कल्पः/श्रौतसूत्राणि/द्राह्यायणश्रौतसूत्रम्/पटलः १९

← पटलः १८ द्राह्यायणश्रौतसूत्रम्
पटलः १९
द्राह्यायणः
पटलः २० →

19.1 सप्तमः प्रपाठकः । एकोनविंशः पटलः । प्रथमः खण्डः
वामदेव्यं स्वारं साकमश्वं पाष्ठौहं निधनकामं सत्रासाहीयं काक्षीवतं च्यावनं गायत्रीसामौशनं निधनवदैध्मवाहम् तेषां पञ्चमषष्ठे विकल्प्येते न्याय्येन १ गूर्दः सौमेधं माधुच्छन्दसमौदलं सौश्रवसमुत्तरं वार्त्रतुरमृषभो रैवतः कौत्समौष्णिहमातीषादीयं क्रोशमोकोनिधनं स्वारं सामराजं मारुतमौष्णिहमाक्षारं सुज्ञानं हारिवर्णं सांवर्त्तं जागतं वरुणसाम मरुतांधेनु स्रौग्मतम् । तेषां चत्वारि २ अभ्यासो गूर्दस्य ३ अभ्यासादिरुत्तरेषां त्रयाणाम् ४ उत्तमानि सौश्रवसे ५ अष्टौ वा वार्त्रतुरे ६ पूर्वयोश्च न्याय्यौ ७ मध्यमं वचनमृषभे ८ मध्यमान्युत्तरेषां पञ्चानाम् ९ प्राग्वाभ्यासादुत्तमानि कौत्से १० प्रथमानि वा सामराजस्य पुरस्तात्स्तोभः ११ षड्वा पञ्चमप्रभृतीनि मारते १२ आश्वरथन्तरयोः पञ्च १३ वैदन्वते चाभ्यासवति १४ उत्तमे तु पदान्तस्तस्य १५ आदौ वा द्वे उभयतःस्तोमे १६ तृतीयं वा १७ उभौ वैकः १८
इति द्राह्यायणश्रौतसूत्रे एकोनविंशे पटले प्रथमः खण्डः १

19.2 द्वितीयः खण्डः
आकूपारक्रौञ्चे गायत्रीसामनी दैवातिथं गौषूक्तं रौरवं द्विहिंकारं वामदेव्यमेकारान्तःप्रस्तावं वैयश्वमरण्येगेयं शाक्वरवर्णं सौभरं बार्हद्गिररायोवाजीये स्वारमैध्मवाहं गौशृङ्गं हारायणकौल्मलबर्हिषे जनित्रमुत्तरं वैतहव्यमिहवद्वामदेव्यं प्रतीचीनेडं काशीतं वैष्णवं पूर्वं श्यैतं संजयम् । तेषां षट् १ अस्तोभावुत्तमयोः २ प्रथमतृतीययोरुभयतःस्तोभौ ३ प्रागौकारात्प्रथमे ४ हिंकारात्तृतीये ५ अप्रतिहारे पूर्वे स्तोत्रीये शाक्वरवर्णस्य ६ इहकारान्त ऐध्मवाहे स्तोभः ७ सर्वो वा ८ प्रागोवायास्त्रिषूत्तरेषु ६ पौरुमद्गे च १० ओकाराज्जनित्रे ११ सह वौवया पौरुमद्गे १२ गौशृङ्गहारायणकौल्मलबर्हिषवैतहव्यानां वा पदान्तः १३ द्वाभ्यां पूर्वयोश्चतुरुत्तरयोः १४ पुरस्तात्स्तोभः कौल्मलबर्हिषस्य १५
इति द्राह्यायणश्रौतसूत्रे एकोनविंशे पटले द्वितीयः खण्डः

19.3 तृतीयः खण्डः
सप्त वारवन्तीये पूर्वस्मिन् । तेषां त्रीणि पदान्ते १ कार्षश्रवसं त्रैतं पज्रं तौरश्रवसमुत्तरं श्रुध्यमुद्वंशपुत्रः शाक्वरम् । तेषामष्टौ २ पज्रतौरश्रवसयोरर्द्धानि पदान्ते ३ श्रुध्यस्य च ककुप्सु ४ तस्य गायत्रीषु चत्वारि ५ षोडश बृहतीषु ६ नदं व ओदतीनामिति दश ७ मध्यमस्य पदस्याभ्यासः शाक्चरे ८ न्याय्यो वा ६ वायोरभिक्रन्दः स्वारं कावमौरुक्षयमौशनश्यावाश्वे त्रैष्टुभे श्नौष्टं जागतं सोमसाम कार्तयशं स्वारं पयोनिधनमृषभः शाक्वरो यण्वापत्ये । तेषामुत्तमं पदम् १० पुरस्तात्स्तोभा उत्तमानां त्रयाणाम् ११ अप्रतिहारा प्रथमा स्तोत्रीया यण्वापत्ययोः १२ पञ्चानां वादित उत्तमे पदे चत्वारि १३ वैखानसं पौरुहन्मनमुद्वंशीयमाष्कारणिधनं त्वाष्ट्रीसाम । तेषामुत्तमं पदं प्रागभ्यासात् १४ अभ्यासे वा चत्वार्युत्तरयोः १५
इति द्राह्यायणश्रौतसूत्रे एकोनविंशे पटले तृतीयः खण्डः ३

19.4 चतुर्थः खण्डः
शाक्त्यसाम मैधातिथं वारवन्तीयमुत्तरमाभीशवे सिमानां निषेधस्त्रिणिधने त्वाष्ट्रीसामायास्ये दार्ढच्युतमाथर्वणं रेवत्य ऐटतमग्नेस्त्रिणिधनमुत्सेधनिषेधावैडं साकमश्वं दैर्घश्रवसं दाशस्पत्यं ग्रामेगेयश्येनः । तानि द्विप्रतिहाराणि १ मध्यमयोः पदयोः शाक्त्यसाममैधातिथयोः पदान्तो द्वाभ्याम् २ चतुर्भिर्वा ३ इहाहे वारवन्तीये ४ सप्तभिर्वेकप्रतिहारं प्रागिहाहायाः ५ उकारादिर्वैकेन पदान्तः ६ न्याय्यो वा ७ पूर्वयोश्च ८ वारवन्तीयस्य द्विपदासु सप्तानां स्थाने चत्वारि ९ द्वे चतुर्णाम् १० द्वे एकमित्येकपदायाम् ११ उत्तरयोः पदयोरुत्तरेषाम् १२ द्वे द्वे तु षण्णामाभीशव प्रभृतीनाम् १३ चत्वारि वा सिमानां निषेधस्य त्वाष्ट्रीसाम्नश्च १४ पुरस्तात्स्तोभा वाथर्वणस्य १५ तत्प्रभृतीनां चत्वारि १६ अष्टौ वा दाशस्पत्ये १७ पूर्वे वोत्तरेणैकप्रतिहारे १८ तृतीयपञ्चमाभ्यां पदाभ्यां श्येने १९ चतुर्थषष्ठयोर्वा पदयोर्द्वे पदयोर्द्वे २०
इति द्राह्यायणश्रौतसूत्रे एकोनविंशे पटले चतुर्थः खण्डः ४