कालिकापुराणम्/अध्यायः १७
कालिकापुराणम् सप्तदशोऽध्यायः दक्षयज्ञध्वंसः
कालिका पुराण अध्याय १७
।। मार्कण्डेय उवाच ।।
एतस्मिन्नन्तरे शंभुः शोभने मानसे हृदे ।
समाप्य सन्ध्यामायातः स्वमाश्रमपदं प्रति ।।१।।
आगच्छन्नेव संरावं विजयायाः वृषध्वजः ।
शुश्राव दारुणं तीव्रं चकितश्च ततोऽभवत् ।।२।।
तत उक्ष्णा बलवता मनोमारुतरंहसा ।
स्वमाश्रमपदं शर्व आससाद त्वरान्वितः ॥३॥
आसाद्य देवीं दयितां तदा दाक्षायणीं हरः ।
मृतां दृष्ट्वापि न जहौ मृतेऽतिप्रियभावतः ॥४॥
ततो निरीक्ष्य वदनमामृज्य च पुनः पुनः ।
पप्रच्छ कस्मात् सुप्तासीत्येवं दाक्षायणीं मुहुः ॥५॥
ततो भर्गवचः श्रुत्वा तदा तद्भगिनी सुता ।
विजया प्राह निधनं दाक्षायण्या यथा तथा ॥६ ॥
।। विजयोवाच ।।
दक्षः कर्तुं क्रतुं शम्भो देवान् सर्वान् सवासवान् ।
आजुहाव तथा दैत्यान् राक्षसान् सिद्धगुह्यकान् ।।७।।
ब्राह्मणानथ गोविन्दमिन्द्रादीनपि दिक्पतीन् ।
देवयोनिंस्तथा सर्वान् साध्यविद्याधरादिकान् ।।८।।
नाहूतानि क्रतौ तेन यानि सत्त्वानि शङ्कर ।
तानि दक्षेण नो सन्ति समस्तभुवनेष्वपि ।।९।।
एवं प्रविततं यज्ञं श्रुत्वैषा वचनान्मम ।
विमृष्यत्याह्वा हेतुं शम्भोरथात्मनः ।।१०।।
चिन्तमानां तथाहं तां सतीं ज्ञात्वा यथाश्रुतम् ।
उक्तवत्यस्मि भूतेश यज्ञानाह्नानकारणम् ।।११।।
शम्भुः कपाली तज्जाया तत् संसर्गाद्विगर्हिता ।
अतः शम्भुः सती चापि नाध्वरे मे मिलिष्यतः ।। १२ ।।
इत्यनाह्नानहेतुर्मे श्रुतपूर्वः पुरा मुखात् ।
दक्षस्य वीरिणीं श्लक्ष्णां गदतस्तस्य मन्दिरे ।।१३।।
एतच्छ्रुत्वा मम वचः सा विवर्णमुखी क्षितौ ।
उपविष्टा न मां किञ्चिदुक्ता कोपपरायणा ।। १४ ।।
बभूव वदनं तस्यास्तत्क्षणात् सरुषं हर ।
भ्रुकुटीकुटिलं श्यामं यथा खं धूमकेतुना ।।१५।।
सा मुहूर्तमिव ध्यात्वा स्फोटेन महता ततः ।
प्राणानुदसृजच्चैषा भित्त्वा मूर्द्धानमात्मनः ।। १६ ।।
।। मार्कण्डेय उवाच ।।
इति श्रुत्वा वचस्तस्या विजयायाः वृषध्वजः ।
अतीव कोपादुत्तस्थौ दिधक्षुरिव पावकः ।। १७ ।।
तस्य कोपपरीतस्य कर्णनासाक्षिवक्त्रतः ।
घोरा जलन्त्यः कणिकाः सृजन्त्योऽग्नेर्महारवम् ।
उल्का विनिःसृता बहव्यः कल्पान्तादित्यवर्चसः ।।१८।।
अथ तत्र जगामाशु दक्षो यत्र महातपाः ।
यज्ञञ्चक्रे हरो गत्वा यज्ञशालाद्वहिः स्थितः ।। १९ ।।
तं यज्ञं ददृशे भर्गः कोपेन महतावृतः ।
महाधनसमापन्नं पात्रयूपादिभिर्वृतम् ।।२० ॥
हुताज्याहुतिसंवृद्धं दीप्तवह्निविराजितम् ।
यथास्थानस्थितान् सर्वान् दिक्पालान् सायुधध्वजान् ।।२१।।
विधातारं तथा विष्णुं यज्ञमध्ये व्यवस्थितम् ।
ददर्श कुपितः शम्भुस्तान् दृष्ट्वातीव कोपितः ।।२२।।
भगं सूर्यं तथा सोमं भार्याभिः सह संवृतम् ।
सहस्राक्षं गौतमं च पूर्वे भागे व्यवस्थितम् ॥२३॥
सनत्कुमारमात्रेयं भार्गवं विनतासुतम् ।
मरुद्गणांस्तथा साध्यानाग्नेयं जातवेदसम् ।।२४।।
कालं च चित्रगुप्तञ्च कुम्भयोनिं सगालवम् ।
विश्वेदेवांस्तथा सर्वान् कव्यवाहादिकान् पितॄन् ।। २५ ।।
अग्निष्वात्तादिकान् सर्वान् भूतग्रामं चतुर्विधम् ।
भौमं प्रेतगणान् सिद्धान् दक्षिणाशां व्यवस्थितान् ।। २६ ।।
रक्षांसि च पिशाचांश्च भूतानि मृगपक्षिणः ।
क्रव्यादान् क्षुद्रजन्तूंश्च तथा पुण्यजनेश्वरम् ।
महर्षि मौद्गलं राहुं नैर्ऋत्यां किन्नरांस्तथा ।।२७।।
महोरगांस्तथा नक्रान् मत्स्यान् ग्राहांश्च कच्छपान् ।
समुद्रान् सप्तसिन्धूंश्च नदीस्तीर्थानि गुह्यकान् ।। २८ ।।
मानसादिह्रदान् सर्वान् गङ्गाजम्बूनदीं तथा ।
कामं मधुं वसन्तं च वरुणञ्च सहानुगम् ।
शनैश्चरं गिरीन् सर्वान् पश्चिमाशाव्यवस्थितान् ।। २९ ।।
प्राणादिपञ्चवायूंश्च सगणञ्च समीरणम् ।
कल्पद्रुमान् हिमाद्रिञ्च कश्यपञ्च महामुनिम् ॥३०॥
वायव्यां कमलाव्रातं फलानि च कलानिधिम् ।
नानारत्नानि हैमानि मनुष्यान् पर्वतांस्तथा ।। ३१ ।।
हिमाद्रिमुख्या यक्षाश्च स्थूणकर्णादयो बुधाः ।
नलकूबरेण सहितो यक्षराङ्नरवाहनः ।। ३२ ।।
ध्रुवो धरश्च सोमश्च विष्णुश्चैवानिलोऽनलः ।
प्रत्यूषश्च प्रभासश्च कौवेरीं संस्थितानिमान् ।।३३।।
वृषध्वजं विना सर्वान् रुद्रान् जीवं मनूंस्तथा ।
विविधान् बाहुजान् वैश्यान् शूद्रानपि समन्ततः ।
ऐशान्यां विविधान्नानि व्रीहीनपि तिलानपि ।। ३४ ।।
ऐषानीपूर्वयोर्मध्ये ब्रह्मर्षीन् संशितव्रतान् ।
महर्षीश्चतुरो वेदान् वेदाङ्गानि तथैव षट् ।। ३५ ।।
नैर्ऋत्यपश्चिमान्तस्थमनन्तं श्वेतपर्वतम् ।
काद्रवेयसहस्रेण सहिता सप्तभोगिनः ।। ३६ ।।
केतुं तत्रैव कूष्माण्डं डाकिनीगणसंयुक्तम् ।
तथा जलधरानन्यान्नानावर्णान् सविद्युतान् ।। ३७।।
दिग्गजानपि तत्रस्थानैरावतमुखान् हरः ।
यथास्थानस्थितान् सर्वान् दिक्करिण्या च संयुतान् ।।३८।।
तमेवं दूरतो दृष्ट्वा यज्ञवाटं महाधनम् ।
वीरभद्राह्वयं तूर्णं प्रेषयामास तं प्रति ।। ३९ ।।
वीरभद्रोऽपि बहुभिः संवृतो विविधैर्गणैः ।
व्यध्वंसयत्ततो यज्ञं दक्षस्य सुमहात्मनः ।।४० ।।
विकुर्वन्तं महायज्ञं वीरभद्रं समीक्ष्य वै ।
वारयामास वैकुण्ठः सर्वदेवगणावृतः ।।४१ ।।
तं वार्यमाणं दृष्ट्वैव क्रोधसंरक्तलोचनः ।
स्वयं विवेश तं यज्ञं ध्वंसयामास चेश्वरः ।।४२।।
विशन्तमेव तं यज्ञे प्रथमं पुरतो भगः ।
बाहू वितत्य भूतेशमाससाद त्वरान्वितः ।।४३।।
तमागतमभिप्रेक्ष्य भर्गोऽपि भृशरोषितः ।
अङ्गुल्यग्रप्रहारेण तस्य नेत्रे जघान ह ।।४४।।
हीननेत्रं भगं दृष्ट्वा विरूपाक्षं दिवाकरः ।
स्पर्द्धमानस्ततः सर्वमाससाद त्वरान्वितः ॥४५ ।।
ततः सूर्यं महादेवः पाणौ धृत्वा करेण च ।
दूरीकृत्यातिकुपितो यज्ञमेवाभ्यधावत ।।४६।।
मार्तण्डश्च हसन् वेगाद्वितत्य विपुलौ भुजौ ।
एहि योत्स्ये त्वयेत्युक्त्वा तमग्रे प्रत्यवारयत् ।।४७ ।।
हसतस्तस्य सूर्यस्य क्रोधेन वृषभध्वजः ।
दन्तान् करप्रहारेण शातयामास वक्त्रतः ।।४८।।
विदन्तं मिहिरं दृष्ट्वा हीननेत्रं भगं तथा ।
सर्वे देवाश्च ऋषयो ये चान्ये तत्र दुद्रुवुः ।।४९ ।।
विद्राव्य सर्वान् देवादीन् हरः परमकोपनः ।
मृगरूपेणापयान्तं यज्ञमेवान्वपद्यत ।। ५० ।।
यज्ञोऽप्याकाशमार्गेण ब्रह्मस्थानं विवेश ह ।
वृषध्वजोऽपि कुपितो ब्रह्मस्थानं जगाम ह ।। ५१ ।।
ब्रह्मणः सदनाद् यज्ञो भीतो भर्गादवातरत् ।
अवतीर्यं सतीदेहं प्रविवेश स्वमायया ।। ५२ ।।
भर्गोऽपि दक्षदुहितुर्मृताया निकटं गतः ।
अन्वगच्छत्तदा यज्ञं ददर्श च सतीशवम् ।। ५३ ।।
मृतां दृष्ट्वा तदा देवीं हरो दाक्षायणीं सतीम् ।
विस्मृत्य यज्ञं तत्प्रान्ते स्थितो वाढं शुशोच ताम् ।।५४।।
बहुविधगुणवृन्दं चिन्तयञ्छूलपाणि ललितदशनपंक्तिं वक्त्रव्जप्रकाशम् ।
अरुणदशनवस्त्रं भ्रुयुगं वीक्ष्य तस्याः खरतरपृथुशोकव्याकुलोऽसौ रुरोद ।।५५ ।।
॥ श्रीकालिकापुराणे दक्षयज्ञध्वंस नाम सप्तदशोऽध्यायः ॥ १७॥
कालिका पुराण हिन्दी अनुवाद पढ़ने के लिए देखें-DP Karmakand