← अधिकरणम् ५/अध्यायः ६ कामसूत्रम्
अध्यायः १
वात्स्यायन:
अध्यायः २ →

वेश्यानां पुरुषाधिगमे रतिर्वृत्तिश्च सर्गात्. ॥ ६.१.१ ॥

रतितः प्रवर्तनं स्वाभाविकं कृत्रिमं अर्थार्थम्. ॥ ६.१.२ ॥

तदपि स्वाभाविकवद्रूपयेत्. ॥ ६.१.३ ॥

कामपरासु हि पुंसां विश्वासयोगात्. ॥ ६.१.४ ॥

अःलुब्धतां च ख्यापयेत्तस्य निदर्शनार्थम्. ॥ ६.१.५ ॥

न चानःउपायेनार्थान्साधयेदायतिसंरक्षणार्थम्. ॥ ६.१.६ ॥

नित्यं अलङ्कारयोगिनी राजमार्गावलोकिनी दृश्यमाना न चातिवृत्ता तिष्ठेत्. पण्यसः धर्मत्वात्. ॥ ६.१.७ ॥

यैर्नायकं आवर्जयेदन्याभ्यश्चावच्छिन्द्यादात्मनश्चानःअर्थं प्रतिकुर्यादर्थं च साधयेन्न च गम्यैः परिभूयेत तान्सहायान्कुर्यात्. ॥ ६.१.८ ॥

ते त्वारक्षकपुरुषा धर्माधिकरणस्था((१६१)) दैवज्ञा विक्रान्ताः शूराः समानविद्याः कलाग्राहिणः पीठमर्दवीटविदूषकमालाकारगान्धिकशौण्डिकरजकनापित भिक्षुकास्तेच ते च कार्ययोगात्. ॥ ६.१.९ ॥

केवलार्थास्त्वमी गम्याः ण् स्वतन्त्रः पूर्वे वयसि वर्तमानो वित्तवानःपरोक्षवृत्तिरधिकरणवानःकृच्छ्राधिगतवित्तः. संघर्षवान्सन्ततायः सुभगमानी श्लाघनकः पण्डकश्((१६२)) च पुंशब्दार्थी. समानस्पर्धी स्वभावतस्त्यागी. राजनि महामात्रे वा सिद्धो दैवप्रमाणो वित्तावमानी गुरूणां शासनातिगः सःजातानां लक्ष्यभूतः सःवित्त एकपुत्रो लिङ्गी प्रच्छन्नकामः शूरो वैद्यश्चेति. ॥ ६.१.१० ॥

प्रीतियशोऽर्थास्तु गुणतोऽधिगम्याः. ॥ ६.१.११ ॥

महाकुलीनो विद्वान्सर्वसमयज्ञः कविराख्यानकुशलो वाग्मी प्रगल्भो विविधशिल्प ज्ञो वृद्धदर्शी स्थूललक्षो महोत्साहो दृढभक्तिरनःअसूयकस्त्यागी मित्रवत्सलो घटागोष्ठीप्रेक्षणकसमाजसमस्याक्रीडनशीलो नीरुजोऽःव्यङ्गशरीरः प्राणवानःमद्यपो वृषो मैत्रः स्त्रीणां प्रनेता लालयिता च. न चासां वशगः स्वतन्त्र वृत्तिरःनिष्ठुरोऽनःईर्ष्यालुरनःअवशङ्की चेति नायकगुणाः. ॥ ६.१.१२ ॥

नायिकायाः पुना रूपयौवनलक्षणमाधुर्ययोगिनी गुणेष्वनुरक्ता न तथार्थेषु प्रीतिसंयोगशीला स्थिरमतिरेकजातीया विशेषार्थिनी नित्यं अःकदर्यवृत्तिर्गोष्ठीकलाप्रिया चेति नायिकागुणाः. ॥ ६.१.१३ ॥

नायिका पुनर्बुद्धिशीलाचार आर्जवं कृतज्ञता दीर्घदूरदर्शित्वं अःविसंवादिता देशकालज्ञता नागरकता दैन्यातिहासपैशुन्यपरिवादक्रोधलोभस्तम्भचापल वर्जनं पूर्वाभिभाषिता कामसूत्रकौशलं तदङ्गविद्यासु चेति साधारणगुणाः. ॥ ६.१.१४ ॥

गुणविपर्यये दोषाः. ॥ ६.१.१५ ॥

क्षयी रोगी कृमिशक्र्द्वायसास्यः प्रियकलत्रः परुषवाक्कदर्यो निर्घृणो गुरुजनपरित्यक्तः स्तेनो दम्भशीलो मूलकर्मणि प्रसक्तो मानापमानयोरनःअपेक्षी द्वेष्यैरप्यर्थहार्यो विलज्ज इत्यःगम्याः. ॥ ६.१.१६ ॥

रागो भयं अर्थः संघर्षो वैरनिर्यातनं जिज्ञासा पक्षः खेदो धर्मो यशोऽनुकम्पा सुहृद्वाक्यं ह्रीः प्रियसादृश्यं धन्यता रागापनयः साजात्यं साहवेश्यं सातत्यं आयतिश्च गमनकारणानि भवन्तीत्याचार्याः. ॥ ६.१.१७ ॥

अर्थोऽनःअर्थप्रतीघातः प्रीतिश्चेति वात्स्यायनः. ॥ ६.१.१८ ॥

अर्थस्तु प्रीत्या न बाधितः. अस्य प्राधान्यात्. ॥ ६.१.१९ ॥

भयादिषु तु गुरुलाघवं परीक्ष्यं ॥ ६.१.२० ॥



  1. ५०चिति सहायगम्यागम्य[गमन]कारणचिन्ता((१६३)).



सेच्तिओन्(प्रकरण)५१



उपमन्त्रितापि गम्येन सहसा न प्रतिजानीयात्. पुरुषाणां सुःलभावमानित्वात्. ॥ ६.१.२१ ॥

भावजिज्ञासार्थं परिचारकमुखान्संवाहकगायनवैहासिकान्गम्ये तद्भक्तान्वा प्रणिदध्यात्. ॥ ६.१.२२ ॥

तदःभावे पीठमर्दादीन्. तेभ्यो नायकस्य शौचाःशौचं रागापरागौ सक्ताःसक्ततां दानाःदाने च विद्यात्. ॥ ६.१.२३ ॥

संभावितेन च सह विटपुरोगां प्रीतिं योजयेत्. ॥ ६.१.२४ ॥

लावककुक्कुटमेषयुद्धशुकशारिकाप्रलापनप्रेक्षणककलाव्यपदेशेन पीठमर्दो नायकं तस्या उदवसितं आनयेत्. ॥ ६.१.२५ ॥

तां वा तस्य. ॥ ६.१.२६ ॥

आगतस्य प्रीतिकौतुकजननं किं चिद्द्रव्यजातं स्वयं इदं अःसाधारणोपभोग्यं इति प्रीतिदायं दद्यात्. ॥ ६.१.२७ ॥

यत्र च रमते तया गोष्ठ्यैनं उपचारैश्च रञ्जयेत्. ॥ ६.१.२८ ॥

गते च सःपरिहासप्रलापां सोपायनां परिचारिकां अभीक्ष्णं प्रेषयेत्..६.१.३० सःपीठमर्दायाश्च कारणापदेशेन स्वयं गमनं ॥ ६.१.२९ ॥



  1. ५१चिति गम्योपावर्तनम्((१६४)).

भवन्ति चात्र श्लोकाः. ॥ ६.१.३१ ॥

व्ताम्बूलानि स्रजश्चैव संस्कृतं चानुलेपनम्. आगतस्याहरेत्प्रीत्या कलागोष्ठीश्च योजयेत्.. ॥ ६.१.३१ ॥

व्द्रव्याणि प्रणये दद्यात्कुर्याच्च परिवर्तनम्. संप्रयोगस्य चाकूतं निजेनैव प्रयोजयेत्.. ॥ ६.१.३२ ॥

व्प्रीतिदायैरुपन्यासैरुपचारैश्च केवलैः. गम्येन सह संसृष्टा रञ्जयेत्तं ततः परम्((१६५)).. ॥ ६.१.३३ ॥

चिति श्री वात्स्यायनीये कामसूत्रे वैशिके षष्ठेऽधिकरणे सहायगम्याःगम्यचिन्ता गमनकारणं गम्योपावर्तनं प्रथमोऽध्यायः. ॥ ६.१ ॥