कालिकापुराणम् षट्चत्वारिंशोऽध्यायः भृङ्गी-महाकालजन्मवर्णनम्
अथ श्रीकालिका पुराण अध्याय ४६
॥ॐ भं भद्रकालिकायै आगच्छ आगच्छ भं ॐ नमः ॥
॥ क्रीं कालिकायै नमः ॥
कालिकापुराणम्
षट्चत्वारिंशोऽध्यायः भृङ्गी-महाकालजन्मवर्णनम्
।। सगर उवाच ।।
कोऽसौ भैरवनामाभूत् को वा वेतालसंज्ञकः ।
कथं वा तौ शरीरेण मानुषेण गणाधिपौ ।
अभूतां द्विजशार्दूल तन्मे वद महामुने ।। १ ।।
जानामि नन्दिनं विप्र सहायं शशभृद्धृत ।
यथाभवद्गणाध्यक्षस्तन्नारदमुखाच्छ्रुतम् ।।२।।
यथा भृङ्गिमहाकालौ विश्रुतौ हि हरात्मजौ ।
कथं वा तौ समुत्पन्नौ त्वत्तः श्रोतुं समुत्सहे ।। ३ ।।
योऽसौ शरभरूपस्य महादेवस्य वै पुरा ।
कायभागः श्रुतः पूर्वं स महाभैरवाह्वयः ।। ४ ।।
स एव किं भैरवाख्यः किं वान्यो द्विजसत्तम ।
वेत्तुं तत्त्वेन तत् सर्वमिच्छामि द्विजसत्तम ।।५।।
कस्य वा तनयौ भूत्वा गणाध्यक्षत्वमागतौ ।
तच्चापि कथयस्वाद्य यथा तौ वानराननौ ।।६।।
।। और्व उवाच ॥
शृणु राजन् प्रवक्ष्यामि महाकालस्य भृङ्गिणः ।
भैरवस्यापि चरितं वेतालस्य महात्मनः ।।७।।
योऽसौ भृङ्गी हरसुतो महाकालोऽपि भर्गजः ।
तावेव गौरीशापेन सम्भूय नरयोनिजौ ।
वेतालभैरवौ जातौ पृथिव्यां नृपवेश्मनि ।।८।।
यथा भृङ्गिमहाकालाव्युत्पन्नौ प्राक् तथा शृणु ।
योऽसौ महाभैरवाख्यः स कायः शरभो हरः ।। ९ ।।
भैरवः पृथगेवायं गणाध्यक्षो हरात्मजः ।
ऊढायां हिमवत्पुत्र्यां भर्गेण सुमहात्मना ।। १० ।।
तारकस्य वधार्थाय देवैः शक्रपुरोगमैः ।
स्तुतिभिर्नतिभिः शम्भुं सन्ततिर्याचिता पुरा ।। ११ ।।
स याचितो देवगणैर्भगवान् वृषभध्वजः ।
महामैथुनमारेभे सन्तानायोमया सह ।।१२।।
आरब्धे मैथुने तेन नरवर्येण वै ययुः ।
द्वात्रिंशद् वत्सरा राजन् क्षणवच्चन्द्रधारिणः ।। १३ ।।
स महामैथुनं कुर्वंस्तृप्तिं नाप महेश्वरः ।
नाप्यस्य प्रच्युतं तेजो न तृप्तिं प्राप पार्वती ।। १४ ।।
तन्महासङ्गसमये चकम्पे वसुधा स्फुटम् ।
आकुलाः सकला देवा: स्युः स्वर्गस्थाश्च येऽपरे ।। १५ ।।
सर्वं जगत्तदा भूतमाकुलं शिवयोस्तयोः ।
ततो निवृत्तिजातेन महामैथुनकर्मणा ।। १६ ।।
अथ सेन्द्राः सुराः सर्वं ब्रह्माणं जगतां पतिम् ।
शरण्यं शरणं जग्मुर्भीताः शङ्करकेलिभिः ।। १७ ।।
ते सम्भूयाथ धातारं प्रणम्य च सुरोत्तमाः ।
आकुलं सर्वमाचक्षुर्हरमैथुनकर्मणा ।। १८ ।।
ततः सर्वान् देवगणान् पश्चात् कृत्वैव वृत्रहा ।
स्वयमाह विधातारं तत्कालभयभाषितम् ।। १९ ।।.
।। इन्द्र उवाच ॥
आकुलाः सकलालोका हरमैथुनकर्मणा ।
अहं महद्भयं प्राप्य शरणं त्वामिहागतः ।। २० ।।
एवम्भूते सङ्गमे च शङ्करस्योमया सह ।
यः पुत्रो जायते ब्रह्मन् स मामभिभविष्यति ।। २१ ।।
तत्क्रियादर्शनादेव सूत्पन्नादपि तत्सुतात् ।
ब्रह्मन् जातं भयं मेऽद्य तारकादपि चाधिकम् ।। २२।।
तस्मादेवं त्वं विधेहि तत्सुतो मां सुरान्यथा ।
न बाधेत तथा यत्नात्तारयास्मान्महाभयात् ।। २३ ।।
।। ब्रह्मोवाच ।।
उमायां जायते पुत्रो यदि शङ्करतेजसा ।
अशक्यः सर्वलोकेशैः सेन्द्रैरपि सुरासुरैः ।। २४ ।।
तस्माद्धरो यथोमायां न प्रसूतो भविष्यति ।
तथाहं संविधास्यामि गत्वा देवैर्हरान्तिकम् ।। २५ ।।
तारकस्य विघातश्च यथा स्याद्धरतेजसा ।
तच्चाप्यहं करिष्यामि व्येतु ते मानसो ज्वरः ।। २६ ।।
।। और्व उवाच ।।
इत्युक्त्वा सह देवौघैः कैलासाद्रि प्रजापतिः ।
जगाम रेमे गिरिशो गिरिपुत्र्या समं भृशम् ।। २७ ।।
तत्र गत्वा महादेवं ब्रह्मा लोकपितामहः ।
सर्वैः सुरगणैः सार्धं तुष्टाव वृषभध्वजम् ।। २८ ।।
।। देवा ऊचुः ।।
प्रीतये यस्य न रतिर्न कामो यन्मनोभवः ।
न यस्य जन्मनो हेतुस्तस्मै तुभ्यं नमो नमः ।। २९ ।।
यस्य लोकहितायैव जातो जायापरिग्रहः ।
त्र्यम्बकाय नमस्तस्मै स शिवो नः प्रसीदतु ।। ३० ।।
यन्मन्मथं विना देवं शृङ्गाराद्या विशन्ति च ।
स्वबलेनैव तं देवं त्वां वयं प्रणता हरम् ।। ३१ ।।
हिरण्यरेताः स्वर्णाभो यो हिरण्यभुजाह्वयः ।
स त्वं सर्गहरो देवो नित्यं नोऽभिप्रसीदतु ।। ३२ ।।
जगन्मयी योगनिद्रा विष्णुमाया बलीयसी ।
तस्याभवत् स्वयं जाया तस्मै तुभ्यं नमो नमः ।। ३३ ।।
पञ्चभूतमयं यस्य पञ्चशीर्षं विराजते ।
तं पञ्चवदनं देवं भक्त्या त्वां प्रणमामहे ।। ३४ ।।
सद्योजातमघोरं च वामदेवमुमापतिम् ।
ईशानं प्रणमामोऽद्य यं तत्पुरुषमाह वै ।। ३५ ।।
योऽसतामशिवो नित्यं यो वा भक्तिमतां शिवः ।
शिवाशिवस्वरूपाय नमस्तस्मै शिवाय ते ।। ३६ ।।
रूपैस्त्रिभिर्य: स्थितिसृष्टिनाशं विष्ण्वात्मभिः शम्भुरिति प्रसिद्धैः ।
करोति शश्वजगतां नुमस्तं शिवं विरूपाक्षममुं शिवेशम् ।। ३७ ।।
यः शूलखट्वाङ्गमृगाङ्कधारी यो गोध्वजः शक्तिमान् पञ्चरूपी ।
तस्मै तुभ्यं जातवेदः प्रभाय भूयो भूयो नो नमः शङ्कराय ।।३८।।
ब्रह्मर्चिष्मान् भोगभृद्दैत्यहन्ता यन्ता योद्धा वीतगर्भो जगत्याः ।
स त्वं स्तुतो नः प्रसीदत्वनन्तो नित्योद्रेकी मुक्तरूप: प्रधानः ।। ३९ ।।
परब्रह्मरूपी नियतैकमुक्तः परज्योतिरूपी नियतस्त्वनन्तः ।
परः पाररूपी नियतात्मभागी स नो भर्गरूपी गिरिशोऽस्तु भूत्यै ।।४०।।
उमापतिं महामायं महादेवं जगत्पतिम् ।
शिवं शिवकरं शान्तं नमामः स प्रसीदतु ।। ४१ ।।
।। और्व उवाच ॥
इति स्तुतो महादेव: शक्राद्यैस्त्रिदशैः स्वयम् ।
उमासङ्गं परित्यज्य भर्गोऽगात्त्रिदिवौकसः ॥४२॥
येन भावेन स तदा महामैथुनतत्परः ।
आसीत् तेनैव भावेन ब्रह्मादीनां ससादह ।।४३।।
अथ तान् स सुरान् प्राह महादेवस्त्वरन्निव ।
किमर्थमागता यूयं तन्मे वदत निर्जराः ।
तमूचुस्त्रिदशाः सर्वे ब्रह्मशक्रपुरोगमाः ।। ४४ ।।
।। ब्रह्मादयः ऊचुः ।।
त्वन्महामैथुनाद्धर्ग व्याकुलं सकलं जगत् ।
पृथिवी कम्पतेऽतीव सशैलवनकानना ।। ४५ ।।
सागराः क्षुभिताः सर्वे नदा नद्यश्च शङ्कर ।
देवाश्च सर्वे दिक्पालान शान्तिं प्राप्नुवन्ति वै ।। ४६ ।।
तस्मात् त्वं सर्वलोकेश सकलाननुकम्पय ।
त्यक्त्वा महामैथुनं तु रतिमात्रं नियोजय ।। ४७ ।।
।।और्व उवाच ।
एतच्छ्रुत्वा वचस्तस्य ब्रह्मणः परमात्मनः ।
उवाच शङ्करो देव नातिहृष्टमना इव ।।४८ ।।
।। ईश्वर उवाच ।।
इयं प्रवृत्तिर्भवतां शिवायामरसत्तमाः ।
त्यक्ते महामैथुने तु रतिमात्रं प्रयोजिते ।
नोमायां भविता पुत्रस्तदर्थमयमुद्यमः ।। ४९ ।।
उमाशरीरज: पुत्रो यो भवेन्मम तेजसा ।
स एव तु रिपून् हत्वा त्रिदशान् वर्धयिष्यति ।। ५० ।।
तस्मान्महामैथुने मेऽतीव भीताः सुरोत्तमाः ।
स्वं स्वं स्थानं प्रगच्छन्तु अहं तदनुचिन्तये ।। ५१ ।।
।। देवा ऊचुः ।।
उमाशरीरज: पुत्रो यथा न भविता हर ।
तथा कुरु जगन्नाथ तन्महामैथुनं त्यज ।। ५२ ।।
।। ईश्वर उवाच ।।
रतिमात्रेण नोमायां मत्पुत्रः सम्भविष्यति ।
महामैथुनसन्त्यागात् स्यादपुत्री तु पार्वती ।। ५३ ।।
तस्मादहं तु देवानां वचनाद् ब्रह्मणस्तथा ।
त्यक्ष्ये महामैथुनं तु किं त्वेकं कुरुतामराः ।। ५४ ।।
येन मे प्रसृतं तेजो महामैथुनकारणात् ।
धार्यं तेजस्विनं देवमानयन्त्वमरास्तु तम् ।। ५५ ।।
यो निष्कम्पो निर्विकारो भूत्वा तेजोग्रहीष्यति ।
तन्मे वदन्तु त्रिदशास्त्यक्ष्ये तेजः शरीरजम् ।। ५६ ।।
।। और्व उवाच ॥
वृषध्वजवचः श्रुत्वा देवा ब्रह्मपुरोगमाः ।
हरतेजोग्रहायाथ वीतिहोत्रं ययुर्द्धिया ।। ५७ ।।
अथ ब्रह्माणमांमन्त्र्य तथानुज्ञाप्य पावकम् ।
सेन्द्रा देवगणाः सर्वे हरमूचुरिदं वचः ।। ५८ ।।
।। देवा ऊचुः ।।
एष वैश्वानरः श्रीमान् भूरितेजमयो बली ।
महामैथुनबीजं तु त्वत्तेजः संग्रहीष्यति ।। ५९ ।।
।। और्व उवाच ॥
इत्युक्त्वा त्रिदशाः सर्वे वीतिहोत्रं पुरः स्थितम् ।
तस्मै निदेशयामासुः शम्भवे सर्वहेतवे ।। ६० ।।
ततः षडङ्गं स्वं रेतो व्यादिते दहनानने ।
उत्ससर्ज महाबाहुर्महामैथुनकारणम् ।। ६१ ।।
अग्नावुत्सृज्यमानस्य तेजस: शशभृद्धृतः ।
अद्वयमतिस्वल्पं गिरिप्रस्थे पपात ह ।।६२।।
तयोस्तु कणयोः सद्यः सम्भूतौ शङ्करात्मजौ ।
एको भृङ्गसमः कृष्णो भिन्नाञ्जननिभोऽपरः ।। ६३।।
भृङ्गाभस्य तदा ब्रह्मा नाम भृङ्गीति चाकरोत् ।
महाकृष्णैकरूपस्य महाकालेति लोकभृत् ।।६४।।
ततस्तौ पालयामास शङ्करः प्रमथोत्करैः ।
अपर्णा चापि तथा क्रमात् तावति वर्द्धितौ ।। ६५ ।।
प्रवृद्धौ तौ महात्मानौ हरोमाप्रतिपालितौ ।
क्रमाद् गणेशौ कृत्वा तौ हरो द्वारि न्ययोजयत् ।। ६६ ।।
।। सगर उवाच ।।
उत्सृष्टमग्नौ यत्तेजस्तत् किं वृत्तं द्विजोत्तम ।
तदप्यहं श्रोतुमिच्छुः संक्षेपात् तद्वदस्व मे ।। ६७।।
।। और्व उवाच ॥
अग्नावुत्सृज्य तेजांसि तावत्कालं वृषध्वजः ।
आकाशगङ्गामुद्दिश्य देवानिदमुवाच ह ।। ६८ ।।
।। वृषध्वजोवाच ।।
एतत् तेजो दुराधर्षं स्त्रीभिरन्यैः सुरोत्तमाः ।
योगनिद्रामृते देवीं शैलपुत्रीमृतेऽथवा ।।६९।।
तस्मादहं प्रवक्ष्यामि यथेदं तेजसा सुतः ।
यत्र वा भविता देवो या च वा तद्ग्रहीष्यति ।।७० ।।
इयं त्वाकाशगा गङ्गा शैलराजसुतापरा ।
उमाया भगिनी ज्येष्ठा ततोऽपत्यं हुताशनात् ।। ७१ ।।
जनिष्यत्यात्मवीर्येण तेजसानुपमद्युतिः ।
भविष्यति स वः श्रीमान् सेनापतिररिन्दमः । । ७२ ।।
स तारकं वः पुरतो विजेष्यति शिखिध्वजः ।
अमोघया महाशक्त्या मयैव प्रतिवर्द्धितः ।।७३।।
।। और्व उवाच ॥
इत्युक्त्वा स महादेवो विसृज्य सकलान् सुरान् ।
पार्वतीमभिसंमन्त्र्य शौचार्थं गतवांस्तदा ।। ७४ ।।
पार्वतीवचनं श्रुत्वा देवानामप्रियं सती ।
चुकोप त्रिदशौघाय पुत्राशा परिवर्जिता ।। ७५ ।।
मन्युना दह्यमानेव स्फुरदोष्ठाधरा तदा ।
इदमाह सुरान् दृष्ट्वा हरं च त्यक्तमैथुनम् ।। ७६ ।।
।। देव्युवाच ।।
यस्माद्वियोजितः शम्भुर्युष्माभिर्मम मैथुने ।
अजातपुत्रा च कृता वारस्त्रीवाहम्मर्दिता ।।७७ ।।
तस्मात् सर्वे सुरगणा अद्यावधि निरन्तरम् ।
महामैथुनविभ्रष्टा भवन्तु निजयोषिति ।। ७८ ।।
तेषामपि तथा पुत्रा न जनिष्यन्ति मे यथा ।
भार्याश्च सन्त्वपत्येन हीना देव्यो वराङ्गनाः ।।७९।।
यथाहं परितप्यामि पुत्राशा परिवर्जिता ।
तथा सन्तु समस्तास्ता देव्यः पुत्राशयाच्युताः ।।८०।।
।। और्व उवाच ।।
एवं सुरान् गिरिसुता शशाप कुपिता भृशम् ।
तत्कालावधि न स्वर्गे जायन्ते देवपुत्रकाः ।
नाद्यापि सम्प्रजायन्ते पुत्रास्तासु सुधाशिनाम् ।। ८१ ।।
दहनोऽपि तथा काले प्राप्ते गङ्गोदरे स्वयम् ।
रेतः संक्रामयामास शाम्भवं स्वर्णसन्निभम् ।।८२।।
सा तेन रेतसा देवी सर्वलक्षणसंयुतम् ।
एकः स्कन्दो विशाखाख्यो द्वितीयश्चारुरूपधृक् ।
शक्तिद्वयधरौ द्वौ तौ तेजः कान्तिविवर्द्धितौ ॥८३॥
तावेकत्वं जगामाशु विशाखः स्कन्द एव च ।
शिशुश्चाप्यभवद् यातो यथान्यस्य सुतस्तथा ।। ८४ ।।
ततस्तं तनयं जातं तथा दृष्ट्वातिविस्मिता ।
मध्ये शरवणस्याशु गङ्गा तं व्यसृजद्धठात् ।। ८५ ।।
विसृज्य गर्भं तं गङ्गा बहुलायै स्वयं तदा ।
गर्भवृत्तान्तमाचख्यौ जातं च व्यसृजद् यथा ।। ८६ ।।
तच्छ्रुत्वा बहुला ज्ञात्वा महादेवतनूद्भवम् ।
परिगृह्य सुतं तं तु पालयामास कृत्तिका ।। ८७ ।।
उमायाः शङ्करस्यापि विज्ञाप्यानुमते तयोः ।
ततो नीत्वा ददौ देव्यै तं पुत्रमरिमर्दनम् ।। ८८ ।।
सोऽतिवृद्धः शक्तिधरो महाबलपराक्रमः ।
वर्द्धितः शङ्करेणाशु देवसेनाधिपोऽभवत् ।। ८९ ।।
ततः सुरारिं सगणं तारकं लोकतारकम् ।
शक्तिहस्तो हरसुतः प्रममाथ महाबलम् ।। ९० ।।
एवमग्नौ समुत्सृष्टं तेजो भर्गेण सङ्गतम् ।
यथा वृत्तं तथा तेऽद्य कथितं नृपसत्तम ।। ९१ ।।
साम्प्रतं प्रस्तुतं श्राव्यं महाकालस्य भृङ्गिणः ।
वृत्तान्तं शृणु राजेन्द्र तौ भूतौ मनुजौ यथा ।। ९२ ।।
।। इति श्रीकालिकापुराणे भृङ्गीमहाकालजन्मवर्णननाम षट्चत्वारिंशोऽध्यायः ॥ ४६।।
कालिका पुराण हिन्दी अनुवाद पढ़ने के लिए देखें-[Karmakand]