कालिकापुराणम्/अध्यायः ४
कालिकापुराणम् चतुर्थोऽध्यायः वसन्तोत्पत्तिः अथ कालिका पुराण अध्याय ४ ।। मार्कण्डेय उवाच ।। ततः प्रभृति धातापि यदैवान्तर्हितः पुरा । चिन्तयामास सततं शम्भुवाक्यविनिंदितः ।। १ ।। कान्ताभिलाषमात्रं मे दृष्ट्वा शम्भुरगर्हयत् । मुनीनां पुरतः कस्मात् स दारान् संग्रहीष्यति ।।२।। का वा भवित्री तंज्जाया का च तन्मनसि स्थिता । योगमार्गमवज्ञाप्य तस्य मोहं करिष्यति ।।३।। मन्मथोऽपि समर्थो नो भविष्यत्यस्य मोहने । नितान्तयोगी वामानां नामापि सहते न सः ॥४॥ अगृहीतेषु दारेषु हरेषु कथमादितः । मध्येऽन्ते च भवेत् सृष्टिस्तद्वधो न न्यकारितः ॥५॥ केचिद्भविष्यन्ति भुवि मया बध्या महाबलाः । केचिद्विष्णोबाधनीयाः केचिच्छम्भोरुपायतः ॥ ६ ॥ संसारविमुखे शम्भौ तद्विकारविरागिणो । अस्मादृते न कर्मान्यत् करिष्यति न संशयः ।।७।। चिन्तयिन्निति लोकेशो ब्रह्मा लोकपितामहः । पुनर्द्ददर्श भूमिस्थान् दक्षादीन् वियति स्थितः ।।८।। रतिद्वितीयं मदनं मोदयुक्तं निरीक्ष्य च । पुनस्तत्र गतःप्राह सान्त्वयन् पुष्पसायकम् ।।९।। ।। ब्रह्मोवाच ।। अनया सहचारिण्या शोभसे त्वं मनोभव । एषा च भवता पत्या युक्ता संशोभते भृशम् ।।१०।। यथा श्रिया हृषीकेशो यथा तेन हरिप्रिया । क्षणदा विधुना युक्ता तया युक्तो यथा विधुः ।।११।। तथैव युवयोः शोभा दाम्पत्यञ्च पुरस्कृतम् । अतस्त्वं जगतः केतुर्विश्वकेतुर्भविष्यसि ।।१२।। जगद्धिताय वत्स त्वं मोहयस्व पिनाकिनम् । यथा सुखमनाः शम्भुः कुर्य्याद्दारपरिग्रहम् ।।१३।। विजनेऽस्मिन् वनोद्देशे पर्वतेषु सरित्सु च । यत्र यत्र प्रयातीशस्तत्रतत्रानयासह ।। १४ ।। मोहयस्व यतात्मानं वनिताविमुखं हरम् । त्वदृते विद्यते नान्यः कश्चिदस्य विमोहकः ।। १५ ।। भूते हरे सानुरागे भवतोऽपि मनोभव । शापोपशान्तिर्भविता तस्मादात्महितं कुरु ।।१६।। सानुरागो वरारोहां यदीच्छति मनोभव । तदा तवोपभोगाय स त्वां सम्भावयिष्यति ।।१७।। तस्माज्जगद्धिताय त्वं यतस्व हरमोहने । विश्वस्य भव केतुस्त्वं मोहयित्वा महेश्वरम् ।। १८ ।। ।। मार्कण्डेय उवाच ।। इति श्रुत्वा वचस्तस्य ब्रह्मणः परमात्मनः । उवाच मन्मथस्तथ्यं ब्रह्माणं जगतो हितम् ।। १९ ।। ।। मन्मथ उवाच ।। करिष्येऽहं तव विभो वचनाच्छम्भुमोहनम् । किन्तु योषिन्महास्त्रं मे तत्र कान्तां प्रभो सृज ।। २० ।। मया सम्मोहिते शम्भौ यया तस्यानुमोहनम् । कार्यं मनोरमां रामां तां निदेशय लोकभृत् ।। २१ ।। तामहं नहि पश्यामि यया तस्यानुमोहनम् । कर्तव्यमधुना धातस्तत्रोपायं तथा कुरु ।।२२।। ।। मार्कण्डेय उवाच ।। एवं वादिनि कन्दर्पे धाता लोकपितामहः । कुर्यां सन्मोहनीं योषामिति चिन्तां जगाम ह ।। २३ ।। चिन्ताविष्टस्य तस्याथ निःश्वासो यो विनिःसृतः । तस्माद्वसन्तः संजातः पुष्पव्रातविभूषितः ।। २४ ।। चूताङ्कुरान् मुकुलितान् विभ्रद्भ्रमरसंहतिम् । किंशुकान् सारसान् रेजे प्रफुल्ल इव पादपाः ।। २५ ।। शोणराजीवसंकाशः फुल्लतामरसेक्षणः । सन्ध्योदिताखण्डशशिप्रतिमास्यः सुनासिकः ।। २६ ।। शङ्खवच्छ्रवणावर्तः श्यामकुञ्चितमूर्द्धजः । सन्ध्यांशुमालिसदृश-कुण्डलद्वयमण्डितः ।। २७ ।। प्रमत्तमातङ्गगतिर्विस्तीर्णहृदयस्थलः। पीनस्थूलायतभुजः कठोरकरयुग्मकः ।।२८।। सुवृत्तोरुकटीजङ्घः कम्बुग्रीवोन्नतांशकः । गूढजत्रुःपीनवक्षाः सम्पूर्णः सर्वलक्षणैः ।। २९ ।। तादृशेऽथ समुत्पन्ने सम्पूर्णे कुसुमाकरे । ववौ वायुः स सुरभिः पादपा अपि पुष्पिताः ।। ३० ।। पिकाश्च नेदुः शतश: पञ्चमं मधुरस्वनाः । प्रफुल्लपद्मा अभवन् सरस्यः पुष्टपुष्कराः ।। ३१ ।। तमुत्पन्नमवेक्ष्याथ तथा तादृसमुत्तमम् । हिरण्यगर्भो मदनं जगाद मधुरं वचः ।। ३२ ।। ।। ब्रह्मोवाच ।। एष मन्मथ ते मित्रं सदा सहचरो भवन् । आनुकूल्यं तव कृते सर्वदैव करिष्यति ॥३३॥ यथाग्नेः श्वसनो मित्रं सर्वत्रोपकरोति च । तथायं भवतो मित्रं सदा त्वामनुयास्यति ।। ३४ । । तवानुगमनं कर्म तथा लोकानुरञ्जनम् ।।३५।। वसतेरन्तहेतुत्वाद्वसन्ताख्यो भवत्वयम् । असौ वसन्तः शृङ्गारो वसन्ते मलयानिलः । भवन्तु सुहृदो भावाः सदा त्वद्वशवर्तिनः ।। ३६ ।। विव्वोकाद्यास्तथा हावाश्चतुःषष्टिकलास्तथा । कुर्वन्तु रत्याः सौहृद्यं सुहृदस्ते यथा तव ।। ३७।। एभिः सहचरैः काम वसन्तप्रमुखैर्भवान् । अनया सहचारिण्या त्वद्युक्तपरिवारया ।। ३८ ।। मोहयस्व महादेवं कुरु सृष्टिं सनातनीम् । यथेष्टदेशं गच्छ त्वं सर्वैः सहचरैर्वृतः । अहं तां भावयिष्यामि यो हरं मोहयिष्यति ।। ३९ ।। एवमुक्तोऽथ मदनः सुरज्येष्ठेन हर्षितः । जगाम सगणस्तत्र सपन्यनुचरस्तदा ।। ४० ।। दक्षं प्रणम्य तान् सर्वान् मानसानभिवाद्य च । यत्रास्ति शम्भुर्गतवांस्तत्स्थानं मन्मथस्तदा ।। ४१ ।। तस्मिन् गते सानुचरेऽथ मन्मथे शृङ्गारभावादियुते द्विजोत्तमाः । प्रोवाच दक्षं मधुरं पितामहः सार्द्ध मरीच्यत्रिमुखैर्मुनीश्वरैः ।।४२।। ॥ श्रीकालिकापुराणे वसन्तोत्पत्तिर्नाम चतुर्थोध्यायः ॥४॥ कालिका पुराण हिन्दी अनुवाद पढ़ने के लिए देखें-DP Karmakand