्तः प्रकाशमानं स्वात्मानं लभते । अनयोरेतयोः पुत्रत्वं च तैत्तिरीयैराम्नायते- तयोरेतौ वत्सौ । अग्निश्चादित्यश्च । रात्रेर्वत्सः । श्वेत आदित्यः । अह्नोऽग्निः । ताम्रो अरुणः' ( तै. आ. १. १०) इति । ते चाहोरात्रे “वत्सं स्वं स्वं पुत्रम्" “अन्यान्या परस्परव्यतिहारेण “उप “धापयेते स्वकीय रसं पाययतः । यद्रात्र्या कर्तव्यं स्वपुत्रस्यादित्यस्य रसस्य पायनं तदहः करोति । यदह्ना कर्तव्यं स्वपुत्रस्याग्नेः रसस्य पायनं तद्रात्रिः करोति । एतच्च सायंप्रातःकालीनाहुत्यभिप्रायम् । श्रूयते च-’ तस्मादग्नये सायं हूयते सूर्याय प्रातः ' ( तै. ब्रा. २. १. २. ६ ) इति । यस्मादेवं तस्मात् "अन्यस्यां स्वजनन्याः अन्यस्याम् अहरात्मिकायामग्नेर्जनन्यां "हरिः रसहरणशील आदित्यः "स्वधावान् हविर्लक्षणान्नवान् "भवति । “शुक्रः निर्मलदीप्तिरग्निः स्वजनन्याः "अन्यस्यां रात्र्यामादित्यस्य जनन्यां "सुवर्चाः शोभनदीप्तियुक्तः सन् “ददृशे दृश्यते ॥ स्वर्थे । ऋ गतौ । ‘ उषिकुषिगार्तिभ्यस्थन्' इति भावे कर्मणि वा थन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । शोभनोऽर्थो ययोस्ते । ‘ आद्युदात्तं द्व्यच्छन्दसि ' इत्युत्तरपदाद्युदात्तत्वम् । अन्यान्या। ‘ कर्मव्यतिहारे सर्वनाम्नो हे भवत इति वक्तव्यं समासवच्च बहुलम् ' ( पा. म. ८. १. १२. ११) इति द्विर्भावः । बहुलग्रहणात् समासवद्भावाभावे । तस्य परमाम्रेडितम्' इति परस्याम्रेडितसंज्ञायाम् ' अनुदात्तं च ' इति आम्रेडितानुदात्तत्वम् । धापयेते । धेट् पाने '। ‘ आदेचः०' इति आत्वम् । ततो हेतुमति णिच् ।' अर्तिह्री ' ( पा. सू. ७, ३. ३६ ) इत्यादिना धातोः पुगागमः । तत्र हि लक्षणप्रतिपदोक्तपरिभाषा नास्तीति ज्ञापितं ‘शाच्छासाह्वाव्या° ' इति कृतात्वानां निर्देशेन । स हि युक्प्राप्तिख्यापनार्थः । यदि तत्र लक्षणप्रतिपदोक्तपरिभाषया पुक् न प्राप्नोति सोऽनर्थकः स्यात् । तस्मात् अध्यापयति इत्यादाविव धापयेते इत्यत्रापि पुगागमः सिद्धः । ‘ निगरणचलनार्थेभ्यश्च । ( पा . सू . १. ३. ८७ ) इति प्राप्तस्य परस्मैपदस्य पादिषु धेट उपसंख्यानम् ' (पा. सू. १, ३. ८९. १) इति प्रतिषेधात् आत्मनेपदम् । हरिः । ‘ हृञ् हरणे'। औणादिकः इन्प्रत्ययः । ञ्नित्यादिर्नित्यम्' इत्यादाद्युदात्तत्वम् । भवति । ‘ एकान्याभ्यां समर्थाभ्याम् (पा. सू. ८. १. ६५) इति प्रथमायाः तिङ्विभक्तेः निघातप्रतिषेधः । ददृशे । दृशेः ‘छन्दसि लुङ्लङ्लिटः' इति वर्तमाने लिट् । सुवर्चाः । शोभनं वर्चस्तेजो यस्य । ‘सोर्मनसी अलोमोषसी' इत्युत्तरपदाद्युदात्तत्वम् ॥


दशे॒मं त्वष्टु॑र्जनयन्त॒ गर्भ॒मत॑न्द्रासो युव॒तयो॒ विभृ॑त्रम् ।

ति॒ग्मानी॑कं॒ स्वय॑शसं॒ जने॑षु वि॒रोच॑मानं॒ परि॑ षीं नयन्ति ॥२

दश॑ । इ॒मम् । त्वष्टुः॑ । ज॒न॒य॒न्त॒ । गर्भ॑म् । अत॑न्द्रासः । यु॒व॒तयः॑ । विऽभृ॑त्रम् ।

ति॒ग्मऽअ॑नी॑कम् । स्वऽय॑शसम् । जने॑षु । वि॒ऽरोच॑मानम् । परि॑ । सी॒म् । न॒य॒न्ति॒ ॥२

दश । इमम् । त्वष्टुः । जनयन्त । गर्भम् । अतन्द्रासः । युवतयः । विऽभृत्रम् ।

तिग्मऽअनीकम् । स्वऽयशसम् । जनेषु । विऽरोचमानम् । परि । सीम् । नयन्ति ॥२

“अतन्द्रासः स्वकार्ये जगतः पोषणेऽनलसाः आलस्यरहितः जागरूका इत्यर्थः । "युवतयः नित्यतरुण्यः जरामरणरहिता इत्यर्थः । एवंभूताः "दश प्राच्याद्या दशसंख्याकाः दिशः "गर्भं मेघेषु गर्भरूपेणान्तर्वर्तमानं “त्वष्टुः दीप्तात् मध्यमात् वायोः सकाशात् "जनयन्त वैद्युतमग्निम् उत्पादयन्ति । यद्वा दशसंख्याका अङ्गुलयस्त्वष्टुर्दीप्तस्य वायोः गर्भं स्वकारणभूते वायौ गर्भरूपेण वर्तमानम् । अग्नेर्हि वायुः कारणं ‘वायोरग्निः' (तै, आ. ८.१) इति श्रुतेः । एवंभूतम् "इमम् अग्निम् अरण्योः सकाशात् जनयन्त उत्पादयन्ति। कीदृश्योऽङ्गुलयः । अतन्द्रासः पुनःपुनः कर्मकरणे आलस्यरहिताः । युवतयः अपृथक्कृत्य वर्तमानाः । एकस्मिन्पाणौ संहत्यावस्थिता इत्यर्थः । कीदृशमग्निम् । “विभृत्रं सर्वेषु भूतेषु विहृतम् । जाठररूपेण विभज्य वर्तमानमित्यर्थः । "तिग्मानीकं तीक्ष्णमुखं तीक्ष्णतेजसम् । अत एव हि वैद्युताग्निदर्शने दृष्टिः प्रतिहन्यते । "स्वयशसं स्वायत्तयशस्कम् । अतिशयेन यशस्विनमित्यर्थः । “जनेषु जनपदेषु सर्वदेशेषु "विरोचमानं विशेषेण दीप्यमानम् । बहूनामुपकारकमित्यर्थः । एवंभूतं "सीम् एनमग्निं "परि परितः सर्वतः “नयन्ति स्वस्वोपकाराय सर्वे जनाः स्वकीयं देशं प्रापयन्ति ॥ त्वष्टुः । ‘ त्विष दीप्तौ ।' नप्तृनेष्टृत्वष्टृ' ( उ. सू. २. २५२ ) इत्यादिना उणादिषु तृनन्तः निपातितः । अतो नित्त्वादाद्युदात्तत्वम् । विभृत्रम् । हृञ् हरणे'। अस्मात् कर्मणि निष्ठा। छान्दसो रेफोपजनः । ‘ गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । ‘ हृग्रहोर्भः' इति भत्वम् । यद्वा औणादिकः क्प्र त्ययः । तिग्मानीकम् । ‘तिज निशाने '। युजिरुचितिजां कुत्वं च ' ( उ. सू. १, १४३ )इति मक् ।' अन प्राणने '।' अनिदृशिभ्यां च ' इति कीकन् । तिग्मं तीक्ष्णमनीकं यस्य । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । परि षीम् । पूर्वपदात्' इति षत्वम् ॥


त्रीणि॒ जाना॒ परि॑ भूषन्त्यस्य समु॒द्र एकं॑ दि॒व्येक॑म॒प्सु ।

पूर्वा॒मनु॒ प्र दिशं॒ पार्थि॑वानामृ॒तून्प्र॒शास॒द्वि द॑धावनु॒ष्ठु ॥३

त्रीणि॑ । जाना॑ । परि॑ । भू॒ष॒न्ति॒ । अ॒स्य॒ । स॒मु॒द्रे । एक॑म् । दि॒वि । एक॑म् । अ॒प्ऽसु ।

पूर्वा॑म् । अनु॑ । प्र । दिश॑म् । पार्थि॑वानाम् । ऋ॒तून् । प्र॒ऽशास॑त् । वि । द॒धौ॒ । अ॒नु॒ष्ठु ॥३

त्रीणि । जाना । परि । भूषन्ति । अस्य । समुद्रे । एकम् । दिवि । एकम् । अप्ऽसु ।

पूर्वाम् । अनु । प्र । दिशम् । पार्थिवानाम् । ऋतून् । प्रऽशासत् । वि । दधौ । अनुष्ठु ॥३

“अस्य अग्नेः “त्रीणि त्रिसंख्याकानि “जाना जननानि जन्मानि ”परि “भूषन्ति परितः सर्वतोऽलंकुर्वन्ति । यद्वा परीत्येष समित्येतस्य स्थाने । अस्याग्नेस्त्रीणि जन्मानि संभवन्ति । "समुद्रे अब्धौ वडवानलरूपेण “एकं जन्म । “दिवि द्युलोके आदित्यात्मना “एकम् । "अप्सु । आपः इति अन्तरिक्षनाम । अन्तरिक्षे वैद्युताग्निरूपेणैकम् । एवमग्निस्त्रेधात्मानं विभज्य त्रिषु स्थानेषु वर्तते इत्यर्थः । तत्रादित्यात्मना वर्तमानः सोऽग्निः “ऋतूनु वसन्ताद्यान् षडृतून "प्रशासत् प्रकर्षेण विभक्ततया ज्ञापयन् "पार्थिवानां पृथिव्याः संबन्धिनां सर्वेषां प्राणिनां "पूर्वां प्राचीं “प्र “दिशं प्रकृष्टां ककुभम् । “अनुष्ठु इत्येतदव्ययं सम्यक्शब्दसमानार्थं सुष्ठ्विति यथा । सम्यगनुक्रमेण वि “दधौ कृतवान् । स्वतो भेदरहितयोरखण्डयोर्दिक्कालयोः प्राच्यादिभेदो वसन्तादिभेदश्च सूर्यगत्या निष्पाद्यते । अतः सूर्य एव तयोः कर्तेत्यर्थः ॥ जाना । जनी प्रादुर्भावे ' । घञ्। ‘ कर्षात्वतः° ' इत्यन्तोदात्तत्वे प्राप्ते वृषादेराकृतिगणत्वादाद्युदात्तत्वम् । शेश्छन्दसि बहुलम्' इति शेर्लोपः । भूषन्ति । ‘ भूष अलंकारे'। भौवादिकः । यद्वा । भवतेर्लेटि सिब्बहुलं लेटि ' इति सिप् । आगमानुशासनस्यानित्यत्वात् इडभावः, संज्ञापूर्वकस्य विधेरनित्यत्वात् गुणाभावश्च । दिवि । अप्सु । उभयत्र ऊडिदम्' इति विभक्तेः उदात्तत्वम् । पार्थिवानाम् ।' पृथिव्या ञाञौ ' इति प्राग्दीव्यतीयः अञ्प्रत्ययः । प्रशासत् । ‘ शासु अनुशिष्टौ ' । अस्मात् लटः शतृ ।' जक्षित्यादयः षट्' इति अभ्यस्तसंज्ञायां नाभ्यस्ताच्छतुः । इति नुम्प्रतिषेधः । कृदुत्तरपदप्रकृतिस्वरत्वम् । अनुष्ठु ।' अपदुःसुषु स्थः ' ( उ. सू. १. २५) इति विधीयमानः कुप्रत्ययो बहुलवचनात् तिष्ठतेरनुपूर्वादपि भवति ॥


क इ॒मं वो॑ नि॒ण्यमा चि॑केत व॒त्सो मा॒तॄर्ज॑नयत स्व॒धाभि॑ः ।

ब॒ह्वी॒नां गर्भो॑ अ॒पसा॑मु॒पस्था॑न्म॒हान्क॒विर्निश्च॑रति स्व॒धावा॑न् ॥४

कः । इ॒मम् । वः॒ । नि॒ण्यम् । आ । चि॒के॒त॒ । व॒त्सः । मा॒तॄः । ज॒न॒य॒त॒ । स्व॒धाभिः॑ ।

ब॒ह्वी॒नाम् । गर्भः॑ । अ॒पसा॑म् । उ॒पऽस्था॑त् । म॒हान् । क॒विः । निः । च॒र॒ति॒ । स्व॒धाऽवा॑न् ॥४

कः । इमम् । वः । निण्यम् । आ । चिकेत । वत्सः । मातॄः । जनयत । स्वधाभिः ।

बह्वीनाम् । गर्भः । अपसाम् । उपऽस्थात् । महान् । कविः । निः । चरति । स्वधाऽवान् ॥४

हे ऋत्विग्यजमानाः “निण्यं निर्णीतम् । अन्तर्हितनामैतत् । अबादिषु गर्भरूपेणान्तर्हितम् । तथा च मन्त्रान्तरम्-' गर्भो यो अपां गर्भो वनानां गर्भश्च स्थातां गर्भश्चरथाम्' ( ऋ. सं. १. ७०. २) इति । एवंभूतम् “इमम् अग्निं “वः युष्माकं मध्ये "कः “आ “चिकेत को जानाति । न कोऽपीत्यर्थः । सोऽयमग्निः “वत्सः मेघस्थानामपां वैद्युताग्निरूपेण पुत्रस्थानीयः सन् 'मातॄः तस्य मातृस्थानीयानि वृष्ट्युदकानि "स्वधाभिः हविर्लक्षणैरन्नैः "जनयत उत्पादयति । तथा च स्मर्यते- अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ' ( मनु. ३. ७६ ) इति । अपि च "बह्वीनां मेघस्थानामपां "गर्भः वैद्युतरूपेण गर्भस्थानीयः सोऽग्निः “अपसामुपस्थात् समुद्रात् “निश्चरति औषसाग्निरूपेणादित्यः सन्निर्गच्छति । कीदृशः । "महान् तेजसा प्रौढः "कविः क्रान्तदर्शी "स्वधावान् हविर्लक्षणान्नवान् । एक एवाग्निर्होमनिष्पादकलक्षणेन पार्थिवरूपेण वैद्युतात्मना औषसरूपेण आदित्यात्मना च विभज्य वर्तते इत्यर्थः ॥ चिकेत । ‘ कित ज्ञाने' । छान्दसो लिट् । जनयत । ‘ जनीजॄष्क्नसुरञ्जोऽमन्ताश्च ' इति मित्त्वात् ‘मितां ह्रस्वः' इति ह्रस्वत्वम् । पूर्ववत् छान्दसो लङ् । बह्वीनाम् । ‘ नित्यं छन्दसि ' ( पा. सू. ४. १. ४६ ) इति बहुशब्दात् ङीष् । ‘ ङ्याश्छन्दसि बहुलम् ' (पा. सू. ६. १. १७८) इति नाम उदात्तत्वम् । अपसाम् । ‘ आप्लृ व्याप्तौ ।' आपः कर्माख्यायां ह्रस्वो नुट् च वा ' ( उ. सू. ४. ६४७ ) इति बहुलवचनादकर्माख्यायामपि आप्नोतेः असिप्रत्ययः ह्रस्वश्च । उपस्थात् । उपतिष्ठन्त्यापोऽत्र इत्युपस्थः । ‘ आतश्चेोपसर्गे' इति ‘कृत्यल्युटो बहुलम्' इति बहुलवचनात् अधिकरणे कप्रत्ययः । मरुद्वृधादित्वात् पूर्वपदान्तोदात्तत्वम् ।।


आ॒विष्ट्यो॑ वर्धते॒ चारु॑रासु जि॒ह्माना॑मू॒र्ध्वः स्वय॑शा उ॒पस्थे॑ ।

उ॒भे त्वष्टु॑र्बिभ्यतु॒र्जाय॑मानात्प्रती॒ची सिं॒हं प्रति॑ जोषयेते ॥५

आ॒विःऽत्यः॑ । व॒र्ध॒ते॒ । चारुः॑ । आ॒सु॒ । जि॒ह्माना॑म् । ऊ॒र्ध्वः । स्वऽय॑शाः । उ॒पऽस्थे॑ ।

उ॒भे इति॑ । त्वष्टुः॑ । बि॒भ्य॒तुः॒ । जाय॑मानात् । प्र॒ती॒ची इति॑ । सिं॒हम् । प्रति॑ । जो॒ष॒ये॒ते॒ इति॑ ॥५

आविःऽत्यः । वर्धते । चारुः । आसु । जिह्मानाम् । ऊर्ध्वः । स्वऽयशाः । उपऽस्थे ।

उभे इति । त्वष्टुः । बिभ्यतुः । जायमानात् । प्रतीची इति । सिंहम् । प्रति । जोषयेते इति ॥५

"आसु मेघस्थास्वप्सु वैद्युतात्मना वर्तमानोऽग्निः “चारुः शोभनदीप्तिः सन् "आविष्ट्यो “वर्धते आविर्भूतः प्रकाशमानो वृद्धिं प्राप्नोति । किं कुर्वन् । "जिह्मानां कुटिलानां मेघेषु तिर्यगवस्थितानां तासामपाम् "उपस्थे उत्सङ्गे "स्वयशाः स्वायत्तयशस्कोऽग्निः “ऊर्ध्वः ऊर्ध्वज्वलनः सन् । स्वकारणभूतास्वप्सु तिर्यगवस्थितास्वपि स्वयमूर्ध्वं ज्वलन्नित्यर्थः । तदुक्तं वैशेषिकैः-’ अग्नेरूर्ध्वज्वलनं वायोस्तिर्यक्पवनम् अणुमनसोराद्यं कर्मैतान्यदृष्टकारितानि' इति । अपि च “उभे द्यावापृथिव्यौ त्वष्टुः दीप्तात् "जायमानात् उत्पद्यमानात्तस्मादग्नेः “बिभ्यतुः भयं प्रापतुः । तदनन्तरमुत्पन्नं “सिंहं सहनशीलमभिभवनशीलं तमग्निं "प्रतीची प्रत्यञ्चन्त्यौ प्रतिगच्छन्त्यौ आभिमुख्येन प्राप्नुवन्त्यौ "जोषयेते सेवेते । यास्कस्त्वाह- आविरावेदनात्तत्त्यो वर्धते चारुरासु चारु चरतेर्जिह्मं जिहीतेरूर्ध्व उच्छ्रितो भवति स्वयशा आत्मयशा उपस्थ उपस्थान उभे त्वष्टुर्बिभ्यतुर्जायमानात्प्रतीची सिंहं प्रति जोषयेते द्यावापृथिव्याविति वाहोरात्रे इति वारणी इति वापि चैते प्रत्यक्ते सिंहं सहनं प्रत्यासेवेते' (निरु. ८. १५) इति ॥ आविष्ट्यः । आविःशब्दात् छन्दसि ' (पा. सू. ४. २. १०४. १ ) इति शैषिकस्त्यप् । ह्रस्वात्तादौ तद्धिते ' (पा. सू. ८. ३. १०१ ) इति षत्वम् । आसु । इदमोऽन्वादेशे° ' इति अशादेशोऽनुदात्तः, विभक्तिश्च सुप्त्वादनुदात्ता इति सर्वानुदात्तत्वम् । न च ‘ ऊडिदम्' इति विभक्तेरुदात्तत्वं शङ्कनीयम् । अन्तोदात्तादिदंशब्दाद्धि तद्विधीयते । प्रतीची । प्रतिपूर्वात् अञ्चतेः ' ऋत्विक् ' इत्यादिना क्विन् ।' अनिदिताम्' इति नलोपः । ‘ अञ्चतेश्चोपसंख्यानम् ' इति ङीप् । अचः' इति अकारलोपे चौ ' इति दीर्घत्वम् । उदात्तनिविस्वरेण ङीप उदात्तत्वम् । ‘ वा छन्दसि ' इति पूर्वसवर्णदीर्घः । जोषयेते । ‘जुषी प्रीतिसेवनयोः । स्वार्थे णिच् ॥ ॥ १ ॥


उ॒भे भ॒द्रे जो॑षयेते॒ न मेने॒ गावो॒ न वा॒श्रा उप॑ तस्थु॒रेवै॑ः ।

स दक्षा॑णां॒ दक्ष॑पतिर्बभूवा॒ञ्जन्ति॒ यं द॑क्षिण॒तो ह॒विर्भि॑ः ॥६

उ॒भे इति॑ । भ॒द्रे इति॑ । जो॒ष॒ये॒ते॒ इति॑ । न । मेने॒ इति॑ । गावः॑ । न । वा॒श्राः । उप॑ । त॒स्थुः॒ । एवैः॑ ।

सः । दक्षा॑णाम् । दक्ष॑ऽपतिः । ब॒भू॒व॒ । अ॒ञ्जन्ति॑ । यम् । द॒क्षि॒ण॒तः । ह॒विःऽभिः॑ ॥६

उभे इति । भद्रे इति । जोषयेते इति । न । मेने इति । गावः । न । वाश्राः । उप । तस्थुः । एवैः ।

सः । दक्षाणाम् । दक्षऽपतिः । बभूव । अञ्जन्ति । यम् । दक्षिणतः । हविःऽभिः ॥६

“उभे अहश्च रात्रिश्च । यद्वा उभे द्यावापृथिव्यौ । अरणी वा । भद्रे भजनीये शोभनाङ्ग्यौ “मेने स्त्रियौ "जोषयेते "न सेवेते इव । यथा शोभने स्त्रियौ चामरहस्ते राजानमुभयतः सेवेते एवं द्यावापृथिव्यौ एनमग्निमुभयतः सेवेते इत्यर्थः । अपि च “वाश्राः हम्भारवं कुर्वत्यः "गावो “न गावो यथा “एवैः स्वकीयैश्चरित्रैरादरातिशयेन स्वकीयान् वत्सान् “उप “तस्थुः संगच्छन्ते तथेममग्निं द्यावापृथिव्यौ उपस्थिते भवतः । पूर्वं सेवनमात्रमुक्तम् इदानीं पुन: गोनिदर्शनेन तत्रैवादिरातिशयो द्योत्यते। अतः "सः अग्निः "दक्षाणां सर्वेषां बलानां "दक्षपतिः बलाधिपतिः “बभूव आसीत् । बलानां मध्ये यदतिशयितं बलं तस्याधिपतिर्बभूवेत्यर्थः । "यम् अग्निं "दक्षिणतः आहवनीयस्य दक्षिणभागे अवस्थिताः ऋत्विजः “हविर्भिः चरुपुरोडाशादिभिः "अञ्जन्ति आर्द्रीकुर्वन्ति तर्पयन्ति सोऽग्निरिति पूर्वेणान्वयः ॥ वाश्राः । ‘ वाशृ शब्दे'। ‘ स्फायितञ्चि° ' इत्यादिना रक् । एवैः । ‘ इण् गतौ ' ‘इण्शीङ्भ्यां वन्' इति भावे वन्प्रत्ययः ।।


उद्यं॑यमीति सवि॒तेव॑ बा॒हू उ॒भे सिचौ॑ यतते भी॒म ऋ॒ञ्जन् ।

उच्छु॒क्रमत्क॑मजते सि॒मस्मा॒न्नवा॑ मा॒तृभ्यो॒ वस॑ना जहाति ॥७

उत् । य॒म्य॒मी॒ति॒ । स॒वि॒ताऽइ॑व । बा॒हू इति॑ । उ॒भे इति॑ । सिचौ॑ । य॒त॒ते॒ । भी॒मः । ऋ॒ञ्जन् ।

उत् । शु॒क्रम् । अत्क॑म् । अ॒ज॒ते॒ । सि॒मस्मा॑त् । नवा॑ । मा॒तृऽभ्यः॑ । वस॑ना । ज॒हा॒ति॒ ॥७

उत् । यम्यमीति । सविताऽइव । बाहू इति । उभे इति । सिचौ । यतते । भीमः । ऋञ्जन् ।

उत् । शुक्रम् । अत्कम् । अजते । सिमस्मात् । नवा । मातृऽभ्यः । वसना । जहाति ॥७

सवितेव सर्वस्य प्रेरकः आदित्यो थथा “बाहू बाहुस्थानीयान् रश्मीनुद्गमयति तथायमौषसोऽग्निः स्वकीयानि तेजांसि “उद्यंयमीति भृशमुद्यतान्यूर्ध्वाभिमुखानि करोति । तदनन्तरं “भीमः सर्वेषां भयंकरोऽग्निः “उभे 'सिचौ उभे द्यावापृथिव्यौ “ऋञ्जन प्रसाधयन् स्वतेजसालंकुर्वन् “यतते स्वव्यापारे प्रयतते । तदनन्तरं “सिमस्मात् सर्वस्माद्भूतजातात् “शुक्रं दीप्तम् “अत्कं सारभूतं रसम् “उत् “अजते रश्मिभिरूर्ध्वमादत्ते । अपि च “मातृभ्यः स्वमातृस्थानीयेभ्यो वृष्ट्युदकेभ्यः सकाशात् “नवा नवानि प्रत्याग्राणि ”वसना सर्वस्य जगतः आच्छादकानि तेजांसि “जहाति उद्गमयति ॥ यंयमीति । ‘ यम उपरमे' । अस्मात् यङ्लुकि 'नुगतोऽनुनासिकान्तस्य ' ( पा. सू. ७. ४. ८५ ) इति अभ्यासस्य नुगागमः । एतच्चानुस्वारोपलक्षणार्थम् । सिचौ । “ षिचिर् क्षरणे '। सिञ्चतः फलेन संयोजयतः इति सिचौ द्यावापृथिव्यौ । ‘ क्विप् च ' इति क्विप् । यतते ।' यती प्रयत्ने । अत्कम् । ‘ अत सातत्यगमने '। ‘ इण्भीकापाशल्यतिमर्चिभ्यः कन्' ( उ. सू. ३. ३२३) इति कन् । नित्त्वादाद्युदात्तत्वम् । सिमस्मात्। सिमशब्दः सर्वशब्दपर्यायः । नवा वसना । उभयत्र ‘शेश्छन्दसि बहुलम्' इति शेर्लोपः । जहाति । ‘ ओहाक् त्यागे' । जौहोत्यादिकः ।।


त्वे॒षं रू॒पं कृ॑णुत॒ उत्त॑रं॒ यत्स॑म्पृञ्चा॒नः सद॑ने॒ गोभि॑र॒द्भिः ।

क॒विर्बु॒ध्नं परि॑ मर्मृज्यते॒ धीः सा दे॒वता॑ता॒ समि॑तिर्बभूव ॥८

त्वे॒षम् । रू॒पम् । कृ॒णु॒ते॒ । उत्ऽत॑रम् । यत् । स॒म्ऽपृ॒ञ्चा॒नः । सद॑ने । गोभिः॑ । अ॒त्ऽभिः ।

क॒विः । बु॒ध्नम् । परि॑ । म॒र्मृ॒ज्य॒ते॒ । धीः । सा । दे॒वऽता॑ता । सम्ऽइ॑तिः । ब॒भू॒व॒ ॥८

त्वेषम् । रूपम् । कृणुते । उत्ऽतरम् । यत् । सम्ऽपृञ्चानः । सदने । गोभिः । अत्ऽभिः ।

कविः । बुध्नम् । परि । मर्मृज्यते । धीः । सा । देवऽताता । सम्ऽइतिः । बभूव ॥८

“सदने अन्तरिक्षे “गोभिः गन्त्रीभिः "अद्भिः मेघस्थाभिः सह संपृञ्चानः वैद्युतरूपेण संयुक्तः सन् “त्वेषं दीप्तं सर्वैर्द्रष्टुमशक्यम् “उत्तरम् उत्कृष्टतरं “रूपं वैद्युतं प्रकाशं “यत् यदा “कृणुते करोति तदानीं “कविः क्रान्तदर्शी “धीः सर्वेषां धारकः सोऽग्निः “बुध्नं सर्वस्योदकस्य मूलभूतमन्तरिक्षं “परि “मर्मृज्यते परितो मार्ष्टि स्वतेजसाच्छादयति । तस्याग्नेः “सा "देवताता देवेन देवनशीलेनाग्निना तता विस्तारिता दीप्तिरस्माभिः स्तुता सती “समितिर्बभूव तेजसां संहतिर्भवति ॥ संपृञ्चानः । ‘पृची संपर्के'। रौधादिकः । अस्मात् लटः शानच् । ' श्नसोरल्लोपः' इति अकारलोपः । सीदन्त्यस्मिन् गन्धर्वादय इति सदनमन्तरिक्षम् । अधिकरणे ल्युट् । मर्मज्यते । ‘ मृजूष् शुद्धौ । अस्मात् यङि ‘ मर्मृज्यते मर्मृज्यमानास उपसंख्यानम् ' (पा. सू. ७. ४. ९१. १) इति निपातनात् अभ्यासस्य रुगागमः । देवताता । देवेन तता देवताता । तनोतेः कर्मणि निष्ठा ।' अनुदात्तोपदेश' ' इत्यादिना अनुनासिकलोपः । व्यत्ययेन आत्वम् ।' तृतीया कर्मणि ' इति पूर्वपदप्रकृतिस्वरत्वम् ॥


उ॒रु ते॒ ज्रय॒ः पर्ये॑ति बु॒ध्नं वि॒रोच॑मानं महि॒षस्य॒ धाम॑ ।

विश्वे॑भिरग्ने॒ स्वय॑शोभिरि॒द्धोऽद॑ब्धेभिः पा॒युभि॑ः पाह्य॒स्मान् ॥९

उ॒रु । ते॒ । ज्रयः॑ । परि॑ । ए॒ति॒ । बु॒ध्नम् । वि॒ऽरोच॑मानम् । म॒हि॒षस्य॑ । धाम॑ ।

विश्वे॑भिः । अ॒ग्ने॒ । स्वय॑शःऽभिः । इ॒द्धः । अद॑ब्धेभिः । पा॒युऽभिः॑ । पा॒हि॒ । अ॒स्मान् ॥९

उरु । ते । ज्रयः । परि । एति । बुध्नम् । विऽरोचमानम् । महिषस्य । धाम ।

विश्वेभिः । अग्ने । स्वयशःऽभिः । इद्धः । अदब्धेभिः । पायुऽभिः । पाहि । अस्मान् ॥९

"महिषस्य महतः "ते तव "ज्रयः राक्षसादीनामभिभावुकं "विरोचमानं विशेषेण दीप्यमानम् “उरु विस्तीर्णं “धाम तेज: “बुध्नम् अपां मूलभूतमन्तरिक्षं “पर्येति परितो व्याप्नोति । हे "अग्ने "इद्धः अस्माभिः प्रज्वलितः सन् "विश्वेभिः सर्वैः "स्वयशोभिः स्वकीयैरात्मीयैस्तेजोभिः "अस्मान् “पाहि रक्ष । कीदृशैः । "अदब्धेभिः राक्षसादिभिरहिंसितैः "पायुभिः पालनशक्तैः ॥ ज्रयः । ‘ जि ज्रि अभिभवे ' । असुन् । अदब्धेभिः । ‘ दम्भु दम्भे'। निष्ठायां यस्य विभाषा' इति इट्प्रतिषेधः । ‘ अनिदिताम् ' इति नलोपः । ‘ झषस्तथोर्धोऽधः' इति धत्वम् । नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् । “ बहुलं छन्दसि ' इति भिस ऐसभावः ॥


धन्व॒न्स्रोत॑ः कृणुते गा॒तुमू॒र्मिं शु॒क्रैरू॒र्मिभि॑र॒भि न॑क्षति॒ क्षाम् ।

विश्वा॒ सना॑नि ज॒ठरे॑षु धत्ते॒ऽन्तर्नवा॑सु चरति प्र॒सूषु॑ ॥१०

धन्व॑न् । स्रोतः॑ । कृ॒णु॒ते॒ । गा॒तुम् । ऊ॒र्मिम् । शु॒क्रैः । ऊ॒र्मिऽभिः॑ । अ॒भि । न॒क्ष॒ति॒ । क्षाम् ।

विश्वा॑ । सना॑नि । ज॒ठरे॑षु । ध॒त्ते॒ । अ॒न्तः । नवा॑सु । च॒र॒ति॒ । प्र॒ऽसूषु॑ ॥१०

धन्वन् । स्रोतः । कृणुते । गातुम् । ऊर्मिम् । शुक्रैः । ऊर्मिऽभिः । अभि । नक्षति । क्षाम् ।

विश्वा । सनानि । जठरेषु । धत्ते । अन्तः । नवासु । चरति । प्रऽसूषु ॥१०

“धन्वन् नभसि "गातुं गमनशीलम् "ऊर्मिम् उदकसंघम् अयमग्निः "स्रोतः "कृणुते स्रोतसा प्रवाहरूपेण युक्तं करोति । "शुक्रैः निर्मलैः “ऊर्मिभिः तैर्जलसंघैः “क्षां भूमिम् "अभि "नक्षति अभिव्याप्नोति । स्वतेजोभिरन्तरिक्षे जलसंघमुत्पाद्य तेन सर्वा भूमिमभिवर्षतीत्यर्थः । पश्चात् "विश्वा सर्वाणि "सनानि । अन्ननामैतत् । सर्वाण्यन्नानि "जठरेषु “धत्ते अवस्थापयति । तदर्थं "नवासु वृष्ट्यनन्तरमुत्पन्नासु "प्रसूषु सर्वेषामन्नानां प्रसवित्रीष्वोषधीषु पाकार्थम् "अन्तः "चरति मध्ये वर्तते । अन्तरवस्थितेन भौमाग्निना सर्वा ओषधयः पच्यन्ते ॥ धन्वन् । ‘रिवि रवि धवि गत्यर्थाः । इदित्त्वात् नुम् । 'कनिन्युवृषि° ' इत्यादिना कनिन् ।' सुपां सुलुक् ' इति सप्तम्या लुक्। ‘ धन्वान्तरिक्षं धन्वन्त्यस्मादापः ' (निरु. ५. ५) इति यास्कः । नित्त्वात् आद्युदात्तत्वम् । गातुम् । ‘ गाङ् गतौ ।' कमिमनिजनि” ' इत्यादिना तुप्रत्ययः । ऊर्मिम् । “ अर्तेरू च ' इति मिप्रत्ययः । मक्षति। ‘ नक्ष गतौ ॥


ए॒वा नो॑ अग्ने स॒मिधा॑ वृधा॒नो रे॒वत्पा॑वक॒ श्रव॑से॒ वि भा॑हि ।

तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒ः सिन्धु॑ः पृथि॒वी उ॒त द्यौः ॥११

ए॒व । नः॒ । अ॒ग्ने॒ । स॒म्ऽइधा॑ । वृ॒धा॒नः । रे॒वत् । पा॒व॒क॒ । श्रव॑से । वि । भा॒हि॒ ।

तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥११

एव । नः । अग्ने । सम्ऽइधा । वृधानः । रेवत् । पावक । श्रवसे । वि । भाहि ।

तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः ॥११

हे पावक शोधक “अग्ने "समिधा अस्माभिर्दत्तेन समिदादिद्रव्येण "एव एवमुक्तप्रकारेण “वृधानः वर्धमानः सन् "रेवत् रयिमते धनयुक्ताय “नः अस्माकं “श्रवसे अन्नाय "वि “भाहि विशेषेण दीप्यस्व । अस्माकं तादृशमन्नं प्रयच्छेत्यर्थः । "नः अस्माकं "तत् अन्नं मित्रादयः "ममहन्तां पूजयन्तां रक्षन्त्वित्यर्थः । उतशब्दः समुच्चये । पृथिवी च द्यौश्चेत्यर्थः ॥ एव । ‘ निपातस्य च ' इति संहितायां दीर्घः । वृधानः । वृधेः अन्तर्भावितण्यर्थात् ताच्छीलिकः चानश् । ‘बहुलं छन्दसि ' इति शपो लुक् । चानशः सार्वधातुकत्वेन ङित्त्वात् लघूपधगुणाभावः । लसार्वधातुकत्वाभावेनानुदात्तत्वाभावे चित्स्वर एव शिष्यते । रेवत् । रयिशब्दात् मतुप् । ‘रयेर्मतौ बहुलम्' इति संप्रसारणम् । ‘ छन्दसीरः' इति मतुपो वत्दम् । “ रेशब्दाच्च° ( का. ६. १. १७६. १ ) इति मतुप उदात्तत्वम् । ‘सुपां सुलुक्' इति चतुर्थ्या लुक् ॥ ॥ २ ॥


सम्पाद्यताम्

  • १.९५.५
मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.९५&oldid=207724" इत्यस्माद् पुनः प्राप्तिः