← अध्यायः ०६ कौषीतकिब्राह्मणम्
अध्यायः ०७
[[लेखकः :|]]
अध्यायः ०८ →
सोमयागः (दीक्षणीयेष्टि)



७.१ दीक्षणीयेष्टिः
वाग् दीक्षा । वाचा हि दीक्षते । प्राणो दीक्षितः । वाचा वै दीक्षया देवाः प्राणेन दीक्षितेन सर्वान् कामान् उभयतः परिगृह्य आत्मन्न् अदधत । तथो एव एतद् यजमानो वाचा एव दीक्षता प्राणेन दीक्षितेन सर्वान् कामान् उभयतः परिगृह्य आत्मन् धत्ते । आग्नावैष्णवम् एकादश कपालम् पुरोडाशम् निर्वपति । अग्निर् वै देवानाम् अवर अर्ध्यो विष्णुः पर अर्ध्यः । तद् यश् चैव देवानाम् अवर अर्ध्यो यश् च पर अर्ध्यः । ताभ्याम् एव एतत् सर्वा देवताः परिगृह्य सलोकताम् आप्नोति । तस्मात् कामम् पूर्वो दीक्षित्वा संसुनुयात् । पूर्वस्य ह्य् अस्य देवताः परिगृहीता भवन्ति । अशरीराभिः प्राण दीक्षाभिर् दीक्षते । प्राणा वै प्रयाजा अपाना अनुयाजाः । तद् यत् प्रयाज अनुयाजैश् चरन्ति । तत् प्राण अपाना दीक्षन्ते । यद्द् हविषा तत् शरीरम् । सो अयम् शरीरेण एव दीक्षमाणेन सर्वान् कामान् आप्नोति । प्राण अपानैर् दीक्षमाणैः सर्वासाम् देवतानाम् सलोकताम् सायुज्यम् ।

७.२ प्रयुक्तमन्त्राणां मीमांसा
पञ्चदश सामिधेनीर् अन्वाह । वज्रो वै सामिधेन्यः । पञ्चदशो वै वज्रः । वार्त्रघ्नाव् आज्य भागौ भवतः । वज्रो वार्त्रघ्नाव् आज्य भागौ । त्रिष्टुभौ हविषो याज्या पुरोनुवाक्ये । वज्रस् त्रिष्टुप् । एतेन वै देवास् त्रिः समृद्धेन वज्रेण एभ्यो लोकेभ्यो असुरान् अनुदन्त । तथो एव एतद् यजमान एतेन एव त्रिः समृद्धेन वज्रेण एभ्यो लोकेभ्यो द्विषतो भ्रातृव्यान् नुदते । वज्रो वार्त्रघ्नाव् आज्य भागौ ता उक्तौ । अथ अतो हविषो याज्या पुरोनुवाक्ये । उप वाम् जिह्वा घृतम् आचरण्यद् इत्य् आवती । तत् पुरोनुवाक्या रूपम् । प्रति वाम् जिह्वा घृतम् उच्चरण्यद् इत्य् उद्वती । तद् याज्या रूपम् । त्रिष्टुभौ सम्याज्ये । बलम् वै वीर्यम् त्रिष्टुप् । बलम् एव तद् वीर्यम् यजमाने दधाति । आगुर उदृचम् इति इडायाम् च सूक्त वाके च आह । यदा वा आग्नावैष्णवः पुरोडाशो निरुप्यते । अथ एव दीक्षित इति ह स्म आह । तस्माद् आगुर उदृचम् इत्य् एव ब्रूयात् । यथा एव दीक्षितस्य न सूक्त वाके यजमानस्य नाम गृह्णाति । देव गर्भो वा एष यद् दीक्षितः । न वा अजातस्य गर्भस्य नाम कुर्वन्ति । तस्माद् अस्य नाम न गृह्णाति ।

७.३ दीक्षितस्य महत्त्वम्
न वेदे पत्नीम् वाचयति न एवम् स्तृणाति । असंस्थित इव वा अत्र यज्ञो यत् सौम्यो अध्वरः । न इत् पुरा कालात् सौम्यम् अध्वरम् संस्थापयानि इति । तद् आहुः कस्माद् दीक्षितस्य अशनम् न अश्नन्ति इति । हविर् एष भवति यद् दीक्षते । तद् यथा हविषो अनवत्तस्य अश्नीयाद् एवम् तत् । कामम् प्रसूते अश्नीयात् । तद् यथा हविषो यात यामस्य अश्नीयाद् एवम् उ तत् । तद् आहुः कस्माद् दीक्षितस्य अन्ये नाम न गृह्णन्ति इति । अगिम् वा आत्मानम् दीक्षमाणो अभिदीक्षते । तद् यद् अस्य अन्ये नाम न गृह्णन्ति । न इद् अग्निम् आसीदाम इति । यद् उ सो अन्यस्य नाम न गृह्णाति । न इद् एनम् अग्नि भूतः प्रदहानि इति । यम् एव दिष्यात् । तस्य दीक्षितः सन् नाम ग्रसेत एव । तद् एव एनम् अग्नि भूतः प्रदहति । अथ यम् इच्छेत् । विचक्षणवत्या वाचा तस्य नाम गृह्णीयात् । सो तत्र प्रायश् चित्तिः । चक्षुर् वै विचक्षणम् । चक्षुषा हि विपश्यति । एका ह त्व् एव व्याहृतिर् दीक्षित वादः सत्यम् एव । स यः सत्य वदति । स दीक्षित इति ह स्म आह । तद् आहुः कस्माद् दीक्षितो अग्निहोत्रम् न जुहोति इति । असुरा वा आत्मन्न् अजुहवुर् उद्वाते अनग्नौ । ते पराभवन्न् अनग्नौ जुह्वतः । अथ देवा इमम् एव प्राणम् अग्निम् अन्तरा अदधत । तद् यत् सायम् प्रातर् व्रतम् प्रदीयते । अग्निहोत्रम् ह एव अस्य एतद् अस्मिन् प्राणे अग्नौ संततम् अव्यवच्छिन्नम् जुहोति । एषा अग्निहोत्रस्य संततिर् दीक्षासु । प्र उपसत्सु चरन्ति । का मीमांसा सुत्यायाम् ।

७.४ कैशिनी दीक्षा
अथ अतः कैशिनी दीक्षा । केशी ह दार्भ्यो दीक्षितो निषसाद । तम् ह हिरण्मयः शकुन आपत्य उवाच । अदीक्षितो वा असि दिक्षाम् अहम् वेद ताम् ते ब्रवाणि । सकृद् अयजे तस्य क्षयाद् बिभेमि । सकृद् इष्टस्य हो त्वम् अक्षितिम् वेत्थ ताम् त्वम् मह्यम् इति । स ह तथा इत्य् उवाच । तौ ह सम्प्रोचाते । स ह स आस । उलो वा वार्ष्ण वृद्ध इटन् वा काव्यः शिखण्डी वा याज्ञसेनः । यो वा स आस स स आस । स ह उवाच । शरीराणि वा एतया इष्ट्या दीक्षन्ते । या वा इमाः पुरुषे देवताः । यस्य एता दीक्षन्ते । स दीक्षित इति ह स्म आह । स यत्र अध्वर्युर् औद्ग्रभणानि जुहोति । तद् उप यजमानः पञ्च आहुतीर् जुहुयात् । मनो मे मनसा दीक्षताम् स्वाहा इति प्रथमाम् । वान् मे वाचा दीक्षताम् स्वाहा इति द्वितीयाम् । प्राणो मे प्राणेन दीक्षताम् स्वाहा इति तृतीयाम् । मध्ये प्राणम् आह । मध्ये ह्य् अयम् प्राणः । चक्षुर् मे चक्षुषा दीक्षताम् स्वाहा इति चतुर्थीम् । श्रोत्रम् मे श्रोत्रेण दीक्षताम् स्वाहा इति पञ्चमीम् । तद् उ ह स्म आह कौषीतकिः । न होतव्याः । अतिरिक्ता आहुतयः स्युर् यद्द् हूयेरन् । अध्वर्युम् एव जुह्वतम् अन्वारभ्य प्रतीकैर् अनुमन्त्रयेत् । मनो मे मनसा दीक्षताम् इति प्रथमाम् । वान् मे वाचा दीक्षताम् इति द्वितीयाम् । प्राणो मे प्राणेन दीक्षताम् इति तृतीयाम् । मध्ये प्राणम् आह । मध्ये ह्य् अयम् प्राणः । चक्षुर् मे चक्षुषा दीक्षताम् इति चतुर्थीम् । श्रोत्रम् मे श्रोत्रेण दीक्षताम् इति पञ्चमीम् । दीक्षयत्य् उ ह एव एता याः पुरुषे देवताः । नो अतिरिक्ता आहुतयो हूयन्त इति । अथ खलु श्रद्धा एव सकृद् इष्टस्य अक्षितिः । स यः श्रद्दधानो यजते । तस्य इष्टम् न क्षीयते । आपो अक्षितिः । या इमा एषु लोकेषु याश् च इमा अध्यात्मम् । स यो अम्मय्य् अक्षितिर् इति विद्वान् यजते । तस्य इष्टम् न क्षीयते । एताम् उ ह एव तत् केशी दार्भ्यो हिरण्मयाय शकुनाय सकृद् इष्टस्य अक्षितिम् प्रोवाच । अपर अह्णे दीक्षते । अपर अह्णे ह वा एष सर्वाणि भूतानि संवृङ्क्ते । अपि ह वा एनम् रजना अतियन्ति । तस्माल् लोहितायान्न् इव अस्तंवा इति । एतंवा इव आत्मानम् दीक्षमाणो अभिदीक्षते । तद् यद् अपर अह्णे दीक्षते । सर्वेषाम् एव कामानाम् आप्त्यै ।

७.५ प्रायणीयेष्टिः
प्रायणीयेन वै देवाः प्राणम् आप्नुवन्न् उदयनीयेन उदानम् । तथो एव एतद् यजमानः प्रायणीयेन एव प्राणम् आप्नोत्य् उदयनीयेन उदानम् । तौ वा एतौ प्राण उदानाव् एव यत् प्रायणीय उदयनीये । तस्माद् य एव प्रायणीयस्य ऋत्विजस् त उदयनीयस्य स्युः । समानौ हि इमौ प्राण उदानौ ।

७.६ देवताभिः दिशां प्रज्ञानम्
प्रायणीयेन ह वै देवाः स्वर्गं लोकम् अभिप्रयाय दिशो न प्रजज्ञुः । तान् अग्निर् उवाच । मह्यम् एकाम् आज्य आहुतिम् जुहुत अहम् एकाम् दिशम् प्रज्ञास्यामि इति । तस्मा अजुहवुः । स प्राचीम् दिशम् प्राजानात् । तस्मात् प्राञ्चम् अग्निम् प्रणयन्ति । प्रान् यज्ञस् तायते । प्राञ्च उ एव अस्मिन्न् आसीना जुह्वति । एषाहि तस्य दिक् प्रज्ञाता । अथ अब्रवीत् सोमः । मह्यम् एकाम् आज्य आहुतिम् जुहुत अहम् एकाम् दिशम् प्रज्ञास्यामि इति । तस्मा अजुहवुः । स दक्षिणाम् दिशम् प्राजानात् । तस्मात् सोमम् क्रीतम् दक्षिणा परिवहन्ति । दक्षिणा तिष्ठन्न् अभिष्टौति । दक्षिणा तिष्ठन् परिदधाति । दक्षिणो एव एनम् आसीना अभिषुण्वन्ति । एषा हि तस्य दिक् प्रज्ञाता । अथ अब्रवीत् सविता । मह्यम् एकाम् आज्य आहुतिम् जुहुत अहम् एकाम् दिशम् प्रज्ञास्यामि इति । तस्मा अजुहवुः । स प्रतीचीम् दिशम् प्राजानात् । तद् असौ वै सविता यो असौ तपति । तस्माद् एतम् प्रत्यञ्चम् एव अहर् अहर् यन्तम् पश्यन्ति न प्राञ्चम् । एषा हि तस्य दिक् प्रज्ञाता । अथ अब्रवीत् पथ्या स्वस्तिः । मह्यम् एकाम् आज्य आहुतिम् जुहुत अहम् एकाम् दिशम् प्रज्ञास्यामि इति । तस्या अजुहवुः । सा उदीचीम् दिशम् प्राजानात् । वाग् वै पथ्या स्वस्तिः । तस्माद् उदीच्याम् दिशि प्रज्ञाततरा वाग् उद्यते । उदञ्च उ एव यन्ति वाचम् शिक्षितुम् । यो वा तत आगच्छति । तस्य वा शुश्रूषन्त इति ह स्म आह । एषा हि वाचो दिक् प्रज्ञाता । अथ अब्रवीद् अदितिः । मह्यम् एकाम् अन्न आहुतिम् जुहुत अहम् एकाम् दिशम् प्रज्ञास्यामि इति । तस्या अजुहवुः । सा ऊर्ध्वाम् दिशम् प्राजानात् । इयम् वा अदितिः । तस्माद् अस्याम् ऊर्ध्वा ओषधय ऊर्ध्वा वनस्पतय ऊर्ध्वा मनुष्या उत्तिष्ठन्ति । ऊर्ध्वो अग्निर् दीप्यते । यद् अस्याम् किंच ऊर्ध्वम् एव तद् आयत्तम् । एषा हि तस्यै दिक् प्रज्ञाता ।

७.७ प्रायणीयोदयनीययोः संबन्धः
एवम् वै देवाः प्रायणीयेन स्वर्गंल् लोकम् प्राजानत् । तथो एव एतद् यजमान एवम् एव प्रायणीयेन एव स्वर्गंल् लोकम् प्रजानाति । ते समे स्याताम् प्रायणीय उदयनीये । देव रथो वा एष यद् यज्ञः । तस्य एते पक्षसी यत् प्रायणीय उदयनीये । ते यः समे कुरुते । यथा उभयतः पक्षसा रथेन उग्र वाहणेन धावयन्न् अध्वानम् यत्र अकूतम् समश्नुवीत । एवम् स स्वस्ति स्वर्गंल् लोकम् समश्नुते । अथ यो विषमे कुरुते । यथा अन्यतरतः पक्षसा रथेन उग्र वाहणेन धावयन्न् अध्वानम् यत्र अकूतम् न समश्नुवीत । एवम् स न स्वस्ति स्वर्गंल् लोकम् समश्नुते । तस्मात् समे एव स्याताम् प्रायणीय उदयनीये । शम्युवन्तम् प्रायणीयम् शम्य्वन्तम् उदयनीयम् ।

७.८ प्रायणीयेष्टिदेवताः
पथ्याम् स्वस्तिम् प्रथमाम् प्रायणीये यजति । अथ अग्निम् अथ सोमम् अथ सवितारम् अथ अदितिम् । स्वर्गम् वै लोकम् प्रायणीयेन अभिप्रैति । तद् यत् पुरस्तात् पथ्याम् स्वस्तिम् यजति । स्वस्त्ययनम् एव तत् कुरुते स्वर्गस्य लोकस्य समष्ट्यै । अग्निम् पथमम् उदयनीये यजति । अथ सोमम् अथ सवितारम् अथ पथ्याम् स्वस्तिम् अथ अदितिम् । इमम् वै लोकम् उदयनीयेन प्रत्येति । तद् यत् परस्तात् पथ्याम् स्वस्तिम् यजति । स्वस्त्ययनम् एव तत् कुरुते अस्य लोकस्य समष्ट्यै । ता वै पञ्च देवता यजति । ताभिर् यत् किंच पञ्चविधम् अधिदैवतम् अध्यात्मम् तत् सर्वम् आप्नोति । तासाम् याज्या पुरोनुवाक्याः । ता वै स्वस्तिमत्यः पथिमत्यः पारितवत्यः प्रवत्यो नीतवत्यो भवन्ति । मरुतो ह वै देव विशो अन्तरिक्ष भाजना ईश्वरा यजमानस्य स्वर्गंल् लोकम् यतो यज्ञ पेशसम् कर्तोः । तद् यत् स्वस्तिमत्यः पथिमत्यः पारितवत्यः प्रवत्यो नीतवत्यो भवन्ति । न एनम् मरुतो देव विशो हिंसन्ति । स्वस्ति स्वर्गंल् लोकम् समश्नुते । ता वै विपर्यस्यति । याः प्राय्णीयायाम् पुरोनुवाक्यास् ता उदयनीयायाम् याज्याः करोति । या याज्यास् ताः पुरोनुवाक्याः ।

७.९ प्रायणीयोदयनीयेष्टयोः संबन्धः पत्नीसंयाजश्च
प्र इव वा एषो अस्माल् लोकाच् च्यवते यः प्रायणीयेन अभिप्रैति । तद् यद् विपर्यस्यति । तद् अस्मिंल् लोके प्रतितिष्ठति । प्रतिष्ठायाम् अप्रच्युत्याम् । अथो प्राणा वै छन्दांसि । प्राणान् एव तद् आत्मन् व्यतिषजत्य् अविवर्हाय । तस्माद्द् हि इमे प्राणा विष्वञ्चो वान्तो न निर्वान्ति । त्वाम् चित्र श्रवस्तम यद् वाहिष्ठम् तद् अग्नय इत्य् अनुष्टुभौ सम्याज्ये । ततिर् वै यज्ञस्य प्रायणीयम् । वाग् अनुष्टुप् । वाचा यज्ञस् तायते । न एते विपर्यस्यति । प्रतिष्ठे वै सम्याज्ये । न इत् प्रतिष्ठे व्यतिषजानि इति । सम्य्वन्तम् भवति । अभिक्रान्त्यै तद् रूपम् । तद् यथा उपप्रयाय स्वर्गस्य लोकस्य नेदीयस्तायाम् वसेद् एवम् तत् । यद् व् एव शम्य्वन्तम् भवति । सर्वा ह वै देवताः प्रायणीये संगच्छन्ते । स यो अत्र सम्याजयेत् । यथा संगतम् भूमानम् देवानाम् पत्नीर् अभ्यवनयेद् एवम् तत् । यस् तम् तत्र ब्रूयात् । संगताम् वा अयम् भूमानम् देवानाम् पत्नीर् अभ्यवानैषीत् । सभामस्य पत्न्य् अभ्यवैष्यति इति तथा ह स्यात् । तस्माद् उ शम्य्वन्तम् भवति । देवतानाम् असमराय ।

७.१० सोमस्य क्रयस्तस्यानयनं च
असुरा वै अस्याम् दिशि देवान्त् समरुन्धन् या इयम् प्राच्य् उदीची । त एतस्याम् दिशि सन्तः सोमम् राज्याय अभ्यषिञ्चन्त । ते सोमेन राज्ञा एभ्यो लोकेभ्यो असुरान् अनुदन्त । तथो एव एतद् यजमानः सोमेन एव राज्ञा एभ्यो लोकेभ्यो द्विषतो भ्रातृव्यान् नुदते । तम् वै चतुर्भिः क्रीणाति गवा चन्द्रेण वस्त्रेण छागया । आ चतुरम् वै द्वन्द्वम् मिथुनम् प्रजननम् प्रजात्यै । तद् असौ वै सोमो राजा विचक्षणश् चन्द्रमाः । स इमम् क्रीतम् एव प्रविशति । तद् यत् सोमम् राजानम् क्रीणाति । असौ वै सोमो राजा विचक्षणश् चन्द्रमा अभिषुतो असद् इति । तस्मै क्रीताय नव अन्वाह । नव इमे प्राणाः । प्राणान् एव तद् यजमाने दधाति । सर्वायुत्वाय अस्मिंल् लोके । अमृतत्वाय अमुष्मिन् । भद्राद् अभि श्रेयः प्रेति इति प्रवतीम् प्रवत्यमानाय अन्वाह । बृहस्पतिः पुर एता ते अस्त्व् इति । ब्रह्म वै बृहस्पतिः । ब्रह्म यशसस्य अवरुद्ध्यै । इमाम् धियम् शिक्षमाणस्य देव वनेषु व्यन्तरिक्षम् ततान इति त्रिष्टुभौ वारुण्याव् अन्वाह । क्षत्रम् वै त्रिष्टुप् । क्षत्रम् वरुणः । क्षत्र यशसस्य अवरुद्ध्यै । सोम यास् ते मयो भुव इति चतस्रो गायत्रीः सौमीर् अन्वाह । ब्रह्म वै गायत्री । क्षत्रम् सोमः । ब्रह्म यशसस्य च क्षत्र यशसस्य च अवरुद्ध्यै । तासाम् उत्तमाया अर्धर्चम् उक्त्वा उपरमति । अमृतम् वा ऋक् । अमृतम् तत् प्रविशति । अथो ब्रह्म वा ऋक् । उभयत एव तद् ब्रह्म अर्धर्चौ वर्म कुरुते । तद् यत्र क्वच अर्धर्चेन उपरमेत् । एतद् ब्राह्मणम् एव तत् । या ते धामानि हविषा यजन्ति इति प्रवतीम् प्रपाद्यमानाय अन्वाह । आगन् देव ऋतुभिर् वर्धतु क्षयम् इत्य् आगतवत्या ऋतुमत्या परिदधाति । संवत्सरो वै सोमो राजा इति ह स्म आह कौषीतकिः । सो अभ्यागच्छन्न् ऋतुभिर् एव सह अभ्येति इति । अभिरूपा अन्वाह । यद् यज्ञे अभिरूपम् तत् समृद्धम् यज्ञस्य एव समृद्ध्यै । ता वै नव अन्वाह । तासाम् उक्तम् ब्राह्मणम् । त्रिः प्रथमया त्रिर् उत्तमया त्रयोदश सम्पद्यन्ते । द्वादश वै मासाः संवत्सरः । संवत्सरस्य एव आप्त्यै । अस्ति त्रयोदशो मासः । उपचरो विज्ञात इव तस्य आप्त्यै तस्य आप्त्यै ।  

७.१ दीक्षणीयेष्टिः
वाग् दीक्षा ।
वाचा हि दीक्षते ।
प्राणो दीक्षितः ।
वाचा वै दीक्षया देवाः प्राणेन दीक्षितेन सर्वान् कामान् उभयतः परिगृह्य आत्मन्न् अदधत ।
तथो एव एतद् यजमानो वाचा एव दीक्षता प्राणेन दीक्षितेन सर्वान् कामान् उभयतः परिगृह्य आत्मन् धत्ते ।
आग्नावैष्णवम् एकादश कपालम् पुरोडाशम् निर्वपति ।
अग्निर् वै देवानाम् अवर अर्ध्यो विष्णुः पर अर्ध्यः ।
तद् यश् चैव देवानाम् अवर अर्ध्यो यश् च पर अर्ध्यः ।
ताभ्याम् एव एतत् सर्वा देवताः परिगृह्य सलोकताम् आप्नोति ।
तस्मात् कामम् पूर्वो दीक्षित्वा संसुनुयात् ।
पूर्वस्य ह्य् अस्य देवताः परिगृहीता भवन्ति ।
अशरीराभिः प्राण दीक्षाभिर् दीक्षते ।
प्राणा वै प्रयाजा अपाना अनुयाजाः ।
तद् यत् प्रयाज अनुयाजैश् चरन्ति ।
तत् प्राण अपाना दीक्षन्ते ।
यद्द् हविषा तत् शरीरम् ।
सो अयम् शरीरेण एव दीक्षमाणेन सर्वान् कामान् आप्नोति ।
प्राण अपानैर् दीक्षमाणैः सर्वासाम् देवतानाम् सलोकताम् सायुज्यम् ।

७.२ प्रयुक्तमन्त्राणां मीमांसा
पञ्चदश सामिधेनीर् अन्वाह ।
वज्रो वै सामिधेन्यः ।
पञ्चदशो वै वज्रः ।
वार्त्रघ्नाव् आज्य भागौ भवतः ।
वज्रो वार्त्रघ्नाव् आज्य भागौ ।
त्रिष्टुभौ हविषो याज्या पुरोनुवाक्ये ।
वज्रस् त्रिष्टुप् ।
एतेन वै देवास् त्रिः समृद्धेन वज्रेण एभ्यो लोकेभ्यो असुरान् अनुदन्त ।
तथो एव एतद् यजमान एतेन एव त्रिः समृद्धेन वज्रेण एभ्यो लोकेभ्यो द्विषतो भ्रातृव्यान् नुदते ।
वज्रो वार्त्रघ्नाव् आज्य भागौ ता उक्तौ ।
अथ अतो हविषो याज्या पुरोनुवाक्ये ।
उप वाम् जिह्वा घृतम् आचरण्यद् इत्य् आवती ।
तत् पुरोनुवाक्या रूपम् ।
प्रति वाम् जिह्वा घृतम् उच्चरण्यद् इत्य् उद्वती ।
तद् याज्या रूपम् ।
त्रिष्टुभौ सम्याज्ये ।
बलम् वै वीर्यम् त्रिष्टुप् ।
बलम् एव तद् वीर्यम् यजमाने दधाति ।
आगुर उदृचम् इति इडायाम् च सूक्त वाके च आह ।
यदा वा आग्नावैष्णवः पुरोडाशो निरुप्यते ।
अथ एव दीक्षित इति ह स्म आह ।
तस्माद् आगुर उदृचम् इत्य् एव ब्रूयात् ।
यथा एव दीक्षितस्य न सूक्त वाके यजमानस्य नाम गृह्णाति ।
देव गर्भो वा एष यद् दीक्षितः ।
न वा अजातस्य गर्भस्य नाम कुर्वन्ति ।
तस्माद् अस्य नाम न गृह्णाति ।

७.३ दीक्षितस्य महत्त्वम्
न वेदे पत्नीम् वाचयति न एवम् स्तृणाति ।
असंस्थित इव वा अत्र यज्ञो यत् सौम्यो अध्वरः ।
न इत् पुरा कालात् सौम्यम् अध्वरम् संस्थापयानि इति ।
तद् आहुः कस्माद् दीक्षितस्य अशनम् न अश्नन्ति इति ।
हविर् एष भवति यद् दीक्षते ।
तद् यथा हविषो अनवत्तस्य अश्नीयाद् एवम् तत् ।
कामम् प्रसूते अश्नीयात् ।
तद् यथा हविषो यात यामस्य अश्नीयाद् एवम् उ तत् ।
तद् आहुः कस्माद् दीक्षितस्य अन्ये नाम न गृह्णन्ति इति ।
अगिम् वा आत्मानम् दीक्षमाणो अभिदीक्षते ।
तद् यद् अस्य अन्ये नाम न गृह्णन्ति ।
न इद् अग्निम् आसीदाम इति ।
यद् उ सो अन्यस्य नाम न गृह्णाति ।
न इद् एनम् अग्नि भूतः प्रदहानि इति ।
यम् एव दिष्यात् ।
तस्य दीक्षितः सन् नाम ग्रसेत एव ।
तद् एव एनम् अग्नि भूतः प्रदहति ।
अथ यम् इच्छेत् ।
विचक्षणवत्या वाचा तस्य नाम गृह्णीयात् ।
सो तत्र प्रायश् चित्तिः ।
चक्षुर् वै विचक्षणम् ।
चक्षुषा हि विपश्यति ।
एका ह त्व् एव व्याहृतिर् दीक्षित वादः सत्यम् एव ।
स यः सत्य वदति ।
स दीक्षित इति ह स्म आह ।
तद् आहुः कस्माद् दीक्षितो अग्निहोत्रम् न जुहोति इति ।
असुरा वा आत्मन्न् अजुहवुर् उद्वाते अनग्नौ ।
ते पराभवन्न् अनग्नौ जुह्वतः ।
अथ देवा इमम् एव प्राणम् अग्निम् अन्तरा अदधत ।
तद् यत् सायम् प्रातर् व्रतम् प्रदीयते ।
अग्निहोत्रम् ह एव अस्य एतद् अस्मिन् प्राणे अग्नौ संततम् अव्यवच्छिन्नम् जुहोति ।
एषा अग्निहोत्रस्य संततिर् दीक्षासु ।
प्र उपसत्सु चरन्ति ।
का मीमांसा सुत्यायाम् ।

७.४ कैशिनी दीक्षा
अथ अतः कैशिनी दीक्षा ।
केशी ह दार्भ्यो दीक्षितो निषसाद ।
तम् ह हिरण्मयः शकुन आपत्य उवाच ।
अदीक्षितो वा असि दिक्षाम् अहम् वेद ताम् ते ब्रवाणि ।
सकृद् अयजे तस्य क्षयाद् बिभेमि ।
सकृद् इष्टस्य हो त्वम् अक्षितिम् वेत्थ ताम् त्वम् मह्यम् इति ।
स ह तथा इत्य् उवाच ।
तौ ह सम्प्रोचाते ।
स ह स आस ।
उलो वा वार्ष्ण वृद्ध इटन् वा काव्यः शिखण्डी वा याज्ञसेनः ।
यो वा स आस स स आस ।
स ह उवाच ।
शरीराणि वा एतया इष्ट्या दीक्षन्ते ।
या वा इमाः पुरुषे देवताः ।
यस्य एता दीक्षन्ते ।
स दीक्षित इति ह स्म आह ।
स यत्र अध्वर्युर् औद्ग्रभणानि जुहोति ।
तद् उप यजमानः पञ्च आहुतीर् जुहुयात् ।
मनो मे मनसा दीक्षताम् स्वाहा इति प्रथमाम् ।
वान् मे वाचा दीक्षताम् स्वाहा इति द्वितीयाम् ।
प्राणो मे प्राणेन दीक्षताम् स्वाहा इति तृतीयाम् ।
मध्ये प्राणम् आह ।
मध्ये ह्य् अयम् प्राणः ।
चक्षुर् मे चक्षुषा दीक्षताम् स्वाहा इति चतुर्थीम् ।
श्रोत्रम् मे श्रोत्रेण दीक्षताम् स्वाहा इति पञ्चमीम् ।
तद् उ ह स्म आह कौषीतकिः ।
न होतव्याः ।
अतिरिक्ता आहुतयः स्युर् यद्द् हूयेरन् ।
अध्वर्युम् एव जुह्वतम् अन्वारभ्य प्रतीकैर् अनुमन्त्रयेत् ।
मनो मे मनसा दीक्षताम् इति प्रथमाम् ।
वान् मे वाचा दीक्षताम् इति द्वितीयाम् ।
प्राणो मे प्राणेन दीक्षताम् इति तृतीयाम् ।
मध्ये प्राणम् आह ।
मध्ये ह्य् अयम् प्राणः ।
चक्षुर् मे चक्षुषा दीक्षताम् इति चतुर्थीम् ।
श्रोत्रम् मे श्रोत्रेण दीक्षताम् इति पञ्चमीम् ।
दीक्षयत्य् उ ह एव एता याः पुरुषे देवताः ।
नो अतिरिक्ता आहुतयो हूयन्त इति ।
अथ खलु श्रद्धा एव सकृद् इष्टस्य अक्षितिः ।
स यः श्रद्दधानो यजते ।
तस्य इष्टम् न क्षीयते ।
आपो अक्षितिः ।
या इमा एषु लोकेषु याश् च इमा अध्यात्मम् ।
स यो अम्मय्य् अक्षितिर् इति विद्वान् यजते ।
तस्य इष्टम् न क्षीयते ।
एताम् उ ह एव तत् केशी दार्भ्यो हिरण्मयाय शकुनाय सकृद् इष्टस्य अक्षितिम् प्रोवाच ।
अपर अह्णे दीक्षते ।
अपर अह्णे ह वा एष सर्वाणि भूतानि संवृङ्क्ते ।
अपि ह वा एनम् रजना अतियन्ति ।
तस्माल् लोहितायान्न् इव अस्तंवा इति ।
एतंवा इव आत्मानम् दीक्षमाणो अभिदीक्षते ।
तद् यद् अपर अह्णे दीक्षते ।
सर्वेषाम् एव कामानाम् आप्त्यै ।

७.५ प्रायणीयेष्टिः
प्रायणीयेन वै देवाः प्राणम् आप्नुवन्न् उदयनीयेन उदानम् ।
तथो एव एतद् यजमानः प्रायणीयेन एव प्राणम् आप्नोत्य् उदयनीयेन उदानम् ।
तौ वा एतौ प्राण उदानाव् एव यत् प्रायणीय उदयनीये ।
तस्माद् य एव प्रायणीयस्य ऋत्विजस् त उदयनीयस्य स्युः ।
समानौ हि इमौ प्राण उदानौ ।

७.६ देवताभिः दिशां प्रज्ञानम्
प्रायणीयेन ह वै देवाः स्वर्गं लोकम् अभिप्रयाय दिशो न प्रजज्ञुः ।
तान् अग्निर् उवाच ।
मह्यम् एकाम् आज्य आहुतिम् जुहुत अहम् एकाम् दिशम् प्रज्ञास्यामि इति ।
तस्मा अजुहवुः ।
स प्राचीम् दिशम् प्राजानात् ।
तस्मात् प्राञ्चम् अग्निम् प्रणयन्ति ।
प्रान् यज्ञस् तायते ।
प्राञ्च उ एव अस्मिन्न् आसीना जुह्वति ।
एषाहि तस्य दिक् प्रज्ञाता ।
अथ अब्रवीत् सोमः ।
मह्यम् एकाम् आज्य आहुतिम् जुहुत अहम् एकाम् दिशम् प्रज्ञास्यामि इति ।
तस्मा अजुहवुः ।
स दक्षिणाम् दिशम् प्राजानात् ।
तस्मात् सोमम् क्रीतम् दक्षिणा परिवहन्ति ।
दक्षिणा तिष्ठन्न् अभिष्टौति ।
दक्षिणा तिष्ठन् परिदधाति ।
दक्षिणो एव एनम् आसीना अभिषुण्वन्ति ।
एषा हि तस्य दिक् प्रज्ञाता ।
अथ अब्रवीत् सविता ।
मह्यम् एकाम् आज्य आहुतिम् जुहुत अहम् एकाम् दिशम् प्रज्ञास्यामि इति ।
तस्मा अजुहवुः ।
स प्रतीचीम् दिशम् प्राजानात् ।
तद् असौ वै सविता यो असौ तपति ।
तस्माद् एतम् प्रत्यञ्चम् एव अहर् अहर् यन्तम् पश्यन्ति न प्राञ्चम् ।
एषा हि तस्य दिक् प्रज्ञाता ।
अथ अब्रवीत् पथ्या स्वस्तिः ।
मह्यम् एकाम् आज्य आहुतिम् जुहुत अहम् एकाम् दिशम् प्रज्ञास्यामि इति ।
तस्या अजुहवुः ।
सा उदीचीम् दिशम् प्राजानात् ।
वाग् वै पथ्या स्वस्तिः ।
तस्माद् उदीच्याम् दिशि प्रज्ञाततरा वाग् उद्यते ।
उदञ्च उ एव यन्ति वाचम् शिक्षितुम् ।
यो वा तत आगच्छति ।
तस्य वा शुश्रूषन्त इति ह स्म आह ।
एषा हि वाचो दिक् प्रज्ञाता ।
अथ अब्रवीद् अदितिः ।
मह्यम् एकाम् अन्न आहुतिम् जुहुत अहम् एकाम् दिशम् प्रज्ञास्यामि इति ।
तस्या अजुहवुः ।
सा ऊर्ध्वाम् दिशम् प्राजानात् ।
इयम् वा अदितिः ।
तस्माद् अस्याम् ऊर्ध्वा ओषधय ऊर्ध्वा वनस्पतय ऊर्ध्वा मनुष्या उत्तिष्ठन्ति ।
ऊर्ध्वो अग्निर् दीप्यते ।
यद् अस्याम् किंच ऊर्ध्वम् एव तद् आयत्तम् ।
एषा हि तस्यै दिक् प्रज्ञाता ।

७.७ प्रायणीयोदयनीययोः संबन्धः
एवम् वै देवाः प्रायणीयेन स्वर्गंल् लोकम् प्राजानत् ।
तथो एव एतद् यजमान एवम् एव प्रायणीयेन एव स्वर्गंल् लोकम् प्रजानाति ।
ते समे स्याताम् प्रायणीय उदयनीये ।
देव रथो वा एष यद् यज्ञः ।
तस्य एते पक्षसी यत् प्रायणीय उदयनीये ।
ते यः समे कुरुते ।
यथा उभयतः पक्षसा रथेन उग्र वाहणेन धावयन्न् अध्वानम् यत्र अकूतम् समश्नुवीत ।
एवम् स स्वस्ति स्वर्गंल् लोकम् समश्नुते ।
अथ यो विषमे कुरुते ।
यथा अन्यतरतः पक्षसा रथेन उग्र वाहणेन धावयन्न् अध्वानम् यत्र अकूतम् न समश्नुवीत ।
एवम् स न स्वस्ति स्वर्गंल् लोकम् समश्नुते ।
तस्मात् समे एव स्याताम् प्रायणीय उदयनीये ।
शम्युवन्तम् प्रायणीयम् शम्य्वन्तम् उदयनीयम् ।

७.८ प्रायणीयेष्टिदेवताः
पथ्याम् स्वस्तिम् प्रथमाम् प्रायणीये यजति ।
अथ अग्निम् अथ सोमम् अथ सवितारम् अथ अदितिम् ।
स्वर्गम् वै लोकम् प्रायणीयेन अभिप्रैति ।
तद् यत् पुरस्तात् पथ्याम् स्वस्तिम् यजति ।
स्वस्त्ययनम् एव तत् कुरुते स्वर्गस्य लोकस्य समष्ट्यै ।
अग्निम् पथमम् उदयनीये यजति ।
अथ सोमम् अथ सवितारम् अथ पथ्याम् स्वस्तिम् अथ अदितिम् ।
इमम् वै लोकम् उदयनीयेन प्रत्येति ।
तद् यत् परस्तात् पथ्याम् स्वस्तिम् यजति ।
स्वस्त्ययनम् एव तत् कुरुते अस्य लोकस्य समष्ट्यै ।
ता वै पञ्च देवता यजति ।
ताभिर् यत् किंच पञ्चविधम् अधिदैवतम् अध्यात्मम् तत् सर्वम् आप्नोति ।
तासाम् याज्या पुरोनुवाक्याः ।
ता वै स्वस्तिमत्यः पथिमत्यः पारितवत्यः प्रवत्यो नीतवत्यो भवन्ति ।
मरुतो ह वै देव विशो अन्तरिक्ष भाजना ईश्वरा यजमानस्य स्वर्गंल् लोकम् यतो यज्ञ पेशसम् कर्तोः ।
तद् यत् स्वस्तिमत्यः पथिमत्यः पारितवत्यः प्रवत्यो नीतवत्यो भवन्ति ।
न एनम् मरुतो देव विशो हिंसन्ति ।
स्वस्ति स्वर्गंल् लोकम् समश्नुते ।
ता वै विपर्यस्यति ।
याः प्राय्णीयायाम् पुरोनुवाक्यास् ता उदयनीयायाम् याज्याः करोति ।
या याज्यास् ताः पुरोनुवाक्याः ।

७.९ प्रायणीयोदयनीयेष्टयोः संबन्धः पत्नीसंयाजश्च
प्र इव वा एषो अस्माल् लोकाच् च्यवते यः प्रायणीयेन अभिप्रैति ।
तद् यद् विपर्यस्यति ।
तद् अस्मिंल् लोके प्रतितिष्ठति ।
प्रतिष्ठायाम् अप्रच्युत्याम् ।
अथो प्राणा वै छन्दांसि ।
प्राणान् एव तद् आत्मन् व्यतिषजत्य् अविवर्हाय ।
तस्माद्द् हि इमे प्राणा विष्वञ्चो वान्तो न निर्वान्ति ।
त्वाम् चित्र श्रवस्तम यद् वाहिष्ठम् तद् अग्नय इत्य् अनुष्टुभौ सम्याज्ये ।
ततिर् वै यज्ञस्य प्रायणीयम् ।
वाग् अनुष्टुप् ।
वाचा यज्ञस् तायते ।
न एते विपर्यस्यति ।
प्रतिष्ठे वै सम्याज्ये ।
न इत् प्रतिष्ठे व्यतिषजानि इति ।
सम्य्वन्तम् भवति ।
अभिक्रान्त्यै तद् रूपम् ।
तद् यथा उपप्रयाय स्वर्गस्य लोकस्य नेदीयस्तायाम् वसेद् एवम् तत् ।
यद् व् एव शम्य्वन्तम् भवति ।
सर्वा ह वै देवताः प्रायणीये संगच्छन्ते ।
स यो अत्र सम्याजयेत् ।
यथा संगतम् भूमानम् देवानाम् पत्नीर् अभ्यवनयेद् एवम् तत् ।
यस् तम् तत्र ब्रूयात् ।
संगताम् वा अयम् भूमानम् देवानाम् पत्नीर् अभ्यवानैषीत् ।
सभामस्य पत्न्य् अभ्यवैष्यति इति तथा ह स्यात् ।
तस्माद् उ शम्य्वन्तम् भवति ।
देवतानाम् असमराय ।

७.१० सोमस्य क्रयस्तस्यानयनं च
असुरा वै अस्याम् दिशि देवान्त् समरुन्धन् या इयम् प्राच्य् उदीची ।
त एतस्याम् दिशि सन्तः सोमम् राज्याय अभ्यषिञ्चन्त ।
ते सोमेन राज्ञा एभ्यो लोकेभ्यो असुरान् अनुदन्त ।
तथो एव एतद् यजमानः सोमेन एव राज्ञा एभ्यो लोकेभ्यो द्विषतो भ्रातृव्यान् नुदते ।
तम् वै चतुर्भिः क्रीणाति गवा चन्द्रेण वस्त्रेण छागया ।
आ चतुरम् वै द्वन्द्वम् मिथुनम् प्रजननम् प्रजात्यै ।
तद् असौ वै सोमो राजा विचक्षणश् चन्द्रमाः ।
स इमम् क्रीतम् एव प्रविशति ।
तद् यत् सोमम् राजानम् क्रीणाति ।
असौ वै सोमो राजा विचक्षणश् चन्द्रमा अभिषुतो असद् इति ।
तस्मै क्रीताय नव अन्वाह ।
नव इमे प्राणाः ।
प्राणान् एव तद् यजमाने दधाति ।
सर्वायुत्वाय अस्मिंल् लोके ।
अमृतत्वाय अमुष्मिन् ।
भद्राद् अभि श्रेयः प्रेति इति प्रवतीम् प्रवत्यमानाय अन्वाह ।
बृहस्पतिः पुर एता ते अस्त्व् इति ।
ब्रह्म वै बृहस्पतिः ।
ब्रह्म यशसस्य अवरुद्ध्यै ।
इमाम् धियम् शिक्षमाणस्य देव वनेषु व्यन्तरिक्षम् ततान इति त्रिष्टुभौ वारुण्याव् अन्वाह ।
क्षत्रम् वै त्रिष्टुप् ।
क्षत्रम् वरुणः ।
क्षत्र यशसस्य अवरुद्ध्यै ।
सोम यास् ते मयो भुव इति चतस्रो गायत्रीः सौमीर् अन्वाह ।
ब्रह्म वै गायत्री ।
क्षत्रम् सोमः ।
ब्रह्म यशसस्य च क्षत्र यशसस्य च अवरुद्ध्यै ।
तासाम् उत्तमाया अर्धर्चम् उक्त्वा उपरमति ।
अमृतम् वा ऋक् ।
अमृतम् तत् प्रविशति ।
अथो ब्रह्म वा ऋक् ।
उभयत एव तद् ब्रह्म अर्धर्चौ वर्म कुरुते ।
तद् यत्र क्वच अर्धर्चेन उपरमेत् ।
एतद् ब्राह्मणम् एव तत् ।
या ते धामानि हविषा यजन्ति इति प्रवतीम् प्रपाद्यमानाय अन्वाह ।
आगन् देव ऋतुभिर् वर्धतु क्षयम् इत्य् आगतवत्या ऋतुमत्या परिदधाति ।
संवत्सरो वै सोमो राजा इति ह स्म आह कौषीतकिः ।
सो अभ्यागच्छन्न् ऋतुभिर् एव सह अभ्येति इति ।
अभिरूपा अन्वाह ।
यद् यज्ञे अभिरूपम् तत् समृद्धम् यज्ञस्य एव समृद्ध्यै ।
ता वै नव अन्वाह ।
तासाम् उक्तम् ब्राह्मणम् ।
त्रिः प्रथमया त्रिर् उत्तमया त्रयोदश सम्पद्यन्ते ।
द्वादश वै मासाः संवत्सरः ।
संवत्सरस्य एव आप्त्यै ।
अस्ति त्रयोदशो मासः ।
उपचरो विज्ञात इव तस्य आप्त्यै तस्य आप्त्यै ।