ऋग्वेदः सूक्तं ४.१४

(ऋग्वेद: सूक्तं ४.१४ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ४.१३ ऋग्वेदः - मण्डल ४
सूक्तं ४.१४
वामदेवो गौतमः
सूक्तं ४.१५ →
दे. अग्निः (लिङ्गोक्तदेवता इति एके)। त्रिष्टुप्


प्रत्यग्निरुषसो जातवेदा अख्यद्देवो रोचमाना महोभिः ।
आ नासत्योरुगाया रथेनेमं यज्ञमुप नो यातमच्छ ॥१॥
ऊर्ध्वं केतुं सविता देवो अश्रेज्ज्योतिर्विश्वस्मै भुवनाय कृण्वन् ।
आप्रा द्यावापृथिवी अन्तरिक्षं वि सूर्यो रश्मिभिश्चेकितानः ॥२॥
आवहन्त्यरुणीर्ज्योतिषागान्मही चित्रा रश्मिभिश्चेकिताना ।
प्रबोधयन्ती सुविताय देव्युषा ईयते सुयुजा रथेन ॥३॥
आ वां वहिष्ठा इह ते वहन्तु रथा अश्वास उषसो व्युष्टौ ।
इमे हि वां मधुपेयाय सोमा अस्मिन्यज्ञे वृषणा मादयेथाम् ॥४॥
अनायतो अनिबद्धः कथायं न्यङ्ङुत्तानोऽव पद्यते न ।
कया याति स्वधया को ददर्श दिव स्कम्भः समृतः पाति नाकम् ॥५॥


सायणभाष्यम्

‘ प्रत्यग्निरुषसः' इति पञ्चर्चं चतुर्थं सूक्तं वामदेवस्यार्षं त्रैष्टुभमाग्नेयं मान्त्रवर्णिकदैवतं वा । तथा चानुक्रान्तं - ' प्रत्यग्निः' इति । लिङ्गोकदैवतं तु ' इति तुशब्दादस्यापि सूक्तस्य लिङ्गोक्तदैवतत्वम् । विनियोगो लैङ्गिकः ॥


प्रत्य॒ग्निरु॒षसो॑ जा॒तवे॑दा॒ अख्य॑द्दे॒वो रोच॑माना॒ महो॑भिः ।

आ ना॑सत्योरुगा॒या रथे॑ने॒मं य॒ज्ञमुप॑ नो यात॒मच्छ॑ ॥१

प्रति॑ । अ॒ग्निः । उ॒षसः॑ । जा॒तऽवे॑दाः । अख्य॑त् । दे॒वः । रोच॑मानाः । महः॑ऽभिः ।

आ । ना॒स॒त्या॒ । उ॒रु॒ऽगा॒या । रथे॑न । इ॒मम् । य॒ज्ञम् । उप॑ । नः॒ । या॒त॒म् । अच्छ॑ ॥१

प्रति । अग्निः । उषसः । जातऽवेदाः । अख्यत् । देवः । रोचमानाः । महःऽभिः ।

आ । नासत्या । उरुऽगाया । रथेन । इमम् । यज्ञम् । उप । नः । यातम् । अच्छ ॥१

“देवः द्योतमानः "जातवेदाः जातधनः “अग्निः “महोभिः तेजोभिः “रोचमानाः दीप्यमानाः “उषसः “प्रति उषसो लक्षीकृत्य "अख्यत् प्रवृद्धो भवति । “उरुगाया प्रभूतगमनौ हे नासत्या अश्विनौ “रथेन “नः अस्मदीयम् “इमं “यज्ञम् “अच्छ अभिमुखम् “उप "यातम् उपगच्छतम् ॥


ऊ॒र्ध्वं के॒तुं स॑वि॒ता दे॒वो अ॑श्रे॒ज्ज्योति॒र्विश्व॑स्मै॒ भुव॑नाय कृ॒ण्वन् ।

आप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्षं॒ वि सूर्यो॑ र॒श्मिभि॒श्चेकि॑तानः ॥२

ऊ॒र्ध्वम् । के॒तुम् । स॒वि॒ता । दे॒वः । अ॒श्रे॒त् । ज्योतिः॑ । विश्व॑स्मै । भुव॑नाय । कृ॒ण्वन् ।

आ । अ॒प्राः॒ । द्यावा॑पृथि॒वी इति॑ । अ॒न्तरि॑क्षम् । वि । सूर्यः॑ । र॒श्मिऽभिः॑ । चेकि॑तानः ॥२

ऊर्ध्वम् । केतुम् । सविता । देवः । अश्रेत् । ज्योतिः । विश्वस्मै । भुवनाय । कृण्वन् ।

आ । अप्राः । द्यावापृथिवी इति । अन्तरिक्षम् । वि । सूर्यः । रश्मिऽभिः । चेकितानः ॥२

“विश्वस्मै सर्वस्मै “भुवनाय लोकाय “ज्योतिः तेजः “कृण्वन् कुर्वन् “सविता प्रेरकः “देवः “ऊर्ध्वम् उन्मुखं “केतुं प्रकाशकं भानुम् “अश्रेत् आश्रयति । “वि “चेकितानः सर्वं विशेषेण पश्यन् “सूर्यः “रश्मिभिः स्वकीयैः किरणैः “द्यावापृथिवी द्युलोकभूलोकौ “अन्तरिक्षं च “आप्राः समन्तादपूरयत् ॥


आ॒वह॑न्त्यरु॒णीर्ज्योति॒षागा॑न्म॒ही चि॒त्रा र॒श्मिभि॒श्चेकि॑ताना ।

प्र॒बो॒धय॑न्ती सुवि॒ताय॑ दे॒व्यु१॒॑षा ई॑यते सु॒युजा॒ रथे॑न ॥३

आ॒ऽवह॑न्ती । अ॒रु॒णीः । ज्योति॑षा । आ । अ॒गा॒त् । म॒ही । चि॒त्रा । र॒श्मिऽभिः॑ । चेकि॑ताना ।

प्र॒ऽबो॒धय॑न्ती । सु॒वि॒ताय॑ । दे॒वी । उ॒षाः । ई॒य॒ते॒ । सु॒ऽयुजा॑ । रथे॑न ॥३

आऽवहन्ती । अरुणीः । ज्योतिषा । आ । अगात् । मही । चित्रा । रश्मिऽभिः । चेकिताना ।

प्रऽबोधयन्ती । सुविताय । देवी । उषाः । ईयते । सुऽयुजा । रथेन ॥३

“आवहन्ती धनानि धारयन्ती “अरुणीः अरुणवर्णाः ॥ प्रथमैकवचने द्वितीयाबहुवचनं छान्दसम् ॥ “ज्योतिषा तेजसा युक्ता “मही महती “रश्मिभिः किरणैः “चित्रा दर्शनीया “चेकिताना जानती उषाः “आगात् आगच्छत् । किंच "प्रबोधयन्ती सुप्तान् प्रबुद्धान् कुर्वती “देवी द्योतमाना “उषाः “सुयुजा शोभनयुक्तेन “रथेन “सुविताय सुखप्राप्तये “ईयते गच्छति ॥


आ वां॒ वहि॑ष्ठा इ॒ह ते व॑हन्तु॒ रथा॒ अश्वा॑स उ॒षसो॒ व्यु॑ष्टौ ।

इ॒मे हि वां॑ मधु॒पेया॑य॒ सोमा॑ अ॒स्मिन्य॒ज्ञे वृ॑षणा मादयेथाम् ॥४

आ । वा॒म् । वहि॑ष्ठाः । इ॒ह । ते । व॒ह॒न्तु॒ । रथाः॑ । अश्वा॑सः । उ॒षसः॑ । विऽउ॑ष्टौ ।

इ॒मे । हि । वा॒म् । म॒धु॒ऽपेया॑य । सोमाः॑ । अ॒स्मिन् । य॒ज्ञे । वृ॒ष॒णा॒ । मा॒द॒ये॒था॒म् ॥४

आ । वाम् । वहिष्ठाः । इह । ते । वहन्तु । रथाः । अश्वासः । उषसः । विऽउष्टौ ।

इमे । हि । वाम् । मधुऽपेयाय । सोमाः । अस्मिन् । यज्ञे । वृषणा । मादयेथाम् ॥४

हे अश्विनौ “इह यज्ञे "वहिष्ठाः वोढृतमाः “ते प्रसिद्धाः “रथाः रंहणा गन्तारः “अश्वासः "वां युवाम् “उषसः उषोदेवतायाः “व्युष्टौ व्युच्छनकाले “आ “वहन्तु समन्तात् नयन्तु । “हि यस्मात् कारणात् हे “वृषणा वृषणौ कामानां वर्षितारौ हे अश्विनौ “इमे “सोमाः “वां युवां “मधुपेयाय मधोः सोमस्य पानाय “अस्मिन्यज्ञे “मादयेथां हर्षयेथाम् ॥


अना॑यतो॒ अनि॑बद्धः क॒थायं न्य॑ङ्ङुत्ता॒नोऽव॑ पद्यते॒ न ।

कया॑ याति स्व॒धया॒ को द॑दर्श दि॒वः स्क॒म्भः समृ॑तः पाति॒ नाक॑म् ॥५

अना॑यतः । अनि॑ऽबद्धः । क॒था । अ॒यम् । न्य॑ङ् । उ॒त्ता॒नः । अव॑ । प॒द्य॒ते॒ । न ।

कया॑ । या॒ति॒ । स्व॒धया॑ । कः । द॒द॒र्श॒ । दि॒वः । स्क॒म्भः । सम्ऽऋ॑तः । पा॒ति॒ । नाक॑म् ॥५

अनायतः । अनिऽबद्धः । कथा । अयम् । न्यङ् । उत्तानः । अव । पद्यते । न ।

कया । याति । स्वधया । कः । ददर्श । दिवः । स्कम्भः । सम्ऽऋतः । पाति । नाकम् ॥५

इयमृक् पूर्वं व्याख्याता ॥ ॥ १४ ॥


टिप्पणी

अस्मिन् ऋचि जातवेदाः(बहुवचनम्) उषसः प्रत्यग्निः अस्ति। प्रत्यग्निः अर्थात् उषसि या सममितिः अनुपलब्धा अस्ति, तस्याः पूर्तिः जातवेदाः करोति। वैदिकवाङ्मये प्रातःकाले सूर्योदयात्पूर्वं उषसः आविर्भावः भवति। सूर्यस्य रथः उषसः अनुगमनं करोति। अस्मात् ऋचात् संकेतं मिलति यत् नासत्योः रथः जातवेदायाः अनुगमनं करोति। उषसि ये दोषाः संभाव्याः सन्ति, तेषां शोधनाय कर्मकाण्डे आरुणकेतुक अग्निचयनं भवति यत्र आपःरूपेण पुण्यानां संग्रहणं कुर्वन्ति(उखासंभरणम्)। जातवेदसि ये दोषाः संभाव्याः सन्ति, तेषां अपनयनं केन प्रकारेण संभवमस्ति, न ज्ञायते। केवलं अयमेव ज्ञायते यत् जातवेदसः प्रथमा अवस्था अर्हतः संज्ञका अस्ति, अपरा महःसंज्ञका – इमं स्तोमं अर्हते जातवेदसे रथमिव संमहेम मनीषया।

द्र. जातवेदा उपरि टिप्पणी


मण्डल ४

सूक्तं ४.१

सूक्तं ४.२

सूक्तं ४.३

सूक्तं ४.४

सूक्तं ४.५

सूक्तं ४.६

सूक्तं ४.७

सूक्तं ४.८

सूक्तं ४.९

सूक्तं ४.१०

सूक्तं ४.११

सूक्तं ४.१२

सूक्तं ४.१३

सूक्तं ४.१४

सूक्तं ४.१५

सूक्तं ४.१६

सूक्तं ४.१७

सूक्तं ४.१८

सूक्तं ४.१९

सूक्तं ४.२०

सूक्तं ४.२१

सूक्तं ४.२२

सूक्तं ४.२३

सूक्तं ४.२४

सूक्तं ४.२५

सूक्तं ४.२६

सूक्तं ४.२७

सूक्तं ४.२८

सूक्तं ४.२९

सूक्तं ४.३०

सूक्तं ४.३१

सूक्तं ४.३२

सूक्तं ४.३३

सूक्तं ४.३४

सूक्तं ४.३५

सूक्तं ४.३६

सूक्तं ४.३७

सूक्तं ४.३८

सूक्तं ४.३९

सूक्तं ४.४०

सूक्तं ४.४१

सूक्तं ४.४२

सूक्तं ४.४३

सूक्तं ४.४४

सूक्तं ४.४५

सूक्तं ४.४६

सूक्तं ४.४७

सूक्तं ४.४८

सूक्तं ४.४९

सूक्तं ४.५०

सूक्तं ४.५१

सूक्तं ४.५२

सूक्तं ४.५३

सूक्तं ४.५४

सूक्तं ४.५५

सूक्तं ४.५६

सूक्तं ४.५७

सूक्तं ४.५८



"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.१४&oldid=241235" इत्यस्माद् प्रतिप्राप्तम्