काकिन्यष्टोत्तरसहस्रनामस्तोत्रम्


श्रीगणेशाय नमः ।
श्रीआनन्दभैरव उवाच ।
वद कल्याणि कामेशि त्रैलोक्यपरिपूजिते ।
ब्रह्माण्डानन्तनिलये कैलासशिखरोज्ज्वले ॥ १ ॥

कालिके कालरात्रिस्थे महाकालनिषेविते ।
शब्दब्रह्मस्वरूपे त्वं वक्तुमर्हसि सादरात् ॥ २ ॥

सहस्रनामयोगाख्यम् अष्टोत्तरमनन्तरम् ।
अनन्तकोटिब्रह्माण्डं सारं परममङ्गलम् ॥ ३ ॥

ज्ञानसिद्धिकरं साक्षाद् अत्यन्तानन्दवर्धनम् ।
सङ्केतशब्दमोक्षार्थं काकिनीश्वरसंयुतम् ॥ ४ ॥

परानन्दकरं ब्रह्म निर्वाणपदलालितम् ।
स्नेहादभिसुखानन्दादादौ ब्रह्म वरानने ॥ ५ ॥

इच्छामि सर्वदा मातर्जगतां सुरसुन्दरि ।
स्नेहानन्दरसोद्रेकसम्बन्धान् कथय द्रुतम् ॥ ६ ॥

श्रीआनन्दभैरवी उवाच
ईश्वर श्रीनीलकण्ठ नागमालाविभूषितः ।
नागेन्द्रचित्रमालाढ्य नागाधिपरमेश्वरः ॥ ७ ॥

काकिनीश्वरयोगाढ्यं सहस्रनाम मङ्गलम् ।
अष्टोत्तरं वृताकारं कोटिसौदामिनीप्रभम् ॥ ८ ॥

आयुरारोग्यजननं शृणुष्वावहितो मम ।
अनन्तकोटिब्रह्माण्डसारं नित्यं परात्परम् ॥ ९ ॥

साधनं ब्रह्मणो ज्ञानं योगानां योगसाधनम् ।
सार्वज्ञगुह्यसंस्कारं संस्कारादिफलप्रदम् ॥ १० ॥

वाञ्छासिद्धिकरं साक्षान्महापातकनाशनम् ।
महादारिद्र्यशमनं महैश्वर्यप्रदायकम् ॥ ११ ॥

जपेद्यः प्रातरि प्रीतो मध्याह्नेऽस्तमिते रवौ ।
नमस्कृत्य जपेन्नाम ध्यानयोगपरायणः ॥ १२ ॥

काकिनीश्वरसंयोगं ध्यानं ध्यानगुणोदयम् ।
आदौ ध्यानं समाचर्य निर्मलोऽमलचेतसा ॥ १३ ॥

ध्यायेद् देवीं महाकालीं काकिनीं कालरूपिणीम् ।
परानन्दरसोन्मत्तां श्यामां कामदुघां पराम् ॥ १४ ॥

चतुर्भुजां खड्गचर्मवरपद्मधरां हराम् ।
शत्रुक्षयकरीं रत्नाऽलङ्कारकोटिमण्डिताम् ॥ १५ ॥

तरुणानन्दरसिकां पीतवस्त्रां मनोरमाम् ।
केयूरहारललितां ताटङ्कद्वयशोभिताम् ॥ १६ ॥

ईश्वरीं कामरत्नाख्यां काकचञ्चुपुटाननाम् ।
सुन्दरीं वनमालाढ्यां चारुसिंहासनस्थिताम् ॥ १७ ॥

हृत्पद्मकर्णिकामध्याकाशसौदामिनीप्रभाम् ।
एवं ध्यात्वा पठेन्नाममङ्गलानि पुनः पुनः ॥ १८ ॥

ईश्वरं कोटिसूर्याभं ध्यायेद्धृदयमण्डले ।
चतुर्भुजं वीररूपं लावण्यं भावसम्भवम् ॥ १९ ॥

श्यामं हिरण्यभूषाङ्गं चन्द्रकोटिसुशीतलम् ।
अभयं वरदं पद्मं महाखड्गधरं विभुम् ॥ २० ॥

किरीटिनं महाकायं स्मितहास्यं प्रकाशकम् ।
हृदयाम्बुजमध्यस्थं नूपुरैरुपशोभितम् ॥ २१ ॥

कोटिकालानलं दीप्तं काकिनीदक्षिणस्थितम् ।
एवं विचिन्त्य मनसा योगिनं परमेश्वरम् ॥ २२ ॥

ततः पठेत् सहस्राख्यं वदामि शृणु तत्प्रभो ॥ २३ ॥

अस्य श्रीकाकिनीश्वरसहस्रनामस्तोत्रस्य ब्रह्माऋषि ,
गायत्रीच्छन्दः , जगदीश्वर काकिनी देवता ,
 निर्वाणयोगार्थ सिद्धयर्थे जपे विनियोगः ।
ॐ ईश्वरः काकिनीशान ईशान कमलेश्वरी ।
ईशः काकेश्वरीशानी ईश्वरीशः कुलेश्वरी ॥ २४ ॥

ईशमोक्षः कामधेनुः कपर्दीशः कपर्दिनी ।
कौलः कुलीनान्तरगा कविः काव्यप्रकाशिनी ॥ २५ ॥

कलादेशः सुकविता कारणः करुणामयी ।
कञ्जपत्रेक्षणः काली कामः कोलावलीश्वरी ॥ २६ ॥

किरातरूपी कैवल्या किरणः कामनाशना ।
कार्णाटेशः सकर्णाटी कलिकः कालिकापुटा ॥ २७ ॥

किशोरः कीशुनमिता केशवेशः कुलेश्वरी ।
केशकिञ्जल्ककुटिलः कामराजकुतूहला ॥ २८ ॥

करकोटिधरः कूटा क्रियाक्रूरः क्रियावती ।
कुम्भहा कुम्भहन्त्री च कटकच्छकलावती ॥ २९ ॥

कञ्जवक्त्रः कालमुखी कोटिसूर्यकरानना ।
कम्रः कलपः समृद्धिस्था कुपोऽन्तस्थः कुलाचला ॥ ३० ॥

कुणपः कौलपाकाशा स्वकान्तः कामवासिनी ।
सुकृतिः शाङ्करी विद्या कलकः कलनाश्रया ॥ ३१ ॥

कर्कन्धुस्थः कौलकन्या कुलीनः कन्यकाकुला ।
कुमारः केशरी विद्या कामहा कुलपण्डिता ॥ ३२ ॥

कल्कीशः कमनीयाङ्गी कुशलः कुशलावती ।
केतकीपुष्पमालाढ्यः केतकीकुसुमान्विता ॥ ३३ ॥

कुसुमानन्दमालाढ्यः कुसुमामलमालिका ।
कवीन्द्रः काव्यसम्भूतः काममञ्जीररञ्जिनी ॥ ३४ ॥

कुशासनस्थः कौशल्याकुलपः कल्पपादपा ।
कल्पवृक्षः कल्पलता विकल्पः कल्पगामिनी ॥ ३५ ॥

कठोरस्थः काचनिभा करालः कालवासिनी ।
कालकूटाश्रयानन्दः कर्कशाकाशवाहिनी ॥ ३६ ॥

कटधूमाकृतिच्छायो विकटासनसंस्थिता ।
कायधारी कूपकरी करवीरागतः कृषी ॥ ३७ ॥

कालगम्भीरनादान्ता विकलालापमानसा ।
प्रकृतीशः सत्प्रकृतिः प्रकृष्टः कर्षिणीश्वरी ॥ ३८ ॥

भगवान् वारुणीवर्णा विवर्णो वर्णरूपिणी ।
सुवर्णवर्णो हेमाभो महान् महेन्द्रपूजिता ॥ ३९ ॥

महात्मा महतीशानी महेशो मत्तगामिनी ।
महावीरो महावेगा महालक्ष्मीश्वरो मतिः ॥ ४० ॥

महादेवो महादेवी महानन्दो महाकला ।
महाकालो महाकाली महाबलो महाबला ॥ ४१ ॥

महामान्यो महामान्या महाधन्यो महाधनी ।
महामालो महामाला महाकाशो महाकाशा ॥ ४२ ॥

महायशो महायज्ञा महाराजो महारजा ।
महाविद्यो महाविद्या महामुख्यो महामखी ॥ ४३ ॥

महारात्रो महारात्रिर्महाधीरो महाशया ।
महाक्षेत्रो महाक्षेत्रा कुरुक्षेत्रः कुरुप्रिया ॥ ४४ ॥

महाचण्डो महोग्रा च महामत्तो महामतिः ।
महावेदो महावेदा महोत्साहो महोत्सवा ॥ ४५ ॥

महाकल्पो महाकल्पा महायोगो महागतिः ।
महाभद्रो महाभद्रा महासूक्ष्मो महाचला ॥ ४६ ॥

महावाक्यो महावाणी महायज्वा महाजवा ।
महामूर्तीर्महाकान्ता महाधर्मो महाधना ॥ ४७ ॥

महामहोग्रो महिषी महाभोग्यो महाप्रभा ।
महाक्षेमो महामाया महामाया महारमा ॥ ४८ ॥

महेन्द्रपूजिता माता विभालो मण्डलेश्वरी ।
महाविकालो विकला प्रतलस्थललामगा ॥ ४९ ॥

कैवल्यदाता कैवल्या कौतुकस्थो विकर्षिणी ।
वालाप्रतिर्वालपत्नी बलरामो वलाङ्गजा ॥ ५० ॥

अवलेशः कामवीरा प्राणेशः प्राणरक्षिणी ।
पञ्चमाचारगः पञ्चापञ्चमः पञ्चमीश्वरी ॥ ५१ ॥

प्रपञ्चः पञ्चरसगा निष्प्रपञ्चः कृपामयी ।
कामरूपी कामरूपा कामक्रोधविवर्जिता ॥ ५२ ॥

कामात्मा कामनिलया कामाख्या कामचञ्चला ।
कामपुष्पधरः कामा कामेशः कामपुष्पिणी ॥ ५३ ॥

महामुद्राधरो मुद्रा सन्मुद्रः काममुद्रिका ।
चन्द्रार्धकृतभालाभो विधुकोटिमुखाम्बुजा ॥ ५४ ॥

चन्द्रकोटिप्रभाधारी चन्द्रज्योतिःस्वरूपिणी ।
सूर्याभो वीरकिरणा सूर्यकोटिविभाविता ॥ ५५ ॥

मिहिरेशो मानवका अन्तर्ग्गामी निराश्रया ।
प्रजापतीशः कल्याणी दक्षेशः कुलरोहिणी ॥ ५६ ॥

अप्रचेताः प्रचेतस्था व्यासेशो व्यासपूजिता ।
काश्यपेशः काश्यपेशी भृग्वीशो भार्गवेश्वरी ॥ ५७ ॥

वशिष्ठः प्रियभावस्थो वशिष्ठबाधितापरा ।
पुलस्त्यपूजितो देवः पुलस्त्यचित्तसंस्थिता ॥ ५८ ॥

अगस्त्यार्च्योऽगस्त्यमाता प्रह्लादेशो वलीश्वरी ।
कर्दमेशः कर्दमाद्या बालको बालपूजिता ॥ ५९ ॥

मनस्थश्चान्तरिक्षस्था शब्दज्ञानी सरस्वती ।
रूपातीता रूपशून्या विरूपो रूपमोहिनी ॥ ६० ॥

विद्याधरेशो विद्येशी वृषस्थो वृषवाहिनी ।
रसज्ञो रसिकानन्दा विरसो रसवर्जिता ॥ ६१ ॥

सौनः सनत्कुमारेशी योगचर्येश्वरः प्रिया ।
दुर्वाशाः प्राणनिलयः साङ्ख्ययोगसमुद्भवा ॥ ६२ ॥

असङ्ख्येयो मांसभक्षा सुमांसाशी मनोरमा ।
नरमांसविभोक्ता च नरमांसविनोदिनी ॥ ६३ ॥

मीनवक्त्रप्रियो मीना मीनभुङ्मीनभक्षिणी ।
रोहिताशी मत्स्यगन्धा मत्स्यनाथो रसापहा ॥ ६४ ॥

पार्वतीप्रेमनिकरो विधिदेवाधिपूजिता ।
विधातृवरदो वेद्या वेदो वेदकुमारिका ॥ ६५ ॥

श्यामेशो सितवर्णा च चासितोऽसितरूपिणी ।
महामत्ताऽऽसवाशी च महामत्ताऽऽसवप्रिया ॥ ६६ ॥

आसवाढ्योऽमनादेवी निर्मलासवपामरा ।
विसत्तो मदिरामत्ता मत्तकुञ्जरगामिनी ॥ ६७ ॥

मणिमालाधरो मालामातृकेशः प्रसन्नधीः ।
जरामृत्युहरो गौरी गायनस्थो जरामरा ॥ ६८ ॥

सुचञ्चलोऽतिदुर्धर्षा कण्ठस्थो हृद्गता सती ।
अशोकः शोकरहिता मन्दरस्थो हि मन्त्रिणी ॥ ६९ ॥

मन्त्रमालाधरानन्दो मन्त्रयन्त्रप्रकाशिनी ।
मन्त्रार्थचैतन्यकरो मन्त्रसिद्धिप्रकाशिनी ॥ ७० ॥

मन्त्रज्ञो मन्त्रनिलया मन्त्रार्थामन्त्रमन्त्रिणी ।
बीजध्यानसमन्तस्था मन्त्रमालेऽतिसिद्धिदा ॥ ७१ ॥

मन्त्रवेत्ता मन्त्रसिद्धिर्मन्त्रस्थो मान्त्रिकान्तरा ।
बीजस्वरूपो बीजेशी बीजमालेऽति बीजिका ॥ ७२ ॥

बीजात्मा बीजनिलया बीजाढ्या बीजमालिनी ।
बीजध्यानो बीजयज्ञा बीजाढ्या बीजमालिनी ॥ ७३ ॥

महाबीजधरो बीजा बीजाढ्या बीजवल्लभा ।
मेघमाला मेघमालो वनमाली हलायुधा ॥ ७४ ॥

कृष्णाजिनधरो रौद्रा रौद्री रौद्रगणाश्रया ।
रौद्रप्रियो रौद्रकर्त्री रौद्रलोकप्रदः प्रभा ॥ ७५ ॥

विनाशी सर्वगानां च सर्वाणी सर्वसम्पदा ।
नारदेशः प्रधानेशी वारणेशो वनेश्वरी ॥ ७६ ॥

कृष्णेश्वरः केशवेशी कृष्णवर्णस्त्रिलोचना ।
कामेश्वरो राघवेशी बालेशी वा बाणपूजितः ॥ ७७ ॥

भवानीशो भवानी च भवेन्द्रो भववल्लभा ।
भवानन्दोऽतिसूक्ष्माख्या भवमूतीर्भवेश्वरी ॥ ७८ ॥

भवच्छायो भवानन्दो भवभीतिहरो वला ।
भाषाज्ञानीभाषमाला महाजीवोऽतिवासना ॥ ७९ ॥

लोभापदो लोभकर्त्री प्रलोभो लोभवर्धिनी ।
मोहातीतो मोहमाता मोहजालो महावती ॥ ८० ॥

मोहमुद्गरधारी च मोहमुद्गरधारिणी ।
मोहान्वितो मोहमुग्धा कामेशः कामिनीश्वरी ॥ ८१ ॥

कामलापकरोऽकामा सत्कामो कामनाशिनी ।
बृहन्मुखो बृहन्नेत्रा पद्माभोऽम्बुजलोचना ॥ ८२ ॥

पद्ममालः पद्ममाला श्रीदेवो देवरक्षिणी ।
असितोऽप्यसिता चैव आह्लादो देवमातृका ॥ ८३ ॥

नागेश्वरः शैलमाता नागेन्द्रो वै नगात्मजा ।
नारायणेश्वरः कीर्तिः सत्कीर्तिः कीर्तिवर्धिनी ॥ ८४ ॥

कार्तिकेशः कार्तिकी च विकर्ता गहनाश्रया ।
विरक्तो गरुडारूढा गरुडस्थो हि गारुडी ॥ ८५ ॥

गरुडेशो गुरुमयी गुरुदेवो गुरुप्रदा ।
गौराङ्गेशो गौरकन्या गङ्गेशः प्राङ्गणेश्वरी ॥ ८६ ॥

प्रतिकेशो विशाला च निरालोको निरीन्द्रिया ।
प्रेतबीजस्वरूपश्च प्रेताऽलङ्कारभूषिता ॥ ८७ ॥

प्रेमगेहः प्रेमहन्त्री हरीन्द्रो हरिणेक्षणा ।
कालेशः कालिकेशानी कौलिकेशश्च काकिनी ॥ ८८ ॥

कालमञ्जीरधारी च कालमञ्जीरमोहिनी ।
करालवदनः काली कैवल्यदानदः कथा ॥ ८९ ॥

कमलापालकः कुन्ती कैकेयीशः सुतः कला ।
कालानलः कुलज्ञा च कुलगामी कुलाश्रया ॥ ९० ॥

कुलधर्मस्थितः कौला कुलमार्गः कुलातुरा ।
कुलजिह्वः कुलानन्दा कृष्णः कृष्णसमुद्भवा ॥ ९१ ॥

कृष्णेशः कृष्णमहिषी काकस्थः काकचञ्चुका ।
कालधर्मः कालरूपा कालः कालप्रकाशिनी ॥ ९२ ॥

कालजः कालकन्या च कालेशः कालसुन्दरी ।
खड्गहस्तः खर्पराढ्या खरगः खरखड्गनी ॥ ९३ ॥

खलबुद्धिहरः खेला खञ्जनेशः सुखाञ्जनी ।
गीतप्रियो गायनस्था गणपालो गृहाश्रया ॥ ९४ ॥

गर्गप्रियो गयाप्राप्तिर्गर्गस्थो हि गभीरिणा ।
गारुडीशो हि गान्धर्वी गतीशो गार्हवह्निजा ॥ ९५ ॥

गणगन्धर्वगोपालो गणगन्धर्वगो गता ।
गभीरमानी सम्भेदो गभीरकोटिसागरा ॥ ९६ ॥

गतिस्थो गाणपत्यस्था गणनाद्यो गवा तनूः ।
गन्धद्वारो गन्धमाला गन्धाढ्यो गन्धनिर्गमा ॥ ९७ ॥

गन्धमोहितसर्वाङ्गो गन्धचञ्चलमोहिनी ।
गन्धपुष्पधूपदीपनैवेद्यादिप्रपूजिता ॥ ९८ ॥

गन्धागुरुसुकस्तूरी कुङ्कुमादिविमण्डिता ।
गोकुला मधुरानन्दा पुष्पगन्धान्तरस्थिता ॥ ९९ ॥

गन्धमादनसम्भूतपुष्पमाल्यविभूषितः ।
रत्नाद्यशेषालङ्कारमालामण्डितविग्रहः ॥ १०० ॥

स्वर्णाद्यशेषालङ्कारहारमालाविमण्डिता ।
करवीरा युतप्रख्यरक्तलोचनपङ्कजः ॥ १०१ ॥

जवाकोटिकोटिशत चारुलोचनपङ्कजा ।
घनकोटिमहानास्य पङ्कजालोलविग्रहा ॥ १०२ ॥

घर्घरध्वनिमानन्दकाव्याम्बुधिमुखाम्बुजा ।
घोरचित्रसर्पराज मालाकोटिशताङ्कभृत् ॥ १०३ ॥

घनघोरमहानाग चित्रमालाविभूषिता ।
घण्टाकोटिमहानादमानन्दलोलविग्रहः ॥ १०४ ॥

घण्टाडमरुमन्त्रादि ध्यानानन्दकराम्बुजा ।
घटकोटिकोटिशतसहस्रमङ्गलासना ॥ १०५ ॥

घण्टाशङ्खपद्मचक्रवराभयकराम्बुजा ।
घातको रिपुकोटीनां शुम्भादीनां तथा सताम् ॥ १०६ ॥

घातिनीदैत्यघोराश्च शङ्खानां सततं तथा ।
चार्वाकमतसङ्घातचतुराननपङ्कजः ॥ १०७ ॥

चञ्चलानन्दसर्वार्थसारवाग्वादिनीश्वरी ।
चन्द्रकोटिसुनिर्माल मालालम्बितकण्ठभृत् ॥ १०८ ॥

चन्द्रकोटिसमानस्य पङ्केरुहमनोहरा ।
चन्द्रज्योत्स्नायुतप्रख्यहारभूषितमस्तकः ॥ १०९ ॥

चन्द्रबिम्बसहस्राभायुतभूषितमस्तकः ।
चारुचन्द्रकान्तमणिमणिहारायुताङ्गभृत् ॥ ११० ॥

चन्दनागुरुकस्तूरी कुङ्कुमासक्तमालिनी ।
चण्डमुण्डमहामुण्डायुतनिर्मलमाल्यभृत् ॥ १११ ॥

चण्डमुण्डघोरमुण्डनिर्माणकुलमालिनी ।
चण्डाट्टहासघोराढ्यवदनाम्भोजचञ्चलः ॥ ११२ ॥

चलत्खञ्जननेत्राम्भोरुहमोहितशङ्करा ।
चलदम्भोजनयनानन्दपुष्पकरमोहितः ॥ ११३ ॥

चलदिन्दुभाषमाणावग्रहखेदचन्द्रिका ।
चन्द्रार्धकोटिकिरणचूडामण्डलमण्डितः ॥ ११४ ॥

चन्द्रचूडाम्भोजमाला उत्तमाङ्गविमण्डितः ।
चलदर्कसहस्रान्त रत्नहारविभूषितः ॥ ११५ ॥

चलदर्ककोटिशतमुखाम्भोजतपोज्ज्वला ।
चारुरत्नासनाम्भोजचन्द्रिकामध्यसंस्थितः ॥ ११६ ॥

चारुद्वादशपत्रादि कर्णिकासुप्रकाशिका ।
चमत्कारगटङ्कारधुनर्बाणकराम्बुजः ॥ ११७ ॥

चतुर्थवेदगाथादि स्तुतिकोटिसुसिद्धिदा ।
चलदम्बुजनेत्रार्कवह्निचन्द्रत्रयान्वितः ॥ ११८ ॥

चलत्सहस्रसङ्ख्यात पङ्कजादिप्रकाशिका ।
चमत्काराट्टहासास्य स्मितपङ्कजराजयः ॥ ११९ ॥

चमत्कारमहाघोरसाट्टाट्टहासशोभिता ।
छायासहस्रसंसारशीतलानिलशीतलः ॥ १२० ॥

छदपद्मप्रभामानसिंहासनसमास्थिता ।
छलत्कोटिदैत्यराजमुण्डमालाविभूषितः ॥ १२१ ॥

छिन्नादिकोटिमन्त्रार्थज्ञानचैतन्यकारिणी ।
चित्रमार्गमहाध्वान्तग्रन्थिसम्भेदकारकः ॥ १२२ ॥

अस्त्रकास्त्रादिब्रह्मास्त्रसहस्रकोटिधारिणी ।
अजामांसादिसद्भक्षरसामोदप्रवाहगः ॥ १२३ ॥

छेदनादिमहोग्रास्त्रे भुजवामप्रकाशिनी ।
जयाख्यादिमहासाम ज्ञानार्थस्य प्रकाशकः ॥ १२४ ॥

जायागणहृदम्भोज बुद्धिज्ञानप्रकाशिनी ।
जनार्दनप्रेमभाव महाधनसुखप्रदः ॥ १२५ ॥

जगदीशकुलानन्दसिन्धुपङ्कजवासिनी ।
जीवनास्थादिजनकः परमानन्दयोगिनाम् ॥ १२६ ॥

जननी योगशास्त्राणां भक्तानां पादपद्मयोः ।
रुक्षपवननिर्वातमहोल्कापातकारुणः ॥ १२७ ॥

झर्झरीमधुरी वीणा वेणुशङ्खप्रवादिनी ।
झनत्कारौघसंहारकरदण्डविशानधृक् ॥ १२८ ॥

झर्झरीनायिकार्य्यादिकराम्भोजनिषेविता ।
टङ्कारभावसंहारमहाजागरवेशधृक् ॥ १२९ ॥

टङ्कासिपाशुपातास्त्रचर्मकार्मुकधारिणी ।
टलनानलसङ्घट्टपट्टाम्बरविभूषितः ॥ १३० ॥

टुल्टुनी किङ्किणी कोटि विचित्रध्वनिगामिनी ।
ठं ठं ठं मनुमूलान्तः स्वप्रकाशप्रबोधकः ॥ १३१ ॥

ठं ठं ठं प्रखराह्लादनादसंवादवादिनी ।
ठं ठं ठं कूर्मपृष्ठस्थः कामचाकारभासनः ॥ १३२ ॥

ठं ठं ठं बीजवह्निस्थ हातुकभ्रूविभूषिता ।
डामरप्रखराह्लादसिद्धिविद्याप्रकाशकः ॥ १३३ ॥

डिण्डिमध्वानमधुरवाणीसम्मुखपङ्कजा ।
डं डं डं खरकृत्यादि मारणान्तःप्रकाशिका ॥ १३४ ॥

ढक्कारवाद्यभूपूरतारसप्तस्वराश्रयः ।
ढौं ढौं ढौं ढौकढक्कलं वह्निजायामनुप्रियः ॥ १३५ ॥

ढं ढं ढं ढौं ढ ढं ढ कृत्येत्थाहेति वासिनी ।
तारकब्रह्ममन्त्रस्थः श्रीपादपद्मभावकः ॥ १३६ ॥

तारिण्यादिमहामन्त्र सिद्धिसर्वार्थसिद्धिदा ।
तन्त्रमन्त्रमहायन्त्र वेदयोगसुसारवित् ॥ १३७ ॥

तालवेतालदैतालश्रीतालादिसुसिद्धदा ।
तरुकल्पलतापुष्पकलबीजप्रकाशकः ॥ १३८ ॥

डिन्तिडीतालहिन्तालतुलसीकुलवृक्षजा ।
अकारकूटविन्द्विन्दुमालामण्डितविग्रहः ॥ १३९ ॥

स्थातृप्रस्थप्रथागाथास्थूलस्थित्यन्तसंहरा ।
दरीकुञ्जहेममालावनमालादिभूषितः ॥ १४० ॥

दारिद्र्यदुःखदहनकालानलशतोपमः ।
दशसाहस्रवक्त्राम्भोरुहशोभितविग्रहः ॥ १४१ ॥

पाशाभयवराह्लादधनधर्मादिवर्धिनी ।
धर्मकोटिशतोल्लाससिद्धिऋद्धिसमृद्धिदा ॥ १४२ ॥

ध्यानयोगज्ञानयोगमन्त्रयोगफलप्रदा ।
नामकोटिशतानन्तसुकीर्तिगुणमोहनः ॥ १४३ ॥

निमित्तफलसद्भावभावाभावविवर्जिता ।
परमानन्दपदवी दानलोलपदाम्बुजः ॥ १४४ ॥

प्रतिष्ठासुनिवृत्तादि समाधिफलसाधिनी ।
फेरवीगणसन्मानवसुसिद्धिप्रदायकः ॥ १४५ ॥

फेत्कारीकुलतन्त्रादि फलसिद्धिस्वरूपिणी ।
वराङ्गनाकोटिकोटिकराम्भोजनिसेविता ॥ १४६ ॥

वरदानज्ञानदान मोक्षदातिचञ्चला ।
भैरवानन्दनाथाख्य शतकोटिमुदान्वितः ॥ १४७ ॥

भावसिद्धिक्रियासिद्धि साष्टाङ्गसिद्धिदायिनी ।
मकारपञ्चकाह्लादमहामोदशरीरधृक् ॥ १४८ ॥

मदिरादिपञ्चतत्त्वनिर्वाणज्ञानदायिनी ।
यजमानक्रियायोगविभागफलदायकः ॥ १४९ ॥

यशः सहस्रकोटिस्थ गुणगायनतत्परा ।
रणमध्यस्थकालाग्नि क्रोधधारसुविग्रहः ॥ १५० ॥

काकिनीशाकिनीशक्तियोगादि काकिनीकला ।
लक्षणायुतकोटीन्दुललाटतिलकान्वितः ॥ १५१ ॥

लाक्षाबन्धूकसिन्दूरवर्णलावण्यलालिता ।
वातायुतसहस्राङ्गघूर्णायमानभूधरः ॥ १५२ ॥

विवस्वत्प्रेमभक्तिस्थ चरणद्वन्द्वनिर्मला ।
श्रीसीतापतिशुद्धाङ्ग व्याप्तेन्द्रनीलसन्निभः ॥ १५३ ॥

शीतनीलाशतानन्दसागरप्रेमभक्तिदा ।
षट्पङ्केरुहदेवादिस्वप्रकाशप्रबोधिनी ॥ १५४ ॥

महोमीस्थषडाधारप्रसन्नहृदयाम्बुजा ।
श्यामप्रेमकलाबन्धसर्वाङ्गकुलनायकः ॥ १५५ ॥

संसारसारशास्त्रादि सम्बन्धसुन्दराश्रया ।
ह्सौः प्रेतमहाबीजमालाचित्रितकण्ठधृक् ॥ १५६ ॥

हकारवामकर्णाढ्य चन्द्रबिन्दुविभूषिता ।
लयसृष्टिस्थितिक्षेत्रपानपालकनामधृक् ॥ १५७ ॥

लक्ष्मीलक्षजपानन्दसिद्धिसिद्धान्तवर्णिनी ।
क्षुन्निवृत्तिक्षपारक्षा क्षुधाक्षोभनिवारकः ॥ १५८ ॥

क्षत्रियादिकुरुक्षेत्रारुणाक्षिप्तत्रिलोचना ।
अनन्त इतिहासस्थ आज्ञागामी च ईश्वरी ॥ १५९ ॥

उमेश उटकन्येशी ऋद्धिस्थहृस्थगोमुखी ।
गकारेश्वरसंयुक्त त्रिकुण्डदेवतारिणी ॥ १६० ॥

ऐणाचीशप्रियानन्द ऐरावतकुलेश्वरी ।
ओढ्रपुष्पानन्तदीप्त ओढ्रपुष्पानखाग्रका ॥ १६१ ॥

एहृत्यशतकोटिस्थ औ दीर्घप्रणवाश्रया ।
अङ्गस्थाङ्गदेवस्था अर्यस्थश्चार्यमेश्वरी ॥ १६२ ॥

मातृकावर्णनिलयः सर्वमातृकलान्विता ।
मातृकामन्त्रजालस्थः प्रसन्नगुणदायिनी ॥ १६३ ॥

अत्युत्कटपथिप्रज्ञा गुणमातृपदे स्थिता ।
स्थावरानन्ददेवेशो विसर्गान्तरगामिनी ॥ १६४ ॥

अकलङ्को निष्कलङ्को निराधारो निराश्रया ।
निराश्रयो निराधारो निर्बीजो बीजयोगिनी ॥ १६५ ॥

निःशङ्को निस्पृहानन्दो सिन्धूरत्नावलिप्रभा ।
आकाशस्थः खेचरी च स्वर्गदाता शिवेश्वरी ॥ १६६ ॥

सूक्ष्मातिसूक्ष्मात्वैर्ज्ञेया दारापदुःखहारिणी ।
नानादेशसमुद्भूतो नानालङ्कारलङ्कृता ॥ १६७ ॥

नवीनाख्यो नूतनस्थ नयनाब्जनिवासिनी ।
विषयाख्यविषानन्दा विषयाशी विषापहा ॥ १६८ ॥

विषयातीतभावस्थो विषयानन्दघातिनी ।
विषयच्छेदनास्त्रस्थो विषयज्ञाननाशिनी ॥ १६९ ॥

संसारछेदकच्छायो भवच्छायो भवान्तका ।
संसारार्थप्रवर्तश्च संसारपरिवर्तिका ॥ १७० ॥

संसारमोहहन्ता च संसारार्णवतारिणी ।
संसारघटकश्रीदासंसारध्वान्तमोहिनी ॥ १७१ ॥

पञ्चतत्त्वस्वरूपश्च पञ्चतत्त्वप्रबोधिनी ।
पार्थिवः पृथिवीशानी पृथुपूज्यः पुरातनी ॥ १७२ ॥

वरुणेशो वारुणा च वारिदेशो जलोद्यमा ।
मरुस्थो जीवनस्था च जलभुग्जलवाहना ॥ १७३ ॥

तेजः कान्तः प्रोज्ज्वलस्था तेजोराशेस्तु तेजसी ।
तेजस्थस्तेजसो माला तेजः कीर्तिः स्वरश्मिगा ॥ १७४ ॥

पवनेशश्चानिलस्था परमात्मा निनान्तरा ।
वायुपूरककारी च वायुकुम्भकवर्धिनी ॥ १७५ ॥

वायुच्छिद्रकरो वाता वायुनिर्गममुद्रिका ।
कुम्भकस्थो रेचकस्था पूरकस्थातिपूरिणी ॥ १७६ ॥

वाय्वाकाशाधाररूपी वायुसञ्चारकारिणी ।
वायुसिद्धिकरो दात्री वायुयोगी च वायुगा ॥ १७७ ॥

आकाशप्रकरो ब्राह्मी आकाशान्तर्गतद्रिगा ।
आकाशकुम्भकानन्दो गगनाह्लादवर्धिनी ॥ १७८ ॥

गगनाच्छन्नदेहस्थो गगनाभेदकारिणी ।
गगनादिमहासिद्धो गगनग्रन्थिभेदिनी ॥ १७९ ॥

कलकर्मा महाकाली कालयोगी च कालिका ।
कालछत्रः कालहत्या कालदेवो हि कालिका ॥ १८० ॥

कालब्रह्मस्वरूपश्च कालितत्त्वार्थरक्षिणी ।
दिगम्बरो दिक्पतिस्था दिगात्मा दिगिभास्वरा ॥ १८१ ॥

दिक्पालस्थो दिक्प्रसन्ना दिग्वलो दिक्कुलेश्वरी ।
दिगघोरो दिग्वसना दिग्वीरा दिक्पतीश्वरी ॥ १८२ ॥

आत्मार्थो व्यापितत्त्वज्ञ आत्मज्ञानी च सात्मिका ।
आत्मीयश्चात्मबीजस्था चान्तरात्मात्ममोहिनी ॥ १८३ ॥

आत्मसञ्ज्ञानकारी च आत्मानन्दस्वरूपिणी ।
आत्मयज्ञो महात्मज्ञा महात्मात्मप्रकाशिनी ॥ १८४ ॥

आत्मविकारहन्ता च विद्यात्मीयादिदेवता ।
मनोयोगकरो दुर्गा मनः प्रत्यक्ष ईश्वरी ॥ १८५ ॥

मनोभवनिहन्ता च मनोभवविवर्धिनी ।
मनश्चान्तरीक्षयोगो निराकारगुणोदया ॥ १८६ ॥

मनोनिराकारयोगी मनोयोगेन्द्रसाक्षिणी ।
मनःप्रतिष्ठो मनसा मानशङ्का मनोगतिः ॥ १८७ ॥

नवद्रव्यनिगूढार्थो नरेन्द्रविनिवारिणी ।
नवीनगुणकर्मादिसाकारः खगगामिनी ॥ १८८ ॥

अत्युन्मत्ता महावाणी वायवीशो महानिला ।
सर्वपापापहन्ता च सर्वव्याधिनिवारिणी ॥ १८९ ॥

द्वारदेवीश्वरी प्रीतिः प्रलयाग्निः करालिनी ।
भूषण्डगणतातश्च भूःषण्डरुधिरप्रदा ॥ १९० ॥

काकावलीशः सर्वेशी काकपुच्छधरो जया ।
अजितेशो जितानन्दा वीरभद्रः प्रभावती ॥ १९१ ॥

अन्तर्नाडीगतप्राणो वैशेषिकगुणोदया ।
रत्ननिर्मितपीठस्थः सिंहस्था रथगामिनी ॥ १९२ ॥

कुलकोटीश्वराचार्यो वासुदेवनिषेविता ।
आधारविरहज्ञानी सर्वाधारस्वरूपिणी ॥ १९३ ॥

सर्वज्ञः सर्वविज्ञाना मार्तण्डो यश इल्वला ।
इन्द्रेशो विन्ध्यशैलेशी वारणेशः प्रकाशिनी ॥ १९४ ॥

अनन्तभुजराजेन्द्रो अनन्ताक्षरनाशिनी ।
आशीर्वादस्तु वरदोऽनुग्रहोऽनुग्रहक्रिया ॥ १९५ ॥

प्रेतासनसमासीनो मेरुकुञ्जनिवासिनी ।
मणिमन्दिरमध्यस्थो मणिपीठनिवासिनी ॥ १९६ ॥

सर्वप्रहरणः प्रेतो विधिविद्याप्रकाशिनी ।
प्रचण्डनयनानन्दो मञ्जीरकलरञ्जिनी ॥ १९७ ॥

कलमञ्जीरपादाब्जो बलमृत्युपरायणा ।
कुलमालाव्यापिताङ्गः कुलेन्द्रः कुलपण्डिता ॥ १९८ ॥

बालिकेशो रुद्रचण्डा बालेन्द्राः प्राणबालिका ।
कुमारीशः काममाता मन्दिरेशः स्वमन्दिरा ॥ १९९ ॥

अकालजननीनाथो विदग्धात्मा प्रियङ्करी ।
वेदाद्यो वेदजननी वैराग्यस्थो विरागदा ॥ २०० ॥

स्मितहास्यास्यकमलः स्मितहास्यविमोहिनी ।
दन्तुरेशो दन्तुरु च दन्तीशो दर्शनप्रभा ॥ २०१ ॥

दिग्दन्तो हि दिग्दशना भ्रष्टभुक् चर्वणप्रिया ।
मांसप्रधाना भोक्ता च प्रधानमांसभक्षिणी ॥ २०२ ॥

मत्स्यमांसमहामुद्रा रजोरुधिरभुक्प्रिया ।
सुरामांसमहामीनमुद्रामैथुनसुप्रिया ॥ २०३ ॥

कुलद्रव्यप्रियानन्दो मद्यादिकुलसिद्धिदा ।
हृत्कण्ठभ्रूसहस्रारभेदनोऽन्ते विभेदिनी ॥ २०४ ॥

प्रसन्नहृदयाम्भोजः प्रसन्नहृदयाम्बुजा ।
प्रसन्नवरदानाढ्यः प्रसन्नवरदायिनी ॥ २०५ ॥

प्रेमभक्तिप्रकाशाढ्यः प्रेमानन्दप्रकाशिनी ॥ २०६ ॥

प्रभाकरफलोदयः परमसूक्ष्मपुरप्रिया ।
प्रभातरविरश्मिगः प्रथमभानुशोभान्विता ।
प्रचण्डरिपुमन्मथः प्रचलितेन्दुदेहोद्गतः ।
प्रभापटलपाटलप्रचयधर्मपुञ्जाचीता ॥ २०७ ॥

सुरेन्द्रगणपूजितः सुरवरेशसम्पूजिता ।
सुरेन्द्रकुल सेवितो नरपतीन्द्रसंसेविता ।
गणेन्द्र गणनायको गणपतीन्द्र देवात्मजा ।
भवार्णवर्गतारको जलधिकर्णधारप्रिया ॥ २०८ ॥

सुरासुरकुलोद्भवः सुररिपुप्रसिद्धिस्थिता
सुरारिगणघातकः सुरगणेन्द्रसंसिद्धिदा ।
अभीप्सितफलप्रदः सुरवरादिसिद्धिप्रदा
प्रियाङ्गज कुलार्थदः सुतधनापवर्गप्रदा ॥ २०९ ॥

शिवस्वशिवकाकिनी हरहरा च भीमस्वना
क्षितीश इषुरक्षका समनदर्पहन्तोदया ।
गुणेश्वर उमापती हृदयपद्मभेदी गतिः
क्षपाकरललाटधृक् स्वसुखमार्गसन्दायिनी ॥ २१० ॥

श्मशानतटनिष्पट प्रचटहासकालङ्कृता
हठत्शठमनस्तटे सुरकपाटसञ्छेदकः ।
स्मराननविवर्धनः प्रियवसन्तसम्बायवी
विराजितमुखाम्बुजः कमलमञ्जसिंहासना ॥ २११ ॥

भवो भवपतिप्रभाभवः कविश्च भाव्यासुरैः
क्रियेश्वर ईलावती तरुणगाहितारावती ।
मुनीन्द्रमनुसिद्धिदः सुरमुनीन्द्रसिद्धायुषी
मुरारिहरदेहगस्त्रिभुवना विनाशक्रिया ॥ २१२ ॥

द्विकः कनककाकिनी कनकतुङ्गकीलालकः
कमलाकुलः कुलकलार्कमालामला ।
सुभक्त तमसाधकप्रकृतियोगयोग्यार्चितो
विवेकगतमानसः प्रभुपरादिहस्ताचीता ॥ २१३ ॥

त्वमेव कुलनायकः प्रलययोगविद्येश्वरी
प्रचण्डगणगो नगाभुवनदर्पहारी हरा ।
चराचरसहस्रगः सकलरूपमध्यस्थितः
स्वनामगुणपूरकः स्वगुणनामसम्पूरणी ॥ २१४ ॥

इति ते कथितं नाथ सहस्रनाम मङ्गलम् ।
अत्यद्भुतं परानन्दरससिद्धान्तदायकम् ॥ २१५ ॥

मातृकामन्त्रघटितं सर्वसिद्धान्तसागरम् ।
सिद्धविद्यामहोल्लास मानन्दगुणसाधनम् ॥ २१६ ॥

दुर्लभं सर्वलोकेषु यामले तत्प्रकाशितम् ।
तव स्नेहरसामोदमोहितानन्दभैरव ॥ २१७ ॥

कुत्रापि नापि कथितं स्वसिद्ध हानिशङ्कया ।
सर्वादियोग सिद्धान्तसिद्धये भुक्तिमुक्तये ॥ २१८ ॥

प्रेमाह्लादरसेनैव दुर्लभं तत्प्रकाशितम् ।
येन विज्ञातमात्रेण भवेद्छ्रीभैरवेश्वरः ॥ २१९ ॥

एतन्नाम शुभफलं वक्तुं न च समर्थकः ।
कोटिवर्षशतैनापि यत्फलं लभते नरः ॥ २२० ॥

तत्फलं योगिनामेक क्षणाल्लभ्यं भवार्णवे ।
यः पठेत् प्रातरुत्थाय दुर्गग्रहनिवरणात् ॥ २२१ ॥

दुष्टेन्द्रियभयेनापि महाभयनिवारणात् ।
ध्यात्वा नाम जपेन्नित्यं मध्याह्ने च विशेषतः ॥ २२२ ॥

सन्ध्यायां रात्रियोगे च साधयेन्नामसाधनम् ।
योगाभ्यासे ग्रन्थिभेदे योगध्याननिरूपणे ॥ २२३ ॥

पठनाद् योगसिद्धिः स्याद् ग्रन्थिभेदो दिने दिने ।
योगज्ञानप्रसिद्धिः स्याद् योगः स्यादेकचित्ततः ॥ २२४ ॥

देहस्थ देववश्याय महामोहप्रशान्तये ।
स्तम्भनायारिसैन्यानां प्रत्यहं प्रपठेच्छुचिः ॥ २२५ ॥

भक्तिभावेन पाठेन सर्वकर्मसु सुक्षमः ।
स्तम्भयेत् परसैन्यानि वारैकपाठमात्रतः ॥ २२६ ॥

वारत्रयप्रपठनाद् वशयेद् भुवनत्रयम् ।
वारत्रयं तु प्रपठेद् यो मूर्खः पण्डितोऽपि वा ॥ २२७ ॥

शान्तिमाप्नोति परमां विद्यां भुवनमोहिनीम् ।
प्रतिष्ठाञ्च ततः प्राप्य मोक्षनिर्वाणमाप्नुयात् ॥ २२८ ॥

विनाशयेदरीञ्छीघ्रं चतुर्वारप्रपाठने ।
पञ्चावृत्तिप्रपाठेन शत्रुमुच्चाटयेत् क्षणात् ॥ २२९ ॥

षडावृत्या साधकेन्द्रः शत्रूणां नाशको भवेत् ।
आकर्षयेत् परद्रव्यं सप्तवारं पठेद् यदि ॥ २३० ॥

एवं क्रमगतं ध्यात्वा यः पठेदतिभक्तितः ।
स भवेद् योगिनीनाथो महाकल्पद्रुमोपमः ॥ २३१ ॥

ग्रन्थिभेदसमर्थः स्यान्मासमात्रं पठेद् यदि ।
दूरदर्शी महावीरो बलवान् पण्डितेश्वरः ॥ २३२ ॥

महाज्ञानी लोकनाथो भवत्येव न संशयः ।
मासैकेन समर्थः स्यान्निर्वाणमोक्षसिद्धिभाक् ॥ २३३ ॥

प्रपठेद् योगसिद्ध्यर्थं भावकः परमप्रियः ।
शून्यागारे भूमिगर्तमण्डपे शून्यदेशके ॥ २३४ ॥

गङ्गागर्भे महारण्ये चैकान्ते निर्जनेऽपि वा ।
दुर्भिक्षवर्जिते देशे सर्वोपद्रववर्जिते ॥ २३५ ॥

श्मशाने प्रान्तरेऽश्वत्थमूले वटतरुस्थले ।
इष्टकामयगेहे वा यत्र लोको न वर्तते ॥ २३६ ॥

तत्र तत्रानन्दरूपी महापीठस्थलेऽपि च ।
दृढासनस्थः प्रजपेन्नाममङ्गलमुत्तमम् ॥ २३७ ॥

ध्यानधारणशुद्धाङ्गो न्यासपूजापरायणः ।
ध्यात्वा स्तौति प्रभाते च मृत्युजेता भवेद् ध्रुवम् ॥ २३८ ॥

अष्टाङ्गसिद्धिमाप्नोति चामरत्वमवाप्नुयात् ।
गुरुदेवमहामन्त्रभक्तो भवति निश्चितम् ॥ २३९ ॥

शरीरे तस्य दुःखानि न भवन्ति कुवृद्धयः ।
दुष्टग्रहाः पलायन्ते तं दृष्ट्वा योगिनं परम् ॥ २४० ॥

यः पठेत् सततं मन्त्री तस्य हस्तेऽष्टसिद्धयः ।
तस्य हृत्पद्मलिङ्गस्था देवाः सिद्ध्यन्ति चापराः ॥ २४१ ॥

युगकोटिसहस्राणि चिरायुर्योगिराड् भवेत् ।
शुद्धशीलो निराकारो ब्रह्मा विष्णुः शिवः स च ।
स नित्यः कार्यसिद्धश्च स जीवन्मुक्तिमाप्नुयात् ॥ २४२ ॥

॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने
ईश्वरशक्तिकाकिन्यष्टोत्तर सहस्रनामस्तोत्रं सम्पूर्णम् ॥