ऋग्वेदः सूक्तं ४.४४

(ऋग्वेद: सूक्तं ४.४४ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ४.४३ ऋग्वेदः - मण्डल ४
सूक्तं ४.४४
पुरुमीळहाजमीळ्हौ सौहोत्रौ
सूक्तं ४.४५ →
दे. अश्विनौ। त्रिष्टुप्

तं वां रथं वयमद्या हुवेम पृथुज्रयमश्विना संगतिं गोः ।
यः सूर्यां वहति वन्धुरायुर्गिर्वाहसं पुरुतमं वसूयुम् ॥१॥
युवं श्रियमश्विना देवता तां दिवो नपाता वनथः शचीभिः ।
युवोर्वपुरभि पृक्षः सचन्ते वहन्ति यत्ककुहासो रथे वाम् ॥२॥
को वामद्या करते रातहव्य ऊतये वा सुतपेयाय वार्कैः ।
ऋतस्य वा वनुषे पूर्व्याय नमो येमानो अश्विना ववर्तत् ॥३॥
हिरण्ययेन पुरुभू रथेनेमं यज्ञं नासत्योप यातम् ।
पिबाथ इन्मधुनः सोम्यस्य दधथो रत्नं विधते जनाय ॥४॥
आ नो यातं दिवो अच्छा पृथिव्या हिरण्ययेन सुवृता रथेन ।
मा वामन्ये नि यमन्देवयन्तः सं यद्ददे नाभिः पूर्व्या वाम् ॥५॥
नू नो रयिं पुरुवीरं बृहन्तं दस्रा मिमाथामुभयेष्वस्मे ।
नरो यद्वामश्विना स्तोममावन्सधस्तुतिमाजमीळ्हासो अग्मन् ॥६॥
इहेह यद्वां समना पपृक्षे सेयमस्मे सुमतिर्वाजरत्ना ।
उरुष्यतं जरितारं युवं ह श्रितः कामो नासत्या युवद्रिक् ॥७॥

सायणभाष्यम्

‘तं वां रथम्' इति सप्तर्चं द्वादशं सूक्तम् । पुरुमीळहाजमीळ्हावेव ऋषी । त्रिष्टुप् छन्दः । अश्विनौ देवता ।' तं वाम् ' इत्यनुक्रान्तम् । प्रातरनुवाकाश्विनशस्त्रयोरुक्तो विनियोगः ॥


तं वां॒ रथं॑ व॒यम॒द्या हु॑वेम पृथु॒ज्रय॑मश्विना॒ संग॑तिं॒ गोः ।

यः सू॒र्यां वह॑ति वंधुरा॒युर्गिर्वा॑हसं पुरु॒तमं॑ वसू॒युं ॥१

तम् । वा॒म् । रथ॑म् । व॒यम् । अ॒द्य । हु॒वे॒म॒ । पृ॒थु॒ऽज्रय॑म् । अ॒श्वि॒ना॒ । सम्ऽग॑तिम् । गोः ।

यः । सू॒र्याम् । वह॑ति । व॒न्धु॒र॒ऽयुः । गिर्वा॑हसम् । पु॒रु॒ऽतम॑म् । व॒सु॒ऽयुम् ॥१

तम् । वाम् । रथम् । वयम् । अद्य । हुवेम । पृथुऽज्रयम् । अश्विना । सम्ऽगतिम् । गोः ।

यः । सूर्याम् । वहति । वन्धुरऽयुः । गिर्वाहसम् । पुरुऽतमम् । वसुऽयुम् ॥१

हे अश्विनौ “वां युवयोः “रथं “वयं स्तोतारः “अद्य सुत्याहनि “हुवेम आह्वयामः । कीदृशं तम्। “पृथुज्रयं प्रथितवेगं “गोः गवां “संगतिं संगमयितारम् । “यः रथः “सूर्यां “वहति धारयति । “वन्धुरयुः। रथे निवासाधारभूतः काष्ठो वन्धुरं तद्वान् । “तं “गिर्वाहसं गिरां स्तुतीनां वोढारं “पुरुतमं प्रभूततमं “वसूयुं वसुमन्तम् ॥


यु॒वं श्रिय॑मश्विना दे॒वता॒ तां दिवो॑ नपाता वनथः॒ शची॑भिः ।

यु॒वोर्वपु॑र॒भि पृक्षः॑ सचंते॒ वहं॑ति॒ यत्क॑कु॒हासो॒ रथे॑ वां ॥२

यु॒वम् । श्रिय॑म् । अ॒श्वि॒ना॒ । दे॒वता॑ । तान् । दिवः॑ । न॒पा॒ता॒ । व॒न॒थः॒ । शची॑भिः ।

यु॒वोः । वपुः॑ । अ॒भि । पृक्षः॑ । स॒च॒न्ते॒ । वह॑न्ति । यत् । क॒कु॒हासः॑ । रथे॑ । वा॒म् ॥२

युवम् । श्रियम् । अश्विना । देवता । तान् । दिवः । नपाता । वनथः । शचीभिः ।

युवोः । वपुः । अभि । पृक्षः । सचन्ते । वहन्ति । यत् । ककुहासः । रथे । वाम् ॥२

हे “दिवो "नपाता अदित्यस्य पुत्रस्थानीयौ द्युलोकस्य वा न पातयितारौ हे अश्विनौ "युवं युवां “देवता देवते ॥ विभक्तिव्यत्ययः ॥”तां प्रसिद्धां “श्रियं शचीभिः कर्मभिः शक्तिभिर्वा "वनथः संभजेथे । यद्वा । वनतिर्दानार्थः । “युवोः युवयोः “वपुः शरीरं "पृक्षः अन्नानि सोमलक्षणानि "अभि “सचन्ते प्राप्नुवन्ति “यत् यदा “रथे "वां “वहन्ति “ककुहासः महान्तोऽश्वाः । यद्वा । स्तुतयो वां युवां रथे वहन्ति ॥


को वा॑म॒द्या क॑रते रा॒तह॑व्य ऊ॒तये॑ वा सुत॒पेया॑य वा॒र्कैः ।

ऋ॒तस्य॑ वा व॒नुषे॑ पू॒र्व्याय॒ नमो॑ येमा॒नो अ॑श्वि॒ना व॑वर्तत् ॥३

कः । वा॒म् । अ॒द्य । क॒र॒ते॒ । रा॒तऽह॑व्यः । ऊ॒तये॑ । वा॒ । सु॒त॒ऽपेया॑य । वा॒ । अ॒र्कैः ।

ऋ॒तस्य॑ । वा॒ । व॒नुषे॑ । पू॒र्व्याय॑ । नमः॑ । ये॒मा॒नः । अ॒श्वि॒ना॒ । आ । व॒व॒र्त॒त् ॥३

कः । वाम् । अद्य । करते । रातऽहव्यः । ऊतये । वा । सुतऽपेयाय । वा । अर्कैः ।

ऋतस्य । वा । वनुषे । पूर्व्याय । नमः । येमानः । अश्विना । आ । ववर्तत् ॥३

“कः यजमानः “अद्य “वां युवयोः “करते कुर्यात् स्तुतिम् । “अर्कैः मन्त्रैः “रातहव्यः दत्तसोमः “ऊतये “वा रक्षणाय वा “सुतपेयाय सोमपानाय “वा । “ऋतस्य उदकस्य यज्ञस्य “वा “पूर्व्याय पुराणाय “वनुषे संभजनाय हे “अश्विना अश्विनौ “नमो “येमानः नमस्कारं कुर्वाणः कः “आ “ववर्तत् आवर्तयेत् यज्ञं प्रति ॥


हि॒र॒ण्यये॑न पुरुभू॒ रथे॑ने॒मं य॒ज्ञं ना॑स॒त्योप॑ यातं ।

पिबा॑थ॒ इन्मधु॑नः सो॒म्यस्य॒ दध॑थो॒ रत्नं॑ विध॒ते जना॑य ॥४

हि॒र॒ण्यये॑न । पु॒रु॒भू॒ इति॑ पुरुऽभू । रथे॑न । इ॒मम् । य॒ज्ञम् । ना॒स॒त्या॒ । उप॑ । या॒त॒म् ।

पिबा॑थः । इत् । मधु॑नः । सो॒म्यस्य॑ । दध॑थः । रत्न॑म् । वि॒ध॒ते । जना॑य ॥४

हिरण्ययेन । पुरुभू इति पुरुऽभू । रथेन । इमम् । यज्ञम् । नासत्या । उप । यातम् ।

पिबाथः । इत् । मधुनः । सोम्यस्य । दधथः । रत्नम् । विधते । जनाय ॥४

हे “पुरुभू बहु भवन्तौ नासत्यौ “इमं “यज्ञं “हिरण्ययेन “रथेन “उप "यातम् । “सोम्यस्य सोमसंबन्धिनः “मधुनः मधुररसस्य ॥ कर्मणि षष्ठ्यौ ॥ सोमरसं “पिबाथः पिबथः । “विधते परिचरते “जनाय मह्यं “रत्नं रमणीयं धनं “दधथः धारयथः । दधतेर्दानार्थस्य लेटि रूपम् ॥


आ नो॑ यातं दि॒वो अच्छा॑ पृथि॒व्या हि॑र॒ण्यये॑न सु॒वृता॒ रथे॑न ।

मा वा॑म॒न्ये नि य॑मंदेव॒यंतः॒ सं यद्द॒दे नाभिः॑ पू॒र्व्या वां॑ ॥५

आ । नः॒ । या॒त॒म् । दि॒वः । अच्छ॑ । पृ॒थि॒व्याः । हि॒र॒ण्यये॑न । सु॒ऽवृता॑ । रथे॑न ।

मा । वा॒म् । अ॒न्ये । नि । य॒म॒न् । दे॒व॒ऽयन्तः॑ । सम् । यत् । द॒दे । नाभिः॑ । पू॒र्व्या । वा॒म् ॥५

आ । नः । यातम् । दिवः । अच्छ । पृथिव्याः । हिरण्ययेन । सुऽवृता । रथेन ।

मा । वाम् । अन्ये । नि । यमन् । देवऽयन्तः । सम् । यत् । ददे । नाभिः । पूर्व्या । वाम् ॥५

“नः अस्मान् "अच्छ अभि प्राप्तुं “दिवः द्युलोकात् “पृथिव्याः सकाशाद्वा “आ “यातम् । केन साधनेन । “हिरण्ययेन हितरमणीयेन' “सुवृता शोभनावर्तनेन “रथेन । “वां युवाम् “अन्ये “देवयन्तः देवौ युवामिच्छन्तो यजमानाः “मा “नि “यमन् नियमनं मा कुर्वन् । “यत् यस्मात “पूर्व्या पूर्वार्हा इतरयष्टृभ्यः पूर्वभाविनी “नाभिः बन्धिका स्तुतिः "सं “ददे संबध्नाति । तस्मादायातम् ॥


नू नो॑ र॒यिं पु॑रु॒वीरं॑ बृ॒हंतं॒ दस्रा॒ मिमा॑थामु॒भये॑ष्व॒स्मे ।

नरो॒ यद्वा॑मश्विना॒ स्तोम॒माव॑न्त्स॒धस्तु॑तिमाजमी॒ळ्हासो॑ अग्मन् ॥६

नु । नः॒ । र॒यिम् । पु॒रु॒ऽवीर॑म् । बृ॒हन्त॑म् । दस्रा॑ । मिमा॑थाम् । उ॒भये॑षु । अ॒स्मे इति॑ ।

नरः॑ । यत् । वा॒म् । अ॒श्वि॒ना॒ । स्तोम॑म् । आव॑न् । स॒धऽस्तु॑तिम् । आ॒ज॒ऽमी॒ळ्हासः॑ । अ॒ग्म॒न् ॥६

नु । नः । रयिम् । पुरुऽवीरम् । बृहन्तम् । दस्रा । मिमाथाम् । उभयेषु । अस्मे इति ।

नरः । यत् । वाम् । अश्विना । स्तोमम् । आवन् । सधऽस्तुतिम् । आजऽमीळ्हासः । अग्मन् ॥६

“नु क्षिप्रं "नः अस्माकं “रयिं धनं “पुरुवीरं बहुपुत्रोपेतं "बृहन्तं महान्तं हे “दस्रा अश्विनौ “मिमाथां कुरुतम् । “उभयेषु पुरुमीळ्हाजमीळ्हेषु “अस्मे अस्मासु “यत् यदा “नरः नेतार ऋत्विजः पुरुमीळ्हसंबन्धिनः “वां युवयोः “स्तोमं स्तोत्रम् “आवन् अगमन् प्राप्ताः । तथा “सधस्तुतिं सहस्तुतिम् “आजमीळ्हासः अजमीळ्हसंबन्धिनोऽपि तैः सह “अग्मन् अगमन् ॥


इ॒हेह॒ यद्वां॑ सम॒ना प॑पृ॒क्षे सेयम॒स्मे सु॑म॒तिर्वा॑जरत्ना ।

उ॒रु॒ष्यतं॑ जरि॒तारं॑ यु॒वं ह॑ श्रि॒तः कामो॑ नासत्या युव॒द्रिक् ॥७

इ॒हऽइ॑ह । यत् । वा॒म् । स॒म॒ना । प॒पृ॒क्षे । सा । इ॒यम् । अ॒स्मे इति॑ । सु॒ऽम॒तिः । वा॒ज॒ऽर॒त्ना॒ ।

उ॒रु॒ष्यत॑म् । ज॒रि॒तार॑म् । यु॒वम् । ह॒ । श्रि॒तः । कामः॑ । ना॒स॒त्या॒ । यु॒व॒द्रिक् ॥७

इहऽइह । यत् । वाम् । समना । पपृक्षे । सा । इयम् । अस्मे इति । सुऽमतिः । वाजऽरत्ना ।

उरुष्यतम् । जरितारम् । युवम् । ह । श्रितः । कामः । नासत्या । युवद्रिक् ॥७

‘इहेह' इति गतम् ॥ ॥ २० ॥

मण्डल ४

सूक्तं ४.१

सूक्तं ४.२

सूक्तं ४.३

सूक्तं ४.४

सूक्तं ४.५

सूक्तं ४.६

सूक्तं ४.७

सूक्तं ४.८

सूक्तं ४.९

सूक्तं ४.१०

सूक्तं ४.११

सूक्तं ४.१२

सूक्तं ४.१३

सूक्तं ४.१४

सूक्तं ४.१५

सूक्तं ४.१६

सूक्तं ४.१७

सूक्तं ४.१८

सूक्तं ४.१९

सूक्तं ४.२०

सूक्तं ४.२१

सूक्तं ४.२२

सूक्तं ४.२३

सूक्तं ४.२४

सूक्तं ४.२५

सूक्तं ४.२६

सूक्तं ४.२७

सूक्तं ४.२८

सूक्तं ४.२९

सूक्तं ४.३०

सूक्तं ४.३१

सूक्तं ४.३२

सूक्तं ४.३३

सूक्तं ४.३४

सूक्तं ४.३५

सूक्तं ४.३६

सूक्तं ४.३७

सूक्तं ४.३८

सूक्तं ४.३९

सूक्तं ४.४०

सूक्तं ४.४१

सूक्तं ४.४२

सूक्तं ४.४३

सूक्तं ४.४४

सूक्तं ४.४५

सूक्तं ४.४६

सूक्तं ४.४७

सूक्तं ४.४८

सूक्तं ४.४९

सूक्तं ४.५०

सूक्तं ४.५१

सूक्तं ४.५२

सूक्तं ४.५३

सूक्तं ४.५४

सूक्तं ४.५५

सूक्तं ४.५६

सूक्तं ४.५७

सूक्तं ४.५८



"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.४४&oldid=209124" इत्यस्माद् प्रतिप्राप्तम्