प्रमुखा विकल्पसूचिः उद्घाट्यताम्

1208
अथातः पशोर्विभक्तिस्तस्य विभागं वक्ष्यामो हनू सजिह्वे प्रस्तोतुः श्येनं वक्ष उद्गातुः कण्ठः काकुद्रः प्रतिहर्तुर्दक्षिणा श्रोणिर्होतुः सव्य ब्रह्मणो दक्षिणं सक्थि मैत्रावरुणस्य सव्यम्ब्राह्मणाच्छंसिनो दक्षिणम्पार्श्वं सांसमध्वर्योः सव्यमुपगातॄणां सव्योंऽसः प्रतिप्रस्थातुर्दक्षिणं दोर्नेष्टुः सव्यम्पोतुर्दक्षिण ऊरुरच्छावाकस्य सव्य आग्नीध्रस्य दक्षिणो बाहुरात्रेयस्य सव्यः सदस्यस्य सदं चानूकं च गृहपतेर्दक्षिणौ पादौ गृहपतेर्व्रतप्रदस्य सव्यौ पादौ गृहपतेर्भार्यायै व्रतप्रदस्यौष्ठ एनयोः साधारणो भवति तं गृहपतिरेव प्रशिंष्याज् जाघनीम्पत्नीभ्यो हरन्ति ताम्ब्राह्मणाय दद्युः स्कन्ध्याश्च मनिकास्तिस्रश्च कीकसा ग्रावस्तुतस्तिस्रश्चैव कीकसा अर्धं च वैकर्तस्योन्नेतुरर्धं चैव वैकर्तस्य क्लोमा च शमितुस्तद्ब्राह्मणाय दद्याद्यद्यब्राह्मणः स्याच् छिरः सुब्रह्मण्यायै यः श्वःसुत्याम्प्राह तस्याजिनमिळ सर्वेषां होतुर्वा ता वा एताः षट्त्रिंशतमेकपा यज्ञं वाहन्ति षट्त्रिंशदक्षरा वै बृहती बार्हताः स्वर्गा लोकाः प्रानांश्चैव तत्स्वर्गांश्च लोकानाप्नुवन्ति प्राणेषु चैव तत्स्वर्गेषु च लोकेषु प्रतितिष्ठन्तो यन्ति स एष स्वर्ग्यः पशुर्य एनमेवं विभजन्त्यथ येऽतोऽन्यथा तद्यथा सेलगा वा पापकृतो वा पशुं विम-थ्नीरंस्तादृक्तत्तां वा एताम्पशोर्विभक्तिं श्रौतऋषिर्देवभागो विदां चकार तामु हाप्रोच्यैवास्माल्लोकादुच्चक्राम तामु ह गिरिजाय बाभ्रव्यायामनुष्यः प्रोवाच ततो हैनामेतदर्वाङ्मनुष्या अधीयतेऽधीयते॥7.1॥ (31.1) (124)

तदाहुर्य आहिताग्निरुपवसथे म्रियेत कथमस्य यज्ञः स्यादिति नैनं याजयेदित्याहुरनभिप्राप्तो हि यज्ञं भवतीति। तदाहुर्य आहिताग्निरधिश्रितेऽग्निहोत्रे सांनाय्ये वा हविःषु वा म्रियेत का तत्र प्रायश्चित्तिरित्यत्रैवैनान्यनुपर्यादध्याद्यथा सर्वाणि संदह्येरन्सा तत्र प्रायश्चित्तिः। तदाहुर्य आहिताग्निरासन्नेषु हविःषु म्रियेत का तत्र प्रायश्चित्तिरिति याभ्य एव तानि देवताभ्यो हवींषि गृहीतानि भवन्ति ताभ्यः स्वाहेत्येवैनान्याहवनीये सर्वहुन्ति जुहुयात्सा तत्र प्रायश्चित्तिः। तदाहुर्य आहिताग्निः प्रवसन्म्रियेत कथमस्याग्निहोत्रं स्यादित्यभिवान्यवत्सायाः पयसा जुहुयादन्यदिवैतत्पयो यदभिवान्यवत्साया अन्यदिवैतदग्निहोत्रं यत्प्रेतस्य। अपि वा यत एव कुतश्च पयसा जुहुयुः। अथाप्याहुरेवमेवैनानजस्रानजुह्वत इन्धीरन्ना शरीराणामाहर्तोरिति। यदि शरीराणि न विद्येरन्पर्णशरः षष्टिस्त्रीणि च शतान्याहृत्य तेषां पुरुषरूपकमिव कृत्वा तस्मिंस्तामावृतं कुर्युरथैनाञ्छरीरैराहृतैः संस्पर्श्योद्वासयेयुः। अध्यर्धशतं काये सक्थिनी द्विपञ्चाशे च विंशे चोरु द्विपञ्चविंशे शेषं तु शिरस्युपरि दध्यात्। सा तत्र प्रायश्चित्तिः॥॥7.2॥ (32.1) (125)

1220
तदाहुर्यस्याग्निहो त्र्?युपावसृष्टा दुह्यमानोपविशेत्का तत्र प्रायश्चित्तिरिति तामभि-मन्त्रयेत यस्माद्भीषा निषीदसि ततो नो अभयं कृधि पशून्नः सर्वान्गोपाय नमो रुद्र ?ाय मीळ्हुष इति तामुत्थापयेदुदस्थाद्देव्यदितिरायुर्यज्ञपतावधातिन्द्राय कृ-ण्वती भागम्मित्राय वरुणय चेत्यथास्या उदपात्रमूधसि च मुखे चो-पगृह्णीयादथैनाम्ब्राह्मणाय दद्यात्सा तत्र प्रायश्चित्तिस्तदाहुर्यस्याग्निहो त्र्?यु-पावसृष्टा दुह्यमाना वाश्येत का तत्र प्रायश्चित्तिरित्यशनायां ह वा एषा यजमानस्य प्रतिख्याय वाश्यते तामन्नमप्यादयेच्छान्त्यै शान्तिर्वा अन्नं सूयवसाद्भगवती हि भूया इति सा तत्र प्रायश्चित्तिस्तदाहुर्यस्याग्निहो त्र्?यु-पावसृष्टा दुह्यमाना स्पन्देत का तत्र प्रायश्चित्तिरिति सा यत्तत्र स्कन्द-येत्तदभिमृश्य जपेद्यदद्य दुग्धम्पृथिवीमसृप्त यदोषधीरत्यसृपद्यदापः पयो गृहेषु पयो अघ्न्यायाम्पयो वत्सेषु पयो अस्तु तन्मयीति तत्र यत्परिशिष्टं स्यात्तेन जुहुयाद्यद्यलं होमाय स्याड् यद्यु वै सर्वं सिक्तं स्यादथान्यामाहूय तां दुग्ध्वा तेन जुहुयादा त्वेव श्रद्धायै होतव्यं सा तत्र प्रायश्चित्तिः॥7.3॥ (32.2) (126)

1224

तदाहुर्यस्य सायंदुग्धं सांनाय्यं दुष्येद्वापहरेद्वा का तत्र प्रायश्चित्तिरिति प्रातर्दुग्धं द्वैधं कृत्वा तस्यान्यतराम्भक्तिमातच्य तेन यजेत सा तत्र प्रायश्चित्तिस्तदाहुर्यस्य प्रातर्दुग्धं संनाय्यं दुष्येद्वापहरेद्वा का तत्र प्रायश्चित्तिरित्यैन्द्रं वा माहेन्द्रं वा पुरोळाशां तस्य स्थाने निरुप्य तेन यजेत सा तत्र प्रायश्चित्तिस्तदाहुर्यस्य सर्वमेव सांनाय्यं दुष्येद्वापहरेद्वा का तत्र प्रायश्चित्तिरित्यैन्द्रं वा माहेन्द्रं वेति समानं सा तत्र प्रायश्चित्तिस्तदाहुर्यस्य सर्वाण्येव हवींषि दुष्येयुर्वापहरेयुर्वा का तत्र प्रायश्चित्तिरित्याज्यस्यैनानि यथादेवतम्परिकल्प्य तयाज्यहविषेष्ट्या यजेतातोऽन्यामिष्टिमनुल्बणां तन्वीत यज्ञो यज्ञस्य प्रायश्चित्तिः॥7.4॥ (32.3) (127)

तदाहुर्यस्याग्निहोत्रमधिश्रितममेध्यमापद्येत का तत्र प्रायश्चित्तिरिति सर्वमेवैनत्स्रुच्यभिपर्यासिच्य प्राङुदेत्याऽऽहवनीये हैतां समिधमभ्यादधात्यथोत्तरत आहवनीयस्योष्णं भस्म निरूह्य जुहुयान्मनसा वा प्राजापत्यया वर्चा तद्धुतं चाहुतं च स यद्येकस्मिन्नुन्नीते यदि द्वयोरेष एव कल्पस्तच्चेद्व्यपनयितुं शक्नुयान्निःषिच्यैतद्दुष्टमदुष्टमभिपर्यासिच्य तस्य यथोन्नीत्ती स्यात्तथा जुहुयात्सा तत्र प्रायश्चित्तिः। तदाहुर्यस्याग्निहोत्रमधिश्रितं स्कन्दति वा विष्यन्तदे वा का तत्र प्रायश्चित्तिरिति तदद्भिरुपनिनयेच्छान्त्यै शान्तिर्वा आपोऽथैनद्दक्षिणेन पाणिनाऽभिमृश्य जपति। दिवं तृतीयं देवान्यज्ञोऽगात्ततो मा द्रविणमाष्टान्तरिक्षं तृतीयं पितॄन्यज्ञोऽगात्तततो मा द्रविणमाष्ट पृथिवीं तृतीयं मनुष्यान्यज्ञोऽगात्ततो मा द्रविणमाष्ट। ययोरोजसा स्कभिता रजांसीति वैष्णुवारुणीमृचं जपति विष्णुर्वै यज्ञस्य दुरिष्टं पाति वरुणः स्विष्टं तयोरुभयोरेव शान्त्यै। सा तत्र प्रायश्चित्तिः। तदाहुर्यस्याग्निहोत्रमधिश्रितं प्राङुदायन्स्खलते वाऽपि वा भ्रंशते का तत्र प्रायश्चित्तिरिति स यद्युपनिवर्तयेत्स्वर्गाल्लोकाद्यजमानमावर्तयेदत्रैवास्मा उपविष्टायैतमग्निहोत्रपरीशेषमाहरेयुस्तस्य यथोन्नीती स्यात्तथा जुहुयात्सा तत्र प्रायश्चित्तिः। तदाहुरथ यदि स्रुग्भिद्येत का तत्र प्रायश्चित्तिरित्यन्यां स्रुचमाहृत्य जुहुयादथैनां स्रुचं भिन्नमाहवनीयेऽभ्यादध्यात्प्राग्दण्डां प्रत्यक्पुष्करां सा तत्र प्रायश्चित्तिः। तदाहुर्यस्याऽऽहवनीये हाग्निर्विद्येताथ गार्हपत्य उपशाम्येत्का तत्र प्रायश्चित्तिरिति स यदि प्राञ्चमुद्धरेत्प्रायऽऽयतनाच्च्यवेत यत्प्रत्यञ्चमसुरवद्यज्ञं तन्वीत यन्मन्थेद् भ्रातृव्यं यजमानस्य जनयेद्यदनुगमयेत्प्राणो यजमानं जह्यात्सर्वमेवैनं सह भस्मानं समोप्य गार्हपत्यायतने निधायाथ प्राञ्चमाहवनीयमुद्धरेत्सा तत्र प्रायश्चित्तिः॥7.5॥ (32.4) (128)

1233

तदाहुर्यस्याग्नावग्निमुद्धरेयुः का तत्र प्रायश्चित्तिरिति स यद्यनुपश्येदुदूह्य पूर्वमपरं निदध्याद्यद्यु नानुपश्येत्सोऽग्नयेऽग्निवतेऽष्टाकपालम्पुरोळाशं निर्वपेत्तस्य या-ज्यानुवक्ये अग्निनाग्निः समिध्यते त्वं ह्यग्ने अग्निनेत्याहुतिं वाहवनीये जुहुया-दग्नयेऽग्निवते स्वाहेति सा तत्र प्रायश्चित्तिस्तदाहुर्यस्य गार्हपत्याहवनीयौ मिथः संसृज्येयातां का तत्र प्रायश्चित्तिरिति सोऽग्नये वीतयेऽष्टाकपालम्पुरोळाशं निर्वपेत्तस्य याज्यानुवाक्ये अग्न आ याहि वीतये यो अग्निं देववीतय इत्याहुतिं वाहवनीये जुहुयादग्नये वीतये स्वाहेति सा तत्र प्रायश्चित्तिस्तदाहुर्यस्य सर्व एवाग्नयो मिथः संसृज्येरन्का तत्र प्रायश्चित्तिरिति सोऽग्नये विविचये-ऽष्टाकपालम्पुरोळाशं निर्वपेत्तस्य याज्यानुवाक्ये स्वर्ण वस्तोरुषसामरोचि त्वामग्ने मानुषीरीळते विश इत्याहुतिं वाहवनीये जुहुयादग्नये विविचये स्वाहेति सा तत्र प्रायश्चित्तिस्तदाहुर्यस्याग्नयो अन्यैरग्निभिः संसृज्येरन्का तत्र प्रायश्चित्तिरिति सोऽग्नये क्षामवतेऽष्टाकपालम्पुरोळाशं निर्वपेत्तस्य याज्या-नुवाक्ये अक्रन्ददग्नु स्तनयन्निव द्यौरधा यथा नः पितरः परास इत्याहुतिं वाऽऽहवनीये जुहुयादग्नये क्षामवते स्वाहेति सा तत्र प्रायश्चित्तिः॥7.6॥ (32.5) (129)


1238
तादाहुर्यस्याग्नयो ग्राम्येणाग्निना संदह्येरन्का तत्र प्रायश्चित्तिरिति सोऽग्नये संवर्गायाष्टाकपालम्पुरोळाशं निर्वपेत्तस्य याज्यानुवाक्ये कुवित्सु नो गविष्टये मा नो अस्मिन्महाधन इत्याहुतिं वाहवनीये जुहुयादग्नये संवर्गाय स्वाहेति सा तत्र प्रायश्चित्तिस्तदाहुर्यस्याग्नयो दिव्येनाग्निना संसृज्येरन्का तत्र प्रायश्चित्तिरिति सोऽग्नयेऽप्सुमतेऽष्टाकपालम्पुरोळाशं निर्वपेत्तस्य याज्यानुवाक्ये अप्स्वग्ने सधिष्टव मयो दधे मेधिरः पूतदक्ष इत्याहुतिं वाहवनीये जुहुयादग्नयेऽप्सुमते स्वाहेति सा तत्र प्रायश्चित्तिस्तदाहुर्यस्याग्नयः शवाग्निना संसृज्येरन्का तत्र प्रायश्चित्तिरिति सोऽग्नये शुचयेऽष्टाकपालम्पुरोळाशं निर्वपेत्तस्य याज्यानुवाक्ये अग्निः शुचिव्रततम उदग्ने शुचयस्तवेत्यहुतिं वाहवनीये जुहुयादग्नये शुचये स्वाहेति सा तत्र प्रायश्चित्तिस्तदाहुर्यस्याग्नय आरण्येनाग्निना संदह्येरन्का तत्र प्रायश्चित्तिरिति समेवारोपयेदरणी वोल्मुकं वा मोक्षयेद्यद्याहवनीयाद्यदि गार्हपत्याद्यदि न शक्नुयात्सोऽग्नये संवर्गायाष्टाकपालम्पुरोळाशं निर्वपेत्त-स्योक्ते याज्यानुवाक्ये आहुतिं वाहवनीये जुहुयादग्नये संवर्गाय स्वाहेति सा तत्र प्रायश्चित्तिः॥7.7॥ (32.6) (130)


1243
तदाहुर्य आहिताग्निरुपवसथेऽश्रु कुर्वीत का तत्र प्रायश्चित्तिरिति सोऽग्नये व्रतभृतेऽष्टाकपालम्पुरोळाशं निर्वपेत्तस्य याज्यानुवाक्ये त्वमग्ने व्रतभृच्छुचि-र्व्रतानि बिभ्रद्व्रतपा अदब्ध इत्याहुतिं वाहवनीये जुहुयादग्नये व्रतभृते स्वाहेति सा तत्र प्रायश्चित्तिस्तदाहुर्य आहिताग्निरुपवसथेऽव्रत्यमापद्येत का तत्र प्रायश्चि-त्तिरिति सोऽग्नये व्रतपतयेऽष्टाकपालम्पुरोळाशं निर्वपेत्तस्य याज्यानुवाक्ये त्वमग्ने व्रतपा असि यद्वो वयम्प्रमिनाम व्रतानीत्याहुतिं वाहवनीये जुहुयादग्नये व्रतपतये स्वाहेति सा तत्र प्रायश्चित्तिस्तदाहुर्य आहिताग्निरमावास्याम्पौर्णमासीं वातीयात्का तत्र प्रायश्चित्तिरिति सोऽग्नये पथिकृतेऽष्टाकपालम्पुरोळाशं निर्व-पेत्तस्य याज्यानुवाक्ये वेत्था हि वेदोःऽध्वन आ देवानामपि पन्थामग-न्मेत्याहुतिं वाहवनीये जुहुयादग्नये पथिकृते स्वाहेति सा तत्र प्रायश्चित्ति-स्तदाहुर्यस्य सर्व एवाग्नय उपशाम्येरन्का तत्र प्रायश्चित्तिरिति सोऽग्नये तपस्वते जनद्वते पावकवतेऽष्टाकपालम्पुरोळाशं निर्वपेत्तस्य याज्यानुवाक्ये आ याहि तपसा जनेष्वा नो याहि तपसा जनेष्वित्याहुतिं वाहवनीये जुहुयादग्नये तपस्वते जनद्वते पावकवते स्वाहेति सा तत्र प्रायश्चित्तिः॥7.8॥ (32.7) (130)


1248
तदाहुर्य आहिताग्निराग्रयणेनानिष्ट्वा नवान्नम्प्राश्नीयात्का तत्र प्रायश्चित्तिरिति सोऽग्नये वैश्वानराय द्वादशकपालम्पुरोळाशं निर्वपेत्तस्य याज्यानुवाक्ये वैश्वानरो अजीजनत्पृष्टो दिवि पृष्टो अग्निः पृथिव्यामित्याहुतिं वाहवनीये जुहुयादग्नये वैश्वानराय स्वाहेति सा तत्र प्रायश्चित्तिस्तदाहुर्य आहिताग्निर्यदि कपालं नश्येत्का तत्र प्रायश्चित्तिरिति सोऽश्विभ्यां द्विकपालम्पुरोळाशं निर्वपेत्तस्य याज्यानुवाक्ये अश्विना वर्तिरस्मदा गोमता नासत्या रथेनेत्याहुतिं वाहवनीये जुहुयादश्विभ्यां स्वाहेति सा तत्र प्रायश्चित्तिस्तदाहुर्य आहिताग्निर्यदि पवित्रं नश्येत्का तत्र प्रायश्चित्तिरिति सोऽग्नये पवित्रवतेऽष्टाकपालम्पुरोळाशं निर्वपेत्तस्य याज्यानुवाक्ये पवित्रं ते विततम्ब्रह्मणस्पते तपोस्ः पवित्रं विततं दिवस्पद इति आहुतिं वाहवनीये जुहुयादग्नये पवित्रवते स्वाहेति सा तत्र प्रायश्चित्तिस्तदाहुर्य आहिताग्निर्यदि हिरण्यं नश्येत्का तत्र प्रायश्चित्तिरिति सोऽग्नये हिरण्यवतेऽष्टाकपालम्पुरोळाशं निर्वपेत्तस्य याज्यानुवाक्ये हिरण्य-केशो रजसो विसार आ ते सुपर्णा अमिनन्तँ एवैरिति आहुतिं वाहवनीये जुहुयादग्नये हिरण्यवते स्वाहेति सा तत्र प्रायश्चित्तिस्तदाहुर्य आहिताग्निर्यदि प्रातरस्नातोऽग्निहोत्रं जुहुयात्का तत्र प्रायश्चित्तिरिति सोऽग्नये वरुणायाष्टाकपा-लम्पुरोळाशं निर्वपेत्तस्य याज्यानुवाक्ये त्वं नो अग्ने वरुणस्य विद्वान्स त्वं नो अग्नेऽवमो भवोतीत्याहुतिं वाहवनीये जुहुयादग्नये वरुणाय स्वाहेति सा तत्र प्रायश्चित्तिस्तदाहुर्य आहिताग्निर्यदि सूतकान्नम्प्राश्नीयात्का तत्र प्रायश्चित्तिरिति सोऽग्नाये तन्तुमतेऽष्टाकपालम्पुरोळाशं निर्वपेत्तस्य याज्यानुवाक्ये तन्तुं तन्व-न्रजसो भानुमन्विह्यक्षानहो नह्यतनोत सोम्या इति आहुतिं वाहवनीये जुहुयादग्नये तन्तुमते स्वाहेति सा तत्र प्रायश्चित्तिस्तदाहुर्य आहिताग्निर्जीवे मृतशब्दं श्रुत्वा का तत्र प्रायश्चित्तिरिति सोऽग्नाये सुरभिमतेऽष्टाकपालम्पुरोळाशं निर्वपेत्तस्य याज्यानुवाक्ये अग्निर्होता न्यसीदद्यजीयान्साध्वीमकर्देववीतिं नो अद्येत्याहुतिं वाहवनीये जुहुयादग्नये सुरभिमते स्वाहेति सा तत्र प्रायश्चित्ति-स्तदाहुर्य आहिताग्निर्यस्य भार्या गौर्वा यमौ जनयेत्का तत्र प्रायश्चित्तिरिति सोऽग्नये मरुत्वते त्रयोदशकपालम्पुरोळाशं निर्वपेत्तस्य याज्यानुवाक्ये मरुतो यस्य हि क्षयेऽरा इवेदचरमा अहेवेत्याहुतिं वाहवनीये जुहुयादग्नये मरुत्वते स्वाहेति सा तत्र प्रायश्चित्तिस्तदाहुरपत्नीकोऽप्यग्निहोत्रमाहरेन्नाहरेदिति आहरे-दित्याहुर्यदि नाहरेदनद्धा पुरुषः कोऽनद्धापुरुष इति न देवान्न पितॄन्न मनुष्यानिति। तस्मादपत्नीकोऽप्तयग्निहोत्रमाहरेत्। तदेषाऽभि यज्ञगाथा गीयते। यजेत्सौत्रामण्यामपत्नीकोऽप्यसोमपः। मातापितृभ्यामनृणार्थाद्यजेति वचनाच्छ्रुतिरिति। तस्मात्सौम्यं याजयेत्॥7.9॥ (32.8) (132)

तदाहुर्वाचाऽपत्नीकोऽग्निहोत्रं कथमेव जुहोति। निविष्टे मृता पत्नी नष्टा वाऽग्निहोत्रे कथमग्निहोत्रं जुहोति। पुत्रान्पौत्रान्नप्तॄनित्याहुरस्मिँश्च लोकेऽमुष्मिँश्चास्मिँल्लोकेऽयं स्वर्गोऽस्वर्गेण स्वर्गं लोकमारुरोहेत्यमुष्यैव लोकस्य संततिं धारयति यस्यैषां पत्नीं नैच्छेत्तस्मादपत्नीकस्याऽऽधानं कुर्वन्ति। अपत्नीकोऽग्निहोत्रं कथमग्निहोत्रं जुहोति श्रद्धा पत्नी सत्यं यजमानः श्रद्धा सत्यं तदित्युत्तमं मिथुनं श्रद्धया सत्येन मिथुनेन स्वर्गाँल्लोकाञ्जयतीति॥7.10॥ (32.9) (133)

तदाहुर्यद्दर्शपूर्णमासयोरुपवसति न ह वा अव्रतस्य देवा हविरश्नन्ति तस्मादुपवसत्युत मे देवा हविरश्नीयुरिति। पूर्वां पौर्णमासीमुपवसेदिति पैङ्ग्यमुत्तरामिति कौषीतकं या पूर्वा पौर्णमासी साऽनुमतिर्योत्तरा सा राका। या पूर्वाऽमावास्या सा सिनीवाली योत्तरा सा कुहूः। यां पर्यस्तमियादभ्युदियादिति सा तिथिः। पूर्वां पौर्णमासीमुपवसेदनिर्ज्ञाय पुरस्तादमावास्यायां चन्द्रमसं यदुपैति यद्यजते तेन सोमं क्रीणन्ति तेनोत्तरामुपवसेदुत्तराणि ह वै सोमो यजते सोममनु दैवतमेतद्वै देवसोमं यच्चन्द्रमास्तस्मादुत्तरामुपवसेत्॥7.11॥ (32.10) (134)

1268
तदाहुर्यस्याग्निमनुद्धृतमादित्योऽभ्युदियाद्वाभ्यस्तमियाद्वा प्रणीतो वा प्राग्घो-मादुपशाम्येत्का तत्र प्रायश्चित्तिरिति हिरण्यम्पुरस्कृत्य सायमुद्धरेज् ज्योतिर्वै शुक्रं हिरण्यं ज्योतिः शुक्रमसौ तदेव तज्ज्योतिः शुक्रम्पश्यन्नुद्धरति रजतमन्तर्धाय प्रातरुद्धरेदेतद्र ?ात्रिरूपम्पुरा सम्भेदाच्छायानामाहवनीयमुद्धरे-न्मृत्युर्वै तमश्छाया तेनैव तज्ज्योतिषा मृत्युं तमश्छायां तरति सा तत्र प्रायश्चित्तिस्तदाहुर्यस्य गार्हपत्याहवनीयावन्तरेणानो वा रथो वा श्वा वा प्रतिपद्येत का तत्र प्रायश्चित्तिरिति नैनन्मनसि कुर्यादित्याहुरात्मन्यस्य हिता भवन्तीति तच्चेन्मनसि कुर्वीत गार्हपत्यादविछिन्नामुदकधारां हरेत्तन्तुं तन्व-न्रजसो भानुमन्विहीत्याहवनीयात्सा तत्र प्रायश्चित्तिस्तदाहुः कथमग्नीनन्वा-दधानोऽन्वाहार्यपचनमाहारयेन्नाहारयेदिति आहारयेदित्याहुः प्राणान्वा एषो-ऽभ्यात्मं धत्ते योऽग्नीनाधत्ते तेषामेषोऽन्नादतमो भवति यदन्वाहार्यप-चनस्तस्मिन्नेतामाहुतिं जुहोत्यग्नयेऽन्नादायान्नपतये स्वाहेत्यन्नादो हान्नपतिर्भ-वत्यश्नुते प्रजयान्नाद्यं य एवं वेदान्तरेण गार्हपत्याहवनीयौ होष्यन्संचरेतैतेन ह वा एनं संचरमाणमग्नयो विदुरयमस्मासु होष्यतीत्येतेन ह वा अस्य संचर-माणस्य गार्हपत्याहवनीयौ पाप्मानमपहतः सोऽपहतपाप्मोर्ध्वः स्वर्गं लोक-मेतीति वै ब्राह्मणमुदाहरन्ति तदाहुः कथमग्नीन्प्रवत्स्यन्नुपतिष्ठेत प्रोष्य वा प्रत्येत्याहरहर्वेति तूष्णीमित्याहुस्तूष्णीं वै श्रेयस आकाङ्क्षन्तेऽथाप्याहुरहरहर्वा एते यजमानस्याश्रद्धयोद्वासनात्प्रप्लावनाद्बिभ्यति तानुपतिष्ठेतैवाभयं वोऽभयमेऽस्त्वित्यभयं हैवास्मै भवत्यभयं हैवास्मै भवति॥7.12॥ (32.11) (135)


1275
हरिश्चन्द्रो ह वैधस ऐक्ष्वाको राजापुत्र आस तस्य ह शतं जाया बभूवुस्तासु पुत्रं न लेभे तस्य ह पर्वतनारदौ गृह ऊषतुः स ह नारदम्पप्रछ यं न्विमम्पुत्रमिछन्ति ये विजानन्ति ये च न किं स्वित्पुत्रेण विन्दते तन्म आचक्ष्व नारदेति स एकया पृष्टो दशभिः प्रत्युवाच ऋनमस्मिन्संनयत्यमृतत्वं च गच्छति पिता पुत्रस्य जातस्य पश्येच्चेज्जीवतो मुखम्यावन्तः पृथिव्याम्भोगा यावन्तो जातवेदसि यावन्तो अप्सु प्राणिनाम्भूयान्पुत्रे पितुस्ततः शश्वत्पुत्रेण पित-रोऽत्यायन्बहुलं तमः आत्मा हि जज्ञ आत्मनः स इरावत्यतितारिणी किं नु मलं किमजिनं किमु श्मश्रूणि किं तपः पुत्रम्ब्रह्माण इच्छध्वं स वै लोकोऽवदावदः अन्नं ह प्राणः शरणं ह वासो रूपं हिरण्यम्पशवो विवाहाः सखा ह जाया कृपणं ह दुहिता ज्योतिर्ह पुत्रः परमे व्योमन्पतिर्जायाम्प्रविशति गर्भो भूत्वा स मातरम्तस्याम्पुनर्नवो भूत्वा दशमे मासि जायते तज्जाया जाया भवति यदस्यां जायते पुनः आभूतिरेषाभूतिर्बीजमेतन्निधीयते देवाश्चैतामृषयश्च तेजः समभरन्महत्देवा मनुष्यानब्रुवन्नेषा वो जननी पुनः नापुत्रस्य लोकोऽस्ती-ति तत्सर्वे पशवो विदुः तस्मात्तु पुत्रो मातरं स्वसारं चाधिरोहति एष पन्था उरुगायः सुशेवो यम्पुत्रिण आक्रमन्ते विशोकाः तम्पश्यन्ति पशवो वयांसि च तस्मात्ते मात्राऽपि मिथुनी भवन्ति। इति हास्मा आख्याय॥7.13॥ (33.1) (136)

अथैनमुवाच वरुणं राजानमुपधाव पुत्रो मे जायतां तेन त्वा यजा इति। तथेति स वरुणं राजानमुपससार पुत्रो मे जायतां तेन त्वा यजा इति तथेति तस्य पुत्रो जज्ञे रोहितो नाम। तं होवाचाजनि वै ते पुत्रो यजस्व माऽनेनेति स होवाच यदा वै पशुर्निर्दशो भवत्यथ स मेध्यो भवति निर्दशो न्वस्त्वथ त्वा यजा इति तथेति। स ह निर्दश आस तं होवाच निर्दशो न्वभूद्यजस्व माऽनेनेति स होवाच यदा वै पशोर्दन्ता जायन्तेऽथ स मेध्यो भवति दन्ता न्वस्य जायन्तामथ त्वा यजा इति तथेति। तस्य ह दन्ता जज्ञिरे तं होवाचाज्ञत वा अस्य दन्ता यजस्व माऽनेनेति स होवाच यदा वै पशोर्दन्ताः पद्यन्तेऽथ स मेध्यो भवति दन्ता न्वस्य पद्यन्तामथ त्वा यजा इति तथेति। तस्य ह दन्ता पेदिरे तं होवाचापत्सत वा अस्य दन्ता यजस्व माऽनेनेति स होवाच यदा वै पशोर्दन्ताः पुनर्जायन्तामथ त्वा यजा इति तथेति। तस्य ह दन्ताः पुनर्जज्ञिरे तं होवाचाज्ञत वा अस्य पुनर्दन्ता यजस्व माऽनेनेति स होवाच यदा वै क्षत्त्रियः सांनाहुको भवत्यथ स मेध्यो भवति संनाहं नु प्राप्नोत्वथ त्वा यजा इति तथेति। स ह संनाहं प्रापत्तं होवाच संनाहं नु प्राप्नोद्यजस्व माऽनेनेति स तथेत्युक्त्वा पुत्रमामन्त्रयामास ततायं वै मह्यं त्वामददाद्धन्त त्वयाऽहमिमं यजा इति। स ह नेत्युक्त्वा धनुरादायारण्यमुपातस्थौ स संवत्सरमरण्ये चचार॥7.14॥ (33.2) (137)

1286
अथ हैक्ष्वाकं वरुणो जग्राह तस्य होदरं जज्ञे तदु ह रोहितः शुश्राव सोऽरण्याद्ग्राममेयाय तमिन्द्रः पुरुषरूपेण पर्येत्योवाच नाना श्रान्ताय श्रीरस्तीति रोहित शुश्रुम पापो नृषद्वरो जन इन्द्र इच्चरतः सखा चरैवेति चरैवेति वै मा ब्राह्मणोऽवोचदिति ह द्वितीयं संवत्सरमरण्ये चचार सोऽरण्याद्ग्राममेयाय तमिन्द्रः पुरुषरूपेण पर्येत्योवाच पुष्पिण्यौ चरतो जङ्घे भूष्णुरात्मा फलग्रहिः शेरेऽस्य सर्वे पाप्मानः श्रमेण प्रपथे हतश् चरैवेति चरैवेति वै मा ब्राह्मणोऽवोचदिति ह तृतीयं संवत्सरमरण्ये चचार सोऽरण्याद्ग्राममेयाय तमिन्द्रः पुरुषरूपेण पर्येत्योवाच आस्ते भग आसीनस्योर्ध्वस्तिष्ठति तिष्ठतः शेते निपद्यमानस्य चराति चरतो भगश् चरैवेति चरैवेति वै मा ब्राह्मणोऽवोचदिति ह चतुर्थं संवत्सरमरण्ये चचार सोऽरण्याद्ग्राममेयाय तमिन्द्रः पुरुषरूपेण पर्येत्योवाच कलिः शयानो भवति संजिहानस्तु द्वापरः। उत्तिष्ठंस्त्रेता भवति कृतं सम्पद्यते चरंश् चरैवेति चरैवेति वै मा ब्राह्मणोऽवोचदिति ह पञ्चमं संवत्सरमरण्ये चचार सोऽरण्याद्ग्राममेयाय तमिन्द्रः पुरुषरूपेण पर्येत्योवाच चरन्वै मधु विन्दति चरन्स्वादुमुदुम्बरम्सूर्यस्य पश्य श्रेमाणं यो न तन्द्रयते चरंश् चरैवेति चरैवेति वै मा ब्राह्मणोऽवोचदिति ह षष्ठं संवत्सरमरण्ये चचार सोऽजीगर्तं सौयवसिमृषिमशनायापरीतमरण्य उपेयाय तस्य ह त्रयः पुत्रा आसुः शुनःपुच्छः शुनःशेपः शुनोलाङ्गूल इति तं होवाच ऋषेऽहं ते शतं ददा-म्यहमेषामेकेनात्मानं निष्क्रीणा इति स ज्येष्ठम्पुत्रं निगृह्णान उवाच न न्विममिति नो एवेममिति कनिष्ठम्माता तौ ह मध्यमे सम्पादयांचक्रतुः शुनःशेपे तस्य ह शतं दत्त्वा स तमादाय सोऽरण्याद्ग्राममेयाय स पितरमेत्योवाच तत हन्ताहमनेनात्मानं निष्क्रीणा इति स वरुणं राजानमुपससारानेन त्वा यजा इति तथेति भूयान्वै ब्राह्मणः क्षत्रियादिति वरुण उवाच तस्मा एतं राजसूयं यज्ञक्रतुं प्रोवाच तमेतमभिषेचनीये पुरुषं पशुमालेभे॥7.15॥ (33.3) (138)

1291
तस्य ह विश्वामित्रो होतासीज्जमदग्निरध्वर्युर्वसिष्ठो ब्रह्मायास्य उद्गाता तस्मा उपाकृताय नियोक्तारं न विविदुः स होवाचाजीगर्तः सौयवसिर्मह्यमपरं शतं दत्ताहमेनं नियोक्ष्यामीति तस्मा अपरं शतं ददुस्तं स नियुयोज तस्मा उपाकृताय नियुक्तायाप्रीताया पर्यग्निकृताय विशसितारं न विविदुः स होवाचाजीगर्तः सौयवसिर्मह्यमपरं शतं दत्ताहमेनं विशसिष्यामीति तस्मा अपरं शतं ददुः सोऽसिं निःश्यान एयायाथ ह शुनःशेप ईक्षां चक्रे ऽमानुषमिव वै मा विशसिष्यन्ति हन्ताहं देवता उपधावानीति स प्रजापतिमेव प्रथमं देवताना-मुपसासर कस्य नूनं कतमस्यामृतानामित्येतयर्चा तम्प्रजापतिरुवाचाग्निर्वै देवानां नेदिष्ठस्तमेवोपधावेति सोऽग्निमुपससाराग्नेर्वयम्प्रथमस्यामृतानामिति एतयर्चा तमग्निरुवाच सविता वै प्रसवानामीशे तमेवोपधावेति स सवितारमुपससाराभि त्वा देव सवितरित्येतेन तृचेन तं सवितोवाच वरुणाय वै राज्ञे नियुक्तोऽसि तमेवोपधावेति स वरुणं राजानमुपससारात उत्तराभिरेक-त्रिंशता तं वरुण उवाचाग्निर्वै देवानाम्मुखं सुहृदयतमस्तं नु स्तुह्यथ त्वोत्स्र-क्ष्याम इति सोऽग्निं तुष्टावात उत्तराभिर्द्वाविंशत्या तमग्निरुवाच विश्वान्नु देवान्स्तुह्यथ त्वोत्स्रक्ष्याम इति स विश्वान्देवांस्तुष्टाव नमो महद्भ्यो नमो अर्भ-केभ्य इत्येतयर्चा तं विश्वे देवा ऊचुरिन्द्रो वै देवानामोजिष्ठो बलिष्ठः सहिष्ठः सत्तमः पारयिष्णुतमस्तं नु स्तुह्यथ त्वोत्स्रक्ष्याम इति स इन्द्रं तुष्टाव यच्चिद्धि सत्य सोमपा इति चैतेन सूक्तेनोत्तरस्य च पञ्चदशभिस्तस्मा इन्द्रः स्तूयमानः प्रीतो मनसा हिरण्यरथं ददौ तमेतया प्रतीयाय शश्वदिन्द्र इति तमिन्द्र उवाचाश्विनौ नो स्तुह्यथ त्वोत्स्रक्ष्याम इति सोऽश्विनौ तुष्टावात उत्तरेण तृचेन तमश्विना उचतुरुषसं नु स्तुह्यथ त्वोत्स्रक्ष्याम इति स उषसं तुष्टावात उत्तरेन तृचेन तस्य ह स्मर्च्यृच्युक्तायां वि पाशो मुमुचे कनीय ऐक्ष्वाकस्योदरम्भवत्युत्तमस्यामेवर्च्युक्तायां वि पाशो मुमुचेऽगद ऐक्ष्वाक आस॥7.16॥ (33.4) (139)


1296
तमृत्विज ऊचुस्त्वमेव नोऽस्याह्नः संस्थामधिगच्छेत्यथ हैतं शुनःशेपोऽञ्जःसवं ददर्श तमेताभिश्चतसृभिरभिसुषाव यच्चिद्धि त्वं गृहेगृह इत्यथैनं द्रोणकलशमभ्यवनिनायोच्छिष्टं चम्वोर्भरेत्येतयर्चाथ हास्मिन्नन्वारब्धे पूर्वाभिश्चतसृभिः सस्वाहाकाराभिर्जुहवांचकाराथैनमवभृथमभ्यवनिनाय त्वं नो अग्ने वरुणस्य विद्वानित्येताभ्यामथैनमत ऊर्ध्वमग्निमाहवनीयमुपस्थापयांचकार शुनश्चिच्छेपं निदितं सहस्रादित्यथ ह शुनःशेपो विश्वामित्रस्याङ्कमाससाद स होवाचाजीगर्तः सौयवसिर्ऋषे पुनर्मे पुत्रं देहीति नेति होवाच विश्वामित्रो देवा वा इमम्मह्यमरासतेति स ह देवरातो वैश्वामित्र आस तस्यैते कापिलेयबाभ्रवाः स होवचाजीगर्तः सौयवसिस्त्वम्वेहि विह्वयावहा इति स होवाचाजीगर्तः सौयवसिराङ्गिरसो जन्मनास्याजीगर्तिः श्रुतः कविः । ऋषे पैतामहात्तन्तोर्मापगाः पुनरेहि माम् इति स होवाच शुनःशेपोऽदर्शुस्त्वा शासहस्तं न यच्छूद्रेष्वलप्सत। गवां त्रीणि शतानि त्वमवृणीथा मदङ्गिर इति स होवाचाजीगर्तः सौयवसिस्तद्वै मा तात तपति पापं कर्म मया कृतम्। तदहं निह्नुवे तुभ्यम्प्रतियन्तु शता गवाम् इति स होवाच शुनःशेपो यः सकृत्पापकं कुर्यात्कुर्यादेनत्ततोऽपरम् । नापागाः शौद्रान्न्यायादसंधेयं त्वया कृतम् इत्यसंधेयमिति ह विश्वामित्र उपपपाद स होवाच विश्वामित्रो भीम एव सौयवसिः शासेन विशिशासिषुः। अस्थान्मैतस्य पुत्रो भूर्ममैवोपेहि पुत्रताम् इति स होवाच शुनःशेपः स वै यथा नो ज्ञपया राजपुत्र तथा वद यथैवाङ्गिरसः सन्नुपेयां तव पुत्रताम् इति स होवाच विश्वामित्रो ज्येष्ठो मे त्वं पुत्राणां स्यास्तव श्रेष्ठा प्रजा स्यात्। उपेयादैवम्मे दायं तेन वै त्वोपमन्त्रय इति स होवाच शुनःशेपः संजानानेषु वै ब्रूयाः सौहर्द्याय मे श्रियै यथाहम्भरतऋषभोपेयां तव पुत्रताम् इत्यथ ह विश्वामित्रः पुत्रानामन्त्रयामास मधुछन्दाः शृणोतन ऋषभो रेणुरष्टकः। ये के च भ्रातरः स्थ नास्मै ज्यैष्ठ्याय कल्पध्वमिति॥7.17॥ (33.5) (140)

तस्य ह विश्वामित्रस्यैकशतं पुत्रा आसुः पञ्चाशदेव ज्यायांसो मधुच्छन्दसः पञ्चाशत्कनीयांसः। तद्ये ज्यायांसो न ते कुशलं मेनिरे ताननु व्याजहारान्तान्वः प्रजा भक्षीष्टेति त एतेऽन्ध्राः पुण्ड्राः शबराः पुलिन्दा मूतिबा इत्युदन्त्या बहवो वैश्वामित्रा दस्यूनां भूयिष्ठाः। स होवाच मधुच्छन्दाः पञ्चाशता सार्धं यन्नः पिता संजानीते तस्मिंस्तिष्ठामहे वयम्। पुरस्त्वा सर्वे कुर्महे त्वामन्वञ्चो वयं स्मसीति। अथ ह विश्वामित्रः प्रतीतः पुत्रांस्तुष्टाव। ते वै पुत्राः पशुमन्तो वीरवन्तो भविष्यथ। ये मानं मेऽनुगृह्णन्तो वीरवन्तमकर्त मा। पुर एत्रा वीरवन्तो देवरातेन गाथिनाः। सर्वे राध्याः स्थ पुत्रा एष वः सद्विवाचनम्। एष वः कुशिका वीरो देवरातस्तमन्वित। युष्मांश्च दायं म उपेता विद्यां यामु च विद्मसि। ते सम्यञ्चो वैश्वामित्राः सर्वे साकं सरातयः। देवराताय तस्थिरे धृत्यै श्रैष्ठ्याय गाथिनाः। अधीयत देवरातो रिक्थयोरुभयोर्ऋषिः। जह्नूनांचाधिपत्ये दैवे वेदे च गाथिनाम्। तदेतत्परऋक्शतगाथं शौनःशेपमाख्यानम्। तद्धोता राज्ञेऽभिषिक्तायाऽऽचष्टे। हिरण्यकशिपावासीन आचष्टे हिरण्यकशिपावासीनः प्रतिगृणाति यशो वै हिरण्यं यशसैवैनं तत्समर्धयति। ओमित्यृचः प्रतिगर एवं तथेति गाथाया ओमिति वै दैव तथेति मानुषं दैवेन चैवैनं तन्मानुषेण च पापादेनसः प्रमुञ्चति। तस्माद्यो राजा विजिती स्यादप्ययजमान आख्यापयेतैवैतच्छौनःशेपमाख्यानं न हास्मिन्नल्पं चनैनः परिशिष्यते। सहस्रमाख्यात्रे दद्याच्छतं प्रतिगरित्र एते चैवाऽऽसने श्वेतश्चाश्वतरीरथो होतुः। पुत्रकामा हाप्याख्यापयेरँल्लभन्ते ह पुत्राँल्लभन्ते ह पुत्रान्॥7.18॥ (33.6) (141)

1307

प्रजापतिर्यज्ञमसृजत यज्ञं सृष्टमनु ब्रह्मक्षत्रे असृज्येताम्ब्रह्मक्षत्रे अनु द्वय्यः प्रजा असृज्यन्त हुतादश्चाहुतादश्च ब्रह्मैवानु हुतादः क्षत्रमन्वहुताद एता वै प्रजा हुतादो यद्ब्राह्मणा अथैता अहुतादो यद्र ?ाजन्यो वैश्यः शूद्र स्ताभ्यो यज्ञ उदक्राम-त्तम्ब्रह्मक्षत्रे अन्वैतां यान्येव ब्रह्मण आयुधानि तैर्ब्रह्मान्वैद्यानि क्षत्रस्य तैः क्षत्रमेतानि वै ब्रह्मण आयुधानि यद्यज्ञायुधान्यथैतानि क्षत्रस्यायुधानि यदश्वरथः कवच इषुधन्व तं क्षत्रमनन्वाप्य न्यवर्ततायुधेभ्यो ह स्मास्य विजमानः पराङेवैत्यथैनम्ब्रह्मान्वैत्तमाप्नोत्तमाप्त्वा परस्तान्निरुध्यातिष्ठत्स आप्तः परस्ता-न्निरुद्धस्तिष्ठञ्ज्ञात्वा स्वान्यायुधानि ब्रह्मोपावर्तत तस्माद्धाप्येतर्हि यज्ञो ब्रह्म-ण्येव ब्राह्मणेषु प्रतिष्ठितोऽथैनत्क्षत्रमन्वागच्छत्तदब्रवीदुप मास्मिन्यज्ञे ह्वयस्वेति तत्तथेत्यब्रवीत्तद्वै निधाय स्वान्यायुधानि ब्रह्मण एवायुधैर्ब्रह्मणो रूपेण ब्रह्म भूत्वा यज्ञमुपावर्तस्वेति तथेति तत्क्षत्रं निधाय स्वान्यायुधानि ब्रह्मण एवा-युधैर्ब्रह्मणो रूपेण ब्रह्म भूत्वा यज्ञमुपावर्तत तस्माद्धाप्येतर्हि क्षत्रियो यजमानो निधायैव स्वान्यायुधानि ब्रह्मण एवायुधैर्ब्रह्मणो रूपेण ब्रह्म भूत्वा यज्ञमुपावर्तते॥7.19॥ (34.1) (142)


1312
अथातो देवयजनस्यैव याच्ञ्यश्तदाहुर्यद्ब्राह्मणो राजन्यो वैश्यो दीक्षिष्यमाणं क्षत्रियं देवयजनं याचति कं क्षत्रियो याचेदिति दैवं क्षत्रं याचेदित्याहुरादित्यो वै दैवं क्षत्रमादित्य एषाम्भूतानामधिपतिः स यदहर्दीक्षिष्यमाणो भवति तदहः पूर्वाह्ण एवोद्यन्तमादित्यमुपतिष्ठेतेदम्श्रेष्ठं ज्योतिषां ज्योतिरुत्तमम् देव सवित-र्देवयजनम्मे देहि देवयजनं इति देवयजनं याचति स यत्तत्र याचित उत्तरां सर्पत्यों तथा ददामीति हैव तदाह तस्य ह न का चन रिष्टिर्भवति देवेन सवित्रा प्रसूतस्योत्तरोत्तरिणीम्ह श्रियमश्नुतेऽश्नुते ह प्रजानामैश्वर्यमाधिपत्यं य एवमुपस्थाय याचित्वा देवयजनमध्यवसाय दीक्षते क्षत्त्रियः सन्॥7.20॥ (34.2) (143)


1317

अथात इष्टापूर्तस्यापरिज्यानिः क्षत्रियस्य यजमानस्य स पुरस्ताद्दीक्षाया आहुतिं जुहुयाच्चतुर्गृहीतमाज्यमाहवनीय इष्टापूर्तस्यापरिज्यान्यै पुनर्न इन्द्रो मघवा ददातु ब्रह्म पुनरिष्टम्पूर्तं दात्स्वाहेत्यथानूबन्ध्यायै समिष्टयजुषामुपरिष्टात्पुनर्नो अग्निर्जातवेदा ददातु क्षत्रम्पुनरिष्टम्पूर्तं दात्स्वाहेति सैषेष्टापूर्तस्यापरिज्यानिः क्षत्त्रियस्य यजमानस्य यदेते आहुती तस्मादेते होतव्ये॥7.21॥ (34.3) (144)


1321
तदु ह स्माह सौजात आराह्ळ्हरजीतपुनर्वण्यं वा एतद्यदेते आहुती इति यथा ह कामयेत तथैते कुर्याद्य इतोऽनुशासनं कुर्यादितीमे त्वेव जुहुयाद्ब्रह्म प्रपद्ये ब्रह्म मा क्षत्राद्गोपायतु ब्रह्मणे स्वाहेति तत्तदितीँ ब्रह्म वा एष प्रपद्यते यो यज्ञम्प्रपद्यते ब्रह्म वै यज्ञो यज्ञादु ह वा एष पुनर्जायते यो दीक्षते तम्ब्रह्म प्रपन्नं क्षत्रं न परिजिनाति ब्रह्म मा क्षत्राद्गोपायत्वित्याह यथैनम्ब्रह्म क्षत्राद्गोपायेद्ब्रह्मणे स्वाहेति तदेनत्प्रीणाति तदेनत्प्रीतं क्षत्राद्गोपायत्यथानूबन्ध्यायै समिष्टयजुषामुपरिष्टात्क्षत्रम्प्रपद्ये क्षत्रम्मा ब्रह्मणो गोपायतु क्षत्राय स्वाहेति तत्तदितीँ क्षत्रं वा एष प्रपद्यते यो राष्ट्रम्प्रपद्यते क्षत्रं हि राष्ट्रं तं क्षत्रम्प्रपन्नम्ब्रह्म न परिजिनाति क्षत्रम्मा ब्रह्मणो गोपायत्वित्याह यथैनं क्षत्रम्ब्रह्मणो गोपायेत्क्षत्राय स्वाहेति तदेनत्प्रीणाति तदेनत्प्रीतम्ब्रह्मणो गोपायति सैषेष्टापूर्तस्यैवापरिज्यानिः क्षत्त्रियस्य यजमानस्य यदेते आहुती तस्मादेते एव होतव्ये॥7.22॥ 34.4 (145)


1328
अथैन्द्रो वै देवतया क्षत्रियो भवति त्रैष्टुभश्छन्दसा पञ्चदशः स्तोमेन सोमो राज्येन राजन्यो बन्धुना स ह दीक्षमाण एव ब्राह्मणतामभ्युपैति यत्कृ-ष्णाजिनमध्यूहति यद्दीक्षितव्रतं चरति यदेनम्ब्राह्मणा अभिसंगच्छन्ते तस्य ह दीक्षमाणस्येन्द्र एवेन्द्रि यमादत्ते त्रिष्टुब्वीर्यम्पञ्चदशः स्तोम आयुः सोमो रा-ज्यम्पितरो यशस्कीर्तिमन्यो वा अयमस्मद्भवति ब्रह्म वा अयम्भवति ब्रह्म वा अयमुपावर्तत इति वदन्तः स पुरस्ताद्दीक्षाया आहुतिं हुत्वाहवनीयमुपतिष्ठेत नेन्द्राद्देवताया एमि न त्रिष्टुभश्छन्दसो न पञ्चदशत्स्तोमान्न सोमाद्र ?ाज्ञो न पि त्र्?याद्बन्धोर्मा म इन्द्र इन्द्रि यमादित मा त्रिष्टुब्वीर्यम्मा पञ्चदशः स्तोम आयुर्मा सोमो राज्यम्मा पितरो यशस्कीर्तिं सहेन्द्रि येण वीर्येणायुषा राज्येन यशसा बन्धुनाग्निमुपैमि गायत्रीं छन्दस्त्रिवृतं स्तोमं सोमं राजानम्ब्रह्म प्रपद्ये ब्राह्मणो भवामीति तस्य ह नेन्द्र इन्द्रि यमादत्ते न त्रिष्टुब्वीर्यं न पञ्चदशः स्तोम आयुर्न सोमो राज्यं न पितरो यशस्कीर्तिं य एवमेतामाहुतिं हुत्वाऽऽहवनीयमुपस्थाय दीक्षते क्षत्त्रियः सन्॥7.23॥ 34.5 (146)


1333
अथाग्नेयो वै देवतया क्षत्रियो दीक्षितो भवति गायत्रश्छन्दसा त्रिवृत्स्तोमेन ब्राह्मणो बन्धुना स होदवस्यन्नेव क्षत्रियतामभ्युपैति तस्य होदवस्यतोऽग्निरेव तेज आदत्ते गायत्री वीर्यं त्रिवृत्स्तोम आयुर्ब्राह्मणा ब्रह्म यशस्कीर्तिमन्यो वा अयमस्मद्भवति क्षत्रं वा अयम्भवति क्षत्रं वा अयमुपावर्तत इति वदन्तः सोऽनूबन्ध्यायै समिष्टयजुषामुपरिष्टाद्धुत्वाहुतिमाहवनीयमुपतिष्ठेत नाग्नेर्देव-ताया एमि न गाय त्र्?याश्छन्दसो न त्रिवृतः स्तोमान्न ब्रह्मणो बन्धोर्मा मेऽग्निस्तेज आदित मा गायत्री वीर्यम्मा त्रिवृत्स्तोम आयुर्मा ब्राह्मणा ब्रह्म यशस्कीर्तिं सह तेजसा वीर्येणायुषा ब्रह्मणा यशसा कीर्त्येन्द्रं देवतामुपैमि त्रिष्टुभं छन्दः पञ्चदशं स्तोमं सोमं राजानं क्षत्रम्प्रपद्ये क्षत्रियो भवामि देवाः पितरः पितरो देवा योऽस्मि स सन्यजे स्वम्म इदमिष्टं स्वम्पूर्तं स्वं श्रान्तं स्वं हुतम्तस्य मेऽयम-ग्निरुपद्र ष्टायं वायुरुपश्रोतासावादित्योऽनुख्यातेदमहं य एवास्मि सोऽस्मीति तस्य ह नाग्निस्तेज आदत्ते न गायत्री वीर्यं न त्रिवृत्स्तोम आयुर्न ब्राह्मणा ब्रह्म यशस्कीर्तिं य एवमेतामाहुतिं हुत्वाहवनीयमुपस्थायोदवस्यति क्षत्रियः सन्॥7.24॥ 34.6
 
    (147)
अथातो दीक्षाया आवेदनस्यैव तदाहुर्यद्ब्राह्मणस्य दीक्षितस्य ब्राह्मणो-ऽदीक्षिष्टेति दीक्षामावेदयन्ति कथं क्षत्रियस्यावेदयेदिति यथैवैतद्ब्राह्मणस्य दीक्षितस्य ब्राह्मणोऽदीक्षिष्टेति दीक्षामवेदयन्त्येवमेवैतत्क्षत्रियस्यावेदयेत्पुरो-हितस्यार्षेयेणेति तत्तदितीँ निधाय वा एष स्वान्यायुधानि ब्रह्माण एवायु-धैर्ब्रह्मणो रूपेणा ब्रह्म भूत्वा यज्ञमुपावर्तत तस्मात्तस्य पुरोहितस्यार्षेयेण दीक्षामावेदयेयुः पुरोहितस्यार्षेयेण प्रवरम्प्रवृणीरन् २५ ॥7.25॥

अथातो यजमानभागस्यैव तदाहुः प्राश्नीयात्क्षत्रियो यजमानभागां न प्राश्नीयादिति यत्प्राश्नीयादहुताद्धुतम्प्राश्य पापीयान्स्याद्यन्न प्राश्नीयाद्य-ज्ञादात्मानमन्तरियाद्यज्ञो वै यजमानभागः स ब्रह्मणे परिहृत्यः पुरोहितायतनं वा एतत्क्षत्रियस्य यद्ब्रह्मार्धात्मो ह वा एष क्षत्रियस्य यत्पुरोहित उपाह परोक्षेणैव प्राशितरूपमाप्नोति नास्य प्रत्यक्षम्भक्षितो भवति यज्ञ उ ह वा एष प्रत्यक्षं यद्ब्रह्मा ब्रह्मणि हि सर्वो यज्ञः प्रतिष्ठितो यज्ञे यजमानो यज्ञ एव तद्यज्ञमप्यत्यर्जन्ति यथाप्स्वापो यथाग्नावग्निं तद्वै नातिरिच्यते तदेनं न हिनस्ति तस्मात्स ब्रह्मणे परिहृत्योऽग्नौ हैके जुह्वति प्रजापतेर्विभान्नाम लोकस्तस्मिंस्त्वा दधामि सह यजमानेन स्वाहेति तत्तथा न कुर्याद्यजमानो वै यजमानभागो यजमानं ह सोऽग्नौ प्रवृणक्ति य एनं तत्र ब्रूयाद्यजमानमग्नौ प्रावार्क्षीः प्रास्याग्निः प्राणान्धक्ष्यति मरिष्यति यजमान इति शश्वत्तथा स्यात्तस्मात्तस्याशां नेयादाशां नेयात् २६ ४ ॥7.26॥

अध्याय ३५ खण्डः १-८
विश्वंतरो ह सौषद्मनः श्यापर्णान्परिचक्षाणो विश्यापर्णं यज्ञमाजह्रे तद्धानुबुध्य श्यापर्णास्तं यज्ञमाजग्मुस्ते ह तदन्तर्वेद्यासां चक्रिरे तान्ह दृष्ट्वोवाच पापस्य वा इमे कर्मणः कर्तार आसतेऽपूतायै वाचो वदितारो यच्छ्यापर्णा इमानुत्थापयतेमे मेऽन्तर्वेदि मासिषतेति तथेति तानुत्थापयां चक्रुस्ते होत्थाप्यमाना रुरुविरे ये तेभ्यो भूतवीरेभ्योऽसितमृगाः कश्यपानां सोमपीथमभिजिग्युः पारिक्षितस्य जनमेजयस्य विकश्यपे यज्ञे तैस्ते तत्र वीरवन्त आसुः कः स्वित्सोऽस्मा-कोऽस्ति वीरो य इमं सोमपीथमभिजेष्यतीत्ययमहमस्मि वो वीर इति होवाच रामो मार्गवेयो रामो हास मार्गवेयोऽनूचानः श्यापर्णीयस्तेषां होत्तिष्ठतामुवाचापि नु राजन्नित्थंविदं वेदेरुत्थापयन्तीति यस्त्वं कथं वेत्थ
ब्रह्मबन्धविति २७ ॥7.27॥

1355
यत्रेन्द्रं देवताः पर्यवृञ्जन्विश्वरूपं त्वाष्ट्रमभ्यमंस्त वृत्रमस्तृत यतीन्सालावृकेभ्यः प्रादादरुरुमघानवधीद्बृहस्पतेः प्रत्यवधीदिति तत्रेन्द्रः सोमपीथेन व्यार्ध्यते-न्द्र स्यानु व्यृद्धिं क्षत्रं सोमपीथेन व्यार्ध्यतापीन्द्रः सोमपीथेऽभवत्त्वष्टुरामुष्य सोमं तद्व्यृद्धमेवाद्यापि क्षत्रं सोमपीथेन स यस्तम्भक्षं विद्याद्यः क्षत्रस्य सोमपिथेन व्यृइद्धस्य येन क्षत्रं समृध्यते कथं तं वेदेरुत्थापयन्तीति वेत्थ ब्राह्मण त्वं तम्भक्षाम् वेद हीति तं वै नो ब्राह्मण ब्रूहीति तस्मै वै ते राजन्निति होवाच॥7.28॥ (35.2) (151)


1360
त्रयाणाम्भक्षाणामेकमाहरिष्यन्ति सोमं वा दधि वापो वा स यदि सोमम्ब्राह्मणानां स भक्षो ब्राह्मणांस्तेन भक्षेण जिन्विष्यसि ब्राह्मणकल्पस्ते प्रजायामाजनिष्यत आदाय्यापाय्यावसायी यथाकामप्रयाप्यो यदा वै क्षत्रियाय पापम्भवति ब्राह्मणकल्पोऽस्य प्रजायामाजायत ईश्वरो हास्माद्द्वितीयो वा तृतीयो वा ब्राह्मणतामभ्युपैतोः स ब्रह्मबन्धवेन जिज्यूषितोऽथ यदि दधि वैश्यानां स भक्षो वैश्यांस्तेन भक्षेण जिन्विष्यसि वैश्यकल्पस्ते प्रजायामा-जनिष्यतेऽन्यस्य बलिकृदन्यस्याद्यो यथाकामज्येयो यदा वै क्षत्रियाय पाप-म्भवति वैश्यकल्पोऽस्य प्रजायामाजायत ईश्वरो हास्माद्द्वितीयो वा तृतीयो वा वैश्यतामभ्युपैतोः स वैश्यतया जिज्यूषितोऽथ यद्यपः शूद्राणां स भक्षः शूद्रांस्तेन भक्षेण जिन्विष्यसि शूद्र कल्पस्ते प्रजायामाजनिष्यतेऽन्यस्य प्रेष्यः कामोत्थाप्यो यथाकामवध्यो यदा वै क्षत्रियाय पापम्भवति शूद्र कल्पोऽस्य प्रजायामाजायत ईश्वरो हास्माद्द्वितीयो वा तृतीयो वा शूद्रतामभ्युपैतोः स शूद्रतया जिज्यूषितः॥7.29॥ (35.3) (152)

एते वै ते त्रयो भक्षा राजन्निति होवाच येषमाशां नेयात्क्षत्त्रियो यजमानः। अथास्यैष स्वो भक्षो न्यग्रोधस्यावरोधाश्च फलानि चौदुम्बराण्याश्वत्थानि प्लाक्षाण्यभिषुणुयात्तानि भक्षयेत्सोऽस्य स्वो भक्षः। यतो वा अधि देवा यज्ञेनेष्ट्वा स्वर्गं लोकमायंस्तत्रैतांश्चमसान्न्युब्जंस्ते न्यग्रोधा अभवन्न्युब्जा इति हाप्येनानेतर्ह्याचक्षते कुरुक्षेत्रे ते ह प्रथमजा न्यग्रोधानां तेभ्यो हान्येऽधिजाताः। ते यन्न्यञ्चोऽरोहंस्तस्मान्यङ् रोहति न्यग्रोहो न्यग्रोहो वै नाम तन्न्यग्रोहं सन्तं न्यग्रोध इत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवाः॥7.30॥ (35.4) (153)

तेषां यश्चमसानां रसोऽवाङैत्तेऽवरोधा अभवन्नथ य ऊर्ध्वस्तानि फलानि। एष ह वाव क्षत्त्रियः स्वाद्भक्षान्नैति यो न्यग्रोधस्यावरोधांश्च फलानि च भक्षयत्युपाह परोक्षेणैव सोमपीथमाप्नोति नास्य प्रत्यक्षं भक्षितो भवति परोक्षमिव ह वा एष सोमो राजा यन्न्यग्रोधः परोक्षमिवैष ब्रह्मणो रूपमुपनिगच्छति यत्क्षत्त्रियः पुरोधयैव दीक्षयेव प्रवरेणैव। क्षत्त्रं वा एतद्वनस्पतीनां यन्न्यग्रोधः क्षत्त्रं राजन्यो नितत इव हीह क्षत्त्रियो राष्ट्रे वसन्भवति प्रतिष्ठित इव नितत इव न्यग्रोधोऽवरोहैर्भूम्यां प्रतिष्ठित इव। तद्यत्क्षत्त्रियो यजमानो न्यग्रोधस्यावरोधांश्च फलानि च भक्षयत्यात्मन्येव तत्क्षत्त्रं वनस्पतीनां प्रतिष्ठापयति क्षत्त्र आत्मानम्। क्षत्त्रे ह वै स आत्मनि क्षत्त्रं वनस्पतीनां प्रतिष्ठापयति न्यग्रोध इवावरोधैर्भूम्यां प्रति राष्ट्रे तिष्ठत्युग्रं हास्य राष्ट्रमव्यथ्यं भवति य एवमेतं भक्षं भक्षयति क्षत्त्रियो यजमानः॥7.31॥ (35.5) (154)

1375
अथ यदौदुम्बराण्यूर्जो वा एषोऽन्नाद्याद्वनस्पतिरजायत यदुदुम्बरो भौज्यं वा एतद्वनस्पतीनामूर्जमेवास्मिंस्तदन्नाद्यं च भौज्यं च वनस्पतीनां क्षत्रे दधात्यथ यदाश्वत्थानि तेजसो वा एष वनस्पतिरजायत यदश्वत्थः साम्राज्यं वा एतद्वनस्पतीनाम्तेज एवास्मिंस्तत्साम्राज्यं च वनस्पतीनां क्षत्रे दधात्यथ यत्प्लाक्षाणि यशसो वा एष वनस्पतिरजायत यत्प्लक्षः स्वाराज्यं च ह वा एतद्वैराज्यं च वनस्पतीनां यश एवास्मिंस्तत्स्वाराज्यवैराज्ये च वनस्पतीनां क्षत्रे दधात्येतान्यस्य पुरस्तादुपक्लृप्तानि भवन्त्यथ सोमं राजानं क्रीणन्ति ते राज्ञ एवावृतोपवसथात् प्रतिवेशैश्चरन्ति अथौपवसथ्यमहरेतान्यध्वर्युः पुरस्तादुपकल्पयेताधिषवणं चर्माधिषवणे फलके द्रोणकलशं दशापवित्रमद्रीन्पूतभृतं चाधवनीयं च स्थालीमुदञ्चनं चमसं च तद्यदेतद्राजानम्प्रातरभिषुण्वन्ति तदेनानि द्वेधा विगृह्णीयादभ्यन्यानि सुनुयान्माध्यंदिनायान्यानि परिशिंष्यात्॥7.32॥ (35.7) (156)


1380
तद्यत्रैतांश्चमसानुन्नयेयुस्तदेतं यजमानचमसमुन्नयेत्तस्मिन्द्वे दर्भतरुणके प्रास्ते स्यातां तयोर्वषट्कृतेऽन्तःपरिधि पूर्वम्प्रास्येद्दधिक्राव्णो अकारिषं इत्येतयर्चा सस्वाहकारयानुवषट्कृतेऽपरमा दधिक्राः शवसा पञ्च कृष्टीरिति तद्यत्रैतांश्चम-सानाहरेयुस्तदेतं यजमानचमसमाहरेत्तान्यत्रोद्गृह्णीयुस्तदेनमुपोद्गृह्णीयात्तद्यदेळां होतोपह्वयेत यदा चमसम्भक्षयेदथैनमेतया भक्षयेद्यदत्र शिष्टं रसिनः सुतस्य यदिन्द्रो अपिबच्छचीभिः इदं तदस्य मनसा शिवेन सोमं राजानमिह भक्षयामीति शिवो ह वा अस्मा एष वानस्पत्यः शिवेन मनसा भक्षितो भवत्युग्रं हास्य राष्ट्रमव्यथ्यम्भवति य एवमेतम्भक्षम्भक्षयति क्षत्रियो यजमानः शं ना एधि हृइदे पीतः पीतः प्र ण आयुर्जीवसे सोम तारीरित्यात्मनः प्रत्यभिमर्श ईश्वरो ह वा एषोऽप्रत्यभिमृष्टो मनुष्यस्यायुः प्रत्यवहर्तोरनर्हन्मा भक्षयतीति तद्यदेतेनात्मानमभिमृशत्यायुरेव तत्प्रतिरत आ प्यायस्व समेतु ते सं ते पयांसि समु यन्तु वाजा इति चमसमाप्याययत्यभिरूपाभ्यां यद्यज्ञेऽभिरूपं तत्समृद्धम्॥7.33॥ (35.7) (156)

तद्यत्रैतांश्चमसान्सादयेयुस्तदेतं यजमानचमसं सादयेतान्यत्र प्रकम्पयेयुस्तदेनमनु प्रकम्येदथैनमाहृतं भक्षयेन्नराशंसपीतस्य देव सोम ते मतिविद ऊमैः पितृभिर्भक्षितस्य भक्षयामीति प्रातःसवने नाराशंसो भक्ष ऊर्वैरिति माध्यंदिने काव्यैरिति तृतीयसवने। ऊमा वै पितरः प्रातःसवन ऊर्वा माध्यंदिने काव्यास्तृतीयसवने तदेतत्पितॄनेवामृतान्सवनभाजः करोति। सर्वो हैव सोऽमृत इति ह स्माऽऽह प्रियव्रतः सोमापो यः कश्च सवनभागिति। अमृता ह वा अस्य पितरः सवनभाजो भवन्त्युग्रं हास्य राष्ट्रमव्यथ्यं भवति य एवमेतं भक्षं भक्षयति क्षत्त्रियो यजमानः। समान आत्मनः प्रत्यभिमर्शः समानमाप्यायनं चमसस्य। प्रातःसवनस्यैवाऽऽवृता प्रातःसवने चरेयुर्माध्यंदिनस्य माध्यंदिने तृतीयसवनस्य तृतीयसवने। तमेतमेतं भक्षं प्रोवाच रामो मार्गवेयो विश्वंतराय सौषद्मनाय। तस्मिन्होवाच प्रोक्ते सहस्रमु ह ब्राह्मण तुभ्यं दद्मः सश्यापर्ण उ मे यज्ञ इति। एतमु हैव प्रोवाच तुरः कावषेयो जनमेजयाय पारिक्षितायैतमु हैव प्रोचतुः पर्वतनारदौ सोमकाय साहदेव्याय सहदेवाय सार्ञ्जयाय बभ्रवे दैवावृधाय भीमाय वैदर्भाय नग्नजिते गान्धारायैतमु हैव प्रोवाचाग्निः सनश्रुतायारिंदमाय क्रतुविदे जानकय एतमु हैव प्रोवाच वसिष्ठः सुदासे पैजवनाय ते ह ते सर्व एव महज्जग्मुरेतं भक्षं भक्षयित्वा सर्वे हैव महाराजा आसुरादित्य इव ह स्म श्रियां प्रतिष्ठितास्तपन्ति सर्वाभ्यो दिग्भ्यो बलिमावहन्तः। आदित्य इव ह वै श्रियां प्रतिष्ठिस्तपति सर्वाभ्यो दिग्भ्यो बलिमावहत्युग्रं हास्य राष्ट्रमव्यथ्यं भवति य एवमेतं भक्षं भक्षयति क्षत्त्रियो यजमानो यजमानः॥॥7.34॥ (35.8) (157)