ऋग्वेदः सूक्तं ८.७२

(ऋग्वेद: सूक्तं ८.७२ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ८.७१ ऋग्वेदः - मण्डल ८
सूक्तं ८.७२
हर्यतः प्रागाथः
सूक्तं ८.७३ →
दे. अग्निः, हवींषि वा। गायत्री।


हविष्कृणुध्वमा गमदध्वर्युर्वनते पुनः ।
विद्वाँ अस्य प्रशासनम् ॥१॥
नि तिग्ममभ्यंशुं सीदद्धोता मनावधि ।
जुषाणो अस्य सख्यम् ॥२॥
अन्तरिच्छन्ति तं जने रुद्रं परो मनीषया ।
गृभ्णन्ति जिह्वया ससम् ॥३॥
जाम्यतीतपे धनुर्वयोधा अरुहद्वनम् ।
दृषदं जिह्वयावधीत् ॥४॥
चरन्वत्सो रुशन्निह निदातारं न विन्दते ।
वेति स्तोतव अम्ब्यम् ॥५॥
उतो न्वस्य यन्महदश्वावद्योजनं बृहद् ।
दामा रथस्य ददृशे ॥६॥
दुहन्ति सप्तैकामुप द्वा पञ्च सृजतः ।
तीर्थे सिन्धोरधि स्वरे ॥७॥
आ दशभिर्विवस्वत इन्द्रः कोशमचुच्यवीत् ।
खेदया त्रिवृता दिवः ॥८॥
परि त्रिधातुरध्वरं जूर्णिरेति नवीयसी ।
मध्वा होतारो अञ्जते ॥९॥
सिञ्चन्ति नमसावतमुच्चाचक्रं परिज्मानम् ।
नीचीनबारमक्षितम् ॥१०॥
अभ्यारमिदद्रयो निषिक्तं पुष्करे मधु ।
अवतस्य विसर्जने ॥११॥
गाव उपावतावतं मही यज्ञस्य रप्सुदा ।
उभा कर्णा हिरण्यया ॥१२॥
आ सुते सिञ्चत श्रियं रोदस्योरभिश्रियम् ।
रसा दधीत वृषभम् ॥१३॥
ते जानत स्वमोक्यं सं वत्सासो न मातृभिः ।
मिथो नसन्त जामिभिः ॥१४॥
उप स्रक्वेषु बप्सतः कृण्वते धरुणं दिवि ।
इन्द्रे अग्ना नमः स्वः ॥१५॥
अधुक्षत्पिप्युषीमिषमूर्जं सप्तपदीमरिः ।
सूर्यस्य सप्त रश्मिभिः ॥१६॥
सोमस्य मित्रावरुणोदिता सूर आ ददे ।
तदातुरस्य भेषजम् ॥१७॥
उतो न्वस्य यत्पदं हर्यतस्य निधान्यम् ।
परि द्यां जिह्वयातनत् ॥१८॥


सायणभाष्यम्

‘ हविष्कृणुध्वम् ' इत्यष्टादशर्चं तृतीयं सूक्तम् । अत्रानुक्रमणिका – हविर्द्व्यूना हर्यतः प्रागाथो हविषां स्तुतिर्वा ' इति । प्रगाथपुत्रो हर्यत ऋषिः । परं गायत्रं प्राग्वत्सप्रेः ' इति परिभाषया गायत्री छन्दः । ‘ आग्नेयं तु ' इत्युक्तत्वादग्निर्देवता यद्वा हविषां स्तूयमानत्वात्तद्देवताकं वा । सूक्तविनियोगो लैङ्गिकः ॥


ह॒विष्कृ॑णुध्व॒मा ग॑मदध्व॒र्युर्व॑नते॒ पुन॑ः ।

वि॒द्वाँ अ॑स्य प्र॒शास॑नम् ॥१

ह॒विः । कृ॒णु॒ध्व॒म् । आ । ग॒म॒त् । अ॒ध्व॒र्युः । व॒न॒ते॒ । पुन॒रिति॑ ।

वि॒द्वान् । अ॒स्य॒ । प्र॒ऽशास॑नम् ॥१

हविः । कृणुध्वम् । आ । गमत् । अध्वर्युः । वनते । पुनरिति ।

विद्वान् । अस्य । प्रऽशासनम् ॥१

हे अध्वर्युसंबन्धिनो हविष्कर्तारः यूयं “हविः “कृणुध्वं कुरुध्वं शीघ्रम् । यतः “आ “गमत् आजगामायमग्निः अतः कृणुध्वम् । “अध्वर्युः “पुनः “वनते संभजते । किम् । सामर्थ्यादध्वरमिति गम्यते । कीदृशोऽध्वर्युः । “अस्य हविषः “प्रशासनं प्रदानं “विद्वान् ॥


नि ति॒ग्मम॒भ्यं१॒॑शुं सीद॒द्धोता॑ म॒नावधि॑ ।

जु॒षा॒णो अ॑स्य स॒ख्यम् ॥२

नि । ति॒ग्मम् । अ॒भि । अं॒शुम् । सीद॑त् । होता॑ । म॒नौ । अधि॑ ।

जु॒षा॒णः । अ॒स्य॒ । स॒ख्यम् ॥२

नि । तिग्मम् । अभि । अंशुम् । सीदत् । होता । मनौ । अधि ।

जुषाणः । अस्य । सख्यम् ॥२

“होता ऋत्विक् “तिग्मं तीक्ष्णम् “अंशुं तमग्निं “नि “षीदत् निषीदति । कीदृशो होता । “अस्य अग्नेः “सख्यं “मनावधि यजमाने "जुषाणः । अधीति सप्तम्यर्थानुवादी ॥


अ॒न्तरि॑च्छन्ति॒ तं जने॑ रु॒द्रं प॒रो म॑नी॒षया॑ ।

गृ॒भ्णन्ति॑ जि॒ह्वया॑ स॒सम् ॥३

अ॒न्तः । इ॒च्छ॒न्ति॒ । तम् । जने॑ । रु॒द्रम् । प॒रः । म॒नी॒षया॑ ।

गृ॒भ्णन्ति॑ । जि॒ह्वया॑ । स॒सम् ॥३

अन्तः । इच्छन्ति । तम् । जने । रुद्रम् । परः । मनीषया ।

गृभ्णन्ति । जिह्वया । ससम् ॥३

“तं "रुद्रम् । रुत् दुःखम् । तस्य द्रावयितारम् । अथवा रुत् स्तुतिः । तया गन्तव्यम् । स्तुत्यमित्यर्थः । तादृशमग्निं “जने यजमानार्थं “मनीषया स्वप्रज्ञानेन “परः परस्तात् पुरोदेशे “इच्छन्ति स्थापयितुम् । त एव पश्चात् “ससं स्वपन्तमग्निं "जिह्वया । जन्ये जनकशब्दः । जिह्वाप्रभवया स्तुत्या “गृभ्णन्ति गृह्णन्त्यङ्गुलिभिः । अत्र यास्कः - स्वप्नमेतन्मध्यमं ज्योतिरनित्यदर्शनम्।....द्वैधं सत्ता मध्यमे च स्थाने उत्तमे च । ' ( निरु. ५. ३) इति ॥


जा॒म्य॑तीतपे॒ धनु॑र्वयो॒धा अ॑रुह॒द्वन॑म् ।

दृ॒षदं॑ जि॒ह्वयाव॑धीत् ॥४

जा॒मि । अ॒ती॒त॒पे॒ । धनुः॑ । व॒यः॒ऽधाः । अ॒रु॒ह॒त् । वन॑म् ।

दृ॒षद॑म् । जि॒ह्वया॑ । आ । अ॒व॒धी॒त् ॥४

जामि । अतीतपे । धनुः । वयःऽधाः । अरुहत् । वनम् ।

दृषदम् । जिह्वया । आ । अवधीत् ॥४

“वयोधाः अन्नस्य दाताग्निर्मध्यमस्थानः "जामि प्रवृद्धं सर्वमतिरिच्य वर्तमानम् । ‘ जाम्यतिरेकनाम ' (निरु. ४. २०) इति यास्कः । “धनुः धन्वान्तरिक्षम् “अतीतपे अतितपति । अथवाग्नेर्जामि गमनशीलं धनुरतितपते स्वविरोधिनम् । स च वयोधा अन्नस्य दाताग्निः “वनम् उदकम् “अरुहत् आरोहति विमोकाय । तदर्थं “जिह्वया ज्वालया “दृषदं मेघम् “अवधीत् हन्ति । दावाग्निपक्षे वनं तरुसमूहं हन्ति । जिह्वया दृषदं कठिनमपि पाषाणं भिनत्तीति ॥


चर॑न्व॒त्सो रुश॑न्नि॒ह नि॑दा॒तारं॒ न वि॑न्दते ।

वेति॒ स्तोत॑व अ॒म्ब्य॑म् ॥५

चर॑न् । व॒त्सः । रुश॑न् । इ॒ह । नि॒ऽदा॒तार॑म् । न । वि॒न्द॒ते॒ ।

वेति॑ । स्तोत॑वे । अ॒म्ब्य॑म् ॥५

चरन् । वत्सः । रुशन् । इह । निऽदातारम् । न । विन्दते ।

वेति । स्तोतवे । अम्ब्यम् ॥५

“वत्सः । वत्सवच्चापलेन धावनाद्वत्स इत्युपचर्यते । अथवा वत्स इव संचरन् । इवशब्दो लुप्यते । “रुशन श्वेतो भवन् “इह अस्मिँल्लोके “निदातारं निरोधकं “न “विन्दते न लभते । किंतु “स्तोतवे स्तोतुम् “अम्ब्यं स्तोतारं स्वयं “वेति कामयते । अथवात्र वैद्युतोऽग्निरुच्यते । वैद्युतोऽयं रुशंश्चरंश्चेहान्तरिक्षे वत्सः सर्वदा वसन् वत्सस्थानीयो वा सन्निदातारं निरोधकं न विन्दते । किंतु स्तोतुमम्ब्यं माध्यमिकां वाचं वेति ॥ ॥ १४ ॥


उ॒तो न्व॑स्य॒ यन्म॒हदश्वा॑व॒द्योज॑नं बृ॒हद् ।

दा॒मा रथ॑स्य॒ ददृ॑शे ॥६

उ॒तो इति॑ । नु । अ॒स्य॒ । यत् । म॒हत् । अश्व॑ऽवत् । योज॑नम् । बृ॒हत् ।

दा॒मा । रथ॑स्य । ददृ॑शे ॥६

उतो इति । नु । अस्य । यत् । महत् । अश्वऽवत् । योजनम् । बृहत् ।

दामा । रथस्य । ददृशे ॥६

“उतो अपि च "नु क्षिप्रमद्य “अस्य आदित्यस्य “यन्महत् माहात्म्ययुक्तम् “अश्वावत् संवृद्धाश्ववत् “बृहत् महत् स्थूलं “योजनं दृश्यते । तदेवाह। “रथस्य “दामा ददृशे दृश्यते। अन्तरिक्षे रथेऽश्वान्नियोजयतीत्यर्थः। तदा दुहन्तीत्युत्तरत्र संबन्धः ॥


"अभिष्टवे घर्मदाहे ‘ दुहन्ति सप्त ' इत्येषा । सूत्रितं च -- दुहन्ति सप्तैकां समिद्धो अग्निरश्विना' (आश्व. श्रौ. ४. ७) इति । ग्रावस्तोत्रेऽप्येषा । सूत्रितं च - ‘ दुहन्ति सप्तैकामधुक्षत्पिप्युषीमिषम् ' (आश्व. श्रौ. ५. १२) इति ॥

दु॒हन्ति॑ स॒प्तैका॒मुप॒ द्वा पञ्च॑ सृजतः ।

ती॒र्थे सिन्धो॒रधि॑ स्व॒रे ॥७

दु॒हन्ति॑ । स॒प्त । एका॑म् । उप॑ । द्वा । पञ्च॑ । सृ॒ज॒तः॒ ।

ती॒र्थे । सिन्धोः॑ । अधि॑ । स्व॒रे ॥७

दुहन्ति । सप्त । एकाम् । उप । द्वा । पञ्च । सृजतः ।

तीर्थे । सिन्धोः । अधि । स्वरे ॥७

“सप्त ऋत्विजः “एकां घर्मं “दुहन्ति । तेषां मध्ये "द्वा द्वौ प्रतिप्रस्थातारावध्वर्यू “पञ्च अन्यान् “उप "सृजतः प्रयोजयतः । के ते पञ्च त उच्यन्ते । यजमानं ब्रह्माणं होतारमाग्नीध्रं प्रस्तोतारमिति । कुत्रेति उच्यते। “सिन्धोः कस्याश्चित् सरस्वत्यादिप्रख्याताया नद्याः “तीर्थे । यत्रायमृषिर्यजति तत्र । “स्वरे “अधि। स्वरतिः शब्दकर्मा । अधीति सप्तम्यर्थानुवादी । स्वरोपेते शब्दवति । यत्तीर्थमृत्विजाम् ओ श्रावय इत्यादिशब्दैः शब्दवद्भवति तस्मिन्नित्यर्थः ॥


प्रवर्ग्येऽभिष्टवे ग्राव्णोऽभिष्टवे च “ आ दशभिः' इत्येषा । सूत्रितं च - ‘ आ दशभिर्विवस्वतो दुहन्ति सप्तैकाम्' (आश्व. श्रौ. ४. ७ ; ५. १२) इति ॥

आ द॒शभि॑र्वि॒वस्व॑त॒ इन्द्र॒ः कोश॑मचुच्यवीत् ।

खेद॑या त्रि॒वृता॑ दि॒वः ॥८

आ । द॒शऽभिः॑ । वि॒वस्व॑तः । इन्द्रः॑ । कोश॑म् । अ॒चु॒च्य॒वी॒त् ।

खेद॑या । त्रि॒ऽवृता॑ । दि॒वः ॥८

आ । दशऽभिः । विवस्वतः । इन्द्रः । कोशम् । अचुच्यवीत् ।

खेदया । त्रिऽवृता । दिवः ॥८

“विवस्वतः परिचरतो यजमानस्य “दशभिः अङ्गुलीभिर्याचितः सन् “इन्द्रः “कोशम् । मेघनामैतत् । उदकसेचकं मेघं “दिवः अन्तरिक्षसंबन्धिनं तत्सकाशाद्वा “आ “अचुच्यवीत् । व्यदारयदित्यर्थः। केन साधनेनेति तदुच्यते । “त्रिवृता त्रिप्रकारवर्तनवता “खेदया रश्मिना । यद्वा । अत्रेन्द्रशब्देनाग्निरादित्यो वा गृह्यते । खेदया त्रिवृतेति लिङ्गात् ।।


परि॑ त्रि॒धातु॑रध्व॒रं जू॒र्णिरे॑ति॒ नवी॑यसी ।

मध्वा॒ होता॑रो अञ्जते ॥९

परि॑ । त्रि॒ऽधातुः॑ । अ॒ध्व॒रम् । जू॒र्णिः । ए॒ति॒ । नवी॑यसी ।

मध्वा॑ । होता॑रः । अ॒ञ्ज॒ते॒ ॥९

परि । त्रिऽधातुः । अध्वरम् । जूर्णिः । एति । नवीयसी ।

मध्वा । होतारः । अञ्जते ॥९

अयमग्निः “त्रिधातुः लोहितशुक्लकृष्णभेदेन त्रिवर्णः "जूर्णिः जवो वेगवान् "नवीयसी नवीयस्या ज्वालया “अध्वरं प्रवर्ग्यम् “एति गच्छति । “होतारः होमनिष्पादका अध्वर्य्वादयः “मध्वा आज्यादिना “परि “अञ्जते । अथवाग्नेस्त्रिस्त्रिप्रकारा क्षिप्रा जवतरा ज्वाला पर्येति महावीरम् । तं मध्वाञ्जत इति ॥


सि॒ञ्चन्ति॒ नम॑साव॒तमु॒च्चाच॑क्रं॒ परि॑ज्मानम् ।

नी॒चीन॑बार॒मक्षि॑तम् ॥१०

सि॒ञ्चन्ति॑ । नम॑सा । अ॒व॒तम् । उ॒च्चाऽच॑क्रम् । परि॑ऽज्मानम् ।

नी॒चीन॑ऽबारम् । अक्षि॑तम् ॥१०

सिञ्चन्ति । नमसा । अवतम् । उच्चाऽचक्रम् । परिऽज्मानम् ।

नीचीनऽबारम् । अक्षितम् ॥१०

"नमसा नमनेन “अवतं महावीरम् “उच्चाचक्रम् उपरिस्थितचक्रं “परिज्मानं परितो व्याप्तं “नीचीनबारं नीचीनद्वारम् “अक्षितम् अक्षीणमीदृशं क्षीराद्यवशेषयुक्तमाहवनीयस्योपरि नमनेन "सिञ्चन्ति जुह्वति । महावीरेण ह्याहवनीये हूयते ॥ ॥ १५ ॥


अ॒भ्यार॒मिदद्र॑यो॒ निषि॑क्तं॒ पुष्क॑रे॒ मधु॑ ।

अ॒व॒तस्य॑ वि॒सर्ज॑ने ॥११

अ॒भि॒ऽआर॑म् । इत् । अद्र॑यः । निऽसि॑क्तम् । पुष्क॑रे । मधु॑ ।

अ॒व॒तस्य॑ । वि॒ऽसर्ज॑ने ॥११

अभिऽआरम् । इत् । अद्रयः । निऽसिक्तम् । पुष्करे । मधु ।

अवतस्य । विऽसर्जने ॥११

“अद्रयः आद्रियमाणा अध्वर्य्वादयः “अभ्यारमित् अभिगम्यैव “निषिक्तम् अतिरिक्तं “मधु “पुष्करे वपुष्करे प्रवृद्ध उपयमनीपात्रे सिञ्चन्ति अग्निहोत्रार्थम् “अवतस्य महावीरस्य “विसर्जने विसर्जनसमये । होमानन्तरं खलु महावीरमासन्द्यामासादयन्ति ।।


गाव॒ उपा॑वताव॒तं म॒ही य॒ज्ञस्य॑ र॒प्सुदा॑ ।

उ॒भा कर्णा॑ हिर॒ण्यया॑ ॥१२

गावः॑ । उप॑ । अ॒व॒त॒ । अ॒व॒तम् । म॒ही इति॑ । य॒ज्ञस्य॑ । र॒प्सुदा॑ ।

उ॒भा । कर्णा॑ । हि॒र॒ण्यया॑ ॥१२

गावः । उप । अवत । अवतम् । मही इति । यज्ञस्य । रप्सुदा ।

उभा । कर्णा । हिरण्यया ॥१२

हे “गावः घर्मदुघा यूयम् “अवतं महावीरं प्रति “उपावत उपागच्छत । यस्मात् "यज्ञस्य घर्मयागस्य साधनभूते “रप्सुदा। रप्सुदारप्सुदे आरिप्सोः फलप्रदे । लिप्स्वोरश्विनोर्दातव्ये वा। यद्वा रपणं शब्दनम् । रप् मन्त्रः । तेन सुष्ठु दातव्ये । अथवा ‘ षूद क्षरणे '। रपा मन्त्रेण क्षारणीये दोहनीये। ईदृशे गवाजयोः पयसी “मही महती बहुले अपेक्षिते अत उपावतम् । गौरजाया अप्युपलक्षकः अजापयसोऽपि महावीरे सेचनीयत्वात्। अपि चास्य महावीरस्य “उभा उभौ "कर्णा कर्णस्थानीयौ द्वौ रुक्मौ “हिरण्यया हिरण्मयौ सुवर्णरजतमयावित्यर्थः ।।


प्रवर्ग्येऽजापयसि महावीर आनीयमाने ‘ आ सुते ' इत्येषा । सूत्रितं च - ‘ आ सुते सिञ्चत श्रियमित्याज आसिक्तयोः ' (आश्व. श्रौ. ४. ७) इति ॥

आ सु॒ते सि॑ञ्चत॒ श्रियं॒ रोद॑स्योरभि॒श्रिय॑म् ।

र॒सा द॑धीत वृष॒भम् ॥१३

आ । सु॒ते । सि॒ञ्च॒त॒ । श्रिय॑म् । रोद॑स्योः । अ॒भि॒ऽश्रिय॑म् ।

र॒सा । द॒धी॒त॒ । वृ॒ष॒भम् ॥१३

आ । सुते । सिञ्चत । श्रियम् । रोदस्योः । अभिऽश्रियम् ।

रसा । दधीत । वृषभम् ॥१३

“सुते दुग्धे गोपयसि “श्रियं श्रयणमाजं पयः “आ “सिञ्चत । सिञ्चत हे अध्वर्यवः । कीदृशमाजम् । “रोदस्योः । कर्मणि षष्ठ्येषा । द्यावापृथिव्यौ "अभिश्रियम् अभिश्रयन्तम् । अग्निसंयोगात्तावत्पर्यन्तं प्रवृद्धमित्यर्थः । अथवा ‘ तत्कावश्विनौ द्यावापृथिव्यावित्येके' (निरु. १२. १) इति निरुक्तत्वादश्विनोरभिश्रियमित्यर्थः । सेचनानन्तरं “रसा रस आजे पयसि “वृषभं वर्षकमग्निं “दधीत स्थापयत । अजाया आग्नेयीत्वात् क्षीरस्याप्यग्निसंयोजनमुचितम् । ‘ आग्नेयी वा एषा यदजा ' (तै. ब्रा. ३. ७. ३. १) इति ब्राह्मणम् ॥


ते जा॑नत॒ स्वमो॒क्यं१॒॑ सं व॒त्सासो॒ न मा॒तृभि॑ः ।

मि॒थो न॑सन्त जा॒मिभि॑ः ॥१४

ते । जा॒न॒त॒ । स्वम् । ओ॒क्य॑म् । सम् । व॒त्सासः॑ । न । मा॒तृऽभिः॑ ।

मि॒थः । न॒स॒न्त॒ । जा॒मिऽभिः॑ ॥१४

ते । जानत । स्वम् । ओक्यम् । सम् । वत्सासः । न । मातृऽभिः ।

मिथः । नसन्त । जामिऽभिः ॥१४

“ते ता गावः “जानत ज्ञातवत्यः । अथवा सामान्याकारेण त इति पुंनिर्देशः । किम् । “स्वं स्वकीयम् “ओक्यं निवासं महावीरम् । तत्र दोग्धुमगमन्नित्यर्थः । तदेवाह । “वत्सासः वत्साः "मातृभिः “न जननीभिः सह यथा संगच्छन्ति तद्वत् “जामिभिः बन्धुभिः सहिता गावः “मिथः प्रत्येकं “सं “नसन्त संगच्छन्ते महावीरम् ॥


उप॒ स्रक्वे॑षु॒ बप्स॑तः कृण्व॒ते ध॒रुणं॑ दि॒वि ।

इन्द्रे॑ अ॒ग्ना नम॒ः स्व॑ः ॥१५

उप॑ । स्रक्वे॑षु । बप्स॑तः । कृ॒ण्व॒ते । ध॒रुण॑म् । दि॒वि ।

इन्द्रे॑ । अ॒ग्ना । नमः॑ । स्वः॑ ॥१५

उप । स्रक्वेषु । बप्सतः । कृण्वते । धरुणम् । दिवि ।

इन्द्रे । अग्ना । नमः । स्वः ॥१५

महावीरस्य “स्रक्केषु “बप्सतः ज्वालया भक्षयतोऽग्नेरन्नं “धरुणम् इन्द्रे अग्ना इति वक्ष्यमाणत्वादिन्द्राग्न्योर्धारकं “दिवि अन्तरिक्षे “उप “कृण्वते उपकुर्वते । यदाग्निर्महावीरं दहति तदा तस्योपर्युभयविधं क्षीरमासेचयन्तीत्यर्थः । एवं महावीर आसिच्य “इन्द्रे “अग्ना अग्नौ च “स्वः सर्वं गव्यमाजं च “नमः अन्नम् । अथवा स्वरन्तरिक्षे । योजयन्तीति शेषः ॥ ॥ १६ ॥


प्रवर्ग्ये घर्मदुहि दुग्धायाम् अधुक्षत् ' इत्येषा। सूत्रितं च – दुग्धायामधुक्षत्पिप्युषीम् ' (आश्व. श्रौ. ४. ७) इति आह्रियमाण । ग्रावस्तोत्रेऽप्येषा ‘ अधुक्षत्पिप्युषीमिषमा कलशेषु धावति ' (आश्व. श्रौ. ५. १२) इति सूत्रितत्वात् ।।

अधु॑क्षत्पि॒प्युषी॒मिष॒मूर्जं॑ स॒प्तप॑दीम॒रिः ।

सूर्य॑स्य स॒प्त र॒श्मिभि॑ः ॥१६

अधु॑क्षत् । पि॒प्युषी॑म् । इष॑म् । ऊर्ज॑म् । स॒प्तऽप॑दीम् । अ॒रिः ।

सूर्य॑स्य । स॒प्त । र॒श्मिऽभिः॑ ॥१६

अधुक्षत् । पिप्युषीम् । इषम् । ऊर्जम् । सप्तऽपदीम् । अरिः ।

सूर्यस्य । सप्त । रश्मिऽभिः ॥१६

“अरिः अरणशीलो वायुः “सूर्यस्य “सप्त “रश्मिभिः साधनैः “पिप्युषीम् आप्याययत् “इषम् अन्नम् “ऊर्जं रसं च “सप्तपदीं सर्पणस्वभावपादां माध्यमिकां वाचं घर्मधुग्रूपेणावस्थिताम् “अधुक्षत् दुग्धवान् । यद्यप्यध्वर्युः पात्रेण गां दुग्धे तथाप्येवंभावनया साङ्गं भवति । माध्यमिकाया वाचो मधुधुक्त्वं ' हिङ्कृण्वती, गौरमीमेत्' (ऋ. सं. १. १६४. २७, २८) इत्यादिषु प्रसिद्धम् ।।


सोम॑स्य मित्रावरु॒णोदि॑ता॒ सूर॒ आ द॑दे ।

तदातु॑रस्य भेष॒जम् ॥१७

सोम॑स्य । मि॒त्रा॒व॒रु॒णा॒ । उत्ऽइ॑ता । सूरे॑ । आ । द॒दे॒ ।

तत् । आतु॑रस्य । भे॒ष॒जम् ॥१७

सोमस्य । मित्रावरुणा । उत्ऽइता । सूरे । आ । ददे ।

तत् । आतुरस्य । भेषजम् ॥१७

हे मित्रावरुणौ "सूरे सूर्ये "उदिता उदिते “सोमस्य सोमम् “आ “ददे स्वीकरोति । तत्र हेतुमाह। “तत् स्वीकाररूपं कर्म “आतुरस्य अस्मदादेः “भेषजम् औषधम् । हितकरमित्यर्थः ॥


उ॒तो न्व॑स्य॒ यत्प॒दं ह॑र्य॒तस्य॑ निधा॒न्य॑म् ।

परि॒ द्यां जि॒ह्वया॑तनत् ॥१८

उ॒तो इति॑ । नु । अ॒स्य॒ । यत् । प॒दम् । ह॒र्य॒तस्य॑ । नि॒ऽधा॒न्य॑म् ।

परि॑ । द्याम् । जि॒ह्वया॑ । अ॒त॒न॒त् ॥१८

उतो इति । नु । अस्य । यत् । पदम् । हर्यतस्य । निऽधान्यम् ।

परि । द्याम् । जिह्वया । अतनत् ॥१८

पवमाने सोमे “उतो अपि च “अस्य सोमदातुः "हर्यतस्य प्रदानं कामयमानस्य मम “यत्पदं “निधान्यं हविषां निधानार्हमुत्तरवेदिलक्षणं तत्र स्थित्वाग्निः “द्यां “परि परितः “जिह्वया ज्वालया “अतनत् व्याप्नोत् ॥ ॥ १७ ॥


टिप्पणी

८.७२.४ दृ॒षदं॑ जि॒ह्वयाव॑धीत्

दर्शपूर्णमासयागे दृषद-उपल मिथुनं हनुस्थानीयः भवति, जिह्वा शम्यास्थानीया। शम्यायाः मिथुनं कृष्णाजिनेनसह भवति। हठयोगे, यदा जिह्वा स्वमूलबन्धनतः मुक्ता भूत्वा कपालकुहरे प्रविष्टुं समर्था भवति, तदा दिव्यरसानां आस्वादयितुं समर्था भवति (खेचरीमुद्रा ) ( खेचरीमुद्रा )

दृषदोपरि टिप्पणी

जिह्वा उपरि टिप्पणी

८.७२.११ अभ्यारमिदद्रयो निषिक्तं पुष्करे मधु इति

अन्तरिक्ष के पुष्कर पक्ष की आर्द्रता का आधार वह मधु है जिसे 'अद्रयः’ ने पुष्कर में "निषिक्त” कर दिया - पुष्करस्य विवेचनम्


मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.७२&oldid=340872" इत्यस्माद् प्रतिप्राप्तम्