प्रमुखा विकल्पसूचिः उद्घाट्यताम्

सुभाषितरत्नकोशः/५० कविस्तुतिव्रज्या

← ४९ संकीर्णव्रज्या| सुभाषितरत्नकोशः
५० कविस्तुतिव्रज्या
विद्याकरः

ततः कविस्तुतिव्रज्या

सुबन्धौ भक्तिर् नः क इह रघुकारे न रमते धृतिर् दाक्षीपुत्रे हरति हरिचन्द्रो ऽपि हृदयम् ।
विशुद्धोक्तिः शूरः प्रकृतिसुभगा भारवगिरस् तथाप्य् अन्तर्मोदं कम् अपि भवभूतिर् वितनुते ५०.१ (१६९८)

तातः सृष्टिम् अपूर्ववस्तुविषयाम् एको ऽत्र निर्व्यूढवान् निष्णातः कविकुञ्जरेन्द्रचरिते मार्गे गिरां वागुरः ।
रेवाविन्ध्यपुलीन्द्रपामरवधूझञ्झानिलप्रेषित- प्राये ऽर्थे वचनानि पल्लवयितुं जानाति योगेश्वरः ५०.२ (१६९९)
अभिनन्दस्य

पातुं कर्णरसायनं रचयितुं वाचः सतां संमतां व्युत्पत्तिं परमाम् अवाप्तुम् अवधिं लब्धुं रसस्रोतसः ।
भोक्तुं स्वादुफलं च जीविततरोर् यद्य् अस्ति ते कौतुकं तद् भ्रातः शृणु राजशेखरकवेः सूक्तीः सुधास्यन्दिनीः ५०.३ (१७००)
शंकरवर्मणः

देवीं वाचम् उपासते हि बहवः सारं तु सारस्वतं जानीते नितराम् असौ गुरुकुलक्लिष्टो मुरारिः कविः ।
अब्धिर् लङ्घित एव वानरभटैः किं त्व् अस्य गम्भीरताम् आपातालविलग्नपीवरवपुर् जानाति मन्थाचलः ५०.४ (१७०१)

तत् तादृग् उज्ज्वलककुत्स्थकुलप्रशस्ति- सौरभ्यनिर्भरगभीरमनोहराणि ।
वाल्मीकिवागमृतकूपनिपातलक्ष्मीम् एतानि बिभ्रति मुरारिकवेर् वचांसि ५०.५ (१७०२)
मुरारेर् एतौ

धिग् धिक् तान् समयान् परिश्रमरुजो धिक् ता गिरो निष्फला यत्रामूर् न भवन्ति वल्लणगुणोत्खातामृतप्रीतयः ।
रोम्णां नृत्यभुवो विलोचनपयःपूराब्धिचन्द्रोदयाः साहित्यप्रतिगण्डगर्वगलनग्लानिक्रियाहेतवः ५०.६ (१७०३)

उत्तानोल्लपितप्रतारितनवश्रोत्रैः कथं भाव्यतां वाक्प्रत्यंशनिवेशिताखिलजगत्तत्त्वा कवीनां कला ।
रथ्यागर्तविगाहनाद्भुतकृतैर् गाह्यः क्व रत्नाकरो यस्यान्तःशफरावमाननटतीमज्जद्गिरीन्द्राः श्रियः ५०.७ (१७०४)

अनुद्घुष्टः शब्दैर् अथ च घटनातः स्फुटरसः पदानाम् अर्थात्मा रमयति न तूत्तानितरसः ।
यथा किंचित् किंचित् पवनचलचीनांशुकतया स्तनाभोगः स्त्रीणां हरति न तथोन्मुद्रिततनुः ५०.८ (१७०५)
वल्लणस्यैते

अस्तंगतभारविरवि कालवशात् कालिदासविधुविधुरम् ।
निर्वाणबाणदीपं जगद् इदम् अद्योति रत्नेन ५०.९ (१७०६)

जानकीहरणं कर्तुं रघुवंशे पुरःस्थिते ।
कविः कुमारदासो वा रावणो वा यदि क्षमः ५०.१० (१७०७)

शब्दास् ते न तथाविधाः पथि धियां लोकस्य ये नासते नार्थात्मापि स को ऽपि धावति गिरां भूपालमार्गे न यः ।
अस्त्य् अन्यस् तु स संनिवेशशिशिरः शब्दार्थयोः संगमो येनामी स्ववशेन दग्धकवयो मथ्नन्ति चेतांसि नः ५०.११ (१७०८)

जयति कविकण्ठहरः श्रीरघुकारः प्रमेयकेदारे ।
यन्मतिदात्रविलूने शिलोञ्छम् इव कुर्वते कवयः ५०.१२ (१७०९)

कवीनाम् अगलद् दर्पो नूनं वासवदत्तया ।
शक्त्येव पाण्डुपुत्राणां गतया कर्णगोचरम् ५०.१३ (१७१०)

कीर्तिः प्रवरसेनस्य प्रयाता कुसुमोज्ज्वला ।
समुद्रस्य परं पारं कपिसेनेव सेतुना ५०.१४ (१७११)

सन्ति श्वान इवासंख्या जातिभाजो गृहे गृहे ।
उत्पादका न बहवः कवयः शरभा इव ५०.१५ (१७१२)
बाणस्यामी

कवयः कालिदासाद्याः कवयो वयम् अप्य् अमी ।
पर्वते परमाणौ च वस्तुत्वम् उभयोर् अपि ५०.१६ (१७१३)

सौजन्याङ्कुरकन्द सुन्दरकथासर्वस्व सीमन्तिनी- चित्ताकर्षणमन्त्र मन्मथसरित्कल्लोल वाग्वल्लभ ।
सौभाग्यैकनिवेश पेशलगिराम् आधार धैर्याम्बुधे धर्माद्रिद्रुम राजशेखर सखे दृष्टो ऽसि यामो वयम् ५०.१७ (१७१४)

यद् एतद् वागर्थव्यतिकरमयं किंचिद् अमृतं प्रमोदप्रस्यन्दैः सहृदयमनांसि स्नपयति ।
इदं काव्यं तत्त्वं स्फुरति तु यद् अत्राणु परमं तद् अन्तर्बुद्धीनां स्फुटम् अथ च वाचाम् अविषयः ५०.१८ (१७१५)

सुवर्णालंकारा प्रकटितरसाश्लेषनिपुणा स्फुरद्वैदर्भोक्तिर् ललितपदबन्धक्रमगतिः ।
लसद्भूयोभावा मृदुर् अपि विमर्दोचिततनुः कवीन्द्र त्वद्वाणी हरति हरिणाक्षीव हृदयम् ५०.१९ (१७१६)

अम्बा येन सरस्वती सुतवती तस्यार्पयन्ती रसान् नानाचाटुमुखी स दुर्लडितवान् खेलाभिर् उच्छृङ्खलः ।
जिह्वादुर्व्यसनैर् उपद्रवरुजः कुर्वन्ति ये दुःसुतास् तान् दृष्ट्वार्थम् इतस् ततो निखनति स्वं निःस्वम् आतन्वती ५०.२० (१७१७)
वल्लणस्य

अविदितगुणापि सत्कविभणितिः कर्णेषु वमति मधुधाराम् ।
अनधिगतपरिमलापि हि हरति दृशं मालतीमाला ५०.२१ (१७१८)
सुबन्धोः

बभूव वल्मीकभवः पुरा कविस् ततः प्रपेदे भुवि भर्तृमेठताम् ।
पुनः स्थितो यो भवभूतिरेखया स वर्तते सम्प्रति राजशेखरः ५०.२२ (१७१९)

उच्छ्वासो ऽपि न निर्याति बाणे हृदयवर्तिनि ।
किं पुनर् विकटाटोप- पदबन्धा सरस्वती ५०.२३ (१७२०)

यल्लग्नं हृदि पुंसां भूयो भूयः शिरो न घूर्णयति ।
तद् अपि कवेः किम् उ काव्यं काण्डो वा धन्विनां किम् असौ ५०.२४ (१७२१)
तामरसस्य

कथंचित् कालिदासस्य कालेन बहुना मया ।
अवगाढेव गम्भीर- मसृणौघा सरस्वती ५०.२५ (१७२२)

कश्चिद् वाचं रचयितुम् अलं श्रोतुम् एवापरस् तां कल्याणी ते मतुर् उभयतो विस्मयं नस् तनोति ।
न ह्य् एकस्मिन्न् अतिशयवतां संनिपातो गुणानाम् एकः सूते कनकम् उपलस् तत्परीक्षाक्षमो ऽन्यः ५०.२६ (१७२३)
कालिदास्य।।

पोइन्त्स् ओउत् थत् थे अत्त्रिबुतिओन् तो Kआलिदास इस् बसेद्
ओन् अ मिसुन्देर्स्तन्दिन्ग् ओf थे रेमर्क्स् wइथ् wहिछ् Rआजशेखर
प्रेचेदेस् हिस् चिततिओन् ओf थे वेर्से इन् थे Kआव्यमीमांसा.

प्रयोगव्युत्पत्तौ प्रतिपदविशेषार्थकथने प्रसत्तौ गाम्भीर्ये रसवति च वाक्यार्थघटने ।
अगम्यायाम् अन्यैर् दिशि परिणतेश् चार्थवचसोर् मतं चेद् अस्माकं कविर् अमरसिंहो विजयते ५०.२७ (१७२४)
शालिकस्य

इयं गौर् उद्दामा तव निबिडबन्धापि हि कथं न वैदर्भाद् अन्यत् स्पृशति सुलभत्वे ऽपि हि कथम् ।
अवन्ध्या च ख्याता भुवि कथम् अगम्या कविवृषैः कथं वा पीयूषं स्रवति बहु दुग्धापि बहुभिः ५०.२८ (१७२५)
शब्दार्णवस्य

शैलैर् बन्धयति स्म वानरहृतैर् वाल्मीकिर् अम्भोनिधिं व्यासः पार्थशरैस् तथापि न तयोर् अत्युक्तिर् उद्भाव्यते ।
वागर्थौ च तुलाधृताव् इव तथाप्य् अस्मिन् निबन्धान् अयं लोको दूषयति प्रसारितमुखस् तुभ्यं प्रतिष्ठे नमः ५०.२९ (१७२६)
धर्मकीर्तेः

हा कष्टं कविचक्रमौलिमणिना दक्षेण यन् नेक्षितः श्रीमान् उत्पलराजदेवनृपतिर् विद्यावधूवल्लभः ।
तस्याप्य् अर्थिजनैकरोहणगिरेर् लक्ष्मीर् वृथैवाभवद् दक्षस्यास्य न येन सुन्दरगिरः कर्णावतंसीकृताः ५०.३० (१७२७)
दक्षस्य

यस्य यथा विज्ञानं तादृक् तस्येह हृदयसद्भावः ।
उन्मीलति कविपुङ्गवचने च पुराणपुरुषे च ५०.३१ (१७२८)

वहति न पुरः कश्चित् पश्चान् न को ऽप्य् अनुयाति मां न च नवपदक्षुण्णो मार्गः कथं न्व् अहम् एककः ।
भवति विदितं पूर्वव्यूढो ऽधुना खिलतां गतः स खलु बहुलो वामः पन्था मया स्फुटम् उर्जितः ५०.३२ (१७२९)
धर्मकीर्तिपदानाम्

विद्यावधूम् अपरिणीय कुलानुरूपां श्लाघ्यां सुताम् इव ततः श्रियम् अप्रसूय ।
तां चार्थिने प्रणयपेशलम् अप्रदाय धिक् तं मनुष्यपदम् आत्मनि यः प्रयुङ्क्ते ५०.३३ (१७३०)
भर्तृहरेः

ये नाम केचिद् इह नः प्रथयन्त्य् अवज्ञां जानन्ति ते किम् अपि तान् प्रति नैष यत्नः ।
उत्पत्स्यते तु मम को ऽपि समानधर्मा कालो ह्य् अयं निरवधिर् विपुला च लक्ष्मीः ५०.३४ (१७३१)
चेः।

निधानं विद्यानां कुलगृहम् अपारस्य यशसः शुचि क्ष्मापालानां सुचरितकथादर्पणतलम् ।
कलासम्पद्रत्नव्रततिविटपानां सुरतरुः प्रकृत्या गम्भीरः कविर् इह सशब्दो विजयते ५०.३५ (१७३२)

उन्नीतो भवभूतिना प्रतिदिनं बाणे गते यः पुरा यश् चीर्णः कमलायुधेन सुचिरं येनागमत् केशटः ।
यः श्रीवाक्पतिराजपादरजसां सम्पर्कपूतश् चिरं दिष्ट्या श्लाघगुणस्य कस्यचिद् असौ मार्गः समुन्मीलति ५०.३६ (१७३३)

परमाद्भुतरसधामन्य् उत्सलिते जगति वल्लनाम्भोधौ ।
विश्रान्तो रसभागस्तिमितयति यथा गभीरिमा को ऽपि ५०.३७ (१७३४)
वल्लणस्य

आढ्यराजकृतारम्भैर् हृदयस्थैः स्मृतैर् अपि ।
जिह्वान्तः कृष्यमाणेव न कवित्वे प्रगल्भते ५०.३८ (१७३५)
बाणस्य

वाल्मीकेर् मुकुलीकृतैव कविता कः स्तोतुम् अस्त्य् आदरो वैयासानि वचांसि भारविगिरां भूतैव निर्भर्त्सना ।
काव्यं चेद् अवतंसभूपम् अभजद् धर्मायणं कर्णयोस् तातः किं बहु वर्ण्यते स भगवान् वैदर्भगर्भेश्वरः ५०.३९ (१७३६)
धर्माशोकस्य

वामाङ्गं पृथुलस्तनस्तबकितं यावद् भवानीपतेर् लक्ष्मीकण्ठहठग्रहव्यसनिता यावच् च दोषाणां हरेः ।
यावच् च प्रतिसामसारणविधिव्यग्रौ करौ ब्रह्मणः स्थेयासुः श्रुतिशुक्तिलेह्यमधवस् तावत् सतां सूक्तयः ५०.४० (१७३७)

कीर्त्या समं त्रिदिववासम् उपस्थितानां मर्त्यावतीर्णमरुताम् अपि सत्कवीनाम् ।
जग्रन्थ दुर्लभसुभाषितरत्नकोषं विद्याकरः सुकृतिकण्ठविभूषणाय ५०.४१ (१७३८)

इति कविवर्णनव्रज्या समाप्ता।।
समाप्तो ऽयं सुभाषितरत्नकोष इति।।
पण्डितश्रीभीमार्जुनसोमस्य।।