प्रमुखा विकल्पसूचिः उद्घाट्यताम्

ततः सोमप्रभा प्रातस्तद्विनोदोपपादिनीम् ।
न्यस्तदारुमयानेकमायासद्यन्त्रपुत्रिकाम् ।। १
करण्डिकां समादाय सा नभस्तलचारिणी ।
तस्याः कलिङ्गसेनाया निकटं पुनराययौ ।। २
कलिङ्गसेनाप्यालोक्य तामानन्दाश्रुनिर्भरा ।
उत्थाय कण्ठे जग्राह पार्श्वासीनामुवाच च ।। ३
त्वदीयमुखपूर्णेन्दुदर्शनेन विना सखि ।
तमोमयी त्रियामाद्य शतयामेव मे गता ।। ४
तज्जन्मान्तरसंबन्धः कीदृशः स्यात्त्वया मम ।
यस्यायं परिणामोऽद्य त्वं देवि वेत्सि चेद्वद ।। ५
तच्छ्रुत्वा राजपुत्रीं तामेवं सोमप्रभाब्रवीत् ।
ईदृङ्मे नास्ति विज्ञानं नहि जातिं स्मराम्यहम् ।। ६
न चात्र मुनयोऽभिज्ञाः केचित्तु यदि जानते ।
तैः कृत तादृशं पूर्वं परतत्त्वविदश्च ते ।। ७
एवमुक्तवतीं भूयः प्रेमविश्रम्भपेशलम् ।
कलिङ्गसेना पप्रच्छ विजने तां सकौतुका ।।
ब्रूहि मे सखि कस्येह देवजातेः पितुस्त्वया ।
जन्मनालंकृतो वंशो मुक्तयेव सुवृत्तया ।। ९
जगत्कर्णामृतं किं च तव नाम सुलक्षणे ।
करण्डिका किमर्थेयमस्यामस्ति च वस्तु किम् ।। १०
एवं कलिङ्गसेनायाः श्रुत्वा सप्रणयं वचः ।
सोमप्रभा सा सर्वं तत्क्रमाद्वक्तुं प्रचक्रमे ।। ११
अस्ति त्रिजगति ख्यातो मयो नाम महासुरः ।
आसुरं भावमुत्सृज्य शौरिं स शरणं श्रितः ।। १२
तेन दत्ताभयश्चक्रे स च वज्रभृतः सभाम् ।
दैत्याश्च देवपक्षोऽयमिति तं प्रति चुक्रुधुः ।। १३
तद्भयात्तेन विन्ध्याद्रौ मायाविवरमन्दिरम् ।
अगम्यमसुरेन्द्राणां बह्वाश्चर्यमयं कृतम् ।। १४
तस्यावां द्वे दुहितरौ मयस्य ब्रह्मचारिणी ।
ज्येष्ठा स्वयंप्रभा नाम कुमारी तदुहस्थिता ।। १५
अहं सोमप्रभा नाम कनिष्ठा सा त्वहं सखि ।
नलकूबरसंज्ञाय दत्ता धनदसूनवे ।। १६
पित्रा च शिक्षितास्मीह मायायन्त्राण्यनेकधा ।
त्वत्प्रीत्या चेयमानीता पूर्णा तव करण्डिका ।। १७
इत्युक्त्वादर्शयत्तस्याः प्रोद्घाट्य बहुकौतुकाः ।
सोमप्रभा काष्ठमयीः स्वमायायन्त्रपुत्रिकाः ।। १८
कीलिकाहतिमात्रेण काचिद्गत्वा विहायसा ।
तदाज्ञया पुष्पमालामादाय द्रुतमाययौ ।। १९
काचित्तथैव पानीयमानिनाय यदृच्छया ।
काचिन्ननर्त काचिच्च कथालापमथाकरोत् ।। २०
इत्यादिभिर्महाश्चर्यैः कंचित्कालं विनोद्य ताम् ।
सुरक्षितां स्थापयित्वा तां च यन्त्रकरण्डिकाम् ।। २१
कलिङ्गसेनामामन्त्र्य सोत्का सोमप्रभा ततः ।
ययौ भर्तृपरायत्ता नभसा निजमन्दिरम् ।। २२
कलिङ्गसेनाप्याश्चर्यदर्शनध्वस्तया क्षुधा ।
प्रहृष्टा तदहस्तस्थौ सर्वाहारपराङ्मुखी ।। २३
तद्दृष्ट्वा च ततस्तस्या जननी रोगशङ्किनी ।
आनन्दाख्येन भिषजा निरूप्याविकलोदिता ।। २४
कुतोऽपि हेतोर्हर्षेण नष्टास्याः क्षुन्न रोगतः ।
उत्फुल्लनेत्रं वक्त्येतदस्या हसदिवाननम् ।। २५
इत्युक्ता भिषजा हर्षहेतुं तज्जननी च सा ।
पप्रच्छ तां यथावृत्तं सापि तस्यै तदब्रवीत् ।। २६
ततः श्लाघ्यसखी सङ्गहृष्टां मत्वाभिनन्द्य च ।
आहारं कारयामास जननी तां यथोचितम् ।। २७
अथान्येद्युरुपागत्य विदितार्था क्रमेण सा ।
कलिङ्गसेनां तामेवं रहः समप्रभाभ्यधात् ।। २८
मया त्वत्सख्यमावेद्य त्वत्पार्श्वागमनेऽन्वहम् ।
अनुज्ञा ज्ञानिनो भर्तुर्गृहीता विदितार्थतः ।। २९
तस्मात्त्वमप्यनुज्ञाता पितृभ्यां भव सांप्रतम् ।
येन स्वैरं मया साकं निःशङ्का विहरिष्यसि ।। ३०
एवमुक्तवतीं हस्ते तां गृहीत्वैव तत्क्षणम् ।
कलिङ्गसेना स्वपितुर्मातुश्च निकटं ययौ ।। ३१
तत्र नामान्वयाख्यानपूर्वं चैतामदर्शयत् ।
पित्रे कलिङ्गदत्ताय राज्ञे सोमप्रभां सखीम् ।। ३२
मात्रे च तारादत्तायै तथैवैतामदर्शयत् ।
तौ च दृष्ट्वा यथाख्यानमेनामभिननन्दतुः ।। ३३
ऊचतुश्चाकृतिप्रीतौ दंपती तावुभौ ततः ।
सत्कृत्य दुहितृस्नेहात्तां महासुरसुन्दरीम् ।। ३४
वत्से कलिङ्गसेनेयं हस्ते तव समर्पिता ।
तदिदानीं यथाकाममुभे विहरतां युवाम् ।। ३५
एतत्तयोर्वचो द्वे चाप्यभिनन्द्य निरीयतुः ।
समं कलिङ्गसेना च सा च सोमप्रभा ततः ।। ३६
जग्मतुश्च विहाराय विहारं राजनिर्मितम् ।
आनिन्यतुश्च तां तत्र मायायन्त्रकरण्डिकाम् ।। ३७
ततो यन्त्रमयं यक्षं गृहीत्वा प्राहिणोत्तदा ।
सोमप्रभा स्वप्रयोगाद्बुद्धार्चानयनाय सा ।। ३८
स यक्षो नभसा गत्वा दूरमध्वानमाययौ ।
आदाय मुक्तासद्रत्नहेमाम्बुरुहसंचयम् ।। ३९
तेनाभिपूज्य सुगतान्भासयामास तत्र सा ।
सोमप्रभा सनिलयान्सर्वाश्चर्यप्रदायिना ।। ४०
तद्बुद्ध्वागत्य दृष्ट्वा च विस्मितो महिषीसखः ।
राजा कलिङ्गदत्तस्तामपृच्छद्यन्त्रचेष्टितम् ।। ४१
ततः सोमप्रभावादीद्राजन्नेतान्यनेकधा ।
मायायन्त्रादिशिल्पानि पित्रा सृष्टानि मे पुरा ।। ४२
यथा चेदं जगद्यन्त्रं पञ्चभूतात्मकं तथा ।
यन्त्राण्येतानि सर्वाणि शृणु तानि पृथक्पृथक् ।। ४३
पृध्वीप्रधानं यन्त्र यद्द्वारादि पिदधाति तत् ।
पिहितं तेन शक्नोति न चोद्धाटयितुं परः ।। ४४
आकारस्तोययन्त्रोत्थः सजीव इव दृश्यते ।
तेजोमयं तु यद्यन्त्रं तज्ज्वालाः परिमुञ्चति ।। ४५
वातयन्त्रं च कुरुते चेष्टा गत्यागमादिकाः ।
व्यक्तीकरोति चालापं यन्त्रमाकाशसंभवम् ।। ४६
मया चैतान्यवाप्तानि तातात्किं त्वमृतस्य यत् ।
रक्षकं चक्रयन्त्रं तत्तातो जानाति नापरः ।। ४७
इति तस्या वदन्त्यास्तद्वचः श्रद्दधतामिव ।
मध्याह्ने पूर्यमाणानां शङ्खानामुदभूद्ध्वनिः ।। ४८
ततः स्वोचितमाहारं दातुं विज्ञाप्य तं नृपम् ।
प्राप्यानुज्ञां विमाने तां सानुगां यन्त्रनिर्मिते ।। ४९
कलिङ्गसेनामादाय प्रतस्थे गगनेन सा ।
सोमप्रभा पितृगृहं ज्येष्ठायाः स्वसुरन्तिकम् ।। ५०
क्षणाच्च प्राप्य विन्ध्याद्रिवर्ति तत्पितृमन्दिरम् ।
तस्याः स्वयंप्रभायाश्च पार्श्वं तामनयत्स्वसुः ।। ५१
तत्रापश्यज्जटाजूटमालिनीं तां स्वयंप्रभाम् ।
कलिङ्गसेना लम्बाक्षमालां सा ब्रह्मचारिणीम् ।। ५२
सुसिताम्बरसंवीतां हसन्तीमिव पार्वतीम् ।
कामभोगमहाभोगगृहीतोग्रतपःक्रियाम् ।। ५३
सापि सोमप्रभाख्यातां प्रणतां तां नृपात्मजाम् ।
स्वयंप्रभा कृतातिथ्या संविभेजे फलाशनैः ।। ५४
सखि भुक्तैः फलैरेतैर्जरा ते न भविष्यति ।
विनाशिन्यस्य रूपस्य पद्मस्येव हिमाहतिः ।। ५५
एतदर्थमिह स्नेहादानीता भवती मया ।
इति सोमप्रभा चैतां राजपुत्रीमभाषत ।। ५६
ततः कलिङ्गसेनात्र तान्यभुङ्क्त फलानि सा ।
सद्योऽमृतरसासारसिक्ताङ्गीव बभूव च ।। ५७
ददर्श च पुरोद्यानं भ्रमन्ती तत्र कौतुकात् ।
ससुवर्णाब्जवापीकं सुधास्वादुफलद्रुमम् ।। ५८
हैमचित्रखगाकीर्णं सन्मणिस्तम्भविभ्रमम् ।
भित्तिबुद्धिकरं शून्ये भित्तौ शून्यप्रतीतिदम् ।। ५९
जले स्थलधियं कुर्वत्स्थले च जलबुद्धिकृत् ।
लोकान्तरमिवापूर्वं मयमायाविनिर्मितम् ।। ६०
प्रविष्टपूर्वं प्लवगैः पुरा सीतागवेषिभिः ।
स्वयंप्रभाप्रसादेन चिरात्संप्राप्तनिर्गमैः ।। ६१
ततस्तदद्भुतपुरप्रकामालोकविस्मिताम् ।
अजराभाजनीभूतां तामापृच्छ्य स्वयंप्रभाम् ।। ६२
कलिङ्गसेनामारोप्य यन्त्रे भूयो विहायसा ।
सोमप्रभा तक्षशिलामानिनाय स्वमन्दिरम् ।। ६३
तत्र सा तद्यथावस्तु पित्रोः सर्वमवर्णयत् ।
कलिङ्गसेना तौ चापि परं संतोषमीयतुः ।। ६४
इत्थं तयोर्द्वयोः सख्योर्गच्छत्सु दिवसेष्वथ ।
ऊचे कलिङ्गसेनां तामेवं सोमप्रभैकदा ।। ६५
यावन्न परिणीता त्वं तावत्सख्यं मम त्वया ।
त्वद्भर्तृभवने पश्चान्मम स्यादागमः कुतः ।। ६६
न दृश्यो हि सखीभर्ता नाङ्गीकार्यः कथंचन ।
अवेर्वृकीव स्नुषायाः श्वश्रूर्मांसानि खादति ।। ६७
तथा च शृणु वच्म्येतां कीर्तिसेनाकथां तव ।
.... ।। ६८
पुरे पाटलिपुत्राख्ये धुर्यो धनवतां वणिक् ।
नाम्ना यथार्थेन पुरा धनपालित इत्यभूत् ।। ६९
कीर्तिसेनाभिधाना च तस्याजायत कन्यका ।
रूपेणानन्यसदृशी प्राणेभ्योऽप्यधिकप्रिया ।। ७०
सा च तेन समानाय मगधेषु महर्द्धये ।
देवसेनाभिधानाय दत्ताभूद्वणिजे सुता ।। ७१
तस्य चातिसुवृत्तस्य देवसेनस्य दुर्जनी ।
विपन्नजनकस्यासीज्जननी स्वामिनी गृहे ।। ७२
सा स्नुषां कीर्तिसेनां तां पश्यन्ती पतिसंमताम् ।
क्रुधा ज्वलन्ती पुत्रस्य परोक्षमकदर्थयत् ।। ७३
कीर्तिसेना च सा पत्युर्वक्तुं नैव शशाक तत् ।
कष्टा हि कुटिलश्वश्रूपरतन्त्रवधूस्थितिः ।। ७४
एकदा स पतिस्तस्या देवसेनो वणिज्यया ।
गन्तुं प्रववृते बन्धुप्रेरितो वलभीं पुरीम् ।। ५
ततः सा कीर्तिसेना तं पतिमेवमभाषत ।
इयच्चिरं मया नैतदार्यपुत्र तवोदितम् ।। ७६
कदर्थयति मामेषा तवाम्बा त्वय्यपि स्थिते ।
त्वयि तु प्रोषिते किं मे कुर्यादिति न वेद्म्यहम् ।। ७७
तच्छ्रुत्वा स समुद्भ्रान्तस्तत्स्नेहात्सभयः शनैः ।
देवसेनस्तदा गत्वा मातरं प्रणतोऽब्रवीत् ।। ७८
कीतिसेनाधुना हस्ते तवाम्ब प्रस्थितस्य मे ।
नास्या निःस्नेहता कार्या कुलीनतनया ह्यसौ ।। ७९
तच्छ्रुत्वा कीर्तिसेनां तामाहूयोद्वर्तितेक्षणा ।
तं देवसेनं माता सा तत्कालं समभाषत ।। ८०
कृतं मया किं पृच्छैतामेव त्वां प्रेरयत्यसौ ।
गृहभेदकरी पुत्र मम तु द्वौ युवां समौ ।। ८१
श्रुत्वैतच्छान्तचित्तोऽभूत्तत्कृते स वणिग्वरः ।
व्याजसप्रणयैर्वाक्यैर्जनन्या यो न वञ्च्यते ।। ८२
कीर्तिसेना तु सा तूष्णीमासीदुद्वेगसस्मिता ।
देवसेनस्तु सोऽन्येद्युः प्रतस्थे वलभीं वणिक् ।। ८३
ततस्तद्विरहक्लेशजुषस्तस्याः क्रमेण सा ।
तन्माता कीर्तिसेनाया दासीः पार्श्वान्न्यवारयत् ।। ८४
कृत्वा च गृहचारिण्या स्वचेटया सह संविदम् ।
आनाय्याभ्यन्तरं गुप्तं तां विवस्त्रां चकार सा ।। ८१२
पापे हरसि मे पुत्रमित्युक्त्वा सकचग्रहम् ।
पादैर्दन्तैर्नखैश्चैतां चेट्या सममपाटयत् ।। ८६
चिक्षेप चैनां भूगेहे सपिधाने दृढार्गले ।
तत्रत्येऽभ्युद्धृताशेषपूर्वजातार्थसंचये ।। ८७
न्यधाच्च तस्यास्तत्रान्तः प्रत्यहं सा दिनात्यये ।
पापा तादृगवस्थाया भक्तस्यार्धशरावकम् ।। ८८
अचिन्तयच्च दूरस्थे पत्यावेवं सता स्वयम् ।
इमां व्युत्थाय यातेति वक्ष्यामि दिवसैरिति ।। ८९
इत्थं भूमिगृहे क्षिप्ता श्वश्र्वा पापकृता तया ।
सुखार्हा रुदती तत्र कीर्तिसेना व्यचिन्तयत् ।। ९०
आढ्यः पतिः कुले जन्म सौभाग्यं साधुवृत्तता ।
तदप्यहो मम श्वश्रूप्रसादादीदृशी विपत् ।। ९१
एतदर्थं च निन्दन्ति कन्यानां जन्म बान्धवाः ।
श्वश्रूननन्दृसंत्रासमसौभाग्यादिदूषितम् ।। ९२
इति शोचन्त्यकस्मात्सा कीर्तिसेना खनित्रकम् ।
लेभेऽस्माद्भूगृहाद्धात्रा मनःशल्यमिवोद्धृतम् ।। ९३
अयोमयेन तेनात्र सुरुङ्गां निचखान सा ।
तावद्यावत्तयोत्तस्थे दैवात्स्वाद्वासवेश्मनः ।। ९४
ददर्श च प्रदीपेन प्राक्तनेनाथ तद्गृहम् ।
अक्षीणेन कृतालोका धर्मेणेव निजेन सा ।। ९५
आदायातश्च वस्त्राणि स्वं वर्णं च निशाक्षये ।
निर्गत्यैव ततो गुप्तं जगाम नगराद्बहिः ।। ९६
एवंविधाया गन्तुं मे न युक्तं पितृवेश्मनि ।
किं वक्ष्ये तत्र लोकश्च प्रत्येष्यति कथं मम ।। ९७
अतः स्वयुक्त्या गन्तव्यं पत्युरेवान्तिकं मया ।
इहामुत्र च साध्वीनां पतिरेका गतिर्यतः ।। ९८
इत्यालोच्य चकारात्र तडागाम्बुकृताप्लवा ।
राजपुत्रस्य वेषं सा कीर्तिसेना सुबृंहितम् ।। ९९
ततो गत्वापणे दत्त्वा किंचिन्मूल्येन काञ्चनम् ।
कस्यापि वणिजो गेहे दिने तस्मिन्नुवास सा ।। १००
अन्येद्युस्तत्र चक्रे च वलभीं गन्तुमिच्छता ।
समुद्रसेननाम्ना सा वणिजा सह संस्तवम् ।। १०१
तेन साकं सभृत्येन प्राप्तुं प्राक्प्रस्थितं पतिम्।
सद्राजपुत्रवेषा सा प्रतस्थे वलभीं प्रति ।। १०२
जगाद तं च वणिजं गोत्रजैरस्मि बाधितः ।
तत्त्वया सह गच्छामि वलभीं स्वजनान्तिकम् ।। १०३
तच्छ्रुत्वा स वणिक्पुत्रो मार्गे पर्यचरच्च ताम् ।
राजपुत्रो ध्रुवं भव्यः कोऽप्यसाविति गौरवात् ।। १०४
ययौ च स वणिक्सार्थः पुरस्कृत्याटवीपथम् ।
बहुशुल्कभयत्यक्तमार्गान्तरजनाश्रितम् ।। १०५
दिनैः प्राप्याटवीद्वारं सायं सार्थे कृतस्थितौ ।
चक्रे कृतान्तदूतीव शब्दं भयकरं शिवा ।। १०६
तदभिज्ञे वणिग्लोके चौराद्यापातशङ्किनि ।
हस्ते गृहीतशस्त्रेषु सर्वतो रिपुरक्षिषु ।। १०७
ध्वान्ते धावति दस्यूनामग्रयायिबलोपमे ।
कीर्तिसेना तदालोक्य पुंवेषा सा व्यचिन्तयत् ।। १०८
अहो दुष्कृतिनां कर्म संतानेनैव वर्धते ।
पश्य श्वश्रूकृता व्यापदिहापि फलिता मम ।। १०९
प्रथमं मृत्युनेवाहं श्वश्रूकोपेन भक्षिता ।
प्रविष्टा भूगृहं पश्चाद्गर्भवासमिवापरम् ।। ११०
दैवात्ततोऽपि निष्क्रान्ता जातेव पुनरप्यहम् ।
इहाद्यागत्य संप्राप्ता भूयो जीवितसंशयम् ।। १११
चौरैर्यदि हतास्मीह तच्छ्वश्रूर्मम वैरिणी ।
अन्यासक्ता गता क्वापीत्यभिधास्यति मे पतिम् ।। ११२
स्त्रीति ज्ञातास्मि केनापि हृतवस्त्रान्तरा यदि ।
ततो मृत्युर्मम श्रेयान्न पुनः शीलविप्लवः ।। ११३
तेन चात्मैव मे रक्ष्यो नापेक्ष्योऽयं सुहृद्वणिक् ।
सतीधर्मो हि सुस्त्रीणां चिन्त्यो न सुहृदादयः ।। ११४
इति निश्चित्य सा प्राप चिन्वती तरुमध्यगम् ।
गर्तं गृहाकृतिं दत्तं कृपयेवान्तरं भुवा ।। ११५
तत्र प्रविश्य चाच्छाद्य तृणपर्णादिभिस्तनुम् ।
तस्थौ संधार्यमाणा सा पतिसंगमवाञ्छया ।। ११६
ततो निशीथे सहसा निपत्यैवोद्यतायुधा ।
चौरसेना सुमहती सार्थं वैष्टयति स्म तम् ।। ११७
निनदद्दस्युकालाभ्रं शस्त्रज्वालाचिरप्रभम् ।
ततः सरुधिरासारं तत्राभूद्युद्धदुर्दिनम् ।। ११८
हत्वा समुद्रसेनं च सानुगं तं वणिक्पतिम् ।
बलिनोऽथ ययुश्चौरा गृहीतधनसंचयाः ।। ११९
तदा च कीर्तिसेना सा श्रुतकोलाहला बलात् ।
यन्न मुक्तासुभिस्तत्र कारणं केवलो विधिः ।। १२०
ततो निशायां यातायामुदिते तिग्मतेजसि ।
निर्जगाम च सा तस्माद्गर्ताद्विटपमध्यतः ।। १२१
कामं भर्त्रेकभक्तानामविस्खलिततेजसाम् ।
देवता एव साध्वीनां त्राणमापदि कुर्वते ।। १२२
यत्तत्र निर्जनेऽरण्ये सिंहो दृष्ट्वापि तां जहौ ।
न परं यावदभ्येत्य कुतश्चित्कोऽपि तापसः ।। १२३
पृष्टोदन्तां समाश्वास्य जलपानं कमण्डलोः ।
दत्त्वोपदिश्य पन्थानं तस्याः क्वापि तिरोदधे ।। १२४
ततस्तृप्तामृतेनेव क्षुत्पिपासाविनाकृता ।
तापसोक्तेन मार्गेण प्रतस्थे सा पतिव्रता ।। १२५
अथास्तशिखरारूढं प्रसारितकरं रविम् ।
रात्रिमेकां क्षमस्वेति वदन्तमिव वीक्ष्य सा ।। १२६
महतोऽरण्यवृक्षस्य गृहाभं मूलकोटरम् ।
विवेश पिदधे चास्य द्वारमन्येन दारुणा ।। १२७
प्रदोषे च ददर्शात्र द्वारच्छिद्रान्तरेण सा ।
राक्षसीमागतां घोरां बालकैरन्वितां सुतैः ।। १२८
तीर्णान्यविपदद्याहमनया भक्षितेति सा ।
त्रस्ता यावत्तरौ तावदारूढा तत्र राक्षसी ।। १२९
अन्वारूढाश्च तत्पुत्रास्तत्र तां किल राक्षसीम् ।
अब्रुवन्नम्ब नः किंचिद्भक्ष्यं देहीति तत्क्षणम् ।। १३०
ततः सा राक्षसी बालांस्तानुवाचाद्य पुत्रकाः ।
महाश्मशानं गत्वापि भक्ष्यं नासादितं मया ।। १३१
याचितो डाकिनीसंघोऽप्यत्र भागमदान्न मे ।
तत्खेदादथ विज्ञप्य याचितो भैरवो मया ।। १३२
स च नामान्वयौ पृष्ट्वा देवो मामेवमादिशत् ।
भयंकरि कुलीनासि खरदूषणवंशजा ।। १३३
तदितो नातिदूरस्थं वसुदत्तपुरं व्रज ।
तत्रास्ते वसुदत्ताख्यो राजा धर्मपरो महान् ।। १३४
यः कृत्स्नामटवीमेतां पर्यन्तस्थोऽभिरक्षति ।
स्वयं गृह्णाति शुल्कं च निगृह्णाति च तस्करान् ।। १३५
तस्याटव्यां च मृगयाश्रमसुप्तस्य भूपतेः ।
अज्ञातैव प्रविष्टान्तः कर्णे शतपदी लघु ।। १३६
सा च कालेन बहुशः प्रसूतास्य शिरोन्तरे ।
तेन रोगेण राजासौ स्नायुशेषोऽद्य वर्तते ।। १३७
वैद्याश्चास्य न तं व्याधिं विदन्त्यन्योऽपि कोऽपि चेत् ।
न ज्ञास्यति ततश्चैष दिनैरल्पैर्विपत्स्यते ।। १३८
तस्य मांसानि भुञ्जीथा विपन्नस्य स्वमायया ।
भक्षितैस्तैर्हि षण्मासान्परितृप्ता भविष्यसि ।। १३९
इत्थं मे भैरवेणापि संविभागः ससंशयः ।
कालवांश्चाद्य विहितस्तत्पुत्राः किं करोम्यहम् ।। १४०
एवं तयोक्ता राक्षस्या पुत्रास्ते तामथाब्रुवन् ।
ज्ञातापनीते रोगेऽस्मिन्किं स राजाम्ब जीवति ।। १४१
कथं च तादृशो रोगो वद तस्यापनीयते ।
एवमुक्तवतस्तान्सा तनयान्राक्षसी जगौ ।। १४२
ज्ञातापनीते रोगेऽस्मिञ्जीवत्येव स भूपतिः ।
श्रूयतां च यथा सोऽस्य महारोगोऽपनीयते ।। १४३
शिरः पूर्वं घृताभ्यक्तं तस्य न्यस्तोष्णसर्पिषा ।
कृत्वा मध्याह्नकठिने स्थापितस्यातपे चिरम् ।। १४४
निवेश्य कर्णकुहरे सुषिरां वंशनाडिकाम् ।
शीताम्बुघटपृष्ठस्थशरावच्छिद्रसङ्गिनीम् ।। १४५
तेन स्वेदातपक्लान्ता निर्गत्यास्य शिरोन्तरात् ।
कर्णरन्ध्रेण तेनैव वंशनाडीं प्रविश्य ताम् ।। १४६
घटे शीताभिलाषिण्यः शतपद्यः पतन्ति ताः ।
एवं स नृपतिस्तस्मान्महारोगाद्विमुच्यते ।। १४७
इत्युक्त्वा राक्षसी पुत्रान्वृक्षस्थान्विरराम सा ।
कीर्तिसेना च तत्सर्वमशृणोत्कोटरस्थिता ।। १४८
श्रुत्वा च चिन्तयामास निस्तरिष्यामि चेदितः ।
तद्गत्वैवैतया युक्त्या जीवयिष्यामि तं नृपम् ।। १४९
एतामेवाटवीं सोऽल्पशुल्कः प्रान्तस्थितोऽवति ।
तत्सौकर्याच्च वणिजः सर्वे यान्त्यमुना पथा ।। १५०
एतत्समुद्रसेनोऽपि स्वर्गामी सोऽब्रवीद्वणिक् ।
तदेतेनैव मार्गेण स मे भर्तागमिष्यति ।। १५१
अतो गत्वाटवीप्रान्ते वसुदत्तपुरे नृपम् ।
रोगादुत्तार्य तत्रस्था प्रतीक्षे भर्तुरागमम् ।। १५२
एयं विचिन्तयन्ती सा कृच्छ्रात्तामनयन्निशाम् ।
प्रातर्नष्टेषु रक्षःसु निरगात्कोटरात्ततः ।। १५३
क्रमात्ततोऽटवीमध्ये यान्ती पुरुषवेषभृत् ।
प्राप्तेऽपराह्णे गोपालमेकं साधुं ददर्श सा ।। १५४
तत्सौकुमार्यदूराध्वदर्शनार्द्रीकृतं च तम् ।
पप्रच्छोपेत्य सा कोऽयं प्रदेशः कथ्यतामिति ।। १५५
सोऽपि गोपालकोऽवादीद्वसुदत्तस्य भूपतेः ।
वसुदत्तपुरं नाम पुरमेतत्पुरः स्थितम् ।। १५६
राजापि स महात्मात्र मुमूर्षुर्व्याधितः स्थितः ।
तच्छ्रुत्वा कीर्तिसेना तं गोपालकमभाषत ।। १५७
यदि मां नयते कश्चिद्राज्ञस्तस्यान्तिकं ततः ।
अहं तं तस्य जानामि निवारयितुमामयम् ।। १५८
तच्छ्रुत्वैवावदद्गोपः पुरेऽत्रैव व्रजाम्यहम् ।
तदायाहि मया साकं यावद्यत्नं करोमि ते ।। १५९
तथेत्युक्तवतीं तां च कीर्तिसेनां तदैव सः ।
वसुदत्तपुरं गोपः पुंवेषां नयति स्म ताम् । । १६०
तच्च तत्र तथा वस्तु निवेद्यार्ताय तत्क्षणात् ।
प्रतीहाराय कल्याणलक्षणां तां समर्पयत् ।। १६१
प्रतीहारोऽपि राजानं विज्ञप्यैव तदाज्ञया ।
प्रवेशयामास स तां तस्यान्तिकमनिन्दिताम् ।। १६२
राजा च सोऽत्र रोगार्तस्तां दृष्ट्वैवाद्भुताकृतिम् ।
आश्वस्तो वसुदत्तोऽभूद्वेत्त्यात्मैव हिताहितम् ।। १६३
उवाच चैतां पुंवेषां यदीमामपनेष्यसि ।
रुजमेतत्प्रदास्यामि राज्यार्धं ते सुलक्षण ।। १६४
जाने जहार पृष्ठान्मे स्वप्ने स्त्री कृष्णकम्बलम् ।
तन्निश्चितमिमं रोगं हरिष्यति भवान्मम ।। १६५
तच्छ्रुत्वा कीर्तिसेना तं जगादाद्य दिनं गतम् ।
देव श्वस्तेऽपनेष्यामि रोगं मा स्माधृतिं कथाः ।। १६६
इत्युक्त्वा मूर्ध्नि राज्ञोऽस्य गव्यं घृतमदापयत् ।
तेन तस्याययौ निद्रा ययौ सा चातिवेदना ।। १६७
भिषग्रूपेण देवोऽयं पुण्यैर्नः कोऽप्युपागतः ।
इति तत्र च तां सर्वे कीर्तिसेनां ततोऽस्तुवन् ।। १६८
महादेवी च तैस्तैस्तामुपचारैरुपाचरत् ।
नक्तं वेश्म पृथक्चास्याः सदासीकमकल्पयत् ।। १६९
अथापरेद्युर्मध्याह्ने मन्त्रिष्वन्तःपुरेषु च ।
पश्यत्सु तस्य भूपस्य कीर्तिसेना चकर्ष सा ।। १७०
शिरसः कर्णमार्गेण सार्धं शतपदीशतम् ।
राक्षस्युदितया पूर्वं युक्त्यात्यद्भुतया तया ।। १७१
स्थापयित्वा च घटके सा ताः शतपदीस्ततः ।
घृतक्षीरादिसेकेन तं नृपं समतर्पयत् ।। १७२
क्रमात्तस्मिन्समाश्वस्ते रोगमुक्ते महीपतौ ।
घटे तान्प्राणिनो दृष्ट्वा को न तत्र विसिस्मिये ।। १७३
राजा च स विलोक्यैतान्कुकीटान्मूर्धनिर्गतान् ।
तत्रास दध्यौ मुमुदे मेने जन्म निजं पुनः ।। १७४
कृतोत्सवश्च स स्नातः कीर्तिसेनामपूजयत् ।
तामनादृतराज्यार्धां ग्रामहस्त्यश्वकाञ्चनैः ।। १७५
देवी च मन्त्रिणश्चैतां हेम्ना वस्त्रैरपूरयन् ।
प्रभुप्राणप्रदोऽस्माकं पूज्यो भिषगसाविति ।। १७६
सा च तस्यैव राज्ञस्तान्हस्तेऽर्थान्संप्रति न्यधात् ।
कंचित्कालं व्रतस्थोऽहमित्युक्त्वा भर्त्रपेक्षिणी ।। १७७
ततः संमान्यमानात्र सर्वैः कान्यप्यहानि सा ।
यावत्पुरुषवेषेण कीर्तिसेनावतिष्ठते ।। १७८
तावच्छुश्राव लोकात्तं वलभीतः समागतम् ।
सार्थवाहं पथा तेन देवसेनं निजं पतिम् ।। १७९
पुरि तत्राथ तं सार्थं प्राप्तं बुद्ध्वैव साभ्यगात् ।
भर्तारं तमपश्यच्च मयूरीव नवाम्बुदम् ।। १८०
चित्तेनेव चिरौत्सुक्यसंतापप्रविलायिना ।
दत्तार्घानन्दबाष्पेण पादयोस्तस्य चापतत् ।। १८१
सोऽपि प्रत्यभ्यजानाच्च वेषच्छन्नां निरूप्य ताम् ।
भर्ता भास्वत्करालक्ष्यां दिवा मूर्तिमिवैन्दवीम् ।। १८२
तस्य तद्वदनेन्दुं च चन्द्रकान्नस्य पश्यतः ।
देवसेनस्य हृदयं चित्रं न गलति स्म यत् ।। १८३
अथास्यां कीर्तिसेनायामेवं प्रकटितात्मनि ।
किमेतदिति साश्चर्यं स्थिते तस्मिंश्च तत्पतौ ।। १८४
विस्मिते च वणिग्ग्रामे तद्बुद्ध्वैव सविस्मयः ।
स राजा वसुदत्तोऽत्र स्वयमेव किलाययौ ।। १८५
तेन पृष्टा च सा कीर्तिसेना पत्युः पुरोऽखिलम् ।
श्वश्रूदुश्चरितोत्पन्नं स्ववृत्तान्तमवर्णयत् ।। १८६
देवसेनश्च तच्छ्रुत्वा तद्भर्ता स स्वमातरि ।
पराङ्मुखोऽभवत्कोपक्षमाविस्मयहर्षवान् ।। १८७
भर्तृभक्तिरथारूढाः शीलसंनाहरक्षिताः ।
धर्मसारथयः साध्व्यो जयन्ति मतिहेतयः ।। १८८
इति तत्र स्थितोऽवादीदाकर्ण्यैव तदद्भुतम् ।
चरितं कीर्तिसेनायाः सानन्दः सकलो जनः ।। १८९
राजाप्युवाच पत्यर्थमाश्रितक्लेशयानया ।
सीतादेव्यपि रामस्य परिक्लेशवहा जिता ।। १९०
तदेषा धर्मभगिनी मम प्राणप्रदायिनी ।
इत्युक्तवन्तं तं भूपं कीर्तिसेनाथ साब्रवीत् ।। १९१
देव त्वत्प्रीतिदायो यस्तव हस्ते मम स्थितः ।
ग्रामहस्त्यश्वरत्नादिः स मे भर्त्रे समर्प्यताम् ।। १९२
एवमुक्तस्तया राजा दत्त्वा ग्रामादि तस्य तत् ।
तद्भर्तुर्देवसेनस्य प्रीतः पट्टं बबन्ध सः ।। १९३
अथ नरपतिदत्तैस्तैर्वणिज्यार्जितैश्च प्रसभभरितकोषो देवसेनो धनौघैः ।
परिहृतजननीकः संस्तुवन्कीर्तिसेनां कृतवसतिरमुष्मिन्नेव तस्थौ पुरे सः ।। १९४
सुखमपगतपापश्वश्रुकं कीर्तिसेनाप्यसमचरितलब्धख्यातिरासाद्य तत्र ।
न्यवसदखिलभोगैश्वर्यभागान्तिकस्था सुकृतफलसमृद्धिर्देहबद्धेव भर्तुः ।। १९५
एवं विषह्य विधुरस्य विधेर्नियोगमापत्सु रक्षितचरित्रधना हि साध्व्यः ।
गुप्ताः स्वसत्त्वविभवेन महत्तमेन कल्याणमादधति पत्युरथात्मनश्च ।। १९६
इत्थं च पार्थिवकुमारि भवन्ति दोषाः श्वश्रूननान्दृविहिता बहवो वधूनाम् ।
तद्भर्तृवेश्म तव तादृशमर्थयेऽहं श्वश्रूर्न यत्र न च यत्र शठा ननान्दा ।। १९७
इतीदमानन्दिकथाद्भुतं सा मुखान्निशम्यासुरराजपुत्र्याः ।
सोमप्रभाया मनुजेन्द्रपुत्री कलिङ्गसेना परितुष्यति स्म ।। १९८
ततो विचित्रार्थकथावसानं दृष्ट्वेव गन्तुं मिहिरे प्रवृत्ते ।
सोत्कां समालिङ्ग्य कलिङ्गसेनां सोमप्रभा स्वं भवनं जगाम ।। १९९
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे मदनमञ्चुकालम्बके तृतीयस्तरङ्गः ।