कल्पः/श्रौतसूत्राणि/द्राह्यायणश्रौतसूत्रम्/पटलः २४

← पटलः २३ द्राह्यायणश्रौतसूत्रम्
पटलः २४
द्राह्यायणः
पटलः २५ →

24.1 चतुर्विंशः पटलः । प्रथमः खण्डः
उपहव्ये देवता नामधेयानि परोक्षं ब्रूयुः स्वस्थानासु १ प्रत्यक्षमस्वस्थानासु २ देवशब्दं सर्वत्र वर्जयेयुः ३ होता देवो महीमित्रस्येत्येते होता यज्ञोमहीयज्ञस्येति ब्रूयुः ४ इन्दुरिति सोमम् ५ आदिष्टा दक्षिणा ब्राह्मणेन ६ इतरेभ्यश्च किंचिद्दद्यात् ७ ऋतपेयस्य द्वादश दीक्षोपसद इति तिस्र उपसदः । षड्वा ८ घृतव्रतो भवतीति यथोत्साहं दीक्षासु प्राश्नीयात् ६ उत्तरेणोत्तरेण काण्डेनोपैतीति पृथगुपसत्स्वङ्गुलिपर्वभिः प्रतिलोमैः प्राश्नीयादिति शाण्डिल्यः १० एकाङ्गुल्या पृथक्पर्वभिः सर्वान्देशांश्चमसा मिताः स्युः । तैरनुलोमैरिति शौचिवृक्षिः ११ प्रतिलोमैरिति धानंजय्यः १२ ऋतमुक्त्वा प्रसर्पन्तीति प्रस्रप्स्यतः सदो भक्षयिष्यन्तश्च देव सत्यानि ब्रूयुरियं भूमिरित्युक्त्वासावादित्य उदेता प्रातरादित्य इति १३ या अस्य देवताश्चमसैरिज्येरन् तत्पीतवद्भक्षमन्त्रानूहेयुरिति धानंजय्यः १४ अविकारेण तु नाराशंसानाम् १५ सर्वक्रतुष्वेवमेके १६ अनुव्यूहन्ति च भक्षच्छन्दांसि १७ सर्वत्राविकारेणाचार्याः १८ सोमचमसो दक्षिणेत्यभिषुतस्य स्यात् १९ तस्मिन्हि चमसं प्रमाणम् २० तं मध्यंदिने चमसमुखीयैः सहोन्नयेयुः २१ जुहुयुश्चास्य हुतो देयः इति ब्राह्मणम् २२ तं दक्षिणावेलायां पूर्वेणाहवनीयमनिर्हरन्तो वेदेर्दक्षिणेन सदो हविर्धानानि हारयित्वा पूर्वया द्वारा सदः प्रविशेयुः २३ संस्थितेऽहन्यृत्विग्भ्यः किंचिद्दद्यात् २४
इति द्राह्यायणश्रौतसूत्रे चतुर्विशे पटले प्रथमः खण्डः १

24.2 द्वितीयः खण्डः
आदिष्टा दक्षिणा ब्राह्मणेन दूणाशस्य १ एतावन्त्यष्टाविंशतिशतमानानीति यत्र स्याच्चतुर्विंशतिमानानां तावन्त्यष्टाविंशतिशतानि दद्यात् २ रुक्मो होतुरिति निष्को नामालंकारस्तं दद्यात् । स्रगुद्गातुरिति हिरण्मयी स्यात् ३ वैश्यस्तोमे सद्यो दुग्धेन पयसा सोमं मिश्रं कुर्युः प्रातःसवने शृतेन मध्यंदिने दध्ना तृतीयसवने ४ तस्य दक्षिणाः द्वादशशतं सहस्रं वा यथारूपाः पञ्चशारदीये पशव आलभ्यन्ते ५ तीव्रसुति सोमातिपवितं याजयेदिति य इष्ट्वा पापीयान् स्यात् स सोमातिपवित इति शाण्डिल्यः ६ यः सोमं पीत्वा छर्दयेत विरिच्येत वेति धानंजय्यः ७ ज्येष्ठो वानिष्टीकः कनीयसीष्टिनीति ८ तत्र भक्षावृता चमसानवजिघ्रेयुः ६ अभक्षयन्त ऋत्विजश्चमसानवजिघ्रन्तीति ह्याह १० तानच्छावाकस्य स्तोत्रे भक्षयेयुरेवं सर्वेषु सवनेषु ११ अभ्यभिसोमानुन्नयन्तीति यानवजिघ्रेयुस्तेष्वेवाभ्युन्नयेयुः १२ शतमाशिरं दुहन्तीति धेनुशतं दोहयित्वा तत्त्रैधं विभज्य सोममिश्रं कुर्युर्यथा वैश्यस्तोमे १३ तस्य तदेव धेनुशतं दक्षिणास्ता उ एव दक्षिणा इति ह्याह १४
इति द्राह्यायणश्रौतसूत्रे चतुर्विंशे पटले द्वितीयः खण्डः २

24.3 तृतीयः खण्डः
यं ब्राह्मणा राजानश्च पुरस्कुर्वीरन् स वाजपेयेन यजेत १ तस्य पौर्णमास्यां दीक्षित्वा त्रयोदश दीक्षाः कुर्वीरन् २ सप्तदश वा ३ अमावास्यायां दीक्षित्वा मासमिति गौतमः ४ संवत्सरमिति धानंजय्यः ५ षडुपसत्कश्च साग्निचित्यः स्यादिति ६ पार्ष्टिकान् स्तोमान् ज्योतिष्टोमस्य तन्त्रे कल्पयित्वा तैर्ज्योतिष्टोमव्यपेतैस्तत्प्रभृतिभिः संवत्सरं पूर्वपक्षेषु यजेत ७ त्रयोदशे पूर्वपक्षे वाजपेयेनेष्ट्वैतैरेवावृत्तैरपरं संवत्सरम् ८ ता यथोत्साहदक्षिणाः स्युः ९ राजसूयेत यजेतेति लामकायनः १० त्रिवृत्पञ्चदशोऽभ्यारोहणीयस्य स्थाने स्यात् ११ वाजपेयोऽभिषेचनीयस्य १२ पञ्चदशं त्रिवृत्केशवपनीयस्य १३ व्युष्टिक्षत्रधृत्योर्ज्योतिष्टोमः १४ बृहस्पतिसवेनैव पुरस्तादुपरिष्टाञ्च परियजेतेति शाण्डिल्यः १५ मासमात्रे पुरस्ताज्ज्योतिष्टोमेन तथोपरिष्टादिति धानंजय्यः १६ प्रत्यवरोहणीयेनैवान्ततो यजेत नैतेषां केनचिदिति गौतमः १७ सदस्यसप्तदशान् पृथगृत्विजो वृणीत १८ तस्य दक्षिणा दासीनिष्करथहस्तियानगवां पृष्ठ्यानां चाश्वानां सप्तदशैकैकस्य जातस्य १९ सहस्राणि गवां शतानि वा २० सप्तदश वैव गावस्तं कुरुवाजपेयः इत्याचक्षते २१ ताः सममृत्विग्भ्यो विभजेत् २२ श्रेष्ठतो वा मध्यतःकारिभ्यः २३ येन रथेनाजिं धावेत्तमुद्रात्रे दद्यादासन्दीं च सास्तरणां यामभिषिक्त आरोहेत् २४ बस्तचर्म सरुक्मं होत्रे यस्मिन्नासीनोऽभिषिच्येत २५ वसनमयी रशनाध्वर्यवे २६ हिरण्यस्थालं मधुना पूर्णं ब्रह्मणे २७ कंसस्थाले वा हिरण्यतुषान्मधुमिश्रान् २८
इति द्राह्यायणश्रौतसूत्रे चतुर्विंशे पटले तृतीयः खण्डः ३

24.4 चतुर्थः खण्डः
तस्य व्रतानि १ क्षत्रवृत्तिं वर्त्तयेत् २ प्रत्यवरोहणाभिवादने जघन्यव्रज्यां समानशय्यतामिति च वर्जयेदवाजपेययाजिभिः ३ यथावयसं वाजपेययाजिभिः ४ प्रत्यवरोहणीयेनेष्ट्वा नैतानि व्रतानि चरेदिति शाण्डिल्यायनः ५ तस्य विकल्पाः ६ प्राकृत एव वाजपेय एकिप्रभृतिद्व्युत्तरान् सप्तदशत्रयस्त्रिंशान्तान् स्तोमान् कल्पयेत्स मयूरो नेकर्षी ७ तस्योपास्मै गायता नर (सा ६५१) इति बहिष्पवमानम् ८ ब्रह्मसामैव प्रत्येतेन स्वर्गलोकमाक्रमत इति शाण्डिल्यः ६ ज्योतिष्टोमो वातिरात्रोऽषोडशिकः १० अनतिरात्रो वा षोडशिमान् ११ तस्य बृहत्सप्तदशं स्तोत्रं स्यात् । पञ्चदशस्तोमं स्वासु १२ अग्निष्टोमो वा १३ तस्याभीवर्तो ब्रह्मसामानुष्टुभि यज्ञायज्ञीयमनुकल्पयेद्बृहदग्निष्टोमसाम पञ्चविंशं पृष्ठानां ब्रह्मसामाच्छावाकसाम वा चतुर्विंशमितरत् १४ एतस्य वैव चतुस्त्रिंशानि पृष्ठान्यग्निष्टोमसाम च सप्तदशमितरत्सर्वम् १५ नैतेषां कश्चन वाजपेय इति गौतमः १६ यजमानश्चैतेषु न वाजपेय दक्षिणा दद्यादिति दद्यादिति १७
इति द्राह्यायणश्रौतसूत्रे चतुर्विंशे पटले चतुर्थः खण्डः ४