प्रमुखा विकल्पसूचिः उद्घाट्यताम्

ततः प्रतीक्षमाणं तं वत्सराजमुपेत्य सः ।
यौगन्धरायणो धूर्तः प्रातर्मन्त्री व्यजिज्ञपत् ।। १
लग्नः कलिङ्गसेनाया देवस्य च शुभावहः ।
विवाहमङ्गलायेह किं नाद्यैव विलोक्यते ।। २
तच्छ्रुत्वा सोऽब्रवीद्राजा ममाप्येवं हृदि स्थितम् ।
तां विना हि मुहूर्तं मे स्थातुं न सहते मनः ।। ३
इत्युक्त्वैव स तत्कालं प्रतीहारं पुरःस्थितम् ।
आदिश्यानाययामास गणकान्सरलाशयः ।। ४
तेन पृष्टा महामन्त्रिपूर्वस्थापितसंविदः ।
ऊचुर्लग्नोऽनुकूलोऽस्ति राज्ञो मासेषु षट्स्वितः ।। ५
तच्छ्रुत्वैव मृषा कोपं कृत्वा यौगन्धरायणः ।
अज्ञा इमे धिगित्युक्त्वा राजानं निपुणोऽब्रवीत् ।। ६
योऽसौ ज्ञानीति देवेन पूजितो गणकः पुरा ।
स नागतोऽद्य तं पृष्ट्वा यथायुक्तं विधीयताम् ।। ७
एतन्मन्त्रिवचः श्रुत्वा वत्सेशो गणकं तदा ।
तमप्यानाययामास दोलारूढेन चेतसा ।। ८
सोऽप्यस्य कालहाराय स्थितसंवित्तथैव तम् ।
लग्नं पृष्टोऽब्रवीद्ध्यात्वा षण्मासान्ते व्यवस्थितम् ।। ९
ततो राजानमुद्विग्न इव यौगन्धरायणः ।
जगाद देव कर्तव्यं किमत्रादिश्यतामिति ।। १०
राजाप्युत्कः सुलग्नैषी स विमृश्य ततोऽभ्यधात् ।
कलिङ्गसेना प्रष्टव्या सा किमाहेत्यवेक्ष्यताम् ।। ११
तच्छ्रुत्वा स तथेत्युक्त्वा गृहीत्वा गणकद्वयम् ।
पार्श्वं कलिङ्गसेनाया ययौ यौगन्धरायणः ।। १२
तया कृतादरो दृष्ट्वा तद्रूपं स व्यचिन्तयत् ।
प्राप्येमां व्यसनाद्राजा सर्वं राज्यं त्यजेदिति ।। १३
उवाच चैनामुद्वाहलग्नं ते गणकैः सह ।
निश्चेतुमागतोऽस्म्येतैर्जन्मर्क्षं तन्निवेद्यताम् ।। १४
तच्छ्रुत्वा जन्मनक्षत्रं तस्याः परिजनोदितम् ।
गणकास्ते मृषा कृत्वा विचारं मन्त्रिसंविदा ।। १५
लग्नं तमेव तत्रापि मासषट्कान्तवर्तिनम् ।
नार्वागतः पुरोऽस्तीति वदन्तः पुनरभ्यधुः ।।
श्रुत्वा दूरतरं तं च लग्नमाविग्नचेतसि ।
ततः कलिङ्गसेनायां तन्महत्तरकोऽभ्यधात् ।। १७
प्रेक्ष्यो लग्नोऽनुकूलः प्राग्येन स्यादेतयोः शुभम् ।
यावत्कालं हि दंपत्योः किं चिरेणाचिरेण वा ।। १८
एतन्महत्तरवचः श्रुत्वा सर्वेऽपि तत्क्षणम् ।
सदुक्तमेवमेवैतदिति तत्र बभाषिरे ।। १९
यौगन्धरायणोऽप्याह हा कुलग्ने कृते च नः ।
कलिङ्गदत्तः संबन्धी राजा खेदं व्रजेदिति ।। २०
ततः कलिङ्गसेनापि सर्वास्तानवशा सती ।
यथा भवन्तो जानन्तीत्युक्त्वा तूष्णी बभूव सा ।। २१
तदेव च वचस्तस्या गृहीत्वामन्त्र्य तां ततः ।
यौगन्धरायणो राज्ञः पार्श्वं सगणको ययौ ।। २२
तत्र तस्मै तदावेद्य वत्सेशाय तथैव सः ।
युक्त्या च तमवस्थाप्य स जगाम निजं गृहम् ।।२३
सिद्धकालातिपातश्च कार्यशेषाय तत्र सः ।
योगेश्वराख्यं सुहृदं सस्मार ब्रह्मराक्षसम् ।। २४
स पूर्वप्रतिपन्नस्तं स्वैरं ध्यानादुपस्थितः ।
राक्षसो मन्त्रिणं नत्वा किं स्मृतोऽस्मीत्यवोचत ।। २५
ततः स मन्त्री तस्मै तं कृत्स्नं व्यसनदं प्रभोः ।
कलिङ्गसेनावृत्तान्तमुक्त्वा भूयो जगाद तम् ।। २६
कालो मया हृतो मित्र तन्मध्ये त्वं स्वयुक्तितः ।
वृत्तं कलिङ्गसेनायाः प्रच्छन्नोऽस्या निरूपयेः ।। २७
विद्याधरादयस्तां हि छन्नं वाञ्छन्ति निश्चितम् ।
यतोऽन्या तादृशी नास्ति रूपेणास्मिञ्जगत्त्रये ।। २८
अतः केनापि सिद्धेन सङ्गं विद्याधरेण वा ।
गच्छेत्सा यदि तच्च त्वं पश्येस्तद्भद्रकं भवेत् ।। २९
अन्यरूपागतश्चात्र लक्ष्यस्ते दिव्यकामुकः ।
स्वापकाले यतो दिव्याः सुप्ताः स्वे रूप आसते ।। ३०
एवं त्वद्दृष्टितस्तस्या दोषोऽस्माभिर्विलोक्यते ।
तस्यां राजा विरज्येच्च तत्कार्यं निर्वहेच्च नः ।। ३१
इत्युक्तो मन्त्रिणा तेन सोऽब्रवीद्ब्रह्मराक्षसः ।
युक्त्याहमेव किं नैतां ध्वंसयामि निहन्मि बा ।। ३२
तच्छ्रुत्वैव महामन्त्री तं स यौगन्धरायणः ।
उवाच नैतत्कर्तव्यमधर्मो हि महान्भवेत् ।। ३३
यश्च धर्ममबाधित्वा स्वेन संसरते पथा ।
तस्योपयाति साहाय्यं स एवाभीष्टसिद्धिषु ।। ३४
तत्तस्याः स्वोत्थितो दोषः प्रेक्षणीयस्त्वया सखे ।
येनास्माभिर्भवन्मैत्र्या राजकार्यं कृतं भवेत् ।। ३५
इति मन्त्रिवरादिष्टः स गत्वा ब्रह्मराक्षसः ।
गृहं कलिङ्गसेनाया योगच्छन्नः प्रविष्टवान् ।। ३६
अत्रान्तरे सखी तस्याः सा मयासुरपुत्रिका ।
आगात्कलिङ्गसेनायाः पार्श्वं सोमप्रभा पुनः ।। ३७
सा पृष्ट्वा रात्रिवार्तां तां युक्तबन्धुं मयात्मजा ।
राजपुत्रीमुवाचैवं तस्मिञ्शृण्वति राक्षसे ।। ३८
अद्य पूर्वाह्न एवाहं विचित्य त्वामिहागता ।
छन्ना त्वतिष्ठं त्वत्पार्श्वे दृष्ट्वा यौगन्धरायणम् ।। ३९
श्रुतश्च युष्मदालापः सर्वं चावगतं मया ।
तत्किं त्वया ह्य एवैतदारब्धं मन्निषिद्धया ।। ४०
अव्यपोह्यानिमित्तं हि कार्यं यत्क्रियते सखि ।
तदनिष्टाय कल्पेत तथा चेमां कथां शृणु ।। ४१
अन्तर्वेद्यामभूत्पूर्वं वसुदत्त इति द्विजः ।
विष्णुदत्ताभिधानश्च पुत्रस्तस्योदपद्यत ।। ४२
स विष्णुदत्तो वयसा पूर्णषोडशवत्सरः ।
गन्तुं प्रववृते विद्याप्राप्तये वलभीं पुरीम् ।। ४३
मिलन्ति स्म च तस्यान्ये सप्त विप्रसुताः समाः ।
सप्तापि ते पुनर्मूर्खाः स विद्वान्सत्कुलोद्गतः ।। ४४
कृत्वान्योन्यपरित्यागशपथं तैः समं ततः ।
विष्णुदत्तः प्रतस्थे स पित्रोरविदितो निशि ।। ०३
प्रस्थितश्चाग्रतोऽकस्मादनिमित्तमुपस्थितम् ।
दृष्ट्वा सोऽत्र वयस्यांस्तान्सहप्रस्थायिनोऽभ्यधात् ।। ४६
अनिमित्तमिदं हन्त युक्तमद्य निवर्तितुम् ।
पुनरेव प्रयास्यामः सिद्धये शकुनान्विताः ।। ४७
तच्छ्रुत्वैव सखायस्तं मूर्खाः सप्तापि तेऽब्रुवन् ।
मृषा माजीगणः शङ्कां नह्यतो बिभिमो वयम् ।। ४८
त्वं चेद्बिभेषि तन्मा गा वयं यामोऽधुनैव तु ।
प्रातर्विदितवृत्तान्ता नास्मांस्त्यक्ष्यन्ति बान्धवाः ।। ४९
इत्युक्तवद्भिरज्ञैस्तैः साकं शपथयन्त्रितः ।
विष्णुदत्तो ययावेव स स्मृत्वाघहरं हरिम् ।। ५०
रात्र्यन्ते च विलोक्यान्यदनिमित्तं पुनर्वदत् ।
मूर्खैस्तैः सखिभिः सर्वैः स एवं निरभर्त्स्यत ।। ५१
एतदेवानिमित्तं नः किमन्येनाध्वभीलुक ।
यत्त्वमस्माभिरानीतः काकशङ्की पदे पदे ।। ५२
इत्यादि भर्त्सनां कृत्वा गच्छद्भिस्तैः सम च सः ।
विवशः प्रययौ विष्णुदत्तस्तूष्णीं बभूव च ।। ५३
नोपदेशो विधातव्यो मूर्खस्य स्वाभिचारिणः ।
संस्कारोऽवस्करस्येव तिरस्करकरो हि सः ।। ५४
एको बहूनां मूर्खाणां मध्ये निपततो बुधः ।
पद्मः पाथस्तरङ्गाणामिव विप्लवते ध्रुवम् ।। ५५
तस्मादेषां न वक्तव्यं मया भूयो हिताहितम् ।
तूष्णीमेव प्रयातव्यं विधिः श्रेयो विधास्यति ।। ५६
इत्याद्याकलयन्मूर्खैः प्रक्रमंस्तैः समं पथि ।
विष्णुदत्तो दिनस्यान्ते शबरग्राममाप सः ।। ५७
तत्र भ्रान्त्वा निशि प्राप तरुण्याधिष्ठितं स्त्रिया ।
गृहमेकं ययाचे च निवासं सोऽथ तां स्त्रियम् ।। ५८
तया दत्तेऽपवरके सहान्यैस्तैर्विवेश सः ।
सखिभिस्ते च सप्तापि तत्र निद्रां क्षणं ययुः ।। ५९
स एको जाग्रदेवासीदमनुष्यगृहाश्रयात् ।
स्वपन्त्यज्ञा हि निश्चेष्टाः कुतो निद्रा विवेकिनाम् ।। ६०
तावच्च तत्र पुरुषः कोऽप्येको निभृतं युवा ।
अभ्यन्तरगृहं तस्याः प्रविवेशान्तिकं स्त्रियाः ।। ६१
तेन साकं च सा रेमे चिरं गुप्ताभिभाषिणी ।
रतिश्रान्तौ च तौ दैवान्निद्रां द्वावपि जग्मतुः ।। ६२
तच्च दीपप्रकाशेन सर्वं द्वारान्तरेण सः ।
विष्णुदत्तो विलोक्यैवं सनिर्वेदमचिन्तयत् ।। ६३
कष्टं कथं प्रविष्टाः स्मो दुश्चारिण्याः स्त्रिया गृहम् ।
ध्रुवं ज्ञातोऽयमेतस्या न कौमारः पतिः पुनः ।। ६४
नान्यथा हि भवत्येषा सशङ्कनिभृता गतिः ।
मया चपलचित्तेयमादावेव च लक्षिता ।। ६५
अन्यालाभात्प्रविष्टाः स्मः किं त्वत्रान्योन्यसाक्षिणः ।
इत्येव चिन्तयञ्शब्दं जनानां सोऽशृणोद्बहिः ।।६६
ददर्श प्रविशन्तं च स्वस्वस्थानस्थितानुगम् ।
युवानमभिपश्यन्तं सखड्गं शबराधिपम् ।। ६७
के यूयमिति पृच्छन्तं मत्वा गृहपतिं स तम् ।
भीतः पान्थाः स्म इत्याह विष्णुदत्तः पुलिन्दपम् ।। ६८
स चान्तः शबरो गत्वा दृष्ट्वा भार्यां तथास्थिताम् ।
चिच्छेद तस्य सुप्तस्य तज्जारस्यासिना शिरः ।। ६९
भार्या तु निगृहीता न तेन सा नापि बोधिता ।
भुवि न्यस्तासिनान्यत्र पर्यङ्के सुप्तमेव तु ।। ७०
तद्दृष्ट्वा सप्रदीपेऽत्र विष्णुदत्तो व्यचिन्तयत् ।
युक्तं स्त्रीति न यद्भार्या हता दारहरो हतः ।। ७१
किं तु कृत्वेदृशं कर्म यदनेनात्र सुप्यते ।
विस्रब्धं तदहो चित्र वीर्यमुद्रिक्तचेतसाम् ।७२
इत्यत्र चिन्तयत्येव विष्णुदत्ते प्रबुध्य सा ।
कुस्त्री ददर्श जारं स्वं हतं सुप्तं च तं पतिम् ॥ ७३
उत्थाय च गृहीत्वा तत्स्कन्धे जारकबन्धकम् ।
हस्तेनैकेन चादाय तच्छिरः सा विनिर्ययौ । ७४
गत्वा बहिश्च निक्षिप्य भस्मकूटान्तरे द्रुतम् ।
कबन्धं सशिरस्कं तमाययौ निभृतं ततः ॥७५
विष्णुदत्तश्च निर्गत्य सर्वं दूराद्विलोक्य तत्।
मध्ये सखीनां सुप्तानां प्रविश्यासीत्तथैव सः ॥.७६
सा चागत्य प्रविश्यान्तः पत्युः सुप्तस्य दुर्जनी ।
तेनैव तत्कृपाणेन तस्य मूर्धानमच्छिनत् ॥ ७७
निर्गत्य श्रावयन्ती च भृत्याञ्शब्दं चकार सा ।
हा हतास्मि हतो भर्ता ममैभिः पथिकैरिति ॥७८
ततः परिजनाः श्रुत्वा प्रधाव्यालोक्य तं प्रभुम् ।
हतं तान्विष्णुदत्तादीनभ्यधावन्नुदायुधाः ॥ ७९
एतैश्चाहन्यमानेषु तेषु त्रस्तोत्थितेष्वथ ।
अन्येषु तत्सहायेषु विष्णुदत्तोऽब्रवीद्द्रुतम् ॥ ८०
अलं वो ब्रह्महत्याभिर्नैवास्माभिरिदं कृतम् ।
एतयैव कृतं ह्येतत्कुस्त्रियान्यप्रसक्तया ॥ ८१
मया चापावृतद्वारमार्गेणा मूलमीक्षितम् ।
निर्गत्य च बहिर्दृष्टं क्षमध्वं यदि वच्मि तत् ॥ ८२
इत्युक्त्वा तान्स शबरान्विष्णुदत्तो निवार्य च ।
तेभ्यो निःशेषमा मूलाद्वृत्तान्तं तमवर्णयत् ॥८३
नीत्वा चादर्शयत्तेषां कबन्धं तं शिरोन्वितम् ।
सद्यो हतं तया क्षिप्तं स्त्रिया तस्मिन्नवस्करे । ८४
ततः स्वेन विवर्णेन मुखेनाङ्गीकृते तया ।
कुलटां तां तिरस्कृत्य सर्वे तत्रैवमब्रुवन् ।८५
स्मराकृष्टा तनोत्येव या साहसमशङ्किता ।
सा परस्वीकृता कुस्त्री कृपाणीव न हन्ति कम् । ८६
इत्युक्त्वा विष्णुदत्तादीन्सर्वास्ते मुमुचुस्ततः ।
विष्णुदत्तं च सप्तान्ये सहायास्तेऽथ तुष्टुवुः ॥८७
रक्षारत्नप्रदीपस्त्वं जातो नः स्वपतां निशि ।
त्वत्प्रसादेन तीर्णाः स्मो मृत्युमद्यानिमित्तजम् । ८८
स्तुत्वैवं विष्णुदत्तं तं शमयित्वा च दुर्वचः ।
प्रणतास्ते ययुः प्रातः स्वकार्यायैव तद्युताः ॥८९
इत्थं कलिङ्गसेनायाः कथयित्वा कथां मिथः ।
सोमप्रभा सा कौशाम्ब्यां सखीं पुनरुवाच ताम् ॥९०
एवं कार्यप्रवृत्तानामनिमित्तमुपस्थितम् ।
विलम्बाद्यप्रतिहतं सख्यनिष्टं प्रयच्छति । ९१
ततश्चात्रानुतप्यन्ते प्राज्ञवाक्यावमानिनः ।
प्रवर्तमाना रभसात्पर्यन्ते मन्दबुद्धयः ॥९२
अतोऽशुभे निमित्ते ह्यो वत्सेशं प्रति यत्त्वया ।
आत्मग्रहाय प्रहितो दूतो युक्तं न तत्कृतम् ॥९३
तदविघ्नं विवाहं च विदधातु विधिस्तव ।।
कुलग्नेनागता गेहाद्विवाहस्तेन दूरतः ॥ ९४
देवा अपि च लुभ्यन्ति त्वयि रक्ष्यमिदं ततः ।
चिन्त्यश्च नीतिनिपुणो मन्त्री यौगन्धरायणः ॥९५
राजव्यसनशङ्की सन्सोऽत्र विघ्नं समाचरेत् ।
विहितेऽपि विवाहे वा दोषमुत्पादयेत्तव । ९६
धार्मिकः सन्न कुर्याद्वा दोषं तदपि ते सखि।
सपत्नी सर्वथा चिन्त्या कथां वच्म्यत्र ते शृणु ॥ ९७
अस्तीहेक्षुमती नाम पुरी तस्याश्च पार्श्वतः ।
नदी तदभिधानैव विश्वामित्रकृते उभे ॥ ९८
तत्समीपे महच्चास्ति वनं तत्र कृताश्रमः ।
ऊर्ध्वपादस्तपश्चक्रे मुनिर्मङ्कणकाभिधः ॥ ९९
तपस्यता च तेनात्र गगनेनागताप्सरः ।
अदर्शि मेनका नाम वातेन चलिताम्बरा । १००
ततो लब्धावकाशेन कामेन क्षोभितात्मनः ।
नूतने कदलीगर्भे वीर्यं तस्यापतन्मुनेः ॥ १०१
जज्ञे ततश्च कन्या सा सद्यः सर्वाङ्गसुन्दरी ।
अमोघं हि महर्षीणां वीर्यं फलति तत्क्षणम् ॥ १०२
संभूता कदलीगर्भे यस्मात्तस्माच्चकार ताम् ।
नाम्ना स कदलीगर्भां पिता मङ्कणको मुनिः ।१०३
तस्याश्रमे सा ववृधे गौतमस्य कृपी यथा ।
द्रोणभार्या पुरा रम्भादर्शनच्युतवीर्यजा ॥१०४
एकदा च विवेशैतमाश्रमं मृगयारसात् ।
दृढवर्मा हृतोऽश्वेन मध्यदेशभवो नृपः । १०५
स तां ददर्श कदलीगर्भां प्रावृतवल्कलाम् ।
मुनिकन्योचितेनात्र वेषेणात्यन्तशोभिताम् । १०६
सा च दृष्ट्वास्य नृपतेः स्वीचक्रे हृदयं तथा ।
यथावकाशोऽपि हृतस्तत्रान्तःपुरयोषिताम् ॥१०७
अपीमां प्राप्नुयां भार्यां कस्यापीह सुतामृषेः ।
दुष्यन्त इव कण्वस्य मुनेः कन्यां शकुन्तलाम् ॥१०८
इति संचिन्तयन्नेव संगृहीतसमित्कुशम् ।
सोऽत्रापश्यत्तमायान्तं मुनिं मङ्कणकं नृपः ॥ १०९
ववन्दे चैनमभ्येत्य पादयोर्मुक्तवाहनः ।
पृष्टश्चात्मानमेतस्मै मुनये स न्यवेदयत् ॥.११०
ततः स कदलीगर्भां मुनिरादिशति स्म ताम् ।
वत्से राज्ञोऽतिथेरस्य त्वयार्घ्यं कल्प्यतामिति ।। १११
तथेति कल्पितातिथ्यस्तया राजा स नम्रया ।
ईदृक्कुतस्ते कन्येयमिति पप्रच्छ तं मुनिम् ।। ११२
मुनिश्च स ततस्तस्यास्तामुत्पत्तिं च नाम च ।
अन्वर्थं कदलीगर्भेत्यस्मै राज्ञे न्यवेदयत् ।। ११३
ततस्तां स मुनेः कन्यां मेनकाभावनोद्भवाम् ।
मत्वाप्सरसमत्युत्को राजा तस्मादयाचत ।। ११४
सोऽप्येतां कदलीगर्भां ददौ तस्मै सुतामृषिः ।
दिव्यानुभावं पूर्वेषामविचार्यं हि चेष्टितम् ।। ११५
तच्च बुद्ध्वा प्रभावेण तत्राभ्येत्य सुराङ्गनाः ।
मेनकाप्रीतितस्तस्याश्चक्रुरुद्वाहमण्डनम् ।। ११६
दत्त्वा च सर्षपान्हस्ते जगदुस्तां तदैव ताः ।
यान्ती मार्गे वपस्वेतांस्त्वमभिज्ञानसिद्धये ।। ११७
यदि भर्त्रा कृतावज्ञा कदाचित्त्वमिहैष्यसि ।
तज्जातैरेभिरायान्ती पन्थानं पुत्रि वेत्स्यति ।। ११८
इत्युक्तां ताभिरारोप्य कृतोद्वाहां स्ववाजिनि ।
स राजा कदलीगर्भां दृढवर्मा ययौ ततः ।। ११९
प्राप्तान्वागतसैन्योऽथ वपन्त्या सर्षपान्पथि ।
वध्वा तया सह प्राप राजधानीं निजां च सः ।। १२०
तत्रान्यपन्नीविमुखः कदलीगर्भया तया ।
समं स तस्थावाख्याततद्वृत्तान्तः स्वमन्त्रिषु ।। १२१
ततस्तस्य महादेवी तदीयं मन्त्रिणं रहः ।
स्मारयित्वोपकारान्स्वाञ्जगादात्यन्तदुःखिता ।। १२२
राज्ञा नूतनभार्यैकसक्तेनाद्याहमुज्झिता ।
तत्तथा कुरु येनैषा सपत्नी मे निवर्तते ।। १२३
तच्छ्रुत्वा सोऽब्रवीन्मन्त्री देवि कर्तुं न युज्यते ।
मादृशानां प्रभोः पत्न्या विनाशोऽथ वियोजनम् ।। १२४
एष प्रव्राजकस्त्रीणां विषयः कुहकादिषु ।
प्रयोगेष्वभियुक्तानां संगतानां तथाविधैः ।। १२५
ता हि कैतवतापस्यः प्रविश्यैवानिवारिताः ।
गृहेषु मायाकुशलाः कर्म किं किं न कुर्वते ।। १२६
इत्युक्ता तेन सा देवी विनतेवाह तं ह्रिया ।
अलं तर्हि ममानेन गर्हितेन सतामिति ।। १२७
तद्वचो हृदि कृत्वा तु तं विसृज्य च मन्त्रिणम् ।
कांचित्प्रव्राजिकां चेटीमुखेनानयति स्म सा ।। १२८
तस्याः शशंस चामूलात्तत्सर्वं स्वमनीषितम् ।
अङ्गीचकार दातुं च सिद्धे कार्ये धन महत् ।। १२९
साप्यर्थलोभादार्तां तामित्युवाच कुतापसी ।
देवि किं नाम वस्त्वेतदहं तेऽसाधयाम्यदः ।। १३०
नानाविधान्हि जानामि प्रयोगान्सुबहूनहम् ।
एवमाश्वास्य तां देवीं साथ प्रव्राजिका ययौ ।। १३१
मठिकां प्राप्य च निजां भीतेवेत्थमचिन्तयत् ।
अहो अतीव भोगाशा कं नाम न विडम्बयेत् ।। १३२
यन्मया सहसा देव्याः प्रतिज्ञा पुरतः कृता ।
विज्ञानं चात्र तादृङ्मे सम्यक्किंचिन्न विद्यते ।। १३३
अन्यत्रेव च न व्याजं कर्तुं राजगृहे क्षमम् ।
ज्ञात्वा जातु हि कुर्वीरन्निग्रहं प्रभविष्णवः ।। १३४
एकस्तत्राभ्युपायः स्याद्यत्सुहृन्मेऽस्ति नापितः ।
ईदृग्विज्ञानकुशलः स चेत्कुर्यादिहोद्यमम् ।। १३५
इत्यालोच्यैव सा तस्य नापितस्यान्तिकं ययौ ।
तस्मै मनीषितं सर्वं तच्छशंसार्थसिद्धिदम् ।। १३६
ततः स नापितो वृद्धो धूर्तश्चैवमचिन्तयत् ।
उपस्थितमिदं दिष्ट्या लाभस्थानं ममाधुना ।। १३७
तन्न बाध्या नवा राजवधू रक्ष्या तु सा यतः ।
दिव्यदृष्टिः पिता तस्य सर्वं प्रख्यापयेदिदम् ।। १३८
विश्लिष्यैतां तु नृपतेर्देवीं संप्रति भुञ्जमहे ।
कुरहस्यसहाये हि भृते भृत्यायते प्रभुः ।। १३९
संश्लेष्य काले राज्ञे च वाच्यमेतत्तथा मया ।
यथा स्यादुपजीव्यो मे राजा सा चर्षिकन्यका ।। १४०
एवं च नातिपापं स्याद्भवेद्दीर्घा च जीविका ।
इत्यालोच्य स तां प्राह नापितः कूटतापसीम् ।। १४१
अम्ब सर्वं करोम्येतत्किं तु योगबलेन चेत् ।
एषा राज्ञो नवा भार्या हन्यते तन्न युज्यते ।। १४२
बुद्ध्वा कदाचिद्राजा हि सर्वानस्मान्विनाशयेत् ।
स्त्रीहत्यापातकं च स्यात्तत्पिता च मुनिः शपेत् ।। १४३
तस्माद्बुद्धिबलेनैषा राज्ञो विश्लेष्यते परम् ।
येन देवी सुखं तिष्ठेदर्थप्राप्तिर्भवेच्च नः ।। १४४
एतच्च मे कियत्किं हि न बुद्ध्या साधयाम्यहम् ।
प्रज्ञानं मामकीनं च श्रूयतां वर्णयामि ते ।। १४५
अभूदस्य पिता राज्ञो दुःशीलो दृढवर्मणः ।
अहं च दासस्तस्येह राज्ञः स्वोचितकर्मकृत् ।। १४६
स कदाचिदिह भ्राम्यन्भार्यामैक्षत मामकीम् ।
तस्यां तस्य सुरूपायां तरुण्यां च मनो ययौ ।। १४७
नापितस्त्रीति चाबोधि पृष्ट्वा परिजनं स ताम् ।
किं नापितः करोतीति प्रविश्यैव स मे गृहम् ।। १४८
उपभुज्यैव तां स्वेच्छं मद्भार्यां कुनृपो ययौ ।
अहं च तदहर्दैवाद्गृहादासं बहिः क्वचित् ।। १४९
अन्येद्युश्च प्रविष्टेन दृष्टा सान्यादृशी मया ।
पृष्टा भार्या यथावृत्तं साभिमानेव मेऽभ्यधात् ।। १५०
तत्क्रमेणैव तां भार्यामशक्तस्य निषेधने ।
नित्यमेवोपभुञ्जानः स ममोत्तब्धवान्नृपः ।। १५१
कुतो गम्यमगम्यं वा कुशीलोन्मादिनः प्रभोः ।
वातोद्भूतस्य दावाग्नेः किं तृणं किं च काननम् ।। १५२
ततो यावद्गतिर्मेऽस्ति न काचित्तन्निवारणे ।
तावत्स्वल्पाशनक्षामो मान्द्यव्याजमशिश्रियम् ।। १५३
तादृशश्च गतोऽभूवं राज्ञस्तस्याहमन्तिकम् ।
स्वव्यापारोपसेवार्थं निःश्वसन्कृशपाण्डुरः ।। १५४
तत्र मन्दमिवालोक्य साभिप्रायः स मां नृपः ।
पप्रच्छ रे किमीदृक्त्वं संजातः कथ्यतामिति ।। १५५
निर्बन्धपृष्टस्तं चाहं विजने याचिताभयः ।
प्रत्यवोचं नृपं देव भार्यास्ति मम डाकिनी ।। १५६
सा च सुप्तस्य मेऽन्त्राणि गुदेनाकृष्य चूषति ।
तथैव चान्तः क्षिपति तेनाहं क्षामतां गतः ।। १५७
पोषणाय च मे नित्यं वृंहणं भोजनं कुतः ।
इत्युक्तः स मया राजा जाताशङ्को व्यचिन्तयत् ।। १५८
किं सत्यं डाकिनी सा स्यात्तेनाहं किं हृतस्तया ।
किंस्विदाहारपुष्टस्य चूषेदन्त्रं ममापि सा ।। १५९
तदद्य तामहं युक्त्या जिज्ञासिष्ये स्वयं निशि ।
इति संचिन्त्य राजा मे सोऽत्राहारमदापयत् ।। १६०
ततो गत्वा गृहं तस्या भार्यायाः संनिधावहम् ।
अश्रूण्यमुञ्चं पृष्टश्च तया तामेवमब्रवम् ।। १६१
प्रिये न वाच्यं कस्यापि त्वया शृणु वदामि ते ।
अस्य राज्ञो गुदे जाता दन्ता वज्राश्रिसंनिभाः ।। १६२
तच्च भग्नोऽद्य जात्योऽपि क्षुरो मे कर्म कुर्वतः ।
एवं चात्र ममेदानीं क्षुरस्त्रुट्येत्पदे पदे ।। १६३
तन्नवं नवमानेष्ये कुतो नित्यमहं क्षुरम् ।
अतो रोदिमि नष्टा हि जीविकेयं गृहे मम ।। १६४
इत्युक्ता सा मया भार्या मतिमाधादुपैष्यतः ।
रात्रौ राज्ञोऽस्य सुप्तस्य गुददन्ताद्भुतेक्षणे ।। १६५
आ संसाराददृष्टं तदसत्यं न त्वबोधि सा ।
विदग्धा अपि वक्ष्यन्ते विटवर्णनया स्त्रियः ।। १६६
अथैत्य तां निशि स्वैरं मद्भार्यामुपभुज्य सः ।
राजा श्रमादिवालीकं सुप्तवान्मद्वचः स्मरन् ।। १६७
मद्भार्याप्यथ तं सुप्तं मत्वा तस्य शनैः शनैः ।
हस्तं प्रसारयामास गुदे दन्तोपलब्धये ।। १६८
गुदप्राप्ते च तत्पाणावुत्थाय सहसैव सः ।
डाकिनी डाकिनीत्युक्त्वा त्रस्तो राजा ततो ययौ ।। १६९
ततः प्रभृति सा तेन भीत्या त्यक्ता नृपेण मे ।
भार्या गृहीतसंतोषा मदेकायत्ततां गता ।। १७०
एवं पूर्वं नृपाद्बुद्ध्या गृहिणी मोचिता मया ।
इति तां तापसीमुक्त्वा नापितः सोऽब्रवीत्पुनः ।। १७१
तदेतत्प्रज्ञया कार्यमार्ये युष्मन्मनीषितम् ।
यथा च क्रियते मातस्तदिदं वच्मि ते शृणु ।। १७२
कोऽप्यन्तःपुरवृद्धोऽत्र स्वीकार्यो यो ब्रवीत्यमुम् ।
जाया ते कदलीगर्भा डाकिनीति नृपं रहः ।। १७३
आरण्यकाया नह्यस्याः कश्चित्परिजनः स्वकः ।
सर्वः परो भेदसहो लोभात्कुर्वीत किं न यत् ।। १७४
ततोऽस्मिन्राज्ञि साशङ्के श्रवणान्निशि यत्नतः ।
हस्तपादादि कदलीगर्भाधाम्नि निधीयते ।। १७५
तत्प्रभाते विलोक्यैव राजा सत्यमवेत्य तत् ।
वृद्धोक्तं कदलीगर्भां भीतस्तां त्यक्ष्यति स्वयम् ।। १७६
एवं सपत्नीविरहाद्देवी सुखमवाप्नुयात् ।
त्वां च सा बहु मन्येत लाभः कश्चिद्भवेच्च नः ।। १७७
इत्युक्ता तापसी तेन नापितेन तथेति सा ।
गत्वा राज्ञो महादेव्यै यथावस्तु न्यवेदयत् ।। १७८
देवी च तत्तथा चक्रे सा तद्युक्त्या नृपोऽपि ताम् ।
प्रत्यक्षं वीक्ष्य कदलीगर्भां दुष्टेति तां जहौ ।। १७९
तुष्टया च ततो देव्या तया गुप्तमदायि यत् ।
प्रव्राजिका तद्बुभुजे सा यथेष्टं सनापिता ।। १८०
त्यक्ता च कदलीगर्भा सा तेन दृढवर्मणा ।
राज्ञाभिशापसंतप्ता निर्ययौ राजमन्दिरात् ।। १८१
येनाजगाम तेनैव प्रययौ पितुराश्रमम् ।
पूर्वोप्तजातसिद्धार्थसाभिज्ञानेन सा पथा ।। १८२
तत्र तामागतां दृष्ट्वा सोऽकस्मात्तत्पिता मुनिः ।
तस्या दुश्चरिताशङ्की तस्थौ मङ्कणकः क्षणम् ।। १८३
प्रणिधानाच्च तं कृत्स्नं तद्वृत्तान्तमवेत्य सः ।
आश्वास्य च स्वयं स्नेहात्तामादाय ययौ ततः ।। १८४
एत्य तस्मै यदाचख्यौ स्वयं प्रह्वाय भूभृते ।
देव्या सपत्नीदोषेण कृतं कपटनाटकम् ।। १८५
तत्कालं स्वयमभ्येत्य राज्ञे तस्मै स नापितः ।
यथावृत्तं तदाचष्ट पुनरेवमुवाच च ।। १८६
इत्थं विश्लेष्य कदलीगर्भा राज्ञी मया प्रभो ।
अभिचारवशाद्युक्त्या देवीं संतोष्य रक्षिता ।। १८७
तच्छ्रुत्वा निश्चयं दृष्ट्वा मुनीन्द्रवचनस्य सः ।
जग्राह कदलीगर्भां संजातप्रत्ययो नृपः ।। १८८
अनुव्रज्य मुनिं तं च संविभेजे स नापितम् ।
भक्तो ममायमित्यर्थैर्धूर्तैर्भोज्या बतेश्वराः ।। १८९
ततस्तया समं तस्थौ कदलीगर्भयैव सः ।
राजा स्वदेवीविमुखो दृढवर्मा सुनिर्वृतः । १९०
एवंविधान्विदधते सुबहून्सपत्न्यो दोषान्मृषाप्यनवमाङ्गि कलिङ्गसेने ।
त्वं कन्यका च चिरभाविविवाहलग्ना वाञ्छन्त्यचिन्त्यगतयश्च सुरा अपि त्वाम् ।। १९१
तत्सर्वतः सांप्रतमात्मना त्वमात्मानमेकं जगदेकरत्नम् ।
वत्सेश्वरैकार्पितमत्र रक्षेर्वैरं तवायं हि निजः प्रकर्षः ।। १९२
अहं हि नेष्यामि सखि त्वदन्तिकं स्थिताधुना त्वं पतिमन्दिरे यतः ।
सखीपतेः सद्म न यान्ति सत्स्त्रियः सुगात्रि भर्त्राद्य निवारितास्मि च ।। १९३
न च गुप्तमिहागमः क्षमो मे त्वदतिस्नेहवशात्स दिव्यदृष्टिः ।
तदवैति हि मत्पतिः कथंचित्तमनुज्ञाप्य किलागताहमद्य ।। १९४
इह नास्त्यधुना हि मामकीनं सखि कार्यं तव यामि तद्गृहाय ।
यदि मामनुमंस्यते च भर्ता तदिहैष्यामि पुनर्विलङ्घ्य लज्जाम् ।। १९५
इत्थं सबाष्पमभिधाय कलिङ्गसेनां तामश्रुधौतवदनां मनुजेन्द्रपुत्रीम् ।
आश्वास्य चाह्नि विगलत्यसुरेन्द्रपुत्री सोमप्रभा स्वभवनं नभसा जगाम ।। १९६
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे मदनमञ्चुकालम्बके षष्ठस्तरङ्गः ।