ऋग्वेदः सूक्तं ४.७

(ऋग्वेद: सूक्तं ४.७ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ४.६ ऋग्वेदः - मण्डल ४
सूक्तं ४.७
वामदेवो गौतमः
सूक्तं ४.८ →
दे. अग्निः। त्रिष्टुप्, १ जगती, २-६ अनुष्टुप्


अयमिह प्रथमो धायि धातृभिर्होता यजिष्ठो अध्वरेष्वीड्यः ।
यमप्नवानो भृगवो विरुरुचुर्वनेषु चित्रं विभ्वं विशेविशे ॥१॥
अग्ने कदा त आनुषग्भुवद्देवस्य चेतनम् ।
अधा हि त्वा जगृभ्रिरे मर्तासो विक्ष्वीड्यम् ॥२॥
ऋतावानं विचेतसं पश्यन्तो द्यामिव स्तृभिः ।
विश्वेषामध्वराणां हस्कर्तारं दमेदमे ॥३॥
आशुं दूतं विवस्वतो विश्वा यश्चर्षणीरभि ।
आ जभ्रुः केतुमायवो भृगवाणं विशेविशे ॥४॥
तमीं होतारमानुषक्चिकित्वांसं नि षेदिरे ।
रण्वं पावकशोचिषं यजिष्ठं सप्त धामभिः ॥५॥
तं शश्वतीषु मातृषु वन आ वीतमश्रितम् ।
चित्रं सन्तं गुहा हितं सुवेदं कूचिदर्थिनम् ॥६॥
ससस्य यद्वियुता सस्मिन्नूधन्नृतस्य धामन्रणयन्त देवाः ।
महाँ अग्निर्नमसा रातहव्यो वेरध्वराय सदमिदृतावा ॥७॥
वेरध्वरस्य दूत्यानि विद्वानुभे अन्ता रोदसी संचिकित्वान् ।
दूत ईयसे प्रदिव उराणो विदुष्टरो दिव आरोधनानि ॥८॥
कृष्णं त एम रुशतः पुरो भाश्चरिष्ण्वर्चिर्वपुषामिदेकम् ।
यदप्रवीता दधते ह गर्भं सद्यश्चिज्जातो भवसीदु दूतः ॥९॥
सद्यो जातस्य ददृशानमोजो यदस्य वातो अनुवाति शोचिः ।
वृणक्ति तिग्मामतसेषु जिह्वां स्थिरा चिदन्ना दयते वि जम्भैः ॥१०॥
तृषु यदन्ना तृषुणा ववक्ष तृषुं दूतं कृणुते यह्वो अग्निः ।
वातस्य मेळिं सचते निजूर्वन्नाशुं न वाजयते हिन्वे अर्वा ॥११॥


सायणभाष्यम्

‘ अयमिह ' इत्येकादशर्चं सप्तमं सूक्तं वामदेवस्यार्षमाग्नेयम् । आद्या जगती द्वितीयाद्याः पञ्चानुष्टुभः शिष्टास्त्रिष्टुभः । तथा चानुक्रान्तम् --' अयमिहादौ जगती पञ्चानुष्टुभः' इति । सूक्तविनियोगो लैङ्गिकः । अग्निप्रणयने ‘अयमिह ' इति वैश्यस्य प्रतिपत् । तथा च सूत्रितम् - ' अयमिह प्रथमो धायि धातृभिरिति तु राजन्यवैश्ययोराद्ये' (आश्व. श्रौ. २. १७) इति ।


अ॒यमि॒ह प्र॑थ॒मो धा॑यि धा॒तृभि॒र्होता॒ यजि॑ष्ठो अध्व॒रेष्वीड्य॑ः ।

यमप्न॑वानो॒ भृग॑वो विरुरु॒चुर्वने॑षु चि॒त्रं वि॒भ्वं॑ वि॒शेवि॑शे ॥१

अ॒यम् । इ॒ह । प्र॒थ॒मः । धा॒यि॒ । धा॒तृऽभिः॑ । होता॑ । यजि॑ष्ठः । अ॒ध्व॒रेषु॑ । ईड्यः॑ ।

यम् । अप्न॑वानः । भृग॑वः । वि॒ऽरु॒रु॒चुः । वने॑षु । चि॒त्रम् । वि॒ऽभ्व॑म् । वि॒शेऽवि॑शे ॥१

अयम् । इह । प्रथमः । धायि । धातृऽभिः । होता । यजिष्ठः । अध्वरेषु । ईड्यः ।

यम् । अप्नवानः । भृगवः । विऽरुरुचुः । वनेषु । चित्रम् । विऽभ्वम् । विशेऽविशे ॥१

“धातृभिः यज्ञार्थं कर्म कुर्वद्भिरध्वर्युभिः “इह अस्मिन् यज्ञे “होता देवानामाह्वाता “यजिष्ठः अतिशयेन यष्टा “अध्वरेषु यागेषु “ईड्यः ऋत्विग्भिः स्तूयमानः “प्रथमः सर्वेषां देवानां मुख्यः “अयम् आहवनीयादिस्थानेषु प्रत्यक्षेणोपलभ्यमानोऽग्निः “धायि अधायि निहितः ॥ दधातेः कर्मणि लुङ् । ‘बहुलं छन्दस्यमाङ्योगे' इत्यडभावः । ‘ तिङ्ङतिङः' इति निघातः ॥ अयमग्निरित्युक्तम् । कोऽसावग्निरित्यत आह । “अप्नवानः भृगुसंबन्धी कश्चिदृषिः । स चान्ये "भृगवः च "वनेषु अरण्येषु “चित्रं दावाग्निरूपेण बहुधा दर्शनीयं “विशेविशे । वीप्सया सर्वजनव्याप्तिर्गृह्यते । सर्वस्या विशः प्रजायाः “विभ्वं विभुमीश्वरं “यं देवानां हविर्वाहकत्वेन प्रसिद्धमग्निं “विरुरुचुः दीप्तियुक्तं कुर्वन्ति स्म। यमिति यच्छब्दस्यायमिति इदंशब्देन संबन्धः ॥


‘अग्ने कदा ते ' इति । प्रातरनुवाकाश्विनशस्त्रयोराग्नेये क्रतौ आनुष्टुभे छन्दसि ‘अग्ने कदा ते' इत्याद्याः पञ्चर्चः । सूत्रितं च - अग्ने कदा त इति पञ्च' ( आश्व. श्रौ. ४. १३ ) इति ॥

अग्ने॑ क॒दा त॑ आनु॒षग्भुव॑द्दे॒वस्य॒ चेत॑नम् ।

अधा॒ हि त्वा॑ जगृभ्रि॒रे मर्ता॑सो वि॒क्ष्वीड्य॑म् ॥२

अग्ने॑ । क॒दा । ते॒ । आ॒नु॒षक् । भुव॑त् । दे॒वस्य॑ । चेत॑नम् ।

अध॑ । हि । त्वा॒ । ज॒गृ॒भ्रि॒रे । मर्ता॑सः । वि॒क्षु । ईड्य॑म् ॥२

अग्ने । कदा । ते । आनुषक् । भुवत् । देवस्य । चेतनम् ।

अध । हि । त्वा । जगृभ्रिरे । मर्तासः । विक्षु । ईड्यम् ॥२

हे “अग्ने “अध अतः कारणात् "देवस्य द्योतमानस्य “ते तव संबन्धि “चेतनं तेजः कदा “आनुषक् अनुषक्तं “भुवत् भवेत् ॥ लेट्यडागमः । ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् । ‘ भूसुवोस्तिङि ' इति गुणप्रतिषेधः ॥ अतः कारणादित्युक्तम् । कस्माद्धेतोरित्युच्यते । “हि यस्मात् कारणात् “मर्तासः मनुष्याः "विक्षु विड्भिः प्रजाभिः “ईड्यं स्तुत्यं “त्वा त्वां जगृभ्रिरे जगृहिरे गृह्णन्ति ॥ ग्रहेर्धातोर्लिटि ‘ हृग्रहोर्भः' इति भत्वम् । 'बहुलं छन्दसि' इति रुडागमः ॥


ऋ॒तावा॑नं॒ विचे॑तसं॒ पश्य॑न्तो॒ द्यामि॑व॒ स्तृभि॑ः ।

विश्वे॑षामध्व॒राणां॑ हस्क॒र्तारं॒ दमे॑दमे ॥३

ऋ॒तऽवा॑नम् । विऽचे॑तसम् । पश्य॑न्तः । द्याम्ऽइ॑व । स्तृऽभिः॑ ।

विश्वे॑षाम् । अ॒ध्व॒राणा॑म् । ह॒स्क॒र्तार॑म् । दमे॑ऽदमे ॥३

ऋतऽवानम् । विऽचेतसम् । पश्यन्तः । द्याम्ऽइव । स्तृऽभिः ।

विश्वेषाम् । अध्वराणाम् । हस्कर्तारम् । दमेऽदमे ॥३

“ऋतावानम् अमायिनं “विचेतसं विशिष्टज्ञानं "स्तृभिः नक्षत्रैः परिवृतं “द्यामिव विस्फुलिङ्गैः समेतं "विश्वेषां सर्वेषाम् “अध्वराणां यज्ञानां “हस्कर्तारं प्रभासकं वृद्धेः कर्तारं वा अग्निं “पश्यन्तः ऋत्विगादयः “दमेदमे सर्वस्मिन् यज्ञगृहे । जगृभ्रिरे इति पूर्वेण संबन्धः ।।


आ॒शुं दू॒तं वि॒वस्व॑तो॒ विश्वा॒ यश्च॑र्ष॒णीर॒भि ।

आ ज॑भ्रुः के॒तुमा॒यवो॒ भृग॑वाणं वि॒शेवि॑शे ॥४

आ॒शुम् । दू॒तम् । वि॒वस्व॑तः । विश्वाः॑ । यः । च॒र्ष॒णीः । अ॒भि ।

आ । ज॒भ्रुः॒ । के॒तुम् । आ॒यवः॑ । भृग॑वाणम् । वि॒शेऽवि॑शे ॥ ४

आशुम् । दूतम् । विवस्वतः । विश्वाः । यः । चर्षणीः । अभि ।

आ । जभ्रुः । केतुम् । आयवः । भृगवाणम् । विशेऽविशे ॥४

“यः अग्निः “विश्वाः “चर्षणीः सर्वाः प्रजाः “अभि भवति “आयवः मनुष्याः । आयव इति मनुष्यनाम ‘आयवः ‘ यदवः ' ( नि. २. ३. १७ ) इति मनुष्यनामसु पाठात् । "आशुं क्षिप्रगामिनं “विवस्वतः मनुष्यस्य यजमानस्य “दूतम् । विवस्वन्त इति मनुष्यनाम । “केतुं प्रज्ञापकं “भृगवाणं भृगुवदाचरन्तम् । दीप्यमानमित्यर्थः ॥ ‘ सर्वप्रातिपदिकेभ्यः क्विब्वक्तव्यः' इति क्विप् । तदन्ताल्लटो व्यत्ययेन शानच् । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे प्राप्ते वृषादेराकृतिगणत्वात् आद्युदात्तत्वम् ॥ तमग्निं “विशेविशे सर्वस्यै प्रजायै "आ "जभ्रुः आजह्रुः॥ ‘हृग्रहोर्भः' इति भत्वम् ॥


तमीं॒ होता॑रमानु॒षक्चि॑कि॒त्वांसं॒ नि षे॑दिरे ।

र॒ण्वं पा॑व॒कशो॑चिषं॒ यजि॑ष्ठं स॒प्त धाम॑भिः ॥५

तम् । ई॒म् । होता॑रम् । आ॒नु॒षक् । चि॒कि॒त्वांस॑म् । नि । से॒दि॒रे॒ ।

र॒ण्वम् । पा॒व॒कऽशो॑चिषम् । यजि॑ष्ठम् । स॒प्त । धाम॑ऽभिः ॥५

तम् । ईम् । होतारम् । आनुषक् । चिकित्वांसम् । नि । सेदिरे ।

रण्वम् । पावकऽशोचिषम् । यजिष्ठम् । सप्त । धामऽभिः ॥५

ऋत्विगादयो मनुष्याः "आनुषक् अनुपूर्व्येण “होतारं देवानामाह्वातारं “चिकित्वांसं जानन्तम् ॥ ‘कित ज्ञाने '। लिटः क्वसुः । द्विर्भावहलादिशेषचुत्वदीर्घाः। प्रत्ययस्वरः ॥ “तमीं तमिममग्निं “नि “षेदिरे निषादयन्ति स्म । कीदृशम् । “रण्वं रमणीयं पावकशोचिषं शोधकदीप्तिं “यजिष्ठं यष्टृतमं “सप्त सप्तभिः “धामभिः तेजोभिर्युक्तम् ॥ ॥ ६ ॥


तं शश्व॑तीषु मा॒तृषु॒ वन॒ आ वी॒तमश्रि॑तम् ।

चि॒त्रं सन्तं॒ गुहा॑ हि॒तं सु॒वेदं॑ कूचिद॒र्थिन॑म् ॥६

तम् । शश्व॑तीषु । मा॒तृषु॑ । वने॑ । आ । वी॒तम् । अश्रि॑तम् ।

चि॒त्रम् । सन्त॑म् । गुहा॑ । हि॒तम् । सु॒ऽवेद॑म् । कू॒चि॒त्ऽअ॒र्थिन॑म् ॥६

तम् । शश्वतीषु । मातृषु । वने । आ । वीतम् । अश्रितम् ।

चित्रम् । सन्तम् । गुहा । हितम् । सुऽवेदम् । कूचित्ऽअर्थिनम् ॥६

“शश्वतीषु बह्वीषु “मातृषु अप्सु । ताः सस्यादिनिर्मातृकत्वात् मातर इत्युच्यन्ते । “वने “आ वृक्षसमूहे च । आकारश्चार्थे । “सन्तं विद्यमानं “वीतं कान्तम् “अश्रितं प्राणिभिर्दाहभयात् असेवितम् । दुरासदमित्यर्थः । “चित्रं चायनीयं “गुहा गुहायां “हितं निहितं “सुवेदं सुविज्ञानं सुधनं वा “कूचिदर्थिनं क्वापि हविष्यर्थिनं समिदाज्यपुरोडाशादि हविः स्वीकुर्वन्तम् ॥ क्व इत्यत्र वकारस्य छान्दसे संप्रसारणे परपूर्वत्वे च ' हलः' इति दीर्घत्वम् ॥ एवंभूतं "तम् अग्निं निषेदिरे इति पूर्वेण संबन्धः ॥


प्रातरनुवाकाश्विनशस्त्रयोस्त्रैष्टुभे छन्दसि ससस्य यद्वियुता ' इत्याद्याः पञ्चर्चः । सूत्रितं च -- ‘ ससस्य यद्वियुतेति पञ्च ' ( आश्व. श्रौ. ४. १३ ) इति ।।

स॒सस्य॒ यद्वियु॑ता॒ सस्मि॒न्नूध॑न्नृ॒तस्य॒ धाम॑न्र॒णय॑न्त दे॒वाः ।

म॒हाँ अ॒ग्निर्नम॑सा रा॒तह॑व्यो॒ वेर॑ध्व॒राय॒ सद॒मिदृ॒तावा॑ ॥७

स॒सस्य॑ । यत् । विऽयु॑ता । सस्मि॑न् । ऊध॑न् । ऋ॒तस्य॑ । धाम॑न् । र॒णय॑न्त । दे॒वाः ।

म॒हान् । अ॒ग्निः । नम॑सा । रा॒तऽह॑व्यः । वेः । अ॒ध्व॒राय॑ । सद॑म् । इत् । ऋ॒तऽवा॑ ॥७

ससस्य । यत् । विऽयुता । सस्मिन् । ऊधन् । ऋतस्य । धामन् । रणयन्त । देवाः ।

महान् । अग्निः । नमसा । रातऽहव्यः । वेः । अध्वराय । सदम् । इत् । ऋतऽवा ॥७

“यत् यमग्निं "देवाः स्तोतारः “ससस्य स्वप्नस्य "वियुता वियुते वियोगे । उषसीत्यर्थः । “ऋतस्य उदकस्य “धामन् धामनि स्थाने “सस्मिन् सर्वस्मिन् “ऊधन् ऊधनि यज्ञे “रणयन्त रमयन्ति । स्तोत्रैरिति शेषः । “महान् प्रभूतः “नमसा नमस्कारेण "रातहव्यः दत्तहविष्कः “ऋतावा सस्यवान् सः “अग्निः “सदमित् सदैव “अध्वराय अध्वरं यजमानैः कृतं यज्ञम् ॥ ‘ सुपा सुपो भवन्तीति वक्तव्यम् ' ( पा. म. ७. १. ३९ ) इति वचनादत्र द्वितीयार्थे चतुर्थी ॥ “वेः वेत्ति जानाति । यद्वा । देवा इन्द्रादयः ससस्य ऋत्विग्भिः सेव्यस्य यद्यस्याग्नेर्वियुता विशिष्टे सस्मिन् भजनीये ऋतस्य सत्यस्य धामन् धामनि योनौ ऊधन्नूधनि यज्ञे रणयन्त रमयन्ते । महान् प्रभूतो नमसा हविषा रातहव्यो दत्तहविष्क ऋतावा सत्यवान् सोऽग्निरध्वराय यज्ञार्थं सदमित् सदैव वेः गन्ता भवति । अध्वराय यज्ञ वेः कामयते वा ॥


वेर॑ध्व॒रस्य॑ दू॒त्या॑नि वि॒द्वानु॒भे अ॒न्ता रोद॑सी संचिकि॒त्वान् ।

दू॒त ई॑यसे प्र॒दिव॑ उरा॒णो वि॒दुष्ट॑रो दि॒व आ॒रोध॑नानि ॥८

वेः । अ॒ध्व॒रस्य॑ । दू॒त्या॑नि । वि॒द्वान् । उ॒भे इति॑ । अ॒न्तरिति॑ । रोद॑सी॒ इति॑ । स॒म्ऽचि॒कि॒त्वान् ।

दू॒तः । ई॒य॒से॒ । प्र॒ऽदिवः॑ । उ॒रा॒णः । वि॒दुःऽत॑रः । दि॒वः । आ॒ऽरोध॑नानि ॥८

वेः । अध्वरस्य । दूत्यानि । विद्वान् । उभे इति । अन्तरिति । रोदसी इति । सम्ऽचिकित्वान् ।

दूतः । ईयसे । प्रऽदिवः । उराणः । विदुःऽतरः । दिवः । आऽरोधनानि ॥८

हे अग्ने “विद्वान् सर्वं जानानस्त्वम् “अध्वरस्य यज्ञस्य संबन्धीनि “दूत्यानि दूतकर्माणि “वेः वेत्सि कामयसे' वा । यद्वा वेरिति यज्ञविशेषणम् । वेर्यजमानस्याभीष्टफलजनकस्याध्वरस्य यागस्य संबन्धीनि दूत्यानि दूतकर्माणि विद्वान् जानन्। “उभे “रोदसी उभयो रोदस्योर्द्यवापृथिव्योः “अन्तः मध्ये स्थितमन्तरिक्षं “संचिकित्वान् सम्यक् जानन् “प्रदिवः पुराणः । पुराणनामेदं ‘ प्रत्नं प्रदिवः ' ( नि. ३. २७. २ ) इति पुराणनामसु पाठात् । “उराणः अल्पमपि हविः उरु बहु कुर्वाणः । ‘ उराण उरु कुर्वाणः' इति यास्केनोक्तत्वात् । विदुष्टरः विद्वत्तरो देवानां “दूतः त्वं “दिवः स्वर्गस्य “आरोधनानि आरोहणानि । आरोहणार्हाणि स्थानानीत्यर्थः । देवानां हवींष्यर्पयितुम् “ईयसे गच्छसि ।।


कृ॒ष्णं त॒ एम॒ रुश॑तः पु॒रो भाश्च॑रि॒ष्ण्व१॒॑र्चिर्वपु॑षा॒मिदेक॑म् ।

यदप्र॑वीता॒ दध॑ते ह॒ गर्भं॑ स॒द्यश्चि॑ज्जा॒तो भव॒सीदु॑ दू॒तः ॥९

कृ॒ष्णम् । ते॒ । एम॑ । रुश॑तः । पु॒रः । भाः । च॒रि॒ष्णु । अ॒र्चिः । वपु॑षाम् । इत् । एक॑म् ।

यत् । अप्र॑ऽवीता । दध॑ते । ह॒ । गर्भ॑म् । स॒द्यः । चि॒त् । जा॒तः । भव॑सि । इत् । ऊं॒ इति॑ । दू॒तः ॥९

कृष्णम् । ते । एम । रुशतः । पुरः । भाः । चरिष्णु । अर्चिः । वपुषाम् । इत् । एकम् ।

यत् । अप्रऽवीता । दधते । ह । गर्भम् । सद्यः । चित् । जातः । भवसि । इत् । ऊं इति । दूतः ॥९

हे अग्ने “रुशतः रोचमानस्य “ते तव संबन्धि । अत्र एमञ्शब्देन गमनमार्ग उच्यते । “एम वर्त्म "कृष्णं कृष्णवर्णं भवति । “भाः तव संबन्धिनी दीप्तिः “पुरः पुरस्ताद्भवति । “चरिष्णु संचरणशीलम् "अर्चिः त्वदीयं तेजः “वपुषां वपुष्मतां रूपवताम् । तेजस्विनामित्यर्थः । “एकम् “इत् मुख्यमेव भवति । “यत् यं त्वाम् “अप्रवीता अनुपगता यजमानाः “गर्भं त्वज्जननहेतुमरणिं “दधते "ह धारयन्ति खलु । स त्वं “सद्यश्चित् सद्य एव “जातः उत्पन्नः सन् "दूतः “भवसीदु यजमानस्य दूतो भवस्येव ॥


स॒द्यो जा॒तस्य॒ ददृ॑शान॒मोजो॒ यद॑स्य॒ वातो॑ अनु॒वाति॑ शो॒चिः ।

वृ॒णक्ति॑ ति॒ग्माम॑त॒सेषु॑ जि॒ह्वां स्थि॒रा चि॒दन्ना॑ दयते॒ वि जम्भै॑ः ॥१०

स॒द्यः । जा॒तस्य॑ । ददृ॑शानम् । ओजः॑ । यत् । अ॒स्य॒ । वातः॑ । अ॒नु॒ऽवाति॑ । शो॒चिः ।

वृ॒णक्ति॑ । ति॒ग्माम् । अ॒त॒सेषु॑ । जि॒ह्वाम् । स्थि॒रा । चि॒त् । अन्ना॑ । द॒य॒ते॒ । वि । जम्भैः॑ ॥१०

सद्यः । जातस्य । ददृशानम् । ओजः । यत् । अस्य । वातः । अनुऽवाति । शोचिः ।

वृणक्ति । तिग्माम् । अतसेषु । जिह्वाम् । स्थिरा । चित् । अन्ना । दयते । वि । जम्भैः ॥१०

“सद्यो “जातस्य अरणिनिर्मथनादनन्तरमेवोत्पन्नस्याग्नेः “ओजः तेजः “ददृशानम् । ऋत्विगादिभिर्दृश्यमानं भवतीति शेषः । “वातः वायुः “यत् यदा “अस्य अग्नेः “शोचिः दीप्तिम् “अनु लक्षीकृत्य “वाति गच्छति तदा सोऽयमग्निः “अतसेषु वृक्षसंघेषु “तिग्मां तीक्ष्णां “जिह्वां ज्वालां “वृणक्ति संयोजयति । “स्थिरा “चित् स्थिराण्यपि “अन्ना अन्नरूपाणि काष्ठादीनि “जम्भैः तेजोभिः “वि “दयते विखण्डयति। भक्षयतीत्यर्थः ॥


तृ॒षु यदन्ना॑ तृ॒षुणा॑ व॒वक्ष॑ तृ॒षुं दू॒तं कृ॑णुते य॒ह्वो अ॒ग्निः ।

वात॑स्य मे॒ळिं स॑चते नि॒जूर्व॑न्ना॒शुं न वा॑जयते हि॒न्वे अर्वा॑ ॥११

तृ॒षु । यत् । अन्ना॑ । तृ॒षुणा॑ । व॒वक्ष॑ । तृ॒षुम् । दू॒तम् । कृ॒णु॒ते॒ । य॒ह्वः । अ॒ग्निः ।

वात॑स्य । मे॒ळिम् । स॒च॒ते॒ । नि॒ऽजूर्व॑न् । आ॒शुम् । न । वा॒ज॒य॒ते॒ । हि॒न्वे । अर्वा॑ ॥११

तृषु । यत् । अन्ना । तृषुणा । ववक्ष । तृषुम् । दूतम् । कृणुते । यह्वः । अग्निः ।

वातस्य । मेळिम् । सचते । निऽजूर्वन् । आशुम् । न । वाजयते । हिन्वे । अर्वा ॥११

“यत् यः अग्निः “तृषु क्षिप्रमेव "अन्ना अन्नानि काष्ठादीनि “तृषुणा क्षिप्रेण रश्मिसमूहेन “ववक्ष वहति । दहतीत्यर्थः । “यह्वः महान् सः “अग्निः “तृषुम् आत्मानं “दूतं “कृणुते यजमानदूतं करोति । “निजूर्वन् काष्ठानि निःशेषेण दहन्नग्निः “वातस्य वायोः “मेळिं बलं “सचते सेवते । “आशुं “न । अश्वसादी यथाश्वं तथा “अर्वा गमनशीलोऽग्निः स्वरश्मिं “वाजयते वाजिनं बलवन्तं करोति । “हिन्वे प्रेरयति च ॥ ॥ ७ ॥

मण्डल ४

सूक्तं ४.१

सूक्तं ४.२

सूक्तं ४.३

सूक्तं ४.४

सूक्तं ४.५

सूक्तं ४.६

सूक्तं ४.७

सूक्तं ४.८

सूक्तं ४.९

सूक्तं ४.१०

सूक्तं ४.११

सूक्तं ४.१२

सूक्तं ४.१३

सूक्तं ४.१४

सूक्तं ४.१५

सूक्तं ४.१६

सूक्तं ४.१७

सूक्तं ४.१८

सूक्तं ४.१९

सूक्तं ४.२०

सूक्तं ४.२१

सूक्तं ४.२२

सूक्तं ४.२३

सूक्तं ४.२४

सूक्तं ४.२५

सूक्तं ४.२६

सूक्तं ४.२७

सूक्तं ४.२८

सूक्तं ४.२९

सूक्तं ४.३०

सूक्तं ४.३१

सूक्तं ४.३२

सूक्तं ४.३३

सूक्तं ४.३४

सूक्तं ४.३५

सूक्तं ४.३६

सूक्तं ४.३७

सूक्तं ४.३८

सूक्तं ४.३९

सूक्तं ४.४०

सूक्तं ४.४१

सूक्तं ४.४२

सूक्तं ४.४३

सूक्तं ४.४४

सूक्तं ४.४५

सूक्तं ४.४६

सूक्तं ४.४७

सूक्तं ४.४८

सूक्तं ४.४९

सूक्तं ४.५०

सूक्तं ४.५१

सूक्तं ४.५२

सूक्तं ४.५३

सूक्तं ४.५४

सूक्तं ४.५५

सूक्तं ४.५६

सूक्तं ४.५७

सूक्तं ४.५८



"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.७&oldid=198351" इत्यस्माद् प्रतिप्राप्तम्