ऋग्वेदः सूक्तं ७.४७

(ऋग्वेद: सूक्तं ७.४७ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ७.४६ ऋग्वेदः - मण्डल ७
सूक्तं ७.४७
मैत्रावरुणिर्वसिष्ठः।
सूक्तं ७.४८ →
दे. आपः। त्रिष्टुप्।


आपो यं वः प्रथमं देवयन्त इन्द्रपानमूर्मिमकृण्वतेळः ।
तं वो वयं शुचिमरिप्रमद्य घृतप्रुषं मधुमन्तं वनेम ॥१॥
तमूर्मिमापो मधुमत्तमं वोऽपां नपादवत्वाशुहेमा ।
यस्मिन्निन्द्रो वसुभिर्मादयाते तमश्याम देवयन्तो वो अद्य ॥२॥
शतपवित्राः स्वधया मदन्तीर्देवीर्देवानामपि यन्ति पाथः ।
ता इन्द्रस्य न मिनन्ति व्रतानि सिन्धुभ्यो हव्यं घृतवज्जुहोत ॥३॥
याः सूर्यो रश्मिभिराततान याभ्य इन्द्रो अरदद्गातुमूर्मिम् ।
ते सिन्धवो वरिवो धातना नो यूयं पात स्वस्तिभिः सदा नः ॥४॥


सायणभाष्यम्

‘आपो यं वः' इति चतुर्ऋचं चतुर्दशं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमब्देवताकम् । 'आपो यमापम् ' इत्यनुक्रान्तं च । गतो विनियोगः ॥


आपो॒ यं व॑ः प्रथ॒मं दे॑व॒यन्त॑ इन्द्र॒पान॑मू॒र्मिमकृ॑ण्वते॒ळः ।

तं वो॑ व॒यं शुचि॑मरि॒प्रम॒द्य घृ॑त॒प्रुषं॒ मधु॑मन्तं वनेम ॥१

आपः॑ । यम् । वः॒ । प्र॒थ॒मम् । दे॒व॒ऽयन्तः॑ । इ॒न्द्र॒ऽपान॑म् । ऊ॒र्मिम् । अकृ॑ण्वत । इ॒ळः ।

तम् । वः॒ । व॒यम् । शुचि॑म् । अ॒रि॒प्रम् । अ॒द्य । घृ॒त॒ऽप्रुष॑म् । मधु॑ऽमन्तम् । व॒ने॒म॒ ॥१

आपः । यम् । वः । प्रथमम् । देवऽयन्तः । इन्द्रऽपानम् । ऊर्मिम् । अकृण्वत । इळः ।

तम् । वः । वयम् । शुचिम् । अरिप्रम् । अद्य । घृतऽप्रुषम् । मधुऽमन्तम् । वनेम ॥१

“देवयन्तः देवानिच्छन्तोऽध्वर्यवः हे "आपः हे अब्देवताः "वः युष्माकं कार्यभूतम् "इन्द्रपानम् इन्द्रेण पातव्यम् “इळः इळायाः भूम्याः संभूतं "यम् “ऊर्मिं सोमाख्यं यं रसं "प्रथम पुरा “अकृण्वत अभिषवणपवनादिभिः समस्कुर्वत “अद्य इदानीं “वयम् अपि “वः युष्मदीयं "तम् ऊर्मिं “वनेम संभजेमहि । कीदृशम् । "शुचिं शुद्धम् "अरिप्रं पापरहितं “घृतप्रुषं वृष्टिलक्षणमुदकं सिञ्चन्तं "मधुमन्तं मधुररसोपेतम् । एवंभूतं तं वनेमेति संबन्धः ॥


तमू॒र्मिमा॑पो॒ मधु॑मत्तमं वो॒ऽपां नपा॑दवत्वाशु॒हेमा॑ ।

यस्मि॒न्निन्द्रो॒ वसु॑भिर्मा॒दया॑ते॒ तम॑श्याम देव॒यन्तो॑ वो अ॒द्य ॥२

तम् । ऊ॒र्मिम् । आ॒पः॒ । मधु॑मत्ऽतमम् । वः॒ । अ॒पाम् । नपा॑त् । अ॒व॒तु॒ । आ॒शु॒ऽहेमा॑ ।

यस्मि॑न् । इन्द्रः॑ । वसु॑ऽभिः । मा॒दया॑ते । तम् । अ॒श्या॒म॒ । दे॒व॒ऽयन्तः॑ । वः॒ । अ॒द्य ॥२

तम् । ऊर्मिम् । आपः । मधुमत्ऽतमम् । वः । अपाम् । नपात् । अवतु । आशुऽहेमा ।

यस्मिन् । इन्द्रः । वसुऽभिः । मादयाते । तम् । अश्याम । देवऽयन्तः । वः । अद्य ॥२

हे आपः एतत्संज्ञका देवाः वः युष्मदीयं "मधुमत्तमं रसवत्तमं "तमूर्मिं प्रसिद्धं सोमाख्यं रसम् "आशुहेमा शीघ्रगतिः "अपां "नपात् एतदाख्यो देवः “अवतु पालयतु । “इन्द्रः "यस्मिन् ऊर्मौ "वसुभिः वासकैर्देवैः सह "मादयाते माद्येत् "अद्य अस्मिन् दिने "देवयन्तः देवकामा वयं “वः युष्मदीयं "तम् ऊर्मिम् "अश्याम प्राप्नुयाम ॥


श॒तप॑वित्राः स्व॒धया॒ मद॑न्तीर्दे॒वीर्दे॒वाना॒मपि॑ यन्ति॒ पाथ॑ः ।

ता इन्द्र॑स्य॒ न मि॑नन्ति व्र॒तानि॒ सिन्धु॑भ्यो ह॒व्यं घृ॒तव॑ज्जुहोत ॥३

श॒तऽप॑वित्राः । स्व॒धया॑ । मद॑न्तीः । दे॒वीः । दे॒वाना॑म् । अपि॑ । य॒न्ति॒ । पाथः॑ ।

ताः । इन्द्र॑स्य । न । मि॒न॒न्ति॒ । व्र॒तानि॑ । सिन्धु॑ऽभ्यः । ह॒व्यम् । घृ॒तऽव॑त् । जु॒हो॒त॒ ॥३

शतऽपवित्राः । स्वधया । मदन्तीः । देवीः । देवानाम् । अपि । यन्ति । पाथः ।

ताः । इन्द्रस्य । न । मिनन्ति । व्रतानि । सिन्धुऽभ्यः । हव्यम् । घृतऽवत् । जुहोत ॥३

“शतपवित्राः शतं बडूनि पवित्राणि पावनानि रूपाणि यासां ताः "स्वधया स्वकार्यभूतेनान्नेन “मदन्तीः जनान् मादयन्त्यः “देवीः देव्यो द्योतमाना आपः "देवानाम् इन्द्रादीनां "पाथः स्थानम् “अपि “यन्ति प्रविशन्ति । “ताः तादृश्य आपः “इन्द्रस्य प्रीणनानि “व्रतानि यज्ञादीनि कर्माणि "न “मिनन्ति न हिंसन्ति । उत्पादयन्तीत्यर्थः । हे अध्वर्यवः यूयं “सिन्धुभ्यः ताभ्योऽद्भ्यः “घृतवत् उपस्तरणाभिघारणलक्षणाज्ययुक्तं "हव्यं पुरोडाशादिकं हविः "जुहोत जुहुत ॥


याः सूर्यो॑ र॒श्मिभि॑रात॒तान॒ याभ्य॒ इन्द्रो॒ अर॑दद्गा॒तुमू॒र्मिम् ।

ते सि॑न्धवो॒ वरि॑वो धातना नो यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥४

याः । सूर्यः॑ । र॒श्मिऽभिः॑ । आ॒ऽत॒तान॑ । याभ्यः॑ । इन्द्रः॑ । अर॑दत् । गा॒तुम् । ऊ॒र्मिम् ।

ते । सि॒न्ध॒वः॒ । वरि॑वः । धा॒त॒न॒ । नः॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥४

याः । सूर्यः । रश्मिऽभिः । आऽततान । याभ्यः । इन्द्रः । अरदत् । गातुम् । ऊर्मिम् ।

ते । सिन्धवः । वरिवः । धातन । नः । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥४

"सूर्यः देवः "याः अपः "रश्मिभिः स्वकीयैः किरणैः "आततान विस्तारयति । सूर्यो हि रश्मिभिरुदकसारमादाय वर्षतीत्यर्थः । “याभ्यः अद्भ्यश्च “ऊर्मिम् । अर्तेरिदं रूपम् गमनयोग्यं “गातुं मेघेभ्यो निर्गमनसाधनं मार्गम् "इन्द्रः अपि “अरदत् वज्रेण मेघांस्ताडयन् प्रयच्छति हे “सिन्धवः आपः “ते यूयं "नः अस्मभ्यं "वरिवः धनं “धातन धत्त प्रयच्छत । ते इति सिन्धुशब्देन समानाधिकरणत्वात् पुंलिङ्गत्वम् । हे अब्देवताः "यूयं सर्वदा "नः अस्मान् कल्याणैः पालयत ॥१४॥


मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.४७&oldid=200966" इत्यस्माद् प्रतिप्राप्तम्