चम्पूभारतम्.pdf
श्रीमदनन्तकविः
१९११

THE
CHAMPU-BHARATA
OF
ANANTA KAVI

With the Commentary of Ramachandra Budhendra

EDITED by

KASHINATH PANDURANG PARAB

AND

WASUDEV LAXMAN SHASTRI PANSIKAR

SECOND EDITION

PUBLISHED BY

TUKARAM JAVAJI

PROPRIETOR OF THE "NIRNAA SAGAR" PRESS,
23, Kolbhat Lane, KALBADEVI ROAD,
Bombay



1911




Price 2.5 Rupees


( Registered according & Act XXV of 1867 )

[ All rights reserved by the publisher ]


BOMBAY

PRINTED BY B R GHINEKAR, AT THE "NIRNAYA SAGAR " PRESS,

KOLBEAT LANE, HOUSE No 23, FOR THE PUBLISHER

॥ श्रीः ॥

श्रीमदनन्तकविविरचितं


चम्पूभारतम् ।


रामचन्द्रबुधेन्द्रविरचितया व्याख्यया समेतम् ।


काशीनाथ पाण्डुरङ्ग परब इत्यनेन संस्कृतम् ।

( द्वितीयावृत्ति )

वासुदेव लक्ष्मणशास्त्री पणशीकर इत्यनेन शोधिता ।

साच

मुम्बय्यां


निर्णयसागरमुद्रायन्त्रालयाधिपतिभिः तुकाराम जावजी इत्येतैः
स्वीये मुद्रायन्त्रे वा रा घाणेकरद्वारा मुद्रयित्वा प्राकाश्यं
नीता कोलभाटवीथ्या न० २३


शके १८३३, सन १९१


मूल्य सार्ध रूप्यकद्वयम् ।

श्रीः ।

श्रीमदनन्तभट्टविरचितं

चम्पूभारतम् ।

श्रीरामचन्द्रबुधेन्द्रविरचितया व्याख्यया समेतम्


प्रथमः स्तबकः ।

कल्याण वो विधत्ता करटमदधुनीलोलकल्लोलमाला-
खेलल्लोलम्बकोलाहलमुखरितदिक्चक्रवालान्तरालम् ।
प्रत्न वेतण्डरत्न सततपरिचलत्कर्णतालप्ररोह-
द्वाताङ्कूराजिहीर्षादरविवृतफणाऽशृङ्गभूषाभुजङ्गम्[१] ॥ १ ॥


लास्यम् ।

भावार्द्रोन्योन्यालोकननमदानङ्गसारसर्वस्वम् ।
तेज पर शिवाख्य चिरमवतान्मा पुराणदाम्पत्यम् ॥
काव्यप्रकाशिकादिमलक्षणशास्त्रार्थभावनोदार ।
कुरुते लास्य चम्पूभारतमधिकुरविरामकवि ।
निन्दतु नन्दतु वा सन्नसूयुरनसूयुरत्र कि तेन
यत्सन्मानसगमनायैवेद मम तु पाथेयम् ॥

अदूषयत्काव्यमिद नृसिह कश्चिन्निजाख्यानुगुणै श्ववादै ।
सिंहो नृषु श्वा हि सुनिर्मलाना स्पर्शाद्यतो दूषणमातनोति ॥

अपमूलमनन्वितमतिदुरहयुभिरत्र कल्पितान्पाठान् ।
अपि विदुषो मोहयितु व्याचख्यौ बत स पण्डितमन्य ॥

ते च स्फुटीकरिष्यन्ते तत्र तत्र मयाधुना ।
विदाकुर्वन्तु सुधियो विना मत्सरमुत्सुका ॥

 अथ तत्रभवान्महाकविरनन्तभट्ट ‘काव्य यशसेऽर्थकृते--' इत्याद्यालकारिकवचनप्रामाण्यात्काव्यस्यानेकश्रेय साधनताम्, ‘काव्यालापाश्च वर्जयेत्' इति निषेधस्यासत्काव्यविषयता च पश्यन् चम्पूभारताख्य काव्य चिकीर्षु ‘आशीर्नमस्क्रियावस्तुनिर्देशो वापि तन्मुखम्’ इत्युक्तदिशा प्रबन्धमुखलक्षण चिकीर्षिताविघ्नपरिसमाप्तिसाधनमिष्टदेवताप्रार्थनात्मक मङ्गलमादौ निबध्नाति--कल्याणमिति । करटयो कुम्भयो सबन्धिन्या मदधुन्या दानजलनद्या लोलाना कल्लोलाना पृथुत


तुहिनकिरणवशस्थूलमुक्ताफलाना
विपुलभुजविराजद्वीरलक्ष्मीविभूम्नाम् ।


रङ्गाणा मालासु पङ्क्त्तिषु खेलता क्त्तीडता लोलम्बानामलीना कोलाहलैर्झकार कलकलैर्मुखरित शब्दायमान दिशा गजाना चक्रवालस्य मण्डलस्यान्तरालो मध्यदेशो यस्य तथोक्तम् । ‘काकेभगण्डौ करटौ, ‘महत्सूल्लोकल्लोलौ', ‘लोलम्बो बम्भरध स’, ‘अभ्यन्तर त्वन्तराल चक्रवाल तु मण्डलम् इति सर्वत्र क्रमेणामर । सतत परिचलभ्धाम् । ताडथेते वीज्येते इति तालौ । डलयोरभेद । कर्णौ तालौ व्यजने इव ताभ्या प्ररोहतामुत्पत्तिमता वाताङ्कूराणा मन्दमारुतानाम् । आहर्तु भोक्त्तुमिच्छा आजिहीर्षा । आड्पूर्वाद्धरते सन्नन्तादुप्रत्यय ।‘अङ्कूरस्त्वङ्कुरस्तुल्यौ'इति द्विरूपकोश । तया दरमीषद्विवृतानि विकसितानि फणाना शृङ्गाणि अग्राणि यैस्तादृशा भूषाभुजङ्गा आभरणसर्पा यस्य तथोक्त्तम् । भूषाणा भुजङ्गा इति तादर्थस्य शेषत्वविवक्षया अश्वधासा दिवत्स्मास । प्रत्न पुरातनम् । ‘पुराणप्रतनप्रत्नपुरातनचिरतना’ इत्यसर । वेतण्डरत्न गजश्रेष्ठ । विध्नराज इति यावत् । ‘वेतण्ड करटी गज’ इति त्रिकाण्ड शेष । व युष्माक कल्याण शुभ विधत्ता करोत्वित्याशी । विपूर्वाद्दधातेराशीरर्थे लोट् । विघ्नराजस्याकण्ठ पुरुषत्वेऽपि ‘सर्वस्य गात्रस्य शिर प्रधानम्'इति, ‘प्राधा न्येन व्यपदेशा भवन्ति’ इति च न्यायाभ्या तत्त्वेन निर्देश । अत्र लोलेत्यादौ व्यञ्जनावृत्तेर्वत्त्यनुप्रासो नाम शब्दालकार । विभ्राजाश्रिताना मधुपव्यालाना मपि क्रमेण दिक्चक्रव्यापिकोलाहळतत्कर्णतालानिलकृताहारवर्णनेन तदाश्रिताना सता अखिलदिग्व्यापिविरयातिमत्वान्यापेक्षकाङ्क्षितार्थसिद्धिमत्त्वादिक कैमुतिक न्यायसिद्धमित्यर्थापत्त्यलकारप्रतीतेर्वस्तुनालकारध्वनि । अत्रादौ हस्वस्य ककारस्य कल्याणमिति त्रिगुरुकस्य मगणस्य प्रयोगाच्च वर्णगणशुद्धिरभ्यर्हिततमा । तदुक्त कविकण्ठपाशे--‘अकचटतपयशा अमृता विषाणि दीर्घाणि ’ इति, ‘मस्त्रिगुर्भूमि दैवत्यो दिव्यान्नरसदायक’ इति च । वस्तुतस्त्वत्र कल्याणमिति भद्रवाचक प्रयोगादविचार्यैव सा । तदुक्तम्--'देवतावाचका शब्दा ये च भद्रादिवाचका । ते सर्वे नैव निन्द्या स्युर्लिपितो गणतोऽपि वा ॥ ’इति । रत्रग्वृत्तमेतत्–‘म्रभ्नै र्याना त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम्' इति लक्षणात् । यत्तु ‘ग्रैन्थ- समाप्यर्थं विघ्नराजप्रार्थन कृतमित्यर्थ’ इति नृसिंह , तदेवास्य व्याख्यानकरण कौशल्यमपहसति । वाच्येऽर्थे लक्ष्यार्थतासूचकस्य ‘इत्यर्थ’ इति लेखनस्य व्याख्यातृसप्रदायविरुद्धत्वादिति ॥ १ ॥

 इष्टदेवताप्रार्थनानन्तरं कथा प्रारभमाण ‘नगरार्णवशैलर्तुचन्द्रार्कोदयवर्णनै; इत्यादिना परिगणिताना महाकाव्यताप्रसाधकानामष्टादशानामभ्यर्हितत्वेनादिम नखरवर्णन तावत्प्रस्तौति --तुहिनेति । तुहिनकिरणस्य चन्द्रस्य वश एव वश इति क्ष्लिष्टरूपकम् । तस्य स्थूलमुक्त्ताफ़अनामिति पुरम्परितरूपकम् । ‘वशो वेणौ कुळे

हसितसुरपुरश्रीरस्ति सा हस्तिनाख्या
रिपुजनदुरवापा राजधानी कुरूणाम् ॥२॥

यस्यामुदग्रनृपमन्दिरचन्द्रशाला-
वातायने गतिवशाद्वपुषि प्रसक्ताम् ।
दीपाग्रधूममषिका शिशिराशुबिम्बे
मोहात्कुरङ्ग इति मुग्धजना वदन्ति॥३॥

ग्रीष्मेषु शीतकरकान्तकृतोदरासु
यद्रोपुराग्रिमदरीषु पथागतस्य ।
विश्राम्यतों हरिहयस्य विलम्बनेषु
चिह्न तदीयदिनसततिदीर्घभाव ॥४॥


वर्गे इति विश्व । वेणुषु मौक्तिकोत्पत्तिर्लोकप्रसिध्दा । विपुलयोर्दीर्घयोर्भुजयोवि राजन्वीरलक्ष्म्या विभूमातिशयो येषा तेषा कुरूणा नाम राग्ना सबन्धिनी हसिता तिरस्कृता सुरपुरुश्री सुरपुरस्य स्वर्गस्य श्री शोभा यया सा । रिपुजनेन प्राप्तु मशक्या दुरवापाहस्तिनेत्याख्या यस्या सा राजवानी प्रवाननगरी । 'प्रधाननगरी राज्ञा राजधानीति कथ्यते'इति शब्दार्णवे । अस्ति । मालिनीवृत्तम्‌--"ननमयययुतेय मालिनी भोगिलोकै'इति लक्षणात् ॥२॥

 तामेव नवभिर्वसन्ततिलकाभिर्गद्येनैकेन च विशिनष्टि‌--यस्यामिति । यस्या हस्तिननगर्यामुदग्राया उन्नताया न्रुपमन्दिराणा राजगृहाणा चन्द्रशालाया शिरोगृहस्य वातायने गवाक्षे । 'चन्द्रशाला शिरोगृहम्',वातायन गवाक्षस्यात्' हत्युभयत्राप्यमर । गतेर्गमनस्य वशात् अधीनत्वाद्धेतो । 'वश प्रभुस्पृहायत्तेष्वायत्तत्वप्रभुत्वयो' इति विश्व । वपुषि शशीरे मध्यात्मके प्रकर्षेण सक्ता लग्नाम् । दीपाग्राणा सबन्धिनो धूमस्य मषिका मषिम् । द्दष्टेवति शेष । मुग्धा मूढा जना मोहादग्नानाच्छिशिराशोश्र्चन्द्रस्य बिम्बे कुरङ्ग हरिणोऽस्तीति वदन्ति । अत्र चन्द्रस्य ताद्दशमष्वसबन्धेऽपि तत्सबन्धोक्तेरतिशयोक्ति । तदनुप्राणितश्र्च नाय कुरङ्ग,किंतु ताद्दशमष्येवेति कुरङ्गे कुरङ्गत्व निषिध्य मषीत्वारो परूपोऽपह्नवालकार । तयोरङ्गाङ्गिभावेन सकर---'शुद्धापह्नुतिरन्यस्यारोपार्थो र्धर्मनिह्नव' इति लक्षणात् । वसन्ततिलकावृत्तम्--'उक्ता वसन्ततिलका तभजा जगौ ग' इति लक्षणात्॥३॥

 ग्रीष्मेष्विति । शीतकरकान्तौश्र्चन्द्रकान्तरत्नै कृतो निर्मित उदरो मध्यदेशो यासा तासु । यस्या हस्तिनपुर्या गोपुरस्य पुरद्वारस्याग्रिमदरीषूर्ध्वद्वारेषु य पन्थाश्र्चन्द्रनिर्गमनमार्गस्तेन ग्रीष्मेषु निदाधवासरेष्वागतस्य अतएव विश्राम्यतो विश्राम कुवतो हरिहयस्य सुर्याश्र्वस्य । तस्यैकस्यैव सप्तत्वेन व्यवहार 'एको अश्र्वो वहति सप्तनामा' इति श्रुतिसिद्ध । विलम्बनेषु कालक्षेपेषु तदीयाया ग्रीष्म-

यत्राङ्गनावनाभवतीशहव्ष्य
च्चन्द्राश्मसौधगलित सलिलप्रवाह ।
वृन्दारकेन्द्रनगरीबृहदुत्सवाय
मन्दाकिनीति लभते महतीमभिख्याम् ॥ ५ ॥

दीप्रैरगारमणिभिर्दिवसायमाना
निश्चिन्वते मनसि यत्र निशा युवान ।
कार्तान्तिकैरखिलकालनिवेदनाय
घण्टामणेरमिहितस्य घनारवेण ॥ ६ ॥


सबन्धिन्या दिनसततेर्दिवससमूहस्य दीर्घभावो दीर्घत्व चिह्न लिङ्ग भवति । अत्र निदाघदिनदैध्र्यस्य नैसर्गिक्स्य सूर्याश्वफालक्षेपहेतुत्वोक्त्तेर्हेतूत्प्रेक्षा व्यञ्जकाप्रयो- गाद्रम्या । तथा तादृशदिनदैर्ध्येण रव्यश्वविश्रमानुमानादनुमानालकारश्च । तयो रेक्वाचकानुप्रवेशसकर ॥ ४ ॥

 यत्रेति । यत्र नगर्यामङ्गनाना वदनेनैव यामवतीशेन चन्द्रेण हृष्यभ्ध रत्रवभ्धक्ष्चन्द्राश्मना चन्द्रकान्ताना सौधेभ्यो राजगृहेभ्यो गलित सलिलप्रवाह । वृन्दारकेन्द्रनगर्या स्वर्गस्य । तत्रत्यजनस्येति यावत् । बृहत उत्सवाय सलिल क्त्रीडादिरूपायेति तादर्थ्ये चतुर्थी । मन्दाकिनीत्याकाशवगङ्गेति महती क्ष्लाघ्याम- भिख्या नाम लभते । ‘अभिख्या नामशोभयो ' इति विश्व । अत्र मन्दा- किन्या मन्दाकिनीत्व निषिध्य तादृशसलिलप्रवाहारोपत्वादपह्नव । स च वदन- यामवतीशेति रूपकानुप्राणित इति तयोरङ्गाङ्गिभावेन सकर ॥ ५ ॥

 दीप्रैरिति । यत्र नगर्या युवानस्तरुण्यस्तरुणाश्च । । पुमान्त्रिया' इत्येक- शेष । बालाना वृद्धाना च रात्रौ प्रयोजनाभावाधुवान इत्युक्तम् । दीप्रैर्विराज मानैर[२]गारमणिभिर्गृहखचितरत्नप्रभाभिर्दिवस इवाचरन्ती दिवसायभानाम् । निस्त मस्कामिति यावत् । निशा रात्रिम् । कृतान्त ज्योतिषसिद्धान्तप्रतिपादकग्रन्थ विदुरिति कार्तान्तिकैर्ज्योति शास्त्रविद्धि । ‘तद्वेद’ इत्यधिकारे वेदित्रर्थे उक्था दित्वाद्वक् । ‘स्युर्मौहूर्तिकमौहूर्तज्ञानिकार्तान्तिका अपि’ इत्यमर । अखिलस्या होरात्ररूपस्य कालस्य नेिवेदनाय विज्ञापनायाभिहितम्य प्रमाणीकृतस्य घण्टा- मणे कास्ययश्रस्य धनेन दीर्घेण आरवेण ध्वनिना निश्चिन्वते ।इदानी रात्रिरिति विशिष्य जानन्तीत्यर्थे । रात्रावेव घण्टानिनादादीना महत्त्वेन श्रूयमाणत्वादिति भाव । अत्र गृहमणीना दिवसकरणासबन्धेऽपि तत्सबन्धोक्त्तेरतिशयोक्त्ति । तदनुप्राष्पितक्ष्चाय घण्टारवेण रात्र्यनुमानादनुमानाळकार इति तयोरङ्गाङ्गिभा- वेन संकर । यत्तु ‘अपि इतस्य’ इति पाठ मत्वा ‘ताडितस्य’ इति व्याख्याय यामचतुष्टयधोतनाय घण्टामणौ ताडिते सति इदानीं रात्रिरिति निश्चिन्वते इति


वक्र विलासमणिदर्पणधार्यमाण
वामा हिमाशुरयमित्यवधार्य यस्याम् ।
आदर्शबिम्बधृतिरक्ष्रुतदृष्टपूर्वा
तस्येति तादृशधिय विनिव[३]र्तयन्ति ॥ ७ ॥
आलापकालसमपल्लविताङ्कवीणा-
सौरभ्यपातिमधुपारवसकुलस्य ।
तन्त्रीस्वनस्य समितौ तरुणीस्वरस्य
जानाति यत्र चतुरोऽपि न तारतम्यम् ॥ ८ ॥


नृसिंह , तन्न । तथापि गतयामचतुष्यद्योतकघण्टामणिताडनाना रात्रिसबन्धिता सदेहे बाधकाभावेन पुनर्दिवसभ्रमस्य दुर्वारत्वात् । एव सिद्धान्तिना घण्टाधिकारस्य प्रसिद्धिविरुद्धत्वाद्रीडाकरत्वाच्च प्रसिद्धिविरुद्धत्वाक्ष्लीलाख्यदोषद्वयापत्तिश्चेति ॥ ६ ॥

 वक्रमिति । यस्या वामा सुन्दर्यो विलास प्रकाशस्तधुक्त्तेन मणिदर्पणेने वार्यमाणम् । प्रतिबिम्बतयेति भाव । वक्त्र निजमुखम् । दृष्टेवति शेष । अय पुरोवर्ती विशेष्यापेक्षी पुस्त्वनिर्देश । हिमाक्रुशुश्चन्द्र इत्युक्तप्रकारेण अवधार्य । भ्रमि त्वेत्यर्थ । तस्य हिसाशोरादर्रौ दर्पणे बिम्बस्य धृतिर्धारण आदर्शम् अमावास्या पर्यन्त बिम्बधृतिरिति च अश्रुतपूर्वादृष्टपूर्वा चेति । आलोच्येति शेष । उभयत्र गम्यमानार्थत्वादप्रयोग । तत्प्रयोगे पुन पौनरुक्त्तयमिल्यालकारिका । तादृशी धिय दर्पणगतोऽय चन्द्र इत्याकारकज्ञान विनिवर्तयन्ति त्यजन्ति । नाय चन्द्र कितु निजसुखप्रतिबिम्ब एवेति निश्चिन्वत इति यावत् । विशेषदर्शनजन्य भ्रमोत्तरप्रत्यक्षालकार ॥ ७ ॥

 आलापेति । यत्र नगर्यामालापस्य भाषणस्य रागविस्तारीकरणस्वरसदोहस्य सगीतशास्त्रप्रसिद्धस्य वा य कालस्तेन समम्। तत्काल एवेत्यर्थ । पल्लविताया । कुसुमिताया इति यावत् ।अन्यथा सौरभ्यानुपपत्तेरिति भाव । अङ्के उत्सङ्गे वीणाया सौरभ्येन पातिना प्रविशता मधुपाना भृङ्गाणामारवेण सकुळस्य मिश्र स्येत्युभयत्र विशेषणम् । तन्त्रीस्वनस्य तरुणीना स्वरस्य गानात्मकस्य च द्वयो समितौ [ साम्ये ] सत्याम् । ‘समिति सगरे साम्ये सभायामपि’ इति विश्व । तारतम्य न्यूनाधिक्य चतुरो निपुणोऽपि न जानाति । अत्रालिरवसवलनमाधुर्य- द्वयस्य तन्त्रीरुणीस्वनतारतम्याज्ञानहेतुत्वादनेकपदार्थहेतुक काव्यलिकम् -- ‘हेतोर्काक्यपदार्थत्वे काव्यलिङ्गमुदाहृतम् इति लक्षणात् ॥ ८ ॥


शालीनतामविगणय्य सखीसमाजे
पश्चात्कृतस्य कमितु प्रणयप्रकोपात् ।
मुग्धा समीक्ष्य मुकुरायितरत्नभित्तौ
छाया क्षणानुतपन शमयन्ति यस्याम् ॥ ९ ॥
चित्र दिदर्शयिषुणा जनितस्य यस्या
मध्य विनैव विधिना महिलाजनस्य ।
अङ्ग नितम्बजघनादि यतो यतोऽध-
स्तुङ्ग कुचावुपरि याति ततोऽनुकूलम् ॥ १० ॥
पङ्केरुहाणि प[४]रिखामवतीर्य यस्या
प्राकारभित्तिमभित परिवेष्टयन्ति ।


 शालीनतामिति । यस्या मुग्धा नवोढा प्रणयेन प्रेम्णा य प्रकोपस्तस्मा त्सखीना समाजे सभायाम् । तत्समक्षमिति कोपस्य दु सहत्वोक्त्ति । शालीनताम धाष्टर्यम् । लज्जाघुचितमार्दवमिति यावत् । स्यादधृष्टे तु शालीन ’ इत्यमर । अविगणय्य अनादृत्य पश्चात्कृतस्य पराङ्भुखीकृतस्य, न तु यतस्य । इत्यनेन त्यक्त्वागमनासहतया प्रेमातिशयो ध्वन्यते । कमितु प्रियस्य च्छाया प्रतिबिम्ब मुकुरो दर्पण तदिवाचरन्या मुकुरायितायाम्। तद्विम्वग्राहिण्यामिति यावत् । रत्नमय्या भित्तौ कुडथे समीक्ष्य क्षणमनुतपन पश्चात्ताप शमयन्ति वारयन्ति । तत्राभिमुख्येन दृश्यमानत्वादिति भाव । अत्र प्रतिबिम्बदर्शनस्य पश्चात्तापवा रणहेतुत्वात्पदार्थहेतुक काव्यलिङ्गम् । एव पक्ष्चात्तापस्य विषादाख्यसचारिभावस्य विबृतिवर्णनाद्भावशान्तिरलकार । तयोश्चङ्गाङ्गिभावेन सकर । तेन च नवो ढाना पत्यु पराङ्भुखत्वमात्रासहत्वप्रतीतेरळकारेण वस्तुध्वनि ॥ ९ ॥

 चिभमिति । चित्रसाश्चर्यं दर्शयितुमिच्छुना दिदर्शयिषुण । प्यन्तादृशे सन्नन्तादुप्रत्यय । अत एव विधिना विधात्रा मध्य विनैव जनितस्य यस्यमा महिलाजनस्य स्त्रीलोप्रस्य नितम्ब कटिपश्चाद्भाग , जघन तत्पुरों भाग , तावादी यस्य तथोक्त्तम् पश्चान्नितम्ब स्त्रीकट्या ल्कीबे तु जघन पुर' इत्यमर । अङ्गमधो यतो यतो यत्र यत्र याति गच्छति, ततस्तत्र तत्रो- पर्यूर्ध्व कुचावादी यस्य तथोक्त तुङ्गमङ्गमूर्घ्वकायोऽनुकूलमध कायानुगुण याति । बिभिवृदिति भाव । अत्र विधेराश्चर्यदिदर्शयिषया मध्य विना कृतस्त्रीजनन हेतुत्वात्पदोथहेतुक काव्यलिङ्गम् । तदनुप्राणिता चेय स्त्रीणा मध्य विना जनना- सवलेऽपि तत्सबन्धोक्त्तिरूपातिशयोक्त्ति । तयोरङ्गाङ्गिभावेन सकर । तेन च तासां लोकोत्तरसौन्दर्यप्रतीतेरळकारेण वस्तुघ्वनि ॥ १० ॥

 पङ्केरुहाणीति । अस्या' पङ्केरुहाणि कमळानि । परिखादैौ तानि कर्तुणि ।


अन्त [५] स्थिति विदधतामबलाजनाना-
मास्यानि जेतुमखिलानि किलात्मभासा ॥ ११ ॥

या खलु पुरा कुरुधराधिपापराधसमेधितक्रोधेन हलधरेण निजायुधेन हठात्क[६] र्षणशिक्षया समुत्क्षिप्तदक्षिणक्षिति[७] भागा तदीयभुवनभूषणायमाना भोग[८]वतीमात्मना विजेतु कि[९] ल भागीरथीपाथयेनावतीर्य कृतप्रस्थानेवाद्यापि प[१०]रिदृश्यते ।

उपेत्य ता पाण्डुरुदारविक्रम प्रजामन पल्ल्वयन्प्रशासनात् ।
यश प्रकाशैर्यमुनासखीसखैर्निनाय लोक निजनामवाच्यताम् ॥१२॥


आत्मभासा निजसौन्दर्येण ( करणेन ) अन्त स्थिति प्राकारान्तर्वास विदधता कुर्वता तत्र वर्तमानानामबळजनाना स्त्रीजनानामखिलान्यास्यानि मुखानि जेतुम् । किलेति सभावनायाम् । परिखा वलयीभूतजळदुर्गमवतीर्य तीर्त्वा प्राका- रभित्तिमभित सालस्य सर्वप्रदेशेषु । ‘अभित परित -' इत्यादिना द्वितीया । परिवेष्टयन्ति व्याप्नुवन्ति । अत्र पङ्कजप्राकारपरिवेष्टनस्यान्त स्थिताङ्गनावदनज- यफलकत्वोत्प्रेक्षणात्फलोत्प्रेक्षा ॥ ११ ॥

 येति । या पुरी पुरा पूर्व कुरुधराधिपस्य दुर्योधनस्यापराधेन निजपुत्रीह रणसाम्बबन्धनात्मकेन समेधित प्रवृद्ध क्त्रोधो यस्य तेन हलधरेण बळरामेण (कर्त्रा ) निजायुधेन हलेन (करणेन) हठाद्वलात्कर्षणात्मिकया शिक्षया समु- त्क्षिप्त उद्धृतो दक्षिण क्षितेर्भूमेर्भागो यस्यास्तथोक्ता सती। अतएव तस्य बल- रामस्येद तदीय भुवन पाताललोक । तस्य शेषावतारत्वादिति भाव । तस्य भूषणमिवाचरन्तीं भूषणायमाना भोगवतीं नाम पुरीमात्मना निजस्वरूपणे विजेतु किल जेतुमिवेत्युत्प्रेक्षा । वार्तासभाव्ययो किल' इत्यमर । भागीरथ्या गङ्गाया उत्तरभागस्थिताया पाथ पथेन जलमार्गेणावतीर्यं कृतप्रस्थाना स्वीकृत- प्रयाणेवेत्युत्प्रेक्षा । अद्यापि परिदृश्यते खलु । लोकैरिति शेष । अत्र बलराम- परिभूतायास्त जेतुमशकायास्तत्पक्षजयोद्योगकथनात्प्रत्यनीकालकार । तस्य चाङ्गाङ्गिभावेन सकीर्णाभ्यामुत्प्रेक्षाभ्या ससृष्टि । तस्याश्च वृत्यनुप्रासेनैकवाच- कानुप्रवेशसकर ॥

 उपेत्येति । ता उक्तविशेषणविशिष्टा हस्तिनापुरीमुदारो महान्विभ्रमो यस्य तथोक्तः पाण्डुर्नाम राजा कुरवश्य उपेत्य प्राप्य प्रजाना मन प्रशासनात्प्रकृति- परिपालनाद्धेतो पल्लयन् । रञ्जयन्नित्यर्थ । यमुनासख्या गङ्गाया सखाय सदृशास्तै । ‘राजाह सखिभ्यष्टच्' । तद्वद्धवलैरिति यावत् । यशस कीर्ते


 य किल [११] पराशरसुतो निखि[१२] लावनीदेशावनाय निजजन[१३]नीनिदेशावनम्रमना मनागितराश्चर्यतपश्चर्यालकर्मीण समानोदर्यस्य विचित्रवीर्यस्य कुटुम्बिन्यामम्बालिकाया सपादयामास ।

चित्र चरित्र जगतीतलेऽस्य न क्ष्लाघयामास नरेषु को वा ।
स यत्स्त्रय पाण्डुरपि स्वकेन गुणेन रक्तानकरोत्समस्तान् ॥ । १३ ॥
अन्तर्भवत्कृष्णमृगाजिनाङ्कै सुनिर्मलै षोडशदानकीर्ते ।
खण्रडैमुष्येन्दुरकारि धात्रा मृषायमब्धेरजनीति वार्ता ॥ १४ ॥


प्रकाशैलक निजस्य नाम्न पाण्डुरिति शब्दस्य वाच्यतामर्थत्वम् । धावल्यमिति यावत् । निनाय प्रापितवान् । दुहादित्वान्नयातिर्द्धिकर्मक । क्ष्लेषसकीर्णस्तद्रुणा लकार –‘तद्रुण स्वगुणत्यागादन्योत्कृष्टगुणाहृति ' इति लक्षणात् । वशस्थ वृत्तम्—‘जतैौ तु वशस्थमुदीरित जरौ’ इति लक्षणात् ॥ १२ ॥

 यमिति । इतरेषामाश्चर्यकारिण्या तपश्चर्यायामनुष्ठानेऽलकर्मीण समर्थ । ‘कर्मक्षमोऽलकर्मीण’ इत्यमर । पराशरसुतो व्यासो निखिलानामशेषाणामवन्या भुवि देशाना विषयाणामवनाय पालनार्थ मनाक्खल्प निजजनन्या सत्यवत्या निदेशेन प्रेरणयावनम्र नियोजितकरणाभिमुख मनो यस्य तथोक्त्त सन् । अत्र जननीनिदेशे मनाक्त्वोत्तयात्यन्ताकरणीयेऽपि प्रवृत्तेर्महत्यस्य सातरि भक्त्तिरिति सूच्यते । समानोदर्यस्य सहजस्य।‘समानोदर्यसोदर्यसगर्भ्यसहजा समा’ इत्य मर । विचित्रवीर्यस्य शान्तनवस्य राज्ञ कुटुम्बिन्या भार्याया अम्बालिकाया य पाण्डु सपादयामास जनयामास । किलेति वार्तायाम् । स पाण्डुरिति पूर्वेण सबन्ध ॥

 चित्रमिति । चित्रमाक्ष्चर्यकरमस्य पाण्डोश्चरित्र जगतीतले लोके नरेषु इति को वा नर न क्ष्लाघयामास न स्तुतवान् । सर्वोऽपि क्ष्लाघयामासैवेत्यर्थ । यद्यनूस्मात्स राजा स्वय पाण्डुर्घवलोऽपि तन्नामकोऽपीति च स्वकेन स्वीयेन गुणेन धावल्येन प्रकृतिरञ्जनात्मकेन च समस्ताञ्जनान्क्त्तनरुणाननुरक्ताधाकरोत् । अत्र क्ष्लोषानुप्राणितो विरोधाभासस्तदनुप्राणितस्तदुण इति क्ष्लेषविरोधाभाससकरत दुणयोरङ्गाङ्गिभावेन सकर । उपजातिवृत्तमिन्द्रवज्रोपेन्द्रवज्रामिश्रणात् । तल्लक्ष ण तु-—‘स्यादिन्द्रवज्रा यदि तौ जगौ ग ,‘उपेन्द्रवज्ञा जतजास्ततो ष , ’ ‘अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ता ’ इति ॥ १३ ॥

 अन्तरिति । अन्तर्मध्ये भवन्वर्तमान कृष्णमृगस्य सबन्धि अजिन पाप तद्वधजन्य तदेवाङ्क कलङ्को येषा हुँ । ‘अजिन पापमुच्यते’ इति त्रिकाण्ड शैष । सुनिर्मलैरनुष्य पाण्डो सकन्धिन्या षोडशदानेभ्यो या कीर्तिस्तस्या खण्डै प्रत्येकमेकैकश आहत्य षोडशभि किरणैर्धात्रा ( कर्मी ) इन्दुक्ष्चन्द्रोऽकारि निर्मित । करोते कर्मणि लुड्। अय चन्द्रोऽब्धे समुद्रादजनि जात इति वार्ता


जग्राह निग्राहपर परश्रिया क [१४]रै कराग्रेण करेणुचङ्गम ।
कुन्तीं [१५] शकुन्तीशरथो यथा रमा समुद्रकाञ्चीं च स मद्रकन्यकाम् ॥ १५ ॥

 अथ [१६]कदाचिन्मृगयोपळालितहृदयो नरेश्वरोऽयमश्वे शशिश्वेतरोचि [१७] षि विश्वातिशायिनि [१८]विजितमातरिश्वनि कृताधिरोह पार्श्वधृतविक्ष्वकद्रुभिरनेकवगु[१९]राधुपकरणैध्रैनुद्रुतो मृदुभद्रविनया-


प्रवादो मृषा मिथ्यैव । जने कर्तरि लुड्। अत्र इन्दुन समुद्राज्जात कितु पाण्डो कीर्तिखण्डेभ्य इति चन्द्रस्य समुद्रजन्यत्व निषिध्य कीर्ते खण्डजन्यत्वारोपाद पह्नवभेद । यत्त्वत्र तिलास्तीर्णकृष्णाजिनेन सह दानकरणादन्तर्भवदित्यादिविशे षण चन्द्रे कलङ्कार्थम्’ इति नृसिंह , तत्तुच्छम् । कृष्णाजिनदानकीर्ते कृष्णत्वे पीतहरितगारुत्मतादिदानकीतिखण्डाना तत्तद्वर्णतापत्त्या महती प्रकृतहानि स्या दिति । पुरा किल पाण्डुर्मृगया गच्छन्वने क्रीडतोर्मृगरूपयोर्मुनिदम्पत्यो पुमास निन्नमनर्थमविन्दत-इति भारतकथात्रानुसधेया ॥ १४ ॥

 जग्राहेति । करै राजग्राह्यधनै परश्रिया शत्रुसपदा निग्राहो नितरा स्वी कारस्तस्मिन्पर आसक्त । करेणोर्गजस्येव चङ्कमो गमन यस्य तथोक्त । मत्तगजमन्दामीत्यर्थ । स पाण्डु कुन्ती मद्रकन्यका माद्री च उभे शकुन्ताना पक्षि णामीशो गरुडो रथो यस्य तथोक्तो विष्णु पुमा लक्ष्मी समुद्रकाञ्ची भुव च यथा ते उभे इव कराग्रेण जग्राह । उपयेम इत्यर्थे । गृह्यते कर्तरि लिट्। उपमाळ कार । तस्य च धृत्त्यनुप्रासेन सहैकवाचकानुप्रवेशसकर ॥ १५ ॥

 अथेति । अथ कुन्तीमाद्रीपारिणयानन्तर कदाचिज्ज्ञातुचित् अय नराणामी क्ष्वर पाण्डुर्मृगययोपळलितमनुरञ्जित हृदय यस्य तथोक्त सन् । ’मृगव्य स्यादाखेटो भृगया स्त्रियाम्' इत्यमर । विश्व समस्तवस्तुजातमतिशेत इति विश्वातिशायिनि। ताच्छील्ये णिनि । बिजितो मातरिश्वा वायुर्येन तस्मिन् । वेगे नेति भाव । शशिनश्चन्द्रस्येव श्वेत रोचि कान्तिर्यस्य तस्मिन् अश्वे कृतोऽधि रोह आरोहण येन तथोक्त सन् पार्श्वयो सव्यदक्षिणयोर्धृता गृहीता विश्व कद्रव शुनका यैस्तै । अनेकानि वागुरा मृगबन्धनजाल आदिर्येषा तान्युपकर णानि मृगयासाधनानि येषा तैर्योधैराटविकैरनुद्रुत परिधृतश्च सन् मृदुर्भद्रो मङ्गलकरक्ष्च विनयो ययोस्ताभ्या यदोर्भद्रस्य च तनयाभ्या कुन्तीमाद्रीभ्यामनुविद्वोऽन्वित सन् सिद्धाना योगिना गणेन गणनीयो महिमा प्रभावोऽस्यास्तीति तद्वतो हिमवतो हिमगिरेर्महती विस्तीर्णामटवीतटस्य वीथिका जगाहे प्रविष्ट बान् । अत्र गधेषु प्रायश एव वृत्त्यनुप्रासादय । ‘इति नेति शङ्किता'(१) इति । ’अनैकवागुरिकोपकरणानुरोवै’ इति च पाठ ॥


चम्पूभारते

भ्या यदुमद्रतनयाभ्यामनुविद्ध सिद्धगणगणनीयमहिमवतो हिमवतो [२०] जगाहे महतीमटवीतटवीथिकाम् ।

 तत्र स [२१]तावतिक्षुद्धकवनमल्लिकामतल्लिकोद्वेलितधम्मिल्लोऽवलग्रदृढलग्नकच्छपुटविच्छुरितच्छुरिको निषङ्गानुषङ्ग[२२]मासलिततमासललित परनिरासनपर शरासनवर करे कुर्वाणो गी[२३] र्वाणचक्रवर्तिविक्रम क्रमेण विविधमृगवध विधातुमुपचक्रमे ।[२४] भूभुजोऽस्य सविधे विचरन्त्योर्भोजम[२५]द्रसुतयोर्द्दशि शोभाम् । जेतुकाममिव सर्वसमष्टधा प्रादुरास पुरतो मृगयूथम् ॥ १६ ॥

क्षोणीपतौ यदकल प्रति कृष्णसार
तूणीमुखे पतितपाणिनखाहुरेऽस्मिन् ।


 तत्रेति । तत्र हिमशैलारण्ये। तावदिति वाक्यालकारे। अतिक्षुल्लकाभि स्वल्पाभि । मृडुलाभिरिति यावत्। वनमल्लिकामतल्लिकाभि प्रशस्तारण्यमल्लिकालताभि । ‘मतल्लिका सचर्चिका’ इति प्रशस्तवाचकेष्वमर । उद्वेल्लित ऊर्घ्व बद्धो धम्मिल्ल कचभारो यस्य स ’वम्मिल्ल सयता कचा’ इत्यमर । अवलग्ने मध्यदेशे दृढ लग्ने बद्धे कच्छपुटे मध्यबन्चनपद्यन्तरे विच्छुरिता प्रविष्टा छुरिका स्वल्पखङ्गवि शेषो यस्य तथोक्त । ’कच्छो जलप्रायदेशे मध्यबन्धनपट्टके’ इति विश्व । तिष ङ्गयोस्तूणीरयोरनुषङ्गे सयोगेन । धारणेनेति यावत् । मासलिततमाभ्या पूरिता भ्यामसाभ्या भुजाग्राभ्या ललितो रमणीयो गीर्वाणाना देवाना चक्रवर्तिना इन्द्रेण समो विक्रमो यस्य तथोक्त्त स पाण्डु परेषा शत्रुणा निरासने पर प्रवण शरा सनवर श्रेष्ठ वनु करे कुर्वाणो दवान सन् क्रमेण विविधाना मृगाणा वध हिंसा विधातु कर्तुमुपचक्रम आरब्धवान् ॥

 भूभुज इति । मृगाणा यूथ कुरङ्गकुलम् । अस्य भूभुज पाण्डो सविधे स भीपे विचरन्योर्भोजसद्रसुतयो कुन्तीमाश्चोद्दशि चक्षुषि या शोभा वैपुल्यनैल्य चाञ्चल्यकृतसौन्दर्य ता सर्वेषा समष्टया मेलनेन । सर्वेऽपि सभूयेत्यर्थ । जेतु कामो थस्य तथोक्तमिवेत्युत्प्रेक्षा । ‘तु कामसनसोरपि’ इति तुमुनो मकारलोप । प्रत्येक तादृशकामस्य गगनकुसुमप्रायत्वात् । ‘बहूनामप्यसाराणा सयोग कार्यसाधक इति न्यायाच्चेति भाव । पुरतोऽग्रे प्रादुरास आविर्बभूव । अत्र सर्वसमष्टथा जेतु काममिवेत्युत्प्रेक्षया कुन्तीमाद्रीनयनसौन्दर्ये लोकोत्तरमिति प्रतीतेरलकारेण वस्तुच्चनि ॥ १६ ॥

 क्षोणीपताविति । क्षोणीपतौ भूनायकेऽस्मिन्पाण्डौ मदकल मण्ड कृष्णसारं प्रति । कृष्णमृगमुद्दिश्येत्यर्थ । यत्तु ‘मदेन कल अव्यक्तमधुरमस्या


एणीकुलानि तरलैर्यमुनाजलाना
वेणीमिवाक्षिवलनैर्विपिने वितेनु ॥ १७ ॥

कुरङ्गयूना कुरुते भीति गुरो कुलस्यामृतदीधितेर्न् ।
सजातिरेषा तनुते कलङ्कमितीव रोषादिषुभि स पाण्डु ॥१८ ॥

प्रजव हय गमयते ततस्तत
 पतिता नृपाय शललीश[२६]लाकिका ।
गहने वनेऽपि पिशुनत्वमाचर-
 न्प्रहणे वराहकुलवर्तनीभुवाम् ॥ १९ ॥
वेशन्तपङ्कविह्दतेर्विनिवृत्य सध
 प्रत्युधता ध्वनिषु मत्सरिणा हयस्य ।


नृसिह , 'मदोत्कटो मदकल ' इति कोशानभिज्ञताविलसितम् ।तूण्या मुखे अग्रे पतिता लग्रा पाणेर्हस्तस्य नखा अङ्करा इव यस्य तस्मिंस्तथोक्त्ते सति । बाणानादा येति शेष । एणीकुलानि मृगीत्रुन्दानि तरलैक्ष्चकितचकितैरक्षिवलनै कटाक्षैर्विपिनेऽरण्ये यमुनाजलाना वेणी प्रवाह् वितेनु विस्वारयामासुरिवेत्युत्प्रेक्षा । चकित चकित प्रतिदिशमवलोकयत्रित्यर्थ । अतिनैल्यात्कटाक्षाणा यामुनजलपूरत्वोत्प्रेक्षण्म् ॥ १७॥

 कुरङ्गेति। एषा कुरङ्गयूना समाना अभित्रा जाति कुरङ्गत्व यस्य स सजाति । एतज्जतीय इति यावत् । 'समानस्य' इति सूत्रे समानस्येति योगविभागात्समानशष्द्स्य सभाव । कक्ष्चिन्मृगो नोऽस्माक सबन्धिन कुलस्य गुरोरमृतदीधितेक्ष्चन्द्रस्य कलङ्क तनुते करोति इत्युचप्रकाराद्रोपात् । कोपादिवरवेत्युत्प्रेक्षा । स पाण्हुरिषुभिर्वाणै कुरङ्गयूना तरूणमृग्गाणा भीति व वकृता कुरू स्म चक्रे। 'लट् स्मे इति भूतार्थे लट्॥१८॥

 प्रजवमिति। प्रकृष्टो जवो वेगो यस्य तम्। गमनक्रियाविशेषण वा । हय अक्ष्व गमयते यापयते नृपाय पाण्डवे ततस्वत । तत्रतत्रेति सार्वविभक्त्तिकस्तसि । पतिता शलल्च शलाकिका इव शललीशलाकिका शल्यमृगरोमाणि। 'क्ष्वावित्तु शल्यस्तल्लोम्नि शलली शलल शलम् ' इत्यमर। गहने दुरवगाहेऽपि वने वराहाणा कुलस्य यूथस्य या वर्तनीभुवो मार्गदेशास्वासा ग्रहणे विज्ञाने विषये पिशुनत्व सूचकत्वमाचारन् चक्र । आड्पूर्वाच्चरते कर्तरिलड् । अत्रेभा वराहकुल वर्तन्य शललीमत्त्वादिती शल्लीभिर्वराहमार्गानुमानादनुमानालकार । नृपायोत्यत्र 'क्रियाप्रहण कर्तण्यम्' इति सप्रदानत्वम्। मञ्जुभाषिणीवृत्तम्‌ -‌-'सजसा जगौ मञ्जुभाषिणी' इति लक्षणात्॥१९॥

 शन्तेती। भूर्दारा यस्य स एष पाण्हुईयस्य ध्वनिषु हेषारवेषु मत्सरिणा


भूदार एष वनपात्रतामताना-
 भ्दूदारशब्दमसहिष्णुरिवान्तमेषाम् ॥ २० ॥
तूर्ण प्रघाव्य तुरग स्वयमन्यतोऽसौ
 पाण्डु कुल परिववार लुलाययूनाम् ।
अग्रे विशालकरधूननदुर्विधत्वा-
 त्सत्यापित[२७] द्विरदभावविपर्ययाणाम् ॥२१॥
आकर्ण्य क्षितिपहयारवानसह्या-
 नामूल कुपितधियस्तिरो विषाणम।
व्याधूयान्तिकतरुषु क्षणान्निचख्नु-
 र्व्याऋष्टु पुनर[२८].
थ तच्चिरात्र शेकु ॥२२॥
कुरुतेति तत सहैव वास कुलकूटस्थकृतान्तवाहनेन ।


द्वेषिणम् । अतएव सघो हेषारवक्षण एव वेशन्ताना पल्वलाना पङ्के विहते क्त्रीडात विनिनृत्य । त्यक्त्वेत्यर्थ । 'जुगुप्साविराम-' इत्यादिना अपादानत्वम् । प्रत्युद्यता अभिमुखमागच्छता वने पोत्रवता वराहणाभुव दारयतीति भूदार शाब्द सज़ामसहिष्णुरसहमान इवेत्युत्युत्प्रेक्षा । 'अलकृञ्-'इत्यादिना इष्णुच् । एषा वनवराहाणामन्त नाशमतानीत्कृतवान् । तनोते कर्तरि लुड् । मानिन स्वसाम्य नाममात्रेणापि न सहन्त इति भाव । अत्रारसहनोत्प्रेक्षाया भूदाशाब्दक्ष्लेषोत्था पितत्वाहूयोरङ्गाङ्गिभावेन सकर ॥२०॥

 तूर्णमिति । असौ पाण्डु स्वय तुरगमक्ष्वमन्यतोऽन्यस्मिन्देशे प्रघाव्य धावयित्वाग्रे मुखभागे विशालस्य दीर्घस्य करस्य शुण्डाया वूननेन चालनेन दुर्विधत्वाहरिद्रत्वात् । शुण्डाशून्यत्वाद्भेतोरिति यावत् । 'नि स्वस्तु दुर्विधो दीनो दतिद्र ' इत्यमर । सत्यापितो याथार्थ्येन ज्ञापितो द्विरदभावस्य गजत्वस्य विपर्ययो वैपरीत्य येषा तेषा लुलाययूना तरुणवमहिषाणा कुल परिववार निरुद्धवान् । वृणोते कर्तरि लिट् ॥२१॥

 आकर्ण्येति । असह्यान्सोढुमशक्यान् । प्रकृतिवैरादिति भाव । क्षितिपस्य पाण्डोईयस्वारवानाकर्ण्य कुपिता धीर्येषा ते व्रनमहिषा । विषाण क्षृङ्गमिति जात्येकवचनम् । तिरस्तिर्यग्व्याधूय अन्तिके समिपे ये तरवस्तेषु आमूल शृङ्गमितिदिभाग पर्व्यन्त क्षणान्निचख्नुर्निखातवन्त । निपूर्वात्सनते कर्तरि लिटू । अथ तन्निखात विषाण पुनर्व्याक्रष्टुभुद्धर्तु चिरादपि न शेकुर्न शक्तवन्त । शाक्रोते कर्तरि लिट् । 'नैवात्मवीनमथवा त्र्कियते मदान्धै' इति न्यायादिति भाव । प्रहर्षिणीवृत्तम् । 'म्रौ ज्रौ गस्त्रिदशयति प्रहर्षिणीयम्' इति लक्षणात् ॥२२॥

 कुरुत इति । ततो हे वनमहिषा ,यूय कुले युष्मद्वशे कूटस्थेनादिमेन


मदघूतविषाणमण्डलाग्रे महिषौघे निच [२९]रवान मण्डलाग्रम् ॥ २३ ॥
 तन्न चित्रमवनीपतेस्ततक्ष्चन्द्रहासपतन चकार यत् ।
 पोषितेषु वनमघ्यचर्यया पुण्डरीकनिवहेषु मीलनम् ॥ २४ ॥
गहनमस्तशरारुमृगव्रज कृतवताप्यमुना जविवाजिना ।


कृतान्तवाहनेन यममहिषेण सहैव वास कुरुत विदद्धवभ् । इत्युक्तप्रकारेण । आ ज्ञाप्येवेति शेष । अतएव गम्योत्प्रेक्षा । मदेन धूत कम्पित विषाणमण्डलस्याग्र यस्य तस्मिन्महिषाणा ओघे समूहे मण्दलाग्र करवाल निचखान । महिषानवधी दित्यर्थ । वृत्त वैतालीयभेदमौपच्छन्दसिकम्-----'पर्यन्ते र्यौ तथैव शेषमौपच्छन्दसिक सुधीभिस्क्तम्' इति लक्षणम् । शेषमुक्तादन्यल्लक्षण तथा वैतालीयवदेवेत्यर्थ ॥ २३ ॥

 तदिति । तत अवनीपते पाण्डोश्चन्द्रहासस्य खङ्गस्य पतन प्रवेश (कर्तृ) चन्द्रहासक्ष्चन्द्रिका तत्पतनमिति च । वनस्यारण्यस्य जलस्य च मध्ये चर्यया जीव नेन पोषितेषु ववितेषु पुण्डरीकाणा व्याघ्राणा श्वेताम्बुजाना च निवहेषु । 'व्याघ्रेऽपि पुण्डरीको ना सितच्छत्रे सिताम्बुजे' इत्यमर । मीलन मृति मुकुलन च । 'मृति सस्था निमीलनम्' इत्यमर । चकारेति यत् ,तन्न चित्रम् । सर्वस्य स्वाभाविक चे ष्टित न चित्रायेति भाव । अत्र चन्द्रहासवनपुण्डरीकमीलनशब्दवाच्याना खङ्गा रण्यव्याघ्रमृतीना चन्द्रिकाजलकमलमुकुलनाना च क्ष्लेषभित्तिकाभेदाध्यवसायमूलातिशयोत्क्या राग्नो व्याघ्रवघस्यापि किचित्करत्वेन लोकोत्तरमस्य शौर्यमिति प्रतीतेरलकारेण वस्तुप्वनि । यत्तु 'वनान्यासु सन्तीति वन्यो नद्यस्तासा पति समुद्रस्तत्सबन्धिनश्चन्द्रस्य हासश्चन्द्रिका' इति व्याख्याय 'वनीपतिव्यतिरिक्तराजसबन्धिचन्द्रहासपतनस्य पुण्डरीकमीलनकरण चित्रम्' इति मूलाद्बहि चित्र लिखितवात्रृसिह , तत्तस्यानाघ्रातव्याकरणगन्धस्य न चो द्याय । यत 'तदस्यास्यस्मिन्' इति मतुबर्थे 'अत इनिठनौ' इतीनिप्रत्यये 'ऋन्नेम्यो डीप्' इति डीपि च सति वनिनीत्येवरुपापत्त्या प्रकृतानुपपत्तिर्हतवृत्त त्वाख्यदोषापत्तिश्च स्यात् । किच अवनीपतेरिति व्यस्तस्य समस्तचन्द्रविशेषणत्वे 'ऋद्धस्य राजमातङ्ग' इत्यादिवदप्रयोगतापत्तिरिति । रयोद्धतावृत्तम्---- 'रान्नराविह रथोद्धता लगौ' इति लक्षणात् ॥ २४ ॥

 गहनमिति । गहनमरण्यम् । अस्ता निरस्ता शरारुणा घातुकाना मृगाणा व्याघ्रादीना व्रजा समूहा यस्मिंस्तत्तथोक्त कृतवतापि जवेन युक्तो वाजि अश्वो यस्य तेनामुना पाण्डुना गिरीशस्य हिमवतो दरीषु शेरत इति तथोक्ता हरय सिंहा ममृगिरेऽन्विष्टा । मृगे कर्मृणि लिट् । अत्र 'दरीशया ममृगिरे' इत्युक्त्या सिंहा अप्यस्माद्भीता क्कचिल्लीना इति शौर्योत्कर्ष । अत्र जववाजीव जववाजी


ममृगिरे हरयो मद्शालिनो मनुजपेन गिरीशदरीशया ॥२५॥
वि[३०] ष्फारघोषमवकर्ण्य विनिर्गताना
 हुकुर्वता तरुणकेसरिणा गुहाभ्य।
या केवल प्रथममानन एव भल्लै-
 स्ता पज्ञ्चता स विदधे सकलेऽपि देहे॥२६॥

एवमश्रान्तमृगयापरिश्रान्तमपरिमितस्वेदशीकरनिकरकोरकितफालमूलमतेनिरे तमाश्यान तुहिनगिरिदेश्या[३१] नन्दनीयमन्दिमानो मानससरोरविन्दमकरन्दसोर[३२]मपारद्दश्वानो मातरिश्वान।


विवेक।तेन गहनमिव गहन कामादिभिर्द्रुर्गममन्त करण कृतवता अमुनापि मनोर्मन्त्रस्य योगात्मकस्य जपेनाभ्यासेन दर्या दहराकाशे शया हरर्योऽशवो नीलपीतादय ममृगिर इत्यर्थान्तरप्रतीतेस्तु अभिधाया प्रकृतार्थमात्रनियन्त्रणाल्लक्षणाया प्रसत्तयभावाद्वनिरेव नार्थक्ष्लेष। द्रुतविलम्बितवृत्तम्- 'द्रुतविलम्बितमाह नभौ भरौ' इति लक्षणात्॥२५॥

 विष्फारेति।विष्फारेघोष वनुष्टकारमवकर्ण्य श्रुत्वा अतएव गुहाभ्यो विनिर्गताना हुनाम शब्द कुर्वता तरुणाना केसरिणा सिंहाना या पश्चता विशालता मृतिक्ष्च केवल प्राघान्येन प्रथम पूर्व आनने मुख एव आसीत् ता पज्न्चता सकलेऽपि देहे भल्लैर्वाणविशेषै स पाण्डुर्विदधे चकार। सिंहानवधीदित्यर्थ। दघाते कर्तरि लिट्। 'सख्याभेदे विशालत्वे पश्चता मरणेऽपि च' इति विश्व।अत्र क्ष्लेषभित्तिकया एकस्या एव पश्चताया अनेकाश्रयकथनादतिशयोत्तयनुप्राणित प्र्ययालकार॥२६॥

 एवमिति। एवमुत्तॄप्रकारेण अश्रान्तया निरन्तरया मृगयया मृगव्येन परिश्रान्त अधिकश्रमयुक्त्त अतएव अपरिमितै स्वेदस्य शीकराण बिन्दूना निकरै समूहै कोरकितम्। व्याप्तमित्यर्थ। तारकादित्वदितच्। फालमूल निटि लभागो यस्य तथोक्त्त त पाण्डु तुहिनगिरेर्हिमवत।देशे भवा देश्या। 'तत्र भव' इति यत्।नन्दनीय क्ष्लाघनियो मन्दिभा मान्ध येषा ते।पृथ्वादित्वादिमनिच्। मानसाख्ये सरसि यान्यरविन्दानि कमलानि तेषु भकरन्दसौरभस्य पारमन्त पश्यन्तीति पारद्दश्वान मातरिश्वानो वायव तमाश्यान् व्रिर्द्रवम्। निरस्तश्रमजलमिति यावत्। आतेनिरे कृतवन्त। तनोते कर्तरि लिट्। यत्तु 'तुहिनगिरिदेश्यैर्हिमवद्वनीयो मन्दिमा येषा ते' इति नृसिंह, तदबोघात्पाण्डोर तुहिचगिरिदेश्यत्वत् तेन तन्मान्धस्यानन्दनीयत्वानपत्ते विशेषणद्वयेन मान्धसौरम्ययोरेव प्रतीत्या शैत्यघोतनविशेषणाभावप्रयुक्तन्यूनपदत्वाख्यदोषापत्तेश्वेति॥


 [३३]दनन्तरमसौ परतप समन्तत शकुन्तरवनिरन्तरदिगन्तरादखिलमृगकुलशरण्यादरण्यादुत्प्लवमानस्य कस्यचिदनुप्लवनम[३४]न्दीभूतजवचमूरोश्चमूरो सरणिमनुसरमाणस्तदीयतनूरुहचित्रबिन्दुनिकरैरिव ग[३५]गनमुत्पतद्भि खुररजोभिरनुसीयमानतुरगगति सु[३६]दूरमनु[३७] पपात।

तत्र ताव[३८] त्कस्मिश्चिल्लतानुल्मपरिसरे स नरनाथ परिकथिततरुणिमप्रथितकलेवरमशिथिलरतिसुखसनाथ हरिणमिथुन नयनपथस्यातिथीचकार।

तिम्मेन बाणेन जघान तस्मिन्युग्मे[३९] नराणामचिप पुमासम्।


 तदिति। तस्माच्छ्रमापनोदादनन्तरं पर शत्रु तपतीति परतप। 'द्विषत्परयोस्तापे' इति खित्वात्खशि नुम्। असौ पाण्डु शकुन्ताना पक्षिणा रवैर्निरन्तराणि सान्द्राणि दिशामन्तरणि यस्मिस्तस्मात्। 'शकुन्तपक्षिशकुनि' इत्यमर। अखिलाना मृगाणा कुलस्य शरण्यात् निवासजीवनदानादिना रक्षकात्। 'तत्र साधु' इति यत्। अरण्यात् हिमवद्वनादुत्प्लवमानस्य धावतोऽनुप्लवनेन। अनुधावनश्रमेणेत्यर्थ मन्दीभूतौ स्तम्भितौ जवचम्वा सेनाया ऊरू यस्य तस्य कस्यचिच्चमूरोर्हरिणविशेषस्य सरणिं मार्गमनुसरमाण सन्। तस्येमानि तदियानि यानि तनूरुहाणि लोभानि तत्सबन्विना चित्रबिन्दूना शबलवर्णलोमसस्थानविशे षाणा निकरै पुज्जैरिव स्थितैर्गगनमुत्पतद्भि खुराणा शफाना सबन्धिभी रजोमि पार्वतीयधातुधूलिभिरनुमीयमाना तर्क्यमाणा तुरगस्य गतिर्गमन यस्य तथोक्त सन् सुदूरमनुपपात गतवान्। अनुपूर्वात्पत्तते कर्तरि लिट् ॥

 तत्रेति। तत्र स्रुदूरदेशे। तावदिति वाक्यालकारे। कस्मिश्चित् लतागुल्मस्य निकुञ्जस्य परिसरे समीपे स नरनाथ पाण्डु परिकथितेन परिदृश्यमानेन तरुणि म्ना यौवनेन प्रथित प्रसिद्ध कलेवर् यस्य तथोक्तम्। अशिथिलेन सान्द्रेण रतिसु खेन सनाथ सगत हरिणी च हरिणक्ष्च तयोर्मिथुन द्वन्द्व नयनपथस्य नेत्रमार्गस्य अतिथीचकार विषयीकृतवान्। हरिणद्वन्द्व दृष्टवानित्यर्थ ॥

 तिग्मेनेति। नराणामविप पाण्डु तस्मिन्युग्मे हरिणमिथुने पुमास मृग तिग्मेन तीक्ष्णेन बाणेन जघान हतवान्। असौ बाणानिहतो वातायुर्मृग। 'मृगे कुराङ्गवातायुहरिणा' इत्यमर। जात आयुषो जीवितकालस्य अन्त समाप्ति यस्य तथोक्त सन् महर्षे किंदमनामधेयस्याकार तत्स्वरूप सहसा तत्क्षणमेव


 वातायुराकारमसौ महर्षेर्जातायुरन्त सहस्साललम्बे ॥ २७ ॥

 तत छुपामन्दमना किदमनामधेय सदा[४०] रिततनुस्यन्दमानरुधिरेण महारुषा कल्परविकम्पमहा रुषा तस्मिन्महीभृति सभोगसभेदकमम्भोजदृशा दम्भोलिमिव सहस्राक्ष शापमुदस्राक्षीत् ।

 तदनु तापसशापेन विरचितमनस्तापेन तेन भू[४१]पेन च[४२]तुरङ्गबळमिव स[४३] प्ताङ्गराज्यमपि व्ये[४४]सृज्यत ।

 अष्टाङ्गयोगानवतोऽस्य राज्ञो मिष्टान्नमासीन्मृदुकन्दमूलम् ।

 गर्भों वनस्याजनि केलिसौधो दर्भाऽपि सिहासनता जगाहे ॥२८॥


आललम्बे खीकृतवान् । यत्तु ‘जातारूरन्तम् इति पाठान्तरम्, तन्मूलकृदभिमतळाटानुप्रासभङ्गादुपेक्ष्यम् ॥ २७ ॥

 तत इति । तत ऋष्याकारस्वीकरणानन्तर क़िदम इति नामधेय यस्य स ऋषि कृपया कारुण्येन मन्द शून्य मनो यस्य तथोक्त सन् सम्यग्दारिताया बाणविपाटितायास्तनो शरीरात्स्यन्दमान रुधिर रक्त यस्मिस्तेन महतारुषा व्रणेन । ‘व्रणोऽस्त्रियामीर्ममरु’ इत्यमर । रुषा कोपेन च कल्परविकल्प प्रलयार्कतुल्य महस्तेजो यस्य तथोक्त सन् तस्मिन्महीभृति पाण्डौ पर्वते च अम्भोजदृशा स्त्रीणा सभोगस्य सुरतस्य सम्यग्भोगस्य सुखस्य च सभेदक नाशक शापम् । सहस्राक्षो दम्भोलिं वज्रमिव । उदस्राक्षीत्पातितवान् । सृजते कतरि लुड्।‘यथा मिथुनीभूय क्रीडस्त्वया मारितोऽहम्, तथा त्वमपि निधुवनाय वधूमुपगच्छन्मारिष्यसि’ इति शप्तवानित्यर्थ ॥

 तन्विति । तदन्वनन्तर तापसस्य किदमस्य शापेन विरचितो मनसि तापो यस्य तेन भूपेन पाण्डुना चत्वार्यङ्गानि हस्त्यश्वरथपादातरूपाणि यस्य तथोक्त बलमिव सप्त अङ्गानि स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्गबलरूपाणि यस्य तथोक राज्यमपि व्यसृज्यत । तदुभयमपि त्यक्तवानित्यर्थ । सृजते कर्मणि लड्। भोगमूल राज्यमू, राज्यमूल बलम्, भोगप्रतिबन्धे ताभ्या प्रयोजनाभावादिति भाव । अत्र बलराज्ययो केवलप्रकृतयोस्त्यागक्त्रियान्वयित्वेन केवलप्रकृतास्पदतुल्ययोगिताभेद । ‘वर्ण्यानामितरेषा वा धमैक्य तुल्ययोगिता' इति लक्षणात् । एवमुत्तरत्रापि । प्रायेणात्रायमलकार ॥

 अष्टेति । अष्टावङ्गैरन्त करणादिभिर्ये योगास्तत्साध्या यमानेयमासनप्राणायमप्रत्याहारध्यानधानरणसमाधयो योगशास्त्रप्रसिद्धास्तानवतो । रक्षतोऽस्य राज्ञ पाण्डोर्मृडु कोमल कन्दमूल मिष्ट षड्रसोपेतमन्नमासीत् । वनस्य गर्भो मध्यदेश केलिसौधोऽजनि जात । जने कर्तरि लुड् । दर्भोऽपि सिंहासनता जगाहे प्राप


अहो नरपतितापसयो समानरूप् फलमिदमाचरितम् । तथाहि ।

बाण्शापप्रयोगाभ्या वाधितौ तावुभावपि।
तपस्विता यत सधस्ताद्यशीमुपजग्मतु ॥२९॥
क्रमादतिपतिते चावरोधवधूजनानुरोधगुणदात्रे गणरात्रे‌-----
अपाकरिष्यन्ननपत्यभावमपत्यभाव भुवन करिष्यन्।
उवाच टेविमुचित स पाण्डूरुपह्वरे चातुचिढुहढक्ष ॥३०॥
परिपाल्यतोऽपी मे महिं परिपूर्तिर्न तनूजदुर्गते ।
प्रजया हि मनुष्य इत्यसौ प्रथते हि श्रुतिवर्णद्धति ॥ ३१॥


सिहासनमभूदित्यर्थ । गाहते कर्तरि लिट् । दुर्लमससारसारेण कि राच्येनेति जुगुग्सया तापसत्व स्वीकृतवानित्यर्थ् ॥ २८ ॥

 अहो इति । नरपतितापसयो पाण्डुकिदमयो फल बाण्शापप्रयोगजन्य समानरुपविभितकृति सत् आचरितमाविर्भूतम् । भावे क्त्त । अहो इत्याश्चर्ये। इदमुत्तरेणैकवाक्यम् -- तथहीति॥

 बाणेति। तथा तावुमौ पाण्टुकिदमौ बाणप्रयोगेणशापयोगेण च । ताभ्या ऋमोऽत्र विवक्षित । बाधितावपि विभिन्नदु खकारणावपि यत कारणा त्सधस्त्तत्क्षण एव ताद्दशी राज्यमृगरुपत्यागपूर्विका तपस्विता मुनिभाव शोच्यत्व च् । 'तपस्वि तापसे शोच्ये' इति विक्ष्व। उपजग्मतु प्राप्त्वन्तौ । अत आक्ष्चर्य मिति पुर्वेणान्वय । कारणभेदेऽपि कायैक्यमिति भाव । वाक्यार्थहेतुक काव्यलिड्मलकार । पृत्तमानुष्दुभभेद ॥ २९ ॥

 ॠमादिति । कि चेति चार्थ । अवरोधवधूजनस्यान्त पुरस्त्रीजनस्यानुरो धोऽनुसरण स एव गुणस्तस्य दात्रे शस्त्रभेदे लवित्रारव्ये । 'दात्र लवित्रम्' इत्यमर । सभोगरहित इति यावत् । गणरात्रे रात्रिसमूहे त्र्क्मादतिपतितेऽतिक्रान्ते सती त्युत्तरेणैकवाक्यम् । 'गणरात्र निशा बह्व'इत्यमर ॥

 अपाकरिष्यन्निति । जातुचित् कदाचित् ऊहदक्ष उपायचिन्तने दक्ष समर्थ स पाणडु । न विधतेऽपत्य यस्य सोऽनपत्यस्तस्य भावस्तमपुत्रत्वमपाकरिष्यम्निरसितुमिच्छन्सन् । आत्मन इति शेष । भुवन मतर्यलोक च। न विधते पत्यभावो यस्य तथात्त करिष्यन् । सपतिक कर्तुमिच्छन्नित्यर्थ। उपह्वर एकान्ते देवीं कुन्तीमुचितमुवाच । पुत्रसपादनाय देव्या सहालोचितवानित्यर्थ॥ ३० ॥

 स्प्तभि क्ष्लोकैरुक्त्तिप्रकारमेवाह परिपालयत इति । महीं परिपालयतोऽपि मे मम तनूजदुर्गते पुत्रदारिधाध्देतो परिपूर्ति मनोरथपरिपूर्णत्व नास्ति । हि यस्मात् । मनुष्य प्रजय सतत्या पूर्णो हीत्युक्त्तार्थिका असौ क्ष्रुतिवर्णाना वेदाक्षराणा पध्द्ति पङ्क्त्ति 'प्रजया हि मनुष्य पुर्ण इत्येवरुपा प्रथते प्रसिद्धत्वेन वर्तते । निरपत्यस्य निष्फल सर्व

निन्द्यते पितृभिस्तप्तैर्निरपत्यधन पुमान |
अध्वनीनैरतिरन्तैरवकेशीव पादप ॥ ३५ ॥
कदापि तातशब्दस्य कल्पभूमिरुहामिब |
नार्थीभवितुभर्हामि नरवाहनसनिभ ॥ ३६ ॥

कि भोगवैभवयश क्षितिजीविताद्यै-
 रम्भोरुहाक्षि नियमैरनघैस्त्वमेव |
शापातिरेकदवपावकशयिनो मे
 तापापनोदविघये तनय प्र[४५]सुष्व ॥ ३७ ॥

इत्यसकोचत शोचत पत्युरप्रभुवि समग्रसन्दाक्षरमणिय मन्दाक्षरभरणियन्नितमिद वचन पृथापि कथयामास |


 निन्द्यत इति निर्गतमपत्यमेव वन यस्व सोऽपुत्र पुमान् तत्पैर्लुप्तपिण्डोदकक्रियस्तया दु खितै पितृभि पूर्वै अवकेशि निष्फल पादपो वृक्षोऽतिश्रान्तैरध्वनीनै पथिकैरिव निन्द्यते | निन्दते कर्मणि लट् | 'एष वा अनृणो य पुत्री' इति श्रुते | अपुत्रस्य पितृक्क्ष्र्णापाकरणायोगादिति भाव| युग्मविपुलानामानुष्टुमवृत्तम-'यस्या ल सप्त युग्मे स्यात्सा युग्मविपुला मता' इति लक्षणात्| अस्य च वक्रविशेषत्वात्-'वक्त्त नाधान्नसो स्यातामव्धेर्योऽनुष्टुभि ख्यातम्' इती तरत्र तलक्षण बोध्यम् ॥ ३५ ॥

 कदेति | नरवाहनेन कुबेरेण सनिभस्तुल्य अह तातेतिशब्दस्य जनकवाचकस्य कल्पभुमिरुहा कल्पक्षाणामिवार्थीभवितु वाच्यीभवितुम् अर्थी याचको भवितु च कदापि नार्हामि | अतो धनाढथस्य याव्चाया इवापुत्रस्य तातेति व्यवहारास्याप्ययोगादित्यर्थ | यत्तु 'अपुत्रस्य स्वर्गाभायेन तत्रत्यकल्प्पृक्षप्रार्थना दुर्लभा' इति, यदपि 'कुबेरवद्विद्यमानभैक्ष्वर्य पुत्रभावाविष्फलम्' इति नृसिह, तदुमवमप्यनादरणीयम् | नरवाहनसनिभ इति साद्यक्योपयोगिनो वैयर्थ्यापत्तेरुत्तरक्ष्लोके पौनरुत्तेक्ष्चेति ॥ ३६ ॥

 किमिति भोग स्त्रवचन्दनदनिवाद्यनुभव, वैभवमैश्वर्यम्, यशो दानपालनक्षात्रजन्या कीर्ति, क्षिति भू राज्यमिति यावत् जीवित् प्राणधारणम्, एतान्याधानि येषा तैरर्थै शापस्य किदभदयत्तस्यातिरेकोऽतिशय स एव दवपाको दवाग्निस्तस्मिञ्शेते इति शायिन । ताछीलिको णिनि | मे मम किम् | कार्यमिति शेष | ताद्दग्विधस्य मे तापस्यापनोदनबिधये निरासाय हे अम्भोगेरुहाक्षि, त्वमेवानघैर्भर्त्रनुज्ञातत्वेन निर्दोर्षेर्नियमैस्तनय प्रसुष्व जनये | सुवते प्रार्थनाया लोट पुत्रसपादभोगस्य शापेनापेतत्वादिति भाव ॥ ३७ ॥

 इतीति इत्युक्तग्रकारेणावासकोच निर्लज्ज यदा तदा शोचतो दु खायमा-


 ऱाजन्,ख[४६] लु पुरा मम पिता गपितामहसमानस्य निशान्त[४७]मधिवसत कृशा तनुलता तपसा वहतोऽपि दिशा ततिषु शान्त्ंरविकान्तिभृशा[४८] न्तरङ्गाङ्रुरुचा तर[४९]गपरपरा तरलयतोऽशान्तमनसो मुनेरुपान्तपरिचरणाय मामनुशासितशै[५०]शवराज्यामपि नियोज्यामकरोत्।

ततो नि[५१]योगान्समयेषु लब्धु मया महायत्नषा महर्षे।
आरामवल्लीरपहाय तस्य भ्रूवल्लिमेव प्र[५२]तिपल्य तस्थे॥३८॥
यथा यथा सेवनयत्नजन्मना निदाघतोयेन निषिक्तमङ्गकम् ।
तथा तथावर्धत तापसान्तिके महाविकासा मम भक्तिवल्लरी॥३९॥


नस्य पत्युरग्रमुवि समग्रेण महता मन्दाक्षेण लज्ज्या रमनणीया मनोज्ञा मन्दार परि मितरिअक्षराणि मणय इव तैर्यन्त्रित सघटितमिद वक्ष्यमाण वचन पृथा कुन्त्यपि कथायामासोक्तवती । कथयतेर्लिटयमादेशेऽस्तेरनुप्रयोग ॥

 राजन्निति । हे राजन्, खलु । 'निषेधवाक्यालकारजिज्ञासानुनये खलु' इत्यमर । पुरा कन्यात्वदशाया मम पिता कुन्तिभोजो निशान्तमधिवसत स्वगृहे वर्तमानस्य । 'उपान्वध्याड्वस' इति कर्मत्वम् । पितामहेन ब्रह्मणा समानस्य तपसा कृच्छ्चान्द्रायणादिना कृशा तनुर्लतेव ता वहतोऽपि । तप कृशस्यापीत्यर्थ । दिशा प्राच्यादीना ततिषु समूहेषु निशान्तरवेर्बालसूर्यस्य कान्तीना भृशमन्तरङ्गाणामाप्तानाम् । तत्तुल्यानामित्यर्थ । अङ्गरुचा देहप्रमाणा तरंगपरंपरा तरलयत प्रसारकस्याशान्त शान्तिरहितम् । क्रुद्धमिति यावत् । मनो यस्य मुनेर्दुर्वासस उपान्ते समीपे परिचरणाय शुक्ष्रूषणायानुशासित पालित शैशव बाल्यमेव राज्य यया ता तथोक्ताम् । बाल्यात्परिचरणाशक्तामपीत्यर्थ । मा नियोज्या परिचारिकामकरोत् । महता सेवाया दुर्लभत्वादविचार्य कुलवय शीलादिकमवश्य तेषा सेवनीयत्वादिति भाव ॥

 तत इति । तत समयेषु स्त्रनाद्यवसरेषु नियोगाञ्जलानयनाद्याज्ञाप्यल्लब्धु प्राप्तु महान्त यत्न जुषत इति तथोक्तया मया आरामे वल्ली पुष्पलता विहाय तस्य महर्षेर्दुर्वाससो भ्रूरेव वल्ली ता प्रतिपाल्य निरीक्ष्य तस्थे स्थितम् । तिष्टतेर्भावे लिट् । बाल्योचितपुष्पावचय विहाय तन्नियोगानुदपादयमित्यर्थ । यत्तु 'नि योगात्'इति पञ्चम्यन्तपाठे भ्रमेण नियोगादनुज्ञावाक्यात्' इति नहिंस, तत्तुच्छम् । 'लब्धुम्' इति तुमुनन्तस्य कर्माकाइया साकाङ्क्षत्वदोषापत्तेक्ष्च ॥३८॥

 यथेति । ममाड्गमेवाङ्गक शरीर सेवनयत्नान्मुनिसेवानुकूलव्यापाराज्जन्म यस्य तेन निदाघतोयेन क्ष्रमजलेन यथा यथा निषिक्तमभिषिक्तम्, तथा तथा


तपस्विनस्तस्य तप कृशस्य सरुपतामाप्तुमि [५३]वाश्रयद्भि ।
दिने दिने मे दयनीयरुपैरङ्गैरशेषैरतिकार्श्यमापे ॥ ४० ॥

आपादनेन समिधामभिषेकवारा-
 मभ्यर्चनासुमनसामपि तापसेन्द्र ।
मय्येव शिष्यजनताम[५४]मिता बितन्व-
 न्नन्ते वसन्तमपि कोपमपाचकार ॥ ४१ ॥

एका समा तत्र वसन्कदाचिदेका स मा पार्क्ष्वगतामवेक्ष्य । समाघिवृत्त्या सह मौनमुद्रा समापयामास तपोधनेन्द्र ॥ ४२ ॥

 'वत्से, भवस्तेवासप्रदायेन सप्रति भृश प्रसीदामि' इति व्याहृत्य स मुनिरनुकम्पितचेता मह्यमत्यर्थमभीप्सितार्थसमर्थापनपरतान्त्र कमपि मव्रमु[५५]पादिक्षत् ।


महान्विकासो वृद्धिर्यस्या सा मम भक्त्तिरेव वल्लरी पुष्पलता तापसस्य दुर्वास सोSन्तिके सनिघाववर्धत प्रवृद्धाभूत् । रुपकालकार ॥ ३९ ॥

 तपस्विन इति । तपसा कृशस्य तपस्विनो दुर्वासस सरुपता सारुप्यमाप्तुमिवेत्युत्प्रेक्षा । आश्रयद्भि सेव्यमानैर्दयनीय कारुण्यास्पद रुपमाकृतिर्येषा तै । कृशीभूतैरिति यावत् । अशेषैरङ्गैरवयवैरतिकार्श्यमापे प्राप्तम् । आप्नोतेर्भावे लिट् ॥ ४० ॥

 आपादनेनेति । तापसेन्द्रो दुर्वासा समिधामिन्धनानामभिषेकस्य वारा जलानामभ्यर्चनासुमनसा देवपुजाकुसुमानामपि त्रयाणामापादनेन सपादनेन हेतुनाSमितामनेका शिष्यजनता शिष्यभाव मग्येव वितन्वन्विस्तारयन्सन् । एकयैव शिष्यत्रयकृत्यसपादनादिति भाव । अन्ते समीपे । मनसीति यावत् । वसन्त वर्तमानमपि शिष्यमपीति च । कोपमपाचकार दूरीकृतवान् । प्रसन्नोSभुदित्यर्थ । 'छात्रान्तेवासिनौ शिष्ये' इत्यमर ॥ ४९ ॥

 तत किमित्यत आह एकामिति । स तपोधनेन्द्रो दुर्वासास्तत्र गृहाराम एका समा सवत्सरम् । 'हायनोSत्नी शरत्समा' इत्यमर । वसन्सन् । कदाचित्पार्क्ष्वगता निकटस्थितामेका परिजनरहिता भा अवेक्ष्य समीक्ष्य समाधेर्योसगस्य वृत्त्याभ्यासेन सह मौनमुद्रा वाचयमत्व समापयामासावसितवान् । द्वयमपि त्यक्त्वा मामुवाचेत्यर्थ ॥ ४२ ॥

 वत्स इति । हे वत्से कुन्ति, भवत्या सेवासप्रदायेन शुश्रूषाविधिना सप्रती दानीं भृश प्रसीदामि प्रसत्रोSस्मि । इत्युक्त्तप्रकारेण व्याहृत्योक्त्वानुकम्पित कृषान्वित चेतो मनो यस्य तथोक्त्त स मुनिर्दुर्वासा मह्यमत्यर्थ भृशभभीप्सितार्थस्य ।


अपि क्रुधामावसतेरमुष्मान्मत्वा गुरुत्व वरमस्त्रलाभे।
अपष्पुवत्यामपि मे दशायामामोदभारोऽधिकमाविरासीत् ॥४३॥

 अधुना तस्य प्रभावेन शतमखमुखासु निखिलासु ले[५६]खारेखासु ये ये परास्तेि ते रहसि कृ[५७]तसानिध्या स्वा[५८]नुगुणगुणगणविभवानात्मभवान्मयि विकसदनुकम्पा सपादयिष्यन्ति ।

इति नृपाय कृपायतचेतसो यदुसुता मुनिनेतुरनुग्रहम् ।
अदशनत्रणपीडमहर्पतेरभिदधे र[५९]तसगमन विना ॥ ४४ ॥


कामितार्थस्य समर्थापने सघटने परतन्त्र आयत्तम् । समर्थमिति यावत् । कमप्यनिर्वाच्यम् । 'गुरु प्रकाशयेद्धीमान्न तु मन्त्र प्रकाशयेत्' इति मन्त्रनामाप्रकाशस्मरणात् । मन्त्रमुपादिक्षदुपदिष्टवान् । दिशते कर्तरि लुड् ॥

 अपीति । क्रुधा कोपानामावसतेर्निवासभूतादप्यमुष्माद्दुर्वाससो वरभूतम्य 'मन्त्रस्य लाभे सति गुरुत्वमाचार्यत्व मत्वा ज्ञात्वा । क्रुद्धस्य गुरत्वास्मरणात्क्रुद्धेऽपि शुश्रूषातिशयेन प्रसादसपादनादनादात्मनि गुरुत्व क्ष्रैष्ठ्य वा मत्वा । मे ममापुष्पवत्या पुष्परहितायामपि अरजोवत्यामपीति च । दशायामवस्थाया बाल्ये। च अत एव विरोधाभासोऽलकार । आमोदभार परिमलातिशय सतोषातिशयश्चाधिकमाविरासीत् । 'आमोदो गन्धहर्षयो' इति विश्व ॥ ४३ ॥

 अधुनेति । अधुनेदानी शतमस इन्द्रो मुखमादिर्यासा तासु निखिलास्वखि लासु लेखाना देवाना रेखासु पङ्क्त्तिषु ये ये परार्ध्या गुणवत्तरास्ते ते वक्ष्यमाणा इन्द्रादयस्तस्य मुन्युपदिष्टमन्त्रस्य प्रभावेन सामर्थ्येन रहसि कृत कारित सानिध्य समीपस्थिविर्येषा ते तथोक्ता । 'ध्यानमात्रसाध्यसानिध्या' इति पाठान्तरम् । विक्रान्त्यनुकम्पा येषा ते तथोक्ताश्च सन्त स्वस्य प्रत्येकमात्मनोऽनुगुणोऽनुरूपो गुणाना शोर्यधैर्यादीना गणस्य सघस्य विभव समृद्धिर्येषा तानात्मभवान्पुत्रान्मयि सपादयिष्यन्ति जनयिष्यन्ति ॥

 इतीति । इत्युकप्रकारेण कृपयायत सान्द्र चेतो यस्य तस्य मुनीना नेतुर्नाय कस्य दुर्वाससोऽनुग्रह वरमन्त्रदानरूप प्रसाद यदुसुता कुन्ती नृपाय पाण्डवे । अहर्पते सूर्यस्य सबन्धि न विद्यते दशनव्रणाना दन्तक्षताना पीडा दु ख यसिंस्तत् । चौर्यरतत्वादिति भाव । रतस्य सुरतस्य सगमन प्रापण विनाभिदधे कथया मास । तदितरत्सर्वमुवाचेत्यर्थ । तस्य लोकदूयनिन्द्यत्वादिति भाव । कुन्ती मपरीक्षणाय सूर्यमाहूय बाल्ये ब्रेनोपमुक्तेति भारतकथात्रानुसधेया। दुतवि लम्बितवृत्तम् ॥ ४४ ॥


इति वचनमयीं सुधा किरन्तीं यदुनृपतेस्तनया प्रशसमान | पतिरनुमनुते स्म पौरवाणा प्रकृतमहोत्सवपारदर्शनाय ॥ ४५ ॥

 ते[६०]दनन्तरम् -----

धर्मात्प्राप युधिष्टिर पवनतो भीम च भीम द्विषा
 जिष्णोर्जिष्णुमतीव धृष्णुमनघा कुन्ती मुनेर्विघया |
अन्या सापि तयैव तत्र नकुल रूपास्प गीष्पते
 सच्छात्र सहदेवमप्यजनयन्नासत्ययोरन्तिकात् ॥ ४६ ॥

तदनु वासवनन्दनसभृता सपटुगीतिरवप्रमदालय |
सुमनसस्तु यथोचितमाचरन्निपतन भुवि नृत्यविधि दिवि ॥ ४७ ॥


 इतीति|इत्युक्तप्रकारा वचनमयी वाग्रूपा सुधाममृत किरन्ती सेचन्तीं यदुनृपतेस्तनया कुन्तीं प्रशसमान क्ष्लाघमान पौरवाणा पति पाण्डु प्रकृतस्य महोत्सवस्य वरमन्त्रलाभरूपस्य यत्पारमन्त पुत्रसपादनरूपस्तस्य दर्शनायानुमनुते स्म | 'पुत्रानुत्पादय देवेभ्य' इत्यनु़ज्ञातवानित्यर्थ |पुष्पिताग्रावृत्तम् - 'अयुजि नयुगरेफतो यकरो युजि च नजौ जरगाश्च पुष्पिताग्रा' इति लक्षणात् ॥ ४५ ॥

 तदनन्तरमिति | धर्मादिति | तदनन्तरमित्युत्तरेण सबध्यते | तदन न्तर पाण्ङ्वनुमत्यनन्तरम् | अनघा भर्त्रनु्ज्ञानान्निर्दोषा कुन्ती मुनेर्विधया | तदुपदिष्टमन्त्रप्रभावेनेत्यर्थ | धर्माधमाधुधिष्टिर धर्मराज प्राप |जनयामासेत्यर्थ | पवनतो वायोद्विषा शत्रूणा भीम भयकर भीम प्राप | जिष्णोरिन्द्रादतीव धृष्णुमत्यन्तधीर जिष्णुमर्जुन प्राप | 'जिष्णुरिन्द्रेSर्जुने जैत्रे' इति विश्व | अन्या सा द्वितीया माध्रपि तया कुन्त्युपदिष्टया विद्ययैव तत्र तस्मिन्नेव काले | काकाक्षिन्ययेनैवकारस्यात्रापि सबन्ध | नासत्ययोरश्विनो | 'नासत्यावश्विनौ दस्त्रो' इत्यमर | अन्तिकात्समीपात् | तत्सङ्गादिति यावत् | रूपस्य सौन्दर्यस्यास्पद स्थान नकुल गीष्पतेर्बृहस्पते सच्छात्रं तुल्यम् | बुध्धेति शेष |सहदेवमप्यजनयत् यत्तु मुने कुन्ती मन्त्रचतुष्टय लेभे, तत्र मन्त्रत्रयेण स्वय पुत्रत्रय प्राप, माद्रीं च तदुपदि ष्टेन चतुर्थेन मन्त्रेण पुत्रद्वय प्राप इति नृसिंह, तत्तु दुष्पाण्डित्यविजृम्भितमेव | महाभारतविरुद्धत्वात्|भुनेर्विधया तयैवेति मूलसगते वररूपस्य मन्त्रस्येति स्वले खनविरुद्धत्वच |कि च बाल्ये एकेन कर्णोत्पादनात्प्रकृतन्यूनताया दुर्वारतापत्तेश्चेति | शार्दूलविक्रीडित पृत्तम् - 'सूर्याक्ष्वैर्भसजास्तता सगुरव शार्दूलविक्रीडि तम्' इति लक्षणात् ॥ ४६ ॥

 तदन्विति | तदतु युधिष्ठिरादिजन्मानन्तर वासवस्येन्द्रस्य नन्दने हर्षणे विषये नन्दनवने च समृता नियुक्ता सपादिताश्च | पटुगीतिरवेण मनोहरगानेन सहिताना प्रमदानामप्सरसामालय पङ्क्त्तयो येषा ते पटुगीतिसदृशझङ्कारसह्रितप्रकृष्टमदभृङ्गाश्च सुमनसो देवा पुष्पाणि च यथोचित स्वस्वार्हे क्रमेण दिवि


जन्मोत्सवो महनेषा जलभत्यच्छमावहन् ।
विद्यामनन्य्समन्य [६१]व्रीडा कुम्भभुवोऽनयत् ॥ ४८ ॥
स्वस्य चक्रगति सख्यु स्वयमप्यक्ष्रिता इव ।
जवात्प्रक्षिणज्वाला जज्वलुर्यज्वपावका ॥ ४९ ॥
समोदो भीमसभू[६२]तिसभूताशौचवत्तया ।
सकुचन्निव सस्पर्शे समीरे मन्दमववौ ॥ ५० ॥
कन्यकत्वेपि मयेश कमुकिति स्मरन्निव ।
प्रसुतिदिवस कुन्त्या प्रदिध्द्युथधहस्कर ॥ ५१ ॥
पुश्पप्रगेव सुशुवे पुत्रमेशेपि विरुध ।

रवर्गे तु नृत्यविधि नाटयमाचरन्कृतवन्त । भुवि तु निपतनमाचरन् । ’सुमना मालती पुष्पपण्डितेषु सुरेऽपि च’ इति विक्ष्व । ’स्त्रिय सुमनस पुष्पम इति पुष्पवाचित्वे स्त्रीलिङ्गता । अत्र केवलप्रक्रृतास्पद क्ष्लेषालकार । पारक्रमानुसरणे यथास रव्यालकारक्ष्च । दूयो ससृष्टि ॥ ४७ ॥

 जन्मोत्सव इति । एश युविष्ठिरादीना महाञ्जन्मोत्सव जलमल्यचमवह नुकुर्वन्सन् अन्येषामसामान्यमसावरणीमनन्यसामान्या कुम्मभुवोऽगस्त्यस्य विद्या स्वोदयेन जलनिर्मलिकरणात्मिका व्रिडा लज्जमनयद्गमयामास अनन्यसा वरन्यभङ्गादित् भव । नयतेर्दुहादित्वा द्दिकर्मकत्वम् ॥ ४८ ॥

 स्वस्येति । यज्वना यगवता पवकस्त्रेताग्नय सख्युर्वायोक्ष्चक्त्र गथि वर्तुल्लागमन स्वयमप्याक्ष्रिता इवेत्युत्प्रेक्षा जवाद्वेगात्प्रदक्षिणज्वाला सव्यशिखा सुन्तो जज्वलुर्ज्वलन्ति स्म । ज्वलते कर्तरि लिट् ॥ ४९ ॥

 समोद इति । समोद सहर्ष सगन्वक्ष्च समीरो वायुर्भीमस्य पुत्रस्य समुत्योपत्त्या सभूत जातमशौचमस्यस्तीति तद्वान् तस्य भावस्तत्ता तया हेतुना सस्पर्शे परेपा स्पर्शनविषये सकुचन् लज्जमान इवेत्युत्प्रेक्षा । मन्द शनैराववौ वाति स्म । वाते कर्तरि लिट् ॥ ५० ॥

 कन्यकात्व इति । एषा कुन्ती कन्यकात्वेऽनूदत्वदशायामपि मयि विषये कमुक्यभूत् इत्युक्तप्रकारस्य वृत्तान्तस्येति शेष । स्मरन्निवेत्युत्प्रेक्षा । अएस्कर् सुर्य कुन्त्या प्रसूतिदिवस प्रसवदिन प्रकर्षेण प्रदिघुतत्प्रकशयामास । रविरपि प्रकृष्टकाशोऽभूदित्यर्थ । ण्यन्तात् घुतेर्ल्लड् । णिक्ष्रिद्रुस्त्रुभ्य कर्तरि चड्’ इति चडि घुतिस्वप्यो सप्रसारणम् ’ इत्यभ्यासस्य सप्रसारणम् ॥ ५१॥

 पुष्पादिति । एषा कुन्ती पुष्पात् त्र्क्षतो कुसुमाच्च प्राक्पूर्वमेव पुत्र कर्णे सुषुवे जनयमास । इति मत्वेवेति शेष । अतएव गम्योत्प्रेक्षा । पृथाया वने कुन्त्या वासा रण्यै विरुधो लता प्रसूनात्प्राक्पुष्पोत्पते पुर्वमेव पुष्पपृष्ठभाग एवेतिच । फलेग्र


फलेग्रहय एवासन्प्रसूनात्प्राक्प्रुथावने ॥५२ ॥

 तदनु गुणगणैरभङ्गुरशुभताविकाससमये समयेप्रजाधिपोऽसौ प्रथम युधिष्ठिरे सुतेषु तेजस्विषु तेषु षञ्चसु । प्रभाकरे पज्ञ्चतपा इवोन्न्ते प्रपातयामास विलोचनद्वय[६३]म्॥५३॥

तपस्विनीना स्तनपायिनस्ते दरक्कणत्कीचकदत्तकर्णा ।
वने दिनान्ते वसुधेन्द्रपुत्रा वल्केषु निद्रासुखमन्वभूवन् ॥५४॥

क्षुत्पीडया स्तनरसे कलह शिशूना
 कुन्ती तदा शमयितु कुचकुम्मयुम्मे ।
एक युधिध्ठिरधनजययोक्ष्च भाग-
 मेक समीरणसुतस्य च सविदभेजे॥५५॥


हय फलधारिण्य आसन् । फलानामग्रत पुष्प धृत्वा जायमानत्वादिति भाव 'स्याद्रज पुष्पमार्तवम्',स्यादवन्ध्य फलेग्रहि' इत्युमयत्राप्यमर । 'जन्मो त्सव'इत्यादिमि पञ्चक्ष्लोर्जलनिर्मलीभवनादिवस्तुना तेषा लोकोत्तरमाहात्म्यप्रतीतेर्वस्तुना वस्तुध्वनि॥५१॥

 तदन्विति।तदनु गुणगणैक्ष्चन्द्रताराबलादिमिरभङ्गुराया अक्षीणाया शुमयु ताया शुभयोगस्य विकाससमये वृद्धिजननकालामिन्ने समये लग्नविशेषे इत्युत्तरेणान्वय। 'घतो नीलघट इत्यादिवद्विधेयकोटावधिकावगाहिताया न पौनरु त्तयम्'इति साप्रदायिका। 'शुभयुस्तु शुभान्वित' इत्यमर ॥

 प्रजाधिप इति।असौ प्रजाधिप पाण्डुस्तेजस्विषु । तेषु पष्वसु स्लतेषु। तन्मध्य इत्यर्थ । उन्नते महति युधिष्ठिरे पञ्चतपा पञ्चाग्निमध्ये तपस्वी प्रमाकरे सूर्य इव। सूर्यस्याग्नीना पञ्चसरयापूरकत्वस्मरणादिति भाव्॥५३॥

 तपस्विनीनामिति।ते वसुधेन्द्रपुत्रा युधिष्ठिरादयो वने तपस्विनीना ऋषिपत्नीना स्तनपायिन स्तन्यरसं पिबन्त सन्तो दर ईषत्क्कणत्सु शब्दायमानेषु कीचकेषु वेणुविशेषेषु दत्तावासक्त्तो कर्णो येषा ते तथोक्त्तक्ष्च सन्त। 'वेणव कीचकास्ते स्युर्ये खनन्त्यनिलोध्दता'इत्यमर । निद्रासुखमन्वभूवन्ननुभूतवन्त । वने धात्रीस्तन्यतद्वनडोलानामसभवादिति भाव॥५४॥

 क्षुदिति। कुन्ती शिशूना क्षुत्पीडया बुभुक्षादु स्वेन हेतुना स्तनरसे विषये कलह शमयितु वारयितु तदा कुचौ कुम्भाविव तयोर्युम्मे एक कुचकुम्भ युधिष्ठिरधनजययोश्व भाग एक समीरणसुतस्य भीमस्य भाग सविभेजे विभागमकरोत् ।


निशाचरै सम बाल्ये नियोद्धमिव कौतुकी।
उत्तानशयने मुष्टिमुदग्रा मारुतिर्दधौ ॥ ५६ ॥

तत क्रमेण गतेषु कतिपयेषु वासरेषु

पद्भिरात्मपितृयोषिति भूमौ स्पर्शन परिहरन्त इवैते ।
जानुभि करसरोजसहायैक्ष्चक्त्रम चमदकुर्वत बाला ॥ ५७ ॥

आदाय भीममतिमासलमुत्तमाङ्गे
 ऽप्याघ्राय जानुकृतचङ्क्त्तममाक्ष्रमान्ते ।
बाहालतैव वहनाद्विरराम शक्ष्व-
 त्कौतूहल न तु कदाचन तापसीनाम् ॥ ५८ ॥

वृद्धतापसपुर प्रसारित वेणुदण्ङमवलम्ब्य शैशवे ।
भावयान्रिव गदापरिग्रह भाविन पवनभूक्ष्चचार स ॥ ५९ ॥


सविपूर्वाद्भजते कर्तरि लिट् । भीमस्य बह्वाशित्वादिति भाव ॥ ५५ ॥

 निशाचरैरिति । मारुतस्य वायोरपत्य मारुतिर्भीम । 'अत इञ ' इतीञ् । बाल्य एव निशाचरै सम राक्षसै सह नियोद्धु वाहुयुद्ध कर्तु कौतुकी कुतूहलवानित्युत्प्रेक्षा। उत्तान ऊर्ध्वमुखे शयने निद्रायाम । तदवसर इति यावत् । 'स्वान्निष्द्रा शयन स्वाप ' इत्यमर । उदग्रामुन्नता मुष्टिं मुकुलिताहुलीकरविन्यास्र दधौ घृतवान् ॥ ५६ ॥

 तत इति । तत क्रमेण कतिपयषु केषुचिद्वासरेषु दिनेषु गतेषु सत्स्वित्युत्तरेणैकवाक्यम् ॥

 पभ्दिरिति । एते बाला युधिष्टिरादय आत्मन पितु पाण्डोर्योषिति भार्यीयाम् । मातृस्थानायामिति यावत् । भूमौ पद्भि पादौ स्पर्शन स्पर्शे परिहरन्त इवेत्युत्प्रेक्षा । करौ सरोजे कमले इव तौ सहायौ येषो तैर्जानुभिक्ष्चक्त्रम गमन चमदकुर्वत चमत्क्रुतवन्त । जानुचार चकुरित्यर्थ । स्वागताव्रुत्तम ॥ ५७ ॥

 आदायेति । आश्रमाणामन्ते समीपे जानुभ्या कृतक्ष्चक्त्रमो येन तमतिमांसल बहुबलम । 'बलवान्मासर्लोऽसल ' इत्यमर । भीममादाय गृहीत्वा उत्तमाङ्गे शिरस्याघ्रायापि तापसीना मुनिपत्नीना बाहालता भुजलतैव वहनाद्धारणाद्विर राम । विश्रान्ताभूदित्यर्थ । रमते कर्तरि लिट् । तापसीना शक्ष्वत्पुन पुन कौतूहल तद्वहनकौतुक तु कदाचन न विरराम । अतिरमणीयत्वादिति भाव । अत्र पूर्वक्यार्थे वहनविरमणस्यातिमासलताहेतुकत्वात्पदार्थहेतुक काव्यलिङ्गम् ॥ ५८ ॥

 वृद्धेति । स पवनभूर्भीम शैशवे बाल्ये वृद्धेन स्थविरेण तापसेन पुरोऽग्रे प्रसारित वेणुदण्डमवलम्ब्य भाविन भविष्यन्त गदाया परिग्रह स्वीकारं भावय न्नभ्यसन्निवेत्युत्प्रेक्षा । चचारागच्छत् । चरते कर्तरि लिट् ॥ ५१ ॥

मुनिसुतैरशेषजुषो वने मुहुरमी नवशैशवकेलिषु।
मलिनतामनयन्त कलेवर मदकला कलमा इव धुलिभि ॥ ६० ॥

तत्र तत्र मृदुपासुषु पाण्डो पुत्रपादतलविन्यसनेन ।
छत्रकेतुकुलिशै स्फुटरेखैक्ष्चित्रवत्यभवदाक्ष्त्रमभूमि ॥ ६१ ॥

लीलास्मितै सृ[६४] क्कियुगाद्गलद्भिर्लालाजलाना पृ[६५]षतैर्बृहद्भि।
बाला दधुस्ते हृदि मौकक्तिकाना माला धुतोल्लेखनरन्ध्रसूत्रा ॥ ६२ ॥

अत्यन्तबाल्यादमृतायिताभिरन्योन्यमर्धोक्तिभिराह्वयत्सु । स भीमसेनोऽजनि पा[६६]ण्डुपुत्रेष्वर्धोक्तनामापि च पूर्णनामा ॥ ६३ ॥


 मुनिसुतैरिति । अमी युधिष्ठिरादयो मुनीना सुतैर्बामलकैरविशेष तारतम्य राहित्य जुषन्त इति तथोक्ता । तत्तुल्या सन्त । नवासु शैशवकेलिषु बाल्योचितक्त्रीडासु वने मदकला मदोत्कटा कलभा इव गजशावका इव धुलिभिपासुभि कलेवरं शरीरं मलिनता मालिन्य मुहुरनयन्त प्रापितवन्त । पासुक्रीडयेति भाव् । नयतेर्दुह्यादित्वाद्विकर्मकत्वम्। उपमालकार ॥

 तत्रेपि । आश्रमभूमि । मृदव पासव सूक्ष्मरजासि येषु तेषु तत्र देशेषु पाण्डो पुत्राणा पादयोस्तलानामध प्रदेशाना विन्यसनेन क्षेपणेन हेतुना स्फुटा रेखा लेखाकारा येषा तैश्छत्रकेतुकुलिशैक्ष्वित्रवती आलेख्यवतीवाभवदिति गम्योत्प्रेक्षा । व्यञ्जकात्रयोगात् ॥ ६१ ॥

 लीलेति । ते बाला लीलायुक्त स्मित येषु तै सृक्किणोरोष्ठप्रान्तयो युगाद्गलद्भिर्बृहद्भि स्थुलैर्लालाजलाना पृषतैर्बिन्दुभि । 'सृणिका स्यन्दिनीलाला' , 'पृषन्ति बिन्दुपृषतौ',इत्युभयत्राप्यमर । घुतानि त्यक्तान्युल्लेखनमुत्तेजन रन्ध्र सुत्र च तानि यासा ता मौक्तिकाना माला ह्रदि वक्षसि दधुरिवेति गम्योत्प्रेक्षा ॥

 अत्यन्तेति । अत्यन्तबाल्याद्धेतो । अमृतवदाचरन्तीभिरमृतायिताभि । तद्वन्मधुरामिरिति यावत् । अर्धोक्तिभिर्युधिष्ठिरभीमार्जुन इत्यादीनामर्धभागै पाण्डुपुत्रेष्वन्योन्यमाह्वयत्सु सत्सु स प्रसिद्वो भीमसेनोऽर्धमुक्त नाम यस्य तथोक्तोऽपि पुर्णे सपूर्णमुक्त नाम यस्य तथोक्त अजन्यभूतू । 'विनापि प्रत्यय पूर्वोत्तरपदयोर्लेपो वाच्य्' इति सेनपदस्य लोपेन तस्य सर्वार्थबोधकत्वादिति भाव ॥ ६३ ॥


निशाचरै सम बाल्ये नियोद्रुमिव कौतुकी।
उत्तानशयने मुष्टिमुदग्रा मारुतिर्दघौ॥ ५६॥

तत क्रमेण गतेषु कतिपयेषु वासरेषु
पन्द्रिरात्मपितृयोषिति भूमौ स्पर्शन परिहरन्त इवैते।
जानुभि करसरोजसहायौञ्चक्तम चमदकुर्वत बाला ॥ ५७ ॥

आदाय भीममतिमासलमुत्तमाङ्गे-
 ऽप्याघ्राय जानुकृतचङ्कममाश्रमान्ते।
वाहालतैव वहनाद्विरराम शश्व-
 त्कौतूहल न तु कदाचन तापसीनाम् ॥ ५८ ॥

वृद्धतापसपुर प्रसारित वेणुदण्डमवलम्ब्य शैशवे।
भावयन्निव गदापरिग्रह भाविन पवनभूश्वचार स ॥ ५९ ॥


ना नन्दनानां पुत्राणा आगमसपदा लामैश्वर्येण, पञ्चाना नन् ॥ ५५ ॥

पारिजातादीना सपदेति च । अमितपचामनल्पाम् । ' मितनखे च इति उपपदे पचे खशि 'अरुर्द्विषद्-' इत्यादिना भुम् । मुदमानन्द वभर धृतवान् । बिभर्ते कर्तरि लिट् यत्तु 'अमितमधिक पचाबभार पक्व बभार प्राप्तवानित्यर्व ' इति नृसिंह तत्तस्य 'नालकारो न शब्दस्य प्रक्रियात्र विलिख्यते' इति सूचित व्याकरणमौढथ विशदयति। यत पचेरेकाच्कत्वादाम 'कृञ्चानुप्रयुज्यते लिटि' इत्यत्र अनुत्रयोगस्य प्रसत्तयभावादिति॥

 पुत्रेष्विति। क्रमात्पोषितेषु तेषु पुत्रेषु पञ्चसु विहरत्सु ऋडत्सु सत्सु विलोकयन्त्यास्तान्पश्यन्त्या कुन्त्या अन्तरङ्ग मनो माद्या सपत्यास्तनयौ नकुलसहदेवौ यमत्वमन्तकत्व युग्मजातत्व च प्राप्याप्याप्याययामासतुरानन्दयेताम् । अत्र अन्तेकत्वेऽपि सतोषजननमित्येको विरोध । सपन्तीपुत्रत्वेऽपि तदीत्यपर । युग्मत्वेन स्वोपदिष्टविद्याद्वारा स्वपुत्रत्वेन च जननादविरोध इति क्ष्लेषप्रतिभोत्थापितो विरोधाभासालकार ॥ ६४ ॥

 तैरिति । तैर्युघिष्ठिरादिमि ॠषिपुत्रै सह दृढीकृतासु त्रिचतुरादिमेलनेन दार्ढ्य प्रापितासु वनलतासु आदरात्परिचितस्यारवब्धस्य डोलाविधेर्डोलायन्त्रस्य पर्यायलब्व ऋमप्राप्त पवमानसूनोर्भीमतस्यारोहणमवसानभूमि समाप्तिस्थान दुतमसकृदभूत् । अतिमासलतया भीमस्य वनलता बहुशस्त्रुटिता बभूवुरित्यर्थ ॥ ६५ ॥

 भीमेनेति । अन्ये सगर्भ्या सोदरा युधिष्ठिरनकुलसहदेवा भीमेन दन्त युगले विधृत स्तम्भितमद्रिनिम पर्वततुल्यम् । अत्युन्नतमिति यावत् । वनेभवं वन्यमिम गज यमारुरुह्रुरारूढवन्तस्त वन्येभ मानी विजयोऽर्जुन खयमात्मनै-


[६७][६८] [६९]

भुनिसुतैरविशेषजुषो वने भुहुरमी नवशैशवकेलिषु
मलिनतामनयन्त कलेवर मदकला कलभा इव धूलिभि ॥ ६० ॥

तत्र तत्र मृदुपासुषु पाण्डो पुत्रपादतलविन्यसनेन
छत्रकेतुकुलिशै स्फुटरेखैश्चित्रवत्यभवदाश्रमभूमि ॥ ६१ ॥

लीलास्मितै सृ [७०]क्कियुगाद्वलद्भिर्लाळाजलाना पृषतैएबृहद्भि ।
बाळा दधुस्ते हृदि मौक्तिकाना माळा धुतोल्लेखनरन्ध्रस्सूत्रा ॥ ६२ ॥

अत्यन्तबाल्यादमृतायितायितामिरन्योन्यमर्धोक्तिभिराह्वयत्सु ।
स भीमसेनोऽजनि पण्डुपुत्रेष्वर्धोक्त्तनामापि च पूर्णनामा ॥ ६३ ॥


 मु मुनिसुतैरिति । अमी युधिष्ठिराद्रुयो मुनीना सतैबालकैरविशेष तारतम्य् राहित्य जुषन्त इति तथोक्त्ता दन्तमार्गेण ----------------------------- चितुक्रीडास वले प्रगृह्य रदपथेन दन्तमर्गेण समारुरोह । मानिनामर्गे न्यपिजवित्वान्न किचिद्रीडाकरमिति भाव । अत्र मानस्य स्वय प्रगृह्यारोहण प्रति हेतुत्वात्पदार्थहेतुक काव्यलिङ्गम् ॥ ६६ ॥

 तन्विति। तदनु विधिवद्यथाशास्रमुपनीतानामुपनयनसस्कृताना क्रमेण मधुरेण मनोहरेण वयसा यौवनेन विधूत पूर्ण वपुर्यैषा तेषा शिरसा विन यस्य गौरव पुष्णन्तीति तथोक्त्तना सकलासु चतु षष्टिषु कलासु विद्यासु कौशल नैपुण्यमुन्मीलयता प्रकटयता तेषा युधिष्टिरादीना यशासि विधाविनयविवे कादिजन्या कीर्तयो बलमथनमदावलस्यैरावतस्य वान्नो रश्मेर्निवासस्य च क्षीराब्धेराकाशगङ्गाया वा युगल द्वयमपि युगपदेकदोल्लङ्धयामासुरतिचक्त्रमु । ‘घाम रश्मिनिवासयो’ इति विश्व ॥

 नवेति । मुनीना तति समूहो नवस्य तरुणिम्नो यौवनस्य लक्ष्म्या सपदा नन्दनीय मनोहरं कुरुवृषभस्य पाण्डो सुताना शरीरं नेत्रयो पात्र विषय कुर्वती । पश्यन्ती सतीति यावत् । त्रिलोक्या भुवनत्रयस्य मोहनाय स प्रसिद्ध कामो मन्मथोऽपि स्वस्य विशिखो बाण इव पञ्चधा पञ्चप्रकारोऽभूत् । किमिति वि तर्के । इत्युक्तप्रकारं मेने तर्कयामास । उत्प्रेक्षा ॥ ६७ ॥

 अथेति।अथानन्तरं कदाचित्कस्मिंश्चित्कालेऽखिलाना हरिता दिशामन्तरेषु म ध्यभागेषु निरन्तरं सान्द्र यथा तथा वलमानैर्व्याप्रुवद्भिर्मलयपवमानैर्दक्षिणवयुभि कृम्पितैश्चम्पकैश्चाम्पेयकुसुमै सपादितस्य सौरभस्य सपदा समृद्यनुकम्पित परि मलित इत्यर्थ । निलिम्पाना देवाना पन्था आकाशवीथिर्येषु ते तादृशा,निलिम्पपथा ’त्र्क्ष्क्पू --’ इत्यादिना अप्रत्यय । केसरकुसुमाना बकुलपुष्पाणा केसरशिखरेषु कि


सहकारपल्लवतल्लजपरिचर्वणगर्वायमाणकलकण्ठयुवकण्ठोत्त्कपथिकजनसदोहजीवितसदेहा वनदेवतावदनतिलकायमानतिलकावलिकलिकापलितभावुकनभोविभागा मदनहुतभुगङ्गारसद्दशकमलभृङ्गा[७१] रूमधुरससङ्गारचितमदभृङ्गारवविभवतुङ्गारहितमिथुनशृङ्गाररसां समुन्मिषद्वासन्तिकामिषेण सीमन्तिनीरतेरूदन्त दुरन्तविचि[७२]न्त्य रहसि वसन्त नृप तमिव हसन्तो वसन्तोदयवासरा मन्दमन्द[७३]मरण्याङ्कधरण्या कमपि विकासमापादयामासु ।


ञ्जल्काग्रेषु भासुराभिर्धूलीभि पुष्परजोभिर्धूसरा मलिना दशदिशो येषु ते तथोक्त्ता । मनसिजस्य मन्मथस्य विजये विषये सहकार साह्यकरण तस्मिन् चतुराणा समर्थाना सहकाराणा चूतपुष्पाणा पल्लवतल्लजा क्षेष्ठपल्लवा । 'प्रकाण्डमुक तल्लजौ' इति प्रशस्तवाचकेष्वमर । तेषा परितश्वर्वणेन गर्वायमाणाना द्दप्यता कलकण्ठयूना तरूणकोकिलाना कण्ठेन । कुहूरवेणेत्यर्थ । उत्त्क पथिकजनसदोहस्य पा थसमूहस्य जीवितसदेह एते जीवन्ति न वेति सशयो येषु ते तथोत्त्का । वनदेवताना वदने मुखे तिलकवदाचरन्तीभिस्तिलकायमानाभिस्तिलका वृक्षविशेषास्तदावल्या कलिकामि कुशलै पलितभावुका । धवलायमाना इत्यर्थ । नभोविभागा आकाशप्रदेशा येषु ते तथोत्त्का । मदन एव हुतभुगग्निस्तस्याङ्गारैरलातै सद्दशानि कमलानि रत्त्काब्जानि तान्येव भृङ्गारव सूक्ष्ममुखपात्रविशेषा । 'भृङ्गारु कनकालुका' इत्यमर । 'भृङ्गार' इति च पठ्यतेऽय शब्द । तेषु यो मधुरसो मकरन्दस्तस्य सङ्गेन । पानेनेत्यर्थ । आरचितो जनितो मदो येषा तेषा भृङ्गाणामारवविभवेन झङ्कारसमृध्द्या हेतुना तुङ्गोऽघिकोऽरहितानाम‌वियुत्त्कानां मिथुनाना स्त्रीपुसाना शृङ्गाररस सभोगसुख येषु ते तथोत्त्का । वसन्तस्य ऋतोरूदय आविर्भावो येषु ते च ते वासरा दिनानि सीमन्तिनीभि स्त्रीभि सह रते सुरतस्य सबन्धिनमुदन्त वृत्तान्तमपि दुरन्त दु खावसानक विचिन्त्यालोच्य । मुनिशापादिति भाव । रहसि वसन्तम् । वासन्तिकवैभवावलोकनाशत्त्क्येति भाव । नृप पाण्डु समुन्मिषन्त्या विकसन्त्या वासन्तिकाया भाधवीकुसुमस्य मिषेण व्याजेन हसन्त परिहास कुर्वन्त । इवेत्युत्प्रेक्षा । अरण्यम ङ्कश्चिह्न यस्या तस्या धरण्या भुवि कमप्यनिर्वाच्य विकास प्रकाश मन्दमन्द शनै शनैरापादयामासुश्चक्रु । उपमोत्प्रेक्षारूपकानुप्रासाना ससृष्टि ॥


 

कि शुकस्य वदने रुचिरत्व कि [७४]शुकस्य ह्रुदयेऽपि वशित्वम् ।
किशुकस्य कुसुमेषु नदन्ती शसति स्म मधुपालिरितीव ॥६८॥

कुरबके रवकेलिभृत सुघासधुर मधुर मधु षट्पदा ।
पपुरवापुरवार्यमपि स्मय नृपवने पवनेरितपादपे ॥६१॥

 अथास्मित्रमुना त [७५]पोवनपरिसरे पटीरगिरिबन्धुना गन्धवह्स्तनधयेन सनिधि नीयमानो मद्रज परिग्रहस्तपस्यन्तमापि मनस्यन्त क परितापसपदा न लिम्पेदित्यर्थान्तरमप्यलिगिरा बोधयन्त्यामिव वनवासन्त्यामय क्षणादेव क्षितिपतिरिक्षुधन्वनो लक्ष्यतामध्यरुक्षत् ।


 किंशुकस्येति । शुकस्य वदने चञ्चो रुचिरत्व सौन्दर्य किमिति कुत्सायाम् । शुकस्य व्यासपुत्रस्य ह्रदये वशित्व जितेन्द्रियस्वमपि किम् । न भवत्येवेत्यर्थ । मदवलोक्ने पलायत एवेति भाव । इत्युक्तप्रकारेण मधुपालिर्मृङ्गपङ्क्त्ति किंशुकस्य पलाशवृक्षस्य कुसुमेषु नदन्ती झकुर्वती सती शसति स्म ज्ञापयामासेत्युत्प्रेक्षा । शुकत्रोटिकुटिलारुणानि पलाशमुकुलानि मुनीनाभपि मोहनान्यासन्नित्यर्थ । स्वागता वृत्तम् ॥६८॥

 कुरबक इति । पवनेन बायुनेरिता कम्पिता पादपा वृक्षा यस्मिस्तस्मित्रृपवने पाण्डुराजाक्षमारण्ये कुरबमे कुसुमे। जात्येकवचन्म् । रवाञ्झङ्कारान्केलीरिच्छाविहाराक्ष्च बिभ्रतीति भृत षट्पदा भृङ्गा सुधयामृतेन समो धूर्भारो यस्य तयोक्तम् । अतएव मधुर मधु मकरन्द पपु पिबन्ति स्म । अतएवावार्य निरङ्कुश स्मयमपि मद चावापु प्राप्तवन्त । अत्र स्मयावाप्तौ कुरबकमधुपानवाक्यार्थहेतुकस्य काव्यलिङ्गस्य यमकेन सहैकवाचकानुप्रवेशसकर । दुतविलम्बितवृत्तम् ॥६९॥

 अथेति । अथ वसन्तप्रादुर्भावानन्तर पटीरगिरेक्ष्चन्दनाचलस्य बन्धुना । तदियसौरभभरितेनेत्यर्थ । अमुना गन्धवहस्तनधयेन बालमारुतेन अस्मिंस्तपोवनस्य पाण्ङ्वाक्ष्रमस्य परिसरे समीपे सनिधि स्वसानिध्य नीयमान प्रापयमाणो मम रजस परागस्य परिग्रह सबन्धस्तपस्यन्त निगृहीतेन्द्रिय तप कुर्वाणमपि क पुरुषमन्त मनसि परितापस्य सपदा समृध्द्या न लिम्पेन्न घटयेत् । इत्युक्तमर्थे एकम् । अर्थान्तरमपि अन्यमर्थे च अलिगिरा । भृङ्गारवव्याजेनेत्यर्थ । बोधयन्त्या सूचयन्त्यामिव सिथताया वनवासन्त्या माधवीकुसुमे । जात्येकवचनम् । समुन्मिषन्त्या विकसन्त्या सत्याम् । अय क्षितिपति पाण्डु क्षणादेवेक्षुधन्वनो मन्मथस्य लक्ष्यता बाणविषयत्वमध्यरुक्षत्प्राप्तवान् । रुहे कर्तरि लुड् । अर्थान्तरं तु नीयमान'इत्यन्त उभयत्र समम् ।


परिहृम तनु चित्ते बाण कामो मुमोच यत् ।
अन्तरेवातिरक्तोऽभूदव्रणस्तद्वहिर्नृप ॥ ७० ॥

क केलिदेशमुपयाम्यधुनेति ताव-
 त्कङ्केलिसवलनकल्पितचित्रशोभम् ।
माघ्र करेणुरिव साकमसौ करेण्वा
 गूढ ययौ कुरबकद्रुळतानिकुञ्जम् ॥ ७१ ॥

शाप च मृत्युप्रदमग्रजातेस्ताप च पत्यु स्मरज निरीक्ष्य ।
दूरेतरस्मिन्सुरतेऽपि देव्या डो[७६]लायमान हृदच तदासीत् ॥ ७२ ॥

चाटुप्रयोगे चतुर स पाण्डु प्रसूनतल्पे प्रविवेशिताया ।


अन्तरन्तहेतु । मद्राज्जातो मद्रज परिग्रहो भार्या । ‘पत्नीपरिजनादानमूलशापा परिग्रहा' इत्यमर । त तपस्यन्त पाण्डुमपि क सुरतसुखम् । तदुद्देशेनेति यावत् । ‘मूर्ध्नि सुखेऽप्सु कम्' इत्यमरशेष । परितापसपदा न लिम्पेदिति योज्यम् । मव्रजापरिग्रह’ इति पाठस्तु प्रामादिक । उभयार्थानुकूल्याभावात् ॥

 परिहृत्येति । यद्यस्मात्कारणात्कामो मन्मथस्तनु पाण्डो शरीरं परिहृत्य विहाय चित्ते बाण मुमोच प्रयुक्तवान् । मुचे कर्तरि लिट् । तत्तस्मान्नृप पा ण्डुर्बहि शरीरेऽव्रण क्षतरहित सन् । अतएवान्तश्चित्त एवातिरक्तो भृश शोणितोऽत्यनुरागान्वितश्चाभूत् । क्ष्लेषमूलातिशयोक्ति काव्यलिङ्गोज्जीवितेति सकर ॥ ७० ॥

 कमिति । अधुना केलिदेश क्रीडास्थान कमुपयामि गच्छामि । इति चिन्तयन्निति शेष । असौ पाण्डु माद्या साक तया सह करेण्वा गजस्निया साक करेणुर्गज इव । ‘करेणुरिभ्या स्त्री नेभे’ इत्यमर । कङ्केलेक्षविशेषस्य संचलनेन मेलनेन कल्पित कृता चित्रा शोभा यस्य तम्। कुरबकद्रु कुरुपृक्ष स एव लतानिकुञ्जो लतागृह त प्रति गूढ यथा तथा ययावगच्छत् । यातेर्लिटि ‘घातो’ इति द्वित्वे अभ्यासहस्वे ‘आत औ णल’ इति औत्वे ‘आतो लोप इटि च इति लोपे निष्पन्नेय क्रिया ॥ ७१ ॥

 शापमिति । अग्रजातेर्ब्राह्मणस्य किदमस्य सबन्धिन मृत्युप्रद शाप पूर्वोक्त्तरूप च स्मराज्जात स्मरज पत्यु पाण्डोस्ताप च निरीक्ष्य समीक्ष्य । द्वयमपि दुर्मिवार्यमित्यालोच्येत्यर्थ । तदा सुरते दूरेतरस्मिन्सनिहिते सत्यपि । एकान्तसगलत्वादिति भाव । देव्या माघ्र हृदय डोलायमानमनन्तचिन्ताक्रान्तमासीदभून् ॥ ७२ ॥

 चाटुप्रयोग इति । चाटुना प्रियवाक्याना प्रयोगे भाषणे चतुरो निपुण अतएव स पाण्डु प्रसूनतल्पे कुसुमशय्याया प्रविवेशिताया शायितायास्तस्या


क्षौम बिमेद स्मर[७७] राजघानीक्षौम कराम्मोजदलेन तस्या ॥ ७३ ॥

 तत्र तौ राजदम्पती मुनिशापबल[७८]परिचिचिक्षयेव मुहु[७९] रभङ्गुलिङ्गनमङ्गलतरङ्गितकुचकुम्भसभृतघर्मजलनिर्मितमदनयौवराज्यामिषेकम घरितंधुरसमधुरिमाघरबि[८०]म्बर्म्विडम्बिताम्बरचरकुटुम्बिजीवनमतिजवपम्फुल्यमानघम्मिल्लविगलदविरलबकुलमुकुलपुनरूक्तपुष्पतल्पमविगणितवीणागुणकणित[८१]मणितमसृणितमतिचिरप्रमु[८२] षितमसमशारसमरमुन्मी[८३]लयामासतु ।

आयुष सतति दीर्घामावह्न्नपि पौरव ।
आयुष सततेरन्तमाजगाम रतेरिव ॥ ७४ ॥


माघ्रा सबन्धिन स्मरराजघान्या मन्मथमहानगरस्य क्षौम प्राकारं क्षौम दुकूलम्।'क्षौम दुकूले प्राकारे'इति विश्व। करमम्भोजमिव तस्य दलेनाग्रेण बिमेद शिथिलयामास ॥ ७३ ॥

 तत्रेति। तत्र प्रसूनतल्पे तौ राज्ञी च राजा च राजानौ तौ दम्पति माद्री पाण्डू भुने किदमस्य सबन्धिन शापवलस्य परीक्षितुमिच्छा परिक्षितुमिक्छा तथेवे त्युत्प्रेक्षा । परिपूर्वादीक्षते सन्नन्तादप्रत्यय । अभङ्गुरेणातिद्दढेनालिङ्गनमङ्गलेन परिरम्भसुखेन तरङ्गितयो प्रवुद्ध्यो कुचकुम्भयो सभृतेन पूर्णेन घर्मजलेन निर्मितो मदनयौवराज्याभिषेको यास्मिस्थयोत्कम्। अधरितस्तुच्छिकृतो मधुरसस्य मधुरिमा माधुर्य येन तेनाघरेण बिम्बेनेव विडम्बितमनुकृतमम्बरचरकुटुम्बिना देवाना जीवनमसूत यस्मिस्तथोत्कम्। अतिजवेनातिवेगेन पम्फुल्यमानाच्छि थिलायमानाध्दम्मिल्लात्सयतकचभाराद्विगलविरलैर्बकुलमुकुलैरशोकपुष्पे पुन रुक्त द्विगुणीकृत पुष्पतल्प यस्मिस्थथोक्त्तम्। अविगणित तुच्छित वीणाया गुणकणित तन्त्रीनादो यैस्तैर्मणितैर्मसृणित निबिडितम्। अतिचिरं भुनिशापप्रमृत्येतत्क्षणपर्यन्त प्रमुषित तस्करितमसमशरस्य पञ्चबाणस्व समरं युद्धम्। सुरतमिति यावत्। उन्मीलयामासतु।अनुबभूवतुरित्यर्थ॥

 आयुष इति। पौरव पाण्डुरायुष आयुर्नामराज्ञो जीवितकालस्य च सलर्ति वशसमूह च दीर्घा पुत्रसपत्तया विस्तृतामावहन्। बिभ्रन्नपि सन्नित्यर्थ। आयुषो जीवितकालस्य सतते समूहस्य रतेरिवान्त समाप्तिमाजगाम प्राप्तवान्। रत्यन्तसमकालस्तस्य जीवितान्तोऽभूदित्यर्थ।क्ष्लेषानुप्राणितो विरोधाभासालकार॥७४॥


 

नृपस्य दूरीकृतपाशसगम यम विहायैकमुपेयुषो वधूम् ।
अजस्रमूरीकृतपाशसगमो यमोऽपर सनिदधे लतागृहे ॥ ७५ ॥

आलिङ्गनेन कुरवो हरिणेक्षणाना-
 मामोदगौरवभृतो भुवि सर्व एव ।
तन्मध्यभागपि त[८४] था स कथ नु पाण्डु-
 रालिङ्गय मद्रतनयामवधि प्रपेदे ॥ ७६ ॥

निद्रया किळ निमीलित मृतेर्मुद्रया निजमुदीक्ष्य वल्लभम् ।
उद्ववा करमुदस्य विह्वला मद्रराजतनया रुरोद सा ॥ ७७ ॥

तन्निशम्य सम[८५] मेत्य कुमारैस्तादृश पतिमवेक्ष्य रुदन्त्या ।
भोजपुणवभुवोऽ[८६]श्रुनिपातैर्भूरपि स्वयममुञ्चत वाष्पम् ॥ ७८ ॥


 नृपस्येति । दूरीकृतो निरासित पाशस्य ससारबन्धस्य सगम सब न्धो येन तमेक यममिन्द्रियनिग्रहरूप योगविशेष विहाय त्यक्त्वा लतागृहे वधू माद्रीमुपेयुष सगतस्य नृपस्य पाण्डोरजस्र नित्यमूरीकृत पाशस्यायुधविशेषस्य सगमो येन तथोक्त पाशायुधधारी अपरोऽन्यो यमोऽन्तक सनि दधे सनिहितोऽभूत् । अत्रेष्टार्थोद्यमादनिष्टावाप्तिरूपो विषमालकारभेद । वशस्थवृत्तम् ॥ ७५ ॥

 आलिङ्गनेनेति । सर्व एव कुरव सर्वेऽपि कौरवा सर्वोऽपि कुरबकवृक्षक्ष्च भुवि हरिणेक्षणाना स्त्रीणामालिङ्गनेनामोदस्य सतोषस्य परिमलस्य च गौरवमतिशय बिभ्रतीति तथोक्ता । अभवान्निति शेष । अन्यत्र गौरवेण भृत परिपूर्णोत्यर्थ । तेषा कुरूणा तस्य कुरबकऋक्षसामान्यस्य मध्य भजतीति तथोक्तोऽपि स पाण्ड श्वेतपुष्प कुरबकवृक्षश्च । मद्रतनया माद्रीमालिङ्गथ । तदालिङ्गनेनेत्यर्थ । तथाविध तादृश भरणम् । कथ न्वित्याश्चर्ये । प्रपेदे प्राप्तवान् । कुरबकतरुस्तरुण्यालिङ्गनेन पुष्यतीति प्रसिद्धि । अत्रापि विरुद्धकार्योत्पत्तिरूपो विषमभेद । अर्थान्तरप्रतीतिस्तु ध्वनिरेव अभिधाया प्रेरणेन नियन्त्रणाल्लक्षणा याश्च बीजाभावादिति ॥ ७६ ॥

 निद्रयेति । सा मद्रराजतनया निद्रया। किलेति सभावनायाम् । निद्रयेव स्थितया मृतेर्मरणस्य सुद्रया निमीलित मुकुलिताक्ष निज वल्लभ पाण्डुदीक्ष्य विहवळा सभ्रान्तचित्ता सती करमुदस्य हस्तमुद्धृय्य उद्रवा उच्चै शब्दायमाना सती रुरोद । रथोद्धतावृत्तम् ॥ ७७ ॥

 तदिति । तन्माीरोदन निशम्य श्रुत्वा कुमारैर्युधिष्ठिरादिभि सममेत्यागत्य तादृश मृत पतिमवेक्ष्योद्वीक्ष्य रुदन्त्या भोजपुगवभुव कुन्त्या अक्ष्रुनिपातैर्बाष्पर्षैर्भूरपि खय बाष्पमूष्माण चामुञ्चत मुक्कवती । राजभार्यात्वादिति भाव ।


माघ्रा त[८७]यानुमृतया महितस्य राज्ञो
 निर्वर्तितासु तनयैर्निस्विलक्रियासु।
भुयोऽपि तौ सुमनसा पुरत प्रकाश
 जायापती तु सुरतोत्स्वमन्वभूताम्॥७९॥

 तदनु नव्यवैधव्यब[८८]हुव्यथाया पृथाया पुरतो निर्मर्यादपितृशोकवि[८९]दार्यमाणधैर्य[९०]सोदर्यजनपरिवार्यमाणाय हृदि विदितनिखिलधर्मजाताय ध[९१]र्मजाताय महत्यामपि विपत्तया वै[९२]यात्येन भवितव्यमिति राजन[९३]यनिगमाङ्कुर प्रकाश्य् काश्यपादयो दयोपेता शतस्ड्मुशृङ्गनिपुगास्तुड्गमणिसौध[९४]शृङ्ग कुलक्रमागत कुरुनगरमेतानवतारयामासु।


तप्ताया भुवी वर्षे घूमाकृतिरुष्मा भवतीति तत्त्वम् । मुचे कर्तरि लिट् । 'बाष्पनैत्रजमलोष्म्णो'इत्यमर । क्ष्लेषमूलातिशयोक्ति ॥ ७८ ॥

 माघ्रति । तया स्वसगमेन मृत्युदायिन्या अनुमृतया । अग्निं प्रविष्टये त्यर्थ । माद्र्घा महितस्य सतुष्टस्य राज्ञ निखिलासु सकलासु क्त्रियासु और्घ्वदे हिकेषु तनयैर्युधिष्टिरादिभिर्निर्वर्तितास्वनुष्टितासु सतीषु । तौ जायापती माद्री पाण्डू प्रकाशमुज्ज्वलम् । मरणभीत्यभावादिति भाव । सुरतोत्सव सभोग देवत्वप्राप्तिरुपमुत्सव च भूय पुनरपि सुमनसा देवाना पुरतस्त्वग्र एवेत्यर्थ । अन्वभूतामनुभूतवन्तौ । 'सुरत मैथुनेऽपि स्याद्देवत्वे सुरता स्त्रियाम्' इति विश्व ॥ ७९ ॥

 तदन्विति । तदनु पाण्डुसस्कारानन्तर नव्येन नूतनेन वैधव्येन भर्तृरा हित्येन बह्वयो व्यथा दु खानि यस्यास्तस्या पृथाया कुन्त्या पुरतोऽग्रे निर्मर्योदेनापारेण पितृशोकेन विदार्यमाण मिद्यमान धैर्य यस्य तेन सोदर्यजनेन भ्रातृलोकेन परिवार्यमाणाय । हृदि मनसि विदित ज्ञात निखिलाना धर्माणामा पत्कालिकाना जात समूहो यस्य तस्मै । वर्माघमाज्जाताय धर्मजाताया युधिष्टिराय महत्या दुष्पारायामापि विपत्यामापदि वैयात्येन धैर्येण भवितव्यमू । धीरो भवेदित्यर्थ । 'धृष्टे धृष्णुर्वियातक्ष्च' इत्यमर । इत्युक्त्तप्रकार राज्ञा नयनिगमस्य नीतिशास्त्रस्याड्कुरमर्थबोध प्रकाश्योपदिश्य काश्यप आदिर्येषा तथोक्ता शतशृङ्गनामपर्वते ये मुख्या मुनिपुगवा ॠषिक्ष्रेष्टास्ते दययोपेता सन्त तुङ्गानि मणिमयसौधाना शृङ्गणि शिखराणि यस्मिस्तथोक्त कुलऋमेण वशानुपूर्व्या आगत प्राप्त करुनगर हस्तिनपुरमेतान्युधिष्टिरादीनवतारयामासु प्रापयामासु । तरतेर्ण्यन्तस्य 'गतिबुद्धि-'इत्यादिना द्विकर्मकत्वम् ॥


मन्दुमन्दमुपेत्य तत्र स[९५]दसो मत्पाण्दडुपुत्राङ्कुरा
 केति प्रेमपुर प्रसारितकर कुर्वन्द्दढालिङ्गनम् ।
स्पर्शस्पर्शमिमान्निजाङ्कगमितान्भ्रातु स्मरन्कौरव-
 श्र्योतद्भिर्नयनाम्बुभि स विदधे शोक नदीमातृकम् ॥ ८० ॥

पाण्डवेषु दृढतापरिणाहप्रायरूपत[९६]नुसपदियत्ताम् ।
स्पर्शन विदधतैव दृशान्ध पाणिना परिममौ धृतराष्ट्र ॥ ८१ ॥

दत्त्वा त[९७]त्तप्रत्यह यद्यदिष्ट यावत्स्वेषामात्मजानां शतेऽपि ।
पाण्डो पुत्रेष्वम्बिकासूनुरेतेष्वेकैकस्मिन्प्रेम तावद्बबन्ध ॥ ८२ ॥


 मन्दमिति । तत्र हस्तिनपुरे स प्रसिद्ध कौरवो धृतराष्ट्र सदस आ स्थानमण्डपान्मन्दमन्द शनै शनैरुपेत्यागत्य । अन्धत्वादानन्दपारवश्याद्वेति भाव । मम पाण्डो पुत्रा अङ्कुरा इव ते क्क कुत्र । इति वदन्निति शेष । प्रेम्णा पुर प्रसारितौ करौ यस्य तथोक्त सन् दृढ यथा तथालिङ्गन कुर्वेश्च सन् । अथालिङगनानन्तर निजमङ्क गमितान्प्रापितानिमान्युधिष्ठिरादीन्स्पर्शस्पर्श स्पृष्ट्वा स्पृष्ट्वा। आदरात्पौन पुन्योक्ति । आभीक्ष्ण्ये णमुलो द्विर्भाव । भ्रातु पाण्डुम् । 'अधीगर्थ-' इत्यादिना कर्मणि षष्टी । स्मरन्सन् । एकसबिन्धज्ञानस्यापरसबन्धिस्मारकत्वादिति भाव । च्योतद्भिर्धारयमाणैर्नयनाम्बुमिर्बाव्यै शोक पाण्डुसबन्धि नदी माता चर्धयित्री यस्य तथोक्त नदीमातृक विदघे चकार । शार्दूलविक्रीडित वृतम् ॥ ८० ॥

 पाण्डवेष्विथि । दृशान्धोऽक्ष्णा काण स धृतराष्ट्र पाण्डवेषु या दृढताङ्गढर्थ परिणाह ऊर्ध्वाधस्तिर्यग्विस्तार प्रायो वयो रूपमाकृतिस्तनु शरीरं च तासा सपद समृद्धेरियत्तामिदमेतावदिति परिमाणविशेष स्पर्शन पाण्डव स्पर्श विदधता कुर्वता पाणिना स्वहस्तेनैव परिममौ मान कृतवान् । माते कर्तरि लिट् । अत्रान्धत्वस्य पाणिकरणकमाननिर्धारणहेतुत्वात्पदार्थहेतुक काव्य लिङ्गम् । स्वागतावृत्तम् ॥ ८१ ॥

 दत्त्वेति । अम्बिकासूनुर्धृतराष्ट्र प्रत्यह दिने दिने यद्यद्वस्तु तेषा पाण्डवाना मिष्ट काक्षित भवति तत्तद्दत्त्वा । तेभ्य इति भाव । खेषां स्वीयानामात्मजाना शतेऽपि पुत्रशतकेऽपि यावत्प्रेमास्ति तावत्प्रेम पाण्डो पुत्रेष्वेकैकस्मिन्युधिष्ठि रादौ बबन्ध घटितवान् । भ्रातृवात्सल्यदिति भाव । शालिनीवृत्तम्- 'शालि न्युक्ता म्तौ तगौ गोऽब्धिलोकै' इति लक्षणात् ॥ ८२ ॥


 एव वत्सभावेऽपि भक्तिमत्सु तेषु निजपितृवत्सलतामसकृत्समीक्ष्य मत्सरेण दु[९८]र्मनायमानो हृदयालवाले सु[९९]योधनो राघेयप्रधानदु[१००]र्बोधनमेधोत्सेधसविधधरणिरुहमधिरूढाम[१०१]कुतोनुरोधा विरोधविषवीरुधमेधाचक्त्रे ।

तीव्रोदयानविनयान्दधता क्त्रमेण
 दूर्योधनाद्यसुहृदा दुरहकृतीनाम् ।
पट्टामिषेकमभिलष्यति फा[१०२]लदेशे
 कुट्टाकभावकुतुक कुरुते स्म भीम ॥८३॥


 एवमिति । वत्सभावे बाल्ये भक्तिमत्सु । स्वस्मिन्निति भाव । तेषु पाण्डवेषु । एवमुक्तविधा निजस्य पितुर्धृतराष्ट्स्य वत्सलता प्रेम समिक्ष्य द्दष्टवा ज्ञात्वा दुर्मनाय मान खिद्यन् । अतएव सुयोधनो दुर्योधनो मत्सरेणान्यशुभद्वेषेण हेतुना । मत्सरोऽन्यशुभद्वेषे तद्वत्कृपणयोरपि इति विश्व । राधेय कर्ण प्रधानो मुख्यो येषा तेषा कर्णशकुनिदु शासनाना दुष्ट बोधन प्रेरण यस्यास्तादृशी मेधा स्वबुद्धिरेवोत्सेधसविधधरणीस्ह उन्न्तान्तिकवृक्षस्तमधिरुढाम् । तस्मिन्वेल्लितामित्यर्थ । अकुतोनुरोधा निरङ्कुशा विरोध पाण्डवेषु वैर स एव विषवीरुदूत्सनाभलता ता हृदयमेवालवाल वृक्षमूलवर्तुलसेतुस्तस्मिन्नेवाचक्रे वर्धयामास । अत्र पाण्डवेषु धृतराष्ट्प्रेमदर्शनस्य दुर्योधनखेद प्रति तस्य मत्सर प्रति तस्य विषवीरुद्वर्धन प्रति च हेतुत्वादङ्गाङ्गिभावसकीर्णेन काव्यलिङ्गन्नयेण सकीर्णसमस्तवस्तुवर्ति सावयवरूपकम् ॥

 तीव्रेति । तीव्रो दारुण उदय आविर्भावो येषा तानविनयान्दुष्टचेष्टितानि दधताम् । कुर्वतामित्यार्थ । दुरहकृतीना निष्फलाहकाराणा दुर्योधन आदिर्येषा तेषामसुहृदा शत्रूणा सबन्धिनि पट्टाभिषेकमभिलष्यति कामयमाने फाल देशे ललाटे कुट्टाकभाव मुष्टिकुट्टने कुतुक कौतूहल भीम कुरुते स्म । कुट्टाक पाणिकुट्टनम् इति शब्दार्णवे । भीमो न मृष्यतीति दुर्योधनादयो यौवराज्याय निराशा बभूवुरित्यर्थ ॥८३॥


पञ्चधा प्रवहन्तीना पवनात्मज एव स ।
कौरवक्रोधसिन्धूना क्रमात्सगमभूरभूत् ॥८४॥

हत्य्नन्तमट्टकविक्रृतौ चम्पूभारते प्रथम स्तबक।


 पञ्चधेति । स प्रसिद्ध पवनात्मजो भीम एव पञ्चवा पङ्चकार प्रवहन्तीना कौरवाणा दुर्योधनादीना क्रोधा एव सिन्धवो नद्यस्तासा क्त्रमात्प्रायेण सगमभूर्मेलनदेशोऽभूत्। युधिष्ठिरादीना भीमबलव्यपाक्ष्रयत्वात्तद्विषयक्रोधानामपि भीम एव पर्यवसानमभूदित्यर्थ ॥ ८४ ॥

इति क्षीसदाशिवपदारविन्दवन्दनानन्दसान्द्रस्य कुरविकुलचन्द्रस्य

रामकवीन्द्रस्य कृतौ चम्पूभारतव्यारयाने लास्याभिख्याने

प्रथम स्तबक ।

 एकदा तु ते स  [१०३]र्वे सुपर्वसरित सलिलेषु वि[१०४]हृत्य समुत्तीणा

वीचीमिरनीचीरुत्कूलितफेनकूटेष्विव पटगृह[१०५]वाटेषु परिगृहीतमनोहराम्बरपटीरहाराभ्यवहारा कुमारा कु[१०६]शलकुशीलवकुलशीलितविचित्रवादित्रकलशीरवविवशीकृतम[१०७]नस सुखमासामासु ।

रहसि नलिनतल्पे रत्नपर्यङ्कल्पे
 दिनविरतिसमीरै सेव्यमान स भीम ।
तटभुवि कुसुमाना तादृशैर्गन्धूपुरै-
 रधिकमलसताया हानिदद्रौ निदद्रौ ॥१॥


 'तीब्रोदयानविनयान्' (९१८३) इत्यत्र पूर्वस्तबके दुर्योधनाद्यसुहृदविनयाना प्रक्रान्तवात्तान्निविशेषतोऽस्मिन्प्रपञ्चयति--एकदेति । एकदा कदाचित् । तु शब्दो वाक्यालकारे । ते सर्वे राजकुमारा वार्तराष्ट्रा पाण्डवाश्च सुपर्वणा देवाना सरितो गङ्गाया सलिलेषु विहृत्य जलक्रीडा कृत्वा समुत्तीर्णास्तीर प्राप्ता सन्तोऽनीचीभिरुन्नताभिर्वीचीभिस्तरङ्गैरुत्कूलितेषु तीर प्रापितेषु फेनाना डिण्डीराणा कूटेषु राशिष्विव स्थितेष्वित्युत्प्रेक्षा । पटगृहाणा वाटेषु कक्ष्यान्तरेषु परित सर्वत्र गृहीता मनोहराश्चाम्बराणि वस्त्राणि, पटीराश्चन्दना , हारा मणि सरा अभ्यवहारा भोजनानि च यैस्तथोक्ताश्च सन्त कुशलाना शिक्षाभ्या साम्या निपुणाना कुशीलवा गायका । 'गायकास्तु कुशीलवा' इत्यमर । तेषा कुलेन द्वन्देन । 'कुशीलवबालक-' इति वा पाठान्तरम् । शीलिताना ताडिताना विचित्राणा वादित्राणा च चतुविधवाद्याना वीणावेणुमृदङ्गतालादीना कलशीना घटवाद्याना च रवैर्मधुरशब्दैविवशीकृत परवशीकृत मनो येषा तथोक्ताश्च सन्त सुख यया तथा आसामासुरवर्तन्त । 'दयायासश्च' इति कर्तरि लिय्या मन्तादसतेरस्तेरनुप्रयोग ॥

 रहसीति । स सुयोवनादिक्रोधपात्र भीमस्तादृशै । मनोज्ञैरित्यर्थ । कुसुमाना गन्धपूरै परिमलपरम्पराभि (करणे ) अलसताया श्रमस्याविक यथा तथा हानिं क्षतिं घन्ति खण्डयन्तीति हानिदा द्रवो वृक्षा यस्या तस्या तटभुवि गङ्गातीरे दिनविरतिसमीरै सायतनवायुभि सेव्यमान सन्' रहसि रत्नपर्यङ्ककल्पे मणिमञ्चतुल्ये। सादृश्ये कल्पप्प्रत्यय । नलिनतत्पे पद्मशग्याया निदद्रौ सुप्तवान् । निद्राते कर्तरि लिट् । मालिनीगृत्तम् ॥१॥


 अथ निशीये तथाभुतस्य तस्य जिघासया कुरुनरेन्द्रनन्द्रेनेन चोदितैनेरेन्द्रेरुपेत्य युगपदेव झटिति नि[१०८] भृत समुद्धटितेषु नियत्रणपेटकेषु

सुते पितृस्वाढिमसप्रदायशुशुत्सयेव क्ष्वसनाशनेन्द्रा।
समीरसूनु समुपेत्य जिह्वाबहि प्रसारान्बहुशो वितेनु ॥ २ ॥

सुप्तस्य तस्य तु सुयोधनभृत्यमुक्त्ता
 वाताशनाक्ष्च सकला वनदेवताक्ष्च ।
आशीर्दूय वपुषि चायुषि च प्रतेनु
 पूर्वो न तत्र चरमैव पुपोष वीर्यम् ॥ ३ ॥

मर्मदत्तद[१०९]शना भुजङ्गमा मारुतेर्वपुषि सुप्तिभूऱूह ।


 अथेति । अथ स्वापानन्तर तथाभूतस्य सुस्वसुप्तस्य भीमस्य जिघासया हन्तुमिच्छया कुरुनरेन्द्रनन्दनेन दुर्योवनेन चोदितै प्रेरितैर्नरेन्र्विद्रैषवैद्यै । 'न रेस्द्रो विषवैद्याऽपि' इति विक्ष्व । निभृत गूढ यथा तथा उपेत्य युगपत् एकदैव नियन्त्रणपेटकेषु सर्पबन्धनमञ्जूषासु झटिति द्रुत समुद्धाटितेषु विहतेषु सत्स्वित्युत्तरेणैकवाक्यम् ॥

 सुत इति । क्ष्वसनो वायुरशनमन्न येषा तेषामिन्द्रा सर्पक्ष्रेष्ठा सुते वायुपुत्रे भीमे पितुर्वायो सबन्धी य स्वादिमा अन्नमाधुर्य तस्य य सप्रदाय पारम्पर्येण सक्त्रमण तस्य शोधितु परीक्षितुमिच्छा शुशुत्सा तयेवेत्युत्प्रेक्षा । कारणगुणस्य कार्ये सफमणपरीक्षयेबेति यावत् । समीरसूनु भीम सम्यगुपेत्य जिह्वाना वहि प्रसारन्बिहुशोऽधिक वितेनुक्ष्चनु । उपजातिपृत्त्म् ॥ २ ॥

 सुप्तस्येति । सुयोघनस्य भूत्यैर्मुक्त्ता प्रयोजिता वाताशना सपाक्ष्च सकला वनढेवताक्ष्च सुप्तस्य तस्य भीमस्य । तुश्हाब्द क्रमार्थक । वपुषि शरीरे आयुषि च । 'आशिषोदर्ष्ट्रया शुभप्रार्थनायाक्ष्च प्रतेनु । प्रत्येकनिवेश्यामासुरि त्यत्थ । ’आशी शुभाशसाहिढष्ट्रयो' इत्यमर । तत्र आशीर्दूयस्य मध्ये पूर्वा प्रथमा सर्पदष्ट्रा वीर्य मारणसामध्ये न पुपोष न रक्षितवती । किंतु चरमा द्वितीया वनदेवता शुभप्रार्थनैव वीर्य चिरजीवित्वकरणात्मक पुपोष । खलजनविपन्नान्सतो देवा एव रक्षन्तीति भाव । वसन्ततिलकावृत्तम् ॥ ३ ॥

 मर्मेति । भुजङ्गमा सर्पा पूर्वोक्त्त मारुतस्यपत्य पुमान् मारुतिर्भीमस्तस्य वपुषि शरीरे भर्मसु आयु स्थानेषु दत्ता निहिता दशना दष्ट्रा यैस्तयोक्त्ता सन्तो


 मुष्टिमेयतनवो विरेजिरे मूलिका इव बहिर्विनिर्वर्गता ॥ ४ ॥

 [११०]अन्येघुरपि पुनरजीवन्त निद्रारुनयनरजीव त स सुधधी स्निग्ध इव [१११] सजग्धिकेलिकायाम[११२] रालिकदपितकवलनिचोलितकरालगरलविह्वल प्रह्वल[११३]म्बितशिरस रज्जुमि परिणाह्य परिणाहिनीभिरसुह्यदा [११४]ह्र्दयशूलमपि शूलकीलिते निर्जरसरिदन्तर्जले विसर्जयमास ।

तेशा तदानी वृतराष्ट्रजाना तीरे च नीरे दिविषत्तटिन्या ।


बहिएभूमेरूर्ध्व विनिर्गता मुष्टिना मातु योग्या मेया तनुर्यासा ता । सुप्तिभूरुह शयनवृक्षस्य मूलिका मूलनीव विरेजिरे . उत्प्रक्षा । रथोद्धतावृत्तम् ॥ ४ ॥

 अन्येघुरिति । मुग्धा मूढा धीर्यस्य तथोक्त्त स दुर्योधन । साक्षात्सर्पदशनेऽप्यमृतस्य विषदापनेन पुन्स्तच्चिन्तनादिति भाव । स्निग्ध सुह्रिदिव । कपटमित्रमिति यावत् । अन्येघु परस्मिन्दने । पुन सर्पदशनेपीत्यर्थ .आजिवन्त प्राणान्वारयन्त निद्रया अरुणॆ नयने राजीवे कमले इव यस्य तम् । " बिसप्रसूनराजीव" इति पद्यपर्यायेष्वमर । सजग्धिकेलिकाया सहभोजन्क्रीडायामारालिकै सूद्रै ." आरालिक आन्धसिका " इति पाचकपर्यायेष्वमर । दापितैकवलैर्ग्रासैर्निचोलितेनान्ताहितेन करोलेन भीषणेन गरलेन विषेण । तद्भक्षणेनेति यावत् । विह्वल विभ्रान्तमत एव प्रह्वलम्बित शिरो यस्य तथोक्तम् । असुह्रुदा शत्रूणा ह्रुदये वक्ष स्थेले शूलम् । तद्वहु ख्जनकमित्यर्थ । त भीम परिणाहिभिरायताभी रज्जुभि परिणाह्य बन्धयित्वा शूलैरायुधविशेषै कीलितेऽवोबन्धिते निर्जरसरितो गङ्गाया अन्तर्जले जलमध्ये विसर्जयामास पतितवान् । भृत्यैरिति शेश ॥

 तेशमिति । तदानी तेशा धृतराष्ट्रजाना दिविषत्तटिन्या गङ्गयस्तीरे तटे नीरे जले च प्रवीर मरुत्सुत भीम मरयितु क्रमात् सारा द्दढा गुणा सूदा एकत्र । अन्यत्र रज्ज्वक्ष्च साधनता कारणत्वमवापु प्राप्तवन्त । कारणान्यभूवन्नित्यर्थ । सूदैस्तीरे विष प्रदाप्य नीरे रज्जुभिर्बन्धयित्वा पातितत्वादिति भाव् । गुणोऽप्रधाने रुपादौ मौर्व्या सूदे व्रिकोदरे इति विश्व; सारा श्रेष्टा गुणा शौर्यधैर्यादयस्त भारयितु साधनतामवापु । तस्य ताद्दग्गुणराहित्ये तस्म्मिन्नेव वार्तराष्ट्राणा तथा वैराप्रसक्तेरिति भाव । अत्रार्थे गुणाना दोषीकरणाल्लेशालकार । ’लेश स्याद्दोषगुणयोर्गुदोषत्वकल्पनम् ’ इति लक्षणात् । पूर्वत्र च


 मरुत्सुत मारयितु [११५]प्रवीर सारा गुणा साधनतामवापु ॥५॥

 तत पाताल[११६]मुवि तदागमनकौतुकिना वासुकिना समानित स धृतिमानितस्ततोऽष्टासु दिशासु तदनुगुणपरिगणन दिनगणमत्ययशङ्किमिरितरैरपत्यै सह विचित्य '[११७]हा वत्स रिपुभर्त्सन भीम, क वा निषीदसि'इति विषीदनत्या कुन्त्या नवममपि वासरमनवमम॓व सजनयन्प्रभञ्चनभूरमृताञ्चनैरिव हशौ रञ्चयामास ।

 आगतस्य तस्य मदावमलायुतबलावहाना पृदाकुपरिषदुपदापित-


सूदरज्ज्वो रोषमित्तिकाभेदाध्यवासायमुलातिशयोक्ति । द्वयोरप्येकवाचकानुप्रवेश सकर । अमिन्नपदबोध्य नानालकारघटितत्वम् । तॡक्षणप्रपञ्चो मदीय मकरन्दझर्या द्रष्टव्य । सारा विषदा । "सारस्तु गरदे हढे" इति विक्ष्व ॥५॥

 तत इति । तत पातनानन्तरम् । धृति र्वेर्यमस्यास्तीति वृतिमान्प्रभञ्जनभूवी युपुत्र पातालभुवि तस्य भीमस्यागमनेन कौतुक कुतूहलमस्यास्तीति कौतुकिन॔ वासुकिना सर्पराजेन समानित अमृतरसफ़लशप्रदानादिना बहुमानित सन् अत्यय स्वमरण शङ्कन्ते मन्यन्त इति शङ्किभि इतरैर्युघिष्टिरादिभिरपत्यै पुत्रै सह् । अष्टासु दिशासु दिक्षु । 'आप चैव हलन्ताना यया वाचा निश दिशाु'इत्यनुशासनादाकारान्तत्वम् । तासामष्टदिशामनुगुणमुचित परिगणनम ष्टत्वसरव्या यस्य तम । दिनाना गणम् । अष्टौ दिनानीत्यर्य । इतस्ततो विचि त्यान्विष्य । हेति खेदे । हे वत्स,हे रिपूणा भर्त्स॔न तर्ज॔न, हे भीम । हेति सर्व प्रयोज्यम् । क्क कुत्र वा निषीदसि तिष्टसि । इत्युकत्वेति शेष । विषीदन्त्या शोचन्त्या कुन्त्या नवम नवसख्यमपि वासर दिनमनवम नवसरव्यारहितम् अवम शुन्यो न भवतीति तयोक्त च । सजनयन्कुवन्सन् ।जतएव विरोघा भासालकार । अमृतमयैरञ्जनैरिव हशौ नेत्रे रञ्जयामासानन्दयामास । तय द्दष्टोभूदित्यर्थ ॥

 आगतस्येति । आगातस्य । पातालादिति शेष । तस्य भीमस्य सबन्धि मदावलानाभयुतस्य । दशसहस्त्रमदगजानामित्यर्थ । चल यत्तस्यावहाना सपादकाना पृदाकुपरिषदा सर्पसमाजेनोपदापितानामुपायनीकृताना दशकलशानाम् । तत्परिमिताचामित्यर्थ । पीयूषणाममृताना निषेवणेन पानेन विशेषितोऽतिशायित परिपोषो वृद्धिर्यस्य तयोक्त गात्र शरीर (कर्तृ) सवित्र्या जनन्या भुजान्तरे वक्षसीव सोदराणा युघिष्टिरादीना च कौरवाणा दुर्योधनादीना च ह्रदये मन स्यपि क्रमान्मोदसपत्सतोषसमृद्धि विषादसपहू खसमृद्धिक्ष्च ते न ममतु


दशकलशपीयूषाणा नि[११८]षेवणेन विशेेेषितप[११९]रिपोषगात्र सवित्री मुजान्तर इव सोद[१२०] रकौरवहदयेSपि मोढविषादसपदौ न ममतु |

 तदनन्तरम् ।

काष्टा परा कार्मुककौशमस्य काष्टा परास्तानपि तद्यशोSपि |
प्रज्ञाद्दगारोपयितु प्रव्रुत्तो व्यज्ञापयद्विष्णुपदीतनूजम् ॥ ६ ॥

सोSपि कृृत्यविदामप्रणीरपरेणेव शरजन्मना कृपेण बहुकृपेण निरवद्यवीरय[१२१]शोनिषद्या चापविद्यामापाद्यापि ता पुनरुत्त्कयितु दिशिदिशि जैत्रगुण पौत्रगण मह्ता धननिवहेन सह् विविधधनुरागमप्राणस्य द्रोणस्य चरणयो[१२२]रुपदीकचकार |


मिति न प्रापतु | कुन्ती तमालोक्यालिङ्गितवती, युधिष्ठिरादयो जहर्षु, दुर्योवनादयक्ष्चिखिदुरित्यर्थ ॥

 तदनन्तरमित्युत्तरेणान्वय ॥

 काष्ठामिति तदनन्तर प्रज्ञा बुद्धिरेव द्दद्दयन यस्य स अन्धो वृतराष्ट्र स्तान्युविष्ठिरादीन्दुर्योधनार्दीक्ष्च कार्मुककौशलस्य वनुविद्याया परा काष्ठा निरवधिकोत्कर्षमारोपयितु प्रापयितु तेषा युधिष्ठिरादीना दुर्योवनादीना च यशकीर्ति परा उत्कषभित्रा काष्ठा दशापि दिश आरोपयितुमपि | 'काष्ठोत्कष म्थितौ दिशि' इत्यमर | विष्णुपद्या गङगायास्तनूज भीष्म व्यज्ञापयद्विज्ञापितवान् | यतु 'परा अन्या काष्टा परराष्ट्रणि' इति नृसिह, तत्र | तत्कीर्ते स्व राष्ट्व्यापनोप्रतील्यापत्त्या प्तत्प्रकर्षत्वदोषप्रसङ्गात् | अत्रानेकक्रियायौगपद्यात्समुञ्चथालकार | 'गुणाक्त्रियायोयौगपद्य समुक्ष्चय' इति लक्षणात् | इन्द्रवज्रावृत्तम् ॥ ६ ॥

 स इति कृत्यविदा कर्तव्यज्ञाननिपुणानामप्रणी क्ष्रेष्ठ स भीष्मोSपि | अपरेण द्वितीयेन शरे दर्भीविशेषे बाणे च जन्म यस्य तेन स्कन्देनेव स्थितेनेत्युत्प्रेक्षा | कृपस्य बाणजन्मल महाभारते प्रसिद्धम् | वह्री कृपा यस्य तेन कृपेण धनुराचार्येण पौत्रार्णा नृपस्य पुत्राणा पूर्वोक्ताना गण निरवद्यस्य वीराणा यशस 'इमे शूऱा ' ईति कीर्ते निषद्यामापणीभूताम् | 'आपणस्तु निषद्यायाम्' इत्यमर | चापविद्यामापाद्याध्यापयित्वापि | ता चापविद्या पुनरुक्तयितु द्विरावर्तयितु दिशिदिशे प्रतिदिश जैत्रा जयशील गुणा शौर्यादयो यस्य त पौत्रगण विविधस्य बहुप्रकारस्य धनुरागमस्यास्त्रवेदस्य प्राणस्य जीवभूतस्य | उपदेशपारम्पर्येण च र्धकस्येति यावत् | द्रोणस्य नामाचार्यस्य चरणयोर्महतासख्चेन बनस्य निवहेन राशिना सह उपदीचकारोपायन चक्त्रे | 'कृभ्वस्ति-'इत्यादिना च्वावित्य दीर्धक्ष्च ॥


सिन्धुजातकलशीभुवोस्तयो रिन्न[१२३]ग्धभावमवलोक्य तादृशम् ।
तत्र पौरनिकर समाचरञ्चित्रपूरजठरे निमज्जनम् ॥ ७ ॥

कुमारास्तूर्णमारुक्षन्कुम्भयोनेरनुग्रहात् ।
[१२४]कोटि कोदण्डसारस्य गुणिनस्ते गुणा इव ॥ ८ ॥

कूलस्थस्यानुकुर्वन्कुरुसुतसदस कुम्भयोने कदाचि-

 त्रन्नातु मध्ये जलाना चिरकृतवसते सिन्धुभूवर्धमान । आदौ पादौ निपीड्य स्फुटकमलरुचौ बिभ्रदन्तेवसत्व


 सिन्ध्विति । तत्र हस्तिनपुरे पौराणा निकर सङ्घस्तयो सिन्धुजातस्य गङ्गा सुतस्य समुद्रसमूहस्य च क्लशीभुवो द्रोणस्यागस्त्यस्य च द्वयो । भीष्मद्रोणयो समुद्रागस्त्योश्चेति यावत् । ‘देशे नदविशेषेऽब्धौ सिन्धुर्ना सरिति स्त्रियाम् इत्यमर । तादृशमुक्तविध निग्धयो सुहृदोर्भाव स्नेहमवलोक्य चित्रपूरस्या श्चर्यरसप्रवाहस्य जठरे मध्ये निमज्जन समाचरच्चक्रे। अत्याश्चर्यान्वितोऽभूदि त्यर्थं । अत्र समुद्रभीष्मयोरगस्त्यद्रोणयोश्च क्ष्लेषभित्तिकाध्यवसायमूलातिशयो त्तयुज्जीवितेन निसर्गविरुद्धयो समुद्रागस्त्ययो स्नेहावलोकनात्मकविभावनालका रभेदेन पौराणा चित्रपूरनिमज्जनसमर्थनात्मक काव्यलिङ्गमङ्गाङ्गिभावेन सकी र्णम् । अतिशयोक्तिविभावनासकरस्य विभावनाकाव्यलिङ्गसकरस्य च द्वयो । पुनरङ्गाङ्गिभावसकरक्ष्चेति सूक्ष्मदृशाकलनीयम् । रथोद्धतावृत्तम् ॥ ७ ॥

 कुमारा इति । गुणिन शौर्यादिगुणवन्तस्ते पूर्वोका कुमारा युधिष्ठिरादय कुम्भयोनेर्द्रोणस्यानुग्रहात् प्रसादात् । कोदण्डसारस्य धनुर्विद्यानैपुण्यस्य कोटिमुत्कर्षम् । कोदण्डसारस्य श्रेष्ठचापस्य कोटिमप्रदेशम् । गुणा शिञ्जिन्य इव तूर्ण सत्वरमारुक्षन्प्राप्तवन्त । रुहेराड्पूर्वात् कर्तरि लुड् । ‘स्यात्कोटिरक्ष्रौ चापाग्रे सख्याभेदप्रकर्षयो ’ इत्यभिधानात् । क्ष्मिष्टविशेषणेयमुपमा । अतएव गुणिनो मौवीवत इति धनुष्यपि योज्यम् ॥ ८ ॥

 कुलेति । कदाचित्स्नात्तु जलाना मध्ये चिर कृता वसतिरवस्थान येन तस्य । ‘चिरस्नायी-' इत्यागमादिति भाव । कुम्भयोनेर्द्रोणस्य सबन्धिनौ स्फुटकमल स्येव रुक्कान्तिर्ययोस्तौ पादौ आदौ प्रथम निपीड्य प्रणम्य पीडयित्वा च । अन्तेवसत्व समीपस्थितिं च बिभ्रत् सिन्धुभुवा भीष्मेण नदीशेन च वर्धमान अतएब कूलस्थस्य तीरे वर्तमानस्य कुरुसुतसदसो युधिष्ठिरादीना समाजमनुकुर्वन्विडम्बयन् । कृद्योगात्कर्मणि षष्ठी । कश्चिद्राहो मकर स्वयमपि विशेषेण जयो यस्मात्तस्यास्त्रागमस्य धनुर्वेदस्यान्त पार विजयस्यार्जुनस्य सुबन्धिनास्त्रा


प्राहो जग्राह कश्चित्स्वयमपि विजयास्त्रागमान्त महान्तम् ॥ ९ ॥

 ततस्ते सर्वोत्तरा अपि [१२५] शरासनेषु दक्षिणा ‘गुरुदक्षिणा कुरुत मह्य द्रुफ़्यतो द्रुपदस्य युधि बळादृहीतस्य समर्पणम्’ इति गुरुणा चोदिता सर्वेऽप्यहपूर्विकया [१२६]कयापि विमतेषु कृतावज्ञसेन याज्ञसेन पुर निरुध्दथ चिरमयुध्यन्त ।

कुत्ते भलैर्धनुषि स गुरुद्रोहिणस्तस्य जीव-
 ग्राहे बाहाञ्चलपरिचलत्खङ्गवल्लीसहाय ।


गमेन बाणप्राप्त्या अन्त नाश च जग्राह प्राप्तवान् । कदाचिद्दोण्स्य स्नतु द्रुतगङ्गावतरणस्य चरणप्राही कश्चिन्मकरोऽर्जुनेन बाणेन निहत इति पौराणिक्यत्र काथानुसधेया । स्रग्धरा वृत्तम् ॥ ९ ॥

 तत इति । ततोऽनन्तरं सर्वेषा धनुर्धराणामुत्तरा उदीच्या अपि श्रेष्ठाश्चेति च शरासनेषु चापनैपुण्येषु विषये दक्षिणा दाक्षिणात्या सरलाश्च। अतएव विरोधाभास । ‘उपर्युदीच्यश्रेष्ठेष्वप्युत्तर ’, त्रिष्ववासरलारामपरिच्छन्दानुवृत्तिषु । दक्षिण ’ इत्युभयत्रामरप्रकाशौ । मह्य द्रुद्यतो मद्रोह बाल्ये प्रतिज्ञातार्धराज्यप्रदानरूप कुर्वत । ‘क्त्रुधद्रुह-' इत्यादिना सप्रदानत्वम् । अतएव युधि युद्धे बलाद्रृहीतस्य सजीवमानीतस्य द्रुपदस्य राज्ञ समर्पणमेव गुरुदक्षिणा कुरुतेति गुरुणा द्रोणाचार्येण चोदिता आज्ञापिता सन्त । अथ क्याप्यनिर्वाच्ययाहपूर्विकया अह पूर्वमह पूर्वमिति बुध्द्या । ‘अह पूर्वमह पूर्वमित्यहपूर्विका स्त्रियाम्' इत्यमर । विमतेषु शत्रुषु विषये कृतावज्ञा रचित ति रस्कारा सेना यस्मिस्तत् यज्ञसेनस्य द्रुपदस्येद याज्ञसेन पुर पट्टण निस्ध्घ चिर मयुध्यन्त युद्धमकुर्वन् ॥

 कृत इति । स जलमध्यग्राहमारकत्वेन प्रसिद्ध सव्यसाच्यर्जुन । गुरवे द्रुह्यतीति द्रोहिणस्तस्य द्रुपदस्य जीवग्राहे जीवत एव ग्रहणे विषये सुबलदुहितुर्गान्धार्या पुत्राणा दुर्योधनादीनामावल्या पङ्क्त्तौ पूर्वपक्षीभवत्यामसमर्थाया सत्याम् । द्रुपदेन पराभूतायामिति यावत् । भल्लैर्द्रुपदस्य बाणविशेषैर्धनुषि निजचापे कृत्ते भिन्ने सति बाहाया भुजस्याञ्चले अग्रे । कर इति यावत् । परिचलन्ती कम्पमाना खङ्ग वल्लीव सैव सहायो यस्य तथोक्त सन् दिवि खर्गे बुधैर्देवै भुवि बुधै पण्डितैश्च । ‘ज्ञातृचान्द्रिसुरा बुधा’ इत्यभिधानात् । क्ष्लाधित सस्तुत सिद्धान्त कृतकार्योऽभूत् । अत्र जीवस्य चित्प्रतिबिम्बस्य ग्राहो बिम्बभूतचिदभिन्नत्वेन ज्ञाने विषये सौबलेयशते पूर्वपक्षीभवति देहात्मवाचादिमति सति अर्जुन इहामुत्र च ब्रह्मविभ्दि क्ष्लाघितोऽभिनन्दित सिद्धान्तोऽद्वितीयब्रह्म


पुत्रावल्या सुबलदुहितु पूर्वपक्षीभवत्या
 सिद्वान्तोऽभूद्दिवि भुवि बुधै क्ष्लाधित सव्यसाची ॥ १० ॥

पार्थमेव पुरतो निधाय ते कौरवास्तदनु सनिधौ गुरो ।
भक्तिभिर्व्यनमयन्निज शिर [१२७] पार्षतस्तु परिभूतिलज्जया ॥ ११ ॥

अथो गुरुर्नातमधिज्यधन्वना पुर प्रदेश पुरुहूतसूनुना ।
तरङ्गिताक्ष तमवेक्ष्य विद्विष वचो गभीर वदति स्म [१२८]सस्मितम् ॥१२ ॥

 ‘रेरे [१२९]क्षत्रियसत्तम, पुरा महत्तरमग्निदेश्यमग्निवेश्य [१३०]नाम मुनिमलस्त्रपरिश्रमाय प्रश्रयेण सह शुश्रूषमाणस्त्व मत्कृते पितुरनन्तर


भावात्मकोऽभूदिति । अर्थान्तर तु न क्ष्लेष । ‘अभिधाया प्रकृते नियन्त्रणात्’ इत्यादेरुक्तत्वादिति । मन्दाक्रान्ता वृत्तम्--‘मन्दाक्रान्ता जलधिषडगैम्भौ नतौ ताद्रुरू चेत्’ इति लक्षणात् ॥ १० ॥

 पार्थमिति । तदनु द्रुपदग्रहणानन्तर ते कौरवा कुमारा पार्थमर्जुनमेव पुरतोऽग्रे निधाय गुरोर्द्रोणस्य सनिधौ निज शिरो भक्तिभिर्व्यनमयन्। प्रणेमु रित्यर्थ । पार्षतो द्रुपदस्तु परिभूया तिरस्कारेण या लज्जा तया निज शिर व्यनमयत् । अवनतवदनोऽभूदित्यर्थ । नमतेर्ण्यन्तात्कतारि लड् । अत्र कुस्कुमा राणा द्रुपदस्य च प्रकृतानामेव शिरोनमनधर्मेणौपम्यस्य गम्यत्वात्केवलप्रकृतास्प दस्तुल्ययोगिताभेद । रथोद्धता धृत्तम् ॥ ११ ॥

 अथो इति । अनन्तर गुरुर्द्रोणोऽधिज्यमारोपितगुण धनुक्ष्चापो यस्य तेन हूतस्येन्द्रस्य सूनुनार्जुनेन पुर प्रदेश नीत ग्रापित तरङ्गिते चकितचकिते अक्षिणी यस्य तथोक्त्त विद्विष शत्रु त द्रुपदमवेक्ष्य गभीर गूढ़ार्थ वचो वक्ष्यमाण सस्मित यथा तथा वदति स्म। वशस्थवृत्तम् ॥ १२ ॥

 रेरे इति । रे रे तुच्छ । ‘तुच्छसबोवने तु रे’ इत्यमर । क्षत्रियसत्तम । विपरीतलक्षणया क्षत्रियाधमेत्यर्थ । पुरा धनुर्वेदाभ्यासकाले महत्तरमतिशयपूज्यमग्निदेश्यमग्निदेशे भवम् , यद्वाग्निकल्पम् । अग्निवेश्य नाम मुनिमस्त्रस्य धनुर्वि द्यया परिश्रमायाभ्यास कर्तुमिति। क्रियार्थं-' इत्यादिना सप्रदानत्वम् । प्रश्रयेण सह विनयेन साकम् । ‘साक सत्रा सम सह' इत्यमर । शुश्रूषमाण सेवा कुर्वन् । त्व मत्कृते मदर्थम् । ममेत्यथ के पितुरनन्तर' लोकान्तरगते पितरि ममाधिराज्यपदस्यार्ध राज्यार्ध प्रथममग्रे भवते तुभ्य वितीर्य दत्त्वा तत पर मवशिष्टमर्ध राज्यार्धमहमनुभविष्यामि इति यद्वस्तु यथा येन प्रकारेण प्रत्यक्ष्ट्णुथा प्रतिज्ञामकरो , तत्प्रतिज्ञात वस्तु विप्र धिक् इत्युक्तप्रकारेण अत एव क्षुरप्रा


ममाधिराज्यपदस्य प्रथममर्ध भवते वितीर्य तत परमर्धमहमनुभविष्यामीति यघथा प्रत्युक्षृणुथास्तत्त्था निर्वर्तित् खलु धिग्विप्रमिति [१३१] क्षुरप्रायेनण विप्रियवचनेन् प्रथीयसी [१३२]मनसि व्यथा मम् वितीर्णवता महार्ण[१३३]परिधानवतीं वसुमतीं स्वयमेवानुभवता ननु भवता ।

आबालवृद्ध ज[१३४]लसक्त्तमेव जना समस्ता द्रुपद यदाहु ।
तस्मात्त्वथि स्वीकृतताहशाख्ये कथ नु भज्थेत न मित्रतेज ॥१३॥


येण क्ष्रुरक्ल्पेन विप्रियवचनेनाप्रियभापितेन मम प्रथीयसी मनसि व्यथा विर्तणि वता दत्तवता । किच महार्णव समुद्र परिधान वस्त्र तदस्या अस्तीति तद्वतीमू । समुद्रपर्थन्तामिति यावत् । वसुमती भूमिं स्वयमेवानुभवता भवता त्वया ननु हे द्रुपद,तथा प्रतिज्ञानुरुप निर्वर्तित्तमाचरित खलु । आधिराज्यमिति यत्पद सुबन्त तस्यार्धमाधिं मह्य दत्त्वा तत परमर्धमवशिष्ट राज्य त्वयानुभूयते । तस्मात्तथा निर्वर्तिम्त खलु इति चार्थ । अत्र खलुशब्द काकौ । अदत्त्वैव किचिदपि मह्यम नुभूत त्वयैव सर्वमित्यर्थ । अत्र अतर्कितमानसव्यथारुपोत्कटानिष्टावात्पिसत्वे ઽपि क्ष्लेषमहिम्रा अर्वराज्यरुपेष्टावात्पिवर्णनात्समालकारभेद । स च 'विना निष्ट च तत्सिद्धिर्थदर्थ कर्तुमुद्यम' इति तल्लक्षणेઽनिष्टमन्तरेणेष्टावात्पावेव तेन भाव्यमिति वाच्यम् । व्याजस्तुतिविधया प्राथमिकस्तुतिरुपवाच्यकक्ष्याया समाल कारस्य दुर्वारत्वात् । एव स्तुत्या निन्दाभिव्यत्तिकक्ष्याया मानसव्यथानिष्टावा त्पिप्रतीते । 'अनिष्टस्याप्यवात्पिक्ष्च तदिष्टार्थसमुद्यमात्' इति लक्षितो विषम प्रभेदक्ष्च । द्वयोक्ष्च स्तुस्या निन्दाभिव्यत्तिरुपव्याजस्तुतिप्रभेदेन सहैक्वाचकानुप्रवे शसकर इति सूक्ष्महशाकलनीयम् ॥

 आबालवृद्धमिति । यद्यस्मादाबालवृद्ध बालप्रभृति वृद्धपर्थम्तम् । समस्ता जना द्रोर्वृक्षस्य पद मूलस्थानम् । आलवालमिति यावत् । 'दुद्रुमागमा' इति व्रुक्षपर्थायेष्वमर । जलैरुदकैर्मूर्खैक्ष्च । लडयोरभेदात् सत्क्त्त सगतमेवाहुर्वदन्ति । तस्मात्कारणात्स्वीकृता ताहशी द्रुपदेत्याख्या नाम येन तस्मिस्त्वयि मित्रस्य सख्यु । ममेति याघत् । सूर्यस्य च तेज कथ केन प्रकारेण न भज्येत भङ्ग न गच्छेन्नु । नु आमन्त्रणे ! कितु गच्छेदेवेत्यर्थ । जडसगतेषु नास्ति मित्रावकाशा इत्यर्थ । अत्र द्रुपदाख्व्यास्वीकरणस्य मित्रतेजोभङ्गहेतुत्वोक्त्ते पदार्थहेतुक काव्यलिङ्गमू । सुर्यसुहदो क्ष्लेषभित्तिकाभेदाध्यवसायमूलातिशयोक्त्तिसकीर्णम् ॥ १३ ॥


 इति व्याजस्तुतिवचनेन पौर[१३५]रवान्ते भार्गवान्तेवसता प्रधर्षित [१३६]पार्षतस्तेन सार्धमर्धराज्यपरिव[१३७]र्तनमात्रमङ्गीकृत्य कृत्यविदा ककुदस्तौ जम्भरिपुकुम्भसभवावुभाव[१३८] प्युपयम प्रवर्तयितु [१३९]कृतनिवर्तन सोमकान्तिकोपास्यौ पुत्रौ भागीरथीव[१४०]नावसथस्य याजस्य सुनिराजस्य याजनानुग्रहेण परिजग्राह ।

 [१४१]तत ।

तातोऽपि धर्मतनय तपनीयपीठ-
मारोप्य चक्षुरिव लब्धममु तपोमि ।


 इतीति । इत्युक्त्तप्रकारेण व्याजस्तुतिवचनेन गूढनिन्दावाक्येन करणेन भार्गवस्य परशुरामस्यान्तेवसता शिष्येण द्रोणेन (कर्त्रा) पौरवाणा युधिष्ठिरादीना मन्ते समीपे प्रधषितो भर्सित कृत्यविदा कर्तव्येषु निपुणाना ककुद श्रेष्ठ अतएव पार्षतो द्रुपदस्तेन सार्धु द्रोणेन सह । अर्धराज्यस्य परिवर्तनमात्र परिपालनमेव । नतु सख्यमित्यर्थ । अङ्गीकृत्य । ‘सर्वनाशे समुत्पन्ने अर्ध त्यजति पण्डित इति न्यायादिति भाव । कृतनिवर्तन प्रत्यागत सन् । तौ प्रसिद्धौ जम्भरिपुसभवमर्जुन कुम्भसभव द्रोण च । उभावपि क्रमेण । उपयम विवाहम् । ‘विवाहोपयमौ पाणिपीडन च' इत्यमर । यमस्य समीप च प्रवर्तयितु प्रापयितु सोमश्चन्द्र उमया पार्वत्या सहित सोम शिवश्च, तयोरिव कान्ति कोपश्च क्रमात् आस्ये भुखे ययोस्तौ । सोमो लताविशेषे स्याच्छशाङ्के शकरेऽपि च' इति विश्व । चन्द्रकान्त्या तुल्यानना रुद्रवर्द्धमुख चेत्यर्थ । सोमकै पाञ्चालैरन्तिके उत्सङ्ग उपास्यौ । उपालनीयाविति च । पुत्रीं च पुत्र च पुत्रौ द्रौपदीधृष्टघुम्नौ भागी रथ्या वने तीरारण्य आवसथ स्थान यस्य तस्य । स्थानावसथवास्तु च' इति गृहपूर्यायेष्वमर । याजस्य नाम मुनिराजस्य याजनेन यागकारयितृत्वरूपेणानु ग्रहेण प्रसादेन परिजग्राह । उत्पादितवानित्यर्थ यत्तु ’कुम्भजम्भरिपुसभवौ’ इति पाठान्तरम्, यच्च वा तद्रीत्यैव नृसिंहव्याख्यानम्, तदुभयमप्यशुद्धम् । विवाहप्रापकचन्द्रकाव्त्याननत्वस्य द्रौपद्या यमसमीपप्रापकरुद्ररौद्रास्यत्वस्य धृष्टघुम्ने क्त्रमेणान्वयथासख्यालकारभङ्गापत्ते ‘पुमान्स्त्रिया' इत्येकशेषशास्त्रेण पुत्री च पुत्रश्च पुत्रावित्येव व्याख्येयतया सोमकैरन्तिके उपास्यावित्यर्थान्तराप्रसक्त्तया च ‘सोमकोपकान्त्यास्यौ’ इति पाठकल्पनायोगाञ्चेति ॥

 तात इति । ततोऽनन्तर तातो धृतराष्ट्रोऽपि तपोभिर्लव्ध चक्षुरिव स्थित मित्युत्प्रेक्षा । शुश्रूषादिगुणसपत्त्या परमप्रेमास्पदमित्यर्थ । जात्यन्धस्य भाग्या


 

आवर्जितै कलशवरिभि[१४२] रभ्यषिञ्च-
 दानन्दबाष्पसलिलै[१४३] रवनीं च पौरा ॥ १४ ॥
आबिभ्रतो धरणिमङ्गदनिर्विशेष
 नानाध[१४४]नयतिभिरस्य नयोदिताभि।
[१४५] स्त्य समस्तमपि वासवसनिभस्य
 कोशीबभूव कुतुकै सह कौरवाणाम् ॥ १५ ॥

पारेसिन्धु प्रथितमै[१४६]थित प्रत्यह वर्धमान सोढु पार्थाभ्युदयमपटो स्वात्मजस्यानुरोधात्।


सदचिदुत्पन्ने चक्षुष्युत्कटानुरागादिंति भाव। चमस्य यमस्य तनय युधिष्टिरम् धर्मस्य प्रथमपुरुषार्थस्य तनय मूर्त चर्ममिव स्थितमित्यपि। 'आत्मा व पुत्रनामासि' इति श्रुतेरिति भाव। तपनियपीठमारोप्य । कनकपीठे उपवेश्येत्यर्थ। आवर्जितैरानमितै, समुद्रगङ्गादिभ्य आनितैरिति वा। कलशेषु वारिभि पुण्यै मन्त्रपूतैश्र्च जलैरभ्यषिञ्चत्पट्टाभिषेक कृतवान्। 'उपसर्गात्सुनोति -' इत्यादिना अङ्व्यवयेऽपि षत्वम्। पौराश्र्चनन्देन चिरात्काङ्क्षितलाभजनितेन यानि बष्पस लीलानि यैरवनी तद्भार्या भूमिमम्यषिञ्चन् । भ्र्तु पट्टाभिषेके भार्याया अपि तैदौचित्यादिति भाव। पौरास्तदा ननन्दुरिति परमार्थ। व्यञ्जकाप्रयोगाद्रम्योत्प्रेक्षा। बसन्ततिलका वृत्तम्॥ १४॥

 आबिभ्रत इति। वरणिं भूमिमङ्गदेन केयूरेण सह निर्विशेष तारतम्यराहित्य यथा तथा बिभ्रतो हेलया भुजेन वहत इति प्रभावोत्कर्षे। वासवसनिभस्येन्द्रतुल्यस्य अस्य युधिष्टिरस्य नयेन षष्टाशग्रहणरूपेणोदिताभि। आजिताभिरित्यर्थ। नानामणिकनकरौप्यादिरूपाणा वनानामायतिभिर्लाभै समस्त वस्त्य गृहमपि। 'निशान्तवस्त्यसदनम्' इति गृहनामस्वमर। कौरवाणा दुर्योधनादीना कुतुकै कुतुहलै सह कोशीबभूव वनभवनीबभूव मुकुलीबभूवेति च। युधिष्टिरस्य तादृक्समृध्घा दुर्योधनदयोऽखिद्यन्नित्यर्थ।'कोशोऽस्त्री कुह्यले खङ्गपिधाने वनवेश्मनि' इति विश्र्व। महतामन्युदये खलना खेदस्य औत्सर्गिकत्वदिति भाव। अत्र धनगृहमुकुलयो श्र्लेषभित्तिकाभेदाध्यवसायमूला तिशयोक्त्तिकीर्ण सहोत्तयलकार। 'सहोक्त्ति सहभावश्र्चेद्भासते जनरञ्जन' इति लक्षणात्॥१५॥

 पारेसिन्ध्विति। अथ राजा धृतराष्ट्र प्रीतो भक्तिप्रजारञ्जन वनार्जनादिभि सतुष्टोऽपि पारेसिन्धु समुद्रतटपर्थन्त प्रथित प्रसिद्धम्। किंच अहन्यहनि प्रत्यह वधमान पार्थस्य युधिष्टिरस्याभ्युदयमैश्र्वर्ये सोढु क्षन्तुमपटोरशक्तस्य । तद


प्रीतो राजाप्यनुजतनयप्रेममार्गे प्रयातु
 मातुर्दोषादिव बहिरगादरप्यन्धभावम् ॥ १६ ॥

 तदनु सौबलीजानिरसौ बलीयसामर्षे[१४७]ण धर्षित सहजविनय धर्मतनयमाहूय कृतावहित्थो गिरमित्थमुत्थापयामास ।

 ‘वत्स, सप्रति वारणावत पुरमुपेत्य वारणाननगुरोरुत्सव वारणाय विपदा निषेव्य सहानुजैस्तत्र वास्तव्यपौरजनभव्यया गिरा स्तव्यो निरवधिसु[१४८]खामनुशाधि वसुधाम्’ इति ।

तस्याशय हृदि विदुन्नपि धर्मसूनु-
 स्तातस्य वाचमविलम्ब्य तथेत्यगृह्णात् ।


 सहिष्णोरित्यर्थ । स्वात्मजस्य दुर्योवनस्यानुरोधादनुसरणात् । तडुर्बोधनानुत्तेरिति यावत् । अनुजतनये युधिष्ठिरे यत्प्रेम तस्य मार्गे प्रयातु गन्तु मातुरम्बिकाया दोषात्सुरतसमये व्यासरूपावलोक्नजुगुप्साकृतनेत्रनिमीलनरूपादूहि । नेत्रयोरिवेत्यर्थ । अन्तर्मनस्यपि । अन्धस्य भावमन्धत्वमगात्प्राप्तवान् । तत्तादृश प्रेम तत्याजेत्यर्थ । पुरा किल सत्यवत्याज्ञयाम्बिका पुत्रोत्पादनाय सगता व्यासेन । अथ तद्रूपदशनजनितजुगुप्साभयकृतलोचनमीलनाज्जात्यन्ध जनयामास धृतराष्ट्रमिति भारतकथात्रानुसधेया । मन्दाक्रान्ता धृत्तम् ॥ १६ ॥

 तदन्विति । तदनु प्रेमल्यागानन्तर सौबली गान्धारी जाया यस्य सोबलीजानि । ‘जायाया निइ’ इति निड् । असौ धृतराष्ट्रो बलीयसा महतामर्षेण । द्वेषेणेत्यर्थ । धर्षित आक्रान्त सन् । सहज खाभाविको विनयो यस्य त धर्मतन्यमाहूय । कृतावहित्थाकारगोपन येन तथोक्तश्च सन् । स्वकैतवपरिज्ञानभयेनेति भाव । इत्थ वक्ष्यमाणप्रकारेण गिर वाचमुत्थापयामासोत्पादितवान् । उवाक्ष्वेत्यथ ॥

 वत्सेति । हे वत्स युधिष्ठिर, त्व सप्रत्यद्य वारणावत नाम पुरमनुजैर्भी मादिभि सहोपेत्य वारणस्य गजस्येवानन मुख यस्य तस्य विझेशस्य यो गुरु पिता सदाशिवस्तस्योत्सव नैमित्तिकपाक्षिकादिक विपदा वारणाय निवारणाथ निषेव्य तत्र वारणावते वास्तव्यस्य निवासिन पौरजनस्य भव्या कुशलान्वि तया गिरा स्तोतु योग्य स्तव्य सन् निरवधि अवधिरहित सुख यस्यास्ता वसुधा भूमिमनुजै सहानुशाधि परिपालयेत्युवाचेति पूर्वेणान्वय ॥

 तस्येति । धर्मस्य यमस्य सूनुर्युधिष्ठिर । ‘सूनु पुत्रेऽनुजे रवौ' इति विक्ष्व। तस्य कृतावहित्थस्य तातस्य पितुर्धृतराष्ट्रस्याशय दुष्टाभिप्राय हृदि विदञ्जानन्नपि । ‘अनुक्तमप्यूहति पण्डितो जन' इति न्यायादिति भाव । अवि-


तत्तादृशेषु गुरुशासनपालनेषु
 कूलकष गुणगणेन कुल हि पूरो ॥ १७ ॥

धर्मभूरनुजै साक तद्रिरा तत्पुर ययौ ।
कर्मचोदनया जीव कायमन्यमिवेन्द्रियै ॥ १८ ॥

सविनयमथ दर्शित महीय सचिववरेण पुरोचनेन शत्रो ।
जतुगृहमभजन्त तत्र पार्था जगदिव नूत्नमशेषवस्तुपूर्णम् ॥ १९ ॥

तत्र ते विदुरभृत्यभाषितै सौबलेयशतमन्युहेतुना ।


लम्ब्य कार्याकार्यालोचने कालक्षेपमकृत्वा तथा वारणावत गच्छामीयुक्तप्रकारा वाचमगृह्माध्दृतवान् । उवाचेति यावत् । नन्विदमयुक्तम् ‘गुरोरप्यवलिप्तस्य कार्याकार्यमजानत । उत्पथप्रतिपन्नस्य कार्य भवति शासनम् ॥’ इति याया दित्यत आह--तदिति । पूरो कुरुवशजस्य राज्ञ कुल तत्तादृशेष्वतिदु ख करत्वेन दुर्भरेषु गुरो पितु शासनमाज्ञा तत्पालनेषु तत्करणेषु विषये गुणाना विनयविवेकादीना गणेन कूलकष परिपूर्ण खलु । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यास । पूरुर्नाम पुत्र पितुर्ययातेर्जरा परिगृह्य जुगुप्सिता दशसहस्रवत्सरा न्खतारुण्य तस्मै दत्तवानिति भारतकया । वसन्ततिलकावृत्तम् ॥ १७ ॥

 धर्मेति । धर्मभूर्युधिष्ठिरस्तस्य धृतराष्ट्रस्य गिरा तत्पर वारणावत प्रति अनुजै साक जीवोऽन्त करणप्रतिबिम्बितचैतन्य कर्मण प्रारब्धस्य चोदनया प्रेरणया इन्द्रियैश्चक्षुरादिभि सह अन्य काय देहान्तरमिव ययौ प्राप्तवान् । उपमालकारः । तेन हस्तिनपुरस्यागो देहत्यागवदतिदु खायाभूदिति प्रतीतेरलका रेण वस्तुध्वनि युग्मविपुलावृत्तम् ॥ १८ ॥

 सविनयमिति । अथ वारणावतप्रात्प्यनन्तर तत्र वारणावते पार्था अशेषैवैर्वस्तुभिर्भाग्यै पूर्णमत एव महीय रमणीयम् । कि च शत्रोदुर्योधनस्य सचिववरेण मन्त्रिमुख्येन पुरोचनेन नाम्ना म्लेच्छेन सविनय यथा तथा दक्षाित विज्ञापित जतुगृह लाक्षागृह नूत्न नव जगल्लोकान्तरमिवाभजन्त विविशु । उपमालकार । अत्र शत्रो सचिववरेणेत्युक्त्या तद्रुहस्य वासायोग्यत्व ध्वन्यते । पुष्पिताग्रावृत्तम् ॥ १९ ॥

 तत्रेति । ते पार्था विदुरभृत्यस्य तत्प्रेषितखनकस्य भाषितैर्वाक्यैर्दुर्योधनो जतुगृहदाहाघुष्मान्मारयिष्यतीत्यादिभिस्तत्र तस्मिञ्जतुवाम्नि लाक्षागृहे सौबलेयाना दुर्योधनादीना यच्छत तस्य मन्यु क्रोध स एव हेतुर्यस्य तेन । सौबळेयो दुर्योधन एव शतमन्युरिन्द्रो हेतुर्यस्य तेनेति च । ‘शतमन्युदिवस्पति ’ इतीन्द्रनाभस्व मर । धनजस्य बह्नेरर्जुनस्य च प्रापणेन पूरणेन परा सख्याभिन्ना पञ्चता मरण पञ्चतामपि परा वनजयप्रापणेन जतुधाम्नि मेनिरे ॥ २० ॥ शिशमयिषुरपि द्विषा स मन्त्री निभृतशरारुरिमान्निगूढभावान् । अवसरमनलावृते निकेते प्रतिदिनमेधयितु प्रतीक्ष[१४९] ते स्म ॥ २१ ॥ जातुचिदपत्यै सह पञ्चभिर्भृत्यभावमिषामीषामामिषफलेषु विष निनीषन्त्या निषायोषित इव तस्य पुरोचनस्य निद्रायामपि द्राघिमाण दातुकामेन तत्र सद्मनि क्षणदायामाशुशुक्षणि क्षणान्निक्षिप्य जननीसोदरजननीचेतरसवेशमुखमणिमञ्चायमानभुजशिखरसीमेन भीमेन [१५०]तस्माद्रृहाद्विदुरकिकरकृतलिङ्गया सुरङ्गया निर्जग्मे ।


मेनिरे ताकिंतवन्त । ‘धनजयोऽर्जुने वह्नौ’, ‘स्यात्पञ्चता कालधर्म ’ इति विश्वा मरौ । रथोद्धतावृत्तम् ॥ २० ॥

शिशमयिषुरिति । निभृत प्रच्छन्न स चासौ शरारुर्धातुक इति विशे व्यत्वविवक्षया समास । द्विषा मन्त्री स पुरोचनो निगूढो दुर्विज्ञेयो भावोऽभिप्रायो येषा तान्। अप्रकाशितविदुरमृत्यभाषितानित्यर्थ । इमान्पार्थाननलेनाग्निनावृते दग्धे निकेते जतुगृहे । शम क्षय प्रापयितुमिच्छु शिशमयिषुरपि सन् । प्रतिदिन दिनेदिने एधयितु वचयितुमिति विरोघ । वह्नेरिन्धनीकर्तुमित्यविरोध । अतएव विरोधाभासालकार । अवसर समय दहनयोग्य प्रतीक्षते स्म निरीक्षितवान् । पुष्पिताग्रावृत्तम् ॥ २१ ॥

जात्विति । जातुचित्कदाचित्कदाचिद्भृत्यभवस्य परिचारकत्वस्य मिषाद्वयाजात् अमीषा पार्थानामामिषेषु भोग्येषु फलेषु रसालादिषु । आमिषेषु मासेषु फलेष्विति वा । ‘आमिष पलले क्कीबे त्रिषु स्याद्भोग्यवस्तुनि” इति विश्व । विष गरल नेतु प्रापयितुमिच्छन्त्या निनीषन्त्या निषादयोषितो दुर्योधनप्रेषिताया किराया इवापत्यैस्तत्पुत्रै पञ्चभि सह तस्य निभृतशरारो पुरोचनस्य मियामपि द्राधिमाण दीर्घत्वम् । दीघनिद्रासज्ञ मरणमिति यावत् । दातु कामो यस्य तेन, जनन्या कुन्त्या सोदरजनस्य युधिष्ठिरादेश्च नीचेतरमनल्प सवेशमुख xxxxxxxxxशो मणिमयो मञ्च इवाचरन्ती भणिमञ्चयमाना भुजशिखरयो सीमा प्रादेझो यस्य तेन । नीचेतर सवेशसुखहेतुरिति वा व्याख्येयम् । सुखहेतौ सुखे सुखम्' इति विश्व । भीमेन तत्र तस्मिन्सद्मनि जतुगृहे आशु-


पार्थद्विषा विग्रहमेकमेक विभज्य सप्तापि शिखा कृशानो । स्वीकृत्य तृप्ता स्वशिर प्रकम्पै [१५१]शश्र्लाघिरे तत्र सभीऱ[१५२]पुत्रम् ॥ २२ ॥

प्रपश्यतां पौरनृणा प्रभाते साक्रामिक रोगमिवाघितापम् । आबिभ्रतामश्रुभिरेव शान्तिरापादि तत्राग्निहठात्क्रियाया ॥ २३ ॥

तत्रालये दग्धतन्रनथैतान्निश्र्चित्य पार्थान्निजचारवाचा । दु खापदेशेन सुयोघनाद्या समोद्बबाष्प ससृजु सभायाम् ॥ २४ ॥


शृक्षणिमग्नि निक्षिप्य । 'शिस्यवानाशुशुक्षणि' इत्यग्निनामस्वमर । क्षणादजग्निनिक्षेप काल एव । अन्यथा स्वेषामययातङ्कापत्तेरिति भाव तस्माद्रृ हाल्लाक्षागृहात्क्षणदाया रात्रौ किकरेण भृत्येन कृत लिङ्ग निर्गमनचिह्र यस्यास्त्या सुरङ्गया विलेन निर्जग्मे निगतम् । गमेर्भावे लिट् । 'अग्निदो गरद्श्र्चैव' इत्यदिना वह्रिविषदातृपुरोचनकिरात्यो । 'आततायिनमायन्त हन्यादेवाविचारयन्' इत्यादिस्मरणाच्च तद्वधो भिमस्य नानुचित इति घ्येयम् ॥

 पार्थेति । तत्र कृशानोरग्ने सप्तपि शिखा पार्थद्विषा किरातीतत्पुत्रपुरोचनानामेकमेकमेकैक विग्रह् शरीरं विभज्य विभाग कृत्वा । स्वीकृत्य आस्वाद्य चेत्यर्थ । तृप्ता सत्य स्वशिरस आत्माग्रभागस्य प्रकर्षेण कम्पै समीरषुत्र भीम शश्र्लाघिरे श्र्लाघन चक्त्रुरिवेत्युत्प्रेक्षा व्यञ्ञकाप्रयोजगाद्रम्बा । श्र्लाघते कर्तरि लिट् । उपजातिवृत्तम् ॥ २२ ॥

 प्रपश्यतामिति । प्रभाते प्रात प्रपश्यतामग्रिहठात्क्रियायामिति लभ्यते । अतएव सक्रमादागत साक्त्रामिक रोगमक्ष्यामयादिमिव स्थितम् । आघिना मनोव्यथया यस्तापस्वमाबिभ्रता पौरनृणामश्रुभिरेव । तत्र जतुगृहेऽग्ने सबन्घिन्या हठात्क्रियाया बलाद्दाहस्य शान्तिर्नर्वापणमापादि कृता । पद्यते कर्मणि लुड् । ताट्टग्घर्मशीलाना किमिदमाकस्मिकमापतित बतेति पौरा ररुदुरित्यर्थ । उपजातिवृत्तम् ॥ २३ ॥


 तत्रेति ।अथ लाक्षागृहदाहानन्तर निजानामात्मीयाना चाराणा वाचा वाक्येन दग्घा सह मात्रा पाण्डवा इत्यादिना तत्रालये जतुगृह एतान्पार्थान्दग्धा तनु शऱिऱ येषा तथोक्तान्निश्र्चित्य सुयोघनाद्यास्तदानीं सभाया दु खस्यापदैशेन समोदबाष्प ससृजुर्मुमुचु । अद्य जात निष्कण्टमकमस्मत्सत्साम्राज्यमिति मुमुदुरित्यर्थ । यतु 'दग्घतनूनेतान्पुरोचनादीन्पाथौन्निश्र्चित्य तत्त्वेन ज्ञात्वेत्यर्थ' इति नृसिंह , तन्न । पुरोचनादीनां प्रकृतत्वाभावेनैतच्छब्देन तत्परामर्शायोगात् । अन्यथा उत्तरगद्येऽप्येतानवतार्येत्यत्र तत्परमर्श किं न स्यादिति । इन्द्रवञ्रावृत्तम् ॥ २४ ॥


 तावत्सोऽपि गन्धवहसूनुरन्धतमस[१५३]बन्धुर सक्यिजवसमुत्थितमरुदुत्पाटिततरुविटपव[१५४] सतिवि[१५५] घटनसमुद्भान्तशकुन्त[१५६]कुलनिबद्वनि‌ध्वानमध्वान विलङ्घय कस्यचित्काननकासारतीरतरोरधिपरिसर [१५७]मेतानवतार्य तदीयपरिरक्षणविचक्षण क्षणमवतस्थे ।

तत्र कापि तरुणी तडिदाभा त ययौ जतुगृहे सु[१५८] हितेन ।
 चूषणाय तमसा वनमार्गे चोदिता हुतवहेन शिखेव ॥१५॥
 अधरोष्ठविभाघरेखिका सुद्यशोऽस्या वढनेऽस्ति वा न वा ।

 तावदिति । तावत्सुरङ्गानिगमसमकाल एव स गन्धवहस्य वायो सृनुर्भी मोऽप्यन्धतमसेन गाढतमसा । 'ध्वान्ते गाढेऽन्धतमसमू' इत्यमऱ ।बन्धुरे सान्द्र सक्यिनोरुर्वोर्जवाद्वेगात्समुत्थितेन सतातेन मस्ता वायुनोत्पाटितानामुन्मूलिताना तरुणा विटपेषु शाखासु या वसतय कुलायास्तासा विघटनेन नाशेन समुभ्द्रन्ता नामाकाशमुत्पतिताना शकुन्ताना पक्षिणा कुलेन निवद्धो निध्वान कोलाहल रवो यस्मिस्तमध्वानमरण्यमार्ग विल्ङ्घचातिऋम्य कस्यचित्कानने कासारस्य सर सस्तीरे परिरक्षणे समीपे एतान्कुन्त्यादीनवतार्योपवेश्य तदीये कुन्त्या दिसबन्धिनि परिरक्षणे दुष्टसच्वेभ्यस्त्राणे विचक्षण कुशल सन क्षणमवतस्ये स्थितवान् । 'जागरूक' इति पाठस्त्वनुप्रासमङ्गादुपेक्ष्य । यतु तावतू 'दुर्यो वनाद्यानन्दसमये इति नृसिंह, तत्र । दुर्योधनाद्यानन्दस्य भीमगमनारण्यस्थित्योक्योक्ष्चेक्वलिकत्वस्यासभाव्यतया सदर्भविरोघात् । यदपि 'अथवा भीमनि र्गमनानन्तरम् ' इति व्याख्यान्तरम् , तदपि न । भीमनिर्गमनानन्तर भीमोऽव तस्थ इति सदर्भविरोधात् ॥

 तत्रेति । तत्र तत्र मूले तडितो विधुत इवाभा यस्या सा जतुग्रहे सुहिते नानथ्यवस्तुकवलनतृप्तेन अतएव हुतवहेनाप्रिना वनमार्गे तमसा चूषणाय ध्वसनाय चोदिता शिखा ज्वालेव स्थिता क्वपि तरुणी त भीम ययौ प्राप । अत्र जतुगृहसुखपदार्थहेतुक्काव्यलिङ्गोज्जीविताग्रिशिखात्वोत्प्रेक्षेति त्योरङ्गङ्गिमावेन सकरस्य तडिदामेत्युपमया ससृष्टि । स्वागता वृत्तम् ॥१५॥

 अधरोष्टेति । अस्या भीम प्रत्यागनताया पुरोवर्तिन्या इति वा । सुहशो वदने मुखेऽधरस्यौष्टस्योर्ध्वस्य च द्वयो । विभज्यतेऽनयेति विभागा रेखैव रेखिका । अवरशब्दसनियोगादुपरितनौष्ठ एवौष्ठशब्दो वर्तते । अर्थस्य च द्वित्वाह्विव चनमित्योष्ठाघरावित्यत्र विवृतमिति । सास्ति वा न वेत्युक्तप्रकार सशय तस्य भीमस्य ह्मदि परिमार्ष्टु किल निवारयितुमिवेत्युत्प्रेक्षा । सा तस्णी मौनमत्यजत् ।


इति सा हदि तस्य सशय परिमार्ष्टु किल मौनमत्यजत् ॥२६॥
            ए[१५९]ता प्रशास्ति मुजया वनराज्यसीमा-
              मेक स्वय नरभुजाभृषभो हिडिम्ब ।
         अर्धाशभाग्जनवधे सममन्तकेन
            तुल्याभिधानपदया स्वसृमान्मया य ॥२७॥
         वीतशङ्कमिह तेऽद्य तिष्ठत कीदृश ककुदमित्यय मम ।
         चित्तरङ्गभुवि नृत्तकौशलीमुत्तरङ्गयति चित्रलासक ॥२८॥
            रुधिर पातुकामेन तेन वो हन्तुमीरिता ।
            अधर पातुकामाहमस्मि ते रूपसपदा ॥२९॥
         अद्य ते सविधमापतेदसौ हृद्यमेतदुचित वच शृणु ।


उवाचेल्यर्थ। अत्र मौनत्यागे तादृशसशयवारणफलकत्वोत्प्रेक्षया तन्मुखकान्ति- नेगनिग्यम्। तथा दृष्टिप्रतिरोधकमिति वस्तुप्रतीतेरलकारेण वस्तुध्वनि । औप-च्छन्दसिक्म् ॥२६॥

 तदुक्तिप्रकारमेवाह्‌-एतमिति । नरभुजा मनुष्याशनाना रक्षसामृषभ श्रेष्ठ अतएव जनाना वधे हिंसाया विषये अन्तकेन सम यमेन सहार्धोश तुल्यभाग भजतीति तथोक्त हिडिम्बो नाम राक्षस स्वयमे कोऽसहाय सन्नेव भुजया । बाहुबलेनेत्यर्थ । एता वनराज्यसीमा प्रशस्ति रक्षति । एतद्वनस्य राजेत्यथ । यो हिडिम्बस्तुल्यमभिन्नमभिवानपद सग्नाशब्दो यस्वास्तया मया स्वसृमान् । तस्याह भगिनीत्यर्थ । स हिडिम्ब इति सबन्ध । वसन्ततिलका त्रुत्तम् ॥२७॥

 वीतशङ्कमिति । इह यमतुल्यहिडिम्बवने वीतशङ्क गतभय यथा तथा अद्य तिष्टतस्ते तव ककुद वैर्य कीदृशमित्युक्तप्रकारोऽय चित्रमक्ष्चर्यमेव लासको नर्तक मम चित्तमेव रङ्गभूर्नाव्यदेशस्तम्या नृत्तकौशलीं नाट्यनैपुण्यमुत्तरङ्गयति वर्धयति । अत्याक्ष्चर्यमत्र त्वदवस्थानमित्यर्थ। रथोद्धता रुत्तम् ॥२८॥

 रुधिरमिति । किच रुधिर युष्मद्रक्त पातु कामो यस्य तथोक्तेन तेन हि डिम्बेन वो युष्मान्हन्तुमीरिता प्रेरिताह ते तव सबन्विन्या रुपस्य सौन्दर्यस्य सपदा समृध्द्या हेतुनाघर भवदोष्ठमाधुर्य पातुकामास्मि । इद ततोऽप्याक्ष्चर्यम्। यघुष्मान्हन्तुमागताया मम विस्मृत्य सर्व त्वद्रूपसपदा त्वयि रागोदय इत्यर्थ । अत्र विरुद्धात्कार्यसपत्तिरूपो विभावनाभेद । युग्मविपुलावृत्तम्॥२९॥

 अद्येति । किचासौ हिडिम्ब । हे वीर, ते तव सविध समीप प्रल्यापतेदागच्छेत् ।अत हृद्य मनोज्ञमत एवोचितमेतद्वक्ष्यमाण वच शृणु । ममेति शेष ।


मारण रिपुषु तन्वतामुना मा रण कुरु महान्बलेन स ॥ ३० ॥
उपयामविधौ त्वरस्व मे कृपया मारशरा शरारव ।
दिवि वा भुवि वाथ दिक्षु वा रमये त्वामुपनीय रहसा ॥ ३१ ॥

इत्येना भाषमाणा रजनिचरपति क्रोवलिङ्गै स्फुलिङ्गे- र्द[१६०]ग्धेवाक्ष्णोरमीक्ष्ण स्फुटधटितभुजास्फोटवाचाटिताश । बिभ्राणो बभ्रुकैश्य त्वमिह वससि को मृत्युवक्त्रार्धजग्धो दुर्बुद्धे तिष्ठ यासि क्क पुनरिति गिरा मेदुर प्रादुरासीत् ॥ ३२ ॥

तस्मिन्रक्षसि नेदिष्ठे तादृक्षपरुषाक्षरे ।
    अपमृत्युरिवोदस्थदनिलस्यात्मसभव ॥ ३३ ॥


रिपुषु शत्रुषु विषये मारण वघ तन्वता कुर्वता अमुना हिडिम्बेन सह रण युद्ध मा कुरु । यत स हिडिम्बो बलेन महान्सर्वोत्तर । अत्र बलागधिक्येन रणाकर- णसमर्थनाद्वाक्यार्थहेतुक काव्यलिङग्म् । रथोद्धतावृत्तम् ॥ ३० ॥

 उपयामेति । किच हे वीर, त्व कृपया दयया मे ममोपयामविधो विवाहक- र्मणि विषये त्वरस्व प्रवणो भव । यतो मारस्य मन्मथस्य शत्रोश्च । 'मारौ मन्मथशात्रवौ' इति विश्व । शरा बाणा शरारवो घातुका । अथ म- द्विवाहानन्तर दिवि स्वर्गे वा भुवि वा दिक्षु काङ्क्षितासु वा रहसा वेगेन त्वामुप- नीय त देश प्रापय्य रमये त्रीडयामि । स्वस्या कामचारित्वादिति भाव । औपच्छन्दसिकम् ॥ ३१ ॥

 इतीति । इत्युक्तप्रकरेण भाषमाणा वदन्तीम् । भीममिति शेष । एना हिडिम्बा क्रोधस्य लिङ्गैश्चिरैरक्षणो स्फुलिङ्गैरग्निकणै । तत्प्रायैरीक्षणैरिति यावत् । दग्धा दहन्निव स्थित इत्युतप्रेक्षा । तृन्नन्त्वात् 'नलोक-' इत्यादिना षष्ठीप्रतिषेव । अभीक्ष्ण मुहु स्फुटै प्रकटैर्धटितयोरन्योन्य सघृष्टयोर्भुजयो- रास्फोटैरास्फालनशब्दैर्वाचाटिता मुखरिता आशा दिशो येन तथोक्त । बभ्रु कपिलवर्ण कैशवन्द केशवृन्द बिभ्राणो वहन्रजनिचरपतिर्हिडिम्ब । हे दुर्बुद्धे मूढ, इह मदीये वने वससि मृत्योर्वक्रेणार्धे जग्धो भक्षितस्त्व क । तिष्ठ । पुन इत पर क्क कुत्र यासि गच्छसि । इत्युक्तप्रकारया गिरा वाचा मेदुरो मुखर सन् प्रादुरासीदाविर्बभूव । स्त्रग्धरा । यत्तु 'स्फुट यथा तथा घटितस्य सुक्ष्लिष्टम्य रण इति शेष' इति नृसिंह, तन्न । समस्तपदमध्ये शेषपूरणे समासानुपपत्ते 'समर्थ पदविधि ' इत्यनेन पदान्तरसापेक्षस्य समासप्राप्तेनिषेधात्, च्युतसं- स्कृतिदोषापते, व्याख्वासप्रदायविरूद्धत्वाच्चेति ॥ ३२ ॥

 तस्मिंन्निति । तादृक्षाणि तादृशानि 'दुर्बुद्वे' इत्यादीनि परुषाणि निष्ठुराण्य- क्ष्रराणि वचनानि यस्य तस्मिंस्तथोक्ते तस्मिन्रक्षसि हिडिम्बे नेदिष्ठे सनिहिते


वृक्षेण वृक्ष गिरिणा गिरीन्द्र हस्तेन हस्तेन वचसा वचश्र्च।
परस्परेण प्रतिरुध्य घोर समीक्रमेतौ सममादधाते॥३४॥

स्वसु समक्ष स्वयमेव मुष्टया बल बिडौजा इव वज्रसख्या।
हिडिम्बमेन यमराजधानीकुटुम्बिमुख्य कुरुते स्म भीम॥३५॥

 तदनु तिमिरकदम्बेनेव हिडिम्बेन निर्मुक्तात्तस्मादहर्मुखादिव [१६१]वनात्सध्ययेव सरागया तया कमलपालिफया सह तपनभानव इव राजसूनवस्ते निष्कम्य शालिहोत्रमुने [१६२]सरसि वीतिहोत्रभास व्यास भगवन्तमासेव्य तत्र तन्निदेशादहानि [१६३]कतिचिदतिवाहयाचक्रु।


सति।अनिलस्यात्ममभवो भीमोऽपमृत्युरकालिकमृत्युवोदस्थादुत्यितवान्। युद्धाय सनद्धोऽभूदित्यर्थ। अत्र 'नाश्र्लील कीर्तयेत्' इति परषवचसाममङ्गल त्वस्मरणात्तत्कीर्तनेन हिडिम्बस्य मरणा त्मकामङ्गलस्फोरणाय भीमेऽपमृत्यूपमेत्यलकारेण वस्तुधवनि॥३३॥

 वृक्षेणेति। एतौ भीमहिडिम्बौ वृक्षेण वृक्ष परस्परेणान्योन्येन प्रतिरुध्य निवार्य।इति पदद्वयमग्नेऽपि योज्यम्।गिरिणा गिरीन्द्रम्,हस्तेन् हस्तम्,वचसा वचश्र्च,एव सम तुल्य घोर दारुण समीक युद्धमादधाते कुरुत । उपजातिवृत्तम्॥३४॥

 स्वसुरिति। भीम स्वय वज्रस्याशने सख्या।तद्वदतिसारयेत्यर्थ।मुध्टथा मुष्टिघातेनैव । न त्वायुधेनेर्त्य। स्वसुर्भगिन्या हिडिम्बाया समक्ष प्रत्यक्षे एन हिडिम्ब बिडौजा इन्द्रो बल बलासुरमिव यमराजधान्या कुटुम्बिषु वास्तव्येषु मुख्य कुरुते स्म।अवधीदित्यर्थ।उपमालकार । उपेन्द्रवज्रा॥३५॥

 तदम्बिति । तदनु हिडिम्बवधानन्तरं तिमिरस्य कदम्बेन समूहेनेव हिडिम्बेन राक्षसेन निमुक्तात्।उभाभ्यामपि व्यक्तादित्यर्थ।एवमग्नेऽपि।अहर्मुखात्प्रात कालादिव तस्माद्वनाध्दिडिम्बारण्याद्रागेण रक्तकान्त्या अनुरागेण च सहितया सध्ययेव तया कमलपालिकया हिडिम्बया सह निष्कम्य विनिर्गत्य तपनस्य सूर्यस्य भानव किरणा इव ते राजसूनव पाण्ढवा शालिहोत्रस्य नाम मुने सरसि।तत्तिर इत्यर्थ।वीतिहोत्रस्य अग्नेरिव भा कान्तिर्यस्य त भगवन्त व्यास मुनिमासेव्य तस्य व्यासस्य निदेशादाज्ञाया कतिचिदहानि दिनानि तत्र शालिहोत्रमुनिसरस्तीरेऽतिवाहयाचकुर्गमयामासु।अत्र निर्मोचनक्रियया।


पुत्र तत्र घटोत्कट पवनभूसङ्गादनङ्गातुरा
 प्राप्त सर्वगुणौर्मनोजवसता प्रासूत नक्त्तचरी।

कुर्या व स्मृत एव कर्मसु हरे शक्तेरपि स्त्रसना‌-
 मित्थुक्त्वा स पितॄन्यथाभिललषित युक्तस्तया निर्यथौ॥३६॥

 ततस्ते वन्याशनैर्धन्या धारितवसुधासुधाशनाकृतय प्रावृषमिव बकबलाक्रान्ता पातालभुवमिव प्रत्यह [१६४]वर्धमानबलिशोकामङ्गराज्यसीमामिव सूर्यतनयानुकूलप्रतिष्ठा रविरथाक्षधुरमिवैक


वनप्रात कालयोनिर्गमनकियया पाण्डवरविकिरणाना वमैक्येन प्रस्तुताप्रस्तुतास्पद दीपकदूयम्।तथाहि हिडिम्बतम कदम्बयोर्गम्यमाननैम्येन । चतुणामेषा वीतिहोत्रभासमित्युपमया ससृष्टि॥

 पुत्रमिति। तत्र शालिहोत्रसरस्तारेऽनङ्गातुरा कामपीडिता नक्तचरी हिडिम्बा पवनबभुवा भीमेन सह सङ्गात्सभोगाद्वेतो सवैगुणै शौर्यधेयादिमिर्म नोजवसता पितृतुल्यत्व प्राप्तम्।रीमतुल्यमिति यावत्।'अद्य मनोजवस पितृसनिभ ' इत्यमर। घटोत्कच नाम पुत्र प्रासूत जनयामास। स घटो त्कचस्तु 'भो पितर ,वो युष्माक कर्मसु कार्यसमयेषु स्मृत एव । इद्रदत्तकर्णप्रमुक्तशक्तयायुध्स्यापीति च। स्त्रसना च्धुति कुर्याम्' इत्युक्तप्रकारेण पितॄन्युविष्ठिरा दोन्प्रत्युक्त्वा तया हिडिम्बया मात्रा युक्त सन् यर्थाभलषित स्वैर यथा तथा निर्ययौ निर्गतवान् । यत्तु 'सवैंगुणैरुपलक्षित मनोजवसता मनोजवसत्व।प्राप्तम् इति नृसिह , तत्तस्य उक्तकोशानभिज्ञताविलसितमेवेति नास्माकमाग्रह। शादूलविक्रीडितम्॥३६॥

 तत इति। ततो घटोत्कचनिगमनानन्तर वनेभवेवन्यैरशनै कन्दमूलादिभिवन्या क्ष्लाघ्यास्ते पाण्डवा वारिता वसुवाया भुवि सुधाशना देवा । ब्राह्मणा इति यावत् । तेषामाकृतिवेषो येस्तथोक्ता सन्त बकस्य नामासुरस्य बलेन मृत्यामात्यादिनाक्रान्ताम्।बक्पक्षिकुलाक्रान्तामिति च । अतएवा प्रावृष वर्षर्तुमिव स्थिताम्।एवमग्रेऽपि।अहन्यहनि प्रत्यह वर्वमानो बलिना बकासुरदेत्येन य शोक स यस्या ताम्। वर्वमानवैरोचनशोका च।पातालभुव पाताललोकमिव ।पाताले नागपाशेबलेर्बद्धत्वादित्यन्यत्र भाव।सूर्यतनयाया यमुनाया अनुकूल तीरे प्रतिष्ठा स्थितिर्यस्यास्ताम् । कर्णोचितपालनामिति च ।अङ्गराष्यसीमा अङ्गारव्य देशमिव एकचक्रा तत्सज्ञाम्।एक चक्र रथाङ्ग यस्यास्तामिति च । रविरथस्य


चक्रा पुरी क्रमादाक्रम्य कस्यचिद्रृहमेधिनो गृ[१६५] हमध्यमेत्य सुखमध्यवा[१६६]त्सु ।

भिक्षामटद्भिरथ तत्र पृथाकु[१६७]मारै-
 रर्ध विभज्य पृथगर्पितम[१६८] न्नराशिम् ।
आकण्ठमभ्यवहरन्न[१६९]खिलै प्रतीकै
 पुत्रो बभूव मरुत पुनरुक्तपोष ॥ ३७ ॥
तत्र तत्र द्विजैरेते पृष्टा नाश पृथाभुवाम् ।
इत्यूचुर्वयमत्रैव विद्मस्तेषा तु सस्थितिम् ॥ ३८ ॥

यक्षेण केनापि हतो हिडिम्ब इति ब्रुवाणेषु मिथो द्विजेषु ।
आकूतगर्भ हसित सगर्भ्याश्चक्रुर्मुख वीक्ष्य समीरसूनो ॥ ३९ ॥


सूर्यरथस्य सबन्धिनीमक्षथुर चक्रावलम्बितिर्यग्दारविशेषमिव पुरीं क्रमात्कतिप यप्रयाणैराक्रम्य प्राप्य कस्यचिद्रहमेधिनो गृहस्थस्य गृहमध्यमेत्य सुख यथा तथा अध्यवात्सुवसन्ति स्म । वसते कर्तरि लुड् । अत्र बकबलाक्रान्तामित्यादो शब्दमात्रसाधर्म्यान्छेषचतुष्ट्यससृष्टि –‘प्रकृताप्रकृतोभयगतमुक्त्त चेच्छन्दमात्रसाधर्न्यम् । क्ष्लेषोऽय क्ष्लिष्टत्व सर्वत्राघद्वयेनान्ये ॥' इति लक्षणात् ॥

 भिक्षामटद्भिरिति । अथ एकचक्रपुरप्रपेशानन्तर तत्र एकचक्राया भि क्षामटद्भि । भिक्षानमाचरद्भिरित्यर्थ । पृथाकुमारै पायैरन्नराशे । आर्जिता दिति शेष । अर्ध समाश यथा तथा विभज्य पृथगपितमन्नराशिमाक्ण्ठ क्ण्ठपर्यन्तमभ्यवहरन्भुञ्जानो मरुतो वायो पुत्रो भीम अखिलै प्रतीकैरवयवे पुनरुक्तो द्विगुणित पोषो मासलत्व यस्य तथोक्तो बभृव । अतिमासलोऽभूदि- त्यर्थ । वसन्ततिलका ॥ ३७ ॥

 तत्रेति । एते पाण्डवा तत्र तत्र गोष्ठाषु द्विजैब्राह्मणै पृथाभुवा पाण्डवाना नाश दाहजन्य पृष्टा कि नष्टा इत्यनुयुक्ता सन्त वयमत्र एकचक्रायामेव तेषा तु सस्थितिं नाश सम्यक्स्थिति च विद्यो जानीम इत्युक्तप्रकारमूचु । अत्रैव वर्तमानाना कथमस्माक नाशवार्तेति भाव । युग्मविपुलापृत्तम् ॥ ३८ ॥

 यक्षेणेति । केनाप्यनिज्ञातनामगोत्रेण यक्षेण हिडिम्बो हत इति द्विजेषु मिथोऽन्योन्य ब्रुवाणेषु कथयत्सु सत्सु समान एकस्मिन्गर्भे भवा सगर्म्या सहना युधिष्ठिरादय समीरसूनोर्भामस्य मुख वीक्ष्याकूतोऽभिप्रायो गर्भे यस्य तथोक्त


 एकदा सायमन्तर्गृहे निरवग्रह निष्पतद्भिर्बाष्पैस्तरङ्गितोत्तमा-

ङ्गमपत्यमुत्सङ्गभुवि पुरोधाय यातुधानापराधभयानुरोधेन मन्दित क्रन्दितमुत्सृजन्तीं कुन्ती समुपसृत्य विषानिदान विंप्रायताक्षीमप्राक्षीत् ।

सापि ता कृपालुतया हृदि लगद्रदा गद्र[१७०]दाक्षरमाचचक्षे ।
साधयेयमिति धर्मसग्रह सदधाति मिथुन परस्परम् ।
आधये परमनेकजन्मनोरावयोरजनि पापसग्रह ॥ ४० ॥


इसित हास चत्र्कु । नैते जानन्ति त्वया स हत इति साभिप्राय इसन्ति स्से- त्यर्थ । उपजाति ॥ ३९ ॥

 एकदेति । एकदा कदाचित्साय दिनान्तेऽन्तर्गृहे गृहाभ्यन्तरे निरवग्रह निष्प्रतिबन्ध निष्पतद्धि स्रवद्धि । ‘पृष्टिर्वर्ष तद्विघातेऽवग्रहावग्रहो समौ इत्यमर । बाष्पैस्तरङ्गित सिक्त्तमुत्तमाङ्ग शिरो यस्य तथोक्त्तमपत्य पुत्रमुत्सङ्गभुवि ऊरदेशे पुरोधायाग्रे कृत्वा यातुधानस्य बकस्य अपराधात्प्रतिकूलाचरणरूपाद्यद्धय तस्यानुरोध सरोधस्तेन मन्दित मन्दरव क्रन्दित रोदनमुत्सृजन्ती कुर्वन्तीम् । नि शब्द रुदन्तीमित्यर्थ । अन्यथा नगरमात्रस्येव क्षयापत्तेरिति भाव । विप्रस्य निजावासदातुरायताक्षी पत्नी समुपसृत्य सनिधिं प्राप्य कुन्ती विषादस्य दु खस्य निदान मुख्यकारणमप्राक्षीत्पप्रन्छ। पृच्छते कर्तरि लुड् ॥

 सेति । सा विप्रपन्यपि कृपाळुतया याशील्तया हृदि मनसि लगव्याप्रुवन्गदो रोग शोकात्मको यस्यास्ताम् । महान्तोऽन्यसतापात्खिद्यन्तीति भाव । ता कुन्तीं प्रति गद्रदानि दु खतरलान्यक्षराणि वचनानि यस्मिंस्तद्यथा तथाचचक्ष उवाच । दु खनिदानमिति शेष । चक्षते कर्तरि लिट् ॥

 साधयेयमिति । वर्म पित्रर्णापाक्ररणरूप सगृह्यतेऽनेति धमसग्रह पुन साधयेय सपायेयमिति हेतो मिथुन स्त्रीपुरुषौ परस्पर सदधाति सगच्छति । ‘प्रजया पितृभ्य एष वा अनृणो य पुत्री’ इति श्रुते । ‘प्रजायै गृहमेधिनाम्' इति स्मृतेश्च । महतामपत्यार्थमेव दारसग्रह इति भाव । अनेकानि जन्मानि पूर्वाणि ययोस्तयो । इति बहुतरपापसचयघोतनायेद बिशेषणम् । आवयोर्दम्प त्योस्तु पर केबलमाधये मनोव्यथार्थ पाप तत्फल दु ख संगृह्यतेऽनेनेति पापसग्रह अल्पायु पुत्रोऽजनि जात । अत्र पुत्रात्मधर्माय यतमानयोरल्पायु पुत्रात्मकपपाँघाप्तिवर्णनाद्विषमप्रभेद । यत्तु ‘धर्मस्य सप्रह सपादनमिति व्याख्यायि” इति, यत् ‘मिथुनसग्रह’ इति मृसिंहप्रापितम् , तन्न्यूनपरत्वादिदोषाक्षेपणमूलोच्छेदित्वादुपेक्ष्यम् ॥ ४० ॥


अयि कि ब्रवीमि परिपाकमह्सा-
 भतिभीषणो बकइति क्षपाचर।
स्वसुरादरात्स्वयमिवागतो यमो
 यमुनावनान्तमपलम्ब्य वर्तते॥ ४१ ॥

मा भून्नाशो युगपदिति नो भीरुभिर्जातु पौरै
 पूर्वै[१७१]र्लव्ध्वावसरमसकृत्प्रार्थनामि प्रक्लृप्तम्।
एकैकस्मिन्नहनि वितरत्येकमेक पुमास
 नि[१७२]त्य तस्मै वलिमिह जनस्तु्ङ्गमन्नस्य राशिम्॥ ४२ ॥

तादृश प्रलयकालकठोरो वासर स तु ममालयभूमे।
द्वारि तिष्ठति बकात्परितुष्टात्पारितोषिकमिवाद्य जिघृक्षु ॥ ४३ ॥
बालानिव प्रवयसोsपि नराशनोऽय


 अयीति। अयि हे सखि, अहसा पापानाम्। ममेति शेष। परिपाक दु खात्मना परिणाम कि ब्रवीमि क्थ बक्ष्यामि । अनिर्वाच्य भहु खमित्यर्थ। तदेव विशदयति-अतीति। अतिभीषणोऽत्यन्तदारुणो बक इति बकसज्ञ क्षपाचरो राक्षस स्वसुर्भगिन्या यमुनाया आदरात्स्वय साक्षादागतो यम इवेत्युत्प्रेक्षा। यमुनाया वनान्त तीरारण्यमवलम्ब्याक्रम्य वर्तते। मञ्जुभषिणीवृत्तम् ॥ ४१ ॥

 मा भूदिति। नोऽस्माक सर्वेषा युगपदेक्काल नाशो मा भूदिति हेतो। भीरुभिर्भयशीलैरतएव पूर्वै पुरातनै पौरैरेतत्पट्टणवासिभि जातु कदाचिदवसर प्रार्थनावकाश लब्ध्वा असकृद्वहुवार प्राथनाभि प्रक्कृप्त निर्णीतम्। एकैकस्मिन्नहनि एकमेक पुमास, तुङ्गमत्युन्नतम्। पवतकल्पमिति यावत्। अन्नस्य राशिमेतदुमयरुप बलि नित्य दिने दिने तस्मै वकाय इह एतत्पट्टणे जनो वितरति ददाति। 'नित्य तस्मै' इत्यपपाठ। 'कृत्वा तस्मै' इति पाठस्त्वन न्वयित्वादुपेक्ष्य। मन्दाकान्ता॥ ४२ ॥

 तादृश इति।तादृश उक्तबलिप्रदानात्मक अतएव प्रलयकाल इव कठोर प्राणिहिसकत्वाद्दारुणो वासरो दिन परितुष्टात् ब्राह्मणोऽय वलि ददातीति प्रिय वाक्यश्रवणेन सतुष्टात् बकाद्राक्षसात्पारितोषिक प्रियवाक्याहारदेयद्रव्य जिघ्रुक्षुर्गृहीतुमिच्छुरिव। ममालयभूमेर्निवासस्य द्वारि द्वारदेशे अघ श्र्व प्रातरिति वर्तमानसामीप्ये वर्तमानत्वनिर्देश। तिष्टति। तत्तद्रृहवारानुपूर्व्या श्व प्रातर्बलिरस्माभिर्देय इत्यर्थ। स्वगतावृत्तम्॥ ४३ ॥

 बालानिति । अय नरशनो बको वालानिव । यून इवेत्यसो वृद्धा


भुञ्जीत चेन्मम स एव हि पुण्यपाक ।
बालेन भाव्यमिति तद्वलिषु व्यवस्था
कण्ठे पुन [१७३] कलयति क्रकचस्य धाटीम् ॥ ४४ ॥
सतानमूलमिदभेकमपत्यमास्ते
सवर्तकालसहजश्च स राक्षसेन्द्र ।
सभूयते च समय क्षपया महत्या
सतीर्यता कथमिय सखि मे विपत्ति ’ ॥ ४५ ॥

इत्युदीर्य सरभसावगाहनैदसमुत्कूलित शोकसर पूरमिव नयन- सलिल विशृङ्खळ खेलयन्त्यै तस्यै ‘तनयेषु द्वितीय समरेष्वद्वितीय सुत सखि, ते’ दीयते । स एव [१७४]तत्प्राणनाशने बलीभविष्यति । मा भैषी ’ इति सा नरदेवमहिषी प्रत्यश्रौषीत् ।


नपि भुञ्जीत चेद्भक्षयेद्यदि स वृद्धभक्षणमेव पुण्याना पाको हि फल खळु । तन्मा- त्रमपि नास्तीत्याह--बालेनेति । तस्य बक्स्य बलिषु विषये बालेन भाव्य भवितव्यमित्युक्तप्रकारा व्यवस्था प्राचीननिष्कर्ष पुन कण्ठे क्रकचस्य करपत्रस्य धाटी भङ्गी कलयति योजयति । आवयोर्दम्पत्योर्युद्धत्वात् तरुण पुत्र एवाय तद्वल्यर्थ देय इति महहु खमिति भाव । वसन्ततिलका ॥ ४४ ॥

 सतानेति । सतानस्यास्मद्वशस्य मूलमविच्छेदकारणमिद पुरोवर्ति अपत्य पुत्र एकमेवास्ते वर्तते । तद्दानाद्वशोच्छेद इति भाव । ननु कदाचित्कृपया बक पुन पुत्र दद्यादित्यत आह--सवर्तेति । स राक्षसेन्द्रश्च बकस्तु सवर्त कालस्य सहज । सदृश इत्यर्थ । तथा च प्राणिहिंसाविहाराणा कुत कृपेति भाव । ननु कालान्तरभाविनीमापद विचिन्त्य किमघैव शोचसीत्यत आह - सभूयत इति । महत्या दु खदुर्भरया क्षपया एकयैव रात्र्या समयो बलि प्रदानावसर सभूयते सप्राप्यते । प्रभाताया रजन्यामेव बलिर्देय इत्यर्थ । अतो न कालान्तरीणा विपदिति भाव । इय उक्त्त मे मदीया विपत्ति । हे सखि, कथ केन प्रकारेण सतीर्यतामतिक्रम्यताम् । तरते कमणि प्राप्तकाले लोट् ॥ ४५ ॥

 इतीति । इत्युक्तप्रकारेणोदीर्योक्खा सरभसमतिवेगमवगाहन निमज्जन यस्य तथोक्तेन हृदयेन मनसा समुत्कूलित तट प्रापित शोक एव सरो जल तस्य पूर प्रवाहमिव स्थित नयनयो सलिल विशृङ्खल निष्प्रतिबन्ध यया तथा खेल यन्त्यै प्रसारयन्त्यै तस्यै ब्राह्मणपत्न्यै । हे सखि, ते तुभ्य मम तनयेषु द्विती- योऽपि समरेष्वद्वितीयोऽसदृश सुतो भीमो दीयते । मयेति शेष । स भीम एव तस्य बकस्य । प्राण्यते जीव्यतेऽनेनेति प्राणन यदशनमन्न तद्विषये बली


अनयोरथ दम्पत्योरक्षुहेतो शुच पदे ।
आनन्दस्यातिरेकोऽभूदादेश इव तत्क्षणम् ॥ ४६ ॥

तभिम प्रसुवा रहस्युदन्त गदितो वायुसुतो बळावलेपात् । मनसा न बक लिलेह रात्र्यामनसा धारितमन्नराशिमेव ॥ ४७ ॥

 अपरे [१७५] घुर्निखिलजनानन्दकरे भगवति दिनकरे[१७६]ऽपि मन्देहकुलमवस्कन्दितुमुदयगिरिशिखरमधिरूढे

स शकटमधिरुह्य भीमसेनो दधिकलशीकुलशीभ[१७७]रान्नराशिम् ।


भविष्यति बलिर्भविष्यति । तत्प्राणाना नाशने विषये बली बलवान्भविष्य तीति च । अतो भा भैषीर्न त्रस्ये । भये कर्तरि छट् । इत्युक्तप्रकारेण सा नरदेवस्य पाण्डो महिषी पत्नी कुन्ती प्रत्यक्ष्रौषीत्प्रतिज्ञामकरोत् । प्रतिपूर्वाच्छृ णोते कर्तरि लुड्। विरोधाभासक्ष्लेषयो समुष्टि ।

 अनयोरिति। अथ कुन्तीप्रतिज्ञानन्तरमनयोर्दम्पत्योर्व्राणीब्राह्मणयोरक्ष्रुहे तोर्बाष्पकारणस्य शुचो दु खस्य पदे स्थाने । मनसीति यावत् । शुच इति राहो शिर इत्यादिवदभेदे षष्ठी । तथा च ‘शुगभिन्ने पदे शब्दे’ इति च । आन न्दस्यातिरेक सतोषातिशय आदेशोऽतिथिरिव। व्याकरणशास्त्रप्रसिद्धशब्दान्तर- मिवेति च । तस्मिन्नेव क्षणे तत्क्षणमभूत् । व्याकरणेन युष्मदादिपदे आदेश विधया त्वमादिपदमिवाश्रुपद दूरीकृत्य आनन्दातिरेकपदमभूदित्यर्थ । उप मालफार ॥ ४६ ॥

 तमिति । वायुसुतस्तमिम पूर्वोक्तमुदन्त वार्ता प्रति रहसि प्रसुवो जनन्या गदित कथित सन् । बलावलेपाच्छौर्यगर्वाद्धेतो बकमसुर रात्र्या मनसा न लिलेह न स्पृष्टवान् । न गणयामासेति यावत् । कितु अनसा शकटेन धारित सभरितमन्नराशिमेव मनसा रात्र्या लिलेहास्खादितवान् । श्व पूर्णाहारो मम भवेदिति सर्वामपि रजनीं ध्यायन्नतिष्ठदित्यर्थ । लिहे कर्तरि लिट् । औप- च्छन्दसिकम् ॥ ४७ ॥

 अपरेघुरिति । अपरेघु परस्मिन्दिने निखिलजनानामानन्दकरे । दृष्टि रोधितिमिरवारणादिति भाव । ‘अखिलजननयनानन्दकरे इति क्कचित्पाठ । भगवति दिनकरे सूर्येऽपि । इत्यपिना भीमस्य बकावस्कन्दन समुच्चीयते । मन्देहाना नाम राक्षसाना कुलम् । ‘बृन्दम्’ इति वा पाठ । अवस्कन्दितु नाशयितुम् । उदयगिरे शिखरमधिरूढे प्राप्ते सतीत्युत्तरेणान्वय । मन्देहा नाम राक्षसा सध्यासु सूर्ये क्षण निरुध्य नश्यन्तीति श्रुतिसिद्धम् ।

 स इति । स भीमसेनो दधिकलशीना दधिकुम्भाना कुल वृन्द । अश्वते


बकभवनवन विवेश शाखनगरमिवान्तकवीरराजधान्या ॥ ४८ ॥

कङ्कालोच्चयकल्पितान्तकचमूशाटीकुटीविभ्रमे
 तत्र क्रुद्धतदौपवाह्यमहिषश्वासोग्रचक्रानिले ।
गृध्रध्वाङ्क्षगालघोषविकसद्रक्षोपदानस्तवे
 भुञ्जान शकटस्थ एव स तदा चक्रे मह[१७८] त्क्ष्वेलितम् ॥ ४९॥

सोऽपि तदिद निशम्य बलिपुरुषविशेष[१७९]मन्दितशकटागमेन प्रथम- मेव कृतोन्मेष रोष द्विगुणयन्गिरिकदमन्दिरमुखात्सरभस विनिर्गत्य

एव को वापराध्नोत्यमुमविगणयन्बाहुमत्रेति घुष्य-
 न्व्यक्तोरोरक्तरेखाकृतबिरुदजगद्धातुकत्वप्रशस्ति


व्याप्नोतीति व्युत्पत्तौ शकन्ध्वादित्वात् पररूपे पिप्पल्यादित्वात डीषि च। कुलशी पङ्क्त्ति ता बिभर्तीति भर तादृशोऽन्नस्य राशिर्यस्मिस्तथोक्तम् । ‘दधिकलशी कुलपीवरान्नरशिम् इति पाठस्तु सुगम । शकटमधिरह्यान्तकवीरस्य यमस्य या राजधानी सयमनी तस्या शाखानगर उपपट्टणमिव स्थितम् । ‘यन्मूल नगरात्पुरम् । तच्छाखानगरम्' इत्यमर बकस्य भवन यस्मिस्तद्वनं विवेश । उत्प्रेक्षा । पुष्पिताग्रा ॥ ४८ ॥

 कङ्कलेति । कङ्कालाना शरीरशल्यानामुच्चयेन समूहेन कल्पितोऽन्तक चम्बा यमसेनाया शाटीकुटीविभ्रम पटगृहविलासो यस्मिस्तथोक्त्ते । ’स्याच्छ रीरास्थि कङ्काल ' इत्यमर । क्रुद्धस्य कुपितस्य तदौपवाह्यस्य यमवाहनस्य महि षस्य श्वासा इव उग्ना दारुणाश्चकानिला आवर्तवायवो यस्मिस्तथोक्त्ते गृध्रध्वा क्षाणा कङ्काकाना शृगालना शिवाना च घोषैर्घोरघ्वनिभिर्विकसन्वर्धमानो रक्षसो बकस्यापदानानि प्राणिहिसात्मककर्माणि तत्सबन्घिन स्तवो यस्मिंस्तथोक्त्ते । तादृग्ध्वनिव्याजतद्विरुदस्तुतिरवमुखरित इत्यर्थ । तत्र बकवने शकटस्थ सन्नेव भुञ्जानोऽन्नराशिं भक्षयन्स भीमो महद्वकहृदयभेदन क्ष्वेलित सिंहनाद चक्रे । अत्र बलिभक्षणक्ष्वेलिताभ्या भीमस्य तृणीकृतबकबलावलेपप्रतीतेर्वस्तुना वस्तु ध्वनि । शार्दूलविक्रीडित श्रुत्तम् ॥ ४९ ॥

 स इति । स बकोऽपि तदिद भीमसिहनाद निशम्य श्रुत्वा बलिनान्नेन बळवलेति च पुरुषविशेषेण महापुरुषेण भीमेन च द्वाभ्या मन्दितेन विलम्बितेन शकटस्यागमेनागमनहेतुना प्रथम सिंहनादश्रवणात्पूर्वमेव कृत उन्मेष उत्पत्ति र्यस्य त रोष क्त्रोध द्विगुणयन्पुनरुक्तयन्सन् । गिरे कदर गुहा सैव मन्दिर तस्य मुखाद्वारात्सरभस सवेग यथा तथा विनिर्गत्य बहिरागत्येत्युतरेणान्वय

 एवमिति व्यक्त्तभि स्फुटाभिरुरसि रक्तरेखाभी रुधिरलेपधाराभि


क्रोशन्मर्याङ्गखादत्वरणपरिचलसृ[१८०] क्कलग्नास्थिण्ड-
 स्थूले दष्ट्रे दधान पवनभुवमभि प्राद्रवद्यातुधान ॥ ५० ॥
निजभुजयुगलीनियञ्त्रणाभिर्नियमितयत्नपरस्परावुभौ तौ ।
निगडितनयन निलिम्पपङ्क्त्तेर्निरवहता निपुण नियुद्धशिल्पम् ॥ ५१ ॥

 तत[१८१]

पुत्रस्य वायोर्भुजदौर्ललित्य बक वने तत्र चिर चरन्तम् ।
निन्ये दशा कामपि राक्षसस्त्रीने[१८२]त्राभ्रवर्षर्तुविलासयोग्याम् ॥ ५२ ॥

 त विकृष्य पुरसीम्नि निशीथे तत्क्षणात्कुणपमर्शनदोषम् ।


कृतानि बिरदानि जयचिह्नानि यस्यास्तथोक्त्ता तादृशी जगतो घातुकत्वेन वधेन या प्रशस्ति क्ष्लाघा सा यस्य तथोक्त । क्रोशता वेदनया रदता मर्त्याना बली भूतानामङ्गखादेऽवयवभक्षणे त्वरणेन वेगेन परितश्चलतो सृक्कणोरोष्ठप्रान्तयो र्लग्ने अस्थिदण्डाविव स्थूले चेति विशेष्यत्वविवक्षया समास । दष्ट्रे दन्तवि शेषौ दधानो यातुधानो बकोऽमु बाहुमविगणयन्नविचारयन् । एवमुक्कप्रकार- मत्र मयि विषये को वा अपराध्नोत्यपराध करोतीति घुष्यन् घोष कुर्वन्सन् पवनभुवमभि भीमस्याभिमुख प्राद्रवद्धावति स्म । यत्तु ‘क्त्रोशतो मर्त्यस्य भीम स्य’ इति, ‘लग्ना पूर्वामेवेति शेष ’ इति नृसिंहप्रलपितम् , तत्तन्नामानुरूप मेव । यत प्रथमे तत्प्रकर्षस्य द्वितीये च्युतसस्कारस्य च दोषस्यापत्ते ॥ ५० ॥

 निजेति । तावुभौ भीमबकौ निजाभ्या भुजयोर्युगमीभ्या नियन्त्रणाभि- र्बन्धैनियमितो निरुद्धो यत्नो यस्य तादृश परस्परमन्योन्य ययोस्तथोक्त्तौ सन्तौ । परस्पर भुजाभ्या बन्धने घृतयत्नवित्यर्थ । निलिम्पाना देवाना पङ्क्त्ते सङ्धैर्नि गडिते आश्चर्येण क्षृङ्गलिते नयने यस्मिस्तथोक्तम् । देवैराश्चर्यात्परिहृतविषयान्तर यथा तथा आलोक्यमानमित्यथ । नियुद्धशिल्प बाहुयुद्धकर्म निपुण यथा तया निरवहता कृतवन्तौ । नि पूर्वाद्वहते कर्तरि लड् । पुष्पिताग्रा ॥ ५१ ॥

 तत । पुत्रस्येति । ततो वायो पुत्रस्य भीमस्य भुजयोदौर्ललित्य दर्पस्तत्र वनेऽरण्ये जले च चिर चरन्त सत्त्वानि भुञ्जान बक राक्षस पक्षिविशेष च। राक्षसस्त्रीणा नेत्राण्येवाभ्राणि मेघास्तेषा वर्धतौं यो विलासो पृष्टथात्मकस्तस्य योग्यासुचिता कामपि दश दुरवस्था निन्ये गमयामास । भीमबाहुबलेन बको ममारेत्यर्थ । नयतेर्दुहादित्वाद्विकर्मकत्वम् । ‘नेत्राक्ष्रुवर्षर्तु-' इति पाठो नेत्र पदवैयर्थ्यापत्तेरुपेक्ष्य । उपजाति ॥ ५२ ॥

 तमिति । मारुतसूनुर्मीमस्त निहत बकम् । तच्छवमिति यावत् । निशीथेऽर्धरात्रे पुरसीम्नि नगरद्वारे विकृष्य । पातयित्वेत्यर्थ । तत्क्षणात्कुणपस्य शवस्य मर्शनेन स्पर्शेन यो दोषस्त मार्ष्टु क्षालितु कामो यस्य तथोक्त्त इवेत्यु-


   मार्ष्टक्षाम इव मारुतसूनुर्मातुरङ्गिमुपसेवितुमागात् ॥ ५३ ॥

आलोक्य यातुश्वमेतदशेषपैौरैरहमुखे परवशीक्रियते स्म चेत ।
आश्चर्यपूरपरिमेलनफेनिलाभिरानन्दसागरतरगपरम्पराभि ॥५४॥
भवनमेत्य तदा गृहमेधिन पवनजे प्रवणीकृतमूर्धनि ।
प्रयुयुजे सममाशिषमक्षतै प्रमुदित पुरि तत्र महाजन ॥ ५५ ॥
निशि जातु निकेतवेदि [१८३]काया निकटे सुप्तिसुख निषेव्य पार्थान् ।
पथिकोऽपररात्रजागरूक प्रबभाषे गिरमीदृशीं प्रसङ्गात् ॥ ५६ ॥

पाञ्चालिका युवमनोरथसौधरन-
 पाञ्चालिका हृदि ममेति ममेति कृत्वा ।
अद्य स्खयवरमहाय नृपा प्रयान्ति
 द्वतै सम द्रुपदभूपतिराजधानीम् ॥ ५७ ॥


त्प्रेक्षा । ‘तु काममनसोरपि' इति मकारलोप । मातु कुन्त्या अऊिँ चरण मुपसेवितुमागाहूतवान् । ‘न मातुर्दैवत परम्’ इति स्मरणात्तदङ्गिसेवाया सकलदोषनिवारकत्वादिति भाव । स्खागता ॥ ५३ ॥

 आलोक्येति । अशेषे पौरैरहोमुखे प्रातरेतपुरसीम्नि विकृष्ट यातुनो बकस्य शवमालोक्य आश्चर्यस्य रसस्य य पूर प्रवाहस्तस्य परितो मेलनेन सग मेन ’ फेनिलाभि फेनवतीभि । एकस्मिञ्जलै जलान्तरस्य मेलने मिथ सघ- र्पणेन फेनोदयादित्थमुतमिति ध्येयम् । आनन्दसागरस्य तरगाणा परम्पराभि- श्वेत पौरमन परवशीक्रियते स्म । अत्याश्चर्योऽय बकवधोऽनेन कृत इत्या क्ष्त्रर्येण पौरा ननन्दुरित्यर्थे । वसन्ततिलका ॥ ५४ ॥

 भवनमिति । तत्र पुरि तदा प्रातर्महाजन प्रमुदित सन्गृहमेधिनो भीमा वासगृहस्थस्य भवन गृहमेत्य । प्रवणीकृतो नत्रीकृतो मूर्धा शिरो येन तस्मि न्पवनजे भीमे विषयेऽक्षतै सममाशिष प्रयुयुज उदीरितवान् । प्रपूर्वायुजे कर्तरि लिट् । उपकृतस्य प्रत्युपकारावश्यकत्वादिति भाव । हृतविलम्बितम्। ५५

 निशीति । जातु कदाचित्पथिक कश्चित्पान्यो निशि रात्रौ निकेतस्य पाण्डवावासगृहस्य वेदिकाया प्राङ्गणवेदिकाया निकटे खसमीपे क्षुप्तिसुख निद्रा सौख्य निषेव्य प्राप्य । अपररात्रेऽरुणोदयवेलाया जागरूक प्रबुद्ध सन् प्रस ङ्गात्कथाप्रस्तावात्पार्थान्प्रति ईदृशी वक्ष्यमाणप्रकारा गिर वाच प्रबभाष उक्तवा न्। औपच्छन्दसिकम् ॥ ५६ ।।

 पाञ्चालिकामिति । अद्य नृपा यूना तरुणाना मनोरथेषु कामेष्वेव सौधेषु हम्र्येषु रत्नमयी पाञ्चालिका कृत्रिमपुत्रिक पाञ्चालिकां द्रौपदीम् । ‘पाञ्च


भोक्तुमन्नमपि सूपसमग्र दोग्धुमप्यभिनवप्रसवा गा ।
लप्स्यते द्विजगणोऽपि च तस्माद्वसलाहुहितुरुत्सवकाले ॥ ५८ ॥
न हि तत्र भवेदपार्थता विजय सिद्धिमुपैष्यति स्फुटम् ।
युगपत्सुखमस्तु वो महद्भुतमागच्छत तन्महौजस ’ ॥ ५९ ॥
इति वाचमुपश्रुति द्विजातेर्ह्रदि कृत्वा सुधयेत्र निर्मिता ताम्।
पथि भूसुर[१८४] सघमध्यभाज प्रति पाञ्चालपुर प्रतस्थिरे ते ॥ ६० ॥
ते पुनर[१८५]र्प्यनेकदिननीतजनपदवनसीमान पथि कृतोदयेन भग-


लिका पुत्रिका स्याद्वनदन्तादिभि कृता’ इत्यमर । ममेय भवेदिति हृदि कृत्वा। मनसि निश्चित्येत्यथ । स्वयंवर इति महानुत्सवस्तस्मै दूतैराह्वानार्थमागतैद्रौपदे सम दुपदभूपतिराज बानी प्रयान्ति । इपदपुरमित्यथ । अत्र सौधरत्नपाञ्चालि केति परम्परितकेवलरूपकम् । वसन्ततिलका ॥ ५७ ॥

 तर्हि राजान प्रयान्तु। किमसाक ब्राह्मणाना तत्रेत्त्यत आह--भोक्तुमिति। द्विजाना गणोऽपि भोक्तु सूपेन समश्र सपूर्णमनमपि । दोग्धुमभिनवो नूतन प्रसव प्रसूतिर्यासा ता गा अपि । दुहितु सुताया द्रौपद्य उत्सवकाले खय वरोत्सवसमये वत्सलाडुहितृप्रेमवतस्तस्मादु पदारुप्यते प्राप्स्यते । खागता वृत्तम् ॥ ५८ ॥

 न हीति । किंच तत्र द्रौपदीस्वयवरोत्सवे । हि यस्मात् । अपार्थता व्यर्थत्व न भवेत् । पार्थोऽर्जुनो न भवतीत्यपार्थस्तस्य भावस्तत्ता अर्जुनभेदो न भवेदिति च । तत कारणात् विजय । गमनमित्यर्थ । ‘उपसर्गेण था- त्वर्थो बलादन्यत्र नीयते’ इत्यनुशासनादिति भाव । सिद्धि साफल्यमुपै- ध्यति लप्स्यते । विजयोऽर्जुन सिद्धि द्रौपदीलाभरूपामुपैष्यति स्फुट नून मिति च । दघिवृतसूपसमृद्धान्नराशिलाभान्मत्स्यभेदनद्वारा द्रौपदीलाभावेयुः भयत्र भात्र । हे महौजस उत्कृष्टतेज शालिन , वो युष्माक महत्सुख युग पदेकदैव साहित्येनेति च । अस्तु । तत्तस्साठत सत्वरमागच्छत । वैता लीयवृत्तम् ॥ ५९ ॥

 हतीति । इत्युकप्रकारामुपश्रुतिं व्यजनया भाव्यथसूचनीम् । अर्जुनद्वारा द्रौपदीलाभेन सर्वेषा सौख्यलाभव्यक्षकामिति यावत् । अतएव सुधयामृतेन निर्मितामिव स्थिता द्विजातेब्रार्ह्मणस्य ता वाच हृदि कृत्वा । अङ्गीकृत्येत्यर्थं । ते पाण्डवा पथि मार्गे भूसुरसधस्य ब्राह्मणवृन्दस्य मध्य भजन्ति प्राप्नुवन्तीति भाजसन्त पाञ्चलस्य द्रुपदस्य पुर प्रति प्रतस्थिरे । औपच्छन्दसिकम् ॥ ६० ॥

 त इति । ते पाण्डवा अपि अनेकैदिनैनीतानामतिकान्तान जनपदाना देशाना बनानामरण्याना सीमा भागा यैस्तथोक्ता सन्त । पथि मार्गमध्ये पुनरपि


वता पराशरदायादेन ‘जतुभ[१८६] वनपरिच्यवनेन वो नवो हर्ष पार्ष- तस्य समुन्मिषति’ इति गिरानुगृहीता साक्षात्प्ररोहता भुजप्रतापा नलेनेव फ[१८७]ल्गुनकरवेल्लितेन महतालाततेजसा निशि[१८८] नितान्तसीम न्तितसतमसया पदव्या त्रिविष्टपतटिनीं स[१८९]मया प्राविक्षन् । त[१९०]त्र खलु

इन्दीवरात्प्रतितरगमनुप्रविष्टै-
 र्बिम्बैरिवाब्धिदुहितुस्तरुणीकदम्बै ।
क्रीडन्सम पयसि चित्ररथो विलोक्य
 पार्थान्रूरोध कुपित प्रधन चिकीर्षु ॥ ६१ ॥
अस्त्रमात्मसमनामदैवत सप्रयुज्य समरे धनजय ।
तत्र तस्य रथमग्रवर्तिन जातुषालयसहायमातनोत् ॥ ६२ ॥


कृत उदय साक्षात्कारो येन तेन । शालिहोत्राश्रमे पूर्वदत्तदर्शनत्वात्पुनरपीत्युक्तम्। भगवता त्रैकाल्यवेदिना पराशरस्य सुनेर्दायादेन पुत्रेण व्यासेन । “दायादौ सुतबान्धवौ' इत्यमर । वो युष्माक जतुभवनाज्जतुहाद्दद्यमानात्परिच्यव नेन निरुपद्रव निर्गमनेन पृषतो द्रुपदपिता तदपत्यस्य पार्षतस्य नवो नूतन । मृत्वा पुनरुत्थितितुल्य इति यावत् । हर्ष समुन्मिषति जायते । इत्युक्त प्रकारया गिरानुगृहीता सन्त साक्षान्मूर्तीभूय प्ररोहता निर्गच्छता भुजयो प्रताप एवानलोऽग्निस्तेनेव स्थितेन फल्नकरवेल्लितेन महतालातस्य करधृत काष्ठाङ्गारस्य तेजसा निशि रात्रौ नितान्त सीमन्तित पार्श्वयोद्दीिधा नि सा रित सतमसमन्धकारो यस्या तया पदव्या वनमार्गेण त्रिविष्टपस्य स्वर्गस्य तटिनी नदीं गङ्ग समया। तस्या समीपमित्यर्थ । ‘अभित परित -' इत्यादिना द्वि तीया। प्राविक्षन् । विशते र्क्तरि लुइ ॥

 तत्र खळु । गङ्गायामित्युत्तरेणान्वय ॥

 इन्दीवरादिति । इन्दीवरान्नीलोत्पलात् । रात्रौ तत्रैव लक्ष्म्या स्थितेरिति नाव । तरणे तरगे प्रतितरगमनुप्रविष्टै क्रमेण सक्रान्तैरब्धिदुहितुर्लक्ष्म्या बिम्बै प्रतिबिम्बैरिव स्थितैतरणीना कद्भ्बै समूहै समम् । तै सहेत्यर्थ । पयसि गङ्गाजले क्रीडन् । चित्ररथो नाम गन्धर्व पार्थान्विलोक्य कुपित क्रुद्ध सन् । स्त्रीभि सहैकान्तस्थितौ एषामागमस्य लज्जाकरलेन क्त्रोधोत्पादकत्वादिति भाव । अतएव प्रवन कर्तुमिच्छु चिकीर्षु सन् । रुरोव निरुद्धवान् । अन्न पार्थावलोकनस्य प्रधनेच्छा प्रति तस्याश्च तन्निरोध प्रति हेतुत्वात्पदार्थहेतुक काव्यलिङ्गद्वयमङ्गिभावेन सकीर्णम् । वसन्ततिलका ॥ ६१ ॥

 अन्नमिति । धनजयोऽर्धेन समरे चित्ररथेन सह युद्ध आत्मना सम


गन्धर्वाणा पत्युर्गर्वजुष सौरसैन्धवे तस्मिन्।
पाथसि भङ्ग शिशिरो रोधसि भङ्गस्तु तापहेतुरभूत् ॥ ६३ ॥
सख्यस्य लाभात्सपदि प्रहृष्यन्कुशीलवेन्द्र कुरुनन्दनानाम् ।
प्रादर्शयत्वा प्रथम विनीति पश्चादमीषा पदवीं च रम्याम् ॥ ६४ ॥
धर्मभूरथ सहोदरै सम धौम्यमध्वनि समीक्ष्य विश्रुतम् ।
प्राणिनामयमहिसकोऽपि सन्पादपीडनममुष्य कलृप्तवान् ॥ ६५ ॥
यथातिथ्यविधौ प्रीत स पुरस्कुरुते स्म तान् ।
तथाध्वगमने तेऽपि त प्रश्रयवशवदा ॥ ६६ ॥


तुल्य नाम वनजय इत्यारया यस्य तादृश दैवतमद्भिर्यस्य तत् आग्रेयमस्त्र सम्यक्प्रयुज्य तत्र गङ्गातटेऽग्रे स्खस्य पुरो वर्तत इति तथोक्त तस्य चित्ररथस्य रथ जातुषालयस्य लाक्षागृद्दस्य सहायम् । दग्धत्वेन सदृशमित्यर्थ । आतनो त्कृतवान् । आग्नेयास्त्रेण तद्रथ दग्धवानित्यर्थ । ‘धनजयोऽर्जुने वहो ' इति विश्व । रथोद्धता ॥ ६२ ॥

 गन्धर्वाणामिति । गर्व जुषत इति गर्वजुषोऽहकारान्वितस्य गन्धर्वाणा पत्युश्चित्ररथस्य सुरसिन्धोर्गङ्गया सबन्विनि सौरसैन्धवे तस्मिन्पाथासि जले भङ्गस्तरंग शिशिर शीतलोऽभूत् । रोधसि तादृशे तटे भझ पराजयमुं ताप हेतु सतापजनकोऽभूत् । अत्र तरगपराजययो श्लेषभित्तिकाभेदाध्यवसाय मूलातिशयोक्त्यनुप्राणितो विरोधाभास इति तयोरङ्गाङ्गिभावेन सकर । गीतिरार्या–‘आर्याप्रथमलोक्त यदि कथमपि लक्षण भवेदुभयो । दल्यो कृतयतिशोभा ता गीतिं गीतवान्भुजङ्गेश ।' इति लक्षणात् ॥ ६३ ॥

 सख्यस्येति । सपदि तदानी कुशीलवाना गायकानामिन्द्रश्चित्ररथ सख्यस्य पाण्डवै सह मैत्र्या लाभात्प्रहृष्यन्सतुष्यन्सन् । प्रथममादौ कुरुनन्दनाना पाण्डवाना खा खीया विशेषेण नीतिं पुरोहितानुगामित्वादिरूपा प्रादर्शयदो धितवान् । ‘राजा गच्छेत्प्रयाणे तु पुर कृत्वा पुरोहितम्’ इति स्मरणादिति भाव । पञ्चदनन्तर तु अमीषा पार्थाना रम्या पदवी मार्ग प्रादर्शयद्दी यामास । उपजाति ॥ ६४ ॥

 धर्मेति । अथ मार्गद्वयप्रदर्शनानन्तरमय धर्माधमाद्भवतीति धर्मभूर्युधि ष्ठिरो विद्युत ज्ञानविज्ञाननिधित्वेन प्रख्यातम् । ‘वित्तविज्ञातविश्रुता’ इत्यमर । धौम्य नाम ब्राह्मणमध्वनि मागेंमध्ये समीक्ष्य । प्राणिनामाहिंसकोऽपि सन् । अमुष्य धौम्यस्य पादयो पीडन बाधन नमस्कार च सहोदरैभीमादिभि सम कृप्तवान्कृतवान् । विरोधाभास । रथोद्धता ॥ ६५ ॥

 यथेति । स धौम्य प्रीत पौरोहित्यवरणेन संतुष्ट सन्। आतिथ्यवि धावतिथिपूजाया तान्युधिष्ठिरादीन् यथा पुरस्कुरुते स्म समानितवान् अग्रे


 धौम्यस्य सुधामधुरिमधौरेयीभि स्वयवरकथाभि ।
 द्रुपदपुरसरणिरेषा द्वित्राण्यभवत्पदानीव ॥ ६७ ॥
भूदेवेष्वतिनिबिडेषु मध्यभाजा पञ्चानामपि युगपत्पृथासुतानाम् ।
पुस्फोर द्रुपदपुर पुर प्रदेशे वक़ब्जे सरभसमक्षि दक्षिण च ॥ ६८॥
 कुमारिकाया द्रुपदस्य भूपते कुचोपमाद्रव्यमिवामिवीक्षितुम् ।
 कुरूद्वहास्तत्र पुरे कुतूहलात्कुलालगेह प्रथम समाविशन् ॥ ६९॥
 तामागमन्नथ पुरीं शतश ससैन्या
  स्मार युगोदयमिवाङ्गतमावहन्त ।
 भूपा स्तुता भुजमुदस्य पठद्भिरग्रे
  पद्य निबद्धबिरुद पटुबन्दिवृन्दै ॥ ७० ॥


कृतवाथेति च । प्रश्रयवशवदा विनयपराबीनास्ते युधिष्ठिरादयोऽप्यध्वनि मार्गे गमने विषये त धौम्य तथा पुरस्कुर्वते स्म । समानितवन्तवेति ॥ ६६ ॥

 धौम्यस्येति । सुधामधुरिम्णोऽमृतमाधुर्यस्य बौरेयीभिर्धुरधराभिर्वौम्यस्य सबन्धिनीभि । तत्कथ्यमानाभिरिति यावत् । स्खयवरकथाभि । द्रौपद्य इति भाव । द्रुपदपुरस्य सरणिर्माणं दू वा त्रीणि वा द्वित्राणि पदांनीव । द्वित्रिपदपरिमितमार्ग इवेति वा। अभवत् । आर्या धृत्तम्—‘लक्ष्मै तत्सप्तगणा गोपेता भवति नेह विषमे ज । षष्ठोऽय सलधू वा प्रथमेऽर्थे नियतमार्याया ॥ षष्ठे द्वितीयलान्ले परके मुखलाच्च सयतिपदनियम । चर मेऽर्थे पञ्चमके तस्मादिह भवति षष्टो ल ॥ इति लक्षणात् ॥ ६७ ॥

 भूदेचेष्विति । अतिनिबिडेष्वत्यन्तसान्द्रेषु भूदेवेषु ब्राह्मणेषु मध्यभाजा पञ्चनिमपि पृथा कुन्ती तत्सुताना युधिष्ठिरादीना पुर प्रदेशे द्रुपदपुर युगपदेकदैव पुस्फोर स्फुरितमभूत् । ते दुपदपुर ददृशुरित्यर्थ । वक्त्राब्जे तेषा मुखपझे दक्षिणमक्षि नयन च युगपत्सरभस पुस्फोर स्पन्दते स्म । अत्र द्रुपद पुरदृग्विषयीभृवनाक्षिचलनयोयौंगपद्यात्समुच्चयालकार । 'गुणक्रियायौगपध समुच्चय ’ इति लक्षणात् । प्रहषिणी ॥ ६८ ॥

 कुमारिकाया इति । कुरूद्वहा पाण्डवास्तत्र पुरे द्रुपदस्य भूपते कुमा रिकाया द्रौपद्यां कुचयोरुपमाद्रव्य सदृशपदार्थम् । घटमिति यावत् । कुतूह लात्प्रथम द्रौपदीदर्शनात्पूर्वमेव अभिवीक्षितुमिवेत्युत्प्रेक्षा । कुलालस्य कुम्भका रस्य गेह समाविशन्प्रविशन्ति स्म। वशस्थम् ॥ ६९ ॥

 तामिति । अथ पाण्डवप्रवेशानन्तर स्मार मन्मथमयमत एवाहुतं युगोदयम् । सृष्ट्याविर्भावमित्यर्थ । आवहन्त कुर्वन्त इव स्थिता इत्युत्प्रेक्षा । सर्वेऽप्यतिकन्दर्पसौन्दर्यशालिन इत्यर्थे । ससैन्या भूपा दक्षिणभुजमुदस्यो

द्यावाभूमी निरुन्धन्यदुवलरजसा श्रेणिभि सीरपाणि-
 र्वेगादागात्स वीर स्वविनयगुरुणा शौरिणान्वीयमान ।
आहारक्ष्चायुध च द्विषद्ववमतये येन ससेव्यमाने
 ते द्वे हालाहलत्व रणभुवि वहतो नामत कृत्यतश्च ॥ ७१ ॥
 बिभ्राणो मणिदी[१९१]प्रकुण्डलभर कर्णत्रय पार्श्वयो-
  रग्रे चातिमनोज्ञरूपमखिलेष्वङ्गेषु दुर्योधन ।
 सेनादुन्दुभिनादतुन्दिलनभा स्वस्यानुबिम्बायितै-
  रासीदत्स नवाधिकै परिवृतप्रान्तो नवत्यानुजै ॥ ७२ ॥


द्धृत्य निबद्धानि विरदानि जयचिह्शब्दा यस्मिंस्तत्पद्य लोकम् । जात्येकवच नम् । पठद्भिरुच्चरभ्दि पटुभि स्तवनसमयैंर्वन्दिना वेतालिफाना पृन्दै स्तुता स्तूयमाना सन्त शतशस्ता दुपदपुरीमागमन्नागतवन्त वसन्ततिलका ॥७०॥

 द्यावाभूमीति । सीर हल पाणौ यस्य तथोक्त्त स वीरो बलरामो यदूना यादवाना यद्वल चतुरङ्ग तस्य रजसा श्रेणिभि पटिक्त्तभिर्धावाभूमी अन्तरिक्ष भूमिं च निरन्बनाछादयन्सन् । स्वस्य विनयेन गुरुणा श्रेष्ठेन शौरिणा कृष्णेना न्वीयमानोऽनुगम्यमानश्च सन् । वेगादागात् । द्रुपदपुरमिति शेष । येन बल रामेण द्विषतामवमतये तिरस्काराय सम्यक्सेव्यमान उदरेण फरेण च गृह्यमाणे ते प्रसिद्धे आहारो हाला च, आयुध हल च द्वे अपि रणभुवि हलाहलत्व नामत सज्ञात कृत्यत कर्मणोऽपि च उभयथापि वहत । हाला मघ हल सीर तयो र्भावो हालाहलत्व कालकूटत्व तत्र सज्ञापक्षे पञ्चवर्णात्मक सज्ञात्वम् । चेष्टापक्षे कालकूटवन्मारकत्वमिति विवेक । ‘सुरा हलिप्रिया हाला', 'कृषको लाङ्गल ह्ललम्', ‘कालकूटो हालाहल' इति सर्वत्राप्यमर । ‘हालाहल कालकृट इत्यपि च पठ्यते । स्रग्धरा ॥ ७१ ॥

 बिभ्राण इति । मणिभिर्दीप्राण्युज्ज्वलानि कुण्डलानि बिभर्तीति भरम् । अत एवाङ्गेषु करचरणादिष्वङ्गरयजनपदेषु च प्ररयात प्रसिद्धम् । ‘अङ्ग गात्रा न्तिकोपायप्रतीकेष्वप्रवानके। अङ्गो देशविशेषे स्यात् इति विश्व । अति- मनोज्ञ रूप सौन्दर्य यस्य तत् । कर्णाना क्षुत्यो राधेयस्य च त्रय पार्श्वयो सव्यदक्षिणयोरग्रे च बिभ्राण । स प्रसिद्धो दुर्योधन स्वस्यात्मनोऽनुबिम्बा यितै । प्रतिबिम्बतुल्यैरित्यर्थ । नवत्या नवदशकसरयाकैर्नव अधिका येषा तैश्चानुजैर्नवाधिकनवतिसख्याकै दुशासनादिभिरित्यर्थ परिधृता प्रान्ता श्चतु पार्क्षा यस्य तथोक्त सन् । सेनास्वनुयातृकासु ये दुन्दुभयो भेर्यस्तेषा नादे र्भाङ्कारैस्तुन्दिल पूर्ण नभ आकाश यस्य तथोक्तश्च सन् । आसीददागतवान् अत्रापि द्रुपदपुरीमिति शेष । शार्दूलविक्रीडित वृत्तम् ॥ ७२ ॥



 तदनु परित कीर्णै पुष्पैस्तरगितसौरभ
                मणिमयमहामञ्चारूढावनीन्द्रपरम्परम् ।
               अगरुजनितैर्धूपैरालिह्यमानवितानक
                स्वनितपटह प्रापु पार्था स्वयवरमण्डपम् ॥ ७३ ॥
               जाग्रत्सोमककीर्तिसोमनिभिषत्पद्मावकाशा[१९२]त्यय-
              प्राप्तेन्द्रीवरनित्यवासधटितश्यामप्रभाश्रीरिव ।
              पाञ्चालस्य सुता तत परिजनै सार्ध पुर पश्यता
               राज्ञा बुद्धिमिवाधिरूह्य शिबिका रङ्गस्थली प्राविशत् ॥ ७४ ॥
               द्रौपदीमुखशशिघुतिसपत्कौमुदीमहति रङ्गतटाके ।
               पक्ष्मचक्रयुगुल नृपतीना तत्क्षण विजघटे बहुदूरम् ॥ ७५ ॥
                     ता पश्यत सदसि तस्य महीसुराणा
                      वामेतरे महति वासवनन्दनस्य ।


 तदन्विति । तदनु राजलोकागमनानन्तर परित कीर्णैरलकृतै पुष्पैस्तर गित वधित सौरभ यस्य तत् । मणिमयेषु महत्सु च मञ्चेष्वासनेष्वारूढा अधिष्टिता अवनीन्द्राणा राज्ञा परम्परा पङ्गयो यस्मिस्तत् । अगरूभिर्जनितैर्धपै परिमलधूपैरालिह्यमानानि स्पृश्यमानानि वितानान्युल्लोचा यस्मिंस्तद्वितानक स्वनिता शब्दायमाना पटहा वाद्यविशेषा यस्मिस्तत् । स्वयवरमण्डप पार्था प्रापु । हरिणी पृत्तम्-'रसयुगहयैर्न्सौम्नौ स्लौ गो यदा हरिणी तदा' इति लक्षणात् ॥ ७३ ॥

 जाग्रदिति । ततो जाग्रता नित्यप्रकाशेन सोमकाना पाञ्चालाना कीर्ति रेव सोमश्चन्द्रस्तेन निमिषत्सु सर्वदा मुकुलीभवत्सु पद्मेष्ववकाशस्य निवस्तुमा स्पदस्यात्ययेनापगमेन प्राप्तो य इन्दीवरे नीलोत्पले नित्यवासस्तेन घटिता योजिता श्यामप्रमा नीलकान्तिर्यस्यास्तथोक्ता श्रीर्लक्ष्मीरिव स्थितेति तद्रुणोत्थापितो त्प्रेक्षा । पाञ्चालस्य सुता द्रौपदी पुरोऽग्रे पश्यता राज्ञा बुद्धिमिव शिबिकामान्दो लिकाम् । द्वे अप्यधिरुह्येत्यर्थ । परिजनै सार्ध सखीभि सह रङ्गस्थलीं स्वयवरमण्डप प्राविशत् । अद्यागच्छति द्रौपदीति सर्वेषु राजसु तदतान्त फ़रणेषु समागच्छदित्यार्थ । शार्दूलविक्रीडितम् ॥ ७४ ॥

 द्रौपदीति । तत्क्षण द्रौपदीप्रवेशक्षणे रङ्ग एव तटाके सरसि द्रौपद्या मुखस्यैव शशिनो घुते सपदेव कौमुदी चन्द्रिका तया महति मनोज्ञे सति तीना पक्ष्मणी एव चक्रौ कोकदम्पती तयोर्युगुल द्वन्द्व बहुदूर विजघटे वियुक्त मासीत् । अत्यादराद्राजानो विस्फार्य लोचने तामद्राक्षुरित्यर्थ । चन्द्रिकाया चक्रवाका वियुज्यन्त इति प्रसिद्द । समस्तवस्तुवर्ति सावयवरूपकम् । स्वागता वृत्तम् ॥ ७५ ॥

 तामिति । सदसि स्वयवरमण्डपे महीसुराणा मध्ये । स्थित्वेति शेष । ता


अन्तर्बलस्य सपदि प्रकटीबुभूषो
                   रुद्वल्गन किल् भुजे स्पुरण बभूव ॥ ७६ ॥

            तावत्सरभस[१९३] मुपेत्य साक्षादादेष्टुमना प्रद्युन्न इव धृष्टद्युन्न
        सायकै साक सकाशमुपनीत स्वयवरदिहक्षया सपरिवार प्रत्या-
        सन्नमिव पन्नगप[१९४]ति चाप पुरस्कृत्य कन्यावलोकनधन्यान्ऱाजन्यानेवमवदीतू-
               
                'बाणेन सप्रति नृपा दिवि लक्ष्यमेत-
                  त्त्तच्छायवभ्दुवि निपातयितु पटुर्य ।
                मौर्वीमिमामिब स दक्षिण एव पाणौ
                  कुर्यात्स्वसारमभिद्श्र्य मम स्वसारम्'॥ ७७ ॥


द्रौपदि पश्यतस्तस्य वासवनन्दनयार्जुनस्य सवान्धिनि वामेतरे दक्षिणे महति प्रतापेन क्ष्लाध्ये भुजे स्पुरण स्पन्द् सपदि तत्काले प्रकटीभवितुमिच्चो प्रकटीबुभूषो। भवते सन्नन्तादुप्रत्यय । अन्तर्वलस्योदुल्गन किल ऊध्र्वमुत्यित्तिरिवेत्युत्त्रेक्षा। बभूव ।'दक्षिणाक्ष्ण परिस्पन्दो द्क्षिण्स्य भुजस्य च्। ह्रुदयस्य प्रसादाक्ष सदा ससिद्विसूचका ॥' इति शाकुना। महिसुराणा सदसि स्थित्वा ता पश्यत इति वा योजना । वसन्ततिलका वृत्तम् ॥ ७६ ॥"

 ततावदिति । तावत्तदा साक्षान्मुर्तीभूय सरभसमुपेत्य आदेष्टु वक्ष्यमाणरीत्या वष्टु मनो यस्य स।'तु काममनसोरपि'इति मकारलोप । प्रद्युम्नो मन्मथ इव स्थितो धृष्ट्द्युम्नो द्रुपदपुत्र सायकैर्वाणै साक सकाश समीपमुपनीत प्रापितम् अत एव स्वयवर द्रष्टुमिच्छया दिहक्षया प्रत्यसन्न सनिहित सपरिवार परिजनसहित पन्नगपति शेषमिव स्थित ज्ञाप पुरस्क्रुत्याग्रे विधाय कन्याया द्रौपद्या अवलोकनेन बन्या न्कृतार्थान्राजन्या न्राज्ञ एव वक्ष्यमाणरीत्यावादीदुक्तबान् । वदे कर्तरि लुङ् । उत्प्रेक्षाद्वयससुष्टि ॥

 उक्तित्रकारमेवाह-बाणेनेति। हे नृपा, यो युष्माकमन्यतम को वा सप्रत्यद्य दिव्याकाशो स्थित्मेतल्लक्ष्य यन्त्रविशेष तस्य लक्ष्यस्य च्छायामिव तच्छायवत्। तद्ननातपमिवेल्यथ। 'विभाषा सेन-'इत्यादिन ह्रस्व । 'छाया सूर्यप्रिया कान्ति प्रतिविम्बमनातप' इत्यमर् । बाणेन भुवि निपातयितु पटु समर्थ ,स एव नृप स्वस्य सार वलमभिदशर्य प्रकटिकृत्य इमामेतचापसबान्धिनी मोर्वा शिक्षिनीमिव । इमा पुरोवर्तिनीं मम खसार भगिर्नी द्रौपदौ दक्षिणे पाणौ एव कुर्याद्विवहेत् । स्वीकुर्यादित्यार्थ। दक्षिण सरल स एव


इत्य प्रगल्भमुदिता रभसेन पीठा-
 दुत्थाय चापभुपसृत्य करेऽपि कृत्वा ।
आत्मानमेव कृतयत्नमनैषुरार्ति
 मौर्वीलता न तु महीपतिपङ्क्तयस्ता ॥ ७८ ॥
 
हष्ट्वाथ राजकमिद द्विजसघमध्या-
 त्रिर्गत्य ससदि निलिम्पपते कुमार ।
चापे शर करधृते समधत्त लज्जा
 भूपेषु भूरि कुतुक व[१९५]सुधेन्द्रपुत्र्याम् ॥ ७९॥


नृप इत्यपि योज्यम् । वीर्यशुल्केय न कुलवय शीलादिशुल्केति भाव । अत्र द्रौपदीशिन्यो प्रकृतयो पाणिग्रहणघर्मेणौपम्यस्य गम्यत्वात्तुल्योगिताभेद । यत्तु 'तच्छायवद्भुवि लक्ष्यच्छायावत्यामेव भुवि' इति व्याख्याय 'अन्यत्र पातयितु सर्वेऽपि समर्था इति भाव' इति नृसिह, तन्न । रविगत्यनुसारिण्या लक्ष्यच्छयाया भग्नलक्ष्यपातस्य च द्वयोरेकदिक्कत्वस्य कदाप्यसभवाद्भारतविरुद्धत्वाच्च । तत्राविज्यधनु सहितबाणेन लक्ष्यच्छेदनमात्रस्यैव शुल्कतया श्रवणादिति॥ ७७ ॥

 इत्थमिति इत्थमुक्तप्रकारेण प्रगल्भ सप्रौढ यथा उदिता धृष्टद्युम्नेनोक्तास्ता महीपतीना पङ्कयो रभसेन वेगेन हर्षेण वा । 'रभसो वेगहर्षयो' इति वीक्ष्च । पीठादुत्थाय चापमुपसृत्य सनिवाय करेऽपि कृत्वा चापमिति योज्यम् आदायेत्यर्थ कृतो यत्रो धनुरारोपणव्यापारो येन तमात्माननिजशरीरमेवार्ति पीडामनैषु प्रापितवत्य। मौर्वी लतेव ता तु आतर्ति धनुष्कोटिं नानैषु । नयते कर्तरि लुड् । दुहादित्वाद्विकर्मकत्वम् । 'आर्ति पीडाधनुष्कोट्यो' इत्यर्भर । अत्र आर्तिप्रापणस्य शरीरमौव्र्योरुमयत्र प्राप्तौ शरीरमात्रे नियमना-त्परिसख्यालकार् । पीडाधनुष्कोतट्यो श्र्लेषमित्तिकामेदाध्यवसायमूलातिशयोत्त्यनुप्राणित इति द्वयोरङ्गाङ्गिभावेन सकर । तस्य च धनुरारोपणरूपणरूपेष्टार्थमुद्यमाच्छरीरपीडावाप्तिवर्णनात्मकविषमप्रभेदस्य चैकवाचकानुप्रवेशसकर । तस्य च धनुरारोपणसामग्रीसत्वेऽपि तदनुत्पत्तिकथनात्मकाया विशेषोक्तेश्र्च पुनरेकवाचकानुप्रवेशसकर इति सूक्ष्महग्भिराकलनीयम् । वसन्ततिलका वृत्तम् ॥७८॥


 हष्टवेति। अथ निलिम्पपतेरिन्द्रस्य कुमारोऽर्जुन इद धनुरारोपणाशक्त् राजक राजनृन्द ससदि सभाया हष्ट्वा द्विजसधस्य मध्यान्निर्गत्य । धनु समीप-मागत्येत्यर्थ् । करेण धृते चाप आरोपितज्ये शर समधत्त सघटितवान् । भुपेषु गुणारोपणमात्रेऽप्यशक्तेषु लज्जा समधत्त । वसुधेन्द्र्पुत्र्या द्रौपद्या भूरि कुतुक कौतूहल च समधत्त । अत्र अर्जुनस्यैकेन शरसधानव्यापारेण लज्जाकौ-


वीरेण तेन विशिखेन विलूनमूळ
 चक्रभ्रमेण पतयालु तदा शरव्यम् ।
अस्मिन्समाजवलये त्वयमेव दोष्मा
 नित्याहिताभिनयलीलमिवाबभासे ॥ ८० ॥

[१९६]दानीम्-

निष्पतत्सुरकराञ्जलिपुत्रात्पुष्पवर्षममित कुरुवीरम् ।
मन्दहास इति विक्रमलक्ष्म्या सदधे सकलचेतसि बुद्धिम् ॥ ८१॥
पाञ्चालपुत्रीप्रहिता कटाक्षा पाण्डोस्तनूज परितो ववल्गु ।
मङ्गल्यमालावतरेदिहेति माध्वीलिह पूर्वमिवोपयाता ॥ ८२ ॥
जननान्तरनेत्रवारिसृष्टत्रिपथाहेमपयोजगुम्फितेव ।


तुकद्वयात्मकवस्त्वन्तरसधानवर्णनाद्विशेषालकारभेद । “किचिदारभतोऽशक्यव- स्वन्तरकृतिश्च स ’ इति लक्षणात् ॥ ७९ ॥

 वीरेणेति । तेन वीरेणार्जुनेन (कर्ता) विशिखेन बाणेन (करणेन ) विज्ञानं छिन्न मूलमादिर्यस्य तत् । चक्रवद्रुमेण भ्रमणेनोपलक्षित पतयालु पतत् । ‘पतयाज्ञस्तु पातुकेइत्यमर । अतएव शरव्य लक्ष्ययन्त्रम् । अस्मिन्समाजस्य राजद्विजसघस्य वलये मण्डले कटकभूषणनिमित्त च अयमर्जुन एव दोष्मान्सफ़लुभुजबलशाली इति उक्तप्रकारेणाहिता घटिताभिनयस्योक्ताभिव्यञ्जकाद्भिकचेष्टाया लीला विलासो येन तयोक्तमिवेत्युत्प्रेक्षा । आबभासे रराज । भासते कर्तरि लिट् ॥ ८० ॥

 निष्पतदिति । तदानी सुराणा करयोरडलीना सपुटात्मकविन्यासाना पुजासमूहात् । ‘तौ युतावञ्जलि पुमान्' इत्यमरः । तौ करावित्यर्थ । कुस्वीरऽभितोऽर्जुनस्य सर्वपार्थेषु । ‘अभित परित -' इत्यादिना द्वितीया । निष्पतत्पुष्पवर्षे विक्रमलक्ष्म्या मन्दहासो वीरोऽय महानुभाव इत्यानन्दकृतो दरड्स इत्युक्तात्मिका बुध्दिं भ्रान्ति सकलस्य पश्यतो जनस्य चेतसि मनसि सदधे धटयामास । भ्रान्तिमदलकार । स्वागतावृत्तम् ॥ ८१ ॥

 पाश्चालेति । पाण्डोस्तनूज तनय परितोऽर्जुनस्य सर्वभागेषु । इति पूर्वदद्वितीया । पाञ्चालपुत्र्या द्रौपद्या प्रहिता प्रेरिता कटाक्षा नेत्रान्तदर्शनानि इह अर्जुने माङ्गल्या खयवरशुभयोग्या माला अवतरेत् आगच्छेदिति हेतो । पूर्वमिव उपयाता आगता मध्वीलिहो भृङ्गा इवेत्युत्प्रेक्षा । ववल्गु परिवव्रु । इन्द्रवज्रावृत्तम् ॥ ८२ ॥

 जननेति । तया द्रौपद्या जननान्तरे पूर्वजन्मनि नालायनीनामनि नेत्र-


 बल्वैरिभुवस्त्याघिकण्ठ वरणे चम्पकमालिका चितेने ‌॥ ८३ ॥

 तदनु स महावीराग्रेसर समग्रगुणेशेखरिता नरपतिसुतामिव शरासनलतामुदूह्न्रज्ञा बलमवज्ञाय सभाङ्गणा[१९७] त्कक्षेणान्निक्ष्चक्राम ।

तदात्व एव खलु खलोऽयमखिलानस्मानतिस्मयेन विस्मरन्कस्मैचिहुहितर विप्राय प्रायच्छदिति द्रुत द्रुपदाय द्रोहमुन्निद्रयत कतिचन राजन्याञ्जन्यामिमुखान्प्रति सुलभोन्मेषेण रोषेण स[१९८]रभस भु-


वारिभि पत्युरलभशोकेन जातै सृष्टान्युत्पन्नानि यानि त्रिपथाया गङ्गाया हेमपयोजानि क्नक्कमलानि तैर्गुमिफता सघटितेव स्तिथा चम्प्काना चाम्पेय कुसुमाया मालिका बलषैरिभुव अजुनस्य क्ण्ठेऽघिकण्ठम् । 'विभत्स्य थेर्र्ऽव्ययीभाव' । वरणे पतित्येन स्वीकरणनिमित्तम् । 'निमितात्कर्मयोगे' इति सप्तमी'। वितेने निक्षित्पा । तनोते कर्मणि लिट् । पुरा जन्मनि किलेय नालायनीसमाख्या पत्यर्थ तपस्यन्ती तृष्टेन महादेवेन चोदिता देवेन्द्राहा नाय गङ्र्गातट प्राप्य तदागमने विलम्बाद्रुरोद । तद्वाष्पैर्गङगाया हेमतामरसान्यभूवन्-इति भारति कथात्रानुसघेया । यद्यपि वरणमालायाक्ष्चम्पकत्वेन कटा क्षाणां भावितदपेक्षाहेतुकमधुकरत्वोत्प्रेक्षा पूर्वक्ष्लोकोक्ता विस्द्दध्यते चम्प काना मधुकरमारकत्वेन प्रसिद्धे , तयापि तदाना तदभावेन पुष्पमाला त्वेन तदवतरणस्य पूर्व मधुकराणामाशाजनने बाधकाभावान्न क्षतिरिति कवेराकूतमिति ध्येयम् ॥ ८३ ॥

 तदन्विति । तगदनु वरणान्तर महावीराणामग्रेसर प्रथम सोऽर्जुन समग्रै सकलैर्गुणै सौन्दर्यादिमिरखण्डशि जिञ्न्या च शेस्सरिती भूषिताम् । सम्य गग्रयो कोटयो गुणेन शेखरितामित्यप्यन्यत्र योज्यम् । नरपतिसुता द्रौपदी भिव शरासन धनुर्लतेव तामुद्र्हन्विभ्रत् , विवहत्रिति च । राज्ञा बल शौर्यम , चतुहज्ज वा । अवग्याय तिरस्क्र्त्य क्षणात्क्षेणेन समाया खयवरमण्डपस्याऊणान्नि क्षक्राम निर्गतवान् । अत्र महावीराग्रेसरत्वस्य विशेषणगत्या राजबलानादर प्रति हेतुत्वात्पदातर्थहेतुक काव्यलिङ्गम् ॥

 तदात्व इति । तदात्व एव निर्गमनकाल एव । 'तत्कालस्तु तदाव स्थात्' इत्यमर । खलु इति वाक्यालकारे । खलो दुर्जनोऽय द्रुपदोऽखिलानस्मानतिस्म बेनातिगर्वेण विस्मरन्नगणयन्सन् । कस्मॅचिविञातकुलशीलनामधेयायेत्यर्थ । विप्राय । द्विजव्याजायेत्यर्थ । तेन द्विजत्व वा तस्य को जानीत इति भाव । दुहितर पुत्री प्रायच्छइत्वान् । इति हेतो दुत दुपदाय द्रोहमुन्निरद्रयत प्रकटीकुर्वत । अतएव जन्याय युद्धायामिमुखानुमुत्कान् । 'युद्धमायोधन जन्यम्' इत्वमर । कतिचन राजन्यान्राज्ञ् प्रति सुलभ उन्मेष उत्पतिर्यस्व तेन रोषेण स्वीयमेते खला निरुन्धन्तीति क्रोधेन सरभस सवेग भुजादुन्नीतैरूर्ध्व


जोत्रीतैरुपवीतै कण्ठमावेष्टव ममाय यष्टेर्ममाय विष्टरस्य लक्ष्यमिति व[१९९] चनेन जातिचापल कुर्वाणान्धरणिगीर्वाणान्भवता पुनराशीरेव जयराशीकरणायालमिति सस्मित निवर्तयत्रमर्त्यपति[२००]कुमारो युघि समारोपितधनुर्गुणनिर्गलितेन शरनिकरेण तेषां परेषामधिका दिशि दिशि कादिशीकता दिदेश ।

 तावदस्य राजसघस्य जड्वालतामनुकुर्वभ्दिरिव रथार्वभ्दिरपरार्ण-वाभ्यर्णमवतीर्णवति तूर्णमर्णोजबन्धौ तेन निहिता दिप्तिम[२०१]परामिव ता दयितामनुरञ्जयन्नयमपि धनजयस्तामेव वासभुवमाससाद ।

स्वेदाम्बुमिर्निटिमलजै पदयो सवित्री-  मार्द्रीचकार स तया सह चापपाणि ।


माकृष्टैरुपवीतैर्यसूत्रै कण्ठमावेष्ट्य । समर्दे त्रुटनभयादिति भाव् । मम यष्टेर्ह्रस्तण्डस्याय पुर स्थितो राजा लक्ष्य भेद्य , मम विष्टरस्य पीठस्याय लक्ष्यम् , इत्युक्तप्रकारेण वचनेनोपलक्षिताञ्जातेर्व्राह्मणस्य सबन्धि चापल चपलचेष्टित कुर्वाणान्धरण्या गीर्वाणान्भूदेवान्द्राह्मणान्भवता पुनराशीर्जयाशी सा वाक्यमेव जयाना राशीकरणाय राश्यात्मना सपादनाय । सपद्यर्थककरोतियोगात्रवाविकारस्य दीर्घ । अल पर्याप्ता । न तु बाहुबलमित्यर्थ । ' वाग्भि शूरा द्विजातय ' इति स्मरणदिति भाव । इत्युक्त्वेति शेष । सस्मित यया तथा निवर्तयन् । जातिचापलदिति भाव । अमर्त्यपतेरिन्द्रस्य कुमारोsर्जुन सम्यगारोपितात्कोटि नीताघ्दनुषो गुणात् निरर्गल निर्निरोध यथा तथा निर्गलितेन प्रयुक्तेन शरणा निकरेण युधि युध्दे तेषा द्रुपदाय हुह्यता परेषा शत्रूणा दिशि दिशि प्रतिदिश कादिशीकता भयात्पलायनमधिकमत्यन्त दिदेश ददौ । पलायावभूवुरित्यर्थ ॥

 ताचदिति । तावत्तदानीमस्य पलायमानस्य राजसघस्य जहालता पैलायुनजवम् । ' जह्वालोsतिजवस्तुत्यौ ' इत्यमर । अनुकुर्वभ्दिरिव स्थितै रथसमारोपितार्वभ्दिरक्ष्वैरर्णोजाना जलजाना बन्धौ सुर्ये अपरार्णवस पक्ष्चिमाब्धेरभ्य्र्ण समीप तूर्ण सत्वर यथा तथावतीर्णवति प्राप्तवति सति तेना र्णोजबन्धुना निहिता निक्षिप्तामपरामग्निनिहितेतरा दीप्ति प्रभामिव स्थिता ता दयिता द्रौपदीमनुरञ्ननुरागिणीं सप्तवर्णा च कुर्वन् । अयमपील्यपिनाग्निसमुञ्चय । धनजयोsर्जुन अग्निक्ष्च ता कुलालसबन्धिनीमेव वासमुवमाससाद प्राप्तवान् । सूर्यकिरणाना रात्रावग्निप्रवेशनमागमदसिध्दम् । उत्प्रेक्षाद्वयस्य धनजयशब्दक्ष्लेष- मूलतिशयोक्तेक्ष्चाङाग्ङिभावेन सकर ॥

 स्वेदेति । चाप पाणौ यस्य तथोक्त सोsर्जुनस्त्या द्रौपद्या सह निटिलजै-


भोदाम्बुगिर्नयनजैस्तमिय च मौलौ
 विस्मेरचेतसि कुलालवधूसमाजे ॥ ८४ ॥
कुवलयइश कुम्भ जिग्यु कुचैरिति [२०२] भाषिते
 करिवरसशिर कर्मेत्ये[२०३]व प्रह्यष्टमनाक्ष्चिरम्।
द्गुपवदुहितुर्द्रुष्टा तुञ् कुलालपति कुचौ
 निजमपि घट निस्चित्यैव नितान्तमलज्जत ॥ ८५ ॥
 अन्येध्युर्ग्रुहमुपनीय पूजितास्ता-
  न्व्यासोक्तया विदितवर पुरामराते।


र्ललाठोत्यै स्वेदाम्बुभि सवित्रि मातर कुन्ती पदयोराद्रीचकार सिक्तमकरोत्। मातु प्रणनामेत्यर्थ। इय च कुन्थयपि विस्मेर विस्मबान्वित चेतो यस्य तस्मिन्कुलालबधूना समाजे सथे नयनजैर्मोदाम्बोभिरानन्दबाप्यैस्तमर्ज्जुन मौलौ धिरस्याद्रीचकर। तच्छर आजिघ्र इत्यर्थ ॥८४॥

 कुवलयेति। कुवलये उत्पले इव ध्रुशौ नेत्रे यासा ता स्त्रिय कुचै कुम्भ कुम्भशब्दार्य घट गजशिरष्च द्वयमपि जिग्युर्जितवत्य । जयते कर्तरि लिट्। 'सनूलिटोर्जे' इति कुत्वम्। इत्युक्तप्रकारे भाषिते वचने। किवदन्त्यामिति यावत्। करिवरस्य गजेन्द्रस्य शिरो मूर्धाश एव कर्म द्वितीयान्तकुम्भपद्वावाच्यम्। न त्वस्मदीयो घट इत्येवम्। चिर जन्मप्रभ्रुति तत्क्षणपर्यन्त प्रह्ष्ट् सतुष्ट मनो यस्य तथोक्त कुलालपतिस्तुङौ प्रथुलोन्नतौ द्वपददुहितुर्द्रौपद्या कुचौ इष्ट्वा निजमात्मीय घटमपि एवम्। अपकर्षानुकूलव्यापारार्थकजिधात्वयिद्वितीयान्तकुम्भपदवाच्यत्वेनेत्यर्थं । निक्षित्य नितान्तमलज्ज्त लज्जितवान्। कुवलइश कुम्भ जिग्यु कुचैरिति किवदन्त्याम् 'कुम्भौ घटेभमूर्घाशौ' इति, कोशात्कुम्भमिति द्वितीयान्तपदस्य गजकुम्भव्रतित्व तदन्वितापमकर्षा नुकूलव्यापाराक्षयस्व साख्यातस्य 'जि' धातोक्ष्चार्थ । इत्यात्मीयघटेअभिमानक्रतो हर्षोअविचारितरमणीय। यत स्त्रीमष्यपातिद्रौपदीकुचायोर्निजघटादप्युत्रतत्वेन मानिनामात्मपि इश्यमानत्वादिममपि ता कुचैर्जिग्रेवेति निक्ष्चित्य लज्जितवानित्यर्थ । मानिनामात्मन इवात्मीयस्यापि पराजयो लज्जाकर एवेति भाव। द्रौपदीकुचसौन्दर्य तौ द्वावप्यतिशेते इति परमार्थ इत्यत्र द्रौपदीकुचावलोकनहेतुकधटजयनिक्षयस्य विशेषगत्या कुलाललजाहेतुत्वात्पदार्थहेतुक काव्यलिङ्गदूयमङ्गाभावैन सक्रीर्णम् ॥८५॥

 अन्येद्युरिति। परस्मिएदिने पाञ्ञालो द्रुपदोव्यासस्यमुनेरुत्त्या वाक्येन पुराभराते शिवस्य विदितो वरो द्रोपद्या नालायनीजन्मनि पञ्ञ्पतिलभात्मको येन तयोक्तम् सन्। पञ्ञपि क्षितिपतिनन्दनान्पान्डवान्निशि रात्रौ ग्रह् प्रत्युपनीय-


 पथापि क्षितिपतिनन्दनान्सुताया
  पाश्चालो निशि परिणीतयेऽनुमेने ॥ ८६ ॥
तत परमीदृशोत्सवश्रवणात्परमानन्दमनुभवन्तीभिरन्त पुरिका
भि परिवृता ता सखीजना मण्डनमण्डपिकामुपनीय प्रसाधयितुमारभन्त ।
द्रौपद्या पञ्चपत्नीत्वे द्रष्टु लिपिमिवोत्सुका ।
सीमन्तशिल्पव्याजेन शिरोजान्व्यभजत्सखी ॥ । ८७ ॥
 मृगमदतिलक रराज तन्व्या
  सुख[२०४]शशिना सहसा बलाहृताया ।
 चिकुरमिषजुषोऽपराधशान्त्यै
  नमितमपत्यमिवान्धकारबन्द्या ॥ ८८॥


प्रापयित्वा सुताया द्रौपद्य परिणीतये विवाहायानुमेनेऽङ्गीकृतवान् । क्रियाग्रहणात्सप्रदानत्वम् । इय जन्मान्तरे नालायनी भर्त्रर्थ तपस्तप्त्वा तुष्टेन सदाशिवेन वर वरयेत्युका पतिं मे देहीति पञ्चकृखो नियतिवशेनोतवती पञ्च पतीलभस्वेति तदुक्तयास्मिञ्जन्मनि तावत पतींल्लभते इति व्यासोकिप्रकार । प्रहर्षिणी ॥ ८

 तत इति । ततोऽनन्तरमीदृशस्य पञ्चपतिपरिणयात्मकस्योत्सवस्य श्रवणाद्धेतो । परममस्य दुर्लभत्वेन सर्वोत्कृष्टमानन्दमनुभवन्तीभि । ‘नाग्निस्तृप्यति काष्ठाना नापगाना महोदधि । नान्तक सर्वभूताना न पुसा वामलोचना ॥’ इति स्मरणात् । अप्रत्यवायबहुपतिलाभस्य त्रीणामानन्दकरत्वादिति माव । अन्त पुरिकाभिरन्त पुरस्त्रीभि परिधृता द्रौपदी सखीजना मण्डन्मण्डपिकामलकारशालामुपनीय प्रसाधयितुमलकर्तुमारभन्तोपचक्रमु ॥

अथ दशभि श्लोकैतदलकरण वर्णयति-द्रौपद्या इति । सखी काचित्परिचारिका द्रौपद्या पञ्चना पत्नीत्वे विषये लिपिं धातृलिखिताक्षरविन्यास द्रष्टुमुत्सुकेव । ‘इष्टार्थोद्युक्त उत्सुक’ इत्यमर । सीमन्ते केशमध्ये रेखाया शिरुमस्यालकरणस्य व्याजेन शिरोजान्केशान्व्यभज द्विभजयामास । अत्र केशमध्यरेखाकरणस्य पञ्चपत्नीत्वबोधकधातुलिपिदर्शनफलकलसभवनात्फलोत्प्रेक्षा सीमन्तशिल्पव्याजेनेल्यपद्धतिगर्भा ॥ ८७ ॥

 मृगेति । तन्व्या द्रौपद्या मृगमदेन कस्तूर्या यत्तिलक मुखेनैव शशिना चन्द्रेण (कर्ता) महसा तेजसा (करणेन) बलादाहृताया । आनीय बन्दीकृताया इत्यर्थ । चिकुराणा केशाना मिष व्याज जुषत इति तथोक्ताया अन्धकारस्तम एव बन्दी बन्धनहनिरुद्धाङ्गना तस्या सबन्धि अपराधस्य


अधिनासिकाशिखरमाकलित नवमौक्तिक नरपतेर्दुहितु ।
शुशुभे मुखाम्बुरुहमध्यचरस्मितहसिकाजनितमण्डमिव ॥ ८९॥
 सुतरा जनमोदमादधाते सु[२०५]तनोभौंक्तिकरत्नकर्णपत्रे ।
 परिचेतुमिवाननेन्दुसेवा परिवेषस्य शिशु समीपभाजौ ॥९०॥
ताटक्के तरलमणिप्रभातरगे तन्वङ्गथा मुखमभितस्तदा व्यभाताम् ।
मूर्तत्व प्रकटमुपेत्य जागरूके वर्णे द्वे नयनविपाठयोरिवान्त्ये ॥ ९१ ॥
 सख्या करोऽजनविधौ सकृदेव गन्तु-
  मापाङ्गभागमपडु श्रममानशे य ।


शान्त्यै निरासाय नमित नति प्रापितमपत्य पुत्र इव रराज । अपराधिन क्षमापणाय पुत्रादिक जेतार प्रणामयन्तीति भाव । उत्प्रेक्षाळकार । पुष्पिताग्रा ॥ ८८ ॥

 अधीति । नरपते र्दुहितुद्रौंपधा अधिनासिकाशिखर नासाग्रे । विभक्त्य र्थेऽव्ययीभाव । आकलित सघटित नव मौक्तिक (कर्तृ) मुखमेवाम्बुरुह पक्ष तस्य मध्ये चरन्त्या स्मितेनैव हसिकया हसन्निया जनितमण्ड कोशमिव शुशुभे रराज । शोभते कर्तरि लिट् । अत्रापि धावल्यगुणनिमित्ता स्खरूपोत्प्रेक्षा । रूपकोज्जीविता सेति तयोरङ्गाङ्गिभावेन सकर । प्रमिताक्षरा वृत्तम् । ‘प्रमिता- क्षरा सजससैरुदिता' इति लक्षणात् ॥ ८९ ॥

 सुतरामिति । सुतनोर्द्रौपद्या मौक्तिकरताना कर्णपत्रे कर्णिकारये कर्ण भूषणे (कर्तृणि) आननस्य द्रौपदीमुखस्येवेन्दोश्चन्द्रस्य सेवा परिचेतुमभ्यसितु समीपभाजौ परिवेषस्य शिश बालकाविव जनाना मोद हर्ष सुतरामादधाते कुरुत स्म । आङ्पूर्वाद्दधते कर्तरि लिट्। अत्रापि वर्तुलखधावल्यगुणनिमित्त मौकिफरत्नकर्णपत्रयो परिवेषशिशुत्वोत्प्रेक्षा । औपच्छन्दसिकम् ॥ ९० ॥

 कर्णभूषणमेव प्रकारान्तरेणोत्प्रेक्ष्यते–ताटङ्ग इति । तरळाश्चलन्तो मणीना प्रभातरगा कान्तिपरम्परा ययोस्ते ताटते कर्णपत्रे । ‘कर्णिका कर्णपत्र' च,’ ‘ताटङ्ग कर्णभूषणम्’ इति त्रिकाण्डशेष । प्रकट स्फुट मूर्तख शरीरमुपेत्य लब्ध्वा जागरूके प्रकाशमाने नयने विपाठौ बाणविशेषावेव तयोरन्ये चरमे द्धे वर्णे ठवर्णे इव तदा तन्वङ्गया द्रौपद्या मुखमभित । मुखस्य पार्श्वद्वय इत्यर्थं । व्यभाता रेजतु । भाते कर्तरि लडू । नयनविपाठयोरन्ये वर्ण इत्यत्र वाच्य वाचकयोरभेदाभिधानान्नावाच्यवचनत्वदोष । बहुदेशलिपिषु ठवर्णस्य मध्यबिन्दुकत्व(O)वर्तुलत्वदर्शनात् तत्वेन ताटङ्गयोरुत्प्रेक्षा । प्रहर्षिणी ॥ ९१ ॥

 सख्या इति । सख्या कस्याश्चिद्य करोऽजनविधौ द्रौपद्या नेत्रयो कब्ज छालकरणेऽपाङ्गभाग नेत्रान्तपर्यन्त सकृदेकवारमेव । न तु द्वित्रिचारमित्यर्थं ।


 रेखावधेरनवगामितया ह[२०६]गङ्ग
  पूर्वोक्तमेव स पुन पुनराललम्बे ॥ । ९२ ॥
सकलमपि वपुर्विभूष्य तन्व्या सपदि सखी विषुळेक्षणाम्बुजापि ।
चिरतरमनवेक्ष्य म[२०७]ध्यदेश करधृतकाञ्चनकाञ्चिरेव तस्थौ । ९३ ॥
 काञ्चीकलापमणिबिम्बितपार्श्वयोषि
  त्कौशेयपङ्क्तिरवनीन्द्रसुता बभासे ।
 आविर्भविष्यदधिगोष्टि कटीनिमग्न
  वास शत जनदृशामिव सूचयन्ती ॥ ९४ ॥

आतङ्कपीडामददा पुराहमस्यास्त[२०८]दा भाविपु वल्लभेषु ।


गन्तु प्राप्तमपटुरशक्त सन् । नयनयोरतिदैर्यादिति भाव । श्रम खेदमानशे प्राप्तवान् । अक्ष्नोते कर्तरि लिट् । स करो रेयावधेर्नेत्रान्तसीमाया अनवगामि तथा दुर्जयत्वेन हेतुना पूर्व प्रथममत कज्जललिप्तमेव दृशो नयनस्याङ्गमेकदेश पुन पुनराललम्बे जगृहे । अत्र नयनयोस्तादृग्दैघ्र्यासबन्धेऽपि सबन्धरूपाति शयोक्युज्जीवितोऽय पुन पुनरुक्ताज्ञनभ्रान्तिमदलकार इति द्वयोरङ्गाङ्गिभावेन सकर ॥ ९२ ॥

 सकलमिति । सखी काचित्तन्व्या द्रौपद्या सक्लमपि वपुर्मध्यातिरि क्ताखिलशत्र सपदि द्रुत विभूष्यालकृत्य स्वय विपुलेऽतिविशाले ईक्षणे अम्बुजे इव यस्यास्तथोक्तापि मध्यदेश द्रौपद्या मध्यभाग चिरतर सुचिरेणाप्यनबेक्ष्य करेण धृता काञ्चनकाञ्चि काञ्चनमेखला यया तथोक्ता सत्येन तस्थौ । चिरतर तस्थाविति वा योजना । अत्र मध्यस्यानवलोकनासबन्धेऽपि सबन्वोक्तरति शयोक्ति । एव विशालनेत्ररूपसामग्रीसत्वेऽप्यवलोक्नकार्यानुत्पत्तेविशेषोक्तिक्ष्च। द्वयोरेकवाचकानुप्रवेशसकर । तदुज्जीविता चेय सख्या काञ्जीमहल कृत्य तूष्णीस्थित्यसबन्धेऽपि सबन्धोक्तिरूपातिशयोक्तिरिति द्वयोरङ्गाङ्गिभा वेन सकर । ‘मध्ययष्टिम्' इति पाठान्तरमनवलोकनाप्रसक्त्या सदर्भविरोधपत्तेरुपेक्ष्यम् । पुष्पिताग्रा ॥ ९३ ॥

 काञ्चीति । अवनीन्द्रसुता द्रौपदी काक्ष्चीकलापे मेखलाभूषणे ये मणयस्तेषु बिम्बिता प्रतिफलिता पार्क्ष्वेषु योषिता कौशेयपङ्कि पट्टवस्त्रमाला यस्यास्तथोका सती । ‘कौशेय कृमिकोशोत्थम्’ इति वस्त्रभेदेष्वमर । अधिगोष्ठि छूतसभायामाविर्भविष्यत् । कि चेदानीं कक्ष्या नितम्बे निमग्न लीन वास शत वस्त्रशतम् । शत शब्दोऽनेक्खपर । जनाना इशा सूचयन्तीव बभासे । उत्प्रेक्षालकार ॥ ९४ ॥

 आतङ्केति । अह लाक्षाधाम पुरा वारणावतनिवाससमयेऽस्या द्रौपद्या


एव विचिन्त्येव भयेन पादे लाक्षाकृत धाम पपात तन्व्या ॥९५॥
 तस्या सखीषु सकलास्वापि तत्तदङ्ग
  वेगाद्विभूषितवतीषु विवाहवेषे ।
 का[२०९] लक्षपासहनवृध्द्पुरोहिताना
  कोप्स्य पात्रमभवत्कुचशिल्पकर्त्री ॥ ९६

 एवमलकृतामेनामा[२१०]लोक्य स्वयमपि सध्यारुणिमसपादितळाक्षा कृत्यामजनातिलकर[२११]जितमुखभागा परिणेतुमिव प्रतीची दिशभु पगतवति भगवति भासानिधौ


भाविषु भविष्यत्सु वक्तभेषु पतिषु पाण्डवेषु विषय आतड्रेन कदाचिदत्र वय दग्धा भवेमेति शङ्कया पीडा दु खमददामकरवम्। ददाते कर्तरि लिट् । रूक्तापशङ्कास्त्रातङ्क' इत्यमर एवमुक्तप्रकार विचिन्त्य स्मृत्वा भयेनैव तदा द्रापैद्या अलकरणसमये लाक्षाया अलक्तकेन कृत धाम तेज एव गृहमिति श्लिष्ट रूपकम् । “धाम स्याङ्हतेजसो' इति विश्व तन्व्या द्रौपधा पादे पपात । प्रणनामेयर्थ ‘अस्या दुत भाविषु' इति पाठे द्रुत शीघ्र पपातेति सबन्ध । रूपकानुप्राणितेयमुत्प्रेक्षा । इन्द्रवज्ञा ॥ ९५ ॥

 तस्या इति । सकलासु सखीषु तस्या द्रौपद्यास्तत्तचिकुरादि अङ्ग विवाहवेषै परिणयोचिततत्तदलकारैर्वेगाड्डत विभूषितवतीषु सतीषु कुवयो शिल्पकर्त्री अलकारिणी कालक्षपासहनाना विवाहलश्नातिक्रमणभिया कालविलम्बमसहमानाना ज्ञानेन वयसा च वृद्धाना पुरोहिताना धौम्यादीना कोपस्य क्रोबस्य आत्रमभवत् । सपदि तत्तादृकुचालकारकृतविलम्बस्य विशेषणगल्या पुरोहितकोपहेतुभूतत्वात्पदार्थहेतुक काव्यलिङ्गम् । तादृशविलम्थासबन्धेऽपि संबन्धोक्तिरूपातिशयोक्त्युज्जीवितमिति तयोरङ्गाङ्गिभावेन सकर । वसन्ततिलका ॥ ९६॥

 एवमिति । एवमुक्तप्रकारेणालकृतामेना द्रौपदीमालोक्येच स्वयमात्मनापि सध्याया अरणिमा साध्यास्णवर्ण एव सपादितलाक्षाकृत्य यावकालकरण विरचित यस्यास्तथोक्ताम् । अञ्जनस्तिलश्च वृक्षविशेषो तावेवाञ्जन कज्जलतिलक इति श्लिष्टरूपकम् । ताभ्या रजिताचलकृतौ सुखस्याग्रस्येव वदनस्य भागौ नेत्रललाटदेशौ यस्यास्तथोक्ता प्रतीचीं दिश परिणेतुमुद्वोढमिव भवति भासा तेजसा निधौ स्थाने सूर्यं उपगतवति प्राप्ते सतीत्युत्तरेणान्वय । तामालोक्येव भासानिवौ स्खयमपि तादृशी प्रतीची परिणेतुमिवोपगतवति इति वा योजना । अत्र रूपकद्वयोज्जीवितपरिणयोत्प्रेक्षाया द्रौपयालोकनमेक्षासापेक्षत्वाद्वयोरङ्गाङ्गिभावेन सकर ॥


तस्यामव क्षपाया सपदि निजकुलोत्तसपार्थोत्सवाना-
 मालोकायेव साक्षाद्विशति हिमरुचौ द्या शुभयौ मुहूर्ते ।
सोपानैरध्यरुक्षन्म[२१२] रकतखचितैर्वेदिमेते कुमारा
 सालकारा पुरोध सरभसनिहितै सविघानै समग्राम् ॥९७॥

 तत्र मुहूर्तगुणेष्विव समन्तादोजायमानेषु दीपेषु मन्त्रविदा वदनेष्विव शब्दायमानेषु वाद्येषु कुलपालिका कमनीयम[२१३]णिकोरकितै कनकभूषणैरविकृतसहजरामणीयका कन्यकाममीषां सकाशे निवेशयामासु ।


 तस्यामिति । तस्या द्रौपद्यलकरणदिनसबन्धिन्या क्षपाया रात्रावेव निजस्यात्मीयस्य कुलस्य वशस्योत्तसानाम् । शिरोभूषणायभानानामित्यर्थ । पार्थना सबन्धिनामुत्सवाना विवासहात्मना साक्षान्निष्प्रतिबन्वमालोकायामलोकितुमिवेत्युत्प्रेक्षा । 'तुमर्थच्च भाववचनात्' इति सप्रदानत्वम् । हिमा शीता रुचयो यस्य तस्मिक्ष्चन्द्रे धामाकाश सपदि दुत विशति सति । एते कुमारा पार्था अलकारेण वैवाहिकेन सहिता सालकारा सन्त शुभयौ शुभयोगयुक्त मुहूर्तै । 'शुभयुस्तु शुभान्वित' इत्यमर । मरकतखचितैर्हरिन्मणिबद्धै सोपानै पुरोधोभि पुरोहितै सरभस निहितैर्निक्षिप्तै सविवाने समित्कुशादिवैवाहिकोपकरणै समग्रा सपूर्णा वेदिं वैवाहिकीमध्यरूक्षत्रारुरुहु । अधिपूर्वाद्रुहे कर्तरि लुड। स्रग्धरा ॥९७॥

 तत्रेति| तत्र विवाहवेद्या मुहूर्तस्य विवहलग्नस्य गुणेषु चन्द्रताराबमलादिष्विव दीपेषु | द्वयेष्वपीत्यर्थ |एवमेग्रेऽपि |ओजायमानेषु ओजाख्यशुभयोगवदाचरत्सु प्रकाशमानेषु च सत्सु । एकत्र 'उपमानादाचारे' इति क्यड् | 'अकृत्सार्वधातुकयो' इति दीर्घ | अन्यत्र ओज शब्दस्तद्वत्पर | 'कर्तु क्यड् सलोपश्व' इत्युपमानादाचारार्थे क्यड् |'ओजसोऽप्सरसो नित्यमितरेषा विभाषया' इति सकारलोपश्व |ओजाख्यो योगो ज्योति शास्त्रे प्रसिद्ध | मन्त्रविदा वैवाहिकमन्त्रकोविदाना पुरोहिताना वदनेषु वत्रेष्विव वाद्येषु घनततसुषिरानद्धभेदेन चतुविधेषु शब्दायमानेषु शब्द एकत्र वर्णात्मकमुच्चारणेन अन्यत्र ध्वन्यात्मक वादनेन कुर्वत्सु सत्सु |'शब्दवैर-'इत्यादिना करोत्यर्थे क्यड्त्रत्यय | कमनीयैर्मनोहरैर्मणिभि कोरकितै सजातकोरकैरिव स्थितै | 'तदस्य सजात-' इति तारकादित्वादितच् | कनकभूषणै कतकङ्गदादिभिरविकृतमप्रापितरूपान्तर सहज स्वाभाविक रामणीयक सौन्दर्य यस्यास्ताम् |अव्याजसुन्द्रत्वान्न भूषणै कार्यमिति भाव | कन्यका द्रौपदीममीषा पाण्डवाना सकाशे सनिधौ कुलपालिका कुलस्त्रिय | 'कुलस्त्री कुलपालिका' इत्यमर | निवेशया-


 पूतपाश्र्वे कुशाङ्कूरै पुरस्तान्मणिकुट्टिमे ।
  प्राज्वलत्तस्य धौम्यस्य प्रतिबि [२१४] म्व इवानल ॥९८॥
  धर्मान्प्रजाश्च ब[२१५]
हु सचिनुतानयेति
   शाम्यत्समिच्चटचटात्कृतिभिर्ब्रुवाण ।
  तामात्मजा द्रुपदराज इवानलोsपि
   प्रादादिवोन्नतशिखाग्रकरेण तेभ्य ॥९९॥
 अथ जातुषालयसमर्पणात्कृत परिपोषमस्य वपुषोsभिवीक्षितुम् ।
 स्पृहयालव किल पृथासुता क्रमात्परिचल्त्रमुर्हु[२१६]तभुज वधूसखा ॥ १०० ॥


मासु प्रवेशितवत्य । विशतेर्णिजन्तात्कर्तरि लिट् । अत्र मुहूर्तगुणाना दीपाना श्लेषभित्तिकाभेदाध्यवसितेनौजायमानत्वेन वाधाना मन्त्रविद्वदनाना शब्दायमान त्वेनौपम्पस्य गम्यमानत्वात्केवलप्रकृतास्पदस्य तुल्ययोगिताद्वयस्य ससृष्टि ॥

 पूतेति । कुशाङ्कुरैरभिनवै परिस्तरणदभैं पूता परिशुद्धा पार्श्र्वाश्चत्वारो यस्य तस्मिन् । मणिभि कुट्टिमे बध्दभूमौ । वेधामिति यावत् । तस्य धौम्यस्य पाण्डवपुरोहितस्य पुरस्तादग्रे प्रतिबिम्बो वौम्यप्रतिच्छायेव अनल वैवाहिकाग्नि प्राज्वलत्प्रजज्वाल । पुरोहितो वेधामग्निं प्रतिष्टाप्य दर्भान्परिस्तृतवानित्यर्थ । उत्प्रेक्षालकार । वृत्तमानुष्रुभम् । 'पञ्चम लघु सर्वेषु सप्तम द्विचतुर्थयो । गुरु षट्क च सर्वेषामेतच्छ्लोकस्य लक्षणम्॥' इति लक्षणात् । अस्यैव युग्मविपु लावृत्तमिति नामान्तरमिति ध्येयम् ॥९८॥

 धर्मानिति' । हे पार्था, यूयमनया द्रौपधा सह धर्माञ्श्रौतस्मार्तान्प्रजा पुत्राश्च बहु यथा तथा सचिनुत सपादयत । चिनोतेर्विध्यर्थे लोट् । इत्युक्त्त प्रकार ब्रुवाणो वदन्सन् । द्रुपदराज इव अनलोsग्निरपि । स च स चेत्यर्थ । शाम्यन्तीना दह्यमानाना समिधा पालाशादीना सबन्धिभिश्चटचटात्कृतिभि श्चटचटशब्दै । तद्व्याजेनेत्यर्थ । वर्मान्प्रजाश्च बहु सचिनुतानयेति ब्रुवाण सन् । उन्नतशिखा एवाग्रकरस्तेनोन्नता श्रेष्ठा शिखा कान्ति राजमुद्राङ्गुलीयक वा यस्य तथोत्त्केनाग्रकरेणेति च । तेभ्य पाण्डवेभ्यस्तामात्मजा द्रौपदीम् । तस्या वह्नावुत्पन्नत्वादिति भाव । प्रादाइत्तवान् । इवेत्युत्प्रेक्षा । ददाते कर्तरि लुड् । अत्रात्मजादानेन प्रकृतयोरेवाग्निद्रुपदयोरौपम्यगम्यत्वात्तुल्ययोगिताया अग्नेर्दानोत्प्रेक्षायाश्चैकवाचकानुप्रवेशसकर । उत्प्रेक्षायास्तु अपह्नवरूपकाभ्यामुज्जीवितत्वाभ्यामङ्गाङ्गिभावेन सकर । वसन्ततिलका ॥ ९९ ॥

 अथेति । अथ पाणिग्रहणानन्तर पृथासुता धर्मादयो वध्वा द्रौपध्या सहिता वधूसखा सन्त । जतुना निर्भितो जातुष । 'त्रपुजतुनो षुक' इति निर्वृत्तार्थे षुक् । 'जतुत्रपुविकारे तु जातुष त्रापुष त्रिषु' इत्युमर । स चासावा-


कठिनत्वसपदवलेपभरात्कुचकुड्यालस्य कुरुवीरवधू
कृतनिर्जयेव पतिपाणिद्युत पदमश्मन शिरसि सा निदधे ॥ १०१ ॥
 कन्यया[२१७]भ्युपकृता विधिलाजा कन्दुलत्यनलरोचिषि पेतु ।
 पञ्चवल्लभकराग्रविमर्दाद्वाहुवशगलिता इव मुक्ता ॥ १०२ ॥
विधिचोदनासु मणिदीपयष्टिकाप[२१८]रित स्फ़्उरत्प्रतिकृतेश्च सुश्रुव ।
उभयोर्विवेचनविधौ पुरोधस स्खलन बभूव न तु मन्त्रतञ्जयो ॥ १०३ ॥


लयो गृह तस्य समर्पणाद्रक्षणार्थ प्रदानात्कृत जातमस्याग्नेर्वपुष शरीरस्य परि पोष मासलत्वमभिवीक्षितु स्पृहयालव । किलेति सभावनायाम् । कौतुकिन इवेत्युत्प्रेक्षा । तदा क्रमाज्ज्येष्ठानुक्रमेण हुतभुजमनिं परिचक्रमु प्रदक्षिण चक्त्रु। मञ्जुभाषिणी ॥ १

 कठिनत्वेति । सा कुरुवीरवधूर्द्रोपदी कुच कुड्चलो मुकुल इव तस्य कठि नत्वसपदा काठिन्यसमृद्या योऽवलेपभरो गर्वातिशयस्तस्माद्धेतो कृत स्वीकृतो निर्जयो विजयो यया तयोक्तेवेत्युत्प्रेक्षा । पतीना पाणिभिर्धृत पद चरणमश्मन पाषाणस्य शिरसि उपरि निदधे निहितवती । वैवाहिककर्म सप्तपधाख्यमकरो- दित्यर्थ । प्रमिताक्षरावृत्तम् ॥ १०१ ॥

 कन्ययेति । कन्यया द्रौपद्या अभ्युपकृता अभित समीपे उपकृता विधये लाजहोमाख्यवैवाहिककर्मणे लाजा पञ्चाना वल्लभाना कराग्रैर्विमर्दात्पा णिग्रहणसमये पीडनाद्धेतोर्बाहुरेव वशो वेणुस्तस्माद्वलिता मुक्ता मौक्तिकानीवेत्युत्प्रेक्षा । कन्दलति प्रज्वलति अनलस्य वैवाहिकान्ने रोचिषि ज्वालाया पेतु । अत्र विधिलाजान धावल्यादिगुणनिमित्तकोत्प्रेक्षा । बाहुवशेति रूपकानुप्राणि- तत्वाद्वयोरङ्गाङ्गिभावेन सकर । ‘अभ्युपहृता’ इति पाठान्तरमुक्तार्थस्य लाक्ष णिकत्वापत्तेरुपेक्ष्यम् । स्खागतादृतम् ॥ १०२ ॥

 विधिचोदनाविति । विघये बघूकर्तृकवैवाहिककर्मकरणार्थ चोदनासु प्रेरणासु विषये मणिमयीषु दीपयष्टिकासु परित स्फुरन्या फ़्लन्त्या प्रीति कृतेर्द्रौपदीप्रतिबिम्बस्य सुभुवो द्रौपद्याश्च । उभयोर्विवेचनविधौ इय द्रौपदी इय तत्प्रतिकृतिरिति पार्थक्येन ज्ञान एव पुरोधसो धौम्यस्य स्खलन प्रमादो बभूव । मन्त्रो वैवाहिककर्माङ्गम्, तत्र तदनुष्ठानम्, तयोस्तु स्खलन न बभूव । अत्र द्रौपदीतत्प्रतिकृत्युभयविवेचने मन्त्रतन्त्रद्वये च प्रसक्तस्य प्रमादस्य पूर्व स्मिन्नेव नियमनात्परिसख्यालकार । यत्तु ‘स्फुरदिन्दिराप्रतिकृते’ इति पाठा ' न्तरम् , यच्च ‘मणिमग्या दीपयष्टिकाया दीपस्तम्भस्य परित उपरि स्फुरन्या इन्दिराप्रतिकृतेर्लक्ष्मीप्रतिमाया पूजार्थं निक्षिप्ताया’ इति नृसिहव्याख्यानम् , तदुभयमप्यशुद्धम् । जगत्पूज्याया लक्ष्मीप्रतिमाया पीठिकायामेव स्थाप्यतया दीपस्तम्भोपरि विन्यासस्य प्रसिद्धिविरुद्धत्वान्नामैक्दोषापत्ते , उक्ताथस्य महता पीडावहत्वादश्लीलदोषापत्तेश्च । ‘कल्याणम्- (१।१) इति मङ्गललोकेनैतत्काम्य


 इव साक्षिणि हव्यवाहे
  सामन्तराजधरणेरिव याज्ञसेन्या ।
 काङ्क्षासम क्रमश एव कर गृहीत्वा
  हर्षेण वृद्धिमभजन्नवनीन्द्रपुत्रा ॥ १०४ ॥
पाञ्चालराजश्च स पाण्डवश्च पुष्यतमौ पूजकपूज्यभावम् ।
आढ्यभविष्णुत्वमकिचनत्व व्य[२१९] त्यस्यता ताविव यौतकैव्स्ते[२२०] ॥ १०५ ॥


कर्तृकतया प्रत्यभिज्ञानात्कथचित्पदस्थितायास्तस्या इति वक्तव्यखेऽपि गौरीप्रति- माया एव तदास्रावश्यकत्वाच्छैवाना तत्राद्वेषेऽपि प्रकृताया द्रौपद्या प्रकर्षाप्रस त्त्या तत्प्रकर्षांख्यदोषापत्तेश्चेति सुधीभिविभावनीयम् । मञ्जुभाषिणी ॥ १०३ ॥

 बाहिति । अवनीन्द्रस्य पाण्डो पुत्रा युधिष्ठिरादयो बाहुप्रताप इव हव्यवा हेऽसौ तदुभयस्मिन्नपि साक्षिणि सति । द्वय साक्षीकृत्येति यावत् । सामन्तरा जाना शत्रुनृपाणा धरणे राज्यस्यैव याज्ञसेन्या द्रौपद्या कर पाणिं बलि च क्रमशो ज्येष्ठानुक्रमेण काङ्क्षासम वाञ्छासमकालमेव गृहीत्वा हर्षेण या ऋद्धिस्ताम्। सतोषसमृद्धिमिति यावत् । अभजन्प्राणु । अत्र बाहुप्रतापहव्यवाहयो साक्षि त्वकरणेन सामन्तराजधरणीयाज्ञसेन्यो श्लेषभित्तिकाभेदाध्यवसितकरप्रहणेन चैौ पम्यस्य गम्यमानत्वात्तुल्ययोगिताद्वयस्याङ्गाङ्गिभावेन सकर । एव तादृशग्रहणस्य विशेषणगल्या सतोषसमृद्धिप्राप्तिहेतुकलात्पदार्थहेतुक काव्यलिङ्गम् । द्वयोश्च सस्टुष्टि । वसन्ततिलकावृत्तम् ॥ १०४ ॥

 पाञ्चालराज इति । पूजक पूजाकर्ता, पूज्य पूजार्ह , तयोर्भाव पूजक पूज्यत्व पुष्यत्तमौ अतिशयेन पोषयन्तौ । एतं पूजयन् , अपर पूज्यमान इति यावत् । स प्रसिद्ध पाञ्चालराजो द्रुपदश्च स पाण्डव वर्मराजश्च तौ द्वौ यौतकै र्विवाकालदेयद्रव्यै (करणे ) आढयभविष्णुख वनिकत्वमकिंचनत्व दारिध्रम् । बै भपि कर्मणी । ते वनिकल्चदारिध्रे तौ पाञ्चालराजपाण्डवाविव व्ययस्यता विपरीतीचक्रतु । व्यतिपूर्वोदस्यते कर्तरि लड् । प्रथम द्रुपद कन्यायौतकदा नाभ्या पूजकोऽकिचनश्चाभूत् । तदुभयप्रतिग्रहाभ्या युविष्ठिर पूज्य आढथभ विष्णुश्चभूत् । पश्चाञ्च श्वशुरस्य गुरुत्वस्मरणादकिचनस्यैव प्रतिग्रहीतृत्वाञ्च टुपद पूज्योऽभूत् बनिकस्यैव दानसमर्थत्वाजामातृत्वाच्च युधिष्ठिर पूजकोऽभूदिति समु दायार्थ । आढ्यभविष्णुमित्यत्र ‘कर्तरि भुव -' इत्यादिना आढ्योपपदाद्भव इष्णुच् ।‘अरुद्विषदजन्तस्य मुम्' इति मुम् । ‘तस्य भावस्वतलौ’ इति त्वप्रत्यये च आढथभविष्णुत्वमिति रूपम् । अनाढथ आढ्स्थो भवतीति आव्यभविष्णु । नास्ति किंचन यस्येति अकिचन । इत्युभयत्र विग्रह । अत्र द्रुपदयुधिष्ठिरयोर्धर्निकत्व- दारिद्ययोश्च व्यत्यासीकरणेनौपम्यस्य गम्यमानत्वात्केवलप्रकृतास्पदतुल्ययोगि ताभेद । अत्र ‘व्ययस्यता ताविव यौतकैस्ते' इत्येव पाठ । ‘यौतकै स्वै ’ इति


 एवमन्तरिक्षनिक्षिप्तलक्ष्यवे[२२१] धनलक्षणेन शुल्कनिष्केण निजकण्ठनिष्कायितकन्याभुजलतानेतान्पथि कौन्तेयानवगन्तारो दुरहतारोपितनिवर्तनमतयो विकर्तनतनयोपायविधेयै सहायै सह

समन्त्रय समारब्धपूर्वस्य युद्धपलायनाध्ययनस्य द्वितीयावृत्विविच्छित्ति परिजिहीर्षमाणा [२२२] इव शकुनिभागिनेया सेनापुर सरनिसाणनि सारितनि स्वानला[२२३]लितै [२२४]क्ष्वेलितै क्षालितगवाक्षमौनक[२२५] क्ष्य द्रुपद[२२६]पुर पुनरपि नि[२२७]रुद्ध्य निरुच्छूसयाचहुकु ।


पाठान्तर तु स ताविवेति पदनयार्थान्वयस्यासगतवादिदोषादुपेक्ष्यम् । इन्द्रवज्त्रावृत्तम् ॥ १०५ ॥

 एवमिति । एवमुक्तप्रकारेणान्तरिक्ष आकाशे निक्षिप्तस्य वेण्वाधूध्र्वदण्डे बद्धस्य लक्ष्यस्य वेधनलक्षणेन भेदनात्मकेन शुल्केन कन्याया आवर्जनार्थं पारेिदेयेन निष्केण दीनारेणेति जात्येकवचनम् । निजेषु कण्ठेषु निष्कायिता भूषणविशेषणव दाचरन्ती कन्याया द्रौपद्या भुजलता येषा तान् । तादृशशुल्कलब्धद्रौपदीभुजालिङ्गि तानित्यर्थे । ‘साष्टे शते सुवर्णाना हेम्त्र्युरोभूषणे पले । दीनारेऽपि च निष्कोऽस्त्री’ इत्यमर । एतान्द्रौपदीपरिणेतृन्कौन्तेयानवगन्तार । पार्था इति जानन्त इत्यर्थ । एतान्कौन्तेयानवगन्तारोऽवज्ञातार । तिरस्कर्तार इति यावदिति वा । अतएव पथि मार्गामध्ये । दुरहतया दुरहकारेणारोपिता प्रापिता निवर्तने पाण्डवेभ्यो द्रौपद्य अपहरणे पाण्डवाना द्रौपदीविवाहपलायने वा विषये मतिर्निक्ष्चयो येषा ते । शकुनेर्भगिनी गान्धारी तत्पुत्रा भागिनेया दुर्योधनादय । भागिने याना मातुलानुकारिणी प्रकृतिरिति प्रसिध्द्य शकुनिवहुर्मतिवद्योतनाय तेषा तथा निर्देश । विकर्तन सूर्यस्तत्तनयस्य कर्णस्योपायेषु कार्यालोचनेषु विधेये स्थितै । ‘विकर्तनार्कमार्तण्ड-’, ‘विधेयो विनयग्राही वचनेस्थित आश्रव’ इत्युभय त्राप्यमर । सहायैर्दु शासनादिभि समय सम्यगालोच्य । पूर्वं द्रुपदाय द्रोइकाले समारब्धस्य सम्यगुपक्रान्तस्य समारब्धपूर्वस्य । तदा नानादेशीयै सहै षामपि पलायितत्वादिति भाव । युद्धे पलायनस्यैवाध्ययनस्य वेदस्य द्वितीया या आवृत्तेरभ्यासस्य विच्छित्त्तिं विच्छेद परिजिहीर्षंमाणा परिहर्तुमिच्छन्त इवेत्यु त्प्रेक्षा। परिपूर्वोद्धरते सन्नन्ताल्लट शानच् । सेनाया पुर सरादप्रवर्तिनो नि साणा जयदुन्दुभेर्नेि सारितै प्रवर्तितैर्नेि खानैर्भाङ्कारैर्लालितैमिंश्रितै क्ष्वेलितै सिंहनादै क्षालित निरस्त गवाक्षाणा मौनमेव कक्ष्य मालिन्य यस्य तत् । प्रतिध्वनितगवाक्षमि त्यर्थ । ‘काक्ष्यम्’ इति पाठे कक्ष्यैव काक्ष्यम् । व्रतमित्यर्थं । ‘मौनरौक्ष्यम्’ इति


 तत्क्षणमेव सत्वर निर्गतेषु[२२८] विविधैरायुधैरशून्येषु द्रुपदसैन्येषु
पृथासुतास्तेऽपि रथाधिरूढा द्विधा विचार्ये[२२९]व पुरान्निरीयु ।
शरैर्विधातु द्विषतोऽपि चूर्णास्तत्सुश्रुबामप्यलकानचूर्णान् ॥ १०६ ॥
[२३०]शङ्वान्दध्मुस्ताडयन्ति स्म भेरीश्चक्रु [२३१] क्ष्वेलाश्वापना[२३२]दान्विवक्षु ।
सिद्धावीना द्योसदा लालनीये युद्धारम्भे ते दूयेऽपि प्रवीरा ॥ १०७ ॥
अनयोर्बलयोहारथानामवलोकाय नभोजुषा सुरीणाम् ।
सुदृशा च पुरस्य सौधभाजा वरणस्रग्विधृतैव भेदिकाभूत् ॥ १०८॥


पाठे मौनकाठिन्यमित्यर्थं । द्रुपदस्य पुर पुनरपि निरुध्य निरुच्छासयाचक्त्रुर्निर्बबन्धु । निश्वासोऽपि यथा तत्रत्याना न निर्गच्छेत्तथा चक्रुरित्यर्थं ॥

 तदिति । तत्क्षण निरोवसमकालमेव विविधै खङ्गगदातोमरशरासनादिभिरायुधैरशून्येषु सहितेषु द्रुपदसैन्येषु सत्वर निर्गतेषु युद्धार्थमागतवत्सु सत्सु इत्युत्तरेणान्वय ॥

 पृथेति । ते पृथासुता अपि रथेष्वधिरूढा सन्त शरै बाणैद्विषत शत्रू न्दुर्योधनादीचूर्णान् । लवच्छिन्नानित्यर्थ । तेषा द्विषता सबन्धिनीना सुश्रुवा स्त्रीणामलकाघूर्णकुन्तलान् अचूर्णकुन्तलानपि वैवव्येन कुङ्कुमादिचूर्णरहिताश्च विधातु कर्तुमैव द्विधा विचार्यालोच्येवेत्युत्प्रेक्षा । पुराद्रौपदान्निरीयुर्निर्गतवन्त । उपजाविऋत्तम् ॥ १०६ ॥

 शङ्खानिति । ते द्वावपि पाञ्चला कौरवाश्च प्रवीरा दिवि स्खर्गे अन्तरिक्षे च सीदन्ति वसन्तीति धोसदा सिद्ध योगसिद्धा नारदादयो देवयोनिविशेषाक्ष्चादयो येषा तेषा लालनीये क्ष्लाघनीये युद्धस्यारम्भे शङ्खान्दध्मुरपूरयन् । ध्माते कर्तरि लिट्। भेरीस्ताडयन्ति स्माताडयन् । क्ष्वेला सिहनादाश्चक्त्रुरकुर्वन् । चापस्य ना दाष्टकारान्विवनु । चक्रुरित्यर्थं । वृणोते कर्तरि लिट् । अत्रानेकक्रियायौगपद्यात्समुच्चयात्समुच्चयालकार । शालिनीवृत्तम् । ‘शालिन्युक्ता म्तौ तगौ गोऽब्धिलोकै’ इति लक्षणात् ॥ १०७ ॥

 अनयोरिति । अनयोर्बलयो कौरवपाञ्चलचतुरङ्गयो । युध्यमानयोरिति शेष । महारथानामवलोकाय । दर्शन कर्तुमित्यर्थ । ‘क्रियार्थोपपदस्यच कर्मणि स्था निन ’ इति सप्रदानत्वम् । नभोजुषा । गगनभाजा सुरीणा देवत्रीणाम् । ‘जातेरस्त्रीविषयादयोपधात्' इति डीष् । सौधभाजा प्रासादाग्रगताना पुरस्य सुदृशा पौराङ्गनाना च विधृता करेण जृहीता वरणस्य युद्धे मृताना पतित्वेन वरणार्थं स्त्रङ्चन्द्रमा लैवेति तादर्थ्ये षष्ठीसमास । भेदिका इमा सुर्यो वरणस्रग्धारणादिमा पौर्यस्तदभा


आसीदतामाशु धनुर्धराणामासीदताम्यत्करकौशलानाम् ।
क्षण मिथो [२३३] बाणगणोपरोधाद्रण न कस्यापि रण नव यत् ॥ १०९॥
द्वि[२३४] रद द्विरदस्तुरग तुरगो रथिक रथिक पदग पदग ।
इतरेतरमेत्य रण विद[२३५]धे दिवि नारदविस्मयनाकतरुम् ॥ ११० ॥
रजोन्धकारेषु दृशोऽन्धयत्सु करै करान्कौतुकसूत्रचिह्नान्।
परामृशन्तो युधि पाण्डुपुत्रा परस्पर पर्यहरन्प्रहारान् ॥ १११ ॥

 सोमकेष्वपसर्पत्सु सूर्यसूनो शितै शरै ।

चादिति मिथो भेदानुमानिका अभूदित्यनुमानालकार । तेन पौराङ्गनाना मर्त्याति शायि सौन्दर्य व्यज्यत इत्यछकारेण वस्तुध्वनि । औपच्छन्दसिकम् ॥ १०८ ॥

 आसीदतमिति । आशु सखरमासीदता युद्धाय सनह्यताम् । अताम्यदवि च्छिद्यमान करयो कौशल धनुर्ग्रहणशरसधानादिषु नैपुण्य येषा तेषा धनुर्धराणा मिथोऽन्योन्य बाणगणानामुपरोधान्निरोधाद्धेतो । कस्यापि वनुर्धरस्य व्रण क्षत नाभूत् । यद्यस्मात्कारणाद्रण युद्ध नव नूतनम्, न विद्यते वकारो यस्मिस्तथोक्त मिति च । रणशब्दस्य वकारसहिसत्वे व्रण स्यादित्यर्थ । अत्र च पक्षे वाच्यवाच कयोरभेदाध्यवसाय । बाणैर्बाणाना निरोधे शरीरभेदनायोगाद्रणस्याप्रसक्तिरिति तत्त्वम् । ‘बाणगणोपरोधाद्रण न कस्यापि रण नव यत्’ इत्येव पाठ । बाणगणान्निरुध्ध व्रण विना तत्र रण महीय’ इति पाठान्तरे तु तत्र इति ‘महीय’ इति च पदद्वयस्य वैयर्थ्यान्निरर्थकत्वदोष , उक्तस्वारस्यायोगश्चेति ध्येयम् ॥ १०९ ॥

 द्विरदमिति । द्विरदो गज । तदारूढ इत्यर्थ । एवमग्रे । द्विरदम्, तुरगो ऽश्वस्तुरगम्, रथिकोरथारूढो रथिकम्, पदग पादचारी पदग च, एवमितरेतरम न्योन्यमेत्य सगत्य दिव्यन्तरिक्षे नारदस्य मुनेर्यो विस्मय आश्चर्य तस्य नाकतरू कल्पवृक्षम् । आश्चर्यजनकमित्यर्थ । रण युद्ध विदधे चकार । ‘रथिक रथिक ' इत्यादिपाठस्तु क्रमभ्रष्टदोषादुपेक्ष्य ॥ ११० ॥

 रज इति । रजास्येवान्धकारा रजास्यन्धकाराणीवेति वा । तेषु दृशो नेत्राणि अन्धयत्खन्घीकुर्वत्सु सत्सु पाण्डुपुत्रा करै स्वै कौतुकसूत्र प्रतिसर चिह येषु तान्करान्परामृशन्त स्पृशन्त सन्त युधि परस्परमन्योन्य प्रहाराञ्श स्त्रघातान्पर्यहरन्परिहृतवन्त । अत्र नवकौतुकहस्तस्पर्शेन पाण्डवाना स्खत्वानु मानादनुमानालकार । तथा असबन्धे सबन्धरूपातिशयोक्तिक्ष्च । द्वयोरेकवाचानुप्रवेश सकर ॥ १११ ॥

 सोमकेष्विति । सूर्यसूनो कर्णस्य शितैस्तीक्ष्णै शरैर्बाणै सोमकेषु


 कूजयामास कोदण्ड । कु[२३६]लिशायुधनन्दन ॥ ११२ ॥

 तेन जनन इव प्रधनेऽपि वृकोदरद्वितीयेन करोदरपरिकर्मॅीकृतस्य र्मी[२३७]कुतस्य वर्मनिर्माथिभि शरोर्मिभिर्निकु[२३८]त्तमर्माणो भयविसारिभि स्वेदवारिभि [२३९]स्वेपदान्येव यानपदेऽभिषिञ्चन्त समराजिरकन्दलितपार्थयशश्चतुर्थीचन्द्रकलावलोकन परिहर्तुमिव मुख निवर्त्य सौबलेया केवलैरेव बाहुमि कुरु[२४०]पुटभेदन प्रति पलायबभूवु ।

बीभत्सुचापविवृतेषु महत्सु कर्म
 स्वेक दृढ जगृहिरे युधि धार्तराष्ट्रा ।
वीक्ष्य स्थितेषु विमतेषु विलोलजीव
 पृष्ट प्रकाश्य गमन पृथुना जवेन ॥ ११३ ॥


पाञ्चालेष्वपसर्पत्सु पलायमानेषु सत्सु कुलिश वज्रमायुध यस्य तस्येन्द्रस्य नन्दनो ऽर्जुन कोदण्ड चाप कूजयामास गुणाकर्षेण ध्वनयति स्म । सूर्यसूनोस्तत्प्रसूताया दीप्ते शितैस्तीक्ष्णै शरैरिव शरै किरणै सोमकेषु चन्द्रवद्भवलेषु जलेषु अपसर्पत्सु शुष्यत्सु सत्सु कुलिशायुध नन्दयति वाहनत्वेनेति नन्दनो मेघ कस्य ब्रह्मण उत ऊर्घ्वमण्ड ब्रझाण्डोर्ध्वभागमाकाश कूजयामास । गर्जितैरिति भाव । ‘कश्चित्तात्मरविब्रह्म वातृमूर्धसुखेषु कम्’ इति विश्व । इत्यर्थान्तरे तु न श्लेष । अभिधाया इत्यादेरुक्तत्वादिति ॥ ११२ ॥

 तेनेति । जनने जन्मनीव प्रधने युद्धेऽपि । उभयत्र चेत्यर्थ । धृकोदरो भीमो द्वितीय सहायो यस्य, वृकोदरस्य द्वितीय इति च । तेनार्जुनेन करस्य उदरे मध्यै परिकर्माकृतस्यालकारीकृतस्य कार्मुकस्य चापस्य सबन्धिभि वर्माणि कव चानि निर्म थन्न्तीति तथोकै शराणामूर्मिभि परम्पराभि निकृत्तानि मर्माण्यायुस्थानानि येषा ते सौबलेया दुर्योधनादयो भयेन विसारिभि स्रवद् स्वेदवारिभि खेषा पदानि चरणान्येव यानपदे वाहनस्थानेऽभिषिञ्चन्त पादचारिण सन्त समराजिरे युद्धप्राङ्गणे कन्दलितमङ्कुरित पार्थयश एव चतुर्थीचन्द्रकला तस्या अबलोकन परिहर्तुमिवेत्युत्प्रेक्षा । चतुर्थीचन्द्रदर्शनमपवादहेतुरिति प्रसिद्धम् । मुख निवृत्य परावृत्य । लज्जावशादिति भाव । केवलैर्निरायुधैरेव बाहुभिरुपलक्षिता कुरूपुटभेदन हस्तिनपट्टन प्रति पलायबभूवु पलायन चक्रु ॥

 बीभत्स्वित्ति । युधि युद्धे बीभत्सोरर्जुनस्य चापेन विवृतेषु प्रकटीकृतेषु महत्सु क्ष्लाध्येषु कर्मसु क्रियासु । तन्मध्ये इत्यर्थ । विमतेषु शत्रुषु वीक्ष्य स्थितेषु


 विजयात्परमेतेषामृजबोऽ[२४१]प्यतिभीषणा ।
 सद्यो गुणा समुन्नेमुरवनेमुस्तु[२४२][२४३] घन्वनाम् ॥ ११४ ॥
ते नेवृत्य नगर स[२४४]मावसस्तोषिता द्रुपदराजपूजया ।
[२४५]अप्यशेषजनकेन शौरिणा जन्यभावमुपजग्मुषा समम् ॥ ११५ ॥
पार्थ एव सहजेष्वखिलेषु प्रायशो युधि बल श्रुतवत्या ।
अन्वभूदघिकमीक्षण[२४६]वृष्टीरऋर्जकाशमिव राजसुताया ॥११६ ॥

वृत्तान्वमेवमवकण्र्य स राजवृद्ध


सनद्धेषु सत्सु पृष्ट चापदण्डमश्व्वाद्भाजग प्रकाश्य पृथुना महता जवेन वेगेन विलो ला जीवा शिञ्जिनी यस्मिन्कर्मणि तत्तथा गमन बाणप्रयोगार्थमाकर्षणाद्धनुर्मण्डलीभवनात्मक हढमेक कम घार्तराष्ट्रास्तदा पलायनकाले जगृहिरे गृहीत्तवन्त । कुत । विमतेषु विक्ष्य स्थितेषु सत्सु विलोलो गतगतो जीव प्राणधारण यस्मिंस्त द्यया पृष्ठ देहपश्र्दाभ्दाग प्रकाश्य पृथुना जवेन गमन जगृहुरिवेत्युत्प्रेक्षा व्यञ्जका प्रयोगाद्रम्या श्र्लेषानुप्राणिता च । वसन्ततिलका हत्तसू ॥ ११३ ॥

 विजयदिति । एतेषा पाण्डवाना सबन्धिनो गुणा शौर्यधैर्यादय । ऋजवो विनयान्वितत्वान्मृदवोऽपि अकुटिकला अपीति वा। अवत्रा अपीति च । विजयात्पर कौरवजयानन्तरभतिभीषणा अतिभयकरा सन्त । 'अरिभीषणा ' इति पाठान्तरम् । सद्यस्तत्क्षणमेव समुन्नेमु सम्यगुन्नतिं प्राप्ता । उन्नत्रा बभूवुरिति च । धन्वना चापाना तु गुणा शिञ्जिन्योऽतिभीषणा अपि विजयात्परमवनेमुरवनम्रा अवरोपिता इति च । एतेषा गुणा विजयादर्जुनात् । तत्प्रतापाध्देतोरिति यावत् । इत्यपि प्राहु । अत एव श्र्लेष्प्रतिभोत्थापितस्य विरोधासादूयस्य ससृष्टि ॥ ११४ ॥

 तृ इति । ते पाण्डवा नगर द्रपदपुर प्रति निवृत्य युध्दात्प्रत्यागत्याशेषाणा लोकाना जनकेनापि जन्यस्य भावमुत्पत्तिं वरै सख्य च उपजग्मुषा प्रात्पवता । 'जन्या स्निग्घा वरस्य ये ' इत्यमर । शौरिणा सम श्रीकृष्णेन सह द्रुपदराजस्य पूजया तोषिता सन्त समावसन्वसन्ति स्म । द्रुपदपुर इति भाव । अत्रापि विरोघाभासालकार श्र्लेषानुप्राणित । रघोदूता ॥ ११५ ॥

 पार्थ इति । अखिलेष सहजेषु । भ्रात्तॄणा मघ्य इत्यर्थ । पार्थेऽर्जुन एव युघि युध्दे बलमात्मशौर्य प्रायश श्रुतवत्या राजसुताया द्रौपद्या ईक्षणवृष्टी कटाक्षपातान् अर्जकस्यारामविक भागमिवान्वमूदनुसूतवान् । अर्जकस्याशदूयस्मरणादिति भाव । उत्प्रेक्षा। स्वागता वृत्तम् ॥ ११६ ॥

 वृत्तान्तमिति । अथ स राजवृध्दो धृतराष्ट्र एवमा जतुगृहव्यवनमा कौरवपला-


 क्षत्रा सकाशमु[२४७]पनाय्य सहानुजातै।
धर्मात्मजाय धुरि कसभिदोऽर्धभा[२४८]वा-
 दन्वर्थनामथ विभज्य ददौ स्वनाम्त्र ॥११७॥
तस्मिन्नाराहितलक्षणे नृ[२४९] पसुते राज्याभिषित्त्के सति
 स्वान्यक्षीणि दद्दुर्यदम्बु शिशिर लिप्ताङ्के कुङ्कुमै ।
राग यद्विभराबभूवुर[२५०]हन्य दूर्णिते बन्दिभि-
 र्निष्पन्दत्वमत स्वहष्टिरिति त पौरा विवव्रु स्फुटम् ॥११८॥

इत्यनन्तभट्टकविकृतौ चम्पूभारते द्वितीय स्तबक ।



यन प्रसिद्ध नृत्तान्तमवकर्ण्य क्षुत्वा। क्षत्रा विदुरेणानुजातौर्म्रातृभिर्भीमादिभी सह सकाश स्वसमीप प्रत्युपनाग्य प्रापग्य। धर्मात्मजमिति विभक्तिविपरिणामेन योज्यम्। कसभिद् क्षीकृष्णस्य धुर्यग्रे धर्मात्मजाय युधिष्ठिराय स्वस्य नाम्रो धृतराष्ट्र इति सज्ञाया अन्वर्थता ध्रुतराष्ट्रत्वम्। राज्यधारणमिति यावत्। अर्धभावाद्विभज्यार्ध त्वेन विभाग कृत्वा ददौ। अर्धराज्य दत्तावानित्यर्थ। वसन्ततिलजकावृत्तम्॥११७॥

 तस्मिन्निति। आहितानि सघटितानि लक्षणानि छत्रचामरादिराज्यचिह्नानि यस्मिंस्तधोक्ते तस्मित्रपसुते धर्मराजे राज्येऽभिषतक्ते सति। धृतराष्ट्णेति भाव यद्यस्मान्स्वानि स्वीयान्यक्षीणि नेत्राणि शिशिर शीतलमम्बु आनन्दोत्थ दधुर्धृतव् न्त। एव तस्मिन्नृपसुते कुङ्कुमैक्ष्चन्दनमिक्षितैर्लिप्तान्यङ्कानि यस्य तास्मिस्तथोक्त्ते सति। शैषिक कप्प्रत्य। स्खान्यक्षीणि। यद्यस्मात् रागमारुण्यमनुराग च बिभराबभूवुदृधु । 'भीहीभृहुवा क्ष्लुवन्च' इति बिभर्तेरमि क्ष्लुवद्भावाद्भित्वम्। 'भृञामित्' इत्यभ्यासस्य इत्वम्। तस्मित्रृपसुते बन्दिभि स्तुतिपाठकैर्वार्णिते स्तुते सति यद्यस्मात्स्वान्यक्षीणि निष्पन्दत्व निक्ष्चलत्वम्। उत्सेकादविकृतत्वमिति यावत्। अवहन्वहति स्म। अत उत्तूहेतुत्र्यात्पौरा पुरजनास्त धर्मराज स्वेषा इष्टि चक्षुरिति विवव्रु सभावयन्ति स्म। स्फुटमित्युत्प्रेक्षा। सा च अभि षेककुङ्कुमालेपबन्दिवर्णनै राज इव स्वइष्टेरप्यम्बुधारणरगभरणाविकृतत्व वह्णवाक्यार्थाना हेतुत्वेन काव्यलिङ्गत्र्योज्जीवितेति तस्यास्तेषा चाङ्गाङ्गिभावेन सकर्। वृत्त शार्दूलविक्त्रीडितम्॥११८॥

इति क्षीसदाशिवपदारविन्दनकन्दलितानन्दसान्द्र्स्य कुरविकुलचन्द्र्स्य

रामकवीन्द्र्स्य कृतौ चम्पूभारतव्याख्याने लास्याभिघाने

द्वितीय स्त्बक।


पितृव्याचाथ पृथातनूजो हरि पुरोधाय सम वलौघै |
परस्परस्त्रेहमिवैष मातु प्रस्थ ययौ खाण्डवशव्दपूर्वम् ॥ १ ॥

 तत्र [२५१]वनीभवति वनीपकजनमनीषितपूरकुलावनीपसुरसुरभिगोष्ठीगौष्ठीने देशे[२५२] स्मरणमात्र[२५३]कृतसनिधानेन सकलशिल्प[२५४]पारक्ष्ना विक्ष्वकर्मणा [२५५]स्वकर्मणा निर्मापित [२५६] रामणीयकावलोकनसुलभविस्मयभारगुरुतरानमरान्वोढुमक्षमतया [२५७] क्ष्मातलमवलम्बमार्विमानैरि[२५८]वाभ्रलिह कुरुविन्दमणिमन्दिरैर्जम्भरिपुनिदे-


 पितृव्येति| अथार्धराज्याभिषेकानन्तरम् | एष पृथातनुजो धर्मराज पितृव्यस्य पितृम्रातुधृर्तराष्ट्रस्य वाचा 'इन्द्रप्रस्थे बस' इत्यात्मिकया परस्प रस्य स्वेषा दुर्योधनादीना च स्त्रेह प्रेमरस मातु प्रमाणीकर्तुमिवेत्युत्प्रेक्षा| खाण्डव इति शब्द पुर्वो यस्य नामनि तथोक्त प्रस्थम् | इन्द्रप्रस्थ प्रतीत्यर्थ | 'खाण्डवो बलसूदन' इतीन्द्रपर्यायेषु शब्दार्णव| हरि ष्रिकृष्ण पुरोघायाग्रे कृत्वाबलौघै सम ययौ | 'कुडव प्रस्थ इत्याद्या परिमाणार्थका पृथक्' इत्यमर| उपजाति ॥ १ ॥

 तत्रेति| वनीपकजनस्य याचकजनस्य मनीषिताना कामिताना पूरका समप्र सपादका पुरोर्नाम राज्ञ कुल वशो येषा ते च तेSवनीपा राजानस्त एव सुरसुरभय कामधेनवस्ता गोष्ठी समूहस्तस्या गौष्ठीने पूर्वतनस्थाने | 'वनीपको यावनको मार्गणो याचकार्थिनौ', 'गोष्ठ गोस्थानक तत्तु गौष्ठीन भुतपूर्वकम्' इत्युभयत्राप्यमर| तत्र देश इन्द्रप्रस्थभागे वनीभवत्यरण्यायमाने सति | चिरा द्राज्ञामनामनावासादिति भाव | स्मरणमात्रेण कृत सनिधान समीपस्थितिर्येन तेन सकलाना शिल्पाना गृहादिनिर्माणव्यापाराणा पारत्त्तट्ट्क्ष्वना पारगतेन विक्ष्वकर्मणा देवशिल्पाना(कर्त्रा) स्वेन स्वीयेनैव कर्मणा व्यापारेण | न त्वन्यदीयेनेत्यर्थ् | निर्मापित रचितम् | अतएव रामणीयक्स्य तत्पुरसौन्दर्यस्यावलोकनेन सुलभो यो विस्मयभार आक्ष्चर्यातिशयस्तेन गुरुतरानतिदुर्भरानमरान्देवान्वोढुमक्षमतया शक्त्या क्ष्मातल भूप्रदेश प्रत्यवलम्बमानैर्विमानैर्देवयानैरिव स्थितै कुरुविन्दम णिमयैर्मन्दिरैर्गृहैरम्रलिहमाकाशचुम्बि जम्भरिपोरिन्द्रस्य निदेशेनाज्ञया लम्भित प्रापित तस्येन्द्रस्य नाम इन्द्रसज्ञा उपपद स्वसग्नया पूर्वशब्दो यस्य तथोक्तम् | पुर्वतनराजभिरिति शेष | पुरमिन्द्रप्रस्थमधिष्ठिताय | तत्र प्रविष्टायेत्यर्थ |


शेन लम्भितत[२५९]न्नामोपपदमिन्द्र[२६०]प्रस्थ[२६१] मघिष्ठिताय युधिष्ठिराय निवे[२६२]द्य
स्वपुरेSपिसुषमामीध्शीं परीक्षितुमिव स्यन्दनेन यदुनन्दनेन प्रयये ।
 प्राणायमानमहिलानथ पाण्डुपुत्रा-
  न्क्षोणाविमाननुजिघृक्षुरु[२६३]दारभूमा ।
 एणाजिनेन घटितोद्रमनीयकृत्यो
  वीणाविनो[२६४]दरसिको मुनिराविरासीत् ॥ २ ॥
तपोनिघेरागमनेन सद्य सभा विभो स्तब्धजनारवापि ।
वीणारवानुद्रुतभृङ्गमालाकोलाहलैर्घोषितदिझुखाभूत् ॥ ३ ॥


युधिष्ठिराय निवेद्य स्वपुरं गच्छामीति विज्ञाप्य । स्वस्य पुरे द्वारकायामपीद्यशीमिन्द्रप्रस्थसद्यशी सुषमा कान्तिविशेष परिक्षितुमिवेत्युत्प्रेक्षा । यदुनन्दनेन श्रीकृष्णेन स्यन्दनेन रथेन प्रयये प्रस्थितम् । रथमारुह्य श्रीक्रुष्प्र प्रस्थितवानित्य र्थं । यातेर्भावे लिट् । 'स्मरणमात्रनयनपात्रेण' इति पाठान्तरम्। 'कुरुविन्द पद्यराग' इत्यमर ॥

 प्राणायमानेति । अथ कृक्ष्णगमनानन्तरमुदारो महान्भूमा प्रभावो यस्य स । 'अपारभूमा' इति पाठे अपारो निरवधिको भुमा प्रभावो यस्य तथोक्त इत्यर्थं । एणाजिनेन मृगचर्मणा घटितसमुद्रमनीयस्य धौतवस्रद्वयस्य कृत्यमुत्तरीयान्तरीयकार्य यस्य स वीणाविनोदरसिको मुनिर्नारद प्राणवदाचरतीति प्राणायमाणाव महिला येषा तान् । प्रणतुल्यद्रौपदिकानित्यर्थं । इमान्पाण्डुपुत्राननुग्रहीतुमिच्छुरनुजिव्रक्षु सन् । गृह्णाते सन्नन्तागदुप्रत्यय । क्षोणौ पाण्डवावासभूमावाविरासीत्साक्षाद्वभूव । वसन्ततिलकानृत्तम् ॥ २ ॥

 तपोनिधेरिति । विभोर्घर्मराजस्य सभा तपोनिघेर्नारदस्यागमनेन सद्य स्तब्ध्र शान्तो जनाना सभासदामारव कलकलरवो यस्या तथोक्तापि । विणाया नारदमहत्या रवास्तम्त्रीनादान्नुद्रुताथा अनुधावन्त्या भृङ्गाणा मालाया पड्रे कोलाहलैर्झङ्कारैर्धोषितानि मुखरितानि दिशा मुखानि अग्रमणा यस्यास्त्योक्ताभूत् । अत्र शान्तेSपि कोलाहले सभाया पुनस्तद्वक्त्वकथनात्पूर्वरूपालकारभेद । 'पूर्वावस्थानुवृत्तिश्र्च विकृक्ते सति वस्तुनि' इति लक्षणात् । यत्तु 'वीणारवा नुद्रवण भृङ्गाणा रवसाम्यात्साजात्यभ्रान्त्या इति नृसिंह, तदबोधात् । यतस्तेषा परिमलानुधावनमेव लोकसिध्द कविकुलक्षुण्ण च । आलापकालसमपल्लविता' इत्यस्त्र प्रन्थकारेणापि 'सौरभ्यपातिमधुपारव-' इत्युक्तम् । एव च वीणारवाननु तत्समकालमेव द्रुतानामिल्यर्थ । गानमाधुर्येण वीणाया सद्य कुसुमितत्वादिति व्याख्येयम् । अन्यथा प्रसिध्दिविरोघत्वदोषापत्तेरिति । वृत्तमुपजाति ॥ ३ ॥


दृष्ङ्टवा नृपो देवमुनिं विनीतो मौलिस्रजा धूलिमधूलिवृन्दै ।
सपङ्कमाधाय त[२६५]दडिध्रयुग्म विपङ्कमात्मानमय व्यतानीत् ॥ ४ ॥
 मेध्या बृसीमधिगतस्य [२६६]‘चिरिञ्चिदूनो
  रास्थाय सनिधिमुदारमुदा कुरूणाम् ।
 तस्यारदुतागमनहेतुपरिच्छिदाया
  चित्तानि दूरपथवर्तनतामवापु ॥ ५ ॥
निकुञ्चिते तेन धृता निजाङ्के विपञ्चिका मौनमवाप्य तस्थौ ।
पाञ्चालिकाबन्दनवादशैलीमाधुर्यमाकण्र्य विलज्जितेव ॥ ६ ॥
 राज्ञामुना समुचितेषु सभाजनेषु
  पात्रैश्च पाणिविधृतै प्र[२६७]चलैक्ष्च वेत्रै ।


 दृष्वेति । अय नृपो बर्मराजो देवमुनिं नारद दृष्टा विनीतो विनयान्वित सन् । मौलौ किरीटे । ‘मौलिर्मूर्धकिरीटयो’ इति विश्व । स्रजा पुष्पमालिकाना । सबन्धिभिर्धूलीना परागाणा मधूलीना मकरन्दाना बृन्दैस्तस्य नारद स्याङ्द्रियुग्स पादयुगळ सपङ्क पङ्केन सहितमाधाय कृत्वा । त नमस्कृत्येत्यर्थं । आत्मान विपङ्क निष्पाप व्यतानीदकरोत् । तनोते कर्तरि लुड् । ‘पङ्क कर्दम पापयो ' इति विश्व । अत्र नारदनमस्कारकरणस्य विशेषणगत्या निष्पापत्व करणहेतुत्वापदार्थहेतुक काव्यलिङ्गम् । वृत्तमुपजाति ॥ ४ ॥

 मभ्यामिति । मेध्या पवित्रा बृसी कुशादिनिमिंतासनम् । ‘व्रतिनामासन बृसी’ इत्यमर । अधिगतस्य । तत्रोपविष्टस्येत्यर्थ । विरिञ्चेर्ब्रह्मण सूनो र्नारदस्य । ‘सूनु पुत्रेऽनुजे रवौ' इति विश्व । सनिधि समीपमास्थाय प्राप्य । उदारा महती भुत् आनन्दो येषा तेषा कुरूणा युधिष्ठिरादीना चित्तानि तस्य अङते आकस्मिक्त्वादत्याश्चर्यकरे आगमने यो हेतु कारण तस्य परिच्छिं दाया निष्कर्षे विषये दूरपथे वर्तनता स्थितिमवापु । सुदीर्घालोचनपराण्यास नित्यर्थ । वसन्ततिलका ॥ ५ ॥

 निकुञ्चित इति । निकुञ्चित आकुञ्चिते निजे स्वीयेङ्के। ‘निजमात्मीयनित्ययो ’ इति विश्व । तेन नारदेन वृता निहिता ,विपश्चिता महती वीणा । पाश्चालिकाया द्रौपद्या वन्दनवाद ‘भो पाञ्चलि, अहमभिवादये' इति वचस्तस्य शीलमेव शैली आचार । उच्चारणमिति यावत् । तस्य माधुर्यमाकण्ये विशेषेण लज्जितेवेत्युत्प्रेक्षा । मौन तूष्णीभावमवाप्य तस्थौ स्थिता । अत्र वीणामैौनस्य पाञ्चाल्युक्त्तिमाघुर्याकर्णनजनितलज्जाहेतुकत्वोक्त्तेर्हेतूत्प्रेक्षा । गृत्तमुपजाति ॥ ६ ॥

 राजेति । धातृसूनुर्नारदोऽमुना राज्ञा धर्मराजेन (कर्ता) पाणिभि परिजन-


 निर्वर्तितेषु रभसेन निवर्तितेषु
  स्मित्वा मिथो गिरमभाषत धातृसूनु ॥७॥
 लाक्षागृहाद्यद्च्यावि साक्षादिव रति प्रिया ।
 यदूघवाहि च युषमाभिस्तहूय हि सता मुदे ॥८॥
 स्वतो भातमतीना व कुतो वान्यानुशासनम् ।
 मौन तु सुह्रदारव्येये दून वक्तार[२६८]मादिरोत् ॥९॥
आष्टमि किल शिखा वधूरिय भाति याजमखवेदिबार्हिष ।
युयमभ्रसरितावृतान्वया पावन खलु भवत्समागम ॥ १० ॥


हस्तैर्विध्रुतै पात्रै पूजद्रव्यभाजनै [करणै] सम्यगुचितेष्वर्हैषु सभाजनेषु पुज नेषु निर्वर्तितेषु कृतेषु सत्सु। 'आनन्दनसभाजने' इत्यमर। कि चेति चार्थ। पाणिविधृतै कञ्चुकिहस्तगृहीतै प्रचलैर्वेत्रैर्दण्डै। सभाया जनेषु सभासत्सु रभ सेन निवर्तितेषु नि सारितेषु सत्सु मिथो रहसि स्थित्वा । 'मिथोऽन्योन्य रहस्यपि' इत्यमर। गिरं वक्ष्यमाणामभाषतोक्तवन्। यत्तु 'सभाजनानामदर्ध्यादिपूर्वक वनादिभिर्बहुमान कृत्वा तेषु यापितेषु सत्सु', इति नृसिंह , तन्मन्दम् । प्रक्रान्त नारदपरित्यागेन पूजाया तेषा प्रसक्तयभावादिति ।वसन्ततिलकातृत्तम् ॥ ७ ॥

 लाक्षेति। हे कुरव, युष्माभिर्लाक्षागृहात् । तद्याहादित्यर्थ।अच्यावि मुक्त इति यत् । च्यवतेर्भावे लुङ्। कि च साक्षाद्रति स्मरपत्नीव स्तिथ प्रिया द्रौपदि व्यवाहि ऊढा इति यत्। विपूर्वादूहते कर्मणि लुङ् । तद्वय लाक्षागृहमुक्तिद्रौं पदीपाणिग्रहण च सता मुदे सतोषाय भवति। परेषामपभ्दङगे ष्रेय सङ्गे च सन्त सतुष्यन्तीति भाव ॥८॥

 स्वत इति। स्वत आत्मनैव भाताभास्वत्प्रतिभाशालिनी मतियेंषा तेषाम्। अर्थानर्थचिन्तनसमर्थसहजबुद्दिमतामित्यरर्थ। वो युष्माक्मस्य सबन्धि अन्यानु शसन कर्तव्याकर्तव्यशिक्षण कुतो हेतो। वाराब्दो ह्रर्थक। न कुतोऽपीत्यर्थ। तर्हि कुतोऽनुशास्सीत्यत आह-मौनमिति। कि तु सुह्र्दामित्राणामाख्येये वक्त व्ये विषये। 'सुह्र्हुर्ह्र्दौ मिन्त्रामित्रयो' इति निपातनात्साधु। मौन[कर्तृ] वक्तार कथनसमर्थ जन दून कथनीयाकथनेन सतप्तमादिशेत्कुवींत । 'आवहेत्' इति पाठेऽप्येवमेवार्थ। सुह्र्दा कथनीयस्य समयेऽकथने सति कदाचिद्विपतौ सत्या जानतापि तदा किमिति नोक्तमिति सुह्रदृयत इत्यर्थ ॥९॥

 अष्टमीति । इय वधूद्रौंपदी याजेन मुनिना यो मखो यञ । तत्कारितपुत्रकामेष्टिरिति यावत् । तत्सबन्धिन्या वेदौ वेदिकाया बर्हिषोऽग्ने । 'बर्हि शुष्मा कृष्णवर्त्मा' इत्यग्निपर्यायेष्वमर । अष्टमी सप्ताधिका शिखा किल


जायया च पतिभिश्च कदाचिज्जायते स्म नहि दम्पतिशब्द ।
अभ्दुतस्य स्वलु तस्य जगत्यामर्थतामनुभवन्ति भवन्त ॥११॥
  एकस्मै स्पृहयालूनामिष्टाय सुधियामपि
  करस्थमेव श्रुवते कलह् निधनावधिम् ॥१२॥
सुम्दोपसुन्दौ सहजावभीकौ सुरेष्विव क्कापि सुरङ्गनायाम् ।
अन्योन्यमाहत्य पुरा यमस्य मनोभवेषोरिव लक्ष्यमास्ताम् ॥१३॥


ज्वाला खलु । तद्वदतिपवित्रेत्यर्थ । किलशब्द सभावनायाम् । भाति प्रकाशते । हे पाण्डवा, युय अभ्रसरिता गङ्गया वृतो बहुमानितोऽन्वयो वशो येषा तथोक्ती किल ।चन्द्रवशाश्च भवदीयो गङ्गावदतिनिर्मल इत्यर्थ ।एतद्वाशस्य शन्तनोर्गङ्ग या वृतत्वादित्यपि चाहु । भवती च भवन्तश्च भवन्तस्तेषा तादृश्या द्रौपद्या स्ताह्शाना युष्माक समागमो दाम्पत्यसबन्ध पावनोऽतिपवित्र खलु । उभयव शशुद्वत्वादिति भाव । 'हिरण्या कनका रक्ता कृष्णा चैवाथ पिङ्गला । बहुरुपा तिरक्ता च सप्तजिह्वा प्रक्रीर्तिता ॥' इत्यत्र जिह्वाशब्द शिखापर एवेति बोध्यम् । रथोद्धता ॥१०॥

 जाययेति । जायया भार्यया एकया पतिभिर्वहुभिश्च दम्पतीति शब्द कदाचिदपि नहि जायते स्म न व्यवह्रियते स्म । कि त्वेकयैव जायया एकेनैव पत्येत्यर्थ । भवन्तो द्रौपदी युय च उभये तु जगत्या लोके अद्भुतस्य भार्याया एकत्वेऽपि बहुत्वात्पतीनामाश्चर्यकरस्य तस्य दम्पतीशब्दस्यार्थता वाच्यत्वमुक्त विधमनुभवन्ति । आश्रयन्ति खल्वित्यर्थ । 'शेषे प्रथम' इति भवच्छब्दस्य प्रयोगात्प्रथमपुरुष । दम्पतीत्यत्र जायाशब्दस्य दम्भाव । स्वागता ॥११॥

 तत किमित्यत आह-एकस्मा इति । एकस्मै इष्टाय भोग्यवस्तुने स्पृह यालूना स्पृहान्विताना सुधिया कर्तव्याकर्तव्यकोविदानामपि । किभुतान्येषामि त्यर्थ । निधनावाधिं मरणान्त कलह युद्ध करस्थ हस्तगतमेव ब्रुवते वदन्लि । बुघा इति शेष ॥१२॥

 उक्तार्थेऽनुभूतार्थ दृष्टान्तयति--सुन्देति । पुरा पूर्वस्मिन्काले सुन्दोपसुन्दौ नाम सहजौ भ्रातरौ क्कापि कस्याचित्सुराङ्गनायामप्सरसि तिलोत्तमाख्याया सुरेषु देवेष्विवाभीकौ कामुकौ निर्भीकौ च सन्तौ । 'अभीक कामुके क्रूरे शभौ च भयवर्जिते' इति विश्व । अन्योन्यमाहत्य मनोभवेषो कामबाणस्येव । पुरेति काकाक्षिन्यायेन योज्यम् । प्रयममित्यर्थ । यमस्य लक्ष्य वेध्य चक्षुर्विषयश्च । आस्ता मभूताम् । हतावित्यर्थ । पुरा किल सुन्ढोपसुन्दौ नाम राक्षसौ ब्रह्मणो वराद नितरवध्यौ तद्ववाय सृष्टा तिलोत्तमा कामयन्तौ ममैवेय ममैवेयमिति मिथो विरुध्य युव्रेद्वा मृताविति भारती कथात्रानुसधेया । अत्र श्लेपभित्तिकाभेदाध्यवसिताभीकत्वघर्मेण सुरसुराङ्गनाना सुन्ढोपसुन्दल्क्ष्यकत्वेन यमकामबाणयोश्चौ पम्यस्य गम्यत्वतुल्ययोगिताद्वयमङ्गाङ्गिभावेन सकीर्णम् । वृत्त्मुपजाति ॥१३॥


तत्सौभ्रात्रशरव्यस्थ द्वैधीकरणकेलये।
भवता मारचापेषू भवता मा वधूकृते ॥ १४ ॥

 इति रहस्य तपस्विनिदेश शुभोदर्क तर्कयन्तस्ते कौन्तेयास्तस्यैव समक्षमसिधारासगन्धा सधामिमामाबबन्धु ।

 एते वय चातका इव जीवनमय वर्षमेकैकमवलम्ब्य प्रियया सममनया सुखेन वत्स्याम ।

  तथाभूतेष्वस्मासु यो मिथुनकृतोपवेशे देशे दृशापि प्रविशेत्सोऽय वृजिन विहातुमजिन परिधाय सुकृतसार्थसमर्थापकतीर्थप[२६९]रिमृष्टास्वष्टासु दिक्षु तत्रिगुणस[२७०]ख्यान्पक्षान्क्ष[२७१]पयेदिति ।


 प्रकृते विवक्षितार्थमाह तदिति । तत्तस्माद्भवता भ्रातृणा सदन्धिन शोभनाना भ्रातृणामिद सौभ्रात्र भ्रातृस्नेह तदेव शरव्य लक्ष्य तस्य द्वैधीकरण द्विधाभञ्जनमेव केलि क्रीडाव्यापारस्तस्यै मारस्य मन्मथस्य चाप इधुश्च धनुर्बाणौ बधूकृते । वधूर्द्रौपदी ता निमित्तीकृत्येत्यर्थ । मा भवताम् । द्रौपदीनिमित्तकमान्मथविकारेण भ्रातृस्नेहो मा भज्यत्वित्यर्थं । परम्परितरूपकम् ॥ १४ ॥

 इतीति । इत्युक्तप्रकारं रहसि भव रहस्य तपखिनो नारदस्य निदेशमाज्ञावाक्य शुभ सौभ्रात्रवर्धनात्मक उदर्क उत्तरकालफल यस्मात्तथोक्त तर्कयन्तो भावयन्त सन्त । अतएव ते कौन्तेयास्तस्य नारदस्य समक्षमेव । तमेव साक्षीकृत्येत्यर्थ । असे खङ्गस्य धारयाञ्चलेन सगन्धा सदृशीम् । दुर्लक्ष्यामिति यावत् । इमा वक्ष्यमाणा सधा प्रतिज्ञामाबबन्धुर्नबद्धवन्त । 'सधा प्रतिज्ञा मर्यादा इत्यमर । अत्र नारदनिदेशस्य शुभोदर्कत्वभावनाया विशेषणगल्या प्रतिज्ञाबन्ध हेतुत्वात्पदार्थहेतुक काव्यलिङ्गम् ॥

 एत इति । एते पञ्चैकपत्नीका वय चातका पक्षिविशेषा इव जीवनमर्य मिथोविरोधनिरोधेन जीवनहेतुतया जीवनात्मकम् ‘आयुर्जीवितकालो ना' इत्युक्तत्वादायुरात्मकमिति । अन्यत्र उदकविकार च । ‘जीवन जीवितेऽम्बुनि' इति विश्व । एकैक वर्षे सवत्सर दृष्टिं चावलम्ब्य स्वीकृत्य । अनया प्रियया पञ्चाना पत्न्या द्रौपद्या सम सुखेन वत्स्याम स्थास्याम ॥

 तथेति । तथाभूतेषूक्तप्रतिज्ञावलम्बिष्वस्मासु य । अस्माकमन्यतम इत्यर्थ । मिथुनेन स्त्रीपुसाभ्या कृत उपवेश शयन यस्मिंस्तस्मिन्देशे दृशी दृष्ट्यापि प्रवि शेत् । त पश्यति चेदित्यर्थ । सोऽय मिथुनोपवेशद्रष्टा अस्माकमन्यतमो वृजिन पाप तद्दर्शनजन्यम् । ‘कलुष ऋजिनैनोऽघम्' इत्यमर । विहातु परिहर्तुमजिन


राजा निदेशकृदभूदिति धातृसूनो-
 रन्तर्मुदो निरवधेरिदमास चिन्हम् ।
यन्तस्य पाणिरकरोन्मृदुकण्ठगीते -
 र्वीणागुणे विवशरिङ्स्वणमङ्गुलीनाम् ॥ १५ ॥
तस्मिन्नभ सरणिभुत्पतिते मुनिन्द्रे
 सा तेषु पञ्चसु सम ववृते मृगाक्षी।
साक्रन्दनेषु विटपिष्विव दानलक्ष्मी-
 र्मानोभवेषु जयसिध्दिरिवाशुगेषु[२७२] ॥ १६ ॥
विप्र कक्ष्चन तत्र जात्त्वथ भुजावुध्दृत्य चोरैर्हृता
 गावो मे निखिला हतोऽस्मि विधिना वत्सोऽपि नो शिष्यते।
राजन्ऱाज्यमिद् विमुण्च वसुधा शास्मीति सर्वा[२७३]न्नृरपा
 न्किंवा हास[२७४]यसीति रोषकटुवाग्द्वार ययौ भूपते॥ १७ ॥

मृगचर्म परिधाय वृत्वा सुकृतसार्थस्य पुण्यराशे समार्थापकै सपादकैस्तीर्थैर्न- दनदीसरोभि परिमृष्टासु पवित्रास्वष्टासु दिक्षु तासामष्टदिशा त्रिगुण त्रिराव्रुत्ता स्ंख्या चतुर्विशत्यात्मिका येषा तानू । तस्या अष्टत्वसख्यायास्त्रिगुण्सख्यानिति वा । पक्षान्पञ्चदशतियथ्यात्मन्क्षपयेत् । सवत्सरं तीर्थयात्रया गमयेदित्यर्थ । इत्युत्कप्रकारा सधामाबबन्धुरिति पूर्वेणान्वय ॥

 राजेति । मृद्वी सुकुमार । मधुरेति यावत् । कण्ठस्य गीतिर्गान यस्य तस्य नारदस्य पाणि । वीणाया गुणे तन्त्र्याम् । इति जात्येकवचनम् । महत्या शततन्त्रीकत्वेन प्रसिध्देरिति भाव। अङ्गुकलीन विवशमस्वायत्त रिल्ङणमारोहणावरोहणात्मक स्खलनमकरोदिति यत्तदिद यत्र विनैव स्खलनम् । राजा धर्मराजो निदेशकृत् स्वाज्ञाकारी अभूदित्युक्तप्रकाराया निरवधेरनन्ताया धातृसूनोर्नारदस्यान्तर्मनसि मुद सतोषस्य चिह ज्ञापकमास अभूत् । सतुष्टा विनैव सकल्प गाय न्तीति भाव । अत्र विवशाङ्गुलीस्खलनेनान्तर्मुदोऽनुमानादनुमानालकार । वस्रन्ततिलका ॥१५॥ इति नारदसवाद॥

 तस्मिन्निति। तस्मिन्मुनीन्द्रे नभ सरणिमाकाशमार्गे प्रत्युत्पतिते। गते सतीत्यर्थं । सा मृगाक्षी द्रौपदी पक्ष्चसु तेषु पाण्डवेषु दानलक्ष्मीर्वीतरणस्रपत्सां- क्रन्दनेष्विन्द्रसबन्धिषु विटपिषु कल्पकादिवृक्षेष्विव जयस्रिध्दिर्मानोभवेषु मन्मथ- सबन्धिष्वाशुगेष्वरविन्दादिबाणेष्विव। उभयत्र पञ्चस्विति योज्यम्। सममविशेष ववृते वर्तते स्म । वर्तते र्क्तरि लिट्। उपमाद्वयस्य ससृष्टि॥ १६ ॥

 विप्र इति। तत्रेन्द्रप्रस्थे जातु कदाचित् । निखिला मे मम गावक्ष्चोरहैर्ता ।


दृष्टवा त मधुरस्मितोऽथ विजय कृत्वासनादुत्थिति
 नत्वाङ्गौ समवेक्ष्य भृत्यमिह मा ब्रह्मन्सहस्व क्षणम् ।
गावस्ते स्वयमाव्रजेयुरधुनेत्याश्वास्य दस्यून्पुर
 प्राविक्षन्मनसा ततस्तु नृपते शस्त्राय गेह स्वयम् ॥ १८ ॥
तत्र तेन जगृहे तरस्विना चक्षुषा नृपतिरङ्गनासख ।
पाणिना च सशर शरासन पूर्तये सपदि विप्रवासयो ॥ १९ ॥
 विनिर्गतोऽसौ विशिखानिव स्वका
  न्विमुक्तजीवान्विरचय्य तस्करान् ।
 नितान्तगामिव गोपरम्परा
  निवर्तयामास शुच द्विजन्मन ॥ २० ॥


विधिना दैवेन प्राक्तनदुष्कृतेन वा हतोऽस्मि । वत्स एकवत्समात्रमपि नो शिष्यते नावशिष्टम्, । L हे राजन् युधिष्ठिर, इदमीटृगुपद्रवभूयिष् राज्य विमुञ्च त्यज । वसुधा राज्य शास्मि दुष्टनिग्रहशिष्टानुग्रहरूपपालन करोमि। इति सर्वान् । पालनसमर्थानपीयर्थ । नृपान्राज्ञ कि वा कुतो हासयसि सर्वेऽपीदृशा एव राजान इत्यपहास कारयसि । जनैरिति शेष । इत्युक्तप्रकारेण भुजावुद्यदृदत्य रोषेण कटव्रथ परुषा वाचो यस्य तथोक्त कश्चन विप्रो भूपतेर्धर्मराजस्य द्वारं यमौ प्राप्तवान् । शार्दूलविक्त्रीडितम् ॥ १७ ॥

 इष्टेवति । अथ विप्रागमनानन्तर विजयोऽर्जुनो मधुरस्मित कृतदरहास सन्। त ब्राह्मण दृष्टवा आसनादुत्थितिमुत्थान कृत्वा । उत्थायेत्यर्थं । अङ्गौ तत्पादे नत्वा नम स्कृत्य। हे ब्रह्मन्, भृत्य मा सम्यगवेक्ष्य इहेदानी क्षण सहस्व क्षमस्व । ते तव गावोऽधुना खयमाव्रजेयुर्गृह प्रत्यागच्छेयु । इत्याश्वस्य विशोक कृत्वा। तमिल्यञ्च षज्यते । पुर प्रथम मनसा दस्यूक्ष्चोरान्प्राविक्षत्प्रविवेश । चिन्तितवानित्यर्थ । ततो ऽनन्तर शत्रायायुवमादातुम् । इति क्त्रियार्थ-'इत्यादिना सप्रदानलम् । नृपतेर्ध- मॅराजस्य द्रौपदीसहितस्य गेहमुपवेशगृह स्खयमामना प्राविक्षत् । विशते कर्तरि लुड्। आर्तत्राणसत्वरा न गणयन्यात्मीययोगक्षमाविति भाव ॥ १८ ॥

 तत्रेति । तत्र नृपोपवेशगृहे तरस्खिना बलवता, आर्तत्राणत्वरावता वा । fबले शौर्ये तर क्लीबम्’ इति विश्व । सपदि व्रुत विशेषेण प्रवास परदेशस्थिति । विप्रस्य वासो गृह तयोर्दूयोरपि पूर्तये पूरणार्थम् । एकत्र तीर्थयात्रया, अन्यत्र गोधनेनेति भाव । चक्षुषाङ्गनासखो द्रौपदीसहितो नृपतिर्धर्मराजो जगृहे । दृष्ट इत्यर्थ । पाणिना सशर शरासन धनुश्च जगृहे गृहीतम् । गृहाते कर्मणि लिट् ॥ १९ ॥

 विनिर्गत इति । असौ गृहीतशरासनोऽर्जुनो विनिर्गत पुरात्रिष्कान्त सन्खकान्स्वीयान्विशिखान्बाणानिव तस्कराधोरान् उभयानपि विमुका त्य

 प्रयाणनम्रे तदनु स्वमौलौ पार्थस्य जञे नियमाभिषेक |
 प्रागेव तीर्थेपगमात्पवित्रैर्बाष्पैर्नरेन्द्रस्य वियोगभीरो ॥ २१ ॥
 स धीरघीरत्युच्छ्रितेन कृच्छ्रेण रा[२७५] ञा कृताभ्यनुञो वल्कल घन [२७६]घनाघलड्बनाय परीधाय मलयानिल इव मनुष्यधर्मणा राजन्वतीं काष्ठा प्रतिष्ठमानस्तप प्रसादितस्य भगवतो भवानीवल्लभस्य साक्षात्कुपामिव भगीरथरथ[२७७]
पथानुसारिणीं तरगिणीमुपगमस्य तत्र पवित्रासु वीचिषु सायतननियमाय ऋचोऽघमर्षणीर्जपन्मज्जनमकार्षीत् |


क्ता जीवा मौर्वी येस्तथोत्कान् त्यक्तप्राणधारणाक्ष्च विरचग्य कृत्वा | 'जीवा जीव न्तिका भूमिमौर्वी जीवितपृत्तीषु' इत्यमर | नितान्तोSत्यन्तो वेग चोरप्रकालना त्वरा तैक्ष्ण्य च यस्यास्ता द्विजन्मनो व्राह्मणस्य गवा परम्परा पङ्क्तिमिव शुच दु ख उभयमपि निवर्तयामास प्रत्यावतितवान् नारितवाक्ष्च | अत्र वाणाना चोराणा च श्लेषभित्तिकाभेदाघ्यवसिताविमुक्तजीवत्वेन गोपरम्पराया शुचश्च निवर्तनेन चौपम्यस्य गम्यत्वात्तुल्ययो गताद्वयस्याड्गाड्गिभावेन सकर| वशस्थम् ॥ २० ॥

 प्रयाणेति | तदनु ब्राह्मणगोनिवर्तनानन्तर प्रयाणार्थे तीर्थयात्राम्यनुञानानाथै नम्रे नृते | इति तादर्थ्ये षष्ठीसमास | पार्थस्य स्वमौलौ आत्मन शिरसि वियो गाद्भीरोस्त्रस्तस्य | तद्विरहमसहमानस्येति यावत् | नरेन्द्रस्य धर्मराजस्य पवित्रै र्निर्दोषैर्बाष्पैर्नियमाभिषेको व्रतस्त्रानम् | अत्रापि पूर्ववत्समास तीर्थाना गङगा दीनामुपगमात्प्राप्ते प्राक्पूर्वमेव जञे जात इवेत्युत्प्रेक्षा व्यञ्जकाप्रयोगाद्र्म्या | असबनधे सबन्ग्घरूपातिसशयोक्तिसकीर्णा च | उपजाति ॥ २१ ॥

 स इति | धीरा सुखे दु खे वा अविकृता धीर्मनो यस्य तथोक्त | अतएव सोSर्जुन | राज्ञा धर्मराजेनात्युच्छ्रितेन कृच्छ्रेण महता दु खेन घनाघस्य मियुनोपवेशदर्शनजनितस्य पापस्य लङ्घनाय निवृत्तये कृताभ्यनुज्ञा तीर्थयात्रानुमतिग्रस्य तथोक्त सन् | 'राज्ञो गृहीताभ्यनुज्ञ' इति पाठे राज्नो धर्मात्मनो गृहीताभ्यनुज्ञा येन तथोक्त सनित्स्यर्थ | घन सान्द्र वल्कल परिघाय धृत्वा मनुष्यघर्मणा कुबेरेण राजन्वतीं सुराजवतीं काष्ठामुत्तरदिश प्रति मलयानिल इक्प्रतिष्ठमानो गच्छन् | तपसा प्रसादितस्यानुप्रह प्रापितस्य भगवतो भवानीवल्लमस्य साम्बशिवस्य साक्षान्मूर्ता कृपा दयामि स्थिता भगीरथस्य राजर्षे रथपथ रथमार्गमनुसरतीत्यनुसारिणी तरगिणी गङग नदीमुपगम्य प्राप्य सायतनाय सायकालोचितायनियमाय | तत्र गङगाया पवित्रासु वीचिष्वघमर्षणी पापभज्जनी ऋच | 'समुद्रज्येष्ठा सलिलस्य मध्यात्' इत्यादीर्जपन्पठन्सन भज्जनमवगाहमकार्षीत्कृतवान् |करोते र्क्तरि लुड् | उपमोत्प्रेक्षयो ससृष्टी ॥


 नालीकात्कुवलयसक्रमे स्खलित्वा
  मग्राध पयसि रमेव तत्र काचित् ।
 त दृष्ट्वा भुजगसुता मिथो रिसु
  सतुष्टा हृद्यमिवानयत्स्वगेहम् ॥ २२ ॥
 प्रहृष्य हृदि तत्रैषा मनुष्य फणिना रतै ।
  सतर्पयितुमा[२७८]रेभे कदर्पसममर्जुनम् ॥ २३ ॥
भोगाय तस्या भुजगेन्द्रपुत्र्या फूत्कार एव स्फुटसीस्क्रियासीत् ।
कस्तूरिकाङ्कोऽजनि क[२७९]ण्ठनैल्य फणामणि पल्लवशेखरोऽभूत् ॥ २४ ॥
 पाण्योर्ज्यामर्शकाठिन्य तस्य तत्कुचमर्दने ।
 तस्याश्व तन्मुखास्वादे फलायाभूद्विजिह्नता ॥ २५ ॥


 नालिकादिति । तत्र गङ्गाया नालीकात्पश्चात् । सायमिति शेष । कुवलयमुत्पल प्रति सक्रमे प्रवेशे स्खलित्वा मध्ये निपत्य । पयसि अधो मग्ना निमग्ना रमा लक्ष्मीरिव स्थिता काचिद्भुजगसुता नागकन्या उलूपिका नाम तमन्त स्नानाय मग्नमर्जुन दृष्ट्वा मिथो रहसि रन्तुमिच्छू रिरंसु सती। रमते सन्नन्तादुप्र- त्यय । हृदय स्वचित्तमिव सतुष्टा सती खगेहमनयत्प्रापयामास । अत्रानयनेन मन- सनयोरौपम्यस्य गम्यत्वात्केवलप्रकृतास्पदा तुल्ययोगिता प्रहर्षिणी ॥ २२ ॥

 प्रहृष्येति । तत्र स्खहे एषा उछपिका हृदि मनसि प्रहृष्य सतुष्य कदर्पसम मन्मथतुल्य मनुष्यमर्जुन फणिना सर्पणा सबन्धिभी रही सभोगै सम्य तर्पयितु तृप्तिं प्रापयितुमारेभ उपक्रान्तवती । आर्वोद्रभे कर्तरि लिट् । ‘मनुष्यफणिना रैतै' इति पाठे मनुष्याणा फणिना च सबन्धिभी रतैरित्यर्थ । तयोरेकस्या सर्पत्वादन्यस्य मनुष्यत्वाश्चेति भाव ॥ २३ ॥

 भोगायेति । तस्या भुजगेन्द्रपुत्र्या उलूपिकाया भोगाय सभोगसुखार्थम्। इति पादन्नय वाक्यत्रयेऽपि योज्यम् । फूत्कार सर्पजातीयनिश्वास स्फुटा सीत्क्रिया सीत्कार आसीत् । कण्ठनैल्य तज्जातीय कस्तूरिकाया अङ्कक्ष्चिह्नभलकार- अज न्यासीत् । फणाया मणि पल्लवमय शेखर शिरोभूषणमभूत् । स्त्रीणामलकारस्यापि प्रियानुरञ्जनेन तदुपभोगसाधनत्वाद्भोगायेत्युक्तम् । उपजाति ॥ २४ ॥

 पाण्योरिति। तस्यार्जुनस्य पाण्योर्ज्यामर्शेन मौर्वीघर्षणेन यत्काठिन्य किणीभूतत्वेन दाढर्थ तत् (कर्तृ) तस्या उलूपिकाया कुचयोर्मर्दने विषये, तस्या उलूपिकाया द्विजिह्वता तस्यार्जुनस्य मुखास्वादे अधरचुम्बने विषये च फलायाभूत् । उभयोरुभयमुभयत्रोपकारकमासीदित्यर्थ । अत्रार्जुनपाणिकाठिन्यभुजगकन्या द्विजिह्नत्वयोरुभयत्रोपकारकथनेन कुचकाठिन्याधरमाधुर्ययोर्लोकोत्तरत्वप्रतीतेर्व स्तुध्वनिदूयस्य ससृष्टि ॥ २५ ॥


 सुखाच्चक्षुश्रवस्तन्व्या सुरते मीलत दृशो ।
 चक्रे [२८०]मणितवैदग्ध्य तस्य काननकौमुदीम् ॥ २६ ॥
 श्लाघाकम्पात्प्रियरते शिरसोऽन्त पथादध ।
 च्युतो मणिरिवेरावान्सुषुवे तनयस्तया ॥ २७ ॥
 इत्येकिका स रजनीमपनीय तत्र
  श्वासै सम स्खकुलसभवपृष्ठमित्रै ।
 भुक्तस्तया तटगतोऽनुचरान्द्विजाती
  नन्तर्वतोऽद्भुतरसैरतनोत्स्ववृत्त्या ॥ २८ ॥
उलूपिकाया रतिदशनैस्तैरुन्मस्तक मोहमिवापनेतुम् ।
उदप्रवीर्यौषधिजन्मभूमिमुमागुरु शैलमय प्रपेदे ॥ २९ ॥


 सुखादिति । चक्षुषी एव श्रवसी श्रोत्रे यस्यास्तस्यास्तन्व्या उलूपिकाया दृशो र्नेत्रयो सबन्धि सुरते सुखादानन्दान्मीलन (कर्तु) तस्यार्जुनस्य मणितेषु रतिकूजितेषु वेद्ध्य चातुर्य कानने कौमुदीं चन्द्रिका चक्रे । तस्याश्चक्षुषोरेव श्रोत्रत्वातन्मीलनस्य श्रोत्रपिधानात्मकतया मणिताकर्णनायोगादजुनस्य तद्वैदग्ध्य निष्फलमभूदित्यर्थ । ‘वश्व श्रवा काकोदर फणी', ‘मणित रतिकूजितम्’ इत्युभयत्राप्यमर ॥ २६ ॥

 शघेति । तयोलंपिकया प्रियस्यार्जुनस्य रते सुरतस्य लाघायामभि मन्दने कम्पाद्धेतो शिरसोऽन्त पथादन्तर्भागयुतो मणि फणारत्रमिव स्थित इरावान्नाम तनय सुषुवे प्रसूत । उत्प्रेक्षा ॥ २७ ॥

 इतीति । इत्युक्तप्रकारेण तत्र नागकन्यागृहे सोऽर्जुन एकामेवैकिका रजनी रात्रिमपनीय गमयित्वा तया स्खकुलसभवाना सर्पणा पृष्ठस्य मित्रै सह । तद्वदतिदीर्धैर्रिति यावत् । श्वासै सम निश्वासै सह मुक्त सन् । ‘दर्वीकरो दीर्घपृष्ठ ’ इति सर्पपर्यायेष्वमर । तटगतो गङ्गातीर प्राप्तश्च सन् । अनुचराननुयातृकान्समस्तान्द्विजातीन्ब्राह्मणान् । स्वस्य पृत्ताया पृतान्तेन हेतुना अद्भुतरसैरन्तर्वत सगर्भानतनोत् । आक्ष्चर्नपूर्णहृदयाक्ष्चक्र इत्यर्थे । तनोते कर्तरि लट् । ‘अन्तर्वत्नी तु गर्भिणी' इत्यमर । वसन्ततिलका ॥ २८ ॥

 उलूपिकाया इति । अयमर्जुन उलूपिकाया सर्पकन्याया सुबन्धिभिस्तै प्रसिध्दै रतौ दशनैर्दन्तक्षतैरुन्मस्तक मूर्धानमतिक्रान्त मोह विषकृतविकारम् । तद्दन्ताना सविषत्वादिति भाव । अपनेतुमिवेत्युत्नेक्षा । उदन महद्दीर्य विष विकारवारणशक्त्तिर्यासा तासामोषधीना लतामूलिकादीना जन्मभूमिमुत्पत्ति- स्थानमुमाया पार्वत्या गुरु पितर शैल हिमवन्त प्रपेदे प्राप्तवान् । गङ्गातटादिति शेष । उपजाति ॥ २९ ॥


[२८१]फालस्य पञ्चविशिखे पदयो कृतान्ते
 हासस्य दानवपुरेष्ववलोकनस्य
शम्बायुधे पशुपतेरपदान पद्य
 गायन्ति सिद्धमिथुनान्यष्टणोत्स तस्मिन् ॥ ३० ॥

[२८२]तत्र तस्य हिमाचलस्य [२८३]खरखुरपुटविनिमयविन्यासचन्द्रकिक्तैरव- तारपथैरपि' रोमन्थफेनशकलतारकितै प्रतीरनमेरुतलोपवेशैरप्यनु- मेयहरवृषभस्वैरविहारासु कटकसरसीषु वृजिनानि विशोध्य वन मदावलकलभविदलित[२८४]सरलद्रुमप्रवालपरिमलसुरभिलेनोपत्यकाव- त्मैना दिवि भुवि भरणकुशलाभ्या महेन्द्राभ्या परिगृहीता हरितम- वजगाहे ।


 फलस्येति । तस्मिन्हिमशैले सोऽर्जुन पञ्चविशिखे मन्मथे फालस्य ललाट नयनसबन्धि, कृतान्ते यमे पदयो सबन्धि, दानवपुरेष्वाकाशगतेषु हासस्य सबन्धि शम्ब वज्रसायुध यस्य तस्मिन्निन्द्रेऽवलोकनस्य सबन्धि, पशुपतेर्यदपदान प्राक्त्तन दाहादि कर्म तस्य पद्य तद्वोधकश्लोकौ । इति जात्येकवचन्। गायन्ति गान कुर्वाणनि सिद्धाना देवयोनि विशेषाणा मिथुनानि द्वन्द्वान्यशृणोत् । सिद्धदम्पतीगीय मनवशैवमन्मथदाहादिप्रतिपादकप्रबन्धाञ्श्रुतवानित्यर्थ । वसन्ततिलका ॥ ३० ॥

 तत्रेति । तत्र हिमशैले सोऽर्जुन खरास्तीक्ष्णा खुरा पुटा इव तेषा विनिमयविन्यासै पर्यायप्रक्षेपैश्चन्द्रकितै सजातार्धचन्द्राकृतिचिहै । तारकादित्वादितच् । अवतारपथरैवरोहणमार्गै रोमन्थञ्चविंतग्रसपुनश्चर्वणाधत्फेन डिण्डीर तस्य शकलै खण्डैस्तारकितै सजाततारकै प्रतीरनमेरूणा तटरुहच्छायाद्रुमाणा तलेषु मूलभागेषूपवेशैरपि शयनैक्ष्चानुमेयास्तक्र्या हरबृषभस्य स्वैरविहारा इच्छाविहारा यासु तासु तस्य हिमशैलस्य कटकसरसीषु नितम्बसर सु वृजिनानि विशोध्य पापान्यपनुद्य वनमदावळकलभैररण्यगजबालकैर्विदलिताना भञ्जिताना सरलद्रुम प्रवालाना देवदारुकिसलयाना परिमलै सुरभिलेन सुगन्धवता उपत्यकाया पर्वतासमभूमौ वत्र्मना । ‘उपत्यकाद्रेरासना भूमि’ इत्यमरः । दिवि स्वर्गे भुवि च भरणे पालने वहने च कुशलाभ्या समर्थाभ्या महेन्द्राभ्यामिन्द्रेण पर्वतेन द्वाभ्या परिगृहीता भार्यात्व प्रापित हरित दिश प्राचीमवजगाहे प्राप्तवान् ॥


सफुल्यमाननवकेतकपासुगर्मै[२८५]
 पर्यन्तनिर्झजलै फ[२८६]लिताभिषेक ।
पार्थ स तत्र जनकाभिधयेव हृष्ट
 पादे चिर परिचचार गिरि महेन्द्रम् ॥ ३१ ॥
निज [२८७]नगरनिरीतो वासविर्दिक्षु सर्वा
 स्वपि परिणयहेतौ क्कापि यात्रामुहूर्ते ।
जनकपरिगृहीता सा दिगित्येव तस्या
 कथमपि न स जाता कन्यका पर्यणैषीत् ॥ ३२ ॥
जलधितटपदव्या झर्झरैक्ष्चीरशव्दै-
 रवमयमनुकुर्वन्राराजतालीवनानाम् ।
रतिपतिरथकारेणाद्रिणा लाञ्छिताया
 दिशि विविधतटिन्या दुत्तचक्षु प्रतस्थे ॥ ३३ ॥


 सस्फुल्यमानेति । तत्र प्राग्दिशि स पार्थ सफुल्यमानाना भृश विकसता नवाना च केतकाना केतकीकुसुमाना पासव परागा गर्भे मध्ये येषा तै पर्यन्तनिर्झराणा समीपस्थितप्रस्रवणाना जलै फलितो लब्धोऽभिषेक यस्य तथोक्त सन् । महेन्द्र गिरिं जनकस्येवाभिघया महेन्द्रत्याख्यया । हृष्ट इवेत्युत्प्रेक्षा । पादे चरणे प्रत्यन्तपर्वते च चिरं परिचचार शुश्रूषितवान् । परित सचरति स्मेति च । 'पादो बुन्धे तुरीयाशे शैलप्रत्यन्तपर्वते । चरणे फिरणे’ इति नानार्थरन्नमालायाम् । अत्र चरणशुश्रूषाप्रत्यन्तपर्वतसचारयो श्लेषभित्त्तिकाभेदाध्यव सायमूलातिशयोक्त्तेरुक्तोत्प्रेक्षानुश्रवितत्वाद्वयोरङ्गाङ्गिभावेन सकर ॥ ३१ ॥

 निजेति । वासवस्येन्द्रस्यापत्य वासवि सोऽर्जुन सर्वासु चतसृषु दिक्षु परि’ णयाना विवाहाना हेतौ अतएव क्कापि कस्मिंश्चित् । अनिर्वाच्यशुभदायिनीत्यर्थं । यात्रामुहूर्ते प्रयाणलग्ने निजनगरात्खीयादिन्द्रप्रस्थान्निरीत प्रस्थित सन्नपि । सा दिक्प्राची जनकेनेन्द्रेण स्वपित्रा परिगृहीता ऊढेति हेतो । तस्या प्राच्या कथमपि केनापि प्रकारेण जाता ! कन्यका न पर्यणैषीन्नोढवान् । स्वसृभावादिति भाव । परिपूर्वानग्रते कर्तरि लुङ् । अत्र दैविकस्य क्लत्रालाभस्य स्वसृत्वहेतु कत्वोक्त्तेर्हेतूत्प्रेक्षा व्यञ्जकाप्रयोगाद्म्या ॥ ३२ ॥

 जलधीति । अयमर्जुनो रतिपतेर्मन्मथस्य रथ मलयमारुत करोतीति तेना द्रिणा मलयेन लाञ्छिताया चिह्निताया विविधा कृष्णागोदावरीकावेर्यादयो बहुवि धातटिन्यो यस्य तस्या दिशि दक्षिणस्या दत्तचक्षु । तदभिमुख सन्नित्यर्थं । अतएव झझ्र्रैस्तदात्मकैक्ष्चीरस्य वल्कलस्य शब्दे । वल्क्लर्झ्रध्वनिभिरिति


[२८८]क्ष्णा प्रचारादतिवर्तमानमालोकमालोकमसौ पयोधिम् ।
तटेन गच्छस्तरसोपलेभे चोलीहरिद्रासुरभीन्समीरान् ॥ ३४ ॥
 शैलो गर्भे शिशुरिव भुव शासनाद्यस्य शेते
  वातापि यो जठरहने [२८९]कल्पयामास हव्यम् ।
 क्षोणीनग्नकरणमहिमा कोपलेशो यदीय-
  स्तस्यावास दिशमभिययौ तापसस्येन्द्रसूनु ॥ ३५ ॥</ref>


यावत् । राजतालीवनाना तालीविशेषवनाना समुद्रतीरगाणा रव झर्झरशब्दमनुकुर्वन्सन् । जलधितटे समुद्रतीरे पदव्या मार्गेणोपलक्षित प्रतस्थे प्रस्थितवान् । प्रपूर्वातिष्ठते कर्तरि लिट्। मलयमारुतस्य मन्मथरथत्वम् “मलयमरुदायोधनरथ ’ इत्याद्यागमसिद्धम् । मालिनीवृत्तम् ॥ ३३ ॥

 अक्ष्णामिति । असावर्जुनोऽक्ष्णा प्रचारादतिवर्तमान दृष्टिपथमतिक्रम्य तिष्ठन्त पयोधिं समुद्रमालोकमालोक दृष्ट्वा दृष्ट्वा । आभीक्ष्ण्ये णमुलो द्विर्भाव । आश्चर्यादिति भाव । तटेन । समुद्रतीरमार्गेणेत्यर्थ । तरसा वेगेन गच्छन्सन् । चोलीना चोलदेश्याङ्गनाना सबन्धिनीभिर्हरिद्राभिर्मुखकुचादिलिप्ताभि सुरभीन्सुगन्धान्समीरान्वायूनुपलेभे लब्धवान् । चोलदेश प्रापेत्यर्थं । चोलदेशस्रीणा प्रायेण हरिद्रालेप इति प्रसिद्धि । ‘अक्ष्णा-' इत्येतच्ल्छोक कचित्पुस्तकेषु न दृष्ट इति व्याख्याने लिखित । उपजाति ॥ ३४ ॥

 शैल इति । इन्द्रसूनुरर्जुनो यस्यागस्त्यस्य शासनान्निदेशात् शैलो विन्ध्य शिशुरिव भुवो गमें मध्येकुक्षौ शेते च । वसतीत्यर्थे । अत्र वर्तमानार्थककृद्योगादद्यापि शैलस्तथैवास्त इत्याज्ञाया दुर्लझ्यत्व ध्वनितम् । योऽगस्त्यो वातापि नाम दानव विश्रभक्षक जठरदहने वैश्वानराग्नौ (१) हव्य हवि कल्पयामास चक्रे । इल्वल दत्त मेषमासरूपिण त भुक्खा जरितवानित्यर्थ । यस्यागस्त्यस्याय यदीय कोपस्य लेश कण न सर्व इत्यर्थे । क्षोण्या भूमिकान्ताया नग्नकरणो विवस्र कारी महिमा प्रभावो यस्य तथोक्तोऽभूत् । ‘आढ्यसुभग-' इत्यादिना कृञ्योगात्खचि खित्वात् ‘अरुचूिंषत-' इत्यादिना मुम्। ‘नग्नोऽवासा दिगम्बर ' इत्यमर । तस्य तापसस्यागस्यस्यावास निलय दिश दक्षिणामभिययौ प्राप्तवान् । अत्र वाक्यार्थत्रये कथात्रय प्रसिद्धत्वाद्रन्थगौरवभयाच्च न लिखितम् । अत्र शिशुरिवेति वाक्यार्थे उपमा । इतरत्र वाक्यार्थद्वये वातापिहरणचाराशिपानयोर्भङ्गयन्तरेण कथनात्पर्यायोक्तद्वयम् । त्रयाणा च विजातीयसजातीयाना ससृष्टि । मन्दाक्रान्ता ॥ ३५ ॥


धृत्वा फलेषु सलिलानि कवेरजाया
 साम्य परीक्षितुमिवाभ्रसरिदगुणौघै ।
अभ्रलिहैर्निबिडिता तटनारिकेलै-
 रालोक्य चोलवसुधामयमभ्यनन्दत् ॥ ३६ ॥
[२९०]कालेन स[२९१]गततमा कटुतामवेत्य
 स्वर्गौकसा[२९२] मथ सुधारसनि स्पृहाणाम् ।
[२९३]अभ्रलिह फलवतस्तटनारिकेला-
 न्सहात्मजासलिलवैवधिकानमस्त ॥ ३७ ॥
वाराशिवासजडमात्मवपुर्विशोष-
 मानेतुमातपभरात्तटमुत्तरेण ।
लङ्कामिवागतवती निजपारैवर्ज
 पार्थो विवेश नगरीमथ पाण्डयगुप्ताम् ॥ ३८ ॥


 धृत्वेति । अयमर्जुनोऽभ्रसरितो गङ्गाया गुणाना माधुर्यधावल्यादीनामोघैर्वृ न्दै सह साम्य परीक्षितुमिवेत्युत्प्रेक्षा । कवेरजाया कावेर्या सलिलानि जलानि फ़्लेषु धृत्वावभ्रलिहैर्गगनस्पर्शिभिस्तटयोर्ये नारिकेला वृक्षास्तैर्निबिडिता पूणौ चोलक्सुधा चोलभूमिमालोक्याभ्यनन्दत्सतुष्टवान् । वसन्ततिलका ॥ ३६ ॥

 काळेनेति । काळेन चिरेण सगततमामत्यन्तसजाता कटुता काटवमवेत्य सभाव्य । अथ सुधाया कटुत्वसभावचनानन्तर सुधाया अमृतस्य रसे माधुर्ये । सुधारसे अमृतरस इति वा । नि स्पृहाणा खर्गौकसा देवानामभ्रलिह फलवतस्तटनारिकेलान्सह्यात्मजासलिलस्य कावेरीजलस्य वैवधिकान्वार्तावहान् । ‘वार्ता वहो वैवधिक ’ इत्यमर । विविव शिक्यद्वयसहितो दण्डविशेषो भारवहनसा धन तेन हरति भार । तेन वहति-' इति ठकू । अमस्त तर्कितवान् । मन्युते कर्तरि लुड्। चिरं पर्युषितानि मधुराणि कद्भभवन्तीति प्रसिद्धि । उत्प्रेक्षा । 'कालेन सगततमा-' इत्येतच्छलोको बहुषु न दृष्ट ॥ ३७ ॥

 वाराशीति । अथ चोलदेशप्राप्यनन्तरं पार्थो वारा वारीणा राशि समुद्रस्तस्मिन्वासेन स्थित्या जड शैल्यान्वितम् । ‘आप की भूम्नि वावारि’ इति जलपर्यायेष्वमर । ‘रो रि’ इति रेफलोप । आत्मनो वपुरातपस्य भरादतिशयाखेतोर्विशोष शुष्कीभावमानेतु प्रापयितु तटमुत्तरेण समुद्रतीरस्योत्तरभागे । उत्तरतीर इति यावत् । ‘एनपा द्वितीया’ इति द्वितीया । निजै पैौरै राक्षसैर्वर्ज यथा तथागतवतीं लङ्कमिव स्थितामित्युत्प्रेक्षा । पाण्ड्येन राज्ञा गुप्ता रक्षित नगरी मणलूराख्या विवेश प्राप्तवान् ॥ ३८ ॥


[२९४]मणलूरपुरे सपद्रुणलूनालकामदे
जनद्दष्टीकृतानन्दो जगाम कुरुकुनञ्जर ॥३९॥
तत्र चित्राङगदा तेन व्यूढा राजकुमारिका ।
दर्शने दौहादार्तौ च द्वयोरासीदनङ्गदा ॥ ४० ॥
एलालवङ़गतरुपिप्पलिकापटीर-
 ताम्बूलिकाक्त्रमुकदम्पतिभावरम्याम् ।
उधानभूमिमुपगम्य तया स पार्थ
 सुख्यन्पितु पदममन्यत बल्वजेभ्य ॥ ४१ ॥

दिवसे शुभयुगुणकोरकिते द्रयित हृद्रि स्थितमिवार्तिमती ।


 मणलूरेति । इद प्रक्षिप्तमपि व्यारव्यायते - कुरुकुञ्जरोऽर्जुन । 'स्युरुतरपदे व्याध्रपुगवर्षभकुञ्जर । सिंहशार्द्रूलनागाधा पुसि क्ष्रेष्टार्थगोचरा ॥' इत्यमर । सपदा गुणैर्धनकनकरत्नादिभिर्ल्रुनो निरस्तोऽलकाया कुबेरपुरस्य मद समृध्दिकृतो येन तस्मन्मणलूरपुरे जनदृष्टिभ्य कृतो दत्त आनन्दो येन् तथोक्त सन् । जगाम सचचार । अत्र पुरस्यालाकातिशायिसमृध्धा विशेषणगत्यार्जुनसचा रहेतुत्वात्पदार्थहेतुक काव्यलिङगम् ॥३९॥

 तत्रेति । तत्र पाण्डयनगर्या द्वयोरर्जुनस्य स्वस्य क्रमेण् । दर्शने दौहृदातौं गर्भधारणे च । अनङग मान्मथविकार ददातीत्यनङ्गदा अङ्दाभ्या केयूराभ्यां रहिता अनडगदेति च । चित्रागदा नाम राञ पाण्ड्यस्य कुमारिका तेनार्जुनेन्यूढा परिणीता आसित्। द्वयो त्रुमेण दर्शने दौर्हादातार्वनङ्गदापि । चकारोप्यर्थक। स्वय कित्राङगदेत्याश्चर्यनमित्यर्थ इति प्राहु । आत्रानङद्त्वेपि चित्रागदेति विरोधाभासोलकार ॥४०॥

 एलेति । एलाया लताया लवङ्गस्य तरो, पिप्पलिकाया लताया पटीरस्य तरो तम्बूलिकाया लताया क्रमुकस्य तरोश्र, दम्पत्योर्भावेन दाम्पत्येन रम्या मनोह्रराम् । लताना स्त्रीत्वातरुणा पुस्त्वाच्चेति भाव । उधानभूमिमुपागम्य प्राप्यस् पार्थस्तया चित्राङ्गदया सह सुख्यन्सुखमनुभवन्सनू । 'सुखदु खतक्तियायाम्' इति मुख्यते कण्डवादेर्यगन्ताल्र्लट शात्रादेश । पितुरिन्द्रस्य पद स्वर्ग बल्वजेभ्या स्ऱुणविशेषेभ्योऽमन्यत । तानिवानाघतवानित्यर्थ । 'मन्यर्मण्यनादरे' इति चतुर्थी । अत्र ताद्दगुधानविहारसौख्यस्य विशेषणगत्य स्वर्गतृणीकारणहेतुत्वात्प् दार्थहेतुकेन कव्यलिग्ङेनोधानतरुणा कल्पवृक्षाधिकसौख्यादायित्वप्रतीतेरलकारेण वस्तुध्वनि ।वसन्ततिलका ॥४१॥

 दिवस इति । अथ सा चित्राङ्गदा आर्तिमती गर्भधारिणी सती । त्रमेणेतिशेष । शुभयुभि शुभान्वितैंर्गुणैर्वारनक्षत्रयोगकरणै कोरकिते । सगत इत्यर्थ ।


अवतार्य सा भुवि कुमारम[२९५]वादथ वभ्रवाहन इति प्रथितम् ॥ ४२ ॥
 [२९६]असावहपूर्विकया प्रशसता सुतोदय शोभनमीश्वरार्थिनाम् ।
 ददौ तथा दक्षिणदेशवासिना तमेव दायादमुदारतल्लज ॥ ४३ ॥

 [२९७]इति स तत्र कानिचिद्दिनान्युषित्वा प्रयामीति भाषितस्य पक्ष्मावलम्बिबाष्पमेवोत्तरयन्ती प्रेयसी ग्हसि दृढालिङ्गनतरगितवल्कलोत्तरीयसर्मरसहाध्यायि[२९८] सीत्कृति पुलकझर्झरे [२९९]कपोलतले परिचुम्व्य तस्या कथचिदुदञ्चितानुमतिर्निर्गत्य रक्षोयोधिभिरिक्ष्वाकुपतिसेनाध्यक्षैरुत्पाटिताना मलयदर्दुरमहेन्द्रपादाना मूलशिलातलप-


दिवसे दिने हृदि हृत्ये वक्षसि या स्थित दयित प्रियमर्जुनमिव स्थित बभुवाहन इति नाम्ना प्रथित प्रसिद्ध कुमार पुत्रमवतार्य जनयित्वा अवरोध्येति च । भुव्य वान्निहितवती पुपोषेति च । असह्यत्वे भुवि भार निक्षिपन्तीति भाव । दबाते कर्तरि लुट् । अत्र बभुवाहनेऽर्जुनलोत्प्रेक्षया तदीयशौर्यधैर्या दियापग्दुणसपत्तिप्रतीतेरलकारेण वस्तुध्वनि । अत्र दुबोधविगृम्भिता नृसिहकु स्पृष्टयो विस्तरभयान्न लिखिता । प्रमिताक्षरा पृत्तम् ॥ ४२ ॥

 असाविति । उदारतहजो दातृषु प्रशस्तोऽसावर्जुन । ‘मतल्लिका मच चिका प्रकाण्डमुद्धतक्कजौ । प्रशस्तवाचकान्यमूनि’ इत्वमर । अह पूर्वमह पूर्व मिति बुब्धा अह्पूविक्या । शोभन शुभकर मुतस्य बभ्रुवाहनस्योदयमुत्पत्ति प्रशसता स्तुपताम् । किचेश्वर स्वेष राजानमथयन्ति याचन्तीति ईश्वरा र्थिना दक्षिणदेशवामिना जनानाम् । तेभ्य इत्यर्थ । शेषत्वविवक्षया षष्ठी । त दायाद सुत बभ्रुवाहन ददावेवेति योज्यम् । निसर्गवदन्याना न मिमप्य देयमिति भाव । अत्रोदारताज इति विशेषणस्य प्राणेभ्योऽपि प्रियत्वेनादेय स्यापि पुत्रस्य दानवराभिप्रायगर्भल्लात्परिकरालङ्कार । वशस्थवृत्तम् ॥ ४३ ॥

 इतीति । इत्युक्तप्रकारेण सोऽर्जुन तत्र पाण्डयनगरे कानिचित्कतिपयानि दिनान्युषित्वा स्थित्वा प्रयामि गच्छामीति भाषितस्य वचनस्यार्जुनोक्तस्य पक्ष्म णोरत्रलम्यि वर्तमानम् । न तु पक्ष्मभ्या पतदित्यर्थ । तथा सति पत्युरमदलक रत्वादिति भाव । बाष्प नयनजलमेवोत्तरयन्ती प्रत्युत्तर कुर्वन्ती रहस्येकान्ते दृढमालिङ्गनेन तरगितैर्जनितैरुत्तरीयवल्क्लस्य मर्मर्ध्वनिभि सहाध्यायिन्य सदृश्य सीत्कृतय सीत्फ़्अरा दु खजनिता यस्यास्तथोक्ता प्रेयसी चित्राङ्गदा पुलकै झर्झरे विषमे तस्या कपोलतले परिचुम्ब्य क्थचिदतिकष्टेनोदब्धिता कृतानुमतिर्गमनाभ्यनुना यस्य तथोक्त सन् निर्गत्य । पाण्डयनगरादिति भाव । रक्षोभि सह युध्यन्त इति तथोक्त्तै । इक्ष्वाकुकुलपते रामस्य सेनाध्यक्षै


रिदृश्यमान [३००]कराडजुलिनखरेखाव्यावर्तितकुलिशभयो[३०१]ञ्चलितशैलसस्थानबुद्धिनि सनिवेशावटै स्थपुटितामटवी विलडचथ पुत्रीनि[३०२]काररुषा

पुलस्त्यान्वयस्य पुरीमुन्मूलयितु प्रसारितेन भुवो भुजेनेव सेतुना कृतसीमन्तमुदन्वन्तमभजत ।

समीक्ष्य सेतु रघुवीरनिर्मित स चित्रभित्तीकृतधीर्धनजय ।
दिनेशवशस्य तपोविचारणे चिरावकाश वि[३०३]ततान चेतसि ॥४४॥

अब्धो बानरपातिताचलशिलाभङ्गाभिघातैश्चिरा-

 दक्ष्णान्धै कुणिमि करेण च पदा खञ्जै पयोमानुषे ।


सेनापतिभिरङ्गदजाम्बवदादिभिरुत्पाटितानामुध्द्टताना मलयदर्दुरमहेन्द्राणा शैलाना सबन्धिना पादाना प्रत्यन्तपवताना मूलशिलातलेष्वव पाषाणप्रवेशेषु परिदृइयमाना या कराहुलयस्तासा कराङ्गुलीना नखरेखास्ताभिव्र्यापतिता निवर्तिता कुलिशाद्वज्त्रायुवाभ्द्र्येनोच्चलितानामुत्थाय गताना शैलाना सस्थानस्य निवेशस्थानस्य बुद्धिरूहो येषा तै सनिवेशावटै पर्वतावारगर्तै स्थपुटिता निम्नो न्नताम् । ‘गर्तावटौ भुवि श्वभ्रे’, ‘स्थपुट तूनतानतम्’ इत्युभयत्राप्यमर । अटवी विलङ्घथातिक्रम्य पुत्र्या सीताया निफ़्अरेणावमानेन या रुट् क्त्रो वस्तया हेतुना पुलस्त्यान्वयस्य रावणस्य पुरी लङ्कामुन्मूलयितु प्रसारितेन भुवो भुजेनेव स्थितेन सेतुना कृत सीमन्तो मध्यरेखा यस्य तमुदन्वन्त समुद्र दक्षिणमभजत प्राप्तवान् । भजे कर्तरि लुड् ॥

 समीक्ष्येति । स धनजयोऽर्जुनो रघुवीरेण श्रीरामेण निर्मित कारित सेतु समीक्ष्य चित्रमाश्चर्यमेवालेयमिति क्ष्लिष्टरूपकम् । तस्य भित्तीकृता कुड्यभूता वीर्मनो यस्य तथोत सन् । ‘आलेयाश्चर्ययोश्चित्रम्' इत्यमर । दिने शवशय सूर्यवशस्य तपसो विचारणे इदमेतादृगित्यालोचने विषये चेतस्य वफाश चिर विततान विस्तारितवान् । कीदृग्वानेन तप कृत यद्ययमीदृक्प्रभावाभिरामो रामोऽप्यस्मिन्नवततारेत्यालोचितवानित्यर्थ । अत्र ताइक्सेतुदर्शनजनिताश्चर्यस्य विशेषणगत्या रविवशतपश्चिरत्रिचरण प्रति हेतुत्वात्पदार्थहेतुक काव्यलिङ्गम् । तस्य चोक्तक्ष्लिष्टालिष्टपरम्मारितरूपकेण ससृष्टि । वशस्थम् ॥४४॥

 अब्धाविति । असावर्जुनोऽब्धौ वानरैर्हनूमजाम्बवदादिभि पातिता नाम् । सेत्वर्थमिति भाव । अचलाना पर्वताना सबन्धिभि शिलाभङ्गै पाषा णखण्डैर्येऽभिघाता प्रहरास्तैश्चिरात्प्रभृति अक्ष्णा चक्षुरिन्द्रियेणान्धै करेणेन्द्रियेण कुणिभि कुकरै पहेन्द्रियेण खञ्जै पद्धभि पयोमानुषैर्जलमनुष्यैर्वीचीष्वेव


वी[३०४] चीवीथिपु कीर्त्यमानमनघ वृत्त रघूणा प्रभो
 क्ष्लाघश्लाघमसौ तटेन हरित प्राचेतसीमभ्यगात् ॥ ४५ ॥
 गोकर्णमेत्य स कुलाद्रिसुताप्रियस्य
  पुष्पाणि मूर्न्धि निदधे पुरुहूतसूनु ।
 आगामिना निजशरासनताडनाना-
  मत्रावकाश इति सूचयतेव दोष्णा ॥ ४६ ॥
गो[३०५] पृष्ठलग्न कुलशैलकन्यासहायमन्त सतत दधान ।
आश्चर्यमैक्षिष्ट तमेव देव गोकर्णवास कुरुराजसूनु ॥ ४७ ॥
पापापनुत्यै परिकल्पितो य प्रभासतीर्थे प्र[३०६]थितोऽभिषेक
सेतु दृशा  [३०७] इष्टवतोऽस्य सोऽसौ साव्य विना जागरितो बभूव ॥ ४८ ॥


वीथिषु। ‘वेदिषु’ इति क्कचित्पाठ । उपविश्येति शेष । कीर्त्यमान गीयमान न विद्यतेऽव पाप यस्मादनघ रघूणा प्रभो श्रीरामस्य वृत्त चरित्र क्ष्लाघक्ष्लाघ श्लाघिल्वा श्लाघित्वा आभीक्ष्ण्ये णमुल् । तटेन समुद्रग्रान्तमार्गेणोपलक्षित प्रचेतसो वरुणस्येमा प्राचेतसी हरित प्रतीची दिशमभ्यगात्प्रस्थितवान् गमेरभिपूर्वात्कर्तरि लुड् अक्ष्णेत्यादिपदत्रये ‘येनाङ्गविकार’ इति तृतीया । शार्दूलविक्रीडितम् ॥ ४५ ॥

 गोकर्णमिति । स पुरुहूतसूनु पार्थो गोफर्ण नाम शैवक्षेत्रमेत्य प्राप्य कुलाद्रिसुताया पार्वत्या प्रियस्य शभोमून्धि शिरसि आगामिना कैरातयुद्धे भविष्यता निजेन शरासनेन गाण्डीवेन ताडनानामश्रास्मिन्नेव भागेऽवकाश आस्पदमित्युक्तप्रकारेण सूचयता ज्ञापयता इव स्थितेनेत्युत्प्रेक्षा । दोष्णा हस्तेन पुष्पाणि निदधे निहितवान् । वसन्ततिलका ४६ ॥

 गोपृष्ठेति । गोर्पृषभस्य पृष्ठे लग्नमारूढ कुलशैलकन्यासहाय पार्वतीवकभ- मन्तर्मनसि सतत दधानो ध्यायन् कुरुराजसूनुरर्जुनस्त गोपृष्टलग्नमेव गोकर्णे वासो यस्य तम् । गोकर्णक्षेत्रवासमिति च । देव साम्बशिवमाश्चर्यं यथातथा ऐक्षिष्टेक्षितवान् । श्लेषानुप्राणितो विरोधाभास । उपजाति ४७ ॥

 पापेति । पापस्य मिथुनदर्शनजन्यस्यापनुत्यै निवारणार्थं प्रथित प्रसिद्ध प्रभासनामतीर्थेऽभिषेक स्नान परिकल्पित कृत । अर्जुनेनेति शेष । सोऽसौ प्रभासतीर्थेऽभिषेक सेतु रामनिर्मित दृशा चक्षुषा दृष्टवतोऽस्यार्जुनस्य साधितु योग्य साध्य फल पापापनोदनात्मक विना जागरित प्रबुद्धो बभूव । फलान्तर प्रवण सन्नतिष्ठदित्यथ । सेतु दृष्ट्वा समुद्रस्य ब्रह्महत्या तरति’ इत्यत्र ब्रह्म हत्यापदस्य सर्वपापोपलक्षकत्वादिति भाव ॥ ४८ ॥


पापापनोदे फलितेsर्जुनस्य प्रागेव सेतोरवलोकनेन ।
प्रभासतीर्थे नि[३०८]यमाभिषेक पश्चात्सुभद्रागमहेतुरासीत् ॥ ४९ ॥
ततो घनाविर्भवनाद्भियेव तत्रामल मानसमस्य भेजे ।
कर्णान्तरकौञ्चपथेन शोभायशोमरालो यदुकन्यकाया ॥५०॥
स्मृतिपथस्थितयापि सुभद्रया जनसमक्षमिवासितुमात्तभी ।
द्विजकुलानि स तत्र समत्यजत्सहचराणि रतीशवशवद् ॥ ५१ ॥
पयसा परिपूरितौ घटौ परिपश्यन्पथि पाकशासनि ।
कमलाक्षकनीयसीकुचौ कलयामास करस्थिताविव ॥५२॥


 तर्हि निष्फलत्वापत्तिस्तस्य नेत्याह पापेति । अर्जुनस्य पापापनोदे प्राक्प्रभासतीर्थाभिषेकात्पूर्वमेव सेतोरवलोकनेन फलिते सिद्धे सति । पश्चात्प्र भासतीर्थ नियमाभिषेको व्रतस्नान सुभद्रस्य श्रेष्टशुभस्य सुभद्रायाश्च कृष्णकनी यस्या आगमे प्राप्तौ हेतुरासीत् । पापनाश शुभ वा पुण्यस्य फलम् । तव पापस्तेवासत्त्वे तनाशरूपफलस्यासभवाच्छुभरूप फल घटयतीति न निष्फल त्वमिति भाव ॥ ४९ ॥

 तत इति । ततोsनन्तर घनाना मेघाना तत्कालस्य वा आविर्भवनादु दयाद्भिया भयेनेवेत्युत्प्रेक्षा । यदुकन्यकाया सुभद्राया शोभायश सौन्दर्येण कीर्तिरेव मरालो हसस्तन प्रभासतीर्थेsस्यार्जुनस्य सबन्धि अमल मानस मन एव मानसारय सर । 'मानस सरसि स्वान्ते' इति विश्व । कर्णयोरन्तर मध्यरन्र्वमेव क्रौञ्चपय क्रौञ्चशैलरन्ध्रमार्गस्तेनोपलक्षितो भेजे विवेश । सुभद्रा सौन्दर्य कर्णाकर्णिकया श्रुतवानित्यर्थ । समस्तवस्तुवतिसावयवरूपकमुत्प्रेक्षा नुप्राणितमिति द्वयोरङ्गङ्गिभावेन सकर । वर्षाकाले हसा विहाय भारत वर्ष मानस प्रविशन्तीति प्रसिद्धि ॥५०॥

 स्मृतीति । अथ सुभद्रासौन्दर्यस्मरणानन्तर स्मृतिपथे सकत्पे स्थित यापि । किमुत समक्षस्थितयेत्यर्थ । सुभद्रया रतीशस्य मन्मयस्य वशवद परतन्त्र । मन्मथविकारायत्तचित्त इति यावत् । अतएव म पाथा जनाना समक्षमासितु स्थातुमात्ता स्वीकृता भीर्यन तथोक्त इवेत्युत्प्रेक्षा । मह्ता मदन बाधाया गह्र्यत्वादिति भाव । सहचराण्यनुयातृकाणि द्विजकुलानि नाह्माणवृ न्दानि तत्र प्रभासतीर्थे समत्यजत् । अनुज्ञातवानित्यथ । सपूर्वात्त्यजते कर्तरि लङ् । द्रुतविलम्बितवृत्तम् ॥५१॥

 पतसेति ।' पाकणासनिरर्जुन पथि मार्ग पयसोदकेन परिपूरितौ पूत गमितौ घटौ कलशौ । जलपूर्णघटावित्यर्थ । परिपश्यन्सन् । करस्थितौ हस्त गतौ कमलाक्षम्य कृष्णस्य कनीयस्या सुभद्राया कुचौ स्तनाग्वि कलयामास ।


चक्राङ्गीमदपश्यतोहरचल्छम्पासमुन्मेषणै
 पुष्पकेतफगन्धसिन्धुविलुठपुष्पधयान्वीकृतै ।
मेदस्वीकृतकेतिनीक[३०९]लकलैर्मेघकराशामुखै
 पान्थानामपमृत्युभि कतिपयै प्रादुर्बभूवे दिनै ॥ ५३ ॥

कालाम्बुदालिनलिकात्क्षणदीप्तिवतर्त्या
 स वुक्षितात्सपदि सध्वनिनि सरभ्दि ।
बर्षाश्मसीसगुलिकानिकरे कठोरै-
 र्घर्माभियातिमवधीद्धनकालयोध ॥ ५४ ॥


कलयावभूवेत्यर्ध । जलपूर्णकुम्भदर्शन माविशुभफलप्राप्तिहेतुरिति भाव । उत्प्रेक्षालकार ॥ ५२ ॥

 तदानी खलु द्विजकुलानुज्ञासमय एवेत्यस्योत्तरेणान्वय ॥

 चक्त्रेति । चक्र रथाङ्गमित्राङ्ग येषा तेषा व्रियश्चकाङ्गद्य । ’अङ्गात्रक- ण्ठेभ्यो वक्तव्य’ इति डीप् । तासा यो मदो दर्पोऽह्नि नैरन्तर्यसभोगकृत स्तस्य पश्यतोहराणि प्रसयचोराणि । तद्दाम्पत्यसौरयसर्वस्खलुम्पकानीति यावत् । ‘वाग्दिक्प्श्यन्धो युक्तिदण्डहरेषु’ इति षष्ठ या अछ। 'पश्यतोऽर्थ हरति य स चोर पश्यतोहर” इति हलायुव । चलन्तीना शम्पाना विद्युता समुन्मेषणानि विलसननि येषु तै । सौरप्रकाश एव तासा तत्सयमिति रामशापेन नियमनात्तस्य मेधैराग्छादने तत्प्रसक्ते दूरतोऽपास्तत्वादिति भाव । पुष्पता विक्पता केतकाना केतकीकुसुमाना गन्ध सिन्धु समुद्र इव तस्मि न्विलुठभ्दि सचत्ररद्रि पुष्प बयभृङ्गैरन्वीकृतै । मलिनीकृतैरित्यथ । ‘पाध्त्रामा धेट्श श’ इति शप्रत्यये पृषोदरादित्वान्मुमि पुष्पवय इति साधु । भेद स्वीकृता सान्द्रीकृता केकिनीना मयूराङ्गनाना कलकला केफ़्अकोलाहला यैस्तै मेघकराणि मेघायमानान्याशाना दिशा मुखान्यप्रभागा येषु तै । ‘मेघतिभयेषु कुल ’ इति खशि खित्त्वान्मुम् । पान्थाना प्रोपितानामपमृत्युभि । तत्तुल्यैरि त्यर्थ । कतिपयेस्त्रिचतुरैदिनैर्वापिकै प्रादुर्बभूवे आविर्भूतम् । भावे लिट् । शार्दूलविक्रीडित पृत्तम् ॥ ५३ ॥

 कालेति । घनकालो वर्षाकाल एव योधो भट क्षणदीप्तिस्तडिदेव वति साग्निरज्जुस्तया सवुक्षितात्सयोजितात्कालाम्बुदालेर्नीलमेघपटेक्तरेव नलिकादयो नालायुधविशेषात्सप्रधग्निसयोजनक्षण एव सध्वनि सढाकार यथातथा नि सरद्भि निर्गच्छद्भि कठोरैर्दारुणै कठिनैश्च। वर्षाश्मना करकाणामेव सीसगुलिकाना


माध्वीलिहा विररुचे मलिनीकृताग्रा
 कान्तारसीम्नि नबकेतकबर्ह्ररेखा ।
दग्धाञ्चले स्मरभिया दयिताजनेन
 सप्रेषिता पथिकभर्तृषु पत्रिकेव ॥ ५५ ॥

अर्जुनेषु सकलेषु विकासिष्वद्विसीम्नि धृततादृशशब्द ।
एक एव विशुशोष विशेषादेतदम्बुध्नेहसि चित्रम् ॥ ५६ ॥
वियत्यशेषासु विदिक्षु दिक्षु वियोगशिल्पीन्द्रविनिर्मिताया ।
तस्या मृगाक्ष्याश्च तडित्ततेश्च धनजय सविविदे न भेदम् ॥ ५७ ॥


निकरै समूहैर्धर्म ग्रीष्मर्तुमेवाभियाति शत्रुमववीध्द्न्ति स्म। हन्ते क्र्तरि लुडि वधदेश । समस्तवर्तिसावयवरूपक्म् । वसन्ततिलका ॥ ५४ ॥

 माध्वीति । साध्वीलिहा भूत्रेण मलिनीकृतमश्र यस्या सा नवा केतकवर्हरेया केतकीकुसुमपत्रम् । ‘रेखाकृतिदले बर्हम्' इत्यमर । स्मराध्दिया भयेन हेतुना दयिताजनेन प्रोपितभर्तुरुकाजनेन पथिकेषु प्रवासिषु भर्तृषु पतिषु विषये सप्रेषिता अञ्चले अन्ते दग्वा पत्रिकालेख इव कान्तारसीम्नि वनप्रदेशे विस्स्चे रराज । विपूर्वाद्रोचते कर्तरि लिट्। आपद्यतिवेगमागमनायान्ते दग्धा पत्रिका प्रवासिभ्य प्रेष्यत इति प्रसिद्धि । उत्प्रेक्षा ॥ ५५ ॥

 अर्जुनेष्विति । अम्बुभृता मेघाना सबन्धिन्यनेहसि काले । वर्षाकाल इति यावत् । ‘कालो दिष्टेऽयनेहापि’ इत्यमरः । सकलेष्वर्जुनेषु ककुभ वृक्षेषु पार्थेषु च विकासिषु प्रकाशवत्सु सत्सु । मुदितेषु सत्स्विति च । धृतस्ता दृश्योऽर्जुन इत्याकारकशब्द सज्ञापद येन तथोक्त । एकोऽर्जुन एव अद्रि सीम्नि रैवतकशैलप्रदेशे विशेषाद्रृश विशुशोष शुष्कोऽभूदिति यत्, तदेतञ्चि त्रम् । सुभद्राचिन्तया कृशोऽभूदित्यर्थे । ‘अर्जुन कुकुभे पार्थे’ इति विश्व । अत्रार्जुनत्वेऽपि वार्षिकावसरे विकासाभाव इति विरोवस्य पार्थत्वेन प्रमोदाभाव इति श्लेषेणाभासीकरणाद्विरोधाभास । उत वार्षिफावसररूपकारणसत्त्वेऽपि श्लेषभित्तिकाभेदाध्यवसायमूलातिशयोक्तया अर्जुने विकासरूपकार्या नुत्पत्तिरूपा विशेषोक्ति । इत्युभयत्र साधफसाम्याच्छलेषानुप्राणितयोस्तयो सदेहक्र्र ॥ ५६ ॥

 वियतीति । वियत्याकाशेऽशेषासु सकलासु दिक्षु विदिक्षु दिक्सधिषु वियोगेन सुभद्राचिरहेणैव शिल्पीन्द्रेण चित्रकारिक्श्रेष्ठेन विनिर्मिताया आलिखितायास्तस्या मृगाक्ष्या सुभद्रायास्तडिता ततै समूहस्य च भेद विशेष धन जयोऽर्जुनो न सविविंदे न ज्ञातवान् । विदे कर्तरि लिट्। अत्र तडिता सुभ द्राया व्यक्तितो भेदे प्रतीयमानेऽपीमास्तङित इय सुभद्रेति विशेषज्ञानाभावस्य गुणसाम्यप्रयुक्तत्वात्सामान्यालकार । ‘सामान्य गुणसाम्येन विशेषो नोपल क्ष्यते’ इति लक्षणात् । उपजाति ॥ ५७ ॥

 [३१०] मान्मथे ज्वलति वासवसूनुर्मानसे परिणये यदुपुत्र्या ।
 लाजवापमिव कर्तुमुपेन्द्र तत्सर्भ्यमथ चित्तमनैषीत् ॥ ५८ ॥
अणुमात्रमिद सहेत बोढु न हि विश्वभरमद्य मामितीव ।
मनसोऽ[३११] ध्यवरुह्य तस्य दृष्टे पुरत प्रादुरभूत्पुमान्पुराण ॥ ५९ ॥
 [३१२]स्वस्य चेष्टाकथानद्या द्वितीयर्तुगुणज्ञया।
 न बभूवे तयोस्तत्र नयनानन्दिनोर्मिथ ॥ ६० ॥
विजयो मधुरस्मितस्य भाव विदुषस्तस्य मतेन भिक्षुवेष ।
कुसुमास्त्रभयादिवानिगूढ़ कुहरे रैवतकस्य तिष्ठति स्म ॥ ६१ ॥


 मान्मथ इति । अथ वर्षाकालप्रादुर्भावानन्तरम् । वासवसूनुरर्जुनो यदुयुया सुभद्राया सबान्विनि मानसे सपल्पविषये परिणये । विवाहसमय इत्यर्थ । ज्वलति मान्मये मन्मथविकारात्मकेऽग्नौ लाजवप लाजपहोम वैवाहिक कर्तुमिवेत्युत्प्रेक्षा । तस्या सुभद्राया सगर्यं सोदर्यमुपेन्द्र श्रीकृष्ण चित्त मानस प्रयनैषीप्रापयामास । तत्रैवोक्तविवाहादिति भाव । दुह्यादित्वेन द्विकर्भकान्नयते कर्तरि लुट। लाजहोमस्य वधूसोदरकर्तृत्व प्रसिद्धम् । चिन्तितार्थानुकूत्याय हरि सस्मारेति परमार्थ । स्वागता ॥ ५८ ॥

 अण्विति । पुराण पुमान्कृष्णोऽणुमात्रमातिसूक्ष्ममिदमर्जुनस्य मनो विश्वभर व्रह्माण्डधारिणम्। अतिदुर्भरमिति यावत् । मा वोढमद्य न सहेत न क्षमेत। हि। अवधारणे । इतीव इत्यालोच्येवेत्युत्प्रेक्षा । तस्यार्जुनस्य मनसो हृदयादध्यवस्य दृष्टे पुरत प्रादुरभूदाविर्बभूव । भक्तपरवीनस्य हरेनैंतदाश्चर्यमिति भाव । औपच्छन्दसिक्म् ॥ ५९ ॥

 खस्येति । तत्र रैवतकाद्रौ तस्मिन्श्रीकृष्णप्रादुर्भावसमये वा । मिथो नय नानन्दिनो परस्परमवलोकनजनितानन्दवतोस्तयो कृष्णार्जुनयो खस्यान्यो न्यस्य चेष्टयया धृत्तान्तकथनेनैव नद्या द्वितीयस्य ऋतोफीष्मस्य गुण शोपण जा नातीति ज्ञया न बभूवे न भूतम् । भवतेर्भावे लिट् । वर्षासु सारिदिव तत्कया वत्रध इत्यथ । विरात्सगमे सुहृदो स्रलापोऽमृतायत इति भाव । रूप कालकार ॥ ६० ॥

 विजय इति । विजयोऽर्जुनो भाच स्वाभिप्राय सुभद्राविषयक विदुषो जानत अतएव मधुर साकूत स्मित यस्य तस्य श्रीकृष्णस्य मतेनानुमत्या भिक्षो सन्यासिन इव वेषो यस्य तथोक्त सन् । कुसुमास्त्रान्मन्मथाद्भयादिव । रैवैतस्याहू कुहरे गुह्यामतिगूढ़ परैरलक्षित सन् । तिष्ठति स्म । उस्तैक्षा । औपच्छन्दसिकम् ॥ ६१ ॥


कथ सुभद्राकमनीयताया कल्पेत नुत्यै कविरुन्नतोऽपि ।
चतुर्थमप्याश्रममस्य येन ता साधनीभूय दिदृक्षते स्म ॥ ६२ ॥
तदात्व एवाद्रितटात्पति श्रिय परिपलव त प्रकृते शुभागमे ।
यदाशये ते शय एव तद्भवेदिति ब्रुवन्द्वारवतीं पुनर्ययौ ॥ ६३ ॥

 तदनन्तरमहस्करम[३१३] दतस्करमहा महान्मरकरी रै[३१४]वतक गिरिमुपस्कुरुते, तस्य नमस्करणमस्माक श्रेयस्करणमिति पुरोधोजनबोधनात्कुतूहलिना हलिना नगरमानीयमान बहिरपि ज्वलता विरहानल-


 कथमिति । उन्नतश्चतुरोऽपि कवि । सुभद्राया कमनीयता सौन्दर्य तस्या नुत्यै स्तुति कर्तुमिति ‘कियार्थ-' इत्यादिना सप्रदानत्वम् । ‘स्तव स्तोत्र तुतिर्नुति’ इत्यमर । कथ कल्पेत शक्तो भवेत् । न भवेदेवेत्यर्थ । येन कारणेन चतुर्थमाश्रम यत्याश्रमोऽपि अस्यार्जुनस्य साधनीभूय सुभद्रा- वाप्तिकारण भूत्वा ता सुभद्रा दिदृक्षते स्म द्रष्टमैच्छत् । मिमुतान्ये आश्रमा , तत्रापि सचेतनादित्यर्थः । ‘आश्रमोऽस्त्री’ इत्यनुशासनादाश्रमशब्दस्य क्लीबतया निर्देश । अत्राङ्गनास्रङ्गनास्रङ्गमात्रासहस्यग्चेतनस्यापि यत्याश्रमस्य सुभद्रादिदृक्षाया सत्यामन्येषा तत्रापि सचतनाना तद्दिदृक्षास्तीत्यत्र किमुतेति कैमुख्यन्यायसिद्धरर्थापत्यलकारात्मकवाक्यार्थेन कवीना सुभद्रसौन्दर्यवर्णने सामर्द्धनिषेधसमर्थनाद्वाक्यार्थहेतुक काव्यालिफ़ मिति द्वयोरङ्गिभावेन सफर । तेन च तत्सौन्दर्यस्य लोकातिशायित्वप्रतीतेरलकारेण वस्तु’वानि । उपजाति ॥६२॥

 तदात्व इति । श्रियो लक्ष्म्या रुक्मिणीरूपिण्या पति श्रीकृष्ण प्रकृते शुभस्य सुभद्राविवाहरूपस्यागमे प्राप्तौ विषये परिपलव चञ्चलम् । भवेद्वा न भवे वैति सविकल्पमानसमिति यावत् । ‘चञ्चल चपल चैव पारिप्लवपरिप्श्वे ’ इत्यमर । तमर्जुन प्रति हे अर्जुन, ते तचाशयेऽभिप्राये यत्काङ्कित वर्तते, तत् शय एव हस्त एव भवेदित्युक्तप्रकारेण ब्रुवन्कथयन्सन् । तदात्व एव तदानी मेत्राद्रितटात्पुनर्दारवती द्वारका प्रति ययौ गच्छति स्म । तदाल्व एवेत्यनेन हरे र्भक्तवाञ्छितानुकूलनखरापारवश्य वन्यते ‘छन्दोऽभिप्राय आशय पञ्चशाख शय पाणि' इत्युभयत्राप्यमर ॥ ६३ ॥

तदनन्तरमिति । तदनन्तर श्रीकृष्णस्य द्वारकाप्राप्त्यनन्त्रमहस्करस्य सूर्यस्य यो मदस्तेजस्खिलाहकारस्तस्य तस्कर लुम्पक तत्सदृश महतेजो यस्य तथोंक्त महन्मस्करी सन्यासी रेवतक गिरिमुपस्कुरुतेऽलकरोति । तत्रास्त इति यावत् । मस्करो वेणुदण्डोऽस्यास्तीति मस्करी । ‘वेणुमस्करतेजना इत्यमर । तस्य सन्यासिनो नमस्करण नमस्कारोऽस्माक श्रेयस करण साधक्त ममित्युक्तप्रकारेण पुरोधोजनस्य पुरोहितजनस्य बोधनात्कुतूहृलमस्यास्तीति कुतू हलिना हलिना बलरामेण नगर प्रयानीयमान प्रापयमाण बहिरषि । किमुत


ज्वालेनेव काषायवाससावगुण्ठितवपुष सव्यसाचिशब्दमत्सरेण स्मरवीरेण प्रवासरन्ज़[३१५]मन्वीक्ष्य पन्नगपाण्ड्ययदुकुमारिकाणा कृते पृथ[३१६]गीरिता त्रिशरकाण्डीमिव त्रिदण्डी बिभ्राण निजपल्लवकोमलिमनिर्जयशोकादिव शुष्केण पटी[३१७]रदारूणा पादुकीभूय परेिचश्रमाणपाद[३१८]युगल

त कु[३१९]हनाभिक्षु सभ्रमेण वन्दमानेषु यदुवृन्देषु मुकुन्दोऽपि सविनयमुपागतश्वेत पूरणा[३२०]वशिप्टै स्वसोदरीप्रेमरसैरिव तीर्थ[३२१] जलै पिचण्डिल कण्मडलु तदीयपाणेरादाय ‘भगवन्, इत इत [३२२]एहि’ इति राजभवनमुपनीय [३२३]कन्यकान्त पुरे निवेशयामास ।

मार्गे शरत्रयममुष्य कृते विमुच्य
 शेष दूय पुनरिवोज्झितुमात्तलोभ ।


मनसीति भाव । ज्वलता विरहानलज्वालेनेव स्थितेनेत्युत्प्रेक्षा । काषायवास सावगुण्ठितमाच्छादित वपुर्यस्य तथोक्तम् । सव्येन हस्तेनापि साची बाणप्रयो क्तेत्यर्थके शब्दे सज्ञारूपे मत्सरेण द्वेषवता स्मरवीरेण मन्मथवीरेण प्रवासमेव रन्ध्र प्रहर्तुमवकाशमन्वीक्ष्य विचार्य पन्नगकुमारिका उलूपिका, पाण्ड्यकुमार्रिका चित्राङ्गदा, यदुकुमारिका सुभद्रा, तासा कृते । तदथमित्यत्प । पृथक्प्रत्येक मीरिता प्रयुक्ता त्रयाणा शरा काण्डा दण्डा इव तेषा समाहार त्रिशरका ण्डीमिव स्थिता त्रिदण्डी वैणवीम् । पूर्ववत्समास । ‘द्विगोश्च' इति डीप् । बिभ्राण दधत निजपलवस्य कोमलिनो मार्दवस्य निर्जयेन य शोकस्तस्मादिवेत्यु त्प्रेक्षा । शुष्केण निर्द्रवेण पीरदारुणा चन्दनकाष्ठेन पादुकीभूय पादुके भूत्वा परिचर्यमाण शुश्रूषमाण पादयोर्युगल यस्य तथोक्त त कुहनाभिश्च मायासन्या सिनमर्जुन यदुवृन्देषु यादवसथेषु सभ्रमेण वन्दमानेषु नमस्कुर्वत्सु सत्सु मुकुन्द श्रीकृष्णोऽपि सविनय यथातथोपागत सन् । चेतसि पूरणादवशिष्टै स्वसोदर्या सुभद्राया प्रेमरसैरिव स्थितै तीर्थजलै पिचण्डिल पूर्ण कमण्डलु तदीयादर्जु- नसबन्बिन पाणेरादाय स्वय गृहीत्वा हे भगवन् , इत इत एहीति । वदन्निति शेष । राजभवनमुपनीय प्रापग्य कन्यकान्त पुरे निवेशयामास । उपमाया उत्प्रेक्षाचतुष्टयस्य च सजातीयविजातीययो ससृष्टि ॥

 मार्ग इति । तदनु कन्यान्त पुरप्रवेशनानन्तर स्मरो मन्मथो मार्गे तीर्थ यात्रामार्गेऽमुष्य कृतेऽर्जुनार्थ शरत्रयम् । बाणपञ्चक्रमध्य इति शेष । विमुच्य प्रयुज्य । उलूपिकाचित्राङ्गदासुभद्राखनुरागजननायेति भाव । शेष दूय बाणयुग


 शुश्रूषित तदनु सोदरचोदिताया-
  स्तन्व्या स्मरो नयनमेव शर व्यतानीत्[३२४] ॥ ६४ ॥
वपुषा मधुरेण सुभ्रुवो बनुषा चित्त[३२५] भुवश्च तार्जित ।
तपसेव दिने दिने तनोस्तनिमान जगृहे स मस्करी ॥ ६५ ॥
 प्रतिनिश्वसिते दीर्घे पाणिना नासिका स्पृशन् ।
 भावयामास पार्थोऽय प्राणायामसमापनम् ॥ ६६ ॥
प्रणवोच्चरणे पुर प्रस[३२६]र्पन्प्रबभासे यतिनस्तदा[३२७]बरोष्ट ।
मुहुरग्रतावनीन्द्रपुत्रीमुखमास्वादयितु किलोज्जि[३२८]हान ॥ ६७ ॥


पुनरुज्झितु प्रयोक्तुमात्तो लोभो येन तथोक्त इवेत्युत्प्रेक्षा । शुश्रूषितुमर्जुनयते परिचर्या कर्तु सोदराभ्या रामकृष्णाभ्या चोदिताया प्रेरितायास्तस्या सुभद्राया नयन चक्षुरेव शरं व्यतानीद्वाण चकार । तत्कटाक्षैरिक्षुचपरूक्षा क्षणे क्षणे सधुक्षिताभूदित्यर्थ । उत्प्रेक्षारूपकयोरङ्गाङ्गिभावेन सकर । वसन्ततिलका ॥६४॥

 वपुषेति । स मस्करी कपटसन्यासी मधुरेण कोमलेन मधुवता च सुश्रुव सुभद्रया वपुषा चित्तभुव मन्मथस्य वनुषा पौष्पेण तजित । सतापित सनि त्यर्थ । तपसेवेत्युत्प्रेक्षा । कपटसन्यासिनो वस्तुत तप प्रसत्त्यभावादिति भाव । तनो शरीरस्य तनिमान कार्श्य जगृहे गृहीतमान् । कृशोऽभूदित्यर्थ । एतेन पश्चमी कृशता नाम मन्मथावस्थोक्ता । ‘ततो घनाविर्भवनात्’ इत्यत्र मन सङ्ग , ‘वियत्यशेषासु’ इत्यन्न दृक्सङ्ग , ‘मन्मथे ज्वलति’ इत्यत्र सकल्प , ‘विजयो मधुरस्मितस्य’ इत्यत्र हीत्यागश्च द्रष्टव्य । वृत्त वैतालीयम् ॥ ६५ ॥

 प्रतीति । अथ पार्थो दीर्घे प्रतिनिश्वसिते निश्वासे पाणिना नासिका स्पृश- न्सन्प्राणायामस्य वायुधारणात्मकस्य तपस समापनम् । समाप्तिबुद्धिमित्यर्थ । भावयामास जनयामास । पश्यतो जनस्येति शेष । अन्यथा तै स्वविकारस्य तक्र्यत्वापत्तेरिति भाव । अत्र नासिकास्पर्शनक्रियया प्राणायामसमाप्तिर्मया कृतेति भ्रान्त्युत्पादनेन मदनसतापजनितनिश्वसितरूपमर्माप्रकाशनाय परवश्च नस्य कृतत्वाद्युक्तिरलकार । ‘युक्ति परातिसधान क्रियया ममगुप्तये’ इति लक्षणात् ॥ ६६ ॥

 प्रणवेति । तदा कपटयतिवसमये प्रणवस्योकारस्योच्चरणे पठने पुर पुरस्ता त्प्रसर्पन्प्रसरन् । यतिन कपटसन्यासिनोऽधर ओष्ठ । अग्रगताया अचनीन्द्र पुत्र्या सुभद्राया मुखम् । अधरमित्यर्थ । आखादयितु मुहुरुज्जिहान उत्थाय गच्छन्। किलेति सभावनायाम् । उत्पूर्वाज्जहातेस्ताच्छील्ये शानचि 'क्ष्लौ' इति द्वित्वे


 कन्याकरे मृद्गति पादपद्म पु[३२९] ष्यन्ति गात्रे [३३०]पुलकाङ्कुराणि ।
 हरे हरे माधव माधवेति हरिस्मृतेरन्यथयाचकार ॥ ६८ ॥

 एकदा निर्वत्र्य प्रत्यवसानकृत्य प्रतिक्षणमिक्षुचापक्षुरप्रसतक्षणेन समन्तात्पतितै सत्त्वगुणशकलैरिव स्वे[३३१]दबिन्दुभिव्र्याकीर्णा चामूरवी त्वचमध्यास्य विश्रम्यन्त [३३२]त कुहनासन्यासिन धवित्रेण वीजयन्ती सुभद्रा तैस्तैरिङ्गितैर्यतित्वे सशस्य तस्य तत्त्वजिज्ञासया। सविनयमनुरहसि व्यजिज्ञपत् ।


‘भुजामित्’ इत्यभ्यासस्येत्वम् । प्रबभासे । अत्राज्ञानाबरस्य प्रणवोच्चारण क्रियानिमित्तेन सुभद्रावरोद्देश्यकतत्समीपगन्तृत्वोत्प्रेक्षणात्क्यािनिमित्ता स्वरूपो त्प्रेक्षा । प्रत्तमौपच्छन्दसिनम् ॥ ६७ ॥

 कन्येति । स पार्थं कन्याया सुभद्राया करे पादपद्म भृद्रति प्रक्षाल यति सति गात्रे स्वशरीरे पुष्यन्ति वधमानानि पुलकाङ्कुराणि हे हरे हरे माघ व माबभेत्युक्तप्रकाराया हरिस्मृतेविष्णुकीर्तन कृत्वेति ल्यब्लोपे पञ्चमी । अन्यययाचकार । वञ्चयामासेत्यथ । अत्राङ्करशब्दस्य क्लीबत्वेन प्रयोगश्चिन्त्य । अत ‘पुष्यत्सु गात्रे पुलकाटकुरेषु’ इति पाठो रमणीय । तत्र च तानन्यययाचकारेति योज्यम् । ‘गम्माकार्थत्वादप्रयोग ’ इति न न्यूनपदत्वाख्यदोष इत्यपि द्रष्टव्यम् । अत्र हरिकीर्तनक्रियया तत्स्मरणानन्दादिमे पुलकाङ्कुरा इति सुभद्राया भ्रान्तिमुत्पाद्य तत्पाणिस्पर्शकृतराजसविकारे सत्यपि सात्विकविकाररूपमर्मप्रकाशनेन तद्वञ्चनस्य कृतत्वाद्युतिरलकार । वृत्तमुपजाति ॥ ६८ ॥

 एकदेति । एकदा कस्मिश्चिद्दिने प्रत्यवसानकृत्य भोजनव्यापार निवर्त्य समाप्य ‘प्रत्यवसान भोजनमभ्यवहारश्च जग्विक्ष्च’ इति हलायुध । क्षणे क्षणे प्रतिक्षणमिक्षुचापस्य मन्मयस्य क्षुरप्रैर्बाणविशेषै सतक्षणेन छेदनेन सुमन्तात्पतितै सत्त्वगुणस्य शक्लै खण्डैरिव स्थितै । सत्त्वगुणस्य परिशुद्धत्वाच्छुभ्रत्वेन व्याहार । रवेदबिन्दुभिर्याकीर्णा व्याप्ता चमूरोर्हरिणस्येमा चामूरवी त्वचमजिनमश्यास्य । तत्रोपविश्येत्यर्थ । विश्राम्यन्त श्रममपनुदन्त कुहनासन्यासिन मायायतिं ववित्रेण मृगाजिनव्यजनेन वीजयन्ती मृदुपवन चालयन्ती । ‘ववित्र व्यजन तद्यद्रचित मृगचर्मणा’ इत्यमर । तैस्तैरिङ्गितै पुलकाद्याकारविशेषैर्यतित्वे सशयाय यतिर्वा न वेति सदिह्य तस्य कपटसन्यासिनस्तत्तवस्य ययार्थस्य ज्ञातुमिच्छया जिज्ञासया अनुरहस्येकान्ते सविनय यथा तथा वक्ष्यमाणप्रकारेण व्यजिज्ञपद्विज्ञापयामास । विपूर्वाज्ज्ञापे कर्तरि लुडि- ‘णिश्रि-' इत्यादिना चङि सन्वद्भावात् अभ्यासस्य ‘सन्यत ’ इतीत्वम् ॥


 तपस्विन्नद्य मे प्रीतिस्तवाभ्यागमसभवा ।
 कन्यामौनावकीर्णित्वे कल्पशाखाशिखायते ॥ ६९ ॥
इदानीममी
यदव खलु पुण्यराशयो यतिनामिन्द्र तवाडिघसे[३३३]वनात् ।
शिर[३३४]सैकमवाप्य यद्रजो मनसान्यत्परिवज्र्यते च यै ॥ ७० ॥
भगवन्नखिल विबुध्यसे परमार्थ वद भावि मे शुभम् ।
प्रयता यतयो भवद्विधा प्रणिधानेन हि दिव्यचक्षुष ॥ ७१ ॥
अवकण्र्य तदेष मीलित क्षणमक्ष्णो प्रतिवाचमाददे ।
बहुना किमयि स्वकैर्गुणैर्विजय प्राप्स्यसि योषिता कुले ॥ ७२ ॥


 तपस्विन्निति । हे तपस्विन्, तचाभ्यागमात् । सभवतीति सभवा । भे मम प्रीति सतोष कन्याया यन्मौन व्रत कन्यकाजनोचितान्यसलापानर्हत्व तस्यावकीणित्वे भडगे विषये । ‘अवकीर्णी क्षतप्रत’ इत्यमर । कल्पस्य सुर तरो शाखाया शिखामिवाचरतीति शिखायते । बहुसलाषेच्छा जनयती त्यर्थ । उपमानात् ‘कर्तु क्यड् सलोपश्च’ इति क्यङतात्कर्तरि लट् ॥ ६९ ॥

 यदव इति । यत इन्द्रियसयम एषमस्तीति यतिन । ‘ये निजितेन्द्रिय ग्राम यतिनो यतयश्च ते' इत्यमर । हे यतिनामिन्द्र, यदवो यादमा पुण्यराशय खलु शरीरबारिण पुण्यसमूहा एव यद्यसाध्यैर्यदुभिस्तवाड्रिसेवनात्पादप्रणामा छिरसा एक रज रेणु भवत्पदलनमवाप्य मनसा । वस्त्वर्थ । अन्यद्रजो रजोगुण । तज्जन्यकमादिविकार इति यावत् । परिवज्र्यते त्यज्यते । वर्जे स्मणि लट् । रज स्यादार्तवे रेण परागगुणभेदयो’ इति विश्वः । वाक्याय हेतुक व्यलिङ्गम् । अत्र ‘शिरसेनमवाप्य यद्रज’ इत्येव तृतीयपादपाठ । पाठान्तरे तु अन्यदित्यस्य एकमित्यनेन साक्षाद्दत्वात् साम्नाह्वदोषापत्तेरुक्तस्खा रस्यायोगान्चेति । वृत्त वैतालीयम् ॥ ७० ॥

 भगवन्निति । हे भगवन् यतीन्द्र, अखिल कालत्रयवस्तुजात विखु यसे जानासि । त्वमिति शेष । अतो मे मम भावि भविष्यच्छुभ परमार्थ यथार्थ यथा तथा वद । पर भृशमर्थमर्थशक्त्या गम्यमान वदेति च । ननु सर्वज्ञत्व चेद्वक्तव्यम् । तदेव कुत इत्याह-प्रयता इति । हि यस्मात् । प्रयता जिते ब्रिया । भवतो विवा रीतिर्येषा ते भ्वद्विधा यतय प्रणिधानेन योगेन दिव्य सर्वदर्शि चक्षुर्येषा तथोक्ता भवन्तीति योज्यम् । अत्र वैभवसपन्नदिव्यचक्षु घ्मत्तारूपवाक्यार्थेन सर्वावबोवसमर्थनाद्वाक्यार्थहेतुक काव्यलिङ्गम् ॥ ७१ ॥

 अवकण्र्येति । एषोऽर्जुनयातिस्तत्सुभद्रावाक्यमवकण्र्य श्रुत्वा क्षणमक्ष्णो मलित । मलिताक्ष सन्नित्यर्थ । कृत्रिमयोगप्रकाशनायेति भाव । प्रतिवाच


 पादाङ्गुष्ठनख यस्ते फा[३३५] ले कुर्याद्विशेषकम्

 स नरोऽपि स्मरेणार्त सद्य स्यादामिष दृशो ॥ ७३ ॥  इति सा तस्य वक्रिमस्पृशा वचसा श्रवसा च वि[३३६]क्षुतपूर्वैस्तैस्तैर्ल[३३७]क्षणै सोऽय[३३८] सक्रन्दननन्दन इति निश्चयमाण हृदये[३३९] पेटिकापुटे निधाय ‘भगवन्, भवदभिहितयोर्विजयनरशब्दयो [३४०]त्र्क्मेण धर्मिपरता च[३४१] विशेष[३४२] नामता च तव कृपया भ[३४३]विता’ इति तस्मै व्रीडत[३४४] रलतरनयन वदनभ [३४५]वनमन्ती तस्थे


प्रत्युत्तरमाददे स्वीकृतवान् । अयि सुभद्रे, बहुनोक्तेन किम् । योषिता कुले स्वकैर्निजैर्गुणै सौन्दर्यशीलादिभिर्घिजय सर्वोत्कर्ष अर्जुन च प्राप्स्यसि । ‘विजय स्तु जये पार्थे' इति विश्व ॥ ७२ ॥

 पादेति । यो नरस्ते तव पादाङ्गुष्ठनख फाले खस्य ललाटे विशेषक तिलक कुर्यात् प्रणयकलहादिकृतमानापनोदनाय पादयो प्रणमेदित्यर्थ सोऽपि नरोऽर्जुनश्च स्मरार्त सन् सद्य इदानीमेव दृशोर्भवन्नेत्रयोरामिष भोग्यवस्तु । दृश्य इति यावत् । स्याद्भवेत् ‘आमिष भोग्यवस्तुनि” इति विश्व । य इदानी पादाङ्गुष्ठनख ते ले विशेषक कुर्यात्, स त्वया प्रणम्यमान नरोऽहम् अपिरेवकारार्थ । सोऽपि ‘नरोऽर्जुन ‘नरोऽर्जुने मनुष्येऽपि इत्यजय । यत्तु ‘मन्मथवाणविद्ध सन्मासभूत एव भवेत्’ इति भावार्थमाह नृसिंह , तदामिष पदस्य जुगुप्सादायकत्वेनाश्लीलदोषापत्तेस्तथैव हृद्यम्

 इतीति । इत्युक्तप्रकारेण वक्रिमाणमर्थान्तरगर्भतया कौटिल्य स्पृशतीति तेन तस्य क्पटसन्यासिनो वचसा वाक्येन च श्रवसा श्रोत्रेण विशेषेण पूर्व क्षुतैबिश्रुतपूर्वे । आगन्तुकजनसकाशादिति शेष । तैस्तैर्लक्षणैश्विहै प्रमाणरूपवय शीलादिभिश्च हेतुद्वयेन । सा सुभद्रा । अय पुरोवर्ती कपटयति स प्रसिद्ध सक्रन्दननन्दन इन्द्रपुत्रोऽर्जुन इत्युक्तप्रकार निश्चय एव मस्त हृदयमेव पेटिका तया पुटेऽन्तरे निधाय । बहिरप्रकटग्येत्यर्थ । हे भगवन्, भवता भिहितयोविजयनरशब्दयो श्लोकद्वयघटितयो क्रमेण धर्मिपरता विशेषना मता च । विजयशब्दस्य विजयो वर्म सोऽस्यास्तीति वर्मा अर्जुनो विजय अर्शआदित्वादजन्त । तत्परता ततात्पर्यं नरशब्दस्य सज्ञाशब्दत्र चेत्यर्थ ‘व कृपया’ इति पाठे वो युष्माकमिति पूजाया बहुवचनम् । तव कृपया करु णया भविता भविष्यति । भवतेर्लुट्। एव वो वर्मिपरता युष्मदभिन्नधभिपरत्वम् । ‘राहो शिर’ इत्यादिवत् अभेदे षष्ठी । वो युष्माक विशेषनामता च ।


यमेवमुद्दिश्य तवोक्तिभङ्गी स एष दासोऽस्म्यनुकम्पनीय ।
इति प्रकाश्य क्षणमर्जुनत्व चुचुम्ब ता चोरयति कपोले ॥ ७४ ॥
 स्वेदाम्बुपूरभरिते सुदृश [३४६]स्तदास्या
  क्षेत्रे स्वकिशुकशिलीमुखसीरकृष्टे ।
 पुष्पास्त्रकर्षकवर पुलककच्छलेन
  शृङ्गारबीजनिकरान्निबिडानवाप्सीत् ॥ ७५ ॥
तस्यामेव वधूमिमा स रजनौ सद्योऽनुकूला रह
 पाणौकृत्य बिलोकितोत्सवभरो दूभ्या हरिभ्यामपि ।
पौरेपूभयथा जनेष्ववलता प्राप्तेपु पार्थस्तया
 जाग्रत्सारथिविद्यया सह रथारूढ़ पुरान्निर्ययौ ॥ ७६ ॥


अर्थस्तु पूर्ववदित्यपि वोभयम् । इत्युक्तप्रकारेण तस्मे क्पटसन्यासिने । उक्वेति शेष । वदन व्रीलेन तरलतरेऽत्यन्तचञ्चले नयने यस्मिस्तद्यथा तथा अवनम न्ती सती तस्थऽतिष्ठत् । अत्र हेतुद्वयेन अर्जुनत्वानुमानादनुमानालकार । तदुज्जीवितश्चाय 'निश्चयमाणि हृदयपेटिकापुटे’ इति सावयवरूपकालकार इति द्वयो रङ्गाङ्गिभावेन सकर ॥

 यमिति । तत है सुन्दरि, य दास सेवकमर्जुनमुद्दिश्य एवमुक्तप्रकारा तव उक्तीना वचनाना भङ्गी रीतिर्भवति, स दासोऽर्जुन एषोऽहमस्म्यनुम्पनी यस्वया दयनीय । इत्युक्तप्रकारेणार्जुनत्व क्षण प्रकाश्य चोरयतिस्तस्फरमस्करी ता सुभद्रा कपोले चुचुम्प। बलदेशादिभयात्क्षणमित्युक्तम् । वशम्थवृत्तम् ॥ ७४ ॥

 स्वेदेति । तदा चुम्बनसमये पुष्पास्त्रकर्षकवर मन्मथ एव हलिकश्रेष्ठ खेदाम्बुन पूरेण प्रवाहेण भरिते पूर्णे स्वस्य किशुकशिलीमुखेन पलाशवाणे नैव सीरेण हलेन कृष्टे क्षते । किशुकग्रहण सीरत्वारोपोपयोगिवकमुखलाभायेति बोमम् । तस्या सुदृश सुभद्राया क्षेत्रे शरीर एव केदार इति श्लिष्टरूपकम् । ‘क्षेत्र क्लने केदारे गात्रे च' इति विश्व । पुलसाना छलेन व्याजेन निवि डाञ्छङ्करस्य रसस्य बीजनिकरानवाप्सीदुप्तवान् । वपे कर्तरि लुडि सिचि प्रद्धि । समस्तवस्तुवृत्तिसावयवरूपकम् । वसन्ततिलका ॥ ७५ ॥

 तस्यामिति । तस्यामर्जुनत्वप्रकाशवासरसबन्विन्या रजनौ रात्रावेवानु कूलामिमा बबू सुभद्रा सद्यो द्रुत रह पाणैकृत्य परिणीय द्वाभ्यामपि हरिभ्या मिन्द्रोपेन्द्राभ्या विलोकितो दृष्ट उत्सषभरो विवाहोत्सवातिशयो यस्य तथोक्त स पार्थ । पौरेषु जनेषु द्वारकावासिषु उभयथा द्विविधमबलता न विद्यते बलो रामो बल शौर्य च येषा तेषा भाव प्राप्तेषु सत्सु । ‘बल सकर्षणे रक्षोभेदे शौर्यं तु न द्वयो ’ इति बिश्व । बलदेवस्य यदुभि सह शभुपूजनाय सामुद्र द्वीपान्तर प्रति गतत्वादिति भाव । जाप्रती प्रकाशमाना सारथिविद्या रथचर्या


आकर्ण्येद् जृस्भिताना यदूना पार्थोहेशात्क्रोवनत्वस्य जाते ।
म्लानि दातु माधवो माबवोऽमूधत्रायत्त्ता कौरवी सा समृद्धि ॥७७॥
 रणोत्साहे शान्ते यदुजडिमकीर्तिध्वजलता
  मुहु स्मार स्मार कपटयतिता वल्गितकुचम् ।
 हसन्त्या प्रेयस्वा दशनरूचिमित्रीकृतयशा
  शताड्गेनाविक्षत्सुरपतितनूजो निजपुरीम् ॥ ७८ ॥
ततो मुहूर्ते सकलाभिनन्द्ये कुरूदूहाना कुशलोदयाय ।
सुत सुभद्रा सुषुवेऽभिमन्यु प्रवीरसू सा[३४७] तमिव् प्रवीरम् ॥७९॥


नैपुण्य यस्यास्तया सुभद्रया सह रयारूढ सन् पुराद्वारकानगरान्निर्ययौ निर्गत्वान् । प्रसन्ने भगवति श्रीकृष्णे कि दुष्करमिति भाव । शार्दूलवि क्रिडितम् ॥७६॥

 आकर्ण्येति। इद सुभद्राहरण्सामाकर्ण्य श्रुत्वा पार्योहेशात्पार्थमुहेश कृत्वा ।ल्यब्लोपे पश्चमी । जृस्भिताना युद्धाय सनध्दाना यदुना याद्वानाम् । कोवनस्य भाव कोप क्रोवनत्व तस्यैव जातेर्मालतीकुसुमस्य । 'जातिश्छन्दोधर्मभेद‌−मालतीगोत्रजन्मसु' इत्यजय । म्लनिमप्रकाश दातु माधव कृष्णो माधवो वसन्तोऽभूत् । सा प्रसिद्धा कुरुण कुरूवश्यानामीय कुरवाणा वृक्षविशेषाणामिय च कौरवी । एकत्र उदन्तात् 'तस्येदम्' इत्यण् । 'ओर्गुण' इति गुणेऽवादश चान्यत्र अदन्तादणि च 'टिड्ढाणञ्−' इत्यादिना डीप् । समृद्धि सपत् । यत्र कृष्णे बसन्ते च आयत्ता अधीना । युद्धसनध्दन्यदून्पाण्डवपक्षपाती कृष्णो निवारितवानित्यर्थ । 'माववो मासि वैशाखे लक्ष्मीपतिवसन्तयो' इति विश्र्व । वसन्ते म्लायन्ति जातय पुष्प्यन्ति कुरवा इति प्रसिद्धम् । शालिनी पृत्तम् ॥७७॥

 रणेति। सुरपतेरिन्द्रस्य तनुजोऽर्जुनो रणोत्साहे शान्ते सति । यदुनमिति शेष । यदुना जडिम्रा मोग्ध्येन या कीति प्रसिद्धिस्तस्या ध्वजलताम् ।तत्प्रख्यापनीमित्यर्य । कपटयतिता कुहनासन्यासित्व स्मार स्मार स्मृत्वा स्मृत्वा । आभीक्ष्ण्ये णमुल् । 'न लोकाव्यय−' इत्यादिना 'अवीगर्थ−' इति षष्ठी प्रतिषेव । बल्गितौ किचत्र्बलौ कुचौ यस्मिस्तद्यया तथा मुहुर्हुस्न्त्या प्रेयस्य सुभद्राया दशनाना दन्ताना हसादाविर्भवता स्चेर्ववलकान्तेमित्रीकृत सह्शीकृत यशो यस्य तथोत्क सन् शताङगेन रथेन निजपुरीमिन्द्रप्रस्थमविक्षद्विशति स्म । यदवो जडा अन्यया यदि जानीयुरीद्यश यतित्व तदा बन्धीयुरेवेति हास प्रकार । अत्र कीतिध्वजलतामिति रूपकेण दशनरूचिमित्रीकृतयशा इत्युप मोज्जीवितेति द्वयोरङ्गाङ्गिभावेन सकर् । शिखरिणीपृत्तम् ॥७८॥

 तत् इति । तत् इन्द्रप्रस्थवेशानन्तर प्रवीरसूर्वीरमाता । 'वीरमाता च वीरसू' इत्यमर । सा सुभद्रा कुरुदूहाना कुशलस्येहृपरसौख्यस्यो


पाञ्चालपुत्री च पतिव्रताना प्रधानभावे कृतपट्टबन्धा ।
पञ्चापि सद्य प्रतिभूरिव स्वन्पतीन्पितृणामनृणानकार्षीत् ॥ ८० ॥
 अथ तेषा तादृश पुत्रोत्सवमाकर्ण्य त्रक्ष्तुर्व[३४८]सन्तसामन्तो राजन्यसबन्धितया हर्षादिव समाजगाम ।
 तदानी भगवान्पवमानस्तु भीमस्य पु[३४९]त्रोत्पस्तिनिमित्ताशौचव-
त्तया लोकस्पर्शाय सकुचन्निव [३५०] कतिचन दिनानि मलय विहाय
पदमेकमपि न चचाल ॥
 एतेन खल्वकरुणेन तपागमेन
  जीवातुरद्य मम दू[३५१]रत एव देशात् ।


दयायोत्पत्त्यर्थ सकलैर्गुणैश्चन्द्रताराबलादिभिरभिनन्दितु योग्ये अभिनन्धे क्ष्लाघ नीये मुहूर्ते लग्ने त प्रनीरमर्जुनमिव स्थितमभिमन्यु नाम सुत सुषुवे जनयामास । उत्प्रेक्ष, सा प्रसिद्धा प्रवीरसू कुन्ती त प्रवीरमर्जुनमिवेत्युपमा वेत्युभयत्र बावफाभावात्सावकसाम्याञ्च द्वयो सदेहसफर । उपेन्द्रवज्रा घृत्तम् ॥ ७९ ॥

 पाञ्चालपुत्रीति । पतिव्रताना प्रधानभावे प्राधान्ये कृत पट्टबन्ध पट्टा भिषको यस्यास्तथोक्ता पाञ्चालपुत्री द्रौपदी च प्रतिभूर्लग्निकेव । 'स्युर्लग्नक्त्रा प्रतिभुव’ इत्यमर । स्वान्स्वीयान्पञ्चापि पतीन्युधिष्ठिरादीन् । सद्य पितृणा मनृणान् त्रक्ष्णविमुक्तान्। सपुत्रानिति यावत् । अकाषात् । एकैकस्यैकैक पुत्र जनयामासेत्यथ । ‘एष वा अनृणो य पुत्री’ इति श्रुते । पुत्रजननेन पितृ ऋणापाकरणश्रवणादिति भाव । उपमा । उपजाति ॥ ८० ॥

 अथ ग्रीष्मर्तु वर्णयति--अथेति । अथानन्तर वसन्तस्य सामन्तस्तुल्यलक्ष्य ऋतुप्रैषमस्तेषा युधिष्ठिरादीना तादृशमुक्तविव पुत्रोत्सवमाफर्ण्य राजन्यसब न्वितया क्षत्रियबन्धुत्वेन यो हषस्तस्मादिवेत्युत्प्रेक्षा । ‘ग्रीष्मो वै राजन्यस्यर्तु' इति श्रुतेरिति भाव । समाजगाम ।

 तदानीमिति । तदानी ग्रीष्मप्रवेशसमये भगवान्पवमानो दक्षिणमास्तु भीमस्य स्वपुत्रस्य पुत्रोत्पत्तिनिमित्त यदाशौच जात तद्वत्तया लोक्स्य जनस्य भुवनस्य च स्पर्शाय । स्प्रष्टुमित्यर्थं । `तुमर्थाच्च भाववचनात्' इति चतुया । सकुचन् लज्जमान इवेत्युत्प्रेक्षा । कतिचन दिनानि मलय गिरि विहायैफ पदमपि न चचाल न प्रसृतवान् । मलयानिलवार्तापि दुर्लभाभूदित्यर्थ ।

 एतेनेति । अकरुणेन निर्दयेन एतेन तपागमेन । ग्रीष्मेणेत्यथ । ‘उष्म ऊष्मागमस्तप ' इत्यमर । ममात्मनो जीवातुर्जीवनौषध मधुर्वसन्तोऽय देशादेव दूरत उत्सारितो निष्कासित खछ । इत्युक्तप्रकारया रुषा कोपेनेवेत्युप्रेक्षा ।


 उत्सारितो मधुरितीव रुषा वनान्ते
  तत्स्खागत परभृतो न समाचचार ॥ ८१ ॥
शिरीषपडक्ते कुरुकामिनीना शरीरवल्लया सह मार्दवेन ।
उपस्थिताभूदुपमा तदानी तप स्थिताना सुलभ हि सर्वम् ॥ ८२ ॥
 कुरुकेलिवनेषु मल्लिकाकुसुमेषु भ्रमरावलिर्बभौ ।
 त्रक्ष्तुना मधुगन्वगुप्तये जतुनाग्ने निहितेव मु[३५२]द्रिका ॥ ८३ ॥
शुभसौरभसभृतानि भूमौ शुचिभूतान्यापि यानि पाटलानि ।
कलयेयुरतीव चित्रभाव क्षणपीतानि दृशा कथ न तानि ॥ ८४ ॥


परश्वत कोकिल । जातावेकवचनम् । वनान्ते वनमध्ये तस्य भीष्मस्य स्वागत कुशलगमप्रक्ष्न न समाचचार नाचरितवान् । ग्रीष्मे शेफिला न कूजन्तीति प्रसिद्धम् । वसन्ततिलका घृत्तम् ॥ ४१ ॥

 शिरीषेति । तदानी कुरुकामिनीना पाञ्चाल्यादीना शरीरवल्लथा सह शिरीषाणा कुसुमाना पटेक्तरुपमा सादृश्य मार्दवेन गुणेन हेतुना उपस्थिता प्राप्ताभूत् । तथा हि-तपसि कृच्छचान्द्रायणादौ तपे ग्रीष्मे च स्थिताना सर्व वस्तु सुलभम् । ‘तपश्चान्द्रायणादौ स्याद्भीष्मे लोकान्तरेऽपि च' इति विश्व । अत्र सान्तादन्त योस्तन्त्रेण निर्दश । लिङ्गविवेकस्तु ‘तपेन वर्षी शरदा हिमागमे’ इत्यादिप्रयोग विज्ञेय । अत्र ग्रीष्मचान्द्रायणाद्यो श्लेषभित्तिकाभेदाध्यवसायमूलातिशयोक्तय नुप्राणित सामान्येन विशेषसमर्थनरुपोऽर्थान्तरन्यास ॥ ८२ ॥

 कुर्विति । कुरूण केलिवनेषु मल्लिकाकुसुमेषु भ्रमराणामावलि पहिक्त ऋतुना ग्रीष्मेण मधुनो मकरन्दस्य गन्वस्य परिमलस्य च द्वयोर्गुप्तये रक्षणा थैमग्रे कुसुमोपरि जतुना नीललाक्षया निहिता न्यस्ता मुद्रिका मुद्रेव बभौ । इत्युत्प्रेक्षा । वैतालीयम् ॥ ८३ ॥

 शुभेति । शुभैर्मनोहरै सौरमै परिमलै सभृतानि सपूर्णानि शुचौ ग्रीष्मे भूतानि जातान्यपि । इयपि समुच्चयार्थक । शुभ्रत्वेन वर्तमानान्यपीत्यपिर्विरो बार्थक । अश्युत्पन्नानि चेति त्रिधा बोध । यानि पुष्पाणि भूमौ पाटलानि पाटलसज्ञानि श्वेतरक्तानि चाभूवन्, तानि पाटलकुसुमानि दृशा दृष्टया क्षण पीतानि दृष्टानि सन्ति । पिङ्गलानि सन्तीति च । चित्रभाव आश्चर्यकरत्व शबलवर्णत्व अस्तित्व च कथ न कलयेयुर्न योजयेयु | कि तु योजयेयुरेवेत्यर्थ । श्वेताना पाटलत्वस्य पाटलाना पिङ्गलचस्य च क्षणादेवाविर्भावादाश्चर्यम् । अनेक जातीयरूपाणामेकत्र मेलनाच्छबलवम् । अश्युत्पन्नानाम् । ‘आत्मा वै पुत्र नामासि इति श्रुतेरन्नित्व चेति भाव । ‘शुचि शुभ्रेऽनुपहते श्रुङ्गाराषाढयो रपि । ग्रीष्मे हुतवहेऽपि स्यात् ’ इति विश्व । ‘आश्वर्थालेख्ययोश्चित्र नात्वग्ना-


 सीमन्तविधुदवतसशिरीषचाप
  कैश्य घनोऽयमिति कै सुद्ध्शा न जज्ञे।
 तस्याध एव निट [३५३] ले सतत यदासी-
  त्तत्ताह्शी सलिलशीकरदुर्दिनश्री ॥८५॥
उग्रै करैरुष्णारुचे समन्तादूष्माचमाणाखिलदिङ्लुखस्य।
आगन्तुमह्ल् [३५४]सविध स्वकालेऽप्य[३५५]नीश्व्वरेवापससर्प रात्रि॥८६॥
 वर्षास्विय त्वरितमस्मदुपान्तभूमे-
  रुन्मूलन कलयतीति रुषावलीढै।
 तीरद्रुमै स्वनिकटादपसारितेव
  मध्य जगाम सरिता सलिलस्य वेणी॥८७॥


वुहुनि स्त्रियाम्' इति हलायुव । विरोवाभाससमालकारयो लेषसकीर्णयो ससृष्टि। औपच्छन्दसिकम्॥ ८४ ॥

 सीमन्तेति। सीमन्त केशमध्यरेखेव विधुत्तडिधस्य तत्। अवतस शिरीष कमुममेव चाप इन्द्र वनुर्यस्य तत् । सुद्दशा कौरवीणा कैश्य केशगृन्दम् । तद्वन्दे केशिक् कैश्यम्' इति केशपर्यायेष्यमर। कैर्जनैरय पुरोवता । विशेष्यपि क्षीपुस्त्वनिर्देश। घनो मेघ इति न जझे न ज्ञातम् । सवेरपि ज्ञातमेवेत्यर्थ। यघस्मात्तस्य सुदृक्केशत्रृन्दस्य अव अवोभागास्थित एव निटले ललाटे सतत निरन्तर तत्तादृशी।अतिमहती सलिलशीकरै स्वेदजलबिन्दुमिर्दुर्दिनश्री मेष च्छत्रदिनलक्ष्मी। वर्षसमृद्धिरिति यावत । आसीत् । तस्मादिति योज्यम्। अत्र सलिलशीकरदुदिनश्रिया केशगृन्दे मेघल्वानुमानादनुमानालकार। सीमन्तविघुदित्यादि सावयवरुपकोज्जीवित इति तयोरङ्गभावेन सकर॥८५॥

 उग्रैरिति। उग्रैरत्युष्णैरुचे सूर्यस्य करै समन्तादूष्मायमाणान्यग्निरुल्पी भवन्त्याखिलाना दिशा मुखानि यस्मिस्तस्य । उपमानात्कृज् । लट शानचू । अहो वासरस्य सविव समीप प्रत्यागन्तुमनीक्ष्वरा असमथवेत्युत्प्रेक्षा । रात्रि खम्य काल आगमनसमयेऽप्यपससर्प दूर पलायते स्म । रात्रयोऽभवन्नत्पा इत्यर्थ॥८६॥

 चर्षास्विति । इय वेणी प्रवाह् वर्षासु वर्षतौं।'स्त्रिया प्रागृट् स्त्रिया भून्नि वर्षा' इत्यमर । अस्माक तटगृक्षाणामुपान्तभूमे प्रान्तदेशस्योन्मूलन पातन त्वरित यथा तथा कलयति करोति । इत्युक्तप्रकारया रुषा कोपेनावलीढैर्व्याप्तैस्तीर- योरुभयोर्द्रुमै स्वनिकटात्मसमीपादपसारिता शाखाभुजैनिष्फासितेवेत्युत्प्रेक्षा। स्ररिता नदीना सलिलस्य वेणी मध्य मध्यप्रदेश प्रति जगाम॥ ८७ ॥


 देशे देशे जडिमकुरङ्गास्तेजोभल्लैर्दिनकरभिल्ले ।
 धाव धाव प्रहरति राज्ञा धारागेह शरणमवापु ॥ ८८ ॥
अङ्गाङ्गसङ्गासहने तपर्तावन्योन्यमे [३५६] वाभिमुखा युवान ।
वाचापि केचिन्मनसापि केचिह्नशापि केचिदृढमालिलिङगु ॥ ८९ ॥

 एव पचेलिमा हेलिमयूखक[३५७] ठोरिमकेलि तस्य तनयायै निवेदयितुकामाभिरिव रामाभिर्निरन्तरोपान्तौ द्वगध्वनि वसन्तौ वसन्तरतिकान्ताविव जयन्तजनकानन्तरजकौन्तेयौ परिपाटलहसपाददुरवगाहवनजातसनाथे पाथसि रोवसि च विहारैस्तेषा दिनानामौपयिकमातिथ्यमापादयितु ता[३५८]मेव भगवती सरितमापतताम् ॥


 देशे देश इति । जडिमान शैत्यान्येव कुरदा हरिणा दिनकर सूर्य एव भिल्ले व्याधे । ‘पुलिन्दा शबरा भिल्ला किराताश्चान्त्यजा पृथक्' इति त्रिका ण्डशेष । तेजोभि किरणैरेव भल्लैर्बाणविशेषैर्देशे देशे प्रतिदेशम् । वीप्साया द्विर्भाव । वाव वाव वावावि धावित्वा । आभीक्ष्ण्ये णमुल् । प्रहरति सति राज्ञा वारागेह यन्त्रवाराग्रह शरण रक्षकमवापु । कूरेस्पद्रुताना राजा तदा श्रितो वा शरणमिति भाव । अत्र जडिमकुरङ्गाणा पर्यायेण तत्तद्देशत्यागपूर्वक राजवारागृहाश्रयोक्ते पर्यायालकार । सावयवरूपकोजीवित इति तत्रोरङ्गि भावेन सफर । तेन च राजवारागृहातिरिक्तग्य सवम्यापि नि शैत्यप्रतीत्या परिसरथालकारप्रतीतेरलकारेणालकारध्वनि । मत्तावृत्तम् --‘ज्ञेया मत्ता मभसयुक्ता’ इति लक्षणात् ॥ ८८ ॥

 अङ्गाङ्गेति । अङ्गाना स्वीयानामङ्गै परकीयै सङ्ग स्पर्श न सहत इत्य सहन तपतौ ग्रीष्मे । युवतयश्च युवानश्च युवान । ‘पुमान्त्रिया' इत्येकशेष । अन्योन्य अभिमुखा सन्त एव केचिद्वाचा आश्लिष्ये इति वाङ्मात्रेणैव दृढ मालिलिङ् । तावन्मात्रमयसहन्त केचिदृटशा दृष्टयैव दृढमालिलिङगु । केचि न्मनसैवालिलिङ्गु । सर्वत्र अपिरेपकारार्थ । अत्र यूनामुत्तरोत्तरेषा पूर्वपूर्व वाचिकाद्यालिङ्गनमात्रसह्नत्वेत्तरोत्तर सौकुमार्योत्कर्षप्रतीते सारालफार ‘उत्तरोत्तरमुक़र्ष सार इत्युच्यते बुधै ’ इति लक्षणात् । स च वाचिकादेरा लिङ्गनस्य पूर्वपूर्ववर्णनात्प्रतीयत इति वस्तुनलकारध्वनि । ‘पाठक्रमादर्थवमो बलीयान्’ इति न्यायेन द्वयोर्वाचिक्रदार्शनिफयोरत्तरत्वेन मानसिकस्य लेखनमित्यपि येयम् ॥ ८९ ॥

 अथ कृष्णार्जुनयो कालिन्द्या जलबिहर वर्णयति--एवमिति । एच- मुक्तप्रकारेण पचेलिमा परिपकाम् । ‘पच एलिमजुषसख्यानम्’ इति पचे कर्म


कल्लोल[३५९] जालकपटेन कलिन्दपुत्र्या
 पाद प्रति प्रससृपे परमस्य पुस ।
तिष्ठन्ति मे पुनरिह त्रिजगत्पवित्रा
 सख्य कतीति स[३६०]मवीक्षितुकामयेव ॥ ९० ॥
तस्या जलेषु तरुणाम्बुदजातिवैरि-
 ष्वावर्तजालमनयोरुभयो[३६१] र्ब्यतानीत्।
वीचीकरा[३६२]ग्रविनिवारितरामसीर
 व्यावल्गनोपजनितव्रणगर्तशङ्काम् ॥ ९१ ॥ ।


 ण्येलिमच्। ‘परिपक पचेलिमम्' इत्यमरशेष । हेले सूर्यस्य मयूखाना किर णाना कठोरिम्ण उग्रत्वस्य केलिं चेष्टाम् । ‘हेलिरालिङ्गने सूर्ये’ इति वैजयन्ती । तस्य सूर्यस्य तनयायै यमुनायै निवेदयितु ज्ञापयितु कामो यासा ताभिरिव स्थि ताभिरिंत्युत्प्रेक्षा । रामाभी रमणीभिनिरन्तरा सान्द्रा उपान्ता पाश्व ययोस्तौ दृगवनि चक्षुर्मार्गे वसन्तौ वर्तमानौ । मूर्तीभूय साक्षादिव स्थितावित्यर्थ । वसन्तरतिकान्तौ मवुमन्मथाविव स्थितावित्युत्प्रेक्षा । जयन्तजनकस्येन्द्रस्यान न्तरजोऽनुज उपेन्द्र । श्रीकृष्ण इति यावत् । कौन्तेयोऽर्जुनश्च द्वौ । परिपाटलै ररुणैर्हसाना पक्षिविशेषाणा पादैश्चरणैर्दुरवगाहैर्दुष्प्रवेशैर्घनजातैर्जलजै सनाथे सहिते पाथसि यमुनाजले, परिपाटलैर्हसस्य सूर्यस्य पादै किरणै दुरवगाहेन वनजातेनारण्यसमूहेन सनाथे रोवसि यमुनातीरे च। 'हसो विहङ्गभेदेऽर्क’’ इति विश्व । विहारै क्त्रीडाभिस्तेषा दिनाना ग्रीष्मवासराणामौपयिक युक्तमातिथ्य पूजनम् । ग्रीष्मावसरोचितसौख्यमिति यावत् । आपादयितु सपादयितु ता खरामाभिर्विज्ञाष्यत्वेन सभावितामेव भगवतीं सरित यमुना प्रत्यापतता प्राप्त वन्तौ । पततेराङ्पूर्वात्कर्तरि लट् । उत्प्रेक्षाद्वयश्लेषाणा ससृष्टि ॥

 कल्लोलेति ।' कलिन्दस्य गिरे पुत्र्या यमुनया इह भगवत्पादे त्रिषु जगत्सु पवित्रा मे मम सख्यो गङ्गा पुन कति अन्या क्रियन्त्यस्तिष्ठन्ति । इत्युक्त प्रकारेण सुषु विलोकितु द्रष्टु कामो यस्यास्तयोतयेवेत्युत्प्रेक्षा । कल्लोलाना महातरङ्गाणा जालस्य बृन्दस्य कपटेन परमस्य पुस श्रीकृष्णस्य पाद प्रति प्रससृपे प्रसृतम् । रुपे प्रपूर्वाद्भावे लिट् ॥ ९० ॥

 तस्या इति । तरुणाम्बुदाना कालमेघाना जातिवैरिषु जन्मशत्रुषु । तदू दतिनीलेष्वित्यर्थे । तस्या यमुनाया जलेषु आवर्ताना जलश्रमाणा जाल (कर्तृ) वीच्यस्तरङ्गा एव कराग्राणि तैर्विनिवारितस्य रामसीरस्य बलरामहलस्य व्याव


सुरारिनारीमुखपद्मपङ्क्तिर्जवेन योध्द्रुं जलदुर्गपद्मै।
तीरेऽवतस्थे तिलकापदेशात्कृत्वा पुर खेटकमण्डलानि॥ ९२ ॥
 तासा विलासगमन समवेक्ष्य तत्र
  लाल्यत्वहेतुरपि ल[३६३]ज्जितचेतनाया।
 वेगात्तिरोभवनविध्नतया मराल्या
  गर्हा बभूव नितरा गतिमन्दिमश्री॥९३॥

शनै शनैस्तासु सरितमवगाहमानासु कासाचिदीर्ष्यये[३६४]व नितम्बबि[३६५]म्बानि निजावकाशदानावलम्बितोन्नतिभिरम्बुभि पुलिनानि निचोलयाचक्रु ॥


ल्गनै प्रहारैरुपजनिताना व्रणाना सबन्विना गताना निम्नभागाना शङ्का वितक मनयोरुभयो कृष्णार्जुनयोव्र्यतानीद्विस्तानीरयामास। उत्प्रेक्षालकार। पुरा किल बलरामो यमुना कृष्णेन सेव्यमाना जलक्रीडार्थमाहूय तामनागच्छती हलेना चक् र्षेति पौराणिकी कथात्रानुसधेया॥९१॥

 मुरारीति।मुरारे श्रीकृष्णस्य नारीणा मुखानामेव पद्माना पङ्क्तिर्जले या मुन एव दुर्गे यानि पद्मानि तै सह जृवेन योद्धु युद्ध कर्तु तिलकाना विशेषकाणाम पदेशाद्वयाजात्खेटकाना चर्मणा मण्डलानि पुर कृत्वा। शस्त्राघातनिवारणार्थ मिति भाव। तीरे यमुनातटेऽवतस्थेऽतिष्टदिवेत्युत्प्रेक्षा व्यञ्जकाप्रयोगान्दम्या। भीस्तयान्तरमवतीय क्षण तीरेऽवतस्थिरे इत्यर्थ॥९२॥

 तासामिति। तत्र यमुनातटे तासा हरिसुन्दरीणा विलासयुक्त गमन समवेक्ष्य लज्जिता चेतना बुद्धिर्यस्यास्यास्तस्त्र्या मराल्या हसाङ्गनाया लाल्यत्वे स्वस्या श्र्लाघनीयत्वे हेतुरपि गतेर्गमनस्य मन्दिमश्रीर्मान्द्यसमृद्धिर्वेगात्तिरोभवनेऽन्तर्धाने विघ्नतया प्रतिबन्धकत्वेन हेतुना नितरा गह्रर्था निन्द्या बभूव। अत्र गतिमान्द्यस्य गुणस्य दोषत्वफ़्ल्पनाल्लेशालकार । तेन च हरिसुन्दरीणा मन्दयानसौन्दर्यभनन्यादृशमिति प्रतीतेरलकारेण वस्तुध्वनि।'लेश स्याहो- षगुणयोर्गुणदोषत्वकलपनम्'इति तल्ल्क्षणम्॥९३॥

 शनैरिति। तासु सुन्दरीषु शनै शनैर्भयान्मन्द मन्द यथा तथा सरित यमुनामवगाहमानासु प्रविशन्तीषु सतीषु। इतीदमुत्तरगद्यत्रयेणान्वीयते॥

 कासाचिदिति। कासाचित्पुर प्रविष्टाना कतीना नितम्बबिम्बानि कटि पश्र्चाभ्दागमण्डलानि (कर्तॄणि) पुलिनानीर्ष्यया निजसादृश्यासहनेनेवेत्युत्प्रेक्षा। निजस्य स्वीयस्यावकशस्य दानेनावलम्बिता स्वीकृतोन्नतिगौरवमुत्प्लवन च येषा तै। स्थूलोन्नतानामन्त प्रवेशे जलस्योत्प्लवन प्रसिद्धम्। अम्वुभि (करणै) निचोलयाचक्रराच्छादयामासु। अत्र नितम्बाघातोत्प्लुतजलकृतपुलिनाच्छादने


 अपरासामसूययेव नाभिकुहराणि जलचूषणा[३६६]दावर्तबावलेप[३६७]मवालुम्पन् ॥

 इतरासा "ऋचेव कु[३६८]चकलशा क्षोभणा[३६९]त्कनदकोकनदशान्विं[३७०]दलयाचक्रु ॥

वक्षोजकुम्भनिवहाद्वनिताजनाना
 ग्रीष्मर्तुना विनिहित ग्रहराजपुत्री ।
ताप पितु स्वसहरत्तरलोर्मिहस्तै-
 रन्य न याति हि विभूतिरपत्यभाजाम् ॥ ९४ ॥
सुरनायकानुजमनोवशीकृतौ
 सुदृशो भुखैर्निपुणता यथा ययु ।
सरसीरुहैर्न नलिनीलतास्तथा
 सकचान्यमूनि विकचानि तानि यत् ॥ ९५ ॥


जलाना स्वावशदानजन्योनतिमत्त्वेन पुलिनसाम्यासहनितम्बवान्वव्य सपाद्य तझरा तादृशनितम्बकृतखमुत्नेक्ष्यते ॥

 अपरासामिति । अपरामा कासाचिनाभ्य कुहराणीव नाभिरन्ध्राणि । असूयया खसादृश्याद्वेपेणेवेत्युप्रेक्षा । आयर्ताना जबेन योऽवलेपस्त जलानामा वर्तीयाना चूषणाकवला कृत्वेति ल्यब्लोपे पञ्चमी । अवाङम्पन्नाशयामासु । अवपूर्वाञ्झुम्पते कर्तरि लुड् ॥

 इतरासामिति । इतरासामन्यासा कुचा कलशा इव स्तनकुम्भा क्रुधा खसादृश्यकोपेनेत्युत्प्रेक्षा । कनफकोकनदकोशान्सुवर्णसोगन्विमुकुलान्क्षोभ णानिजाघातेन क्षोभ कृत्वेति पूर्ववत्पञ्चमी । विदलयाचक्त्रुबिभिदु ॥ वक्षोजेति । ग्रहराजस्य सूर्यस्य पुत्री यमुना ग्रीष्मर्तुना विनिहित न्यासरू पेण निक्षिप्त पितु सूर्यस्य सबन्विन तापमेव स्ख धनम् । ‘स्वोऽस्त्रिया बने’ इत्यमर । वनिताजनाना हरिसुन्दरीणा वक्षोजकुम्भाना कुचलशाना निवहा द्रृन्दात्तरलैश्वलैरूभिभिरेव हस्तेरहृज्जगृहे । हि यस्मात् । अपव्यभाजा पुत्रवता विभूतिरैश्वर्यमन्यमपत्येतर न याति न प्राप्नोति । सामान्येन विशेषसमर्थन रूपोऽर्थान्तरन्यास ॥ ९४ ॥

 सुरनायकेति । सुदृश सुन्दर्यं । सुरनायफानुजस्य श्रीकृष्णस्य मनस वशीकृतौ वशीकरणे विषये मुखै (करणै) यथा निपुणता कौशल्य ययु , तथा नलिनीलता पट्भवल्लथ तन्मनोवशीकृतौ सरसीरुहैनिपुणता न ययु । तत्र हेतुमाह--सकचानीति । यद्यस्मात् अमूनि मुखावि सकचानि केशसहितानि, तानि सरसीरुहाणि विफचानि केशरहितानि विकस्वराणीति च । अत इति


[३७१]मस्वसु सनिधिमेत्य रात्रौ स्वकान्तिचोर सुदृशामुरोज ।
नालाग्रशूले नलिन निवेश्य ववल्ग हर्षादिव वारिमध्ये ॥ ९६ ॥
व्यात्युक्षिकाया विपुलेक्षणासु वर्षन्नखद्योतवलक्षमस्भ ।
सखीमुद्रारा सरितस्तु तस्या करोप्यसावीदिव कसहन्तु ॥ ९७ ॥
उल्लासभाजा हरिणा प्रियाया कट्टलारमाल्ये कलिते कबर्याम् ।
अस्त्रैरसूयाहसितैश्च चित्रमुत्तसित वक्रमभूत्सपया ॥ ९८ ॥
ग्लह निमग्नग्रहणेषु कल्पयन्स्वयग्रहा[३७२]लिङ्गसुख यदूद्वह ।
सवर्णवर्मा सलिले तडित्तनू सुखादगृहृणात्सुट्टशस्तु ता न तम् ॥ ९९ ॥


योज्यम् । अत्र सुदृशा मुखैरिव नलिनीलताना सरसीरहैर्हरिमनोवशी करणनेपुण्याभाव प्रति विकासकेशराहित्ययो श्लेपभित्तिकाभेदाध्यवसायलब्ध केशराहित्यरूपसाधनवैकल्यवाक्यार्थहेतुफ़ काव्यलिङ्गमतिशयोक्तिसकीर्णम् । मञ्जुभाषिणी ॥ ९५ ॥

 यमस्वसुरिति । सुदृशा उरोज कुच । इति जातावेकवचनम् । रात्रौ स्वकान्तिचोर तदानीमेव कमलस्य मुकुलनाच्चौर्यानुकूल्याच्चेति भाव । नलिनम् । पद्मकोशमित्यर्थ । यमखसुर्यनाया सनिव समीपमेत्य वारिमध्ये नालाग्र एव शूले निवेश्य हर्षात् स्वकान्तिचोरशूलारोषजन्यात् ववल्ग ननर्तेवेत्युत्प्रेक्षा नालाग्रशूलेति रूपकोज्जीविता । ‘यम खसु सनिधिमेत्य’ इत्यनेनोक्तदण्डस्य मर णान्तत्व सूच्यते ॥ ९६ ॥

 व्यात्युक्षिकायामिति । व्यात्युक्षिकायाम् । ‘अन्योन्योपरि हस्ताभ्या व्यात्युक्षिर्जलसेचनम्’ इति हलायुध । विपुलेक्षणासु कान्तासु नखाना द्योतै प्रकाशैर्वलक्ष शुभ्रमम्भो वषन्कसहन्तु श्रीकृष्णस्य करोऽपीत्यपिना पदसमुच्चय । तस्या सरितो यमुनाया । तुशब्दो वाक्यालकारे । उदारा महती सखीं गङ्गामन्या असवीदिवेत्युत्प्रेक्षा । सूयते कर्तरि लुड्। नखद्योत इव वलक्ष वियति विक्षे पादिति भाव इत्यपि बोध्यम् ॥ ९७ ॥

 उल्लासभाजेति । उल्लास भजतीति तद्राजा प्रेमौकटथयुक्तेन हरिणा प्रियाया कबर्या केशपाशे कहारमाल्ये रक्ताब्जमाल्ये कलिते योजिते सति सपत्न्या वक्र अस्त्रैरश्रुभि । असूयया यानि हसितानि हासास्तैश्च उत्तसित भूषित अभूदिति यत, तच्चित्रम् । एकेन माल्येन तत्कबर्यामलकरणे द्वयैरश्रुहसितैरेत दूक्भ्रालकरण दित्याश्चर्यम् । परमार्थस्तु सपल्या वक्रमस्त्रै उत्त आर्द्र असूयाह सितै सित श्वेत चाभूदिति । ‘आर्द्र सार्द्र क्लिन्न तिमित तिमित समुन्नमुत्त च' इत्यमर । इन्द्रवज्ञा ॥ ९८ ॥

 ग्लहमिति । सवर्णा यमुनासलिलसमानकान्ति वर्ष्म शरीर यस्य स


फृत्कृतै क्कचिदध स्थितिचिन्ह बद्वुद हरिरुदस्य निमग्र।
वञ्चयन्प्र[३७३]तिवधू कचिदूरुस्तम्भमम्बुषु चुचुम्ब वराङ्गया ॥१००॥
 क्रीडती मण्डलीभूय कृष्णयोरप्सु यौवते।
 तटिन्यास्तटयो प्रान्ते ताटङ्के इव रेजतु॥१०१॥


यदूद्वह श्रीकृष्णो निमग्नस्य जलान्तर्लीनस्य जनस्य ग्रहणेषु स्वयग्रहालिङ्ग सुख ग्लह पण कल्पयन्सन्।"ग्लहो द्यूतादिषूत्सृष्टे पणे' इत्यमर। तडिदिव तनुर्यासा तास्तडित्तनू सुदृश सुन्दरी। सलिले।तदन्तरित्यर्थ। सुखात् अना यासादेव अगृन्हाज्जग्राह। ता सुदृशस्तु त नागृण्हन्।गृण्हाते कतरि लङ्। अत्र तडित्तनूरिति सुहग्विशेषणस्य सवर्णवर्ष्मेति हरिविशेषणस्य च सुखेन ग्रहण योगायोगतात्पर्यगर्भत्वात्परिकरद्वय सजातीयत्वेन सस्रुष्टम्। यत्तु 'सुवर्णवर्ष्मा' इत्यपपाठे भ्रमेण 'सुवर्णवदमल वर्ष्म यस्य स' इति नृसिंह, तत्तस्य मूलनिर्मू लकस्य न चोद्यम्,यतस्तथा विशेषणस्य जले कृष्णाग्रहणासमर्थत्वात्सुदृशस्त कुतो नागृह्णन्नित्यत्र हेत्वनुक्तेर्हरे सुखेन ग्रहणापत्तेक्ष्व असमर्थत्वाख्यपददोषापत्तिरिति। कि च सुवर्णस्य अमलत्वेन साम्ये उपमया अप्रसिद्धत्वारयालकारदोषापत्तिरिति च वशस्थपृत्त्म्॥९९॥

 फूत्कृतैरिति।अम्बुषु निमग्नो हरि फूत्कृतैर्भुखमारुतै अध स्थितिचिन्ह जलान्तरावस्थानसूचक वुद्वुद क्वचित् एकत्र उदस्य उत्थप्य प्रतिवधू प्रियाया सपत्नी वञ्चयन् सन् तत्रैव स्थितो नान्तर्मार्गेण तत्सनिधिं गत इति भ्रामयन् सन् इति यावत्। क्वचित् अन्यत्र। वराङ्गया प्रस्तुतोचितनिर्देशोऽयम् । ऊरुस्तम्भ इव त चुचुम्ब। अत्र बुद्बुदोत्पादनक्रियया वराङ्गरुचुम्बनात्मकमर्माप्रकाशनाय हरिणा सपत्नीञ्चन कृतमितियुत्तिरलकार। स्वागता कृत्तम्॥१००॥

 क्रीडतीति।तटयोरुभयो प्रान्ते समीपे अप्सु जलेषु मण्डलीभूय वलया कृत्या अवस्थाय क्रीडती विहरती। कृष्णयो कृष्णार्जुनयोयौंवते युवतिसमूहौ। 'कृष्णाख्या शमनव्यासवनजयजनार्दना '।इति विश्व। तटिन्या यमुनायास्ताटङ्के इव रेजतु। अत्र गौरवर्तुलत्वगुणनिमित्ता युवतिसमूहयो कुण्डलत्वोत्प्रेक्षा। यत्त्वत्र 'प्र इति वर्ण अन्ते यस्य ताहशे दीप्रे जाज्वल्यमाने हत्यर्थ' इति नृसिंह,तत्तत्साहितीपरिचय विशदयति।यत 'प्रान्ते' इत्यस्य द्विवचनान्तत्वे तादृशशब्दद्वयोपस्थपनावश्यकत्वेन दीप्रशब्दवत्कस्यचित्क्षिप्रकम्प्रादेरुपस्थापने प्रकृतानन्वय। सप्तम्येकवचनान्तत्वे प्रथमाद्विवचनान्तवाच्यताटङ्कविशे षणत्वायोग।प्रवर्णान्ताना बहुना सत्त्वेपि दीप्रशब्दस्यैवोपस्थितिरित्यन नियामकाभावश्व। कि बहुना कथचित्तदुपस्थापनेऽपि तस्य शब्दरूपस्यार्थविशेषणत्वायोगेनावाच्यवचनारयदोषापत्तिरिति॥१०१॥


 इति चिर विहत्य प्रतीरमुत्तीर्णाभिर्जलमेलनव्रीडादिव सकुचितात्मभि कुचैरानमिताभिस्तदङगसङग[३७४]सगतशर्माणि मर्मरगिरा स‌स्तुत्य पवनचञ्चलैरञ्चलै श्र्लाघमानानीव वसनानी निव[३७५] सितवतीमि कायकान्ति[३७६]लताकोर[३७७]काणि कनकाभरणानि कामनीयकपुनरुत्तिमात्रस्य पात्रयन्तीभिर्वधूटीभि सह तटाटवीं पर्यटतोस्तयोरग्रे दिशि दिशि कृ[३७८] शितशिशिरेतराभीशुप्रकाशो जनह्शा

कोशी[३७९]करणदेशिक कोऽपि महसा राशिराविरासीत् ।

उन्मीष्येन्मिष्य यत्नात्परिचलितयथापूर्वशत्त्याथ दृष्टया
 तन्मध्ये वीक्ष्य कचित्पुरुषमनुदितच्छायसहस्तातपत्रम्।


 इतीति। इत्युक्तप्रकारेण चिर विहत्य जलक्रीडा कृत्व प्रतीर तट प्रति उत्तीर्णाभि जलाना लडयोरभेदामन्मूर्साणा च मेलनेन सगत्या व्रीडात् लज्जयेवे त्युत्प्रेक्षा। सुकचित मुकुलित आत्मा मन स्वरूप च येषा तै। कुचा जलस ङेगन स्वल्पीभवन्तीति प्रसिध्दम्। कुचैरानमिताभि। तासाभङ्गै सङेगन सगत शर्म सुख येषा तान्यत एव मर्मर् वेष्टाजन्य ध्वनिरेव गी वाक् तया सस्तुत्य पव नेन चञ्चलैरञ्चलै प्रान्तै श्लाघमानानि शिरोभिरभिनन्दयमानानीव स्थितानि वसनानि वस्त्राणी निवसितवतीभिर्वेष्टितवतीभि। कायकान्ते शरीरशोभया एव लताय कोरकाणि मुकुलानि कनकाभरनणानि कामनीयकेन सौन्दर्येण नैस र्गिकेण पुनरुक्तिरेव पुनरुक्तिमात्र तस्य पात्रयन्तीभि पात्राणी कुर्वन्तीभि। निसर्गसुन्दरीणा किमेतै सोन्दर्यमिति तेषा वैयर्थ्य सूचयन्तीभिरित्यर्थ।पात्र शब्दात्'तत्करोति'-इति ण्यन्ताल्लट शतरि 'उगितश्च' इति डीप् । ववूटीभि कान्ताभि सह। यधूटी महिला भामा'इति त्रिकाण्डशेष । तटाटवी यमुना तीरकानन पर्यटतो स्वैर सचरतोस्तयो कृष्णार्जुनयोरग्रे पुरस्तात् दिशि दिशि प्रतिदिश कृशित क्षीणीकृत शिशिरेतराभीशोरष्णकिरणस्य प्रकाश आतपो येन तथोक्त अत एव जनस्य दृशा नेत्रणा कोशीकरणे मुकुलने देशिका आचार्य।तत्कारयितेति यावत्।महसा तेजसा राशि कोऽपि पुमानाविरसीत्प्रादुर्बभूव।'कायकान्तिलताकोरकाणिव'इति इवशब्दपाठ क्वाचित्क प्रामादिक।तत्रोत्प्रेक्षाया प्रसत्तयभावादिति।यत्तु तदङेल्यत्र कुचरूपङेगति नृसिंह,तन्न अग्रे निवसनस्य सर्वाङसबन्धित्वेन सदर्भविरोवापत्तेरिति। उत्प्रेक्षारूपकसस्रुष्टि॥

 उन्मिष्येति। तस्मिन्नेव क्षणे तत्क्षणम्।'देशकालाध्वगन्तव्या'इति कर्मत्वम्।यत्नात्।कृच्छादित्यर्थ।उन्मिष्योन्मिष्योन्मील्योन्मील्य।वीप्साया


अक्ष्णा ज्ञातेयमोतोर्विदधतमनयो प्रश्रयाश्चर्य[३८०]लब्धा-
 हैराज्यादाकुलाभूद्यदुकुरुवरयोस्तत्क्षण चित्तसीमा ॥ १०२ ॥
मुखे तिरोवेपथुभिर्वय कृतैर्मुकुन्दवध्व कृतसूचना इव ।
द्विजातिवृद्धस्य पथोऽस्य पार्श्वयोर्दूिधापसस्त्रु सहसातिभीरव १०३
ताभ्या ततस्तस्य पदो पुरस्तादपङ्कमात्मानमहो विधातुम् ।
स्पृष्टान्युदञ्चदू[३८१]हुघर्मतोयैरष्टाभिरङ्गैरवनीरजासि ॥ १०४ ॥


द्विर्भाव । पक्ष्मणी इति शेष । परिचलिता तेजोभिघाताद्रग्ना । पूर्वं यथा वर्तते स्म यथापूर्वम् । वास्तवीत्यर्थ । शक्तिवस्तुग्रहणसामर्थ्य यस्यास्तया दृष्ट्या चक्षुषा (करणेन) तस्य तेजोराशेर्मध्ये अनुदिता अनुत्पन्ना छाया अनातप यस्मात्त योक्तम् । उपरितनसौरप्रकाशनिरोधेऽप्यधस्तनाग्निप्रकाशानिरोधादिति भावः । तादृश हस्ते आतपत्र यस्य तम् । अक्ष्णा नेत्रगोलकेन ओतोबिडालस्य ज्ञातेय बान्वव्य विदवत कुर्वन्तम् । भार्जारसदृशाक्षमित्यर्थं । ‘कपिज्ञायोर्दक्’ इति भावे ढक्येयादेश । ‘अक्ष्णो ’ इति पाठे नेत्रयोरित्यर्थ । कचित् अनिर्देश्यमहिमान पुरष वीक्ष्य । अथ यदुवरस्य कुस्वरस्य अर्जुनस्य च द्वयोश्चित्तसीमा मनोदेश प्रश्रयेण विनयेनाश्चर्येण च लब्वात्प्राप्तात् । दौ राजानौ यस्यास्तस्या भावात् दैराज्याद्धेतोराकुला अभूत् । राजयुग्मस्य प्राणघातुत्वप्रसिद्धेरिति भाव । विस्मितौ विनीतौ चाभूतामिति तत्त्वार्थं । स्वभावोक्त्युपमयो ससृष्टि । स्रग्धरा ॥ १०२ ॥

 मुख इति । सुकुन्दस्य कृष्णस्य व व कामिन्य अस्यागच्छतो द्विजातियुद्धस्य वृद्धब्राह्मणस्य सबन्विभिर्वयसा वार्धकेन कृतैर्जातै । मुखे तिरोवेपथुभिस्तिरधीनकम्पै कृत सूचन पार्क्ष्वोपसर्पणप्रेरण यासा तथोक्ता इवेत्युत्प्रेक्षा । अतिभीरवोऽतिभीतिवत्य सत्य पयस्तन्मार्गस्य पार्श्वयो द्विबा द्विप्रकार सहसा अष्टसस्त्रुरगच्छन् । वशस्थवृत्तम् ॥ १०३ ॥

 ताभ्यामिति । ततस्ताभ्या कृष्णार्जुनाभ्या आत्मान शरीर च अपङ्क निष्पाप कर्दमशून्य च विधातु उदञ्चन्ति अङकुरन्ति बहूनि घर्मतोयानि स्वेदबिन्दवो येषु तै अष्टाभिरङ्गै फाल्भुजवक्ष पादै तस्य दिव्यपुरुषस्य पदो पादयो पुरस्तात् अग्रे अवन्या भुव रजासि रेणव राजसविकाराश्च स्पृष्ठानि । साष्टाङ्ग नमश्चक्रतुरित्यर्थं । अहो इत्याश्चर्ये । जगत्पावनयोरपि नरनारायणयोरात्मनो निष्पापत्वकरणाभिप्राय इत्याश्चर्यमिति भावः । अत्र स्खिन्नाङ्गाचनीरजस्पर्शनजन्यसपङ्कत्वप्रयत्नस्य राजसविकाराश्रयणप्रयत्नस्य वा स्वखविपरीतनिष्पङ्कत्वनिष्पाफ़लेच्छाजन्यत्वादिचित्रालकार –‘विचित्र तत्प्रयत्नक्ष्चेद्विपरीतफलेच्छया' इति लक्षणात् । स च श्लेषभित्तिकाभेदाध्यवसायमूलातिशयोक्तयुज्जीवित इति तयोरङ्गाङ्गिभावेन सकर ॥ १०४ ॥


परस्परासङ्गफलप्रदित्सया स्वजन्मतारैन्दववासराविव ।
उपस्थितौ तावुपसृत्य सभ्रमात्स[३८२] आशिषोऽनन्तरमेवमब्रवीत् ।१०५।
क्षुत्प्रपीडयति मामयि वीरौ कुक्षिमेत्य चकितेव युवाभ्याम् ।
[३८३] याच्यते तद्शन बहु भोक्तु यस्य तृप्यति पुरातिथिरेष ॥ १०६ ॥
इथ स्वदक्षिणकर पुरत प्रसार्य
 तस्यार्हतो वचनपाषर्ण्यनुधाविवेगा ।
ताभ्या तथेति फ[३८४]णितिस्तु समाललम्बे
 सत्स्व्रर्थना फलमदौहृदमेव सृते ॥ १०७ ॥


 परस्परेति । सोऽग्निर्युद्धब्राह्मणवेष परस्परासङ्गेनान्योन्यमेलनेन यत्फल भोजन तस्य प्रकर्षेण दातुमिच्छा प्रदित्सा । ददाते सन्नन्तादप्रत्यय । तया उपस्थितौ प्रत्यासन्नौ स्वौ स्वीयौ जन्मतारा जन्मनक्षत्र ऐन्दवासर सोमवास रक्ष्च तौ द्वाविव स्थितावित्युत्प्रेक्षा । तौ कृष्णमर्जुन च उपसृत्य सनिधाय आशिष आशीर्वादस्य अनन्तर सभ्रमात्सतोषात् एव वक्ष्यमाणप्रकारेणाब्रवीत् । सभ्र मादुपसृत्येति वा योजना । ‘अध्वा भोजनमालस्यम्’ इत्यादिना भानुवादे जन्मर्क्षयोगे प्रत्येक फलश्रवणात्त्तत्रत्यभोजनफलप्रदातृत्वेन कृष्णार्जुनयोस्तत्वेनो त्प्रेक्षणम् । ‘तदाशिषोऽनन्तरम्' इत्यपपाठे भ्रमेण मृसिहाव्यारयान कर्तृवाचक पदाभावेन न्यूनपदत्वाख्यदोषापत्तेरुपेक्ष्यम् । वशस्थवृतम् ॥ १०५ ॥

 भूदिति । अयि वीरौ हे कृष्णार्जुनौ, क्षुत् जठराग्निजनितोदरदाह युवाभ्या युष्मत्त चकिता भीतेवेत्युत्प्रेक्षा । कुक्षिमुदर एत्य सा प्रकर्षेण पीडयति । एषो ऽतिथिर्यस्यान्नस्य पुराग्ने तृष्यति येनानेन तृप्तो भविष्यतीत्यर्थ । ‘थावत्पुरा निपातगोर्लट्' इति लट् । ‘निकटागामिके पुरा’ इत्यमर । अनेन मया तद शन अन्न खाण्डववनरूप बहु यथातथा भोक्तृ याच्यते । याचे कर्मणि लट । अत्र क्षुत्पीडाया अशनयाच्याहेतुवाद्वाक्यार्थहेतुक काव्यलिङ्गमुत्प्रेक्षाससृष्टम् । खागताशवृतम् ॥ १०६ ॥

 इत्थमिति । इत्थमुक्तप्रकारेण स्वस्य दक्षिणकर पुरतोऽग्रे प्रसार्यं । अर्दत । अशन प्रार्थयत इत्यर्थ । चुरादिणेरनित्यत्वादप्रयोग । तस्य ब्राह्मणस्य यद्वचनम् याच्यते तदशन बहु भोक्त्तुम्' इत्येवरूप तस्य पार्ष्ण्यनुधावी वेगो यस्या सा । अविलम्बितानन्तर्येत्यर्थ । तथा तदशन दास्याव इत्युकप्रकारा फणिति वाक्य ताभ्या तु कृष्णार्जुनाभ्यामपि समाललम्बे गृहीता । लम्बते कर्मणि लिट् । तथाहि--सत्सु सज्जनेषु अर्थना याच्या स्त्रीलिङ्गेन स्त्री च अदौहृद गर्भधारण विनैव । सद्य एवेत्यर्थ । फल सूते जनयति । सन्तोऽविलम्बितमेवार्थिविन कृतार्थयन्तीत्यर्थ । सामान्येन विशेषसमर्थनरुपोऽर्थान्तरन्यास ॥ १०७ ॥


अथ मुदा कथितात्मयथातथभावो भगवान्बृहद्भानुर्दन्तपटी[३८५] यवनिकान्तर्नट[३८६]त्सिमतयोर्देवकीपृथासुतयोर्धुरि गिरिदरीवसतिधुरीणविभावरीचरसरीसृपदिविषदरीशमेदुरीकृतदुरीहितताण्डवस्य [३८७] खाण्डवस्य जगत्कण्ठेग[३८८]डुत्व तत्परिरक्षणदक्षस्य त्रक्ष्भुक्ष्णस्तक्षके पक्षपात
च विनिवेद्य[३८९] युबयो कटाक्षबलेन क्षणाहिधक्षामीति [३९०]स्वमपेक्षितविशेषमाचचक्षे ।
भ्रज्ञया यदुपते पुरुहूतसूनु
 सतुष्यतोऽथ जगृहे स तनूनपात ।
तूणौ च गाण्डिवसखौ तुरगाश्च शुभ्रा-
 न्कान्त रथ च नटता कपिकेतनेन ॥ १०८ ॥


 अथेति । अथ तयो प्रतिज्ञानन्तर मुदा सतोषेण याचितार्थदानप्रतिज्ञाजन्ये नात्मन यथातथाभाव याथातथ्यम् । अग्निखमिति यावत् । स कथितो निवे दितो येन स भगवान् बुहद्भानुरग्नि दन्तपट्या अधरोष्ठस्यैव यवनिकाया तिर स्करिण्था अन्तर्मध्ये नटत्प्रसरत' स्मित ययोस्तयो । स्मेराधरयोरित्यर्थ । देवकीसुतस्य पृथासुतस्य च तयो कृष्णार्जुनयोर्धुरि पुरस्तात् । गिरिदरीषु शैलगुहासु वसतिधुरीणैनिवासिभि विभावरी चरै राक्षसै , सरीसृपै सर्पै , दिविष दरीशे असुरश्रेष्ठैक्ष्च मेदुरीकृत सान्द्रीकृत दुरीहिताना लोकोपद्रवाणा ताण्डबमा विर्भावो यस्मिन् तस्य खाण्डवस्य खाण्डवनामारण्यस्य जगत लोकस्य कण्ठे गडुत्व रोगजन्यकिणत्वम्। अभोज्यत्वमिति यावत् । तस्य खाण्डवस्य परिरक्षणे दक्षस्य समर्थस्य त्र्क्ष्भुक्ष्ण इन्द्रस्य तक्षके तत्र वर्तमाने नागराजे पक्षपात च विनिवेद्य युवयो कटाक्षबलेन साहाग्योपजीवनेन क्षणात् दिधक्षामि दग्धुमिच्छामि । तदिति शेष । इत्युक्तप्रकार स्व खीयमपेक्षितविशेष कामितार्थमाचचक्षे कथितवान् । चक्षे कर्तरि लिट् । ‘सातिसवम्’ इति पाठे ससहाय यथातथेत्यर्थ । ‘सहायोऽतिसवस्तुल्यौ' इत्यमर ॥

 भ्रूसज्ञयेति । अथ स पुरुहूतसूनुरर्जुनो यदुपते श्रीकृष्णस्य भ्रुव सञया प्रेरणेन सतुष्यत कामितार्थप्रतिज्ञया प्रहृष्यमाणात्तनूनपातोऽग्ने । ‘जातवेदा स्तनूनपात्' इत्यमर । गाण्डीवस्य नाम वनुष सखायौ सहवर्तमानौ गाण्डीवसखौ । 'राजाह सखिभ्यष्टच्' इति समासान्तष्टच् । तूणौ निषङ्गौ च । त्रीन पीत्यर्थ । शुभ्रान् श्वेतान् तुरगान् अश्वाश्च । नटता नृत्यता कपिना आञ्जनेयेन युक्तेन केतनेन ध्वजेन कान्तमनोहरम् । शाकपार्थिवादिना समास । रथ जगृहे गृहीतवान् । लौकिकसाधनैरलौकिकैर्योध्दुमशक्यादिति भाव ॥ १०८ ॥


 मरुन्मनोमार्गणवैनतेयपृथग्ज[३९१]यात्तैरिव कीर्तिशावै ।
 चतुर्भिरक्ष्वै समुपास्यमान स फाल्गुनस्त रथमारुरोह ॥ १०९॥
दृशसुखनगरे पुरानुभूत दहनहठात्करण पुनार्दिइक्षु ।
उपगत इव मारुति स साक्षादुदसदस्य रथाग्रके[३९२]तनाङ्क ॥११०॥
  तद्भुजावनुधावन्त्या सग्रामषु जयाश्रय ।
  जङ्घाद्वयधिय तू[३९३] ण्यौ जनयामासतुस्तदा ॥ १११ ॥
पवनसखहशोर्मुद वितन्वन्पटुतरटकृतिकम्पिताटवीक ।
कुटिलमतनुता[३९४] र्जुन कराभ्या गुणमि[३९५]व दण्ड[३९६]मथास्य गाण्डिवस्य ॥ ११२ ॥
अथ गरुडवलीमुखध्वजाभ्यामनुमतिमेत्य स सननाह हर्षात् ।
बलरिपुमणिनीलमुत्प्रवाल वनमशितु वडवास्यभूरिवाग्नि ॥ ११३ ॥


 मरुदिति । स फाल्गुनोऽर्जुन । मरुतो वायोर्मनसो मार्गणस्य वैनते यस्य गरुडस्य च चतुर्णा पृथक् प्रत्येक ये जया चत्वारस्तेभ्य आत्तै कीर्तिशावै कीर्तिशिशुभिरिव स्थितैश्चतुभिरश्वै समुपास्यमान सयुज्यमान त तादृग्वेगवत्स्वेन प्रसिद्धमन्निदत्त रथमारुरोह । उत्प्रेक्षा ॥ १०९ ॥

 दशमुखेति । अस्यार्जुनस्य रथाग्रकेतनोऽङ्क चिहत्वेन वर्तमान स प्रसिद्धो मारुतिर्हनूमान् । दशमुखस्य रावणस्य नगरे लङ्काया पुरा दाहसमये अनुभूत दृष्ट दहनस्य अग्नेर्हठात्करण बलाद्दाह पुनर्द्रष्टुमिच्छुर्दिडक्षु सन्। अतएव साक्षान्मूर्तीभूय उपगत आगत इवेत्युत्प्रेक्षा । उदलसजन्नृत्यति स्म । पुष्पिताग्रवृत्तम् ॥११०॥

 तदिति । सग्रामेषु युद्धेषु तस्यार्जुनस्य भुजौ प्रत्यनुधावन्त्या अनुसरन्त्या जयश्रियो जयलक्ष्म्या जङ्धाद्वयस्य विय सभावना तूण्यौ अग्निदत्ताक्षयतूणीरौ तदा खाण्डवदाहोद्योगावसरे जनयामासतु । उत्प्रेक्षा ॥ १११ ॥

 पवनखखेति । अथार्जुन पवनसखस्याग्नेर्हशोर्मुद चक्षुरुत्सव वितन्वन्करिष्यमाण । वर्तमानसामीप्ये वर्तमाननिर्देश । कराभ्या पटुतरयातिकठोरया टकृत्या कम्पिताटवी खाण्डवारण्यभागो येन तथोक्त सन् । ‘नधृतश्च' इति कपू । अस्याभिदत्तस्य गाण्डीवस्य कार्मुकस्य गुण ज्यामिव । दण्ड कुटिल वक्र अतनुत कृतवान् । आक्षीणेनेति भाव । अत्र गाण्डीवगुणदण्डयो कौटिल्यकरणेनौपम्यस्य गम्यत्वात्तुल्ययोगिताभेद । पुष्पिताग्रावृत्तम् ॥ ११२ ॥

 अथेति । अय सोऽग्नि । गरुडवलीमुखध्वजाभ्या कृष्णार्जुनाभ्यामनुमतिं दाहाभ्यनुज्ञामेत्य । हर्षात् वडवा अश्वयोषिदाकार और्वमुनिकोप तस्यास्यात् सुखात् भवतीति भूरग्नि वडवानल इव बलरिपुमणिरिन्द्रनीलरलमिव नील


शोणरुचा शिखयातिमहत्या बाणपुरावृतिवासनयेव ।
[३९७]चण्डतरोऽस्य वनस्य समन्तात्कु[३९८]ण्डलना कलयन्ववृधेऽग्नि ॥ ११४ ॥
 प्रथम पावकषिङ्गे परिरभ्य गृहीतपल्लवोष्ठपुटे ।
 उप[३९९] कण्ठे वनरजेरुदगादाकुलकपोतनादतति ॥ ११५ ॥

 क्रमेण प्रबलीभवतो भगवत पवमानसखस्य तमालादिषु केषुचि[४००]त्तरुषु प[४०१] र्णोच्चयायमनैर्धूमैर्धूमै किंशुकादिषु केषुचिद्रु[४०२]मेषु स्तवकायमानैर्ज्वालाकदलैस्तिलकादिषु केषुचित्पचेलिमफलबीजायमानै[४०३] स्फुलिङ्गैर्हरिचन्दनादिषु केषु[४०४]चिद्विटपिषु वल्कलायमानै-


श्याभ उद्गतानि प्रवालानि किसलयानि विद्रुमाक्ष्च यस्मिंस्तत् ।वन खाण्डव सामुद्रजल चाशितु भक्षितु सननाह सनध्दोऽभूत्।श्लिष्टविशेषणेयमुपमा॥११३॥

 शोणेति।अथ चण्डतरोऽतिभीषणोऽग्निर्बाणपुरस्य बलिपुत्रनगरस्य शोणारयस्य आनृतिवासनया प्राफारात्मना स्वावस्थानसस्कारेणेव स्थितयेत्युत्प्रे क्षा। अतिमहत्या शोणस्चा रक्तप्रभया शिखया ज्वालया अस्य वन्स्य खाण्ड वस्य समन्तात्परिन कुण्डलना कुण्डलाकारेण वेष्टन कलयन्कुर्वन्सन् । वपृधे वर्धते स्म। वर्वते कर्तरि लिट्।वाणपुरस्याग्निमय प्राकार पुराणत्रसिद्व । तोटकवृत्तम्-'तोटकवृत्तमिद भभभा गौ' इति लक्षणात्॥११४॥

 प्रथममिति।पावकोऽग्नि षिङ्ग् इव तस्मिन्।'षिङ्ग् पाल्लविफो विट' इत्यमर।त्रथममादौ परिरम्य सवेष्टय आक्ष्लिकष्य च गृहीतो दग्व आखादितश्च पल्लच ओष्टपुट इव येन तयोक्ते सति।वनराजे खाण्डवस्य स्त्रीलिङ्गात्कस्याश्चिन्नायिकायाश्च।उपकण्ठे समीपे कण्ठदेशे च आकुला तापार्त्या दन्तक्षतवेदनया च सकुला कपोताना पारावताना तेषामिव च नादतति कलकलरवराशि उदगादाविर्बभूव । अत्र प्रस्तुताग्निपनराजिलिष्टसावारणविशेषणसाम्यादप्रस्तुतपरिरम्भ पूवकावरचुम्पनमणितमनोहरविटकामिनीसभोगव्यापारप्रतीते समासोक्तिरल कार-'समासोक्ति परिस्फूति प्रस्तुतेऽप्रस्तुतस्य चेत्' इति । लक्षणात् । अत्र सभोगस्यालिङ्गनपूर्कत्व र्तिकूजिताना कपोतदसानम्य च रतिरहस्ये ‌-- 'आदौ रत बाहयमिह प्रयोज्य तत्रापि चालिञ्गनमेव पूर्वम्' इति । तत्र भावु कपोतवारिदेत्यादिना प्रसिध्द रत्यायासजनितो हुकारो मणितमिति। आर्यावृत्तम् ॥११५॥

 क्रमेणेति। कमेण त्रबलीभवत त्रवर्धमानस्य भगवत पवमानसखस्याग्ने सचन्धिमि । इतीद तृतीयान्तपच्च्केऽपि योज्यम् । तमालादिषु केषुचित्तरुषु


रालोकैर्नीडवत्सु केषुचित्परस्परपक्षिपक्षताडनरटनायमानै प्लो[४०५]षचटचटत्कारैश्च प[४०६]रित परीतमपि तद्वन [४०७] मुहूर्त यथपुरमवतस्थे ॥
 हुताशनपरित्रासादुच्चलन्त्या वनश्रिय
 कबरीव श्लथावेगात्कापि धूम्या खमानशे ॥ ११६ ॥
 वलय धूमरेखाया वर्त्मनि धोस[४०८]दा बभौ ।
 भाविन शरकूटस्य परितो मानसूत्रवत् ॥ ११७ ॥
 अस्यैव गाण्डिवश्रुतो भुवि भो ज[४०९] न त्व
  मल्ल तृणाय मरुतामपि म[४१०]न्यमानम्


ऋक्षेषु नीलदलेषु पर्णोञ्चय दलसमूह इव आचरद्भ्द्रि पर्णोन्चयायमानै । उपमानात्क्यङ् । लट शानच् । एवमग्रेऽपि । वूमै । किशुफ़ादिषु केषुचिह्नमेषु तन्षु रत्तकुसुमेषु स्तबकायमानै पुष्पगुच्छवदाचरभ्दि ज्वालाकन्दलै शिखाद्वरै । तिलकादिषु केषुचित्तरुषु रक्तबीजेषु पचेलिमाना पक्काना फलना बीजायमानै स्फुलिङ्गैरग्निकणै । हरिचन्दनादिषु केषुचिद्विटपिषु तरुषु रक्तत्वक्षु वल्कलायमानै । ‘त्वक्स्त्री वल्क वल्कलमस्त्रियाम् इत्यमर । आलोकै प्रकारौ । नीटवत्सु पक्षिकुटीरधारिषु केषुचित्तरुषु परस्पर पक्षिणा पक्षाभ्या ताडनेन यद्रटन चटचटशब्दस्तद्वदाचरभ्दी रटनायमानै । प्लोषाणा दाहाना सबन्धिभिश्चटचटात्फ़ारै परित सर्वत परीत व्याप्तमपि तद्वन खाण्डव मुहूर्तमपकाल यथापुर दाहात्पुरेव अवतस्थेऽवर्तत ‘अव्यय विभक्ति-' इत्यादिना सादृश्यार्थेऽव्ययीभाव । ‘नाव्ययीभावात्-' इत्यम् । अत्राग्निदाहेन विकृतस्य वनस्य पुनर्दूमादिभि । पूर्वावस्थासपादनात्पूर्वरूपालकारभेद ‘पूर्वावस्थानुवृत्तिश्च विकृते सति वस्तुनि’ इति लक्षणात् । तस्य चोपमापञ्चकोज्जीवितत्वात्तयोरङ्गाङ्गिभावेन सफर

 हुताशनेति । कापि महत्त्वेनानिर्वाच्या घूम्या धूपहिक्त । पाशादित्वाद्यत् । हुताशनादग्ने परित्रासात्परितो भयात् उच्चलन्त्या ऊर्ध्व पलायमानाया वनत्रियो वनलक्ष्म्या वेगात् पलायनसभ्रमात् श्लथा मुक्तबन्धना क्बरी केशपाश इवेत्युत्प्रेक्षा । ख आकाश आनशे व्याप्नोतिस्म ॥ ११६ ॥

 वलयमिति । धूमरेखाया वलय मण्डलम् । द्यविं आकाशे सीदन्तीति योसदा देवाना वर्त्मनि आकाशे भाविनो भविध्यत शरमयस्य कूटस्य शालाया परित यावच्छाळ मानसूत्रवत् प्रमाणसूत्रमिवेत्युत्प्रेक्षा । बभौ 'वास कुटी द्वयो शला’ इति गृहपर्यायेष्वमर ॥ ११७ ॥

 अस्यैवेति । भो जन हे लोक त्व मरुता देवाना मल वीरमिन्द्रमपि भुवि तृणाय मन्यमान तृणकल्पत्वेन सभावयमानम् । अस्य गाण्डीवभृतोऽर्जुनस्यैव


 [४११] बाह्वोर्बल पठ पठेति वदन्निवाग्नि
  स्फोटारव स झटिति [४१२]स्फुदयाचकार ॥ ११८ ॥
श्वपार्श्वयुग्मज्वलदग्निकन्दला वनान्तभाजोऽजगरा महत्तरा ।
निशातव[४१३]ज्त्रक्षतनि स्त्रुतासृजा दशामयत्नाज्जगृहुर्महीभृताम् ॥ ११९ ॥
 तत्र निकुरुम्बाणि ' स्तम्बेरमाणामामूलमनलार्चिरवलम्बितदन्तमुसलानि प्रेमपरवशतया वशासु वितरितु स्वसृक[४१४]भागविन्यस्तजग्धार्धसल्लकीपल्लवकवलानीव क्षणमलक्ष्यन्त ॥
 सविधज्वलनोष्मवीचिभि सपदि म्लानकपित्थशाखिनाम् ।
 परिपाकसिता फलव्रजा प्रबभु स्फोटकबुदुदा इव ॥ १२० ॥


बाह्वोर्मुजयोर्बल शौर्य पठ पठोञ्चारयोञ्चारय इत्युक्तप्रकारेण वदन् ब्रुवन्निवे त्युत्प्रेक्षा । सोऽग्नि स्फोटैर्वेण्वादीना दाहजन्यदलनैर्य आरव पठपठात्कारस्त झटिति दुत स्फुटयाचकार प्रकटितवान् ॥ ११८ ॥

 स्वपार्क्ष्वेति । वनान्तभाज खाण्डववनवासिनो महत्तरा अतिस्थूलायतो न्नता अजगरा सर्पविशेषा स्वयो खीययो पार्श्वयोर्युग्मे ज्वलन्तोऽग्ने कन्दला ज्वाला येषा तथोक्ता सन्त । निशातेनातितीक्ष्णेन वज्रेणेन्द्रायुधेन यानि क्षतानि । व्रणानीत्यर्थ । तेभ्यो नि स्रुतान्युद्रतानि असृञ्जि शोणितानि येषा तेषा महीभृता पर्वताना दशामवस्थाम् । साम्यमिति यावत् । अयन्ताधन्त विनैव जगृहु । अत्रान्यदशाया अन्यत्रासभवेनौपम्याक्षेपादसभवधर्मनिबन्धनरूपो निदर्शना लकार ॥ ११९ ॥

 तत्रेति । तत्र दह्यमाने' खाण्डवे स्तम्बेरमाणा निकुरुम्बाणि गजबृन्दानि । इभ स्तम्बेरम पद्नी’, ‘वृन्द निकुरुम्ब कदम्बकम्’ इत्युभयत्राप्यमर । आमूल मूलदेशपर्यन्तमनलार्चिर्भिरग्निज्वालाभिरवलम्बितानि व्याप्तानि दन्ता मुसलानीव तानि येषा तथोक्तानि सन्ति । प्रेम्णा प्रियानुरागेण परवशतया पारवश्येन हेतुना वशासु करिणीषु विषये वितारितु सृक्कभागयोरोष्टप्रान्तयोर्विन्यस्ता अर्व जग्धा जग्धार्धाश्च सल्लकीपल्लवमया कवला यैस्तथोक्तानीवेत्यु त्प्रेक्षा । क्षणमलक्ष्यन्तादृश्यन्त । लक्षते कर्मणि लड् ॥

 सविधेति । सविधे समीपे ज्वलनस्य ज्वलतोऽग्नेरूष्मणो वीचिभि परम्प राभि सपदि म्लानाना प्लुष्टाना कपित्याना नाम शाखिन। वृक्षाणा सबन्विन परिपाकेन सिता श्वेता फलाना व्रजा समूहा । स्फोटकस्य मसूरिकारोगस्य बुद्बुदा व्रणविशेषा इवेत्युत्प्रेक्षा । प्रबभु । वैतालीयम् ॥ १२० ॥


निशि केवळ तमसि दी[४१५]प्रतनु निजजातिमोषधितरु निखिलम्।
इतरे विजेतुमिव ते तरवो दिवसेऽपि जज्वलुरतीवतराम् ॥ १२१ ॥
 दृप्तदानवनिशाचरवर्गस्तत्र गाण्डिवश्रुता निहतोऽपि ।
 तन्निषङ्गयुगबाणगणाना सख्यया प्रतिभटत्वमकार्षीत् ॥ १२२ ॥
 ज्वालतापभरकुण्डलिताङ्गी क्ष्वेडसारघृतसेचनमृद्धी
 सर्पपुगवततीरतिहृष्ट शष्कुलीरिव चचर्व कृशानु ॥ १२३ ॥
 तावत्तक्षकरक्षणाय सहसा शक्रोऽधिरुह्य द्विप
  वज्र न्यस्य तदीयमूर्ध्नि मरुता सनाहयन्वाहिनीम् ।
 ब्रह्माण्डप्रतिरोधनेन विमुखैर्धूमैरिवारण्यजै-
  रातस्तार नभस्तल जलधरैरारब्धघोरारवै ॥ १२४ ॥


 निशीति । निशि केवल रात्रावेव तत्रापि तमस्येव दीप्रा प्रकाशमाना तनुर्देहो यस्य, त निजजाति निखिल समस्तमोषधितरु ज्योतिर्लता विजेतु मिवेत्युत्प्रेक्षा । इतरे तद्भिन्नास्ते खाण्डवीयास्वरवो दिवसे अहन्यपीत्यपिना किमुत रात्राविति ध्वन्यते । अतीवतरा भृश जज्वलुर्ज्वलन्ति स्म । प्रमिता क्षरा वृत्तम् ॥ १२१ ॥

 डप्तेति । तत्र खाण्डवे गाण्डीवभृतार्जुनेन निहत पलायनसमये खण्डि तोऽपि दृप्ताना दानवानामसुराणा निशाचराणा राक्षसाना च वर्ग समूहस्तस्या र्जुनस्य निषङ्गयुगेऽक्षयतूणीरयुग्मे बाणगणाना सबन्धिन्या सख्यया सह प्रति भटत्व प्रतिवीरत्व तुल्यत्व च अकार्षीत् चक्रे । कृज कर्तरि छुड्। सिचि वृद्धि । अत्र निहतस्य प्रतिभटत्वमिति विरोधस्य तुल्यत्वेनाभासीकरणाद्विरोधाभास । एव तादृशदानवनिशाचरवर्गस्य साक्षाच्छत्रुणार्जुनेन सह योद्रुमशक्त्या तन्निषङ्ग बाणगणसख्यया प्रतिभटत्ववर्णनात्प्रत्यनीकालकार । द्वयोश्च श्लेषेकोत्थापितत्वा दैककालिकत्वाच्च समप्राधान्यसकर स्वागत १३२ ॥

 ज्वलेति । कृशानुरग्निर्ज्वालाना तापभरेण तापातिशयेन कुण्डलितानि कुण्डलाकृति नीतान्यङ्गानि देहा यासा ता । क्ष्वेडसारस्य विषरसस्यैव घृतस्य सेचनेनोक्षणेन मृद्धी ‘ओतो गुणवचनस्य’ इति डीप् । शष्कुलीश्चाकृतिभक्ष्यविशेषनिव स्थिता इत्युत्प्रेक्षा। सर्पपुगवाना सर्पश्रेष्ठाना तती समूहान् । अतिहृष्ट सन् । चचर्व । ददाहेत्यर्थं । चर्वते कर्तरि लिए। ‘द्वयोर्वालकीलौ इति ज्वालशब्दस्य पुत्रानुशासनात्तत्वेन निर्देश ॥ १२३ ॥

 तावदिति । तावत्सर्पदाहसमये शक्र इन्द्रस्तक्षकस्य नाम सर्पराजस्य रक्षणाय रक्षण कर्तु । इति क्रियार्थ-' इत्यादिना चतुर्थी । सहसा टुत द्विपमै


 ततस्तैरनेकैर्नाकौकसामनीकैर्मत्सरेण तदुपरि[४१६] निपात्यमानदिग्भित्तिशिखराणामिव वेगापतता वारिधौ बाडव[४१७]हव्यवाडपि कवलितोऽयमस्माभिरितीव विद्युत प्रकाश्य गर्जितेन तर्जयतामिव पर्जन्यानामासारसर्वाभिसारेण निर्वापिते ब‘[४१८]नाग्नौ मनाक्श्यामायमाने

सति शोणायमानलोचनेन कपिकेतनेन तत्प्रतिचिकीर्षया शरकदम्बैरम्बरे निरवलम्बमाकलिता [४१९]शाला छत्रीकृत्य पुनरपि समुन्नीयमाननिजकेतुरुषर्बुधो भगवानुद्दिदीपे ॥

 तत्रान्तरे प्रोषितवल्लभतया प्रेम्णा कुमारमश्वसेन निगीर्यं दहना-


रावतमधिरुह्यारुह्च तदीये मूर्ध्नि शिरसि वज्रमायुध न्यस्य निधाय मरुता वाहिन देवसेना सनाहयन्युद्धयोद्योजयन् सन् ब्रह्माण्डे तद्भित्तौ प्रतिरोधनेन प्रत्याघातेन विमुवै प्रत्यावृत्तैरारण्यजै खाण्डवदाहोद्भवै धूमैरिव स्थितैरित्युत्प्रेक्षा । आरव्धा कृता घोरा कठोरा आरवा गर्जितानि यैस्तैर्जलबरैर्मेधैर्नभ- स्तल गगनप्रदेशमातस्ताराच्छादितवान् । स्तृणाते कर्तरि लिट् । शार्दूल विक्रीडितम् ॥ १२४ ॥

 तत इति । तत अनेकैस्तैर्नाकौकसा देवानामनीकै बलै मत्सरेण दूषेण तेषा कृष्णार्जुनपावनामुपरि शिरसि निपात्यमानाना दिशाभेव भित्तीना शिखराणामिव स्थितानाम्। अत एव वेगादापतताम् । गुरुत्वादिति भाव । वारिधौ समुद्रे अय वाडवहव्यवाट् वडवानलोऽपि अस्माभि कवलितो भक्षित 1 किमुत यूयमित्यपिशब्दाथ । इतीव विधृत प्रकाश्यगर्जितेन । तन्मिषेणेत्यर्थं । तर्जयता अथस्थिताना पर्जन्याना मेघाना सबन्विना आसारस्य धारासपातस्य सर्वाभिसारेण सर्वोद्योगेन निर्वापिते शमिते वनाग्नौ खाण्डववहैौ मनागल्प श्यामायमाने सति । ‘धारासपात आसार ‘, ‘सर्वाभिसार सर्बौघ सर्वसनहनार्थक इति चामर । शोणायमाने कोपादरुणीभवती लोचने यस्य तथोक्तेन कपिकेतनेन कपि वजेनार्जुनेन तस्यासारसर्वाभिसारस्य प्रतिकर्तुमिच्छा प्रतिचिकीर्षा तयाम्बर आकाशे निरवलम्ब कुडयस्तम्भावारवर्ज यथा तथा शरकदम्बैर्वाणवृन्दैराकलिता सघटिता शाला छत्रीकृत्य पुनरपि सम्यगुन्नीयमान ऊर्ध्व प्रसार्यमाणो निजकेतुर्धूमो येन तथोक्त भगवान् उषर्बुधोऽग्निरुद्दिदीपे प्रजज्वाल । ‘शोचि ष्केश उषर्बुव’ इत्यग्निपर्यायेष्वमर । शुद्धसापह्नवोत्प्रेक्षयो ससृष्टि ॥

 तत्रेति । तत्रान्तरे तस्मिन्समये प्रोषित कुरुक्षेत्र प्रति प्रस्थितो वल्लभ पतितक्षको यस्यास्तस्या भाव तत्ता तया हेतुना । अश्वसेन नाम कुमार प्रेम्णा निमीर्य प्रसित्वा कण्ठे निधायेति यावत् । दहनस्याग्नेरर्चिषा ज्वालानामुष्णस्य


र्चिरुष्णासहिष्णुतया पुनरपि निवृत्य दिव प्रयान्तीभिर्घनधाराभिरिव

पन्नगकन्यकाभि सह वनादुत्पतन्तीं[४२०] तक्षककुटुम्बिनीमविलम्बितमेव श्वेतवाहन शित[४२१] मुखेन शिलीमुखेन रसनायामिव ग्रीवाया[४२२]मपि द्विधा विद[४२३] लयाचक्रे ॥

 नभसि कृते शरकूटे न पपाताशुगविनुन्नमम्बुमुचाम् ।
 तस्मिन्खाण्डववह्नौ तक्षकपल्या कबन्धमेव परम् ॥ १२५ ॥

अथ स कुपित स्वय कौशिकोऽपि चकितचकित विय[४२४]ति विहितोपसरण नवजननीशोकदयनीय हृतवाल तमहिबाल परिगृह्य लालनया परितोषमनैषीत् ॥


स्पर्शस्य असहिष्णुतया सोढुमशक्तया निवृत्य प्रत्याहृत्य पुनरपि दिवमाकाश प्रति प्रयान्तीभिर्घनाना मेघाना वाराभिरिव स्थिताभिरित्युत्प्रेक्षा । पनगफ़न्यकाभिर्नागनारीभि सह । वनात्साण्डवादुत्पतन्तीं तक्षकस्य कुटुम्बिनीं भार्याम् । ‘कन्या कुमारिका नार्यो द्वारा स्यात्तु कुटुम्बिनी’ इति विश्वप्रकाशामरौ । अपे किमुतान्य इत्यर्थ । श्वेतवाहनोऽर्जुनोऽविलम्बित सत्वर यथातथा शितमुखेन तीक्ष्णाग्रेण शिलीमुखेन बाणेन रसनाया जिह्वायामिव ग्रीवाया कन्धरायामपि द्विधा द्विप्रकार विदलयाचक्रे विपाटितवान् । उत्प्रेक्षोपमयो ससृष्टि ॥

 नभसीति । शरकूटे बाणमयगृहे नभसि आकाशे कृते सति । अर्जुनेनेति शेष । आशुगैर्वाणैरेव। वायुभिरिति श्लिष्टरूपफ़म् । विनुन्नमुद्धूतम् । ‘आशुगौ वायुविशिखौ' इत्यमर । अम्बुमुचा मेघाना सबन्वि कबन्व उदक तस्मिन्खा ण्डववह्नौ न पपात । पर कितु तक्षकपत्न्या कबन्व' नि शिर कलेवरमेव पपात । ‘कबन्धमुदके नस्त्री गतमूर्वकलेवरे’ इति वैजयन्ती । अत्रोभया क्बन्धयो प्रसक्तभ्य पतनस्य तक्षकपत्नीकबन्ध एव नियमनात्परिसख्यालकार । स च बन्धशब्दश्लेषभित्तिकाभेदाध्यवसायमूलातिशयोक्तयनुप्राणित इति तयोरङ्गाङ्गिभावेन सकर । गीतिरार्या ॥ १२५ ॥

 अथेति । अय तक्षकपत्नीशिरश्छेदानन्तर कुपित स इन्द्र स्वय कौशिको व्यालग्राह्यपि इन्द्रश्च सन्निति च । 'महेन्द्रगुग्गुलूलूव्यालग्राहिषु कौशिक' इत्यमर । व्याल । सर्प इत्यर्थे । वियति आकाशे चकितचकित भीतभीत विहित कृतमुपसरण सनिधान येन तथोक्तम् । नवेन जनन्या सभन्धिन शोकेन दयनीय शोचनीय हृतबाल मातृकण्ठलग्नतया छिन्नपुच्छ त अहिबाल


सुत तमभ्येत्य सुरैरशेषै क्रुध्यन्नथायुध्यत घोरमिन्द्र ।
चक्रे स दावस्य च तक्षकस्य यग्निमत्ता यदनन्निमत्ताम् ॥ १२६ ॥ ।
वनस्य तस्योपरि केवल तदा सहस्रनेत्रस्य च सव्यसाचिन ।
निषङ्गनीडोस्पतितानि पत्रिणा कुळानि कोलाहलकेलिमादधु ॥ १२७ ॥
शरान्विपाठानपि पारदृश्वन श्रुतेर्विधायाशु विमुञ्चतस्तत ।
कुरूद्वहात्साध्वसरोगिणो हरेरभूद्भिषग्दू[४२५]रतरप्रसर्पणम् ॥ १२८ ॥


सर्पशिशु अश्वसेन परिगृह्य लालनया आश्वसनेन परितोषमनैषीत्प्रापयामास । नयतेर्दुहादित्वेंन द्विकर्मकात्फ़र्तरि लुड्। विरोवाभासालकार ॥

 सुतमिति । अथाश्वसेनाश्वसनानन्तर छुध्यन् कुयन् इन्द्र सुतमात्मजमपि तमर्जुनमशेषै सुरै सहाभ्येत्यागत्य । घोर यथा तथायुध्यत युध्यते स्म । नन्व युक्तमात्मजेन सह युद्धमत आह-चक्र इति । यद्यस्मात्स सुतोऽर्जुनो दावस्य खाण्डववनस्य । ‘दवदावौ वनारण्यवही’ इत्यमर । अग्निरस्मिन्नस्तीत्यग्निमान् तस्य भावस्तत्ता ता चके। अग्निना साण्डव ददाहेत्यर्थ । यत् यस्मात् च तक्ष कस्य अग्नि न मन्थ[ना]ति इत्यनग्निमत् तस्य भावस्तत्ता ताम् । अग्निमन्थना भावमिति यावत् । चक्रे । सपत्नीकस्यैव तत्राधिकारात् प्रकृते तेन तन्नाशनाच्चेति । भाव । तथा च तक्षकखाण्डवयोरिन्द्रस्य प्राणेभ्योऽपि प्रियत्वात्तपीडाकरेणा मार्गवर्तिना पुत्रेण युद्ध नायुक्तमिति भाव । वाक्यार्थहेतुक काव्यलिङ्गम् ॥१२६॥

 वनस्येति । तदा युद्धशले सहस्रनेत्रय इन्द्रस्य सव्यसाचिनोऽर्जुनस्य च । द्वयो सबन्धीनि । निषङ्गास्तूणीरा एव नीडानि कुलायास्तेभ्य उत्पतितान्युत्यि तानि पत्रिणा बाणानामेव पक्षिणामिति श्लिष्टरूपकम् । कुलानि वृन्दानि । ‘पत्रिणौ शरपक्षिणौ' इत्यमरः । तस्य वनस्य खाण्डवस्योपरि केवलमूर्घ्वभाग एव । कोलाहलकेलिं क्लकलरवमादधुश्चक्रु । एकेषा शरकूटभेदनाशक्त्या अन्येषा प्रसक्त्यभावेन च न वनमध्ये प्रवेश इति भाव । श्लिष्टश्लिष्टघटित सावयवरूपकम् । वशस्थम् ॥ १२७ ॥

 शशनिति । ततो विपाठान् तत्सखान् , विगत पाठ पठन येषा तानिति च । अपि क्रमेण समुच्चये, विरोधे च । शरान्बाणान् श्रुते श्रोत्रस्य वेदस्य च । मारमन्त पश्यन्तीति पारदृश्वन । विधाय कृत्वा । आशु विमुञ्चतस्त्यजत वादाय प्रेरयतश्च कुरूद्वह्यदर्जुनात् सा वस भयमेव रोगोऽस्यास्तीति तद्वतो हरेरिन्द्रस्य दूरतरमतिदूर प्रसर्पण पलायन भिषक् वैधोऽभूत् भीत । पलायित वानित्यर्थ । “भिषग्वैद्यश्चिकित्सक ’ इत्यमर । अत्र प्रस्तुतार्जुनेन्द्रविशेषण साम्यादप्रस्तुतशिष्यप्रतिभाकरप्रसङ्गक्षमतदक्षमविद्वदविद्बृत्तान्तप्रतीते समासोक्ति । एव विपाठानपि श्रुते पारदृश्वन इत्यत्र विरोधाभासश्च । द्वयोश्च तिलत-


जयन्तमेक युधि सोढुमक्षमे जयन्तमन्य सुतमीक्षितु गते ।
पुरी बलद्वेषिणि घोषकैतवाज्जहास शड्खद्वितय च कृष्णयो ॥१२९॥
 तत कृशानोर्विपरीतवर्णस्वनामवाच्यादिव भीतभीतम् ।
 मय वने दैत्यमय ररक्ष स चक्रपाणेरिव शक्रसूनु ॥ १३० ॥
 क्षेत्रमष्यधि[४२६]पति कुरुपूर्व सश्रितौ सपदि दैवबलेन ।
 चर्वितु सकलखाण्डवमग्नेस्तक्षकावभजता विघसत्वम् ॥ १३१ ॥


ण्डुलन्यायेन स्फुटावगम्यमानभेदयो ससृष्टि । पूर्ववद्वशस्थवृत्तम् ॥ १२८ ॥

 जयन्तमिति । जयन्त स्वस्य जेतारम् । जयते कर्तरि लट शत्रादेश । एक सुतमर्जुन युधि युद्धे सोढुमक्षमेऽसमर्थे । अतएव बलद्वेषिणि इन्द्रे अन्य जयन्त नाम सुतमीक्षितु पुरी स्वर्ग प्रति गते सति । पलायिते सतीति यावत् । सृष्णयो कृष्णार्जुनयो शब् द्वितय च पाञ्चजन्यदेवदत्तयुग्ममपि घोषस्य कैतवा व्याजात् जहास हसति स्मेत्युत्प्रेक्षा व्यञ्जकाप्रयोगाद्रम्या सापह्नवा च । तया चाचेतनेनापि सपरिहासे किमुत सचेतनेन परिहास इत्यर्थान्तरापत्तिरूपार्थाप त्यलकारो व्यज्यत इत्यलकारेणालकारध्वनि ॥ १२९ ॥

 तत इति । तत सोऽय शक्रसूनुरर्जुनो विपरीते प्रातिलोम्य गते वर्णे मकारयकारौ यस्मिस्तस्य स्खस्य नाम्नो यमात्मकतामापन्नस्य स्वीयस्य मयेति सज्ञाशब्दस्य वाच्यादभिधेयात् । अन्तकादिव स्थितादित्युत्प्रेक्षा । कृशानोरनैश्चक्रपाणे श्रीकृष्णादिव । उभयस्मादपीत्यर्थ । भीतभीतमत्यन्तभीतम् । वीप्साया द्विर्भाव । मय नाम दैत्य दानव वने ररक्ष रक्षितवान् । अत्र कृष्णानलयोर्भयाभयदायकत्वेनौपम्यस्य गम्यत्वात्केवलप्रकृतास्पदतुल्ययोगिताभेद । खाण्डवदाहसमयेऽ ग्नेर्भात पलायमानो मय श्रीकृष्णेन दृष्ट । तस्माद्वमाशङ्कय अर्जुन शरण गत्वा तेन रक्षित इति भारती कथात्रानुसधेया ॥ १३० ॥

 क्षेत्रमिति । पूर्वं कुरुर्यस्य तत् यस्य तमिति च क्षेत्र कुरुक्षेत्रम् । तस्य कुरुस्खासिकत्वादिति भाव । अधिपति राजा अर्जुन । तस्य कुरुवशसभवत्वादिति भाव । पूर्वमादौ कुरुरिति पद यस्येति व्यारयने शब्दस्यार्थविशेषणत्वायोगादसमर्थत्वाख्यदोष । वाच्यवाचकयोरभेदाभिमानेन कथचिदुपपादनेऽपि क्लिष्टत्वाख्यदोष इति । तच्च तमपि सपदि खाण्डवदाहसमये । दैवस्य बलेनाक्ष्त्रितौ। एक प्रवासेन, अन्य शरणत्वेनेति भाव । तक्षक सर्पराज । तत्रैव तक्षक राक्षसाशिल्पी मय । द्वावपि तक्षकौ । ‘तक्षको नागवर्धक्यो’ इत्यमर । सकल तत्रत्यसर्वस्थावरजङ्गमसहित खाण्डव वन चर्वितुर्भक्षयितुरग्नेर्विघसत्व भोजनशेषत्वमभजता प्राप्तवन्तौ । न दग्धावित्यर्थ । ‘अमृत विघसो यज्ञशेषभोजनशेषयो' इत्यमर । अत्र तक्षकद्वयादन्यस्मिन्प्रसक्तस्याग्निदाहस्य


अथ स्मित्वा तुन्द परिमृशति मन्दायितगतौ
 समापृच्छय प्रीत्या त्रिदिवमु[४२७]पयाते हुतवहे ।
रथाभ्या मौनिभ्या घनसलिलसेकेन महता
 विजेत्रौ तौ कृष्णौ विविशतुरुपान्त नरपते ॥ १३२ ॥

इत्यनन्तभट्टकविकृतौ चम्पूभारते तृतीय स्तबक ।


त्तहूये भोजनशेषत्वकथनेन तदन्यस्मिन्नेव नियमनात्परिसख्यालकार । स्वागतावृत्तम् ॥ १३१ ॥

 अथेति । अय खाण्डवदाहानन्तरम् । स्मित्वा दरहास कृत्वा तुन्दसुदर परिपूर्ण परिमृशति सस्पृशति । आनन्दातिरेकादिति भाव । करेणेति शेष । मन्दायिता मन्दायमाना गतिर्यस्य तस्मिन् । आहाराधिक्यादिति भाव । हुतवहे। ऽग्नौ प्रीत्या समापृच्छय गच्छामीत्युक्त्वा । त्रिदिव स्वर्ग प्रत्युपयाते गते सति । विजेत्रौ विशेषेण जयसमन्वितौ तौ कृष्णौ महता घनाना मेघाना सबन्धिन सलिलस्य वर्षोदकस्य सेकेनोक्षणेन मौनिभ्या नि शब्दाभ्याम् । जलक्लिन्ना न ध्वन न्तीति प्रसिद्धम् । रथाभ्या उपलक्षितो सन्तौ नरपतेर्धर्मराजस्योपान्त समीप विविशतु । स्वभावोक्तिरलकार –‘स्वभावोक्तिरसौ चारु यथावद्वस्तुवर्णनम्' इति लक्षणात् ॥ १३२ ॥

इति श्रीसदाशिवपदारविन्दवन्दनरुन्दलितानन्दसान्द्रस्य कुरविकुलचन्द्रस्य

रामकवीन्द्रस्य कृतौ चम्पूभारतव्याख्याने लास्याभिधाने

तृतीय स्तबक ।


याते ततो निजपुरीं यदुवशकेतौ
 राज्ञे मयो मणिसभा रचयाबभूव ।
यस्या रुच समवलोक्य शुचाधुनापि
 जीव गतागतजुष वहते सुधर्मा ॥ १ ॥
तामधिष्ठास्नुम[४२८]भ्येत्य त मख
कर्तुम्न्वशात् । विपञ्चीरवसारज्ञो नृप चीरवसा वर ॥ २ ॥

 ततो दूताहूत पुरुहूतानुजो निरन्तरायुसेव महान्त सप्ततन्तु[४२९]भुपहर्तुमनस कौन्तेयस्योपान्ते रहसि मुहूर्त समव्रय [४३०]साक्षादुत्साहप्र[४३१]भावाभ्या मूर्तो मन्त्र इव तत्प्रहिताभ्या गन्धवहसुधान्धोधिपनन्दनाभ्यामनुसधीयमानगमनो नदीतटाकैर्द्धिमातृकतया [४३२]स्वपा-


 यात इति । ततो युधिष्ठिरसमीपप्राप्त्यनन्तरं यदुवशस्य केतौ ध्वजे । तद्वत्प्रख्यापक इति यावत् । निजपुरी द्वारका प्रति याते सति राज्ञे युधिष्ठिराय मयोऽर्जुनरक्षितो मणिसभा मणिमयी मणीना वा सभामास्थानशाला रचया- बभूव । निर्माय दत्तवानित्यर्थं । यस्या मणिसभाया रुच शोभा समवलोक्य सुधर्मा देवसभा शुचा शोकेन तादृशशोभाराहित्यजनितेन अधुनापि अद्यापि जीवमात्मान बृहस्पतिं च। गतागत यातायात जुषत इति तथोक्त वहते । अत्र सुधर्मायास्तादृङग्दु खकृतजीवयातायातासबन्धेऽपि सबन्धरूपातिशयोक्ति । जीवात्मबृहस्पत्यो श्लेषभित्तिकाभेदाध्यवसायमूलेति तयोरङ्गाङ्गिभावेन सकर । ‘जीव प्रणिनि गीष्पतौ’ इत्यमर । वसन्ततिलका ॥ १ ॥

 तामिति । तामधिष्ठास्त्रुम् । तत्र सभाया स्थितवन्तमित्यर्थ । 'स्थासु स्थि- रतर ' इत्यमर । त खुप धर्मराजमभ्येत्यागत्य विपञ्चीरवसारज्ञो बीणानादोपनि- षद्धेदी चीरं वल्कल वसते परिदधत इति चीरवसा मुनीना वरो नारदो मखम श्वमेध कर्तुमन्वशादादिदेश । शस्ते कर्तरि लुड ॥ २ ॥

 तत इति । ततो नारदनिदेशानन्तर महान्त लोकैकक्ष्लाघ्य सप्ततन्तु क्रतुं राजसूय निरन्तराय निर्विघ्रमुपहर्तुमनुष्ठातु मनो यस्य तस्य अतएव कौन्तेयस्य उपान्ते सनिधौ रहस्येकान्ते दूतैराहूत पुरुहूतानुज श्रीकृष्णो मुहूर्त समन्त्र्या- लोच्य । ‘वशीकृताखिलनृपेणैव राजसूय कार्य , जरासधश्वाखिलस्य जेता, जिते तस्मिन् जितकल्पा एव सर्वे नृपा , तत्र प्रथम तज्जय एवानुष्ठेय ' इत्या- लोचनप्रकार । तेन धर्मराजेन प्रहिताभ्या प्रेषिताभ्या गन्धवहो वायु , सुधा- न्धसा देवाना अधिप इन्द्र , तयोर्नन्दनाभ्या भीमार्जुनाभ्या अनुसधीयमान अनुसयुज्यमान गमनं यस्य तथोत सन् । अतएव साक्षान्मूर्तीभूताभ्या उत्साहप्रभावाभ्या उत्साहशक्तिप्रभुशक्तिभ्या अनुसधीयमान मन्त्र मन्त्र- शक्त्तिरिव स्थित इत्युत्प्रेक्षा । नदीमभिस्तटाकैश्च दे मातरौ सस्यजनयित्र्यौ


लयितारमनुकुर्वतो विविधान्यदुर्लभवसुधान्यसमेधितवसुधान्म[४३३]गधा[४३४]नवगाह्य विक्ष्टङ्खला[४३५]मोदितगिरिव्रजमपि शृङ्खलाखेदितमहीभृत्कुल

जराघटितदेहमपि देदीप्यमान[४३६]बलसपन्नमाशाजेतारमपि परार्थापहारजागरितार मागधमपि विगीतव्यापार द्वैमातुरं महारथ [४३७]जरासध [४३८]पृथिवीनाथमेत्य प्रधन ननाथ ॥

तत्क्षणम[४३९]तितितिक्षया 'त्वमष्टादशकृत्वो द्दष्टापजयोऽसि, अय पुन-


येषा तेषा द्विमातृकाणा नदीमातृकाणा देवमातृकाणा च भावेन द्विमातृकतया 'देशो नद्यम्बुवृष्टयम्बुसपन्नव्रीहिपालित।स्यान्नदीमातृको देवमातृकश्च यथाक्र मम्॥'इत्यमर। स्वेषा पालयितार राजान जरासध अनुकुर्वत विडम्बयत । तस्यापि द्विमातृकत्वादिति भाव।विविधै कनकमणिरूपै नवविधैश्च् अन्यस्मि न्देशान्तरे दुर्लभै वसुभि धनै धान्यैश्च समेधिता प्रवर्धिता वसुघा भुर्येषु तान्मगधान्नाम जनपदान् अवगाह्य प्रविश्य विश्टङ्खल निष्प्रतिबन्ध यथा तथा आमोदित सतोषित गिरिणा शैलाना व्रज समूह गिरिव्रजानामकराजधानी च येन तथोक्तमति क्षृङ्खलाभि पादबन्धनायसयन्त्रै खेदित दुःख प्रापित महिभृता शैलाना राज्ञा च कुल पृन्द येन तथोक्तम् । जरया चरभवयसा तन्नाम्ना पिशाच्या च घटित सयुक्त सयोजितश्च देहो यस्य तथोक्तमपि। देदीप्यमानेन बलेन सत्त्वेन सपन्न समृध्द आशाना तृष्णाना दिशा च जेतारमपि।परार्थाना अपहारे जागरितार प्रवण मागध वैतालिकमपि।मगधाधिप च विगीतव्यापार गानशून्य निन्दितकर्माण च। द्वयोर्मात्रोरपत्य द्वैमातुरम्।'मातुरुत्सख्यासभद्रपूर्वाया' इत्यपत्यार्थे अण् उत्व च।महारथम्।'आत्मान सारथिं चाश्वान्रक्षन्युध्यति यो भट। स महारथसज्ञ स्यात्' इत्युक्तलक्षणलक्षित जरासध पृथिवीनाथमेत्य प्रधन युध्द् ननाथ याचितवान् । नाथते कर्तरि लिट् । अत्र सर्वस्यापि शब्दस्य वीरोवसमुच्चयार्थद्वयाभिवायकतया वीरोधाभासालकार। श्लेषानुप्राणितश्चेति सकर। अत्र पुरा किल केनचिन्मुनिना दत्त फल द्विधा खण्डयित्वा खण्डमेकैक भुक्त्व अर्वमर्व मातृभ्या प्रसूय त्यक्त शरीरखण्डद्वय जरानाम्न्या पिझाच्या एकीकृतजरासवोऽभूदिती पौराणिकी कथानुसधेया। 'वसुधनधान्य-' इति पाठे 'वसू रश्मौ धने वसु' इति कोशात् धनशब्दवैयर्थ्य छेकानुप्रासभङ्गश्चेति बोध्यम्॥

 तत्क्षणमिति।तस्मिन्नेव क्षणे तत्क्षणम्। अत्यन्त्सयोगे द्वितीया।हे कृष्ण,त्व अष्टादशकृत्व अष्टादशवारम्।अभ्यवृत्तौ कृत्वसुच्।द्दष्टापजयोऽसि। लोकैरिति भाव।इतर त्वदन्योऽयमर्जुनस्तु किशोर बाल इति अतितितिक्षया अत्यन्तक्षमया। 'अतितीक्ष्णतया' इति पाठेअतिकोपेनेत्यर्थ। उभा-


रितर किशोर ’ इति कृष्णावुभावप्यवधीर्य हिडिम्बब[४४०]ककुटुम्बशोकोदयादारभ्य प्रवीरजनकर्णिकामौक्तिकायमान[४४१]कीर्तेरात्मन समुखीन दृढतरपरिकरबन्ध [४४२]जरासध ग[४४३]न्धवहनन्दन पञ्चदशदिनानि नियुध्य ते[४४४]षा तृतीयभागप[४४५]रिसख्यानपदाभिधेयेन सह यो[४४६]जयमास ॥

हते तस्मिस्त्रयो दीप्रा हरिप्रस्थमुपाययु ।
आगामिनि मखे हव्यभादित्सव इवाग्नय ॥ ३ ॥
कृष्णे गते यदुपुरी क्षितिपानुजाना
 जित्वा दिश प्रतिनिवृत्तवता चतुर्णाम् ।
कोशे ममु परमसिप्रवरा गृहीता
 दोष्णोर्बलेन महता न तु हेमपुञ्जा ॥ ४ ॥


वपि कृष्णौ कृष्णार्जुनौ अववीर्यं तिरस्कृत्य हिडिम्बबकयो राक्षसयो सबन्विनो कुटुम्बयो दारापत्याद्यो शोकस्य उदयादारभ्य । तदुभयवधात्प्रभृतीत्यर्थ । प्रवीरजनस्य कर्णिका कर्णभूषण तस्या मौक्तिकानीवाचरन्ती मौक्त्तिकायमाना कीर्तिर्यस्य तस्य । अत एव आत्मन स्खस्य । भीमस्येत्यर्थ । तस्थैव मुख्यविशे ष्यत्वादात्मस्वशब्दयोर्व्यवधाने मुख्यविशेष्यपरत्वव्यवस्थापनाचेति भाव । समु खीनम् । ‘यथामुखसमुखस्य दर्शन ख ’ इति खस्येनादेश । आभिमुख्यभाज दृढतर अतिगाढ परिकरबन्ध हस्तन्यासविशेष सव्यदक्षिणपाण्योर्निकुड्य दक्षिणसव्यभुजाग्रविन्यसनात्मक यस्य तम्। परिकरो मध्यबन्ध इति केचित् । जरासव गन्धवहनन्दनो भीम पञ्चदशदिनानि नियुध्य बाहुयुद्ध कृत्वा तेषा पञ्चदशदिनाना तृतीयभागस्य दिवसपञ्चरकस्य परिसख्यान सख्याभिधायक यत्पद पञ्चतेति शव्द तस्य अभिधेयेन वाच्येन । मरणेनेति यावत् । योजयामास सघटितवान् । मारयामासेत्यर्थे । ‘समीरकुमार ’ इति पाठान्तर प्रक्रान्तानुप्रा सभङ्गादुपेक्ष्यम् ॥

 हत इति । तस्मिन् जरासधे हते सति दीप्रा तज्जयेन प्रकाशमाना त्रय कृष्णभीमार्जुना आगामिनि भविष्यति मखे राजसूये हव्य आदातुमिच्छव आदित्सव अज्नय आहवनीयगार्हपत्यदक्षिणाग्नय इवेत्युत्प्रेक्षा । हरिप्रस्थ इन्द्र प्रस्थपुर प्रति उपाययु आगतवन्त ॥ ३ ॥

 कृष्ण इति । कृष्णे यदुपुरीं द्वारका प्रति गते सति दिशश्चतस्रो जित्वा प्रतिनिवृत्तवता इन्द्रप्रस्थ पुनरागताना चतुर्णा क्षितिपस्य वर्मराजस्य अनुजाना भीमादीना दोष्णो बाह्वो महता बलेन सत्त्वेन शौर्येण च गृहीता असिप्रवरा


उपायनत्वेन नृपाय सर्वैर्दत्तेषु वित्तेष्वखिलेषु भूपै ।
पार्थस्य पुर्या क्षितिरेव भेजे वसुधरावाचकवाच्यभावम् ॥ ५ ॥
नरदेवमगाज्जये प्रतीच्या नकुलेनैव[४४७] वसूनि विस्तृतानि ।
दधदानकदुन्दुभिस्वनैर्धा दलयन्नानकदुन्दुभे कुमार ॥ ६ ॥
हरिणा स तत कृताभ्यनुजो हविरादातुमिवागतेन साक्षात् ।
क्र[४४८]मवेदिपुरोधसा समूहै क्त्रतुमाहर्तु[४४९]मुपक्त्रम प्रचक्रे ॥ ७ ॥


पर खङ्गश्रेष्ठा एव कोशे खङ्गपिधाने ममु मिलन्ति स्म । हेमपुजा उपायनत्वेन तत्तद्देश्यराजदत्ता धनराशयस्तु कोशे धनगृहे न ममु । अपरिमितत्वादिति भाव । ‘कोशोऽस्त्री कुड्भ्ले खङ्गपिधाने धनवेश्मनि’ इति विश्व । अत्र हेमपुञ्ज्ञाना खङ्गना च प्रसक्तस्य कोशमिलनस्य खङ्गमात्र एव नियमनात्परिसख्यालकार । स च कोशशब्दश्लेषभित्तिकालब्धखङ्गपिधानधनगृहृभेदाध्यवसायमूलातिशयोक्तयनुप्राणित इति द्वयोरङ्गाङ्गिभावेन सकर । वसन्ततिलकापृत्तम् ॥ ४ ॥

 उपायनत्वेनेति । सर्वे नानादेश्यै भूपै राजभि अखिलेषु वित्तेषु धनेषु नृपाय धर्मराजाय उपायनत्वेन दत्तेषु उपहारीकृत्य समर्पितेषु सत्सु पार्थस्य पुर्या इन्द्रप्रस्थसबन्धिन्या क्षिति भूमिरेव वसुधरेति वाचकस्य पदस्य वाच्य्भाव अभिधेयत्वम् । वसु धरतीति व्युत्पत्त्या धनधारणरूप भेजे प्राप । सर्वत्र सर्वै सर्वस्वस्यापि राज्ञे दत्तत्वेन वसुरन्यत्वादिति भाव । अत्रापि वसुधरत्वस्यान्यत्र निषिध्य पार्थंपुरभुव्येव नियमनात्पूर्ववत्परिसख्यालकारस्य असबन्धे सबन्धरूपातिशयोक्तेश्च द्वयोरपि धर्मराजसप्रद। नकाखिलनृपकर्तृकसर्वखकर्मकोपायनीकरणात्मकपदार्थहेतुककाव्यलिङ्गमूलकत्वदैककालिकत्वाञ्च समप्राधान्यसकर ॥ ५ ॥

 नरदेवमिति । विस्तृतानि बहूनि वसूनि दधत् गृहन् आनकदुन्दुभे वसुदेवस्य कुमार कृष्ण आनकाना पटहाना दुन्दुभीना भेरीणा स्वनैर्ध्वनिभि धा आकाश दलयन् भिन्दन् । पूरयन् सन्निति यावत् । ‘आनक पटहोऽत्री स्यात्, 'भेरी स्त्री दुन्दुभि पुमान्’ इत्युभयत्राप्यमर । प्रतीच्या दिश जये सति । तद्देश्यान् भूपान् जितवतेत्यर्थ । नकुलेन सहैव नरदेव धर्मराज अगात् प्राप्तवान् । औपच्छन्दसिकम् ॥ ६ ॥

 हरिणेति । तत कृष्णागमनानन्तरं स धर्मराज साक्षात् मूर्तीभूय हविरादातुमागतेनेव स्थितेन हरिणा श्रीकृष्णेन कृताभ्यनुज्ञ सन् । क्रतुकरणायेति शेष । क्रमवेदिना तत्तत्कर्मतदनुष्ठानपौर्वापर्यविदा पुरोधसा ऋत्विजा समूहै। सह क्रतु राजसूय आहर्तु कर्तु उपक्रम आरम्भ प्रचक्रे । ‘क्रमवेदिभिर्त्रश्क्त्विजा'


प्राग्वशेऽप्युत्त्मे तिष्ठन्प्राग्वश पुनराविशन् ।
कुरीरषिरसा पव्या कुरूवीर स दीक्षित ॥ ८ ॥
[४५०]ध्रातुमिच्छुरनलो हविरत्र रूच्य-
 मानीलघूमकुलनिर्ग[४५१]मनापदेशात्।
जग्धान्पुरा जतुनिकेतनभित्तिखण्डा-
 न्कुक्षिस्थितनिव ववाम गुरूनजीर्णान् ॥ ९ ॥
तत्र प्रवर्ग्यजनित दिवि धूमचक्त्र-
 मालक्षन्यते स्म विबुधान्प्रति पावकेन ।
आनाकदुर्वह्ह्विविरर्द्रविणेन वेगा-
 दाव्हानपत्रवलय किल नीयमानम् ॥ १० ॥


इति पाठस्तु षट्कलानियतस्य वैतलीयविषमपादस्य कलाधिक्येन च्छन्दोभ ङ्गदुपेक्ष्य ॥ ७ ॥

 प्राग्वश इति।उत्तमे प्रग्वशे हूविर्गेहे तिष्ठन्न्पीति विरोघ । प्राचां कुरू ययात्यादीना राज्ञा वशे राग्न्या वशे तिष्टक्ष्वेत्यभसा । दीक्षित स कुरूवीर धर्मराज कुरीर जाल शिरसि यस्यास्तया पव्या द्रोपधा सहू प्राग्वश पुन हूविर्गेहू आविशत्र विष्ट्वान्॥८॥

 आघ्रातुमिति।अनल अग्नि अत्र राजसूये रूच्य आखाध हवि आघ्रा तुम् । भक्षितुमित्य्रर्थ । इच्चु सन् । पुरा लाक्षागृह्दाह्समये जग्वान् भाक्षि तान् गुरून् अतिसारान् अत एव अजीर्णान् जाठराग्निना अपक्कान् कुक्षौ स्थितान् । जतुनिकेतनस्य लाक्षाग्रह्स्य भित्तीना खण्डान् आसमन्तान्नीलस्य धूमकुलस्य यन्निर्गमन बहिरूद्रमन् तस्य अपदेशात् व्याजात् ववाम् उद्रिरति स्मे स्युत्प्रेक्षा सापहवा च । अत्र अग्नेरजीर्णजतुगृहभित्तिखण्डवमनोत्प्रेक्षायास्तृतं यस्तबके 'क्षुत्प्रपीड्यति मामपि वीरौ कुक्षिभेत्य' इति खाण्डवदाह्हेतुताया अप्रे क्षुद्वाधायाक्ष्च सदर्भविरोध लूक्ष्मधीगोचर । वसन्ततिलकावृत्तम्॥ ९ ॥

 तत्रेति।तत्र राजसूये प्रवर्ग्येण होमात्मककर्मविरोषेण जनित दिबि आकाशे धूमस्य चत्रू वलयाकृति पृन्दम् । नाकस्य स्वर्गस्य पर्यन्त आनाकं दुर्वह् वोडुम शक्य हविरेव द्रविण धन येन तेन । अत एव पावकेन विबुघान् देवान् प्रति वेगात् नीयमान प्रापयमाण् आह्रानस्य पत्र लेख्यमिवेत्युत्प्रेक्षा । प्रक्रुतिविक्रुति भावाभावात्तादर्थ्ये षष्टीसमास । आलक्ष्यते । स्म दद्रशे । लोकैरिति शेष ॥ १० ॥


मेदस्विन विपुलखाण्डवभक्षणेन
 देह निज चलयितु शिखिनोऽक्षमस्य ।
उद्गम्य सज्वलितुमुत्तरवेदिकाया-
 मालम्बनाय किल यूपवरोअन्तिकेऽभूत् ॥ ११ ॥
बिम्बेन सङ्ग बिसपुष्पबन्धोर्नाथ कलाना न यथा विदच्चात् ।
तथैव देवास्ततृपुस्तदानीमत्यद्रताना ह[४५२]विषा विरोषै ॥ १२ ॥
सर्वेषु वरणेष्वपि दातुरस्मात्सप्राप्तवत्स्वर्थमजातशत्रो ।
न वर्ण एकस्तु कदापि लेभे नार्थ क्त्रतूनामिह सार्वभौमे ॥ १३ ॥

 तत्र नानाजनपदमेदिनीवल्लभमल्ल्मुकुटमणिकिरणपल्लविते यज्ञ-


 मेदस्विनमिति । विपुलस्य अतिविस्तारस्य स्वाण्डवस्य वनस्य भक्षणेन मेदस्विनमतिमासल निज देह चलयितु अक्षमस्य असमर्थस्य शिखिन अग्ने । आहवनीयस्येति यावत् । उद्गम्य उत्थाय गत्वा उत्तरवेदिकाया सम्यक् ज्वलि तुम् । अन्तिके । आहवनीयायतनोत्तरवेदिमद्द्य इत्यर्थ । आलम्बनाय किल अवलम्बनायेवेत्युत्प्रेक्षा । यूपवर यज्ञियस्तम्भविशेषु पशुबन्वनीर्थ अभूत् वर्तते स्म ॥ ११ ॥

 बिम्बेनेति । कलाना नाथ चन्द्र बिसपुष्पाणा पद्माना बन्धो सूर्यस्य बिम्बेन मण्दलेन सङ्ग् मेलन यथा न विदघ्यातू न कुर्यात् नथ नदानीं देवा अभ्यादय अत्यद्बुताना हविषा विरोषैरेव । न तु चन्द्रकलामभिरित्यर्थ । ततृपु तुयन्ति स्म । राजसौयिकात्यद्बुतहविर्भक्षणपूर्णोदराणा चन्द्रकलापानप्रसक्तयभावे सार्वकालिकपूर्णबिम्बतया चन्द्रस्य सूर्यबिम्बसङ्ग कलामात्रशेषलभ्य न प्रमज्यत एवेत्यर्थ । अत्र देवाना ताह्शतृप्त्यसबन्धेऽपि सबन्धोत्क्तेरतिशयोक्ति । तया चैष राजसूयो लोकोत्तर इति प्रतीतेरलकारोण वस्तुध्वनि ॥ १२ ॥

 सर्वेष्विति । इह ऋतूना सार्वभौमे राजसूये, वर्णेषु सर्वषु व्राह्मणादिषु आकारद्यक्षरेषु च दातुरस्मादजातशत्रो वमराजदर्य वन अमिघेय च सप्रा प्तवत्यु सत्खपि ।एक नवर्ण नकारस्तु अर्थ धन निषेव चाभिधेय कदापि न लेभे । एको वर्णो न लेभ इति नेति च । 'वर्णो द्विजादौ शुक्लदौ स्म्रुतौ वर्ण तु वाक्षरे,' 'अर्थोअभिधेयरैवस्तुप्रयोजनसम्रुद्दिषु' इत्युभ्यदिप्यमर । अत्र सर्व वर्णसुलभार्थदातृरुपसामग्रीसत्वेऽपि नवर्णस्यार्थप्राप्तिरूपकार्यानुप्त्तेविशेषोत्किर् लकार । स च कुलाक्षरयोनाभिधेययोक्ष्च क्ष्लेषभित्तिकाभेदाध्यवसायमूलातिशयो त्त्यनुप्राणित इति तयोस्तस्य चाङ्गाङ्गिभावेन सकर ॥ १३॥

 तक्षेति । नानाजनपदाना समस्तदेशाना ये भेदिनीवल्लभमल्ला राजक्षेष्टा तेषा मुकुटेषु किरीटेषु मणीन किरणै कान्तिभि पल्लविते रञ्जिते तत्र तस्मिन्


वाटे त्रिपथ[४५३]गापृथातनूजाभ्या नियुक्तो वैमत्रेयैर्भ्रातृभिर्जतुभवनबनसवनेषु पृथक्प्रुथगारधिततया स्वेनाध्यातिध्या[४५४]यामक्र्यमाणेन

वीतिहोत्रेणेव ज्वलता हेमपात्रेणा परिष्क्त्रियमाणपाणितल सहदेवो निखिलभक्तजनकृत्यनिर्व[४५५]हणभारेणेव[४५६] निभृतावयव सभ्यलोकलोचनपक्ष्म[४५७]युगलपङ्क्तिपरस्परवैमुख्यवदान्यरूपकोमलिमान महर्षिजनवलयमध्यमहेन्द्रनीलरत्न चि[४५८]रतन पुमास स[४५९]मासाध प्रथममर्घ्येण् परिपूजयाचक्रे ॥

तावत्प्रकोपात्तरलाधरस्य प्रतिक्षितीशानभयानकस्य |
वेदीभुव तत्र विहाय बहिन्क्ष्चेदीशितुक्ष्चित्त्मिवावेश ॥ १४ ॥

सदसि न विकृतो यदच्युतोऽभूत्स तु परुषाक्षरमण्डलेन शत्रो |


यशवाटे राजसूयशालाया त्रिपभगातनूजेन भीष्मेण पृथातनूजेन धर्मराजेन च द्वाभ्या नियुक्त 'कृष्णमग्रे पूज्य' इत्वाज्ञप्त | विरुद्धाया मातुरपत्यै वैमात्रेयै भ्रातृभि भीमार्जुनयुधिष्ठिरै क्रमेण जतुभवने वने खाण्डवे सवने राजसूये च तेषु पृथक् प्रुथक् प्रत्येक प्रत्येक आराधिततया सतर्पितत्वेन स्वेनात्मनापि आति थ्याय पूजनाय आमन्यवमाणेन आहूयमानेन वीतिहोत्रेण अग्निनेव स्थितेनेत्यु त्त्रेक्षा| ज्वलता हेममात्रेण परिष्कियमाण अलक्त्रियमाण पाणितल यस्य स | निस्विलाना भक्तजनाना यानि कृत्यानि कार्याणि काङ्तितानि तन्निर्वहणेन् सपा दनेनैव भारेणेवेत्युत्प्रेक्षा| निमृता निक्ष्चला अवयवा यस्य तम् | सर्वस्मादग्रपू जनेऽप्यनुध्दतमिल्यर्य | सभाया साधु सम्य स चासौ लोक जन तस्य लोच‌नाना यानि पक्ष्म्युगलानि तेषा पङ्लथो परस्परवैमुख्यस्य अनभिमुखत्वस्य | निर्निमेषत्वस्येति यावत्| वदान्यो दाता रूपकोमलिना शरीरसौन्दर्य यस्य तथोक्तम् | निर्निमेषदर्शनीयसौन्दर्यमित्यर्थ | महर्षिजनस्य वलय मण्डलमेव कटकाभरण तस्य मध्ये महेन्द्रनीलरत्नमिति क्ष्लिष्टापरम्परितरूपकम् चरंतन पुमास पुराणपुरुष क्षीकृष्ण समासाध अर्धेण प्रथम सर्वेभ्य आदौ परिपूजयाचके परि पूजितवान् । रूपकोत्प्रेक्षयो ससृष्टि ॥

 तावदिति । तावत् तत्क्षणमेव प्रकोपात् कृष्णस्याग्रपूजनजन्यात् तरलो अधरौ ओष्टौ थस्य तस्य अतएअव त्रतिक्षितीशाना प्रत्यर्थिवाना भयानकस्य भयकरस्य चेदीशितु शिशुपालस्य चित्त वहि यज्ञिय तत्र यज्ञवाटे वेदीभुव आयतनप्रदेश विहाय आविवेशेवेत्युत्प्रेक्षा । 'परवृद्धिमत्सरमनो हि मानिनाम्' हति न्यायदिति भाव ॥ १४ ॥

 सदसीती । यत् यस्मात् स अच्युत कृष्ण्स्तु शत्रो शिशुपालस्य परु-


[४६०]हिरवसदुपेत्य तचछ्र्वोभ्या बहुतरकुण्डलनीलरत्नलक्ष्यात् ॥ १५ ॥

अक्ष्लीलवागिह् [४६१]समाप्तिमती न वेति
 सद्रष्टकाममिव दानववैरिचत्रम् |
कल्पान्ततिग्मकरकल्पमनल्पवेग
 कण्ठे बिभेद् र[४६२]णकर्मणि दामघोषम् ॥ १६ ॥

 इति तस्य दुर्मतेरायुषा सह समापिते सवनकर्मणि निर्मितावभृथाप्लवनमुपदात्वेन द्त्तपूर्वाणि वित्तान्युतमर्णानिव पुनर्द्विगुणमेव ग्राहितान्सर्वानुर्वीपतीन्प्रस्थापितवन्त पौरव तमनुप्य चैद्य‌निधनोत्सवेन सुदर्शनस्येव [४६३]स्वपुरचनस्यापि नवास्त्रकणिकार्द्रतामनु[४६४]भवितुमना इव सनातन पुमान्पुरी पुरानुभूतकुशस्थलीनाभ्नी प्रतस्थे ॥


षाक्षरमण्डलेन निषूरवक्यपृणन्देन सदसि मनसीति वा विकृत स्ष्ट् नाभूत्| तत् तस्मत् कारणात् तत् परुषाक्षरमण्डल उपेत्य शिशुपालात् कृष्ण् प्रथ्यागथ्य तस्य कृष्णस्य श्रवेभ्या कर्णाभ्य बहि बहुतराणा कुण्डलयोनींलरत्नाना लक्ष्यात् व्याजात् अवसत् अवर्त्ततेवेत्युत्प्रेक्षा व्यजकाप्रयोगाद्गम्या सापहवा च |नीचा वमानो न महता कोपाथेति भाव | पुष्पिताग्त्रा ॥ १५ ॥

 अश्लीलेति | नत कल्पान्ततिग्मकरकल्प प्रलयार्कतुल्य अनल्पवेग दान ववैरिणा श्रीकृष्णास्य चक्र ( कर्त्तृ ) इह शिशूपालकण्ठे अश्लीलवाक् निष्ठुरवाक्य समाप्तिमति समाप्ता वा न समाप्तिमतिवेति सद्रष्टु कामो यस्य तथोक्तमिवेत्युत्प्रेक्षा| रणकर्मणि वाक्कलहे दमघोषस्यपत्य दामघोष शिशुपाल कण्ठे बिभेद ॥ १६ ॥

 इतीति | इति उक्त्प्रकारेण दुष्टा मति बुद्धि यस्य तथोक्तस्य तस्य शिशुपालस्य आयुषा जीवितकलेन सह सवनकर्मणि राजसूये समापिते समाप्तिं नीते सति | निर्मि अवभृथे दीक्षान्ते आप्लवन येन तथोक्त् उपदात्वेन उपायन त्वन पुर्व द्त्तपूर्वाणि |स्वस्मा इति शेष | वित्तानि धनानि द्विगुण यथा तथा ग्रहितान्| ग्रहेण्य्रान्तात्कर्तरि क्त| अत एव उत्तमर्णान् ऋणप्रदातघ्निव स्थिवान्| तेषामेव द्त्त्द्विगुणग्राहित्वादिति भाव| सर्वान् उर्वीपतीन् राज्ञ प्रस्था पितवन्तम् | निजनगरेभ्य इति शेष | त पौरव पुरुवश्य धर्मराज अनुज्ञाप्य गच्छा‌मीत्यापृच्छ्य सनातन पुनातन पुमान् पुरणपुरुष कृष्ण चैधस्य शिशुपालस्य निधनेन मरणेन य उत्सव तेन सुदर्शनस्य चक्रस्येव स्वस्य पुरे द्वारकाया जनाना लोचन स्यापि | जात्येकवचनम् | नवाभिरस्त्रकणिकाभि आनन्दाश्रुबिन्दुभि शोणित बिन्दुभिश्व आर्द्रता सेक अनुभवितु द्रुष्ट्रु मनो यस्य् तथोक्त इवेत्युत्प्रेक्षा | 'अस्त्र


अन्धभूपतनयोऽपि बलोघैर्हास्तिन् पुरमवाप्य विलक्ष ।
सौबलि गिरमसौ बलवन्त दुर्विचाररचनासु चचक्षे ॥ २७ ॥
 अग्नेरपत्यमिति हेम यदाहुरेत-
  न्मिध्या न मातुल विरोधिमखेऽनुभूतम् |
 तत्स्मर्यमाणमखिलक्षितिपोपनीत
  नक्तदिव दहति चित्तमिद यतो मे ॥ १८ ॥
 वल्गत्कुच परिजहास सभावलोके
  मा द्रौपदी मणिभुवि स्खमलित यदुञ्चै |
 तत्साधुजातमिति वक्तुमिव स्नुषा स्वा
  मत्प्राणवायुरयमुत्क्रमणेच्छुरास्ते[४६५] ॥ १९ ॥


मक्षुणि शोणिते इति विक्व | पुरा क्रुष्णावासात् पूर्व अनुभुत स्वीकृत कुशस्थलीति नाम यस्यास्ता पुरी अधुना द्वारकानाम्नी प्रति प्रतम्ये प्रस्थितवान् | 'अनुमावयितुमना इव' इति पाठेऽप्युक्त एवार्थ | 'पौरवन्त पौरव तम्' इति कचित्पाठ | पौरा एवास्य सन्तीति पौरवन्त पौरमात्रशेषमित्यर्थको व्यर्थविशेषणत्वादुपेक्ष्य ॥

 अन्धेति | असौ अन्धभूपतनयोऽपि दुर्योधनोऽपि बलाना चतुरङगाणा ओघै वुन्दै हस्तिना निर्मित हास्तिन पुरमवाप्य विलक्ष वर्मराजैक्ष्वर्य इष्टवा विस्मयान्वित सन् दुर्विचाराणा दुरालोचनाना रचनासु करणेषु बलवन्त समर्थ सुबलस्यापत्य सौबल शकुनि प्रति गिर वाच वक्ष्यमाणा चचक्षे उक्तवान् | चष्टे कर्तरि लिट् | स्वागता ॥ १७ ॥

 अग्नेरिति | हे मातुल मातृभ्रात शक्रुने, हेम सुवर्ण अग्नेरपत्य अग्निजन्यमिति यदूक्यमाहु | जना इति शेष | एतदूक्य न मिथ्या नानृतम् | यत कारणात् अखिलै क्षितिपै राजभि उपनीत समपित तेम्य करत्वेनानीतमिति वा | विरोधिनो ज्ञाते धर्मराजस्य मखे राजसूये अनुभूत इष्ट तदिदै अग्निजस्त्र हेम स्मर्यमाण सदेव | मयेति योज्यम् | मे मम चित्त नक्तदिव रात्रिंदिवम् | 'अचतुर-' इत्यादिना निपात | दहति | चित्तससताप जनयतीत्यर्थ | ततो न मित्येति योज्यम् | अत्र 'कारणगुणा हि कार्यगुणानारभन्ते' इति न्यायात् 'आत्मा वै पुत्रनामासि' इति क्षुतेर्वा | अत्र प्रसिध्यमानतापकत्वप्रतिपादकोत्तरवाक्यार्थेन हेम्रोऽग्निजन्यत्वसमर्थनाद्वाक्यार्थहेतुक काव्यलिङगम् | मनोव्ययादाहयो क्ष्लेषभित्तिकाभेदाध्यवसाखमूलातिशयोत्तयनुप्राणितमिति द्वयोरङगाङ्गिभावेन सकर ॥ १८ ॥

 वल्गदिति | किच सभाया मणिमयसभाया अवलोके दर्शनसमये मणिभुवि वज्रकुतट्टिमे स्खलित स्थले जल जले स्थल भ्रान्तम् | माम् | इष्टूएति शेष |


 अधुना युधि सेनामिर्वि[४६६]धुन्वानो ध[४६७]रातलम् ।
 विधा[४६८]य निधन ते[४६९]षा निगृहीयाभिमा शुचम् ॥ २० ॥
इति निगद्य व्रीडाव्यथानद्यो सगमे निमग्नमेनमभग्नकैतव[४७०]बन्धु गान्धारपतिरुत्तारयितुमेवमुत्तरमादत्त ।
जय्यता कथमुपैति तेऽर्जुनो वत्स यद्युधि भयात्पलायिता ।
केवल हरिमुखा न नामतो वेगतोऽपि मरुतोऽभवन्सुरा ॥ २१ ॥
अपि च ।
 त वीक्षितु जगति शन्कुयुरत्र के वा
  भीम प्रकोपधृतभीमगदाङ्कवाहुम् ।


द्रौपदी वल्गन्तौ हासक्षोभात् चलन्तौ कुचौ यस्मिन् तधथा तथा । उञ्चै परि जहास हासमकरोदिति यत्, तत् परिहसन साधु उचित जातमभूदिति । स्वा स्वीया स्नुषा पुत्रपत्नी प्रति वक्तुमिवेत्युत्प्रेक्षा । अय मम प्राणमयो वायु उत्क्र मणेच्छु निर्गमनेच्छावान् सन् आस्ते । परैरवमानो मानिना मरणादतिरिच्यत इति भाव ॥ १९ ॥

 अधुनेति । अतोऽहमधुना सेनाभि चतुरङ्गाभि धरातल भूतल विधुन्वान कम्पयन् सन् युधि युद्धे तेषा विरोधिना धर्मराजादीना निधन मरण विधाय कृत्वा इमा शुच शोक निगृहीण्या निरुन्ध्याम् । गृहाण्तेनिपूर्वाद्विध्यर्थे लिड् ॥ २० ॥

 इतीति । इति उक्तप्रकारेण निगद्य उक्त्वा व्रीडाव्यथे लज्जादु खे एव नधौ तयो सगमे निमग्न एन दुर्योधन उत्तारयितु तीर प्रापयितु अभग्नस्य अप्रतिहतस्य कैतवस्य अक्षविद्याया बन्धु । तत्र कुशल इत्यर्थ । गान्धारस्य देशविशेषस्य पति राजा शकुनि एव वक्ष्यमाणप्रकारेण उत्तरं प्रतिवाक्य एकं उत्तीर्यतेऽनेनेत्युत्तर प्लवमिति क्ष्लिष्टरूपकम् । ‘ऋदोरप्’ इत्यपू। आदत्त गृहीत । ददातेराड्पूर्वात् कर्तरि लड् । श्लिष्टाश्लिष्टपरम्परितरूपकम् ॥

 जय्यतामिति । हे वत्स दुर्योवन, ते । त्वयेत्यर्थं । अर्जुन जेतु शक्यो जय्य तस्य भाव तता कथमुपैति । नोपैत्येवेत्यर्थ । कुत यस्यार्जुनस्य युधि भया त् पलायिता । खाण्डवदाहसमय इत्यर्थ । हरिमुखा इन्द्रादय सुरा नाम त केवल नाम्नैव मरुत नाभवन् कितु वेगत पलायनवेगादपि मरुत वायव अभवन् । ‘मरुद्देवे समीरणे' इति विश्व । सोऽर्जुन इति योज्यम् । उत्तरवाक्यार्थहेतुक काव्यलिङ्गम् । रथोद्धता ॥ २१ ॥

 अपि च । इत्युत्तरेणान्वय ॥

 तमिति । अपि च किं च प्रकोपात् धृता भीमा भयकरा च गदा अङ्क चिह्न


 एकैकमुष्टिहतये स्म भवन्ति नाल
  यस्याहवे बकवृहद्रथभूहिडिम्बा ॥ २२ ॥
ताभ्यामुपास्यमानस्य [४७१]तपसस्तनुजन्मन ।
व्यापादेऽपि प्रसक्ति का विशेषात्त[४७२]ड़शा रणे ॥ २३ ॥
 तथाप्यह तु तव च[४७३] तेषा च [४७४]परस्पर विभवे [४७५]परिपणनपदाधिरोहिणि क्षणादक्षममाणेन जगत्सामान्यतामक्षसप्रदायेन त
पराजयघण्टापथे सचारयिष्या[४७६]मि ॥
 वित्ते हृते दरिद्रास्ते विसृष्टा बन्धुभि स्वयम् ।
 विनाश वा शुचा यायुर्विदेश वाथ लज्जया ॥ २४ ॥


यस्य तादृशो बाहुर्यस्य तथोक्त त भीम वीक्षितुम् अत्र जगति लोके के वा शकुयु समर्था । न केऽपि शकुयु । कुत यस्य भीमस्य आहवे युद्धे एकैक्स्यैव मुष्टिहृतये मुष्टयाघाताय बकोऽसुर , बृहद्रथभू जरासध , हिडिम्बोऽसुरश्च, ते त्रय अल पर्याप्त न भवन्ति स्म । अत्रापि पूर्ववत्काव्यलिङ्गम् ॥ २२ ॥

 ताभ्यामिति । ताभ्या भीमार्जुनाभ्या उपास्यमानस्य पार्श्वद्वये सेव्यमानस्य स्खय तपसस्तनुज-मन यमपुत्रस्य व्यापादे द्रोहचिन्तन एव प्रसक्ति का । नास्तीत्यर्थ । विशेषात् तत्रापि तानिव पश्यन्तीति तादृशा लोकैकवीराण सबन्धिनि रणे प्रसक्ति का । दूरतोऽपास्तेत्यर्थं । उभयत्रास्माकमिति शेषअत्र युधिष्ठिरे विशेषणद्वयस्य लोकैकाजग्यभिप्रायगर्भत्परिकरालकार । एव द्रोहचिन्तनमात्रस्याप्यसभवोक्तया रणे प्रसक्तयभावस्य कैमुतिकन्यायसि द्धादर्थापत्त्यलकरश्च । द्वयोस्तिलतण्डुलन्यायेन मेलनात्ससृष्टि ॥ २३ ॥

 तथापीति । तथापि तेषामजग्यत्वेऽपि तेषा युधिष्ठिरादीना विभवे भाग्ये तव विभवे च परस्पर परिपणन द्यातपण तस्य पद स्थान अधिरोहतीत्यधिरो हिणि सति । पणखेन निदिष्टे सतीति यावत् । अह तु जगत सर्वस्य सामान्यता साधारण्य अक्षममाणेन असहता । अनन्यसामान्येनेत्यर्थः । अक्षविद्ययन सप्रदायेन शिक्षानैपुण्येन त वर्मराज पराजय एव घण्टापथ राजमार्ग तस्मिन् ऋणात् सचारयिष्यामि । शृतेन सर्वमपहरिष्यामीत्यर्थं ॥

 वित इति । वित्ते सर्वस्वे हते सति । घृतेनेति शेष । अनन्तरं दरिद्रा ते पाण्डवा बन्धुभि मातृपुत्रादिभिरपि स्वय विसृष्टा सन्त शुचा धनस्खजनत्याजन्येन शोकेन विनाश वा यायु गच्छेयु । अथवा लज्जया विदेश परदेश वा यायु ! ‘परिम्लाने माने मरणमथवा दूरगमनम्’ इत्युक्तत्वादिति भाव । अत्र विनाशविदेशयोरेकदा गन्तुमशक्यत्वाद्विकल्पालकार - 'विरोधे तुल्यबलयोर्विकल्पालकृतिर्मता' इति लक्षणात् ॥ २४ ॥


 त्व ततस्तु सुखमात्मसयुतै सोदरै सद्दशसख्यका स्मा।
 नीरराशिहरिनीलमेखला नि सपत्रमनुभुड्रक्ष्व सोदिनीम्॥ २५ ॥
 इत्त्थकार रहसि क[४७७]ल्पिते कैतवदुरध्वे तावुभावप्यनुघावितु
दिव्यचक्षुषा तेनान्धेन वसुधराधिपतिना नवमणिमण्डपिकाप्रवेशोत्सवन्याजादाहूत सानुजो [४७८]धर्मज कुरुपत्तनमुपेत्य बन्धुतया
प्रत्युद्र्म्यमानो दुस्तर भाविवनवासघर्षमेकैकेन[४७९] प्रणिपातपुप्येन सुप्रतर करिष्यन्निव पितृव्य द्वाद्शकृत्व पादयो प्राणसीत् ॥
 अवभृथाम्बुकणैरिव नूतनैरधिगतामथ [४८०] जालकमौक्तिकै ।
 स्वकबरी द्रुपदस्य सुतापि सा सुबलजापदयो [४८१]समनीयत ॥ २६ ॥


 त्वमिति। तत पाण्डवानामुक्तद्वयान्यतरप्राप्त्यनन्तर त्व तु नीरराशि सभुद्र एव हरिनीलमेखला इन्द्रनीलमयकाश्री यस्यास्ता मेदिनीं भुमिं आत्मना सयुतै सोदरै अनुजै। सद्दशी तुल्या सख्या शतखत्मिका यासा ता सद्दश- सख्यका। समा शतसवत्सरान्। शैषिक कपूप्रत्यय । 'आपोऽन्यतरस्याम्' इति वैकल्पिको हस्व। नि सपत्न नि शत्रुक अनुभुड्क्ष्व पालय। भुजेर्विघ्यार्ये लोट्। रथोद्धता॥ २५ ॥

 इत्थमिति। रहसि इत्यकार उक्तप्रकारम् । आलोचन कृत्वेत्यर्थ। 'अन्ययैवक्थमित्थसु सिद्धाप्रयोगक्षेत्' इतीत्यमुपपदात्करोतेर्णमुल् । कल्पिते । शकुनिदुर्योघनाम्यामिति शेष। कितवस्य भाव कैतब तस्मिन्नेव दुरध्वे कुमार्गे । 'वूर्तोक्षदेवी- कितव' इत्यमर। तावुभौ शकुनिं दुर्योधनमपि अनुघावितु अनुसृत्य वेगेन गन्तु दिव्य ज्ञानमय चक्षु यस्य तेन । ताभ्या दुष्टभाव गमितेनेत्यर्थ। अन्धेन बसुधराधिपतिना घृतराष्ट्रेण नवाया धूतार्थ निर्मिताया मणिमग्या मण्डपिकाया सभाया प्रवेशोत्सवस्य व्याजात् व्याज् कृत्वा । त्यब्लोपे पञ्चमि। आहूत सानुज धर्मज युधिष्टिर कुरूपत्तन हास्तिनपुर उपेत्य वन्धुतया बन्धुसमूहेन । क्ष्युद्नम्यमान क्रियमाणप्रत्युत्थान सनू। दुस्तरं तरितुमशक्य भाविनि धूते पराजयेन भविष्यति वनवासे एकैक वर्ष सवत्सर एकैकेन प्रणिपातेन यत्पुण्य तेन सुप्रतर करिष्यन् कर्तुमिच्छन्निवेत्युत्प्रेक्षा। पितृव्य पितृभ्रातर धृतराष्ट्र पादयो द्वाद्शकृत्वा द्वादशवार प्राणसीत् प्रणतवान्। प्रपूर्वान्नभते कर्तरि लुड् ॥

 अवभृथेति। अथ सा द्रुपदस्य सुता द्रौपधपि नूतनै प्रत्यग्रै अवमृथस्य राजसूयावभृयस्नानस्य सबन्धिभिरम्बुकणैरिव स्थित जालके नाम केशभुषणे भौक्तिकै अधिगता सगता खस्य कवरी केशपाश सुबलजाया गान्धार्या पद्यो समनीयत प्रापयति स्म। नमक्ष्चक्त्र इत्यर्थ । अत्र धावल्यगुणनिमित्ता भौक्तिकेघ्ववसृथाम्बुबिन्दुत्वोत्प्रेक्षा ॥ दुतविलम्बित वृत्तम् ॥ २६ ॥


अनुजामिरनामयानुयुक्तेरभिनन्द्य क्रतुलाभलालनाभि ।
सदनाय ससर्ज त विनीत स वृताकारनिगूह्ननो महीप ॥ २७ ॥
 तावन्मदीयतनुभेदिभटान्तहेतु-
  र्वैर मिथ प्रभविता कुरुभूभुजा श्व ।
 इत्यन्तरा[४८२] हतशुचेव दिशि प्रतीच्या
  मन्दायमानमहसा रविणा निपेते ॥ २८ ॥
 दिग्धे सतमसै सान्दैर्दिशापदिशचत्वरे ।
 सर्व्रा प्रजास्तदा रा[४८३]ज्ञा समारुक्षन्डशा तुलाम् ॥ २९ ॥
मनुजावलीनयनवमेने पुनर्मघवादिदेवममभावगोचरा ।
ककुभो विभेजुरमृताशुभानव क्षणमेव त [४८४]प्रथमशैलरोहिण ॥ ३० ॥


 अनुजाभिरिति । धूत आकारस्य कपटभावजनितचेष्टाया निगूहन आच्छादन येन स तथोक्त स भहीप धृतराष्ट्र अनामयस्य आरोग्यस्य अनुयुक्ते प्रश्नस्य अनुजाभि । आनन्तर्येणोञ्चरिताभिरित्यर्थ । ‘ब्राह्मण कुशल पृच्छेत्क्षत्रबन्धुमनामयम्’ इति स्मरणादिति भाव । ततो राजसूयस्य यो लाभ अनु ष्टान तत्सबन्धिनीभि लालनाभि प्रशसाभि अभिनन्द्य क्ष्लाधित्वा विनीत विनयान्वित धर्मराज सदनाय उपकार्यायै ससर्ज प्रेषितवान् । औपच्छन्दसिकम् ॥२७॥

 तावदिति । तावत् तदानी श्व परस्मिन् दिने मदीयायास्तनो मण्डलस्य भेदिना भटाना अपरावर्तिना अन्तस्य मरणस्य हेतु । ‘द्वाविमौ पुरुषौ लोके सूर्यमण्डलभेदिनौ । युद्धे परावृत्य मृत शिरो योगाद्भिनत्ति य ॥’ इति स्मरणादिति भाव । कुरूणा कुरुवश्याना भूभुजा राज्ञा पाण्डवाना धार्तराष्ट्राणा च मिथ अन्योन्य वैरं विरोव प्रभविता प्रकर्षेण भविष्यतीति हेतो । अन्त मनसि आहता सगता शुक् दु ख यस्य तेनेवेत्युत्प्रेक्षा । मन्दायमान क्षीयमाण मह तेजो यस्य तेन रविणा सूर्येण प्रतीच्या दिशि निपेते पतितम् । पतेर्भावे लिट् ॥ २८ ॥

 दिग्ध इति । तत सान्द्रै सतमसै तमोभि दिशाना अष्टाना अपदिशाना तन्मध्यभागाना च चत्वरे प्राङ्गणे दिग्धे लिप्ते सति तदा सर्वा प्रजा दृशा अन्धीभूतया राज्ञा तुला वृतराष्ट्रसादृश्य समारुक्षन् प्राप्नुवन् । रुहे कर्तरि लुड् उपमालकार ॥ २९ ॥

 मनुजावलीति। तत अमृताशो चन्द्रस्य भानव किरणा प्रथमशैलात् उदयात् रुहन्तीति रोहिण तस्मादाविर्भूता सन्त त क्षणम् । तस्मिन्नेव क्षण इत्यर्थं । अत्यन्तसयोगे द्वितीया । मनुजावल्या प्रजावृन्दस्य नयनयो वर्त्मने ।


अथोपकार्यामघितिष्ठतोऽस्य सदर्शनायानिश्मापतद्बि ।
अशेषपौरैरतिबा[४८५]ल्यमित्रैरशेषि किचित्र्न तया रजन्या ॥ ३१ ॥
 धर्मजन्मा तत कर्म निर्मायाहर्मुखोचितम् ।
 सभा स भासुरा पौरैर्भूपै[४८६]श्वापाक्षवेदिमि ॥ ३२ ॥

 तत्र चित्रीयमाणेष्वनल्पचतु[४८७]रिमजल्पाकेषु सभशिल्पेषु घ्श् परिकल्पयत प्रजा[४८८]हश निकषा मूर्ते [४८९]तृतीयगुण इव दिविषघ्षभ-


प्रचारायेत्यर्थ । मघवा इन्द्र आदि येषा ते देवा इन्द्रग्न्यादय तेषा मम भावस्य खीयत्वस्य गोचरा विषया ककुभ दिश पुनविभेजु । इयमैन्द्री इय माग्नेयी इत्यादिना विभागमकुर्वन्निल्यर्थ । पूर्व तमोभिस्तासामेकीभूतत्वादिति भाव । मञ्जुभाषिणी ॥ ३० ॥

 अथेति । अथ् चन्द्रोदयानन्तरम् । उपकायामघितिश्ह्ठत वर्तमानस्येत्यर्थ । 'अधिशीङ्स्थासा कर्म ' इति दूतीया । अस्य घर्मराजस्य सदर्शनाय अनिश अविरत यथा आपतभ्दि आगच्छभ्दि अत्यन्त बाल्य्मित्रै सखिभि अशेष पौरैरेव किचित् कैक्ष्चित् । कतिभिरिति यावत् । अशेषि शिष्टम् । तया रजन्य राञ्या नाशेषि । तेषा बहुत्वादस्याक्ष्च परिमितत्वादिति भाव । किचिदिति र्इषदपीत्यर्थ । रात्रावपि योज्यम् । उभयत्र 'अव्ययादापूसुप ' इति तृतीयाया लुक् । अत्रोभययत्र प्राप्तस्य शेषीभवनस्य पौरमात्रे नियम नात्परिसख्यालकार

 धर्मजन्मेति । तत प्रभाते धमाते यमात् जन्म यस्य स युधिष्टिर अहर्मुखे प्रात् उचित कर्तव्य क्रर्म स्त्रानसघ्यावन्दनादि निर्माय कुत्वा पौरै अक्षवेदिभि घूतविध्यागकुशलै भूपै राजभिक्ष्च। भासुरा समा धूतशाला आप प्राप्त वान् । पौरैर्भूपैरक्षवेदिभिक्ष्चेति वा योजना । 'अक्षदेविभि' इति पाठे अक्षैपाशकै दीव्यन्ति क्त्रीडन्तीत्यक्षदेविभिरित्युक्त्तैव योजना यत्तु ' चापाक्षदीक्षिभि' इति पाठे ' आऋत्या चापरूपाक्षमालाविहारिभि' इति नृसिहव्याख्यानम्, प्रकृतासगते तत्तस्यैवाशास्यम् ॥३२॥

 तत्रेति । तत्र सभाया अनल्पाना मह्ता चतुरिम्णा जल्पाकेषु प्रख्यापकेषु। तन्निधानेष्वित्ति यावत् । 'स्याज्जल्पकस्तु वाचाल' इत्यमर । अत एव चित्रीयमाणेषु आश्चर्यकरेषु। 'नमो वरिवश्चित्रड क्यच्' इति क्यजन्ताल्ल् ट शानच् । 'क्यचि च ' इतीत्वम् । सभाया आस्थानमण्डपस्य शिम्पेषु निर्माणविशिषेषु ध्श परिकल्पयत प्रसारयत । तानि तानि शिल्पचातुर्याणि पश्यत इत्यर्थ। प्रञाघ्श निकषा धूतराष्ट्रस्य समीपे । 'अभित परित-' इत्यादिना द्वितीया । मूर्ते शरीरधारिणि तृतीये गुणे तमसीव् स्थित इत्युतत्रेक्षा । दिविषघ्षमस्य इन्द्रस्य या नीलघ्षद् नीलरन्नानि तन्मये आसने पीठे निषीदत उपविशत । अमुष्य


नीलदृषदासने निषीदतोऽनुष्य कुरुकुलप्रदीपस्य प्रतीप निविशमान शकुनि स्थानाद्धशयितु साक्षात्कृत[४९०]सनिधी रिक्तमध्यमवर्णया तदीयाभिख्यया बा[४९१] च्यो ग्रहविशेष इव प्रासङ्गिकेन पथा दुरोदरविहारेऽवतार[४९२] मचिरमभिरोचयामास ।

अथ सदसि महत्या चा[४९३]ज्ञयासौ नियत्या
 सुमतिमपि विमुह्थ धूतमार्गे प्रवृत्तम् ।
बहुषु जनपदेषु प्रा[४९४]प्नुवत्सु ग्ख्हत्व
 सपदि सुबलसूनुर्धर्मसूनु विजिग्ये ॥ ३३ ॥
 एकेन यत्सुबलभूर्युगपद्रहीतु-
  मक्षेण सर्वविषयान्नृपतेरशक्नोत् ।


कुरुकुलप्रदीपस्य धर्मराजस्य प्रतीप अभिमुख प्रतिकूल यथा तथा निविशमान उपविशन् प्रविशश्च स्थानात् ऐश्वर्यात् भ्रशयितु च्यावयितु साक्षात् मूर्तीभूत भूय कृत सानिधि समीपवर्तिख येन स रिक्त अन्य मध्यमवर्ण कुकार यस्या तया तदीयया शकुनिशब्दसबन्धिन्या अभिख्यया नाम्ना । कुकारशून्येन ' शनिरितिसज्ञाशब्देनेति यावत् । वाच्य प्रतिपाद्य प्रहविशेष शनैश्चर इव स्थित इवेत्युत्प्रेक्षा । शकुनि दुर्योधनमातुल प्रासङ्गिकेन पथा । तत्तत्प्रस्तावपारम्पर्येण दुरोदरविहारे धूतक्रीडाया अवतारं प्रवेश अचिर सत्वर अभिरोचयामास । तदभिलाष जनयामासेत्यर्थ ।

 अथेति । अथ अनन्तर महत्या सदसि सभायाम् । ‘स्त्रीनपुसकयो सद' इत्यनुशासनात्सद शब्दस्य स्त्रीत्वम् । असौ सुबलसूनु शकुनि शोभना कर्तव्याकर्तव्यकोविदा मति बुद्धि यस्य तथोक्तमपि नियत्या दैवस्य आज्ञया गत्या विमुहा मौढय प्राप्य धूतमार्गे दुरोदरविहारे प्रवृत्त वर्मसूनु युधिष्ठिर बहुषु जनपदेषु नानादेशेषु ग्लहत्व पणच प्राप्नुवत्सु । पणकृतेष्वित्यर्थ । सपदि द्वैत विजिग्ये जितवान् । जयते क्र्तरि लिट् । ‘सँल्लिटोर्जे ’ इति कुखम् । यद्वा ‘धर्मसूनु विमोहा’ इति पाठमाश्रित्य योज्यम् । अत्र जनपदानामेव कर्मलम् । दुर्लल्या दैवगतिरिति भाव । मालिनी ॥ ३३ ॥

 एकेनेति । सुबलभू शकुनि एकेन अक्षेण पाशकेन इन्द्रियेण च। ‘अक्ष रथाङ्गे सेनाया पाशकेन्द्रिययोरपि” इति विश्व । नृपते युधिष्ठिरस्य सबन्धिन सर्वान्विषयान् देशान् शब्दादीश्च । युगपत् एकदा ग्रहीतु स्वीकर्तु ज्ञातु च अशक्नोत् समर्थोऽभूदिति यत् । ‘विषयो देशशब्दाद्यो' इति विश्व । अस्मादे काक्षेणैकदा सर्वविषयग्रहणात् पर अन्यत् वस्तु परमाद्भुतेति यद्वाचक पद


 अस्मात्परं जगति वाच्यतयाभ्युपेत्य
  तिष्ठेत कि तु परमाद्भुतवाचकाय ॥ ३४ ॥
प्रतिदेवनमेवमेव भूषा प्रचुरा[४९५]न्रत्नचयाश्च हेमरा[४९६]शीन् ।
सहजान्सह जाययास्य जित्वा स तु गान्धारपतिर्जगर्ज हर्षात् ॥ ३५ ॥
[४९७]तत्रान्तरे
 घटीचेटी नोऽभूद्हुपतिवधूटी द्रुपदजा
  वराकी तामत्रानय परिषदीत्यग्रजगिरम् ।
 हरन्द्वैतीयीक सुबलतनयासूनुषु जवा-
  त्समुत्तस्थौ साक्षा[४९८]दवनिमवतीर्णो यम इव ॥ ३६ ॥


तस्मै वाच्यतया अर्थत्वेन अभ्युपेत्य आगत्य तिष्ठेत वर्तेत किम् । न तिष्ठेदेनेत्यर्थ । केचित्तु ‘पर आ अद्भुत-' इति छित्वा ‘आ’ इति यत् अद्भुतस्य वाचक तस्मै पर अत्यन्त वाच्यतयेत्यर्थ । ‘आकार सर्चगे भाव ईषदर्थे च विस्मये’ इति विश्व । अद्भुतमपश्यता शृण्वता वा। आ इत्याक्ष्चर्याभिलापकशब्दोच्चारण प्रसिद्वामित्याहु । तत्र पुनरुक्तिवारणाय परशब्दस्यात्यन्तिकत्वार्थवर्णनेऽपि तस्यावसान एवान्वयात्प्रकृतासगति । बहुतरचतुरङ्गबलेन चिरेणाप्यसाध्यस्य युधिष्ठिरसर्वदेशापहारस्य एकाक्षेण पञ्चभिरपीन्द्रियैर्युगपदसभाविन शब्दादिपञ्चक ज्ञानस्यैकेन्द्रियेण वासपादनरूपस्य परमत्वस्य अद्भुत एवान्वयस्य प्रन्थकाराभिमतत्वादिति सुधीभिरालोचनीयम् ॥ ३४ ॥

 प्रतिदेवनमिति । स गान्धारपति शकुनिस्तु देवने देवने प्रतिदेवन प्रत्य क्षक्त्रीडायाम् । वीप्सायामव्ययीभाव । एव उक्तप्रकारेण अस्य वर्मराजस्य भूषा भूष णानि प्रचुरान् बहुलान् रत्नाना चयान् राशीन् हैम्ना राशीन् जायया द्रौपद्या सह सहजान् भीमादींश्च जित्वा हर्षाज्जगर्ज सिंहनाद चत्रेक् । औपच्छन्दसिकम् ॥ ३५ ॥

 तत्रान्तरे । इत्युत्तरेणान्वय ॥

 घटीति । तत्र तस्मिनन्तरे युधिष्ठिरसर्वस्वजयकाले बहूना पतीना वधूटी भार्या द्रुपदजा द्रौपदी न अस्माक घटीचेटी जलकुम्भाहरणदासी अभूत् । घटीचेटीनामेव बहुपतित्वात्तथोक्तम् । वराकीं तुच्छा ता द्रौपदीम् अत्र परिषदि एतत्सभाया आनय प्रापय । इति उक्तप्रकारा अग्रजस्य दुर्योधनस्य गिर वाक्य हरन् गृहण्न् । तदाज्ञा वहृन्निति यावत् । अत एव अवनिं भूमिं अवतीर्ण प्राप्त साक्षात् प्रत्यक्ष यम इव स्थित सुबलतनयाया गान्धार्या सूनुषु द्वितीय एव दैतीयीक दु शासन । ‘तीयादिककू स्वार्थे वा वाच्य ’ इतीकक् । जवात्समुत्तस्थौ समुत्थितवान् । द्रौपद्यानयनायेति शेष । शिखरिणी ॥ ३६ ॥


 ध्ष्टवा भिया सदसि धावनमाचरन्त्या
  कैश्ये चकार स कराङ्गुलिमानताङ्गया ।
 वक्षोरुहेषु च महीपपुरध्रि[४९९]वर्गा
  नासाग्रसीम्नि सुधियश्च नदीसुताद्या ॥ ३७ ॥

 तत्र स दुर्मेधा बलवदा[५००]कर्षणोभ्दिदुराणि स्वेदपृषन्तीव भूषा[५०१]जालकमुक्ताफ़लानि धारयन्त्याश्चिकुरभा[५०२]रात्करतलनिष्पीडननिर्गलिता कालिमाधारामिव निर्भरकुवलयगर्भकमाल्यरसझरीमक्षुभि सह वर्षन्त्यास्तस्या पातिव्रत्यलक्ष्मीनिवासस्फटिकप्राकारमिव दुकूलम[५०३]प्या- हर्तु प्रवतेत ॥

 तादृक्षे समुपस्थिते परिभवे सभ्येषु वाचयमे-
  ष्वाध्यायत्सु विधेर्बल स्वदायितेष्वन्येष्वशक्तेष्वपि ।
 निश्चित्यार्तिमता गति यदुपति नीव्या करौ कुर्वती
  सा चक्रन्द त[५०४]दोच्चकैरिह[५०५] हरे त्रायस्ख हा मामिति ॥ ३८ ॥


 दृष्टवेति । दृष्टवा त आगत वीक्ष्य भिया भयेन सदसि सभाया धावन इतस्तत पलायन आचरन्त्या कुर्वन्त्या आनताङ्गया द्रौपद्या कैश्ये केशपाशे स दु शासन कराङ्गुलिं चकार । कराग्रेण वेणी गृहीतवानित्यथे महीपस्य धृतराष्ट्रस्य पुरध्रिवर्गा अन्त पुरस्त्रीसधा वक्षोरुहेषु कुचेषु कराइलिं चत्रुक् । दु खादिति भाव । नदीसुताद्य भीष्मादय सुधिय सज्जनाश्च नासाया नासिकाया अश्रसीम्नि अग्रदेशे कराङ्गुलि चत्रुक् । अहो दुर्लब्यता दैवस्येत्याक्ष्चर्यादिति भाव ॥३७॥

 तत्रेति । तत्र सभाया दुष्टा मेधा बुद्धिर्यस्य तथोक्त दुर्मेधा । 'नित्यमसि च्प्रजामेधयो’ इत्यसिञ्चू । स दु शासन बलवत् दृढ आकर्षणेन उभ्दिदुराणि अछुरितानि स्वेदस्य पृषन्ति बिन्दूनि इव स्थितानि भूषाया जालकस्य मुक्ताफलानि धारयन्त्या चिकुरभारात् केशपाशात् करतलेन निष्पीडनात् निर्गलिता कालिन्न नैस्यस्य धारामिव स्थिता निर्भराणि सान्द्राणि कुवलयानि गर्भे मध्ये यस्य तस्य तादृशगर्भस्य । तन्मयस्वेत्यर्थं । शैषिक कप् । माल्यस्य रसझरीं मकरन्दधारा अक्षुभि सह वर्षन्त्या तस्या द्रौपद्या पातिव्रत्यलक्ष्म्या यो निवास गृह तस्य स्फटिकमय प्राकारमिव स्थित दुकूल धवलाशुक आहर्तुं आक्रडु प्रावर्तत उपत्रक्न्तवान् । उत्प्रेक्षात्रयसृष्टि ॥

 तादृक्ष इति । सा द्रौपदी तादृक्षे तथाविधे परिभवे अवमाने समुपस्थिते प्राप्ते सति सभ्येषु भीष्मादिषु सभाजनेषु वाचयमेषु तूष्णींभवत्सु सत्सु । धर्म-


तस्य सभाया ह्रियमाणवस्रात्तन्व्या नितम्बात्सहसाविरासीत्
कसारिकारुण्यपय पयोधे कल्लोलमालेव दुकूलपङ्क्ति ॥ ३९ ॥
हृते हृते वाससि हृद्यरूप वासोऽन्तर यद्ववृधे वराङ्गया ।
नरस्य तेनैव न कस्य तत्र चित्तस्य [५०६]नाव्योऽजनि चि[५०७] त्रपूर ॥ ४० ॥
 अदृश्यस्यापहारेऽपि वार्धितानेकवासस ।
 अम्बरप्रायता [५०८]तस्या मध्यस्योभयथाप्यभूत् ॥ ४१ ॥


सौक्ष्म्यस्य निर्धारणाशक्तयेति भाव । खदयितेषु युधिष्ठिरादिषु विधे दैवस्य बल दुर्लथमहिमान आध्यायत्यु चिन्तयत्सु सत्सु । ‘स्याश्चिन्ता स्वृतिराध्यानम्’ इत्यमर । अन्येषु उदासीनेषु अशक्तेषु सत्सु । यदुपतिं श्रीकृष्ण आर्तिमता दु खवता गतिं परायण निश्चिस्य । नीव्या वस्त्रग्रन्थौ करौ द्वावपि कुर्वती । करा भ्या नीवी सगृहन्ती सतीत्यर्थ । इह अस्मिन् अवमानसमये हे हरे, मा त्रायख रक्ष । हा इति खेदे । इति उक्तप्रकार तदा उच्चकै गलितकण्ठ यथा तथा चक्रन्द रुरोद । शार्दूलविक्रीडितम् ३८

 तस्या इति । अथ सभाया हियमाण आकृष्यमाण वस्त्र यस्मात्तस्मात्तस्या श्रीकृष्ण शरण प्रपन्नया तन्व्या द्रौपद्या नितम्बात् । कसारे श्रीकृष्णस्य कारण्यमेव पय पयोधि क्षीराब्धि तस्य कल्लोलाना महातरङ्गणा माला पहूि रिव स्थितेत्युत्प्रेक्षा । दुकूलाना क्षौमवस्त्राणा पटिक्त सहसा सत्वरम् । हरिस्म रणक्षण एवेति यावत् । आविरासीत् प्रादुर्बभूव । प्रसन्ने भगवति कि दुर्लभाभिति भाव । इन्द्रवज्ञा ॥ ३९ ॥

 हृत इति । यत् यस्मात् वराङ्गया द्रौपद्या वाससि वस्त्रे एकैकस्मिन् हृते हृते सति । वीप्साया द्विर्भाव । हृद्यरूप वासोऽन्तर अन्यद्वास ववृधे आवि। र्बभूव । तेन कारणेन प्रत्यपहार वस्त्रान्तराविर्भावरूपेण चित्रपूर आश्चर्यंरस प्रवाह तत्र सभाया कस्य नरस्य सबन्धिनश्चित्तस्य नावा तार्यं नाव्य अगाध ताजनि नाभूत् । सर्वस्याप्यजन्येव सर्वेऽप्यस्याश्चर्यान्विता बभूवुरित्यर्थ ॥ ४० ॥

 अदृश्यस्येति । अदृश्यस्य निसर्गत सौक्ष्म्येण द्रष्टुमयोग्यस्यापहारे वस्त्राणामपकर्षणे सत्यपि वधितानि हरिकरुणयाविर्भूतानि अनेकानि वासासि यस्य तथोक्तस्य तस्या द्रौपद्या मध्यस्य उभयथा निसर्गादृश्यत्वेन अनेकवासोवर्धनेन च द्विधापि अम्बरप्रायता आकाशसाम्य अम्बराणा वस्त्राणा प्रायो बाहुल्य यस्मिन् तस्य भाव तत्ता । बहुवस्त्रवत्त्व चेत्यर्थे । अभूत् आसीत् 'अम्बर व्योम्नि वाससि, ‘प्रायो वयसि बाहुल्ये साम्ये निरशनव्रते’ इत्यमरविश्वप्रकाशौ । सता मानभङ्गाय दुरात्मभिश्चिन्तित दैवेन भज्यत इत्यत्र इदमेव साक्षि । यद्रौ- पदीमध्यदिदृक्षुणा दु शासनेन कृत द्रौपद्या वस्त्रापहरण दैवेन भग्नामिति । ‘तस्य इति मध्यविशेषणखेन पाठान्तर व्यर्थविशेषणत्वेनोपेक्ष्यम् । अत्रादृश्यत्वस्त्रप्रा चुर्ययोर्विशेषणगत्या अम्बरप्रायत्व प्रति हेतुत्वात्पदार्थहेतुक काव्यलिङ्गम् । अस्य


चे[५०९]लानि कर्षश्चिरमन्धसूनुस्तस्यास्तु नग्नकरण स नाभूत् ।
क्षमात्स्खलित्वा धरणौ पतन्सन्दन्तावलेरेव जनव्रजानाम् ॥ ४२ ॥

 अथ तथाभूतपरुषयोषाभिषङ्गरोषङ्गरोषकलुषेण पृषदश्वजनुषा परिषदि
भीषणमेव बभाषे ।

उरसि स्खलदूष्मल भृगाक्ष्या समितावस्रमिद् यथाहमक्ष्णा ।
द्विषत कचक[५१०]र्षिणोऽप्यमुष्या रसनेनानुभवेयमेवमेव ॥ ४३ ॥

 कि च सरसीव [५११]चलत्कबन्धबन्धुरे समराजिरे तामरसच्छ[५१२]दानिव शतमपि विमतानेतान्हेमन्त इवाह धार्तराष्ट्रशब्दशेषा महागदापत्ति गमयिष्यामीति ॥ ।


वस्राकाशयोर्बाहुल्यसाम्ययोश्च भेदेऽपि श्लेषभित्तिफया भेदाध्यवसायादतिशयो क्तिभेदद्वयेन ससृष्टि ॥ ४१ ॥

 चेलानीति । स अन्धसूनु दुशासन चेलानि द्रौपद्या वस्त्राणि चिर कर्षन् सन् तस्या द्रौपद्या नग्नकरण विवस्त्रत्वकारी नाभूत् । कितु श्रमात् वस्त्राप कर्षणजन्यात् स्खलिया सखीभ्य वरौ भुवि पतन् सन् जनम्नजाना जनसघाना दन्तानामावले पक्तेरेव नग्नकरणोऽभूत् । त वीक्ष्य पतित विवृतदन्तपङ्कि जहसुर्जना इत्यर्थ । अत्र द्रौपदीजनदन्तावल्यो प्रसक्तस्य नग्नीकरणस्य जनदन्तावल्यामेव नियमनात्परिसख्यालकार ॥ ४२ ॥

 अथेति । अथ तथाभूतेन तादृशेन। ‘भूत पिशाचे सादृश्येऽपि’ इति विश्व । परुषेण क्त्रेरेण योषाया द्रौपद्या अभिषङ्गेण पराभवेन यो रोष तेन कलुषेण विकृतचित्तेन । पृषदश्वात् वायो जनु जन्म यस्य तेन भीमेन । परिषदि सभाया भीषण भयकर यथा तथा । एव वक्ष्यमाणप्रकारेण बभाषे । प्रतिज्ञातमित्यर्थं । भाषतेर्भावे लिट्। ‘पृषदश्वो गन्धवह ’,‘जनुर्जननजन्मानि’ इत्युभयत्राप्यमर ।

 उरसीति । समितौ सभाया मृगाक्ष्या द्रौपद्य उरसि वक्षसि स्त्रलग्न पतत क्षुभ्यच्च ऊष्मल सतामातिरेकादत्युष्णम् । इद अत्र अश्रु अह अक्ष्णा लोचनेन यथा अन्वभव अपश्य एवमेव अमुष्य् द्रौपद्या कचहर्षिण द्विषत दु शासनस्यापि उरसि स्खलत् ऊष्मल अस्त्र शोणित रसनेन जिह्वया अनुभवे यम् । पिबेयमित्यर्थ । अत्र केवलप्रकृतश्लेष । ओपच्छन्दसिकम् ॥ ४३ ॥

 किं चेति । कि च चलद्धि नृत्यद्धि कबन्धै नि शीर्षकलेवरै जलैश्च बन्धुरै विषमे सरसीव समराजिरे युद्धाङ्गणे विमतान् विरोधिन शत एतान् दुर्योधनादीन् तामरसस्य पञ्चस्य च्छदान् दलानिव अह हेमन्त ऋतुरिव । धार्तराष्ट्र इति शब्द नामपद शेष अवशिष्ट यस्या ताम् । महत्या गदया आपत्तिं आपदम्। अन्यत्र


तत्र सुत्राम्ण पुत्रोऽप्येव प्रतिजज्ञे ॥
  उत्सेकात्कृतहस्तालममुना गान्धारपुत्रीभुवा
 राधसूनुरसौ जहास सदसि ग्राम्प ब्रुवन्य[५१३]त्तत् ।
यस्य जात्वपि देहिनोऽभ्युदितता नैवाभिनिर्मु[५१४]क्तता
 स्याता द्व अपि गाण्डिवो मम तु ता निद्राममु नेष्यति ॥ ४४ ॥

 इति तयोस्ताध्शेन वीरवादेन 'अ[५१५]यि, सुखमिहास्स्व' इति [५१६]करास्फालननिदर्शिते स[५१७]क्थिन्येव तव मृत्यु स्यादिति सुयोधन प्रति


महता गदेन रोगेण हिमरुपेण आपत्ति च । गमयिष्यामि प्रापयिष्यामि इति बभाष इति पूर्वेण सबन्ध । 'वार्तराष्ट्रोऽसिते हसे धृतराष्ट्रसुतेऽपि च','गदो भ्रातरि विष्णो स्यादामये चायुधे गदा' इत्युभतत्र विश्व । अनेकेवेयमुपमा श्लिष्टविशेषणा च ॥

 तत्रेति। तत्र तस्मिनेव समये सुत्राम्ण इन्द्रस्य पुत्र अर्जुनोऽपि एव वक्ष्यमाणप्रकारेण प्रतिजज्ञे प्रतिज्ञातवान् । प्रतिपूर्वाज्जानाते कर्तरि लिट्॥

 उत्सेकादिति । असौ राधासूनु कर्ण अमुना गान्धारपुत्रीभुवा दुर्योधनेन सह सदसि ग्राम्य असभ्य वाक्य ब्रुवन् सन् कृत हस्तम्या ताला शब्दविशेषा यस्मिस्तत्ततथा यत् यस्मात् जहास हसति स्म। तत कारणात् यस्या निद्राया देहिन जन्तो जातु कदाचिदपि अम्युदितता सूर्योदय अभिनिर्मुक्तता तदस्त मयश्च । द्वे अपि नैव स्याताम् । पुनर्बुध्द्स्य हि तयो प्रसक्तिरिति भाव । ता निद्रा दिर्घा । मृतिमिति यावत् । अमु राधासूनु मम गाण्डीवस्तु नेष्यति गमयिष्यति इति प्रतिजजे इति पूर्वेण सबन्ध । 'सुप्ते यस्मिन्नस्तमेति सुप्ते यस्मितु देति च । अशुमानभिनिम्रुत्तोऽम्युदितश्च यथाक्रमम् ॥' इत्यमर । अत्र कर्ण निधनस्य ताध्शभङ्गथन्तरेण कथनात्पर्यायोत्तयलकार-'पर्यायोक्त तु गम्यस्य वचो भङ्गयन्तरेण यत्' इति लक्षणात् । शार्दूलविक्रीडीतम् ॥ ४४ ॥

 इतीति। इति उक्तप्रकारेण तयो भीमार्जुनयो ताहशेन तथाविधेन वीरवादेन प्रतिज्ञावाक्येन अयि द्रोपदि, इह मम सक्थिनि सुख यथा तथा आस्ख उपविश । इति करस्य करतलस्य आस्फ़ालनेन सशब्द स्पर्शनेन निदर्शिते निर्दिष्टे सक्यिनि ऊरावेव तव मृत्यु मरण स्यात् भूयत् । इति उक्तप्रकारेण याज्ञसेन्या द्रौपधा सबन्धिना सुयोधन प्रति दुर्योधनमुद्दिरय शापेन च यद्भय तस्मात् आत्तगन्धाभ्या तिरस्कृतभ्या अन्धदपतिभ्या गान्धारिधृतराष्ट्राम्याम् । 'आत्तगन्धोऽभिभूत स्यात्' इत्यमर ।पुरेव यथापुर घूतात्पूर्वमिव राज्य धूतनिर्जित प्रत्यर्प्य पुन समर्प्य हरिप्रस्य इन्द्रप्रस्य प्रति प्रस्थापित प्रेषित अय युधिष्टिर


याज्ञसेन्या शापेन च भयात्तगन्धाभ्यामन्धदपतिभ्या यथापुर राज्य ग्रत्यर्प्य हरिप्रस्थ प्रस्थापितो युधिष्ठिर पुनरपि कृतमन्त्रैरमित्रैर[५१८]यमाहूतमात्रोऽर्धपथादिधिना गलहस्तिकया विनि[५१९]वर्तित इव तामेव सभा प्रत्यावर्तत ॥

 भूताभिविष्ट इव बोधवता वरोऽपि
  भूयोऽपि धर्मतनय सह सौबलेन|
 आधत्त देवनविहारमनार्यजुष्ट्-
 मा[५२०]द्यक्षर विजहदेव पणोऽपि [५२१]योऽभूत् ॥ ४५ ॥
कितवे शकुनौ वशवदान्किरति स्वेन करेण पाशकान् |
विजयेन सदा पुरस्कृतोऽप्यभवत्तेन स पृष्ठत कृत ॥ ४६ ॥


कृत मन्त्र आलोचन एव निकृता एते नास्मान् क्षमन्ते तत्पुनर्द्यूतेन वन नेष्याम इत्याकरक यैस्तैरमित्रै शत्रुभि दुर्योधनादिभि पुनरप्याहूतमात्र आकारित सन्नेव | न किविदालोचयन्नेव सन्निति यावत् | विधिना दैवेन(कर्त्रा) गले कण्ठे हस्त निक्षिप्य चोदनात्मिका चेष्टा गलहस्तिका तया(करणेन)अर्धपथात् निवर्तित प्रत्यावर्तित इवेत्युय्प्रेक्षा|तामेव सभा द्यूतशाला प्रत्या वर्तते पुनरागतवान् | अत्र भयात्तगन्धताया विशेषणगत्या राज्यप्रत्यर्पणहे तुत्वात् पदार्थहेतुक काव्यलिङ्गम्| उत्प्रेक्षया ससृज्यते | अन्धदपतीभ्यामित्यत्र गान्धार्यन्वस्य पत्युर्भावमनुसरन्ती पट्टेनाक्षिणी पिधाय यावज्जीवमन्ध्या बभूवेति पौराणिकी कथानुसधेया ॥

 भूतेति|बोधवता र्क्तव्यार्क्तव्यकोविदाना मध्ये वर श्रेष्ठोऽपि वर्मत नय भूतेन पिशाचेन अभिविष्ट उन्मादित इव भूय पुनरपि सौबलेन शकुनिना सह अनार्यै खलै जुष्ट सेवितम् | आयैंर्जुष्ट न भवतीति वा | देवनविहारं अक्षक्रीडा आधत्त चक्रे|यो देवनविहार एव आद्यक्षर देकार विजहत् त्यजन् सन् | 'नाभ्यस्ताच्छतु' इति नुमभाव | पण ग्लहोऽपि वनविहाररूप अभूत् | त देव नविहारमिति सबन्ध | वाच्यवाचकयोभेदाभिमानान्नावाच्यवचनदोष ॥ ४५ ॥

 कितव इति | कितवे अक्षविधानिपुणे शकुनौ वशवदान् स्वाघीनान् पाशकान् अक्षान् स्वेन स्वीयेन करेण किरति प्रचारयति सति विजयेन जयेन अर्जुनेन चा सदा पुरस्कृत अग्रे क्रुतोऽपि पूजितश्च सन्निति च | स धर्म राज तेन विजयेन पृष्ठत कृत पराजित अवमानितश्च अभवत् | विरोधाभास | वैतालीयम् ॥ ४६ ॥


उत्थायाथ क्षितीन्द्र क्षणमपि धरणौ स्थातुमस्या[५२२] मयुक्त
 प्रत्यर्थिस्वीकृतायामिति सह सहजै सत्यसध सजानि ।
पाणौ [५२३]क्षत्तुर्निधाय प्रसुवमतितरामन्तरुत्तप्यमाना
 पद्भ्या प्रापदूनानि व्यथितहृदमुचत्पौरलोकस्तु दृग्भ्याम् ॥ ४७ ॥

 कान्तारव[५२४]र्त्भनि मृगा पुरतो निषण्णा
  शान्ताकृते सधनुषोऽपि निषङ्गिणोऽपि ।
 उत्थाय तस्य पटुमर्मरचारु चीर
  रोमन्थलोलचिबुकेन मुखेन जिघ्रु ॥ ४८ ॥
परागपूर्णे पथि तस्य पादरेखा घटस्य प्रतिमा मनोज्ञा ।
भक्तयोपनीता वनदेवताभि पाद्योदकुम्भा इव जाग्रति स्म ॥ ४९ ॥


 उत्थायेति ।अथ पराजयानन्तर सत्यसध तथ्यप्रतिज्ञ अत एव क्षितीन्द्र धर्मराज प्रत्यर्थिभि शत्रुभि खीकृताया अर्थिन अर्थिन प्रत्यथि खीयत्वेन कृता यामिति च । अस्या धरणौ । राज्य इत्यर्थ । क्षणमपि स्थातु अयुक्तम् । इत्या लोच्येति शेष । उत्थाय अन्त मनसि अतित्तरा भृश उत्तप्यमाना खिद्यमाना प्रसुव मातरं क्षत्तु विदुरस्य पाणौ निधाय हस्ते समर्प्थ सजानि सभार्य सन् सहजै सोदरैर्भीमादिभि सह पभ्धा पादाभ्याम् । पादाचारेणेति यावत् । वनानि अरण्यानि प्रापत् प्राप्तवान् । व्यथित दु खित हृत् मन यस्य स पौर लोक पुरजनस्तु दृग्भ्या वनानि अक्ष्रुजलानि अमुचत् । दु खाद्रुवरोदेत्यर्थ । आप्नोते कर्तरि लुड्। स्रग्वरा ॥ ४७ ॥

 कान्तारेति । कान्तारवर्त्मनि अरण्यमार्गे पुरत अग्रे निषण्णा उपविष्टा मृगा हरिणा उत्थाय सधनुषोऽपि निषङ्गोऽस्यास्तीति निषङ्गिणोऽपि शान्ता शमप्रधाना आकृति आकार यस्य तस्य धर्मराजस्य चीर वल्कल रोमन्थेन चर्वितचर्वणेन लोल चिबुक ओष्ठाधोभागो यस्य तेन मुखेन वक्त्रेण पटुना स्फुटेन मर्मरेण शब्देन चारु रमणीय यथा तथा जिघ्रु चुचुम्बु । जिघ्रते क्र्तरि लिट् । ‘अथ मर्मर । खनिते वस्त्रपर्णानाम्' इत्यमर । अत्र शान्ताकृतित्वस्य विशेषणगत्या चुम्बनहेतुत्वात्पदार्थहेतुक काव्यलिङ्गम् ॥ ४८ ॥

 परागेति । परागेण मृदुरजसा पूर्णे पथि मागें आरण्यके घटस्य प्रतिमा सदृश्य मनोज्ञा रमणीया तस्य धर्मराजस्य पादयो रेखा कलशरेखा वन देवताभि भत्या उपनीता पाद्यस्य पादोदकस्य उदकुम्भा जलघटा इवेति तादर्घ्थे षष्ठीसमास । ‘मन्थोदक-' इत्यादिना उदकशब्दस्य उदादेश । जाश्रति स्स रेजु । उत्प्रेक्षा ॥ ४९ ॥


 त्र्कमेण त [५२५]सजानय विलङ्चय विविधानि विपि[५२६]नानि जह्नमुनिकर्णश[५२७]ष्कुलीपथबशेन शिक्षितैर्गतिविशेषैरिव ग[५२८]भीरैरावर्तैरुपासि[५२९]कजनताहृतानि ससारचक्राणीव दर्शयन्तीं कोकनदवदनोदितैरिव[५३०] कोककुटुम्बकूजितै[५३१] कुमारस्य देवत्रतस्य [५३२]क्रुशल पृच्छन्तीमिव भागीरथी पुरस्कृत्य तत्र[५३३] ता निशीथिनी पश्चाच्चक्त्रु ।

 अपरेयुरतिमात्रबुभुक्षितानुयात्रिकसत्रिजनपरित्राणाय पवित्रै स्तोत्रै[५३४] प्रसेदुषा चित्रभानुना दत्तमक्षय्यमन्नपात्रमादाय ते[५३५] कलत्रे निदधु ।


 क्रमेणेति । समाना एफा जाया येषा ते सजानय ते पाण्डवा विविवानि विपिनानि वनानि क्रमेण विलङ्घय अतिक्रम्य । जडोर्नाम मुने कर्ण शष्कुलीव। तस्या पन्था कुटिलमार्ग तद्वशेन । तत्र सचारबलेनेत्यर्थं । शिक्षितै अभ्यस्तै गतिविशेषे चक्रगमनैरिव स्थितै गभीरै निम्नै आर्वौ भ्रमिभि । तदूथाजेनेवे त्यर्थ । उपासिकाया आत्मसेविकाया जनताया जनसमूहात् । 'ग्रामजन-' इत्यादिना समूहार्थे तल् । आहृतानि उपाकृष्टानि ससाराण्येव चकाणि दर्शयन्ती मिप स्थिता कोफ्नद रक्ताब्जमेव वदन तस्य उदितै भाषितैरिव स्थितै तस्मा- दुदितै । ‘आविभूते ’ इति वा । अभिहित पाठ सुगन्ध । ‘रक्तम्बुजे कोकन दमू' इति नानार्थरत्नमालायाम् । कोककुटुम्बाना चक्रवाकमिथुनाना कूजितै शब्दै कुमारस्य स्वपुत्रस्य देवव्रतस्य भीष्मस्य कुशल पृच्छन्तीमिव स्थिताम् । भगी रयस्य नाम राजर्षेरपत्य भागीरथी गङ्गा पुरस्कृत्य अग्रे कृत्वा । तीर प्रप्येति यावत् । तत्र गङ्गातीरे ता निशीथिनी प्रथमा रात्रि पश्चाच्चक्त्रु नयन्ति स्म ॥

 अपरेद्युरिति । अपरेधु परस्मिन्दिने ते पाण्डवा अतिमात्र अत्यन्त बुभुक्षिताना क्षुधिताना अनुयात्रिकाणा सहागन्तृणाम् । अनुयात्रा प्रयोजनमेषामित्यर्थे ककू । सत्र कतुरेषामस्तीति सत्रिणा यज्वना जनाना परित्राणाय । बुभुक्षाशमनायेत्यर्थ । पवित्रै स्तोत्रै वैदिकै प्रसेदुषा प्रसन्नेन चित्रभानुना सूर्येण दत्त क्षेतु शक्य न भवतीत्यक्षरय अन्नपात्र आदाय कलत्रे निदधु । द्रौपधै समर्पयनित्वर्थ ॥


वन तत काम्यकमेत्य तेषु वसत्सु भीमस्तु नियोdध्दुकामम् ।
कि[५३६]र्मीरसुग्र कुणपाशनेन्द्र क्षिप्र तदाहारदशामनैषीत् ॥ ५० ॥
ततश्चर[५३७]न्दैतवने स सार्धु वध्या कद्ध्वालसतामबुद्धवा ।
मूलानि सर्वस्य शुभस्य भूपो मूलानि जग्राह मुनीन्द्रसघात् ॥ ५१ ॥
तत्राथ ते सत्यवतीसुतस्य पादारविन्दात्प्रविसृत्वरीभि ।
नखप्रभाभिर्नवपुष्प[५३८]पर्रीङक्तीर्जटालताना जनयाबभूवु ॥ ५२ ॥
तस्मिन्कवौ तापसयूथनाथे स्वाती[५३९]
मथाजग्मुषि वासभूमिम् ।
तेषामतिक्षामतया युताना शुचाभिदेशेष्वतिवृष्टिरासीत् ॥ ५३ ॥


 वनमिति । ततस्तेषु पाण्डवेषु काम्यक नाम वन अरण्य एत्य वसत्सु सत्सु भीमस्तु नियोध्दु बाहुयुद्ध कर्तु कामो यस्य त उग्र भयकर किर्मीरे नाम कुणपशव अशन येषा तेषामिन्द्र राक्षसश्रेष्ठ तस्य राक्षसस्य आहार शव तस्य दशा मवस्था क्षिप्र आगमनक्षण एव अनैषीत्। अवधीदित्यर्थं ॥ ५० ॥

 तत इति । स भूपो धर्मराज कदध्वनि कापथे । कण्टकशर्फ़रादिसकुलमाग इति यावत् । अलसता श्रम अबुदवा अविचार्य । महोदयहेतुत्वादिति भाव । वध्वा सार्व द्रौपद्या सह तत काम्यकवनात् चरन् निर्गच्छन् द्वैते नाम वने मुनीन्द्राणा सङ्घात् सर्वस्य शुभस्य मूलानि मुख्यकारणानि मूलानि कन्दान् जग्राह । आतिथ्य प्राप्तवानित्यर्थं ॥ ५१ ॥

तत्रेति । अथ ते पाण्डवा तत्र द्वैतवने सत्यवतीसुतस्य व्यासस्य पादार विन्द पादपद्ममिव तस्मात् प्रकर्षेण बिर्चरीभि प्रसरणशीलाभि । ‘इण्नशजि मतिभ्य व्करप्' इति व्करपि पित्वातुकू । नखाना प्रभाभि जटा एव लता तासा नया पुष्पाणा पङ्क्ती जनयाबभूवु जनयन्ति स्म । तत्पादयो प्रणेमुरि त्यर्थ । रूपकालकार ॥ ५२ ॥

 तस्मिन्निति । अथ तापसयूथस्य मुनिवृन्दस्य नाथे तस्मिन् कवौ पण्डिते । ब्यास एव शुक इति श्लिष्टरूपकम् । ‘कवि काव्यकरे शुत्रेक् पण्डिते जलपक्षिणि’ इति विश्व । वासभूमि निजावासस्थानमेव स्वाती नक्षत्रविशेष प्रति आजग्मुषि प्राप्तवति सति । खातीनक्षत्रस्य तुलाराशिघटकत्वात् ‘तुलाधृषभयोर्मुगु’ इति शुक्रस्य तदधिपतित्वोतेश्च वासभूमिमित्युक्तम् । शुचा दु खेनैव अतिक्षामतया अनावृष्ट्या अतिकार्थेनेति च युताना सहिताना तेषा पाण्डवाना अक्षीण्येव देशा तेषु अतिपुष्टिरासीत् । स्वातीगते शुक इवातिदृष्टि’ इत्यादिप्रसिद्धेरिति भाव । आपदि बन्धुदर्शने महान्तोऽपि बाष्पायन्त इति परमार्थ । समस्तवस्तुवर्ति सावयवरूपकम् । ‘खातीमथाजग्मुषि’ इत्येव पाठ । इवकारपाठस्तु प्रक्रान्तसावयवरूपकभङ्गापत्तेरुपेक्ष्य ॥ ५३ ॥


 प्रसृमरतनुभासा प्रावृषेण्यान्स मेघा-
  न्दिशि दिशि विदधानो दीर्घदर्शी तदानीम् ।
 कुरव इति महान्त शब्दमाबिभ्रतोऽपि
  स्ववचननिपुणिम्ना तानशोकानकार्षीत् ॥ ५४ ॥
 [५४०]तस्मात्प्रतिश्रुतिरिति प्रतिपद्य विद्या-
  मालिङ्गय धर्मतनयेन विसृज्यमान ।
 पाथों हेिमाचलमगात्परमास्त्रमाप्तु
  शभो कृपाजलनिधेश्चरणार्चनाभि ॥ ५५ ॥
यस्मिन्हिमानीभृति यक्षवृन्दमङ्गेषु सर्वेष्वपि म ञ्जुलेषु ।
नखपचोष्ण नलिनेक्षणानासुरोजमेवातितरामुपास्ते ॥ ५६ ॥


 प्रसृमरेति । प्रद्युमरया परितो व्याप्नुबन्त्या तनो शरीरस्य भासा नीलकान्त्या प्रावृषि वर्षर्तौ जातान् प्रावृषेण्यान् । ‘प्रावृष एण्य ’ इत्येण्यप्रत्यय । मेधान् दिशि दिशि प्रतिदिशम् । वीप्साया द्विर्भाव । विदवान सपादयन् दीर्घ कालत्रयेऽपि निरपाय पश्यति आलोचयतीति दीर्घदर्शी स व्यास । कुत्सित यथा तथा रुवन्ति शब्दायन्त इति कुरव इति हेतो । कुरुत्वादिति यावत् । मृगय्वादित्वात्कु । गणपाठादन्तलोपो निपात्यते । महान्त शब्द रोदन कुरवेति सज्ञापद च आबिभ्रत वाचकत्वेन स्वीकुर्वतोऽपीति विरोध । दधानानपीत्याभास । तान् पाण्डवान् वृक्षविशेषाश्च । खस्य स्वीयस्य वचनस्य वाक्यस्य का भूम्या सह रुदन्ति क्षान्त्या स्थैर्येण वा गर्जन्ति’ इति व्युत्पत्त्या भूसदृशक्षमावन्त तादृशस्थैर्यवन्तो वेति विवरणात्मकस्य ‘विपदि धैर्य- इत्याद्यापद्धर्मबोधकस्य च निपुणिन्ना कौशल्येन । पृथ्वादित्वादिमनिच् । अशोकान् शोकरहितान् तन्नामकम् क्षाश्च अकार्षीत् कृतवान् । रुदतस्तानाश्वासितवानित्यर्थ । मालिनीवृत्तम् ॥ ५४ ॥

 तस्मादिति। पार्थोऽर्जुन तस्मात् व्यासात् प्रतिक्ष्रुतिरिति । तन्नाम्नीमित्यर्थ । विधा शैवी प्रतिपद्य लब्ध्वा धर्मतनयेन आलिङ्गय विसृज्यमान । अनुज्ञात सन्नित्यर्थ । कृपाजळनिधे शुभो चरणयो अर्चनाभि पूजाभि । यद्वा चरणा र्चनाभि कृपाजलनिधे दयमानात् शभो सदाशिवादिति वा। परमास्र पाशुपत आप्तु लब्घु हिमाचल हिमवन्त प्रत्यगात् गतवान् । अत्र पाशुपतास्त्रलाभशिवचरणार्चनयो कार्यकारणयोर्दूयोरुक्तेर्हेत्वलकार ॥ ५५ ॥

 यस्मिन्निति । हिमानी हिमसहति बिभर्तीति तस्मिन् शीतशैले यक्षाणा देवयोनिविशेषाणा वृन्द नलिनेक्षणाना कामिनीना सर्वेषु अखिलेष्वनेषु मकुलेषु मनोहरेषु सत्स्खपि । नखान् पचति कथयतीति नखपच उष्ण ऊष्मा यस्मिस्त-


यो वत्सतामेत्य वसुधराया नि[५४१]पीय रत्नावलिकान्तिपूरान्।
मन शिलावप्रझरीमिषेण दरीमुखैरुद्भिरतीव [५४२]तृप्त ॥ ५७ ॥
आरोहतस्त तरसा समीरकिशोरक स्वेदजलाणुराजिम् ।
निपीय तस्याननपद्ममा[५४३]ध्वीं द्विरेफभाव प्रकटीचकार ॥ ५८ ॥
 शिवाख्ययोरेकतनुत्वकारण
  त्रिलोकपित्रोर्महसोस्तपोवनम् ।
 मिथोऽर्च्यमान मिथुनैस्तपस्विना
  तथेच्छुभिस्तत्र ननाम पाण्डव ॥ ५९ ॥


थोक्तम् । मितनखे च' इति पचे खशि खित्वात् ‘अरुद्विषत्-' इत्यादिना मुम्। उरोज कुच अङ्गमेव अतितरा उपास्ते सेवते । शीतबाधाविधूननायेति भाव अत्र नखपचौष्ण्यस्य विशेषणगत्या कुचसेवनहेतुत्वात् पदार्थहेतुक काव्य लिङ्गम् ॥ ५६ ॥

 य इति । यो हिमशैल वत्सता गोशिशुत्व एत्य स्वीकृत्य वसुवराया भूमे गोरूपधराया रत्नावलीना कान्तिपूरान् प्रभाप्रवाहान् भीरात्मकान् निपीय तृप्त सन् दर्य गुहा एव मुखानि तै मन शिला नाम वातु तन्मयीना वप्रझरीणा निर्झ राणा मिषेण व्याजेन उद्भिरतिवद्भण्डेन, परा .वेने राजनि राज दोषादन्तर्धानिताखिलजीवनैषधा ऋषिभि शस्त्र वेन तद्वजमन्थनेन नितात्पृ थोभयत्रस्ता गोरूपधरा भुव शैला हिमवन्त वत्स मेरु दोग्धार च कृ रत्ना- योषधीश्च दुद्रुह्ड" खजीवनसारानिति पौराणिकथात्रामुधेथा ॥ ५७ ॥

 आरो हत इति । “त उक्तविशेषणविशिष्ट हिमशेल आरोहत तस्य अर्जु नस्य खेदजलस्य 'अणूना बिन्दूना राजिमेव आननस्यैव पद्मस्य माध्वी मकरन्न इति व्यस्तरूपकम् । वरसा द्रुत निपीय पीत्वा । अपहृत्येति यावत् । समीरकि शोरक तरुणमारुत झिरेफभाव भ्रमरत्वम् । भ्रमरस्येव रेफद्वथवत्पटवाच्यत्वमिति यावत् । समीरक्रिशोरक इति शब्दस्य रेफद्वयवत्वादिति भाव । प्रकटीचकार स्फुटीकृतवान् ॥ ५८ ॥

 शिवेति । तत्र हिमशैले पाण्डव अजुन अयाणा लोकाना पित्रो जननी जनकयो शिवेति शिव इति च आख्या ययोस्तयो महसो तेजसो एका तनु ययो तयोर्भाव एकतनुत्व तस्य कारणम् । तप सिद्धिजनकत्वेनेति भाव । अतएव तथा शिवयोरिवात्मनोरपि तदेझतनुत्व भूयादितीच्छा येषा तै । तप खिन्यश्च तपस्विनश्च तपस्विन तेषा मिथुनै स्त्रीपुसै मिय रहसि अर्च्यमानं पूज्यमान तपोवन शिवाश्रमवन ननाम नमस्कृतवान् । हेतुरलकार । वशस्थ वृत्तम् ॥ ५९ ॥


तत्र दर्भलमुष्टिमाहरन्सनिधास्यदृषभोपदामिव ।
चित्तमीशपदयो समादधत्तप्तुमारभत दुश्चर तप ॥ ६० ॥
 चतुरस्तप स्थितिविशेषविधौ
  चरण विधा[५४४]तुमखिलेन निजम् ।
 स जुगुप्समान इव शत्रुजिते
  प्रपदेन तिष्टति भुव स्म तले ॥ ६१ ॥
भानौ ललाटतपभानुजाले प्रविष्टदृष्टि परितस्तमग्नि ।
भूयोऽपि भोक्तु विपिन दिशेति प्रेम्णोपरुन्धन्निव दृश्यते स्म ॥ ६२॥
 तपोविधौ स पावकेन सर्वदिक्षु वासवि-
  स्तदा बभूव वेप्टितो धनजयत्वबान्धवात् ।


 तत्रेति । तत्र शिवतपोवने पाण्डव सनिधास्यत शिवप्रसादसमये समीप गमिष्यत ऋष्भस्य हरवृषभस्य उपदा उपायनमिव स्थित दर्भदलाना कुशङ्कु राणा मुष्टिम् । मुष्टिमितदर्भानित्यर्थ । आहरन् दीक्षाङ्गत्वेन सपादयन्' सन् । क्रिच ईशस्य सदाशिवस्य पदयो चित्त समादधत् निवेशयन् सन् । ‘नाभ्यस्ता- च्छतु’ इति नुमूनिषेध । दुश्चर अनितरानुष्ठेय तप तप्तुम् । कर्तुमित्यर्थ । आरभत उपक्रान्तवान् । रभतेरापूर्त्रात्कर्तरि लट् । रथोद्धता ॥ ६० ॥

 चतुर इति । तपस सबन्धिना स्थितिविशेषाणा आसनभेदाना विधौ अनुष्ठाने चतुर निपुण सोऽर्जुन शत्रुभिर्जिते भुवस्तले निज चरण अखिलेन यावत्प्रदेशेन विवातु क्र्तुम् । यावत्मद स्थापितुमित्यर्थ । जुगुप्समन कुत्सयन्निवेत्युत्प्रेक्षा । प्रपदेन पादाग्रभागेन तिष्ठति स्म । पादाग्रेण भुवमालम्ब्य तप श्चचारेत्यर्थ । प्रमिताक्षरामृतम् ॥ ६१ ॥

 भानाविति । ललाट तपतीति ललाटतप भानूना फिरणाना जाल पृन्द यस्य तस्मिन् । ‘असूर्यललाटयोर्ध्शितपो’ इति खशि खित्त्वान्मुम् । भानौ सूर्ये प्रविष्टा दृष्टि यस्य तथोक्त त परित । तस्य चतु पार्श्वेष्विष्वित्यर्थ । ‘अभितपरित -' इत्यादिना द्वितीया । अग्नि भूय पुनरपि भोक्तु भक्षितु विपिन अन्यद्वन दिश देहि इति प्रेम्णा स्नेहेन उपरुन्धन् आनृण्वान इवेत्युत्प्रेक्षा । दृश्यते स्म । लोकैरिति शेष । पञ्चाग्निमध्ये तपश्चचारेत्यर्थ ॥ ६२ ॥

 पञ्चन्निमयस्थितिं प्रकारान्तरेणोत्प्रेक्षते--तपोविधाविति । तदा वासबि इन्द्रपुत्र सोऽर्जुन तपस विवौ अनुणने धनजयत्वेन धनजय इत्येकनामक- त्वेन यद्वान्धव बन्धुत्व तस्मादिवेति गम्योत्प्रेक्षा । सर्वासु दिक्षु चतुर्षु पार्श्वेषु 'पावकेन अग्निना वेष्टित बभूव । अर्जुनस्तु हे अङ्ग हे दिनेश, भवान् त्व त


 अजीजनत्तमङ्गराजमङ्ग वैरिण भवा-
  नितीव रो[५४५]षतो दिनेश एव चक्षुरक्षिपत् ॥ ६३ ॥
पाराशरिप्रापितमन्त्रभागैराराधयञ्शकरमन्तरङ्गे ।
साप्तापि चर्षीस्तपसा विजेतु सप्तत्वमाप स्वयमेक एव ॥ ६४ ॥
फलप[५४६]र्णजलानिलाशनानि प्रविहाय क्त्रमशस्तपस्यतोऽस्य ।
विषयेषु न लोलता प्रपेदे विजयस्या[५४७]क्षगुण कराम्र एव ॥ ६५ ॥


प्रसिद्ध वैरिण निसर्गतो विरोधिन अङ्गराज कर्ण अजीजनत् अजनय । जनेर्णिजन्तात्कर्तरि लुडू । ‘णिश्रिद्रुस्त्रुभ्य कर्तरि चड्’ इति च्लेश्वडि ‘णेरनिटि’ इति अणिलोपे द्वित्वे सन्वद्भावेऽभ्यासस्येत्वे दीर्घ । ‘शेषे प्रथम ’ इति भवच्छब्दप्रयोगास्प्रथमपुरुष । इत्युक्तप्रकारात् रोषत कोपादिवेत्युत्प्रेक्षा । दिनेशे सूर्य एव चक्षु दृष्टि अक्षिपत् निहितवान् । क्षिपते कर्तरि लड् । उत्प्रेक्षाद्वयस्य ससृष्टि । ‘अङ्गेत्यामन्त्रणेऽत्र्ययम्’ इत्यमर । पञ्चचामर वृत्तम्—‘लघुर्गुरुनिरन्तर भवेञ्च पञ्चचामरम्” इति लक्षणात् ॥ ६३ ॥

 पाराशरीति । सोऽर्जुन पराशरस्य मुनेरपत्येन पाराशरिणा व्यासेन प्रापि तस्य उपदिष्टस्य मन्त्रस्य प्रतिश्रुतिविद्याया भागै खण्डै सप्तभि अन्तरगे मनसि शकरं शमु आराधयन् ध्यायन् सन् । खयमेकोऽपि सनेव तपसा उक्तविधेन सप्तर्षीश्चापि मरीच्यादीन् विजेतुमिवेत्युत्प्रेक्षा । सप्तत्व सप्ताना भाव तया जटया सहितत्व च । आप प्राप्तवान् । ‘सप्तोदन्तो जटायुक्ते नान्त सख्यान्तरे स्मृत ’ इति सारस्वत । उत्प्रेक्षाश्लेषसकीर्णो विरोधाभास ॥ ६४ ॥

 फलेति । फलानि पर्णानि जलानि अनिलश्च तन्मयान्यशनानि कमश प्रविहाय । फलाशन कतिचिद्दिनानि कृत्वा तद्विहाय पर्णाशनमेव क्रमेण सर्वाण्यपि त्यक्त्वेत्यर्थ । तपस्यत तप कुर्वत । ‘कर्मणो रोमन्थतपोभ्या वर्तिचरो ' इति क्यचि लट शश्रादेश । अस्य विजयस्य अर्जुनस्य अक्षाणा इन्द्रियाण गुण । खभाव इत्यर्थ । विषयेषु रूपादिषु विषये लोलता तृष्णा न प्रपेदे न प्राप । ‘विषया विनिवर्तन्ते निराहारस्य देहिन ’ इत्यागमादिति भाव । कि त्वक्षगुण जपमालैव कराग्रे अग्रहस्ते लोलता चाञ्चल्य प्रपेदे । `लोलश्चलसतृक्ष्णयो' इत्यमर । अत्र श्लेषभित्तिकाभेदाध्यवसायेनैक्यमापन्नस्येन्द्रियस्वभावजपमालाद्वयस्य सबन्धिन्या उक्तन्यायेनेक्यमापनायास्तृष्णाचाञ्चल्यद्वयात्मिकाया लोलताया विषयेषु कराग्ने चोभयत्र प्राप्तावेकत्र कराग्र एव नियमनात परिस रयालकार । भेदातिशयोक्तिद्वयोज्जीवित इति सफर । औपच्छन्दसिकम् ॥७५॥


तत्ताशेन तपसा तरुणेन्दुमोलि
      [५४८] न्वन्द[५४९]यापरवश तनयो मद्योन ।
     पादाग्रमेव धरणो प्र[५५०]णिधाय तस्ता-
     वु[५५१]द्यम्य बाहुमुपरीव फलानि लिप्सु ॥ ६६ ॥
   निरुध्य वायु निभृत तपस्यत
    शिर समुत्था दशदिग्विसृत्वरी ।
   नटत्स्फुलिङगा नवधूमसतति
   स्वुटोचकारास्या धनजयामिधाम् ॥ ६७ ॥
 तस्याथ नारदमुखात्तपस प्रभाव
 क्ष्रुत्वा हरस्त्रिजगतामधिपो दयालु ।


 तदिति । मधोन इन्द्रस्य तनय अर्जुन तत्तदिव पष्यतीति तत्ताध्शेन । असध्शेनेत्यर्थ । तपमा तरुणेन्दु बालचन्द्र मौलौ शिरसि यस्य त साम्ब दयया परवश परावीन तन्वन् कुर्वन् सन् फलानि वाञ्छितार्यानेव चूतपनसा दीनीती लिष्टरूपकम् । लिप्सु ग्रहीतुमिच्छुरिवेत्युत्प्रेक्षा । लमे सन्नन्तादुप्र त्यय । 'सनिमीमा-' इत्यादिनाम्यास्या लोप । बाहु उपरि ऊर्ध्व उद्यम्य उध्दृत्य पादयोरग्रमेव चरणो प्रकर्षेण निवाय तस्थौ स्तिवान्। अत्र रुपकोत्यापितोत्प्रेक्षया चन्द्रचूडत्य फलपृक्षोपमाप्रतीतेरलकारेणालकारध्वनि ॥६६॥

 निरुध्येति । वायु प्राण निभृत निश्चल निरुध्य तयपस्यत अस्य अर्जुनस्य शिरस समुत्था उत्थिता नटन्त स्फुलिङगा अग्रिकणा यस्या तयोक्ता दशसु दिक्षु विस्रुत्वरी व्यापनशीला नवा वूमस्य सतति पङ्क्ति धनजयेत्यमिघा सज्ञापद स्फुटीचकार् । अत्र धूमेनाग्नित्वनित्वनिश्चयादनुमानालकार । वनजयश ब्दश्लेषभित्तिका शब्दार्जुनाग्न्यभेदाध्यवसायातिशयोत्त्युज्जीवित इति तयो स कर। वशस्थवृत्तम् ॥ ६७ ॥

 तस्येति । अथ त्रयाणा जगतामधिप दयालु भक्तवत्सल हरति स्वाश्त्रितसर्वानिष्टानिति हर सदाशिव-सदसि नारदस्य मुखात् वदनात् तस्य अर्जुनस्य सवन्धिन तपस प्रभाव शीर्षादग्न्युत्थानादिरूप माहात्म्य देव्या पार्वत्त्या (कर्त्र्या) हशा ध्क्सज्ञया (करणेन) सूचिता ज्ञापिता तस्य अर्जुनस्य दिध्क्षा द्रष्टुमिच्छा यस्य तथोत्त् सन् । देव्यास्तध्र्शनेच्छा च ज्ञात्वे त्यर्थ । सपदि अभिष्ट अर्जुनस्य वाञ्छित दित्सन् दातुमिच्छन् सन्नपि । ददाते


 देव्या दृशा सदसि सूचिततद्दिदृक्षो-
  र्दित्सन्नभीष्टमपि लुब्धकतामयासीत् ॥ ६८ ॥
 हेरम्बगण्डमपङ्कवि[५५२]शेषकौ तौ
  स्कन्दौपवाह्यशिखिपिच्छ[५५३]कृतावचूडौ ।
 [५५४]भूषाधुनीतटतरुच्छदकृल्प्तवस्त्रौ
  कोदण्डिनौ व्यरुचता कुहनाकिरातौ ॥ ६९ ॥
शबरत्वजुष प[५५५]रस्य पुस शशिखण्डान्नु शकार[५५६]सविधानम् ।
भजति स्म तदा शिखण्डभाव भगवन्मस्तकभूषण यदेष ॥ ७० ॥


सनन्ताल्लट शत्रादेश । ‘सनिमीमा-' इत्यादिनाभ्यासलोप ।लुब्ध एव लुब्वक तस्य भावस्तत्ता ता लोभ शबररूप च । अयासीत् प्राप्तवान् । याते कर्तरि लुड । ‘लुब्धो मृगयुकांक्षिणो' इति विश्व । विरोधाभास ॥ ६८ ॥

 हेरम्पेति । तौ देवीमहादेवौ हेरम्बस्य गजाननस्य गण्डयो कुम्भयो मदस्य पङ्कमयो विशेषक तिलक ययोस्तौ स्कन्दस्य औपवाह्य राज वाहन स चासौ शिखी मयूर तस्य पिच्छेन कृत अवचूड शिखभूषण ययो स्तौ । ‘राजवाह्यस्त्वैपवाह्य ’, शिखावल शिखी केकी’ इत्युभयत्राप्यमर । भूधाधुन्या शिरोभूषणगङ्गाया तटयोस्तरूणा छदै पणै कलृप्ते वस्त्रे ययोस्तौ कोदण्ड धनु अनयोरस्तीति कोदण्डिनौ कुहनाकिरातै मायया शबरदम्पती सन्तौ व्यरुचता रेजतु । स्वीयेनैव परिकरेण महतामभीष्टसिद्धि , न तु तत्र पराकाङ्क्षेति भाव ॥ ६९ ॥

 शबरत्वेति । शबरख किरातभाव जुषते सेवत इति जुष । परस्य पुस परमपुरुषस्य शभो पबयोरभेदात् शस्य शकारस्य परख मुख्यत्वम् । प्राथम्ये नावस्थानमिति यावत् । तज्जुषत इति जुष पुस पुलिङ्गस्य परस्य । परेति भगवद्वाचकशब्दस्येत्यपि बोध्यम् । शशिखण्डात् चन्द्रशकलवाचकशशिखण्डश ब्दात् शकारस्य सविधान नु सघटनमभूत्किमित्युत्प्रेक्षा । यत् यस्मात् भगवत शभो मस्तके शिरसि भूषण एष शिखण्ड तदा शभो शबरभावधारणसमये शिखण्डस्य पिच्छावचूडस्य भाव शिखण्डत्र भजति स्म प्राप्तवान् । शशिखण्डे शिखण्डतामापन्ने तस्माद्विसृष्ट शकार शशिखण्डशब्दादिवृत्तित्वसस्कारेण परश ब्दस्याविभाग गत पबयोरभेदमुपजीव्य कुहनाकिरातभगवद्वाचक पुलिङ्ग शबरश-


 तदानीमेव रजतगिरिशिखरान्निर्गच्छन्तौ, किमेतदिति साशयिकै[५५७]रपि तदनुसरणोचितवेषरचनानुकूलै [५५८]प्रमथकुलै परिवार्यमाणौ, समुच्चलितलाडूलमितस्ततो धावद्भिर्दूरश्रमविदारितवदनलम्ब[५५९]मानरसनाग्रनि[५६०]पातिनीभि सृणिकाकणिकाभिर्वनपद्धति [५६१]शुद्धतरी कुर्वद्भि[५६२]र्ध्ढतरश्वसितकम्पमानावयवैस्तेषु तेषु [५६३]वनगुल्मेषु [५६४]श्वापदानन्विष्यान्विष्य हुकारमाचरद्भिर्विश्वनिगमविश्वकद्रुभिरविमुक्यमानपार्श्व-


ब्दमाविश्चकारेति समुदितमर्थान्तरम् । अत्र शशिखण्डस्य शिखण्डभावभजनेन हेतुना मायाशबरे शवर्णानुमानादनुमानाकार । वाच्यवाचकयोरभेदाध्यवसाय मूलातिशयोक्तयनुप्राणित इति तयोरङ्गाङ्गिभावेन सफर । औपच्छन्दसिकम् ॥ ७० ॥

 तदानीमिति । तदानी किरातवेषधारणक्षण एव रजतगिरे कैलासस्य शिखरान्निर्गच्छन्तौ । एतत् भगवतो कैरातरूपधारण कि कुतो वा इति सशयाप न्नमानसै साशयिकैरपीत्यपि निश्चित्यैव कार्याणा कर्तव्यत्वेऽपि । कि वा भवतु भग वदनुसरणमेव परमो लाभ इति भक्तयतिशय पारिषदाना ध्वनयतीति ध्येयम् । ‘सशयमापन्न’ इति ठक् । ‘ठस्येक ’ इतीकादेश । तयो कपटशबरदपत्यो स्नुसरणे उचितस्य वेषस्य कैरातस्य रचनया निर्माणेन अनुकूलै । अन्यथा तै सुज्ञेयतया भगवति प्रातिकूल्यमेवेति भावः । प्रमथाना कुलै परिवार्यमाणौ । ‘परिचर्यमाणौ' इति पाठान्तरे पूज्यमानावित्यर्थ । सम्यक् उच्चलित उन्नमित लाङ्गूल यस्मिन् तयथा । इतस्तत धावद्भि दूर चारेण य क्ष्रमस्तेन विदारितात् विद्युतात् वदनात् वफात् लम्बमानाया रसनाया जिहाया अग्रात् निपातिनीभि निपतनशीलाभि । ताच्छीलिको णिनि । सृणिकाया लालाजलस्य कणिकाभि । 'सृणिका स्यन्दिनी लाला' इत्यमर । वने पद्धति मार्ग शुद्धतरी कुर्वद्भि अतिपवित्रा कुर्वद्रि । अभूततद्भावे च्वि । दृढतरै अतिनिबिडै श्वसितै निश्वासै कम्पमाना अवयवा पार्श्वोदरादय येषा तै । तेषु तेषु वनगुल्मेषु कुञ्जेषु श्वापदान् मृगविशेषान् अन्विष्यान्विष्य । वीप्साया द्विर्भाव । हुकारमा चरद्भि कुर्वद्भि । विश्वे समस्तै । चतुर्भिरिति यावत् । निगमै वेदैरेव विश्वकद्रुभि शुनकै मृगयाकुशलै । ‘श्वा विश्वकद्रुर्मृगयाकुशल ’ इति शुनकपर्यायेष्वमर । अविमुच्यमानौ सगम्यमानौ पार्श्वभागौ ययोस्तौ । दीपकमृग किरातादिभि साजात्यप्रेम्णा मृगागमनाय वर्धितो मृग तद्वदाचरन् दीपकमृगाय माण । क्यजन्ताल्लट शानच् । ‘अलकृतौ दीपक ल्कीब भृगे ना भृगवञ्चके


भागौ, दीपकमृगायमाणनिजहरिणशाव[५६५]कदाचिदपि ’ इति नास्ति कचिव,कदाचिदप्यदृष्टपूर्वौ वनमस्मदीयमा'[५६६]क्रमेते इति रोषकषायिततया निवारयितुकामैरपि तेजोविशे[५६७]षेण प्रतिहतोत्साहै[५६८]रन्यै शबरयुवभि केवलम[५६९]वलोक्यमानौ, जटावल्लरीमूलप[५७०]ल्लवमुकुलीभवदञ्जलिभिस्तपस्विपुजैर्नभसि विमानवेग निरुध्य हर्षाश्रुभि[५७१]र्मरुद्भिश्चाभिवर्ष्यमाणजयशब्दौ, तौ जगदादिमौ दपती स[५७२]नियममुपासीनस्य शुनासीरसुतस्य तपोवनसीमान शनै शनैरासीदताम्।


इति हलायुध । स चासौ निजहरिणशावक करभूषणकुरङ्गशिशु तस्य पाष्णि भाग पश्चात्खुरट्टुदेश अनुसृत्य बावन सबरगमन ययोस्तौ। ‘अनुधाव्यमान पार्ष्णिभागौ’ इति पाठस्तु मृगयासप्रदायविरुद्धत्वादुपेक्ष्य । भाविनि भविष्यति पदे पदे प्रतिपादविन्यासस्थान वनदेवताभि अर्प्यमाण न्यस्यमान सुरतरु प्रसवै कल्पवृक्षकुसुमै आस्तरण यस्मिन् तथोक्तेन अतएव प्रशमित निरस्त तुहिनजडिम्ना हिमशैत्येन उद्वेग पीडा- यस्मिस्तेन हिमवतो गिरे कटकपथेन नितम्बदेशमार्गेण सविळास यथा तथा सन्चरमाणौ । पूर्वं कदाचिदप्यडष्टौ अदृष्टपूवौ एतौ किरातदम्पती कौ कुत्रत्यौ । कि च अस्मदीय वन आक्रमेते आगच्छेते इति उक्तप्रकारेण रोषेण कषायिततया कलुषितत्वेन हेतुना निवारयितु वनान्नि सारयितु कामो येषा तथोकैरपि तेजोविशेषेण दुर्निरीक्ष्यप्रकाशेन प्रतिहत भज्न उत्साह निवारणोद्यो– यैषा तै अन्यै बास्तवै शबरयुवभि किरातदपतीभि केवल भृशमवलोक्यमानौ । भयादाश्चर्यान्निवारणाशक्तेश्चेति भाव । जटा एव वर्ल्ल लता तासा मूले पल्लवमुकुल किसलयद्वयसपुटमिव सपद्यमान मुकुलीभवन् अञ्जलि येषा तै । मस्तकन्यस्ताञ्जलिभिरित्यर्थ । ‘तौ युतावञ्जलि पुमान्' इत्यमरः । तपस्विना मुनीना पुञ्जै । भुवि इति शेष । नभसि विमानवेग निरुध्य मरुद्भिर्देवैश्च उभयत्रोभयैर्हर्षाश्रुभि सम आनन्दबाष्पै सह अभिवर्यमाणा उदीर्यमाण पात्यमानाश्च जयस्य शब्दा ‘जय विजयी


'तत्र खलु'

 आपाद्लम्बिजटमातपमात्र[५७३]भक्ष-
  मूर्घ्वीभवद्भुजमुदारतप कृशाङ्गम् ।
 दृष्टयानुगृह्य कुरूवीरमुनीन्द्रमेन
  त्रेधा बभूव सुतवत्स्लता भवान्या ॥ ७२ ॥

क्षोद्यन्नथ मही खुरपातै कोऽपि कोपकुटिलो वनकोल।
घोरघूत्करणघोणमुपागात्कुक्षिमाश्रममुव कुरुसूनो ॥ ७२ ॥
 त वीक्ष्य रौद्रवपुष मृगशावकेषु
  त्रासाद्विशत्सु कटिलम्बितवल्कभागान् ।
 पर्याकुले कलकलैरपि पक्षिजाले
  पर्थो निवृत्य नियमाज्जगृहे शरासम् ॥७३॥


"भव जगदीश्वर" इत्यादय ययोस्तौ। जगत आदिमौ प्रतमौ दपती माया किरातौ सनियम यथातथा उपासीनस्य उपविष्टस्य शुनासीर इन्द्र तत्सुतस्य अर्जुनस्य तपोवनसीमान शनै शनै आसीदता प्रापतु ॥

 तत्रेति।तत्रार्जुनतपोवने । खल्वित्युत्तरेण सबन्घ ॥

 आपादेति । आपाद पादपर्यन्त लम्बिन्यो जटा यस्य तम् । आतपमात्र भक्ष आहारो यस्य तम् । ऊर्ध्वीभवन्तौ उपरिष्टात् प्रसृतौ भुजौ यस्य तम् । उदारेण महता तपसा कृश अङ्ग शरीर यस्य तम् । एन कुरुवीरमुनीन्द्र अर्जुनमुनीन्द्र ध्ष्टया अनुगृह्य । सानुग्रह ध्ष्टवेत्यर्थ। भवस्य शभो पत्न्य भवान्या पर्वत्या । 'इन्द्रवरुण-' इत्यादिनानुक् । सुतवत्सलता पुत्रवात्सल्य त्रेवा त्रिप्रकार वभूव । कुमारगणनाययोरिव अस्मिन्नपि पुत्रवात्सल्य चकारेत्यर्थ ॥ ७१ ॥

 क्षोदयन्निति। अय कोपेन कुटिल क्त्रूर कोऽपि अनिर्देशय वने कोल वराह । 'वराह सूकरो घृष्टि कोल' इत्यमर । खुराणा शफाना पातै न्यसै महीं भुव क्षोदयन् चुर्णयन् सन् । 'क्षोभयन्' इति पाठेऽपि उत्त एवार्थ । घोर भयकर घुत्करण घुरघुरेति शब्द यस्या ताध्शी घोणा प्रोथ नासिकाधोभाग यस्मिस्तत्तथा कुरुसूनो अर्जुनस्य अश्रमभुव कुक्षिं आक्ष्रममद्यभागं प्रति उपागात् आगतवान् । कुतोऽपीति शेष । गमे कर्तरि लुड ॥ ७२ ॥

 तमिति । रौद्र दारुण वपु यस्य तथोक्त चनवराह वीक्ष्य मृगशावकेषु बालमृगेषु त्रासात् भयात् कटया लम्बितान् वल्कस्य वल्कलस्य भागान् भङ्गीभूतप्रदेशान् विशत्सु । तत्र निलीयमानेषु सत्सू इत्यर्थ । पक्षिण जाले समूहेऽपि ।


मुनिरेष यदभ्ययाद्वराह मुखरज्यालतिको जवाजिघासु ।
शबरो ददृशे तदा[५७४]भिधावन्धनुराकृष्य सहानुयायिवर्गै ॥ ७४ ॥ ।
मा मुञ्च बाण मदनुद्रुतेऽस्मिन्नपेहि जाल्मेति किरातनेतु ।
वच स लक्ष्य मनसो न कुर्वन्वराहमस्रस्य चकार लक्ष्यम् ॥ ७५ ॥
 शिलीमुखाभ्या शिवसव्यसाचिनो
  समुज्झिताभ्या युगपत्किटेस्तनौ ।
 सम विभज्यायुरभुज्यत [५७५]क्षणा-
  त्सहोदराभ्यामिव पै[५७६]तृक घनम् ॥ ७६ ॥

तत कुपितोऽपि कुरुप्रवीरस्तप शान्ततया नातिपरुषमे[५७७]वमुवाच ।


कलकलै शब्दै परित आकुले व्याकुले सति नियमात् निवृत्य समाधि विरम्य। ‘जुगुसाविराम-' इत्यादिना पञ्चमी । शरा आसतेऽत्रेति शरास चाप जगृहे । गृहीतवान् । आर्तत्राणस्य तपसोऽयुत्तमत्वादिति भाव ॥ ७३ ॥

 मुनिरिति । एन वराह हन्तुमिच्छु जिघासु अत एव मुखरा शब्दाय माप् ज्या गुणो लतिकेव यस्य तथोक्त् एष मुनि अर्जुन यदा जवात् अम्य यात् वराहाभिमुखमागतवान् । तदैव धनु सशरमाकृष्य अनुयायिना सहच राणा वर्गै वृन्दै सह अभिधावन् वराहमनुद्रवन् सन् शबर कपटफिरात ददृशे अलक्ष्यत । मुनिनेति शेष । औपच्छन्दसिकम् ॥ ७४ ॥

 मा मुञ्चेति । हे जाल्म असमीक्ष्यकारिन्, मया अनुद्रुते अनुवाविते अस्मिन् वराहे बाण मा मुञ्च । अपेहि अन्यतो गच्छ । इत्युक्तप्रकार किरातनेतु कपटशबरनायकस्य वच मनस लक्ष्य विषय न कुर्वन् अकुर्वाण सन् । ननर्थस्य नशब्दस्य सुप्सुपेति समास । सोऽर्जुन वराह अस्त्रस्य बाणस्य लक्ष्य शरव्य चकार ॥ ७५ ॥

 शिलीमुखाभ्थामिति । युगपत् एफदा फिटे वराहस्य तनौ शरीरे । ‘कोल पोत्री किरि किटि’ इत्यमर । समुज्झिताभ्या प्रयुक्ताभ्या शिवसव्यसाचिनो किरातार्जुनयो शिलीमुखाम्या वाणाभ्या आयु सहोदराभ्या भ्रातृभ्या पैतृक पित्र्य बनमिव सम यथा तथा विभज्य विभाग कृत्वा क्षणात् अनुज्यत भुक्तम् । भुजे कमणि लुड्। वशस्थम् ॥ ७६ ॥

 तत इति । तत वराहववानन्तर शिवेन बाणप्रयोगाद्धेतो इति वा कुपितोऽपि कुरुप्रवीर अर्जुन तपसा शान्ततया शमप्रवानत्वेन हेतुना नातिपरुष ईषत्कूर यथा तथा एव वक्ष्यमाणप्रकारेण उचाच ॥


 अस्मिन्ममावसथमापतिते मया प्रा-
  ग्लक्षीकृते शबर यत्प्रहृत त्वया तत् ।
 शापस्य वाथ धनुषोऽसि व[५७८]शे तथापि
  सोढ ममाद्य तपसा च भुजोष्मणा च ॥ ७७ ॥

 इति तस्य मुनेरन्तर्दर्परसपरीवाहवेणीमिव वाणीमाकर्ण्य क्षोणीधरधन्वापि सस्मित प्रत्यभाणीत् ।

मृदुबुद्धिरङ्ग वचसैव लक्ष्यसे मृगहिसन विपिनसीमनीदृशम् । शतश स्खधर्म इति पठ्यते बुधै शबरस्य वा वद तपोधनस्य वा ॥ ७८ ॥

 तत्स्वकुलाचारादप्रमाद्यते मह्यमयुक्तकारिणापि त्व[५७९]या कियहूर प्रकाश्यते तपसीव[५८०] बाहावष्याहोपुरुषिका ।


 अस्मिन्निति । हे शबर, मम आवसथ आश्रम प्रति आपतिते आगते कि च मया प्राक्पूर्वमेव लक्षीकृते शरव्यीकृते अस्मिन् वराहे त्वया प्रहृत ताडित इति यत् तदपराधकरण मम शापस्य वशे वर्तते अथवा धनुषो वशेऽपि वर्तते । अन्यतरेणैव वध्य त्वा हन्तु शकुयामित्यर्थ । कितु तथापि मम तपसापि अद्य सोढ क्षान्तम् । लोपभयादिति भाव । भुजोष्मणा च बाहुबलेनापि सोढम् । बलिना दुर्बलैर्युद्धस्य लज्जकरत्वादिति भाव ।यद्यस्मादिति तत्तस्मादिति वा योज्यम् ॥ ७७ ॥

 इतीति । इति उक्तप्रकारा अन्तर्मनसि दर्परसस्य परीवाह उपकुल्या । ‘जलोच्छाव्सा परीवाहा ’ इत्यमर । तस्य वेणी प्रवाहमिव स्थिता तस्य मुने अर्जुनस्य वाणी वाक्य क्षोणीधरो मेरु धनुश्चापो यस्य स शिवोऽपि सस्मित यथात्था प्रत्यभाणीत् प्रयुक्तवान् । प्रतिपूर्वाद्भणते कर्तरि लुड् ॥

 मृदुबुद्धिरिति । अङ्ग हे अर्जुन । ‘अङ्गत्यामन्त्रणेऽव्ययम्' इत्यमर । त्व वन्चसैव मृद्वी शान्ता बुद्धिर्यस्य तथोक्तो लक्ष्यसे दृश्यसे । नतु शीलेनेत्यर्थ । यत विपिनसीमनि ईदृश एवविध भृगहिसन शबरस्य स्वधर्म स्वीयो धर्मे कुल धर्म इति बुधै विद्वद्भि शतश बहुविध पठयते । उत तपोधनस्य स्वधर्म इति पठयते वा । शतश इत्युभयत्र योज्यम् । वद ब्रूहीत्यत्र वाक्यार्थ कर्म । पठते कर्मणि लट् । मजुभाषिणी ॥ ७८ ॥

 तदिति । तत् तस्मात् मृगहिसनस्य शवरधर्मत्वाद्धेतो स्वकुलस्य शबरकुलस्य आचारात् धर्मात् अप्रमाद्यते । तमत्यजत इत्यर्थ ।‘जुगुप्स विराम-'इत्यादिना अपादानत्वम् । मह्यम् । मा प्रतीत्यर्थ । अयुक्त कुलशीलानुचित मृगहिसन करोतीति कारेिण त्वयापि तपसीव बाहावपि उभयत्र । आहोपुरुषिका


 सदृश्यते खलु तपस्तव शुद्धमेत-
  द्यज्जन्तुहिसनविधौ दृढबद्धकच्छम् ।
 आस्तामिद भुजबल च मृगाययेऽस्मि-
  न्साहाय्यक यदुपजीवति मे शरस्य ॥ ७९ ॥

ईदृ[५८१]शीं वचनरीतिमपास्यन्नेहि सान्त्वय क्रियानसि मे त्वम् । अक्षिण किचिदरुणिनि जगत्यामन्तकोऽपि मद्तीव बिभीयात् ॥८०॥

 इति शकर[५८२]स्याहकारवादेन सातङ्क कुरु[५८३]कुलशशाङ्क पुनरपि का[५८४]मपि गिरमेवमङ्कुरयामास ।


आत्मोत्कर्षाभिमान । ‘आहोपुरुषिका दर्पाद्या स्यात्सभावनात्मनि’ इत्यमरः । क्रियदूर प्रकाश्यत इति काकु किचिदपि न प्रकाशनीयेत्यर्थ । परित्यक्तकुल वर्माणा कि नाम तप को नाम वा बाहुप्रताप इति भाव ॥

 तप प्रतापयोर्नि सारत्वमेव विशदयति--सदृश्यत इति । हे मुने, यत्तव तप जन्तूना प्राणिना हिसनविवौ वकर्मणि विषये दृढ यथातथा बद्ध कच्छ म यबन्धनपट येन तथोक्तम् । वृतसङ्कल्पमित्यर्थ । तदेतत्तव तप शुद्ध निदोष सत् सदृश्यते सल्विति काकु । न सदृश्यत एवेत्यर्थ । किचेति चार्थ । यत्तव भुजयोर्बलमस्मिन् मृगस्य वराहस्य अत्यये हिसाया विषये मे मम सब न्धिन शरस्य साहायक तत्कृतसहाकृत्य उपजीवति । अपेक्षत इत्यर्थ । तदिद तव भुजबलमथि आस्ता तिष्ठतु । धिगिति यावत् । मरयमुञ्चति बाण न हन्यादेव त्वद्वणो वराहमित्यर्थ ॥ ७९ ॥

 ईदृशीमिति । हे मुने, कि बहुना ईदृशी ‘शापस्य वा’ इत्यादिप्रकारा वचनाना रीतिं अपास्यन् त्यजन् सन् । एहि समीपमागन्छ | सान्वय। अपराधिन त्रायस्व मामित्यनुनय मा प्रतीत्यर्थ । त्ख कियानसि । तृणप्राय इत्यर्थ । यत । अक्षिण मम लोचने किचित् ईषत् अरुणिमा यस्य तथोते। मना शोणायमाने सतीत्यर्थ । कोपादिति भाव । जगत्या लोके अन्तको मृत्युरपि मत् मत्त अतीव भृश बिभीयात् त्रस्येत् । किमुतान्य इत्यर्थ । अत्रान्तकस्यापि मल्लोचनशोणिम्नि भयोत्पत्तौ किमुत भवादृशा क्षीणसाराणा इत्यर्थान्तरस्य कैमुत्येन सिध्देरर्थापत्ति । एव लोचनारुण्यमात्रेणान्तकत्रासरूपवाक्यार्थस्य सान्त्ववादकरण प्रति हेतुत्वात् वाक्यार्थहेतुक काव्यलिङ्गम् । द्वयोरेकवाचानुप्रवेशसफर । खागता ॥ ८० ॥

 इतीति । इति उक्तप्रकारेण शकरस्य कपटशबरस्य सबन्धिना अहकारवादेन तिरस्कारवाक्येन सातङ्क किमय जगद्विलक्षणो सवेदिति सवितर्फ ससतापो वा । ‘रुतापशङ्कास्वातङ्क' इत्यमर । कुस्कुलस्य शशाङ्क चन्द्र अर्जुन ।


यस्माद्वनेचरकुलाधम जल्पसि त्व-
 मेव मन पुलकयन्स्वजनस्य दृप्त ।
तस्मादशयमुपान्तजुष किराया-
 स्ताटङ्कमेव सहसे न कपोलमित्रम् ॥ ८१ ॥
तादृग्वच श्रवणदाहि मुनेर्निशम्य
 सर्वे गणा हृदि रुषा निजिघासवोऽपि
देव्या विलोक्य वदन स्मितगर्भगण्ड
 तूणार्धकृष्टविशिखेन करेण तस्थु ॥ ८२ ॥


पुनरपि कामपि अवच्या गिर बाच एव वक्ष्यमाणप्रकारेण अङ्कुरयामास । उवाचेत्यर्थ ॥

 यस्मादिति । हे वनेचरकुलाधम आरण्यकापसद, दृप्तस्व स्खजनस्य किरात्यादे भन पुलकयन् हर्षयन् सन् यस्मात्कारणादेव उक्तप्रकार जल्पसि वदसि तस्मात् उपान्तजुष समीपवर्तिन्या किरात्या त्वत्पत्न्या ताटङ्क कपोलस्य मित्र सहचारिण न सहसे । कपोल ताटङ्कभूषित न क्षमस एवेत्यर्थ । असशय ध्रुवम् । त्वन्मरणेन तद्वैधव्य जनयसि, त्वामद्याह निहन्मीति वा परमार्थ । वीररसानुगुण्येन प्रास्तुतिकोऽर्थोऽयम् । वास्तवार्थस्तु हे वनेचर, यस्मादेव ‘मृदुबुद्धिरङ्ग-' इत्यादिना कुलाधमेति जल्पसि । मृगहिंसनेन त्यक्तकुलधर्मतया कुलावमत्वेन भा कथयस इत्यर्थ । तस्मात् किरात्या ताटङ्कमेव एक ताटङ्कमात्र कपोलमित्र तद्भूषण न सहसे, कि त्वद्वीरवादमपीदृश तद्भूषण करोषीत्यर्थ । अथवा ताटङ्क कपोलमित्र न सहस एव । कितु त्वद्वीरवादमेवेत्यर्थ । तदाकर्णनकौतुकिन्या कर्णावरणभयात्तत्त्यात्त्याज्यस इति भाव । अत्र भगवत परिहासेऽपि स नानु चित । ‘अपि कुशलिनी प्रेतावासस्थली सहवासिन प्रमथपतय कञ्चिज्जीर्ण सुखी किमु शार्वर । अपि च सुलभा भिक्षाऋत्तिर्जगत्रयनाथ हे न खलु शिथि लप्रान्त कि ते ’ गजाजिनकम्बल ॥' इत्यादौ बिहल्णादिभि माहेश्वरस्तुतिषु तस्यापि प्रदर्शितत्वादिति ॥ ८१

 तादृगिति । तादृक् उक्तविव श्रवणे दहतीति तद्दाहि कर्णकठोरम्। ताच्छीलिको णिनि । मुने अर्जुनस्य वच निशम्य सर्वे गणा प्रमथा रुषा कोपेन हृदि मनसि निहन्तुमिच्छव निजिघासवोऽपि सन्त स्मित गभ मध्ये ययोस्तौ स्मेरौ गण्डौ कपोलौ यस्य तत् देव्या पार्वत्या वदन विलोक्य तूणात् निषङ्गात् अर्घ कृष्ट विशिख बाण येन तेन करेण उपलक्षिता तस्थु । देव्या अपराधभयादिति भाव । अत्र पुत्रवत्सलदेवीस्मेराननावलोकनस्य विशेषणगत्या गणाना बाणमोचनौदासीन्य प्रति हेतुत्वात्पदार्थहेतुक काव्यलिङ्गम् ॥ ८२ ॥


अथ भिल्लमल्लकुरूवल्लभावुभौ परिफुल्लभल्लकुलशल्यपल्लवै ।
स्थगितावलोकसराणि दिवौकसा समर भयकरजव वितेनतु ॥ ८३
 श्लथ[५८५]बन्धगरुद्भिरेष बाणै श्रवणालम्बिजपाक्षसूत्रघर्षात् ।
 प्रमथेशमवाकिरत्त[५८६]दीय प्रतिमालिङ्गमिव प्रसूनपुञ्जै ॥ ८४ ॥
 सरुषीव हरे विकृष्टचापे स[५८७]शर शैलसुतापि जातशङ्का ।
 मघवत्सुतमङ्गलाय देवी मनसा यातइ[५८८]षुश्रुति जजाप ॥ ८५ ॥
 ससभ्रमाकृष्टधनुर्गुणोऽपि शभु कृपाम्भोनिधिरिन्द्र[५८९]सूनौ ।
 सबद्धमात्रान्कतिचिच्च देहे चक्त्रेऽपराद्धान्कतिचिञ्च बाणान् ॥ ८६ ॥


 अथेति । भिल्लमल्ल किरातश्रेष्ठ , कुरुवल्लभ अजुनश्च उभो परिफुल्ले अति प्रकाशे भल्लाना बाणविशेषाणा कुलाना समूहाना अशल्यानि अग्राणि पल्लवानी त्युपभा । एफ़त्र प्रेमा, अन्यत्र भावातिशय च ध्वनयति । तै स्थगिता च्छन्ना अवलोकसरणि अवलोकनमार्ग याभ्या तथोक्तौ सन्तौ । भयकर जव शरादानादौ लाघव यस्मिन् तथोक्त समर युद्ध वितेनतु चक्रतु । मञ्जुभाषिणी ॥ ८३ ॥

 श्लथेति । एष अजुन श्रवणे कणें आलम्बिना जपस्याश्वसूत्रेण जपमालिकया घर्षात् श्लथा शिथिाला बन्वा अन्वनानि येषा तादृशा गरुत कङ्कादिपत्राणि येषा तै बाणै प्रमथेश कपटशबर तदीय प्रमथेशसबन्धि प्रतिमामय लिङ्ग अर्चारूप प्रसूनपुजैरिव अवाकिरत् आच्छादितवान् । अत्राप्युपमया बाणाना पुष्पमार्दवापादको भगवत प्रभावातिशय इति ध्वननादळकारेण वतुध्वनि ॥ ८४ ॥

 सरुषीति । हरे शबरे सस्यीव । न वस्तुत क्रुद्ध इत्यर्थ । सशर यथा तथा विकृष्टचापे सति शैलस्य सुता पार्वत्यपि । शैलवच्छैलपुत्र्या वीरत्व सूचयति । जाता शङ्का कि सत्य प्रहरतीति वितर्क यस्यास्तथोक्ता सती मघवत्सु तस्य अर्जुनस्य मङ्गलाय क्षेमार्थ ‘यातइषु ’ इति श्रुति मनसा जजाप दध्यौ । पुत्रवात्सल्य तस्मिन् पूर्वमुक्तत्वादिति भाव । ‘या त इषु शिवतमा शिव बभूव ते धनु । शिवा शरव्या या तव तया नो रुद्र मृडय ॥’ इति श्रुति । अर्थस्तु=रोदयति जगष्ट्रोहिण इति रुद्र ते तव या इषु बाण शिपतमा अतिशयशुभप्रदा बभूव, यत्ते धनु शिव बभूव, या तव शरव्या लक्ष्य शिवा बभूव, तया इष्वा तेन धनुषा तया शरव्यया नोऽस्मान् मृडय सुखय । न मारयेत्यथ ॥ ८५ ॥

 ससभ्रमेति । ससभ्रम यथा तथा आकृष्टवनुर्गुणोऽपि इन्द्रसूनौ अजुने विषये कृपाम्भोनिधि शभु कतिचित् बाणान् देहे अर्जुनशरीरे सबन्धमात्रान्


विगाह्य शभु विजयस्य बाणा पुन पदत्व पुपुषुर्न दृष्टयो ।
नरादुदरादभिगम्य लुब्ध न मार्गणा यान्ति ख[५९०]लु प्रकाशम् ॥ ८७ ॥
 नि स्खे निषङ्गयुगळे नितराममर्षी
  चापेन मूर्न्धि गिरिश पुर एव देव्या ।
 पार्ष्णिप्रमुक्तधरणि प्रजहार वेगा-
  त्कुर्वन्व्रण स कुटिल शशिखण्डमित्रम् ॥ ८८ ॥
धनुषामिहतात्समुत्थितैर्धरकन्यारमणस्य मस्तकात् ।
विपुलैरिव रक्तशीकरै[५९१]र्विनिपेते मणिभि फणाभृताम् ॥ ८९ ॥
 


स्पृष्टमात्रान् कतिचित् बाणान् अपराद्धान् लक्ष्यच्युतान् चक्रे । ‘अपराद्धपृषत्कोऽसौ लक्ष्याद्यश्च्युतसायक' इत्यमर । अत्र दयासमुद्रत्वस्य विशेषणगत्या शराणा स्पर्शमात्रलक्ष्यच्युतिकरणद्वय प्रति हेतुत्पदार्थहेतुक काव्यलिङ्गम् ॥ ८६ ॥

 विगाह्चेति । विजयस्य अर्जुनस्य बाणा शभु विगाह्य प्रविश्य पुन दृष्टयो पदत्व नेत्रविषयत्व न पुपुषु न पुष्यन्ति स्म । अन्तर्हिता बभूवुरित्यर्थ । तथाहि-मार्गणा याचका बाणाश्च उदारात् महत दातुश्च नरात् मनुष्यात् अर्जुनाञ्च । ‘त त्यक्त्वा’ इति ल्यब्लोपे पञ्चमी । लुब्ध कृपण किरात च अभिगम्य प्राप्य प्रकाश लोचनगोचरत्व च न यान्ति खलु । सामान्येन विशे- षसमर्थनरूपोऽर्थान्तरन्यास श्लेषसकीर्ण ॥ ८७ ॥

 नि स्ख इति । निषङ्गयो तूणीरयो युगले नि स्वे बाणधनशून्ये सति नितराममर्षी क्त्रुद्ध सोऽर्जुन कुटिल अतएव शशिखण्डस्य शिर स्थस्य मित्र सदृश सहवर्ति च व्रण कुर्वन् करिष्यन् सन्निति वर्तमानसामी'ये वर्तमाननिर्देश । वेगात् पाष्णिभ्या गुल्फाबोभागाभ्या प्रमुक्ता वरणि भू येन तथोक्त । पादाप्रमात्रावस्थित सन्नित्यर्थ । उन्नतत्वाच्छिवस्येति भाव । यत्तु ‘स्द्रस्थितिदेश प्रति धावन्नित्यर्थ’ इति नृसिंह , तन्न । पाष्णित्यागेन बावनलक्षणायामुक्तस्वारस्यायोगात् । प्रत्युत ‘अर्थमन्तर्वेद्यर्थ बहिर्वेदि मिनोति’ इति न्याये वेदिबहिर्भागयोमध्यभागस्येवोक्तार्थस्यैव लक्षणीयत्वात् । देव्या पार्वत्या पुर समक्षमेवेति कारुण्योक्ति । चापेन गाण्डीवेन । गिरौ कैलासे शेत इति गिरिश शभु मून्धि शिरसि प्रजहार ताडितवान् । शूराणा यावज्जीवित रणोत्साह इति भाव ॥८८॥

 धनुषेति । धनुषा गाण्डीवेन अभिहतात् धरकन्यारमणस्य पार्वतीपते मस्तकात् शिरस समुत्थितै उद्रतै फणाभृता भूषासर्पणा मणिभि शिरोरत्नै विपुलै महद्भि रक्तशीकरै शोणितबिन्दुभिरेिवेत्युत्प्रेक्षा । विनिपेते निपतितम् । पततेर्भावे लिट् । यत्त्वत्रार्जुनधनु प्रहारेण रुद्रशिरसो रक्तानि तच्छिरस्थसर्परूपभूषणमणयो न्यपतन्नितीवकारस्य समुञ्चयबोधकत्वमाह नृसिह , भुवि


 देवस्य तस्य जगता जनकस्य चित्ते
  पार्थप्रहारजनुष प्रमदाम्बुराशे ।
 भूषा[५९२]धुनीतटभुवि द्विपवकबाल्य-
  ’बप्रक्रियाभिरुदित प्रमद् कणोऽभूत् ॥ ९० ॥

[५९३]स गाण्डीवण्डोऽपि खाण्डवे तक्षकवधूवधसाधनतया चिरमयभस्मत्कुलविरोधीति क्रोधनै[५९४]स्तस्य जटावनकुटुम्बिभि कुण्डलिभिर्भक्षित इव तत्क्षण नालक्ष्यत । ततोऽय दैवविपर्यय कि[५९५]मुतामुष्य माया किमिति चिन्ताप-


महता रक्तपातस्य लोकमात्राश्रेयस्करत्वोतेरग्रेऽर्जुनस्य जगदीश्वरप्रसादरूपश्रे योवर्णनासगत्या तदीयशिवविदूषविलसितमेवैतदिति नास्माक चोद्यावकाश । वैतालीयम् ॥ ८९ ॥

 देवस्येति । जगता सर्वलोकाना जनकस्य पितु अतएव तस्य देवस्य शभो चित्ते मनसि भूषाधुन्या शिरोभूषणभूतगङ्गाया तटभुवि तीरदेशे शिरोरूपे द्विपवक्त्रस्य विनायकस्य बाल्ये या वप्रक्रिया तटोत्खातक्रीडा ताभिरुदित जनित प्रमद सतोष पाथन प्रहारात् गाण्डीवताडनात् जनु जन्म यस्य तस्य प्रमद एवाम्बुराशे समुद्रस्य सबन्धी कण सूक्ष्मलेश अभूत् । ततोऽयत्र पुत्रवात्सल्याधिक्यादतिवेल देवस्तुष्टोऽभवदित्यर्थं । यत्तु ‘भूषणरूपेण वर्तमानाया गङ्गा यास्तटभूते स्खशिरस्येव विनायकस्य गजाननत्वात्तदीयवप्रक्रियाया किचिदपि वेदना न जातेति तात्पर्यम्’ इति नृसिह , तत्तदीयशिवविद्वेषिताविलसितमेव । यत पार्थप्रहारवेदनाया प्रसक्तिशून्याया विघ्नेशवप्रक्रियावेदनाधिक्यवर्णनाद्वात्सल्यरससविधानसरम्भिण कवेस्तात्पर्याननुरोधित्वात्प्रमदशब्देन वैदनालक्ष णाया मुरयार्थबाधादिति हेतुत्रयाभावाञ्चेति ॥ ९० ॥

 स इति । स प्रहारसाधन गाण्डीवदण्डोऽपि खाण्डवे । तद्दाहकाल इत्यर्थ । तक्षकस्य वध्वा वधे सावनतया चिर बहुफालात् अय अस्माक कुलस्य विरोधी शत्रु इति हेतो क्रोधनै क्त्रुद्धै तस्य देवस्य शभो जटा एव वन तस्मिन् कुटुम्बिभि निवासिभि कुण्डलिभि सर्पै भक्षित इवेत्युत्प्रेक्षा । तत्क्षण प्रथ मप्रहारक्षण एव नालक्ष्यत न दृष्ट । अर्जुनेनेति शेष । भगवत प्रभावात्सोऽष्यन्तर्हितोऽभूदित्यर्थ । लक्षते कर्मणि लड् ॥

 तत इति । तत गाण्डीवस्याप्यन्तधानाद्धेतो अय बाणचापतिरोधान दैव विपर्यय दैवप्रातिकूल्य क्रिम् । उत अमुष्य किरातस्य माया ऐन्द्रजालिक क्रिम् । उभयत्र किशब्दो वितर्के । इत्युक्तप्रकारेण चिन्ताथा परतन्त्रेण परा-


रतन्त्रेणापि धैर्यदत्तहस्तोत्साहेन 'तिष्ठ तिष्ठ[५९६] जडात्मन् , एवमर्जुन निर्जित्य यशोऽर्जितुमिच्छसि’ इति कृततर्जनेन सितवाहनेन वृ[५९७]षवाहन प्रति नियोद्धुमारेभे ।

 परुषे मुनिमुष्टिताडने पतिते लुब्धकवामवक्षसि ।
 शिथिलाजगलु किरातिकाया सितगुञ्जामणिहारयष्टय ॥ ९१ ॥
 उपवासकृशे भृश मुनेरुरसि स्वीकृतमुष्टिमार्दव ।
 प्रजहार हरोऽपि पी[५९८]डनात्परिहर्तु स्वमिवास्य हृद्गतम् ॥ ९२ ॥

 इति परस्परमुष्टिप्रहारवृष्टिपरिसृष्टवनकुसुमपरागभस्माङ्गरागौ सरभसमेकेन बाहुना जटासु गृहीत्वापरेण [५९९]बाहुना वलयित[६००]गलनालौ तौ शबरतपोधनौ यदा महत्यामधित्यकायामापतता तदा झटिति घटित-


वीनेन अपि धैर्येण सुखे दु खे वा विकृतचित्तात्मकेन दत्तहस्त कृतावलम्ब उत्साह रणोद्यम यस्य तेन । हे दुरात्मन् , दु खगम्य आत्मा स्वरूप यस्येति च । तिष्ठ तिष्ठ । एवम् । बाणचापतिरोधापनेनेत्यर्थ । अर्जुन निर्जित्य यश कीर्ति अर्जितु सपादयितु इच्छसीति काकु । त्वदिच्छा निष्फलैवेत्यर्थ । इत्युक्त- प्रकार कृत तर्जन भर्त्सन येन तेन सितवाहनेन अर्जुनेन धृषवाहन शिव प्रति नियोद्धुम्। तेन सह बाहुयुद्ध कर्तुमित्यर्थ । आरेभे उपक्त्रान्तम् । रभतेर्भावे लिट् ॥

 परुष इति । परुषे अतिकठिने मुने अर्जुनस्य मुष्टिताडने लुब्धकस्य किरातस्य वामवक्षसि वक्षोवामदेशे देव्या सबन्धिनि पतिते लग्ने सति शिथिला श्लथा किरातिकाया पार्वत्या सबन्धिन्य सितगुञ्जामणिमरय हारयष्टय सरा जगलु गलन्ति स्म । अर्धनारीश्वरस्य देवस्य वक्षोवामदेशाद्देवीवक्षसोऽनतिरे- कादिति भाव । औषच्छन्दसिकम् ॥ ९१ ॥

 उपवसेति । हरोऽपि उपवासेन अनशनव्रतेन कृशे मुने अर्जुनस्य उरसि अस्यार्जुनस्य हृद्रत मनसि स्थित खमात्मान पीडनात् प्रहाख्यथात पूरिहर्तु मोचयितुमिवेत्युत्प्रेक्षा । भृश स्वीकृत सुष्टौ । तत्प्रहार इत्यर्थ । मार्दव शैथिल्य येन तथोक्त सन् प्रजहार ताडितवान् ॥ ९२ ॥

 इतीति । इति उक्तप्रकारेण परस्परमुष्टिप्रहारैरेव युष्टया बर्षेण परिमृष्टौ क्षालितौ वनकुसुमपरागमयो भस्ममयश्च अङ्गराग ययोस्तौ एकेन बाहुना जटायु सरभस गृहीत्वा अपरेण बाहुना वलयित वेष्टित कण्ठनाल याभ्या तौ । पर स्परमित्यत्रापि योज्यम् । तौ शबरतपोवनौ किरातार्जुनौ महत्या अधित्य-


द्वारदरीगर्भनिरुद्वसि[६०१]द्धमिथुननि[६०२]बद्धहाहाकार[६०३]स्तीरवदूरोत्सर्पिवी[६०४]चीवेगोत्पाटिताकृष्टमुनिजनपर्णशालासहस्रसुरस्रवन्तीपूरो दर्वीकरविभुकधराखर्वीकरण[६०५]पटुभारोऽयमुर्वीधरपतिरासीत् ।

अवाड्झुखत्वेन निपात्य शभुना समुज्झितोऽय ददृशे विमोहित ।
तवाद्य जामातरि मे दशामिमा निवेदयेत्यद्रिमिव ब्रुवन्रह ॥ ९३ ॥

 पार्थस्य तस्य भुजयो परमेश्वरोऽसौ
  वीर्य विलोक्य युधि विस्मयमानचेता ।
 चापव्रणे सुरनदीफणसेकशङ्का-
  मप्युत्सृजन्मुहुरकम्पयदुत्तमाङ्गम् ॥ ९४ ॥


काया हिमशैलोध्र्वभूमौ यदा आपतता पतत स्म । तदा तावदेव अय उर्वाधरपति हिमवान् झटिति सत्वर घटित पिहित द्वार यासा तासाम् । तत्पतन क्षोभादिति भाव । सवत्र दरीणा कन्दराणा गभेषु म येषु निरुदै सिद्धाना देवयोनिविशेषाणा मिथुनै द्वन्दू निबद्धा उदीरिता हाहाकारा यस्मिन् तथोक्त । तीरयोर्वनेषु दूरमुत्सपिणीना व्याप्नुवन्तीना वीचीना तरङ्गाणा वेगेन उत्पाटितानि उन्मूलितानि आकृष्टानि च मुनिजनाना पर्णशालासहस्राणि येन तादृश सुरस्रवन्त्या गङ्गाया पूर प्रवाह यस्मिस्तथोक्त दर्वीकराणा सर्वाणा विभो शेषस्य क्धराणा श्रीवाणा सर्वीकरणे भुग्नीकृतौ पटु समर्थ भार यस्य तथो क्तश्चासीत् । यत्तृत विवेयत्रयस्य उपसर्जत्वेन नृसिंहप्रलपितम्, तदविमृष्ट विधेयाशत्वदोषापत्तेरुपेक्ष्यम् ।

 अचाब्युस्वेति । शभुना किरातवेषेण अवाङ्मुखत्वेन निपात्य । अधोमुख यथातथा पातयित्वेत्यर्थ । समुज्झित त्यक्त । बाहुभ्यामिति भाव । अतएव विशेषेण मोहित मूर्च्छा गमित अय अर्जुन । हे ’ अद्रे, तव जामातरि कन्याभर्तरि शभौ विषये मे मम इमा दशा अवस्था निवेदय विज्ञापय इत्युकप्रकार अद्रि हिमगिरि प्रति रह ब्रुवन् कथयमिवेत्युत्प्रेक्षा । ददृशे दृष्ट । तत्रत्यैरिति शेष ॥ ९३ ॥

 पार्थस्येति । असौ परमेश्वर शभु युधि युद्धे तस्य पार्थस्य भुजयोर्वीर्थ विलोक्य विस्मयमान चेत यस्य तथोक्त सन् । अतएव चापेन गाण्डीवेन यद्रण तस्मिन् सुरनदीकणै गङ्गाजलबिन्दुभि सेके उक्षणे विषये शङ्का वितर्कमपि उत्सृजन् अगणयन् सन् । आर्द्रव्रणे शीतजलसेकस्यातिवेदनाकरत्वमप्यचिन्तयन्निति यावत् । उत्तमाङ्ग शिर मुहुरकम्पयत् । श्लाधयामासेत्यर्थ ।


 तथाविध एवासौ चिरा[६०६]दाचरितचेतनाखागताचार श[६०७]नैरुत्थाय पुरतो [६०८]घण्टाघणघणात्कारसहचरेण कण्ठगर्जितेन कर्णयो [६०९]कल्पितसुधारसमोक्षे महोक्षे निषेदिवासम् , भुजमूलप्रसारितगिरिजापाणियु[६१०]गलनखराङ्लुरधोरणीद्विगुणीकृतहारमणिरमणीयवक्षसम् , पारिषदगणाञ्जलिकमलवनमध्यराजहसायमानम्, मार्दवभरितशार्दूलचर्मनिर्मित[६११]पल्ययनपर्यङ्कोपरिभागतिर्यगर्पित[६१२]चरणपल्लवसवाहनपरेण शिलादकुमारेण च [६१३]दपैदुर्ललननिवारणाय [६१४]मुखबन्धनकशृङ्खलेन निरुध्य मुहुर्मुहु करपुटास्फालितककुदशृङ्गेण [६१५]भृङ्गिणा च लक्ष्यमाणोभयपक्षभागम्, गाण्डीवदण्डताडनप[६१६]रिपीडितचूडाशशिनमाश्वा-


अत्र युद्धे तादृग्भुजवीर्यविलोकनजनितविस्मयस्य विशेषणगत्या तथाविवाशिर क- भ्पनहेतुत्वात्काव्यलिङ्गभेद ॥ ९४ ॥

 तथाविध इति । तथाविध अवाझुख पतित एवासौ अजुन चिरादाचरित कृत चेतनाया सज्ञाया स्वागताचार सुखागमनक्त्रियायास्मिस्तथोक्त सन् । शनै उत्थाय पुरत अग्रे घण्टाना ग्रेवेयाणा घणघणात्कारस्य सहचरेण मित्रेण । तन्मिश्रितेनेति यावत् । कण्ठस्य गजितेन हुकाररवेण कर्णयो कल्पित सुधारसस्य अमृतस्य मोक्ष वर्षे येन तस्मिन् महोक्षे वृषभराजे निषेदिवास आसीनम् । भुजयो र्मूलाभ्या कक्षाभ्या प्रसारितस्य गिरिजाया पार्वत्या पाणियुगलस्य नखराङ्कुराणा धोरण्या पङ्क्तया द्विगुणीकृतै हारमणिभि मौक्तिकै रमणीय वक्ष यस्य तथोक्तम् पारिषदाना गणस्य प्रमथसमूहस्य अञ्जलीनामेव कमलाना वनस्य मध्ये राजहसवदाचरन्त राजहसायमानम् । क्यजन्तापल्लट शानचू । मार्दवभरितेन अतिमृदुना शार्दूलचर्मणा निर्मितस्य पल्ययनस्य वाहनपृष्ठास्तरणस्यैव पर्यङ्कस्य शयनस्य उपरिभागे । ‘पल्ययनपल्लव-' इति पाठे पल्ययन पल्लवमिवेत्युपमितसमास । तिर्यगर्पितस्य न्यतस्य चरण पल्लव इव तस्य सवाहने मृदुमर्दने परेण व्यापृतेन शिलादकुमारेण नन्दिकेश्वरेण च। दर्पात् दुर्ललनस्य उत्पल्वनस्य निवारणाय मुखे वक्रे बध्रारतीति बन्धनेन कनकमयेन श्र्ङ्खलेन खलीनेन निरुध्य मुहुर्मुहु करपुटेन पुटीकृतहस्तेन आस्फालित आश्वासार्थ परामृष्ट ककुदस्य शृङ्ग उपरिभाग येन तेन भृङ्गिणा प्रमथविशेषेण च । द्वाभ्या लक्ष्यमाणौ उभौ पक्षभागौ पार्श्वदेशौ यस्य त लक्ष्यमाणोभयपक्षभागम् । गाण्डीवदण्डताडनेन परिपीडित चूड़ाया शशिन


सयितुमवतरद्भिरुडुनिकरैरिव सुरतरुकुसु[६१७]मवर्षैरवकीर्यमाणम् , जटाभस्मकुशचीरधारिभिस्तैरेव चतुर्भिराम्नायपुरुषै परिपठयमानशतरुद्रीयविरुदप्रबन्धम्, अम्बरे सविवमवलम्बमानैस्तु[६१८]म्बुरुप्रभृतिभि

सुर[६१९]वैणिकैरुपवीण्यमानभक्तजनर[६२०]क्षणापदानप्रकरणम्, कर्णपूरीकृततमालमञ्जरीम[६२१]धुमिपेण कटाक्षात्साक्षात्कृपामिव वर्षन्तम , प्रज्वलद्भि परिष्कारपन्नगफणारत्नैर्नूत्नै शरव्र[६२२]णरिवानुरज्यमानावयवम्, अवतसशशिकलापरिगलित[६२३]किरणधारापातशीता[६२४]सहिष्णुतयेव दन्तपटगर्भवर्तिना स्मितेन सूचितहृदयप्रसादम् , भगवन्त महादेवमुद्वीक्ष्य [६२५]पक्ष्मतटरुहविटपिसमुत्पाटनपटुभि प्रमोदाश्रुपूरैर्नदीमातृकायमा-


शिाखाचद्र आश्वासयितु अवतरद्भि प्राप्नुवद्भि उड़ना नक्षत्राणा निकरैरिव स्थितै सुरतरुकुसुमाना वष अवकीर्यमाण व्याप्यमानम् । जटा भस्म कुशा चाराणि च धरन्तीति तद्धरे ते कैरातेश्वररूपधारिभिरेव चतुभि आम्नायपुरुषै वेदपुरुषै परित पठयमान कीर्त्यमान शतरुद्रीय रुद्राध्याय एव बिरुदप्रबन्ध यस्य तथोक्तम् । सविव समीप यथातथा अम्परे आकाशे अवलम्बमाने अवतरद्भि तुम्वुरु प्रभृति आदि येषा तै सराणा वणिकै वीणाशिल्पै गन्ववे उपवीण्यमानानि वीणाभिर्गीयमानानि भक्ताना जनाना मार्कण्डेयादीना रक्षणात्मक यत् अपदान प्राक्तनचारित्र तस्य प्रकरणानि ‘नाटक च प्रकरणम्' इत्यादिना प्रसिद्ध दशरूपफन्यतमानि यस्य तयोक्तम्। कर्णपूरीकृताया कर्णावतसीकृताया तमाल मञ्जर्या तापिच्छगुच्छस्य मधुन मकरन्दस्य मिषेण साक्षात् मूर्तिभूतामिव स्थिता कृपा कटाक्षात् वर्षन्तम् । प्रज्वलद्भि प्रकाशमानै अत एव नूत्नै शरव्रणैरिव स्थिते परिष्कारपन्नगाना भूषणीभूतसर्पाणा फणासु रत्नै अनुरज्यमाना शोणायमाना. अवयवा यस्य तम् । अवतसशशिकलाया शिरोभूषणचन्द्रखण्डात् परिगलितानां प्रसृताना तया तत्सहृनाशक्त्येवेत्युप्रेक्षा । दन्ताना इति वतिना स्मितेन । तन्मिषेणेत्यर्थ । सूचित ज्ञापित हृदये मनसि प्रसाद अनुग्रह एव नैर्मल्य यस्य तम् । भगवन्त महादेव उद्वीक्ष्य पक्ष्मणोरेव तटयो रुहन्ति जायन्त इति तेषा निमेषाणामेव विटपिना वृक्षाणा समुत्पाटने पटुभि निर्निमेषीकरणसमयैरित्यथ । प्रमोदाश्रुपूरै आनन्दबाष्पप्रवाहै नदीमातृकायमा


[६२६]पुलकाङ्कुर सविनयमुपसृत्य पादारविन्दयो सहस्रकृत्व प्राणसीत् ।

 स्वामिन्मया जडधिया त्वयि दे[६२७]वदेवे
  वाचा शरेण धनुषा दृढमुष्टिना च ।
 यत्ते चतुर्विधमकारि रणे तदाग
  क्षन्तव्यमद्य भवता करुणार्णवेन ॥ ९५ ॥

 इति विज्ञापयन्तमेन पारिजातपल्लवतल्लजप्रतिमल्लस्य [६२८]पाणितलस्य परामर्शनेन प्रभुषि[६२९]तव्रणवेनाङ्ग पलवगकेतनमनङ्गशासनोऽप्येवमवादीत् ।

यथा तृतीयेन युधि प्रवीर तवापराधेन भवामि तु[६३०]ष्ट ।
तथा न भक्तया तपसा विभूत्या तरुप्रसूनार्चनया च[६३१] बहव्या ॥ ९६ ॥

 इति [६३२]सुधामाधुरीधुरीण वचनमभिवाय ।


णा नदीजलवविता इवाचरन्त पुलकाङ्कुरा यस्य तथाक्त सन् । सविनय यथातया उपसृत्य पादारविन्दयो महादेवपादपद्मयो सहस्रकृत्व सहस्रवार प्राणसीत प्रणामानफरोत् । नमते कर्तरि लुड् ॥ ९४ ॥

 स्वामिन्निति । हे स्वामिन् महादेव, रणे युद्धे देवदेवे त्वयि विषये जडधिया मूटबुद्धिना मया (कर्त्रा) वाचा शरेण वनुषा दृढमुष्टिना (करणेन) चतुविध यत् आग अपराध ते तव । त्वा प्रतीति यावत् । अकारि कृतम् । तत् चतुविघ्रमाग करुणार्णवेन दयासमुद्रेण अतएव भवता अद्य क्षन्तव्यम् ॥ ९५ ॥

 इतीति । इति उक्तप्रकारेण विज्ञापयन्त क्षमापयन्त पारिजातस्य पल्लवतजस्य श्रेष्ठकिसलयस्य प्रतिमल्लस्य प्रतिवीरस्य । तत्सदृशस्येति यावत् । पाणितलस्य परामर्शनेन प्रमुषिता निरस्ता व्रणै निजशरकृतै वेदना येषा तादृशान्यङ्गानि यस्य त प्लवग हनूमान् केतने यस्य त अर्जुन प्रति अनङ्गशासन महादेवोऽपि एव वक्ष्यमाणविवया अवादीत् उक्तवान् । वदते कर्तरि लुड् ॥

 यथेति । हे प्रवीर, तव सबन्विनायुधि तृतीयेन अपराधेन चापकृतेन यथा तुष्टोभवामि, तथा महत्या भक्तया तपसा विभूत्या समृध्द्या तरूणा प्रसूनैरर्चनया वा तुष्टो न भवामि । शौर्यादन्यन्न शूराणामभ्यर्हिततममिति भाव । उपेन्द्रवग्रा ॥ ९६ ॥

 इतीति । इति उक्तप्रकार सुवाया अमृतस्य माधुर्या मधुरत्वस्य धुरीण भारवह वचन अभिधाय उक्वा । इत्युत्तरेण सबध्यते ॥


[६३३]त्क्षणाद्धनुरिपूनपि तास्ता[६३४]न्सनिधाप्य विभुरस्रमपि स्वम् ।
पाण्डवाय धनुराहतिरीते पारितोषिकमिव प्रदिदेश ॥ ९७ ॥
 तस्याथ पाशुपतलाभदुरापदीप्ते-
  [६३५]क्ष्णो समक्षमपरिप्लवपक्ष्मपङ्क्ते ।
 आश्चर्यवृत्तिरखिलैरनुगामिभि स्वै-
  रन्तर्दधे स भगवानमृताशुमौलि ॥ ९८ ॥

 इत्यनन्तभट्टकविकृतौ चम्पूभारते चतुर्थ स्तबक ।


 तत्क्षणादिति । विभु व्यापक अनिर्वाच्यमहिमा शभु तदेव धनु अन्तर्हित गाण्डीवम् । न त्वन्यदित्यर्थ । तानेव इषून् बाणग्नपि पाण्डवाय । अर्जुनायेत्यर्थ । सनिवाय सविधि प्रापरय। दत्त्वेति यावत् । अनुराहते गाण्डीवताडनस्य या रीति फक्ति (४) तस्या पारितोषिक परितोषदानामिव ख स्वकी यमपि अस्रम् । पाशुपतमित्यर्थ । क्षणात् प्रदिदेश दत्तवान् । दिशे कर्तरि लिट् । उत्प्रेक्षालकार ॥ ९७ ॥

 तस्येति । अथ पाशुपतदानानन्तरम् । आश्चर्या वृत्ति चरित्र यस्य तथोक्त । तत्तादृगपकारिणि कारुण्यस्य कुत्रायदृष्टचरत्वादिति भाव । अमृताशुमौलि चन्द्रचूड स भगवान् महादेव पाशुपतस्य नामात्रस्य लाभेन दुरापा शत्रुदुनिरीक्ष्या दीप्ति प्रभा यस्य तथोक्तस्य अपरिप्लवा निमेषोन्मेषराहित्यादचञ्चला पक्ष्मणा पङ्त्त्यो यस्य तथोक्तस्य तस्य अर्जुनस्य अक्ष्णो समक्ष पुर एव अखिलै स्वै स्वीयै अनुगामिभि भूत्यै प्रमथै सह अन्तर्दधे अन्तर्हितवान् ॥ ९८ ॥

इति श्रीसदाशिवपदारविन्दवन्दनानन्दसान्द्रस्य कुरविकुलचन्द्रस्य

रामकवीन्द्रस्य कृतौ चम्पूभारतव्यारयाने लास्याभिधाने

चतुथ स्तबक ।


अथ सविधतपोधनै कृताशीरमरपतेर्धुतशासन स पार्थ ।
रयजितपवन समातलि सन्रथमधिरुह्य मुदा दिव प्रतस्थे ॥ १ ॥
 नाकमेत्य धनुरङ्कितदोष्णा नायको दिविषदामतिहृष्ट ।
 नाम फाल्गुन इति ब्रुवता स्वक नन्दनेन जगृहे पदयुग्मे ॥ २ ॥
 पाणिना परिमृशन्नभुमिन्द्र पक्ष्मलीकृतजयन्तमहेर्ष्य ।
 आदुरेण धुरि नाकिगणनामासनार्घमधिरोपयति स्म ॥ ३ ॥
 सदसि बसति तस्मिन्सार्वभौमे कुरूणा
  कपटशबरबाणै कल्पितार्दैत्रणेऽपि ।
 निखिलसुरवधूना नेत्रसघा समेता
  निशितकुलिशकल्पा निर्दय सनिपेतु


 अथेति । अथ पाशुपतलाभानन्तरम् । सविधे समीपे ये तपोधना मुनय तै कृताशी अमरपते इन्द्रस्य सबन्धि धृत शासन खर्ग प्रत्यागन्तव्यमित्यात्मक येन तथोक्त । इन्द्राज्ञापरतन्त्र इत्यर्थ । अत एव स पार्थ रयेण वेगेन जित पवन वायु येन त रथ ऐन्द्र मातलिना इन्द्रसारथिना सहित समातलि सन् अधिरूह्थ दिव खर्ग प्रति मुदा प्रतस्थे । भगवदनुग्रहस्योत्तरोत्तरश्रेयस्करत्वादिति भाव। अत्रेन्द्राज्ञास्वर्गगमनयोर्हेतुहेतुमतोरुक्तेर्हेत्वळकार । पुष्पिताग्रा ॥ १ ॥

 नाकमिति । नाक स्वर्ग एत्य धनुषा अङ्कित चिह्नित दो बाहु यस्य तेन फाल्गुन इति स्व नाम ब्रुवता कथयता नन्दनेन पुत्रेणार्जुनेन दिविषदा देवाना नायक इन्द्र अतिहृष्ट सन् पदयुग्मे जगृहे गृहीत । अर्जुनोऽहमभिवादय इति वदन्निन्द्र प्रणनामेत्यर्थ । स्वभावोक्ति । स्वागता ॥ २ ॥

 पाणिनेति । इन्द्र अमु प्रणत अर्जुन पाणिना परिमृशन् प्रत्यग्रशबरब्रणस्थानेषु सस्पृशन् अत एव पक्ष्मलीकृता प्रवृद्धा जयन्ते नाम्नि पुत्रे महती ईष्र्या अशूरोऽय किमेतेनेत्यात्मिका यस्य तथोक्त सन् नाकिना देवाना ये गणा सङ्घा तेषा धुरि अग्रे आदरेण प्रेम्णा आसनार्ध अर्धासन अधिरोपयति स्म । तत्रोपवेशितवानित्यर्थ । अत्रार्जुनस्य अणि कर्तुर्णौ ‘गतिबुद्धि- इत्यादिना कर्मत्वम् । अनेकपदार्थहेतुक काव्यलिङ्गम् ॥ ३ ॥

 सदसीति । तस्मिन्नैन्द्रे सदसि सभाया वसति वर्तमाने कपटशबरस्य भग वत बाणै कल्पितानि आर्द्राणि नवानि च व्रणानि यस्य तथोक्तेऽपि कुरूणा सार्वभौमे अर्जुने निशितेन तीक्ष्णेन कुलिशेन वज्रेण कल्पा तत्सदृशा । ईषद समाप्तौ कल्पपू । निखिलाना सुरवधूना अप्सरसा नेत्रसघा कटाक्षवृन्दानि समेता मिलिता सन्त निर्दय यथा तथा सनिपेतु न्यपतन् । सप्रेम सादर च

 आस्थानसाभ्नि तनयाद्भिरिशेन युद्ध-
  माकर्ण्य हर्षविकसन्मनसो मघोन ।
 अङ्गेऽखिले प्रसरता पुलकाङ्कुराणा-
  मक्ष्णा सहस्रतयमेव बभूव विन्न ॥ ५ ॥
 आज्ञया पितुरमर्त्यसमाजादग्रत स्वनितमङ्गलवाद्यम् ।
 वारणेन्द्रमधिरोष्य जयन्तो वैजयन्तमनयद्विजय तम् ॥ ६ ॥
 आनतस्य पदयोरथ जिष्णोराशिषोऽनुपदमिन्द्रपुरध्री ।
 पारिजातकुसुमस्य परागै फालसीमनि ललाम चकार ॥ ७ ॥
पुन पुनस्तत्र पुलोमपुत्र्या जयन्तशङ्का ददत स्वकान्त्या ।
नरस्य मौर्वीकिण एव दोष्णोर्नामग्रहेषु स्खलन न्यरौत्सीत् ॥ ८॥


पश्यन्ति स्मेत्यर्थ । स्वार्थमात्रपरायणाना कुत परानुकूल्यचिन्तेति भाव । अतएव विरूपधटनात्मको विषमप्रभेद । मालिनी ॥ ४ ॥

 आस्थानेति । आस्थानसीभ्नि सभाया तनयात् अर्जुनात् गिरिशेन कपटकिरातेन सह युद्ध आकर्ण्य हर्षेण विकसत् पूर्यमाण मनो यस्य तस्य मघोन इन्त्रस्य अखिले अङ्गे अवयवे प्रसरता प्ररोहता पुलकानामेवाङ्कुराणा अक्ष्णा सहस्रतय नेत्रसहस्रमेव । ‘सख्याया अवयवे तयप्' । विन्घ प्ररोहप्रतिबन्धक बभूव । नेत्रेषु लोमाभावादिति भाव ॥ ५ ॥

 आज्ञयेति । जयन्त इन्त्रपुत्र पितु इन्द्रस्य आज्ञया अमर्त्याना देवाना समाजात् सधात् त विजय अर्जुन वारणेन्द्र ऐरावत अधिरोप्य वैजयन्त इन्द्र प्रासादम् । ‘स्यात्प्रासादो वैजयन्त’ इत्यैन्द्रोपकरणेष्वमर । खनितानि सजा तस्वनानि मङ्गलवाद्यानि वीणावेण्वादीनि यस्मिंस्तत्तथा । तारकादित्वादितच् । अनयत् प्रापितवान् । स्वागता ॥ ६ ॥

 आनतस्येति । अथ वैजयन्तप्राप्त्यनन्तर इन्द्रस्य पुरध्री कुटुम्बिनी शची पदयोरानतस्य प्रणतस्य जिष्णो अर्जुनस्य आशिष ‘वत्स, चिर जीव' इत्यादे अनुपद अनन्तर पारिजातकुसुमस्येति जात्येकवचनम् । परागै फालसीमनि ललाटदेशे ललाम रक्षातिलक चकार । लोकोत्तरस्य पुत्रस्य दृष्टिदोषनिवारणाय रेणुभिर्मातरस्तिलक ललाटे कुर्वन्तीति प्रसिद्धि ॥ ७ ॥

 पुनः पुनरिति । तत्र वैजयन्ते खस्य कान्त्या सौन्दर्येण हेतुना पुन पुन जयन्त इति शङ्का वितर्क ददत कुर्वत नरस्य अर्जुनस्य दोष्णो बाह्वोरुभयो मौर्व्या शिञ्जिन्या य किण व्रणग्रथि स एव पुलोमपुत्र्या शच्या नाम्नो जयन्सेत्यर्जुनेति चाख्ययो ग्रहणेषु आमन्त्रणार्थ खीकारेषु विषये स्खलन जयन्त दृष्ट्वा अर्जुनेति अर्जुन दृष्ट्वा जयन्तेति आकारसास्यकृतवैपरीत्याह्वान न्यरौत्सीत्


पितुरिवास्त्रकला दिवि । गायकात्पिककुलाहतकण्ठरवोदय ।
परिहृतामृतदिव्यजनावृत परिशिशील स गीतकलामपि ॥९ ॥
तमुर्वशी तत्र कदाचिदेत्य स्वय रह कर्मणि भमकामा ।
अये पृथापत्य तवाभिधेव क्लीबत्वमेहीति शशाप कोपात् ॥ १० ॥
 तद्वद्वा हरिरूचे शापोऽय वत्स ते मुदे ।
 चित्रसेनोक्तबिद्याया सहकृत्वा भवेदिति ॥ ११ ॥


 निवारितवान् । अत्रार्जुनस्य बाहुद्वये सव्यसाचित्वकृतकिणवत्त्वरूपविशेषदर्शनादर्जुने जयन्तसदेहनिवृत्तेर्निश्चयान्त सदेहालकार । यत्तु ‘न्यकार्षीत्’ इत्यपपाठे '’ भ्रमेण स्खलन निषेध न्यकार्षात् व्यतानीत्' इति नृसिह , तन्न । स्खल नशब्दस्य निषेधार्थकत्वेन केनाप्यननुशासनादसमर्थत्वदोषस्य कथचित्कोशस पादने अप्रयुक्तत्वदोषस्य चापत्तेरिति । न्यरौत्सीत् इति निपूर्वाद्रुधे कर्तरि लुडि सिचि वृद्धौ रूपम् ॥ ८ ॥

 पितुरिति । पिकाना कोकिलाना कुलेन आहत स्वीयरुतादप्यतिमधुरोऽयमिति प्रेम्णा धूयमाण कण्ठरवस्य उदय आविर्भाव यस्य स । सुशारीर इत्यर्थ । अतएव परिहृत त्यक्त अमृत येन तेन दिव्यजनेन सुरजनेन आवृत सोऽर्जुन दिवि स्खर्गे गायकात् चित्रसेनात् गीतकला सगीतविधा पितु इन्द्रात् अस्त्रकलामिव परिशिशील अधीतवान् । उभयस्मादुभय जग्राहेत्यर्थ । अत्र प्रकृतयोरनगीतविद्ययोरर्जुनकर्तृकाध्ययनधर्मेणौपम्यस्य गम्यतुल्ययोगिता- भेद । द्रुतविलम्बितम् ॥ ९ ॥

 तमिति । तत्र स्वर्गे कदाचित् उर्वशी नाम सुराङ्गना त अर्जुन एत्य रहकर्मणि सुरतविषये स्खय भग्न विफलित काम मनोरथ यस्यास्तथोक्ता सती। कोपात् मनोरथचिफ़लीकरणजन्यात् अये पृथापत्य हे अर्जुन, तव अभिधा त्वन्नामेव क्लीबत्व नपुसकत्व एहि प्राप्नुहि । अपयशब्दस्य नपुसकत्वादिति भाव । इति उक्तप्रकारेण शशाप । नपुसक इव कामयमानाया निषेधान्नपुसको भवेति शाप ददावित्यर्थ ॥ १० ॥

 तदिति । अथ इरि इन्द्र तत् उर्वशीशपन बुद्धवा श्रुत्वा ‘हे वत्स, अय शाप चित्रसेनेन गन्धर्वेण उक्तायाउपदिष्टाया विद्याया गीतस्य सहकृत्वा विराटान्त पुरे कन्यकाया उपदेशयोग्यतासपादनरूपसाह्यकरणेन ते तव मुदे सतोषायैव भवेत इति तमर्जुन प्रत्यूचे उक्तवान् । अज्ञातवाससवत्सरभोग्योऽय नान्यदेत्यनुगृहीतबानियर्थ । बूञ कर्तरि लिटि वच्यादेशे तस्य एजादेश ॥ ११ ॥


 [६३६]थ कदाचिद[६३७]स्त्रशिक्षासमाप्तौ [६३८]गुरुसमक्ष गुरुदक्षिणात्वेन विपक्षकुलक्षपण भिक्षमाणेन सहस्राक्षेण स्वमस्तकादाक्षिप्य शिरसि निक्षिप्तकिरीटो वलक्षाश्वोऽय मातलिपरिकल्पितरथ्येन नन्दनवनमन्दपवनसदीयमानकेतनस्पन्दनेन स्यन्दनेन निर्गत्य विलङ्धितदूरवियत्पथ पाथोनिधौ [६३९]

रक्ष कुलकोलाहनीचीकृतवीची[६४०]रव रसातलकुहरमुख निरुध्य रणप्रस्ताव वितस्तरे ॥

 तावदनाकर्णितपूर्वगाण्डीवविस्फारक्ष्रवणादहपूर्विकया युगपद[६४१]भिषेणनयतो दिविषदवध्यभावादध्यातमरणान्क्षि[६४२]प्र क्षुरप्रैर्विश्राणितविवरादुरस कृतप्रयाणै प्राणैस्त्रिकोटिशो निवातकवचानपि प्रवात-


 अथेति | अथ कदाचित् वलक्षा श्वेता अश्वा रथ्या यस्य स अयमर्जुन अस्त्रशिक्षाया अस्त्रविद्या यापनस्व समाप्तौ सत्या गुरुसमक्ष सुराचार्यसमक्ष गुरोर्द्क्षिणात्वेन दक्षिणारूपेण विपक्षकुलस्य निवातकवचकालकेयाख्यराक्षसवृन्दस्य क्षपण वध भिक्षमाणेन याचमानेन सहस्र अक्षीणि यस्य तेन इन्द्रेण | 'बहुव्रीहौ सक्थ्यक्ष्णो - ' इति षच् | स्वस्य मस्तकात् शिरस आक्षिप्य अवमुच्य | अत्रार्थात् किरीटस्यैव कर्मत्वम् | शिरसि निक्षिप्त न्यस्त किरीट यस्य तथोक्त सन् | मातलिना इन्द्रसारथिना परिफ़लिना सयोजिता रथ्या रथवाहा यस्मिंस्तेन स्यन्दनेन इन्द्ररथेन निर्गत्य प्रस्थाय विलङ्घिता दूरक्ष्च वियत्पथ आकाशमार्ग येन् तथोक्त सन् पाथसा जलाना निवौ समुद्रे रक्ष कुलाना राक्षसवृन्दाना कोलाहै कलकलध्वनिभि नीचीकृत खल्पीकृत | अन्तर्घापित इति यावत् | वीचीना सामुद्रीणा रव यस्मिंस्तत् रसातलकुहरस्य पातालबिलस्य मुख अग्र भागम् | द्वारमिति यावत् | निरुध्य रणस्य प्रस्ताव प्रसङ्ग धनुष्टङ्कारादिक वितस्तरे विस्तारितवान् | स्त्रुणातेर्विपूर्वात्फर्तरि लिट् | अत्र विपक्षक्षपणे गुरुदक्षिणात्वेना रोपस्येन्द्रमुखोपयोगाद्घनरूपगुरुदक्षिणायास्तत्रानुपयोगाच्च परिणामालकार |

 तावदिति | तावत् तदानीमेव अनाकर्णितपूर्वस्य पूर्वमश्रुतस्य गाण्डीवस्य सवन्धिन विस्फारस्य टङ्कारस्य 'विस्फारो धनुषा स्वान' इत्यमर | श्रवणात् अहपूर्विकया अहपूर्वमहपूर्वमित्यहकारेण युगपत् एकदा अभिषेणनयत युध्दाय सेनया सहागच्छत | 'यत्सेनयाभिगमनमरौ तदभिषेणनम्' इत्यमर | अभि षेणनाशब्दात्करोत्यर्थे णिजन्तल्लट शतृप्रत्यय | दिविषदा देवाना अवध्यभावात् हन्तुमशक्यत्वात् हेतो | अघ्यात अचिन्तित मरण यैस्तान् निर्गतो वात वायु-


कवचानेव विरचय्य न[६४३]भसि प्र[६४४]मापतितेन पतङ्गपरिवेषेणेव [६४५]स्फटि
कप्राकारेण परिगुप्तिमतो हिरण्यपुराद्विदितबन्धुजन [६४६]वृत्तान्ततया रोषादभिगम्य कलहायमानान्कालकेयानपि कालगेहातिथीन्पा[६४७]शुपतेन
मन्नपूर्व निमन्त्रयाचक्त्रे ॥

 अवायुनेया शरदभ्रपङ्क्तीरविद्यमानास्तमयाश्च तारा ।
 दैतेयसहारभवा स जिष्णुर्दिवि प्रतिष्ठापयति स्म कीर्ती ॥ १२ ॥
 हतरिषु विनिवृत्तमवेक्ष्य त हरियस्य सुरै सह तुष्यत ।
 नयनवारिभिरङ्गमनाप्लुत न ददृशे तिलमात्रमपि स्वकम् ॥ १३ ॥


सचार यस्मिंस्ताध्श कवच येषा तथोक्तानपि तन्नान्नश्च त्रिकोटिश त्रिकोटि सख्यान राक्षसान् क्षुरप्रै बाणविशेषै क्षिप्र सत्वर विश्राणितानि दत्तानि विव् राणि रन्ध्राणि यस्मिंस्तस्मादुरस वक्षस कृत प्रयाण निर्गमन यैस्तै प्राणै वायुभि प्रकृष्टो वात यस्मिंस्तादृश कवच येषा तादृशान् विरचग्य कृत्वा । इन्वेति यावत् । नभसि आकाशे प्रमादात् पतितेन पतङ्गस्य सूर्यस्य परिवेषेणेव स्थितेन स्फटिकमयेन प्राकारेण परितो गुप्ति रक्षण अस्यास्तीति गुप्तिमत हिर ण्यपुरात् कालकेयनगरात् विदित ज्ञात बन्धुजनाना निवातकवचाना वृत्तान्त बधरूप यैस्तेषा भाव तत्ता तया हेतुना रोषादभिगम्य कलहायमानान् युद्ध कुर्वाणान् । ‘शब्दवैर-' इत्यादिना क्यजन्ताल्लट शानच् । कालकेयानपि काल केयसज्ञाश्च राक्षसान् पाशुपतेन अस्त्रमन्त्रेण मन्त्र वैदिक तदुच्चारण पूर्व यस्मिन् तथा कालगेहस्य यमगृहस्य अतिथीन् निमन्त्रयाचक्रे । अतिथित्वेनाह्वान कार यति स्मेत्यर्थ । तानप्यवधीदिति यावत् ॥

 अवाय्विति । स निवातकवचकालकेयहन्ता जिष्णु अर्जुन वायुना नेतु चालयितु अयोग्या अवायुनेया । अतिस्थिरा इत्यर्थ । शरदि ऋतौ अभ्रपङ्क्ती मेधमाला अविद्यमान अस्तमय यासा ता । नित्यप्रकाशा इत्यर्थ । तारा नक्षत्राणि च दैतेयाना पूर्वोक्ताना द्वयाना सहाराद्भवन्तीति तथोक्ता कीर्ती दिवि आकाशे प्रतिष्ठापयति स्म । व्यतिरेकससृष्टमालारूपकम् ॥ १२ ॥

 इतेति । हृता रिपव दैत्या येन त विनिवृत्त पुनरागतवन्त तमर्जुनमवेक्ष्य सुरै सह तुष्यत हरिहयस्य इन्द्रस्य खक खीय अङ्ग शरीर नयनवारिभि आन न्दबाष्पै अनप्लुत असिक्त तिलमात्रमपि न ददृशे न दृष्टम् । स्वयमिति शेष । ‘स्वकम्' इत्यत्र ‘स्वयम्' इति वा पाठो मनोज्ञ । इन्द्रस्य सर्वाङ्गीणलोचनत्वादिति


पुरि वज्रिण सुरनुतिप्रसरत्पुलकावमग्रभुजचापकिण ।
मनसे स पञ्च शरदोऽप्सरसा वसति स्म पाञ्चशरदो विजय १४

तस्य वृ[६४८]त्तिमधिगम्य लोमशाद्धर्मजोऽपि मुदित सहानुजै ।
प्राप्ततीर्थमुनिसेवन क्रमात्पावन बदरिकावन ययौ ॥१५॥

तत्र ब्रह्मपरायणैर्मुनिग[६४९]णै ससेव्यमानान्तिकौ
 सध्र्यञ्चौ यमिनौ निरीक्ष्य स नर नारायण चाख्यया ।
अङ्गेनानिश[६५०]मन्तरेण महतीमेका क्षमा सस्पृश-
 न्बाह्मैरष्टमिरङ्गकैरपि परा पस्पर्श पार्थ क्षमाम् ॥१६॥


भाव । अत्र हतरिपुप्रत्यागताजुनावलोकनहर्षस्य इन्द्राङ्गे तत्ताघ्गानन्दाश्रुसिक्तहेतुत्वात्पदार्थहेतुक काव्यलिङ्गम् । द्रुतविलम्बितम् ॥ ९३ ॥

 पुरीति । अप्सरसा मनसे पञ्चशर मन्मथविकार च ददातीति पञ्चशरद स विजय अर्जुन सुराणा नुतिभि स्तोत्रै प्रसरत्सु अङ्कुरत्सु पुलकेषु अव मग्रा लीना । तैरन्तहिता इति वा । भुजयोश्चापेन किणा यस्य तथोक्त सन् । वज्रमायुधमस्यास्तीति वज्रिण इन्द्रस्य पुरि स्वग पञ्च शरद सवत्सरान् वसति स्म । प्रमिताक्षरा ॥ ९४ ॥

 तस्येति । धर्मज युधिष्ठिरोऽपि अनुजै भीमादिभि सह लोमशात्राम् मुने ज्ञातार्जुनवृत्तान्तात् तस्य अर्जुनस्य वृत्तिं स्वर्गे निवास अविगम्य ज्ञात्वा मुदित सन् क्रमात् प्राप्त तीर्थाना गङ्गादीना मुनीना व्यासादीना च सेवन भजन येन तथोक्तश्च सन् पावन नरनारायणाश्रमत्वेन जगत्पवित्र बदरिकावन ययौ प्राप्तवान् । रथोद्धता ॥ ९५ ॥

 तत्रेति । तत्र बदरिकारण्ये ब्रह्म जगदधिष्ठानमात्माभित्रमेव पर अयन गति येषा तैर्मुनीना गणै सम्यरू सेव्यमान अन्तिक समीपदेश ययोस्तौ । सहाञ्चत इति सध्र्यञ्चौ अविनाभाविनौ । 'य सहाञ्चति सघ्रयङ् स 'इत्यमर । आख्यया नाम्ना नर नारायण च । नरनारायणाख्यौ इत्यर्थ । यमिनौ मुनी निरीक्ष्य स पार्थ युधिष्ठिर अन्तरेण अन्तर्गतेन अङ्गेन मनसा एका महतीं क्षमा क्षान्तिं अनिश सर्वदा सस्पृशन् सम्यग्वह्नन्नापि बहिर्भवै बाह्मै अष्टभि अढ्गैरेवाङ्गकै करचरणभुजवक्षोललाटै परा अन्या क्षमा भूमिं पस्पर्श स्पृशष्टवान् । साष्टाङ्ग प्रणनामेत्यर्थ । शार्दूलविक्रीडितम् ॥ ९६ ॥


विलोफ़नैर्विश्रमशाखिभिस्तयोर्भवाध्वगानाम[६५१]वधूनितकल्म ।
निवासमालम्ब्य तपोवने तदा विवासदु खाद्विरराम पार्थिव ॥ १७ ॥

 एकदा तत्र स्नुषावत्सलतयेव मारुतेन पुरतो नीत[६५२]मटवीपर्यटनखेदसपदामसासहिमन्धकरणमलिकुलचेत[६५३]सामासेचनकमक्ष्णा कमपि कल्हारमुकुलमादाय ‘क लभ्येत पुनरेतादृशम्’ इति कुतुकहर्षाभ्या सूचिततर्षया पार्षत्या रहसि याचित पार्षदश्वि क्षण विचिन्त्य तद्विचिचीषया दिशमुदीचीं प्रतस्थे ॥


 विलोकनैरिति । तदा प्रणामममये पाथिव बर्मराज भव ससार एव अध्वा मार्ग तस्मिन् गच्छन्तीति भवाध्वगाना देहिना विश्रमशाखिभि छायायूक्षै । ससारदु खहारिभिरिति यावत् । तयो नरनारायणयो विलोकनै वीक्षणै अवधूनित निरस्त क्लम वनवासादिदु खयास यस्य तथोक्त सन् । तपोवने बदरिकावने निवास आलम्ब्य स्वीकृत्य विवासेन राज्यभ्रशेन यद्दु ख तस्मात् विरराम । तद्दु ख तयाजेत्यर्थ ।‘जुगुप्साविराम ' इत्यादिनापादानत्वम् । हेतुरलकार । वशस्थम् ॥ १७ ॥

 एकदेति । तत्र बदरिकावने एकदा कदाचित् मारुतेन स्रुषाया पुत्रपत्र्यां वत्सलतया प्रेम्णेवेत्युत्प्रेक्षा । पुरत अग्रदेश प्रति नीत प्रापित अटव्या पर्यटनेन सचारेण या खेदसपद श्रमसमृद्धय तासा असासहिं असहमानम् । तन्नाशकमिति यावत् । ‘सासहिवावहि- इत्यादिना यड्लुगन्तात्किप्प्रत्यय । अलिकुलस्य चेतसा मनसा अन्धकरण अतिमोहनम् ।‘आढ्यसुभग-' इत्यादिना ख्युनि खित्वात् ‘अरुदूषत्-' इत्यादिना मुम् । अक्ष्णा नेक्षणां आसेचनकम् । ‘तदासे चनक तृतेर्नास्त्यन्तो यस्य दर्शनात्' इत्यमर । विगलितवेधान्तरत्वेन दर्शनीयमित्यर्थ । कमपि सौरभ्यसौन्दर्याभ्या अनिर्वाच्यमहिमान कहारमुकुल रक्ताब्जकोश आदाय एतादृश अन्यत् पुन क्क कुत्र लभ्येत प्राध्येत इत्युक्तप्रकारेण हर्षेण सूचित ज्ञापित तर्ष कहारमुकुले अभिलाष यस्यास्तया पार्षत्या द्रौपद्या रहसि याचित एतादृश पुन अन्यदादाय दीयतामिति प्राथित । पृषदश्वस्य बायो अपत्य पार्षदवि भीम क्षण विचिन्त्य कुनैमानि भवेयुरित्यालोच्य तेष विचेतु अन्वेष्टु इच्छया विचिचीषया उदीची दिश उत्तरा प्रति प्रतस्थे । सौरभानुसारेणेति भाव ॥


 क्षिप्त विलञ्चय गिरिशैवलिनीवनानि
  गच्छन्नसौ पथि ददर्श कपि महान्तम् ।
 दृग्भ्यामवन्तमरि[६५४]पट्टणदाहकाले
  निद्रा भया[६५५]दुपगतामिव कुम्भकर्णात् ॥ १८ ॥
[६५६]पिकुञ्जर सुकृतपुञ्जमजञ्जनापवमानयोरचलमानमध्वनि ।
विषय ध्शोरथ पुरो वृकोदर स चकार साधु विहिताक्षिमीलनम् १९
अभीरसौ गभीरमभाणीञ्च ॥
 कस्त्व निरुध्य पदवीमविनीतबुद्धे
  निद्रास्यपेहि न सहे गमने विलम्बम् ।
 क्रोधो भुजामिव ममाद्य हिडिम्बहन्तु-
  रुद्यद्रदा तव तनूमपि मूढ कुर्यात् ॥ २० ॥


 क्षिप्रमिति । असौ भीम गिरीन् शैवलिनी नदी वनानि च क्षिप्र विलज्य गच्छन्' सन् अरे रावणस्य पट्टणस्य लङ्काया दाहकाले कुम्भकर्णात् । त त्यक्ज्ञा इति ल्यब्लोपे पञ्चमी । भयादुपगता दाहो मे मा भूदिति शरण प्राप्ता मिव स्थिता निद्रा दृग्भ्या नेवाभ्या अवन्त रक्षन्तम् । निद्रायमाणमित्यर्थ । महान्त शौर्यधैर्यादिभि लोकोत्तर कपिं आञ्जनेय पथि मार्गे ददर्श ॥ १८ ॥

 उक्तमेवार्थ भङ्गयन्तरेणाह कपिकुञ्जरमिति । अथ दूरतो दर्शनानन्तर स वृकोदरो भीम अञ्जनापवमानयो सुकृतपुञ्ज पुण्यराशिं साधु यथा तथा विहित अक्ष्णोर्मीलन येन त केवल प्रत्यकू दृष्टया । श्रीरामध्यानपरमिति यावत्। अत एव अचलमान निश्चलम् , यद्वा अचल मान चित्तसमुन्नति यस्य तम्, अथवा अचलमान पर्वतप्रमाणमिति वा । कपिकुञ्जर हनुमन्त अध्वनि मार्गे पुर पुर प्रदेशे दृशो नेत्रयो विषय चकार । अपदयादित्यर्थ ॥ १९ ॥

 अभीरिति । किचेति चार्थे । असौ भीम अभी अदृष्टचरसत्त्वदर्शनेऽपि गतभी सन् गभीर निष्टुर यथा तथा अभाणीत वदति स्म ॥

उक्तप्रकारमेवाह--क इति । हे अविनीतबुद्धे आयैरशिक्षितबुद्धे । मध्येमार्ग शयनस्य गर्ह्यत्वादिति भाव । त्व क पदवी मार्ग निरुध्य निद्रासि । अपेहि अन्यतो गच्छ । गमने विलम्ब न सहे । हिडिम्ब हन्तीति हिडिम्बहन्तु मम क्रोध मार्गनिरोधजन्य भुजा मद्वाहुमिव । हे मूढ, तव तन् शरीरमपि उद्यन्ती उन्नमन्ती गदा आयुध यस्या तथोक्ता उत्पद्यमनरोगा च कुर्यात् । ‘गदो भ्रातरि विष्णो स्यात् आमये चायुधे गदा’ इति विश्व । अत्र हिडिम्बहन्तुरिति विशेष-


 क्रौ[६५७]र्यस्पृशा तदनु कौरवसार्वभौम-
  [६५८]वाग्रूपया सपदि मारुतनन्दनस्य ।
 दृग्द्वारपक्ष्मपुटयुग्मक[६५९]वाटकूट-
  निद्रार्गलाहरणकुञ्चिकया व[६६०]भूवे ॥ २१ ॥
गिरा किचिदुदीक्ष्य तस्य लाङ्गूलमात्रे तरल कपीन्द्र ।
कोपारुणाक्ष कुरुसिहमेन स्पारुणाक्ष स्वयमेवमूचे [६६१]॥ २२ ॥
भद्र स्वस्त्यस्तु तुभ्य चिरमिह [६६२]जरया निद्रयाप्यातुरोऽह
 प्रत्युत्थानादिकर्मण्यपटुरवयवैरस्मि तस्मात्त्वमेव ।
जात्यावस्थानरीत्यापि च व्रिपिनपथे प्राप्ततिर्यक्त्व[६६३]मेन
 बालाग्रे मा बिकृष्य द्रुत[६६४]मभिलषितप्राप्तये साधयेति[६६५] ॥ २३ ॥


णस्य तादृशस्य मम भवान् कियानित्यभिप्रायगर्भत्वात्परिकरालकार । स चोद्यद्रद त्वेन उधदायुधत्वोद्यद्रोगत्वयो श्लेषभित्तिकया भेदाध्यवसितेन भुजातन्वोरौपम्यस्य गम्यत्वात्तुल्ययोगिताभेदस्योज्जीवक इति द्वयोरङ्गाङ्गिभावेन सकर ॥ २० ॥

 क्रौर्यस्पृशेति । तदनु क्रौर्यस्पृशा वक्रिमस्पृशा कौरवसार्वभौमस्य भीमस्य वाग्रूपया मारुतनन्दनस्य हनूमत दृग्द्वारस्य नेत्रद्वारस्य पक्ष्मपुटयुग्ममेव कबाट कूट तस्य निदैव अर्गला तदाहरणकुञ्चिकया कवाटोद्धाटनशलाकिकया बभूवे भूतम् । भवतेर्भावे लिट्। भीमस्य गर्वोक्ति हनूमतो निद्रा निराकरोदिति भाव ॥ २१ ॥

 इत्थमिति । इत्थ उक्तप्रकारया तस्य भीमस्य गिरा वाचा लाङ्गूलमात्रे पुच्छ एव । न तु देहे न वा मनसीत्यर्थ । तरल चञ्चल । प्रबोधसूचनायेति भाव ॥ स्वय स्वापेन समाधिनिद्रया । न तु कोपेनेत्यर्थ । अरुणे अक्षिणी यस्य तथोक्त कपीन्द्रो हनूमान् कोपेन अरुणाक्ष एन कुरुसिंह किचिदुदीक्ष्य दृष्ट्वा एव वक्ष्यमाणप्रकारेण ऊचे उक्तवान् ॥ २२ ॥

 भद्रेति । हे भद्र। शुभशीलेति हासोक्ति । तुभ्य खस्ति शुभमस्तु । चिर बहुकालिक्रया जरया चरमवयसा निद्रयापि आतुर रुग्ण अतएवाह इह इदानीं अत्र वा प्रत्युत्थानादौ कर्मणि अर्हणे अवयवै करचरणादिभि अपटु अशक्तो sस्मि । यत तस्मात् त्वमेव जात्या जन्मना अवस्थानरीत्या स्थितिविधयापि च


 इत्युक्त एष परिघ धरणौ निधाय
  वल्क दृढ च परिधाय भुजार्गलाभ्याम् ।
 त क्रष्टुमेव न शशाक स तु प्लवङ्गे
  बालस्थया घनतयास्य मनश्चकर्ष ॥ २४ ॥

 तदनु वि[६६६]स्मयव्रीलापारदृश्वना मातरिश्वसूनुना ‘त्व वासवलोकवासिषु कोऽसि’ इति पृष्ट कपिकुञ्जर स्वमञ्जनाया प्रभञ्जनेन [६६७]सजातं जानकीजानेर्ह्रदयरञ्जफ ले[६६८]खवाहक व्याजहार ॥


प्राप्त तिर्यक्च तिर्यग्योनित्वम् । वानरखमिति यावत् । साचित्वेन वर्तमानत्व च येन त एन मा वालाग्रे विकृष्य। मदूलाग्रमन्यतोऽपसार्येत्यर्थ । अभिलषितस्य वाञ्छिताथस्य प्राप्तये द्रुत साधय गच्छ इत्युक्तप्रकारेण ऊचे इति पूर्वेणान्वय । हिडिम्बहन्तुरिति खबलप्रख्यापनात् तादृग्बल यदि तव तर्हि बालाग्र चालयसि चेज्जानीया तदिति हासरसोऽत्रानुसधेय ॥ २३ ॥

 इतीति । इति उक्तप्रकार उक्त । हनूमतेति शेष । एष भीम परिघ गदां धरणौ निधाय वल्क वल्कल च दृढ परिधाय सवेष्टय भुजे अर्गले इव ताभ्या त हनूमतो बाल क्रष्टुमेव न शशाक न शक्तवान् । किमुतापसारयितुमिति भाव । स प्लवङ्ग हनूमास्तु बालस्थया घनतया माहात्म्येन अस्य भीमस्य मनश्चकर्ष । खस्य नागायुतबलस्यापि बालाग्रमात्रचालनाशक्तया दुर्विज्ञेयमस्य माहात्म्यमिति विस्मितोऽभूदित्यर्थे ॥ २४ ॥

 तदन्विति । विस्मयस्य श्लोकोत्तरानुभावदर्शनजन्यस्य व्रीलस्य अहकार भङ्गजन्यलज्जायाश्च पारदृश्वना अन्तगामिना। तदुभयसान्द्रेणेति यावत् । मातरिश्वसूनुना भीमेन हे महानुभाव, त्व वासवलोकवासिषु देवेषु । तन्मध्य इत्यर्थ । को देवोऽसीति पृष्ट कपीना कुञ्जर श्रेष्ठ हनूमान् स्व आत्मान प्रभञ्जनेन वायुना अञ्जनाया नाम वानर्या सजात जानकी जाया यस्य तस्य जानकीजाने श्रीरामस्य हृदयरञ्जक चित्ताह्लादक लेखाना लिखितपत्राणा वाहक नेतारं व्याज- हार उक्तवान् ॥


अरातिसघातनिघातकमण्यवालहस्तो मम बालहस्तम् ।
उद्धृत्य याहि द्रुतमुत्तरत्रेत्युक्त्यैव स क्षतिमुपाजहार ॥'

इति श्लोक कचिद्दृश्यते सबहुमान तस्य वचनमाकण्ये ॥

 प्रीतेन तेन पुनरप्यधिप कपीना-
  मूचे तथा यदि भवानघुनार्थयेऽहम् ।
 कर्तु तनु नयनयो पथि [६६९]तावकीना
  तत्तादृशीमुदधिपल्वलतासवित्रीम् ॥ २५ ॥
इत्युक्तोऽय प्रवृद्धोङ्गैऽर्हेलया रुरुधे निजै ।
वैमात्रेयस्य तस्येव मार्ग स[६७०] द्युसदामपि ॥ २६ ॥
त्रस्तस्य तद्वपुरुदीक्ष्य सजातिशङ्कि-
  मैनाकसशयकुठारितपक्षलोपम् ।
 मोहे यथा नयनयोर्मुकुलीबभूव
  बोधे तथैव करयोरपि युग्ममस्य ॥ २७ ॥


 सबह्विति । तस्य हनूमत वचन पूर्वोक्त सबहुमान यथातथा आकर्ण्येत्युत्तरेण सबन्ध ॥

 प्रीतेनेति । प्रीतेन अतिस्तुष्टेन तेन भीमेन हे कपिश्रेष्ठ, भवान् तथा यदि रामदूत्तर्हि तत्तादृशी अनुपमा उदधे समुद्रस्य पल्वलताया पल्वलभावस्य सवित्री जननीम् । खस्यातिमहत्त्वेन तस्यात्यल्पत्वसपादयित्रीमिति यावत् । तावकीना तव सबन्धिनीम् । युष्मदस्मदोरन्यतरस्या खञ्च' इति खञि ‘तवकममकावेकवचने’ इति तवकादेश । खस्येनादेशश्च। तनु शरीरं पुन अधुना नयनयो पथि मार्गे कर्तुम् । द्रष्टुमिति यावत् । अह अर्थये याचे । इति कपीनामधिप ऊचे उक्त । कर्मणि लिट् ॥ २५ ॥

 इतीति । इत्युक्त अय हनूमान् हेलया विलासेनैव । न तु यत्नेनेत्यर्थ । निजै आत्मीयै अङ्गै प्रवृद्ध सन् विरुद्धाया मातुरपत्यस्य वैमात्रेयस्य मातृसपत्रीपुत्रस्य तस्य भीमस्यैव मार्ग न रुरुधे न रुद्धवान् । कितु द्युसदा स्वर्गवासिनामपि मार्ग रुरुधे । अत्र हनूमतोऽङ्गवृद्धे भीमदिविषदुभयमार्गरोधहेतुत्वात् पदार्थहेतुक काव्यलिङ्गम् । तथा द्वयोर्मार्गयो प्रकृताप्रकृतयो रोधरूपधर्भैक्याहीपझळकारश्च । तयोरभिन्नपदबोध्यदेकवाचकानुप्रवेशसकर ॥ २६ ॥

 त्रस्तस्येति । समाना अभिन्न जाति धर्म पक्षयुक् पर्वतखरूप यस्य स सजाते स इति शङ्का वितर्क अस्यास्तीति तच्छङ्किन । मत्वर्थीय इनि । मैनाकस्य गिरे य सशय किमय' माइकू कश्चित्पर्वतो वा न वेत्यात्मक तस्य कुठार इवाचरित कुठारित । तन्निवर्तक इति यावत् । उपमानादाचारार्थक्किबन्तात्कर्तरि क्त । पक्षयोर्दूयोरपि लोप अदर्शन यस्य तथोक्त तस्य हनूमतो वपु अत्यद्भुत उदीक्ष्य दृष्टवा त्रस्तस्यास्य भीमस्य मोहे चित्तविभ्रमे सति नयनयोर्युग्म यथा


 प्रमोदात्परिपुष्यद्भि प्रतिक्षणमथाङकै ।
 भीमेनाप्यु[६७१]दपादीव भ्रातृवृद्धिविडम्बना ॥ २८ ॥

 सविनयमेव व्यजिज्ञपञ्च ॥

प्रार्ध्यमानपददर्शन चिरात्परयत पथि भवन्तमग्रजम् ।
विस्मयाम्बुनिघिरेष मेऽघुना वीरवर्य भवतापि दुस्तर ॥ २९ ॥
 
राघवस्य सहजादपि त्वयि प्रेमवृत्तिरधिकेति मे मति ।
यमिनीचरवघोत्सवे यतो लक्ष्मणादधिकमरामग्रही ॥ ३० ॥

 आर्य क्षमस्व मम वागपराधमुग्र -
  मित्यानत चरणयोक्ष्चिबुके ग्रुहीत्वा ।


मुकुलीबभूव मीलति स्म तथा बोधे मोहसक्षये सति करयोर्युग्ममपि मुकुलीबभूव । अञ्जलीबभूवेस्त्यर्थ । अत्रापि तत्ताह्ग्वपुर्दर्शनस्य नयनयुगकरयुगमुकुलनं प्रति हेतुत्वापत्पदार्थहेतुरु कव्यलिङ्ग तस्य च नयनायुगकरयुगयो श्लेषभितिकामे दाध्यसितमुकुलनेनौपम्यस्य गम्यत्वात् केवलप्रकृतास्पदस्य तुल्ययोगिताभेदस्य च दूयो पूर्ववत्सकर ॥ २७ ॥

 प्रमोदादिति । अथ भीमेनापि प्रमोदात् प्रतीक्षण परिपुष्यद्भि वर्धमानै अड्गॉरेव अड्गैरेव भ्रातु हनूमत बृद्धे विडम्बना अनुकरण उदपादि उत्पादितेवेत्युत्प्रेसक्षा । आनन्दसान्द्रोऽभूदित्यर्थ । उत्पूर्वात्पघते कर्मणि लड् ॥ २८ ॥

 सविनयमिति । इदमुत्तरेण सबध्यते ॥

 प्रार्थ्यमनेति । चिरात् प्रार्थ्यमान मया कामयमान पदयो भवदीययो दर्शन यस्य त अग्रज ज्येष्ठ भवन्त पथि पश्यत मे मम एष विस्मय एवाम्बु निघि हे वीरवर्य, भवता समुद्रलङ्घनादप्यधुना दुस्तर तरितुमशक्य । आकस्मिक भवर्ध्शनमत्याश्चर्यकरमिथ्यर्थ । एव सविनय यथा तथा व्यजिज्ञपत् विज्ञापित वान् । अत्राकस्मिककाक्षितार्थसिद्धिवर्णनात् प्रहर्षणालकार ---- ' उत्कण्ठितार्थससि द्धिर्विना यत्र प्रहर्षणम्' इति लक्षणात् । रयोद्धता ॥ २९ ॥

 राघवस्येति ।यत हे वीर , त्व यामिनीचराणा राक्षसाना वधात्मके उत्सवे विषये लक्ष्मणात् सौमित्रे अधिक अश भाग अग्रही गृहीतवनसि । अत कारणात् त्वयि विषये राघवस्य श्रीरामस्य प्रीति प्रेम सहजात् भ्रातर लक्ष्मणमपेक्ष्यापीति ल्यब्लोपे पञ्चमी । अधिका वर्तत इति मे मम मति निश्चय । अत्रोत्तरवाक्यार्थस्य पूर्ववाक्यार्थ प्रति हेतुत्वात्काव्यलिङ्गभेद । तेनास्य लक्ष्मणा दप्यधि कबलवत्वप्रतीतेरलकारेण वस्तुध्वनि ॥ ३० ॥

 आर्योति । हे आर्य , उग्र परुष मम मत्सबन्वि वाग्रूप आपराध क्षमस्व ॥


 जिघ्रशिरस्यवरज मुमुचे हनूमा-
  न्भीमोऽप्यनुष्य विरहासहनोऽश्रुबिन्दून् ॥ ३१ ॥
गच्छतोऽस्य पथि मारुते पुरो गन्धमादनमभूत्कुलाचल ।
वानरेन्द्र इव गाढवीक्षिकावासनाभिरविमुक्तदृक्पथ ॥ ३२ ॥
 अलकेशयोषिदलकेशयै सुमै
  सुरभि प्रमोदसुरभि नभ सदाम् ।
 शिखरे स तस्य महतीमुदग्दिशो
  मणिदर्पणीमिव ददर्श वापिकाम् ॥ ३३ ॥
 यक्षाधिपस्य यशसीव गृहीतदेहे
  दृष्टवा भयादपगते सति हसयूथे ।


इति । उक्खेति शेष । चरणयो आनत प्रणत अवरज भीम चिबुके ओष्ठाधोभागे गृहीत्वा हनूमान् शिरसि जिघ्रन् चुम्बन् सन् मुमुचे गमनाय अनुज्ञातवान् । अपिस्त्वर्थ । भीमस्तु अमुष्य हनूमत विरह वियोग न सहत इत्यसहन सन् अश्रुबिन्दून् सुमुचे ववर्ष । जिघ्रन् हनूमानश्रुबिन्दून् आनन्दबाष्पाणि मुमुचे इति योजना । तथा सति भीमोऽपीत्येककर्मकक्रियान्वयसमुच्चायकोऽपिशब्द खरसता भजत इति केचित् ॥ ३१ ॥

 गच्छत इति । अथ गच्छत अस्य मारुते पथि मार्गे गन्धमादन नाम कुलाचल गाढया अविच्छिन्नया वीक्षिकया दर्शनया या वासना सस्कारा ताभि अविमुक्त दृशो पन्था नयनविषयत्व यस्य तथोक वानरेन्द्र हनूमानिवेत्युत्प्रेक्षा । पुर अप्रे अभूत् । त दृष्टवानित्यर्थ । ‘गन्धमादनमन्ये च' इत्यनु शासनात् गन्धमादनशब्दस्य क्लीबत्वम् । रथोद्धता ॥ ३२ ॥

 अलकेति । स भीम तस्य गन्धमादनस्य शिखरे अलका नाम पुरी तदीशस्य कुबेरस्य योषिता अलके शेरत इति शयै । 'शयवासवासिष्वकालत्' इति सप्तम्या अलुक् । सुमै सौगन्धिकै सुरभि गन्धिला नभ सदा देवाना प्रमोदस्य जलक्रीडादिजन्यस्य सुरभि कामधेनुम्। अत्यानन्ददायिनीमित्यर्थ । उदीच दिश उत्तरस्या दिगङ्गनाया मणिमयी दपणी मुकुरमिव स्थिता महतीं वापिका ददर्श । आरुण्यनैर्मल्यगुणनिमित्ता मणिदर्पणत्वोत्प्रेक्षा । यत्तु ‘स्नानसमये कुबेराङ्गनालकग लितकुसुमै सुरभिं मनोज्ञाम् । ‘सुगन्धे च मनोज्ञे च वाच्यवत्सुरभि स्मृत ’ इति विश्व ” इति नृसिहतन्न, स्वीयसौगन्धिकान्युपेक्ष्य कौबेराङ्गनालककुसुमैर्मनोज्ञत्वोक्तौ पतत्प्रकर्षाख्यदोषापत्तेरिति । मञ्जुभाषिणी ॥ ३३ ॥

 यक्षेति । अथ स भीम । गृहीतदेहे मूर्तिमति यक्षाधिपस्य यशसि कीर्ताविव स्थित इत्युत्प्रेक्षा । हसाना यूथे कुले। दृष्टवा। आत्मानमिति शेष । वीक्ष्य

 कक्षानिवेशितगद् स विगाह्य तोय
  फुल्लानि हल्लककुलान्यखिलान्यलावीत् ॥ ३४ ॥

 तदात्व एव तद्रक्षिण ‘कस्त्व रे'[६७२] जाल्म, आयुरग्रमिमारुरुक्षसि’ इति समन्ततो निरुन्धानानन्वर्थ[६७३]तवालम्बकतया लोहि[६७४]तायिताना लोचनाना प्रतिबिम्बैस्ता सरसीं पुनरपि सौगन्धिकान्तर्वत्नीमिव कुर्वत क्रोधवशान्नाम यातुधानान्स भीमो रहसा समुपबृहितसिहनादश्चि[६७५]रमुपोषितस्य परिघस्य पारणा परिकल्पयाचक्रे ॥

 रक्ष सृता रक्तनदी महाद्रेर्विष्वक्पतन्ती वियति स्थितानाम् ।
 क्षरत्तीटीधातुझरीति बुद्धे करावलम्ब कलयाचकार ॥ ३५ ॥


भयात् अपगते पलायिते सति । कक्षे बाहुमूले निवेशिता विन्यस्ता गदा येन तथोक्त सन् । तोय सौगन्धिकदीधिकाजल विगाह्य प्रविश्य मूलानि विकसि तानि अखिलानि नि शेषाणि हल्लकाना रत्ताब्जाना कुलानि पुजान् अलावीत् अपचितवान् । लुनाते कर्तरि लुड् । अत्रोत्प्रक्षया कुबेरस्य भाविपराभवस्य प्रतीतेरलकारेण वस्तुवनि ॥ ३४ ॥

 तदात्व इति । 'तदात्वस्तु तदाकाल' इत्यमर । तस्या कह्लारसरस्या रक्षिण पालयितृन् । अत एव रे जाल्म क आयुष अग्रभूमिं आरुरुक्षसि आरोढुमिच्छसि।इति। उक्त्वति शेष । समन्तत खस्य परितो निरुन्धानान् निरोध कुर्वाणान् अन्वर्थताया क्रोववशेति नान्नोऽवयवार्थत्वस्य । कोपपराधीनत्वस्येति यावत् । अवलम्बकतया स्वीकारेणेवेति गम्योत्प्रेक्षा । लोहितायिताना अरुणी भूताना लोचनाना प्रतिबिम्बै तामपचितहल्लका सरसी पुनरपि सौगन्धिकै रक्ताब्जै अन्तर्वत्नी सगर्भा तत्पूर्णामिवेति यावदित्युत्प्रेक्षा । कुर्वत क्त्रोध वशान्नाम यातुधानान् रक्षोविशेषान् स भीम रहसा वेगेन समुपबृहित वर्धित सिहनाद येन तयोत सन् चिरमुपोषितस्य वधपारणारहितस्य परिघस्य गदया पारण उपवासानन्तरभोजन परिकल्पयाचक्रे। अवधीदित्यर्थ । गम्यवाच्योप्रेक्षयोरङ्गाङ्गाङ्गिभावेन सकर ॥

 रक्ष इति । रक्षोभ्य क्रोधवशेभ्य सृता महाद्रे गन्धमादनस्य विष्वक् परित पतन्ती प्रवहन्ती रक्तनदी शोणितप्रवाह वियति आकाशे स्थिताना देवादीना क्षरन्त स्यन्दमान तटीषु प्रपातेषु धातब गैरिकादीनि यस्या तथोक्ता झरी निझर इति बुद्धे भ्रमात्मिकाया करावलम्ब सुखग्राइत्व कलयाचकार घटयति स्म । निर्झरभ्रम जनयामासेत्यर्थ । अतएव भ्रान्तिमद- लकार ॥ ३२ ॥


 पर्वतस्याग्रवस्तुभ्य प्रवस्तु नेच्छतीं दृशम् ।
 उत्खाय स महायत्नादुपासीददुपत्यकाम् ॥ ३६ ॥

 तदानीमितरेष्वपि भ्रातृषु कमलपालिकासूनो स्कन्धभागशिबिकामधिरुह्य तस्यैव कटक[६७६] भुवमागतेषु सत्सु मारुतिरादरेण रहसि [६७७]ता विकसिता कुसुमसहति मूर्तानुरागभ्रमदा प्रमदा प्रत्युपदामकरोत् ।

 सरसीव कचेऽप्यस्या धार्तराष्ट्राकु[६७८]लीकृते ।
 ऊषे तया वरतनोरूर्मिमत्यलिभासुरे ॥ ३७ ॥[६७९]


 पर्वतस्येति । स भीम पर्वतस्य गन्वमादनस्य अग्रे शिखरे वस्तुभ्य मणिकुञ्जपुञ्जादीन् विहायेति ल्यब्लोपे पञ्चमी । प्रवस्तु अन्यत्र गन्तु नैच्छती अन भिलषन्तीम् । नर्ञ्थस्य नशब्दस्य सुप्सुपेति समास । दृश दृष्टि यत्नात् अतिकष्टात् उत्खाय आहत्य । उपत्यका अद्रेरासन्नभूमिं उपासीदत् प्राप्तवान् । दृशमुत्खायेत्यनेन पर्वताग्रवस्तूना लोकोत्तरप्रतीतेर्वस्तुना वस्तुध्वनि ॥ ३६ ॥

 तदानीमिति । तदानी उपत्यकाप्राप्तिसमय एव । इतरेषु भ्रातृषु युधि ष्ठिरादिष्वपि कमलपालिकाया हिडिम्ब्या सूनो घटोत्कचस्य स्कन्धभाग भुजाप्रमेव शिबिका प्रियया द्रौपद्या सह अघिरुह्य । तस्य गन्धमादनस्यैव कटकभुव नितम्बप्रदेश आगतेषु प्राप्तवत्सु सत्सु । मारुति भीम मूर्तस्य शरीरधारिण अनुरागस्य भ्रम ददातीति तथोक्ताम् । आरुण्यादिति भाव । ता विकसिता कुसुम सहृति कहारवृन्द रहसि प्रमदा प्रत्यादरेण उपदा उपायन अकरोत् । क भीमोऽद्य इत्याध्यायन्तो युधिष्ठिरादय चिन्तामात्रसनिहितेन घटोत्कचेन गन्धमादन नीता इति भारती कथात्रानुसधेया ॥

 सरसीति । धार्तराष्ट्रेण दु शासनेन धार्तराष्ट्रै नीलहसैश्च आकुलीकृते ऊर्मिमति कौटिल्यवति तरङ्गवति च अलिवत् अलिभिश्च भासुरे । अस्या वरतनो द्रौपद्या केशेष्वपीति जात्येकवचनम् । सरसि कङारवापिकायामिव तया कुसुमसहत्या ऊषे उषितम् । वसतेर्भावे लिट् । श्लिष्टविशेषणेयमुपमा । इमाम् ‘सरूपशब्दवाच्यत्वात्सा सरूपोपमा मता' इति लक्षयित्वा दण्डी सरूपोपमेति व्यवजहार ॥ ३७ ॥


 अथ कदाचिदाखेटाय तटाटवी पर्य[६८०]टति तस्मिन्बकद्विषि जटो

नाम दु[६८१]र्जट सुरारिरुटजमुपेत्य वेदिकया वैतानतनूनपात इव दयितया सह त्रीनपि तान्वीरान्स्कन्धमानीय जवात्केनचिद[६८२]पदिशपथेन प्रतस्थे ॥

गतागते तत्र घटोत्कचेन जटेन च स्कन्धधूतस्य राज्ञ ।
पादार्पणालाभशुचा वन तत्पतत्रिनादैरिव रोदिति स्म ॥ ३८ ॥
वन यियासो कठिने सभान्ते जटासु रोधो न बभूव यस्य ।
वने विनृम्भत्करुणे तु तस्य जटासुरोऽवोऽजनि धर्मसूनो ॥ ३९ ॥


 अथेति । अथानन्तर कदाचित् तस्मिन् बकद्विषि भीमे आखेटाय मृगया कर्तुमिति । ‘क्रियार्थ- इत्यादिना चतुर्थी । तटे गन्धमादनप्रपाते अटवी पर्यटति परित सचरति सति । दुर्जट पारुष्यहस्वादिना दुष्केश । जटो नाम सुरारि राक्षस । उटज युधिष्ठिरपर्णशाला एत्य दयितया द्रौपद्या सह त्रीनपि तान् वीरान् युधिष्ठिरनकुलसहदेवान् वेदक्या सह वैतानान् यजीयान् तनूनपात आहवनीयगार्हपत्यदक्षिणामीनिव स्वन्व भुजाग्र आनीय प्रापरय। केनचित् दुर्ज्ञेयेन अपदिशेन वैदेशिकेन पथा मार्गेण । ‘ऋक्पू -' इत्यादिना समासान्तोऽत्प्रत्यय । प्रतस्थे । उपमालकार ॥

 गतेति । तत्र गन्धमादनवने गत निर्गमन च आगत आगमन च गतागत मिति नपुसकद्वन्द्वैकवद्भाव । तस्मिन् । गते आगते चेत्यर्थ । क्रमोऽत्र न विवक्षित । ततश्च आगते घटोत्कचेन गते जटेन च स्कन्धे वृतस्य राज्ञ युघिष्ठिरस्य पादयो अर्पणाना विन्यासाना अलाभेन अप्राप्त्या या शुक् दु ख तया तद्वन पतत्रिणा जटासुरगतिक्षुब्धपक्षिणा नादै । कलकलव्याजेनेत्यर्थ । रोदिति सम रुरोदेवेत्युत्प्रेक्षा । सापह्नवा च । महता पादस्पर्शस्याभाग्यदुर्लभत्वादिति भाव ॥३८॥

 वनमिति । कठिने निष्करुणे । खलभूयिष्ठ इति यावत् । सभान्ते दुर्योधनसभाया वन यातुमिच्छो यियासो यस्य वर्मसूनो युधिष्ठिरस्य । जटासु जटा धारणविषये रोध नेमास्त्वदुचिता इति निषेव न बभूव । कितु विजुम्भती करूणा शोकरस मृक्षविशेषश्च यास्मिंस्तस्मिन् वने गन्बमादने ॥ ‘करुणो ना पृक्षभेदे रसे च करुणा कृपा’ इति रत्नमाला । तस्य धर्मसूनो जटासु रोध कण्टकिशाखास्ताकषेणच अजनि बभूव।‘जटा सटाया शाखायाम्’ इति विश्व । अत्र वृक्षशोकयो सटाशाखयो निषेधाकर्षणयोश्च जटासुरोधकरणशब्दश्लेषभित्तिकाभेदाध्यवसायमूलातिशयोक्तया अचेतनस्यापि वनस्य कारुण्याधायिनि धर्मराजजटाधारणे सचेतनस्यैव दुर्योधनादे कारुण्यानुदयेन लोकैकविलक्षण दौरात्म्यमिति प्रतीते-


 नीत्वा किमद्य व[६८३] नसीम्नि सुदूरमेता-
  नत्रैव हन्मि सहसेति धियैव तिष्ठन्
 आलक्ष्यतायममरारिरनुष्णजङ्घो
  गन्तु पदात्पदमपि क्षितिपानुभावात् ॥ ४० ॥
मध्येमार्ग बनान्तान्मदगजगमने मारुतौ समुखेऽस्मि-
 न्सार्धं तेनाथ योद्घु धृतरभसमनास्तीव्रदर्पप्रसार ।
दैत्यस्थान्राजपुत्रान्क्षितितलमनयद्वाहुना स्कन्धमध्या-
 त्क्रोधान्धोऽरन्तिसीम्ना स पुनरनिलभूर्दारुण तस्य शीर्षम् ॥ ४१ ॥
 निपेतुषस्तस्य निकृत्तमूर्ध्रो नितान्तभारेण वनान्तभूमि ।
 निभ्नाभवद्दूरममुष्य सङ्गे निजै प्रतीकैरिव सकुचन्ती ॥ ४२ ॥


रलकारेण वस्तुध्वनि । ‘जटासुरोऽवो’ इत्यादृत्या अधो वनगमनानन्तर जटासुर तस्य धर्मसूनो जटासु विषये रुध्यतेऽनेनेति रोध निषेध कर्षकश्च अजनीति केचित् । अत्राप्यलङ्गारध्वनि पूर्ववत् ॥ ३९ ॥

 नीत्वेति । क्षितिपस्य धर्मराजस्य अनुभावात् माहात्म्यात् अतिभारात्मना परिणतात् । पदात्पदमेक निक्षिप्येत्यर्थ । पदमपर गन्तु निक्षेप्तु अनुष्णे मन्दीभूते जङ्घे यस्य सोऽय अमरारि जटासुर अद्य वनसीम्नि एतान् सुदूर बहुदूर नीत्वा प्रापस्य । कि कार्यमत्रैव देशे सहसा निहन्मीति धिया आलोचनेन तिष्ठन्निव । अलक्ष्यत ददृशे । तत्रत्यैरिति शेष । लक्षते कर्मणि लड्। उत्प्रेक्षा ॥ ४० ॥

 मध्य इति । अथ मध्येमार्ग मार्गमध्ये । वनान्तान्मदगजगमने अस्मिन् मास्तौ समुखे अभिमुखम् । आगते सतीत्यर्थ । तेन साधे मारुतिना सह योद्घु धृत रभस वेग हर्षो वा येन तादृश मनो यस्य स तीव्र तीक्ष्ण दर्पस्य अहकारस्य प्रसार स्फुरण यस्य स । दैत्य जटासुर । स्कन्धमध्यात् बाहुना तान् राजपुत्री च राजपुत्राश्च राजपुत्रान् द्रौपदीयुधिष्ठिरादीन् । क्षितितल भूमिं प्रति अनयत् प्रापयत् । स अनिलभू पुन भीमस्तु क्त्रोबान्ध क्रोधेन कलुष सन् । अरत्निसीम्रा निष्कनिष्ठमुष्टिघातेन दारुण भयकरं तस्य जटासुरस्य शीर्ष शिर क्षितितलमनयत् तच्छिरश्चिच्छेदेत्यर्थ । स्रग्धरा ॥ ४१ ॥

 निपेतुष इति । निकृत्त च्छिन्न मूर्धा शिर यस्य तस्य निपेतुष निपतत तस्य जटासुरस्य । तत्कायस्य सबन्धिनेति यावत् । नितान्तेन अतिमहता भारेण बनातभूमि निजै प्रतीकै अवयवै अमुष्य जटासुरस्य पापिन सङ्गे स्पर्शे विषये सकुचन्ती जुगुप्समानेवेत्युत्प्रेक्षा । दूर बहु निम्ना निमग्ना अभवत् ॥ ४२ ॥


 निष्कण्टकाभवत्सर्वा निहतेऽस्मिन्वनावनि ।
 उत्कण्टकाभवत्प्रीतेरुन्नत्या सा तु पार्षती ॥ ४३ ॥
 ततस्ते श्वेताद्रिं चिरमधिवसन्त कुरुवरा
  सिताश्वस्य प्राप्त्या मुदमनुबभूवुर्निरवधिम् ।
 कथाशेषीकारात्ति[६८४]दशरिपुवर्गस्य बहुधा
  धनुर्ब्रझोज्झत्व शतमखभुजे स्थापितवत ॥ ४४ ॥
 तमनुक्रमभाषितेशयुद्ध स बहूकृत्य चलाचलेन मूर्ध्रा ।
 [६८५]अनुजैर्नृपति सम हिमाद्रेर्न्यवृतद्दूतवन नितान्तहृष्ट ॥ ४५ ॥
नरेन्द्रपुत्रा सह याज्ञसेन्या न केवल तत्र तपोधनानाम् ।
नेत्राणि जहुर्नियमै कृशाङ्गा नेदीयसीना वनवीरुधा च ॥ ४६ ॥


 निष्कण्टकेति । सर्वा वनावनि गन्धमादनारण्यभूमि अस्मिन् जटासुरे निहते सति । भीमेनेति शेष । निष्कण्टफा कण्टकरहिता नि शत्रुका च अभवत् सा पार्षदी द्रौपदी तु प्रीते आनन्दस्य उन्नत्या अतिशयेन । उत्कण्टका उत्थितशत्रुका उद्भतरोमाञ्चा च अभवत् । अत्र हतेऽपि शत्रौ सशत्रुकत्वविरोधस्य सरोमाञ्चत्वेन आभासीकरणाद्विरोधाभास एक , एव निसर्गात्कण्टकिनोऽरण्यस्य कण्टकरा हित्यविरोधस्य नि शत्रुकत्वेनाभासीकरणाद्विरोधाभासोऽपर , इति द्वयो सजाती ययो ससृष्टि ॥ ४३ ॥

 तत इति । तत अनन्तर गन्वमादनारण्याद्वा श्वेताद्रि हिमगिरि चिरमधि वसन्त । तत्र बहुकालमुषितवन्त इयर्थ । 'उपान्वध्याड्वस ' इत्याधारस्य कर्मत्वम्। ते कुरुवरा युधिष्ठिरादय त्रिदशारिपूणा देवशत्रूणा निवातकवचादीना वर्गस्य सघस्य कथाशेषीकारात् नाममात्रावशेषीकरणात् । निर्मूलनादिति यावत् । शतमसस्य इन्द्रस्य भुजे धनुष एव ब्रह्मण वेदस्य उज्झख त्याग बहुधा अनेकवा स्थापितचत । कुत्रापि युद्धप्रसत्तयभावेन यनुषा प्रयोजनाभा वादिति भाव । सिताश्वस्य अर्जुनस्य प्राप्या आगमनेन । स्वर्गादिति भाव । निरवधिं अनन्ता मुद आनन्द अनुबभूवु अनुभूतवन्त । शिखरिणी ॥ ४४ ॥

 तमिति । स नृपति वर्मराज अनुक्रम यथाक्रम भाषित कथित ईशेन साम्बेन सह युद्ध येन तथोक तमर्जुन चलाचलेन कम्पितेन । ‘चल लोल च लाचलम्' इत्यमर । मूर्ध्रा शिरसा बहूकूत्य अभिनन्दयित्वा नितान्त हृष्ट सन् अनुजैश्चतुर्भि सम हिमाद्रे दैतवन प्रति न्ययुतदागतवान् । वर्तते कर्तरि लुड्। औपच्छन्दसिकम् ॥ ४५ ॥

 नरेन्द्रेति । नरेन्द्रपुत्रा युधिष्ठिरादय याज्ञसेन्या द्रौपद्या सह नियमै ब्रत


 तदनु स ख [६८६]लमानी सर्वसाम्राज्यलक्ष्मीं
  प्रचिकटयिषुरेषा प्राप्तकार्श्योन्नतीनाम् ।
 कुरुनृपातितनूजो घोषयात्रापदेशा-
  दभजत बलसघैरावृतस्त वनान्तम् ॥ ४७ ॥
कर्णानिलैस्तत्र करिव्रजाना चलत्सु सर्वेषु चमूरज सु ।
रजस्तु चित्ताश्रितमस्य राज्ञो बलादिवाचञ्चलमेव तस्थौ ॥ ४८ ॥
तत्र रज्जुनहनस्य भाविन स्थानसूचनकृती इवाङ्गदे ।
वारयन्भुजयुगेन कौरव सैनिकान्स विबभाज पङ्क्तिश ॥ ४९ ॥


विशेषै कृशाङ्गा सन्त तत्र दैतवने तपोधनाना नेत्राणि केवल लोचनान्येव न जहु । अतिसुकुमारा एते कथ वयमिव दुश्वर तपश्चरन्तीत्याश्चयण मुहुर्मुहु रपश्यन्मुनय इत्यर्थ । कितु नेदीयसीना समीपस्थिताना वने वीरुधा लताना नेत्राणि लोचनान्यपि मूलान्यपीति च जङ्गु । आहाराथमिति भाव । ‘नेत्र नख्या तरोर्मूले लोचने वसनेऽपि च' इति विश्व । अत्र लोचनमूलाना नेत्र शब्दश्लेषभित्तिकाभेदाध्यवसायमूलातिशयोक्तया अचेतनानामप्याश्चयाधायकत्वे किमुत सचे तनानामित्यर्थान्तरापतनप्रतीतेरलकारेणालकार वनि ॥ ४६ ॥

 तदन्विति ।तदनु तदनन्तरम् । कदाचिदिति शेष । खल दुष्ट मान चित्त समुन्नति अस्यास्तीति खलमानी स प्रसिद्ध कुरुनृपते धृतराष्ट्रस्य तनूजो दुर्यो घन । सर्वा धनकनकमणिकरितुरगादिरूपा साम्राज्यस्य एकच्छञ्राधिपत्यस्य लक्ष्मीं सपद स्वीया प्राप्ता कार्श्यस्य दारिध्रस्य उन्नति अतिशय यैस्तेषा गषा धर्मराजादिभ्य इति सप्रदानस्य सबन्धत्वविवक्षया षष्ठी । प्रचिकटयिषु प्रदर्शयितुमिच्छु सन् । प्रकटयते सन्नन्तादुप्रत्यय । घोषयात्राया निजगोकुल निरीक्षणार्थप्रयाणस्य अपदेशात् व्याजात् । बलाना चतुरङ्गाणा सधै आवृत श्च सन् । त वनान्त द्वैतवन अभजत प्राप्तवान् ‘खलु मानी’ इति पाठ खलुशब्दस्य नेरर्थक्यादुपेक्ष्य । मालिनी ॥ ४७ ॥

 कर्णेति । तत्र दैतवने सर्वेषु चम्वा सेनाया सबन्विषु रज सु परागेषु फरिव्रजाना गजसघाना कर्णयो अनिलै वायुभि चालनजन्यै चलत्सु अपगच्छत्सु सत्स्वपि । अस्य राज्ञ दुर्योधनस्य चित्तगश्रित रजस्तु परागस्तु राजसविकारश्च बलात् राजाश्रयबलादिवेत्युत्प्रेक्षा । अचञ्चल सदेव तस्थौ । कर्णस्य राधेयस्य अनिले प्रेरणै राज्ञ चित्ताक्ष्रितामित्यपि योजयन्ति केचित् । अत्रोक्तोत्प्रेक्षाया धूलीरजोगुणयो रज शब्दश्लेषभित्तिकाभेदाध्यवसायमूलातिशयोक्तिसापेक्षत्वा द्वयोरङ्गाङ्गिभावेन सकर ॥ ४८ ॥

 तत्रेति । तत्र दैतवने । स कौरव दुर्योधन भाविन गन्धर्वेर्भविष्यत


 अभ्रलिहस्य वटभूमिरुहस्तलेऽसौ
  स्थित्वाश्टणोत्तदनु वैणिकगीतिरीतिम् ।
 सगीतभङ्गिरसिक सह बन्धुवर्गै-
  राकारयन्निव सुराधिपगायकेन्द्रम् ॥ ५० ॥

 ताव[६८७]त्तस्य धार्तराष्ट्रस्य चेष्टितरौक्ष्य निरीक्ष्य नितरा क्रुधान्ध
सुधान्ध पतिनिदेशेन वनावनिदेशेऽ[६८८]वतीर्णस्तू[६८९]र्ण विधूतकृपाणबाणचापकलापतनुत्रसेनश्चि[६९०]त्रसेनश्चिरक्षुधितस्तरक्षुश्चमूरुततिमिव चमूममू निवार्य क्ष्वे[६९१]लया लोलयाचक्त्रे ॥


रज्जुभि पाशै नहनस्य बन्धनस्य स्थानसूचन प्रदेशनिर्देश कुस्त इति कृती इव स्थिते इत्युत्प्रेक्षा । अङ्गदे केयूरे भुजयुगेन धारयन् सन्। सैनिकान् पङ्क्तिश विबभाज । पक्त्टि बन्धाश्चकारेत्यर्थ । सम्यगात्मान पाण्डवा पश्यन्वियाशयादिति भाव । अत्राङ्गदधारण कटकमुकुटादिधारणस्याप्युपलक्षणम् । रथोद्धता ॥ ४९ ॥

 अभ्रमिति । तदनु तदनन्तर असौ दुर्योधन अभ्रलिहस्य आकाशस्पर्शिन । अत्युन्नतभ्येति यावत् । वटभूमिरुह वटवृक्षस्य तले अव प्रदेशे स्थित्वा । सगीतभङ्गिषु गानविशेषेषु रसिक सुशिक्षित सुराधिपस्य इन्द्रस्य गायकेन्द्र चित्रसेन बन्धुवर्गै सह आकारयन् ' आह्वयन्निवेत्युत्प्रेक्षा । वीणाशिल्पिना वैणिकाना गीतरीतिं सगीतभङ्गीं अद्यणोन् श्रुतवान् । श्रुणोते कर्तरि लड् ॥ ५० ॥

 तावदिति । तावत् तदानीं तस्य वार्तराष्ट्रस्य दुर्योधनस्य चेष्टितस्य पाण्डवतिरस्काररूपस्य रौक्ष्य पारध्य निरीक्ष्य नितरा कुधा कोपेन अन्धस्य सुधान्धसा देवाना पते इन्द्रस्य निदेशेन आज्ञया वनावनिदेशे द्वैतवनभू भागे अवतीर्ण प्रविष्ट तूर्णं सखर यथातथा विधृतानि कृपाणा खझा बाणा चापा क्लापा तूण्य तनुत्राणि कवचानि च यया तादृशी सेना यस्य तथोक्त चित्रसेनो नाम गन्धर्वरान । अमू दुर्योधनसबन्धिनी चमू निवार्यं चिरात् क्षुधित बुभुक्षित तरक्षु मृगादनो नाम भृगविशेष चमूरुत्तातिं हरिणसमूहमिव क्ष्वेलया सिंहनादेन लोलयाचते आकुलीकृतवान् । उपमालकार । यत्तु ‘तरक्षु सिंह’ इति नृसिंह , तन्न । ‘जठरज्वलनज्वलताप्यपगतशङ्क समागतापि पुर । करिणामरिणा हरिणा हरिणाली हन्यता तु कथम् ॥' इत्यादिना सिंहस्य हरिणवधोद्य ममात्रेऽपि लोकविद्योभयविरुद्धत्वात् ‘तरश्वस्तु मृगादन ’ इति व्याघ्रविशेषपर्यायत्वेन कोशदर्शनाच्चेति ॥


 भटेषु घावत्सु भयेन कर्ण क्रुधा हसन्कुञ्जरमञ्जुचार ।
 करेण विस्फारितकालपृष्ठो जगाम शत्रु जगदेकवीर ॥ ५१ ॥
स्वसमाननाभ्यवयवे नटद्रुणाद्धनुषयुतै स[६९२] युधि देवगायिनाम् ।
अतिरक्तता गलतलैकवर्तिनीमखिले वपुष्यपि चकार सायकै ॥ ५२ ॥
गगने शिरश्चलयत श्रवोञ्चलाद्रलितापि दूरमवतसमञ्जरी ।
पुनरुन्नमद्भिरिषुपक्षवायुभि पुरतोऽभवत्कलह [६९३]भोजिनो मुने ॥ ५३ ॥


 भटेष्विति । कुञ्जरस्य गजस्य इव मञ्जु भनोज्ञ चार गमन यस्य स । जगति एक मुख्य स चासौ वीरश्चेति वैवक्षिकविशेष्यभावात्समास । कर्ण राधेय भटेषु कौरवसैनिकेषु भयेन धावत्सु पलायमानेषु हसन् एतावदेव भवता शौर्य इति परिहसन् सन् । करेण विस्फारित टङ्करित कालपृष्ठ नाम बनुर्येन तथोक्तश्च सन् । क्त्रुबा शत्रु चित्रसेन प्रति जगाम प्रत्युद्ययौ ॥ ५१ ॥

 स्वेति । स कर्ण स्वेन स्वीयेन नाम्ना समान अभिन्न नाम कर्ण इति सज्ञा यस्य तस्मिन्। अवयवे श्रोत्रे नटन् आकर्षणमोचनाभ्या चलन् गुण मौर्वी यस्य तस्मात् धनुष चापात् च्युतै प्रयुतै सायकै बाणै युधि युद्धे देवगायिना गन्धर्वाणा गलतले कण्ठप्रदेशे एक केवल यथातथा वर्तत इति वर्तिनीम् । ‘एके मुख्यान्यकेवला ’ इत्यमर । अतिरक्तता अत्यन्त मुखर्यादि रागमाधुर्य अतिशोणितत्व च अखिले वपुष्यपि चकार । सकल शरीर रुधिराप्लुत चक्रे इत्यर्थ । अत्र गलमात्रवर्तिनोऽतिरक्तत्वत्वस्याखिलवपुर्व्याप्तिवर्णनात्प र्यायालकार । ‘पर्यायो यदि पर्यायेणैकस्यानेकसञ्जय ’ इति लक्षणात् । स च गानमाधूयशोणितयो रक्तशब्दश्लेषभित्तिकाभेदाध्यवसायमूलातिशयोक्तयनुप्राणित इति तयो सकर । ‘रक्त कण्ठविशेषे स्यादनुरागिणि रञ्जिते । वाच्यवन्नरुणे क्लीब कुङ्कुमे रुधिरेऽपि च ॥' इति विश्व । ‘नटङ्गुणा कर्णे विकसदञ्जनाम्' इति लिङ्गविभक्तिविपरिणामेन योजनीयमित्यपि प्राहु । मञ्जुभाषिणी ॥ ५२ ॥

 गगन इति । कि च गगने शिर चलयत श्वाधाभि कम्पयत । अत एव कलहभोजिनो मुने नारदस्य श्रवोञ्चलात् श्रोत्राग्रात् दूर गलितापि । अवतसमञ्जरी भूषणगुच्छ उन्नमद्भि ऊर्ध्व प्रसरद्भि इषूणा कर्णबाणाना ये पक्षा कङ्कपत्राणि तेषा वायुभि पुर पुरत नारदस्याग्रे अभवत् अवर्तत । अत्र कर्णावतसमञ्जर्या गलिताया पुनर्नारदाग्रे भवनासबन्धेऽपि सबन्धोक्ति- रूपाया अतिशयोक्ते लोकोत्तर कर्णयुद्धमिति प्रतीतेरलकारेण वस्तुध्वनि ॥ ५३ ॥


हस्तै प्रवीणैरखिलेऽपि कर्णे सुधा विमुञ्चन्सुरगायिवर्ग ।
अयुक्तमेतत्पुनरत्र कर्णे वि[६९४]पाठवर्ष विससर्ज घोरम् ॥ ५४ ॥

तदनु विश्वातिशायिनो [६९५]विश्वावसुकुमारस्य शरगणेन सह जबकृते कृतपणबन्ध इव धावति राधेये क्रन्दत्सु कुरुवृन्देषु च सर्वेऽपि गर्वेण गन्धर्वभटा सुयोधनमायोधनवर[६९६]णीमध्यभाज [६९७]रश्मिभिरवबध्य गर्जन्तो रभसवर्ज निर्जरपथमनैषु ॥

नयत्स्वमु वैरिषु नाकमार्ग विषादभाजा विपिने कुरूणाम् ।
तत्ता[६९८]दृशि व्रीलभरेऽपि तेषामुत्तानभाव न जहुर्मु[६९९]खानि ॥ ५५ ॥


 हतैरिति । सुरगायिपर्ग गन्धर्वसघ प्रकृष्टा वीणा येषु तै युद्धनि पुणैश्च हस्तै अखिले सर्वस्मिन् कर्णे श्रोत्रे सुधा गानामृत विमुञ्चन् वर्षन्नपि सन् । अत्र कर्णे अस्मिमेकस्मिन् श्रोत्रे राधेये च । घोर विपाठाना बाणविशे षाणा वर्ष विससर्ज ववर्ज इति यत्त् , तदेव तत्पुनरयुक्तम् । अत्र सुधावर्षकाद्धस्तात् बाणवर्षवर्णनाद्विरुद्धकार्योत्पत्तिरूपो विषमप्रभदो राधेयश्रोत्रयो क्र्णशब्द श्लेषभित्तिकाभेदाध्यवसायमूलातिशयोक्तयनुप्राणित इति द्वयोरङ्गाङ्गिभावेन सकर । उपजाति ॥ ५४ ॥

 तदन्विति । तदनु विश्व बनुर्धरप्रपञ्च अतिशेत इति विश्वातिशायिन । विश्वावसुकुमारस्य चित्रसेनस्य शरगणेन सह । जवकृते वेगार्थ कृत पणबन्धो येन तादृश इवेत्युत्प्रेक्षा । राधेये कर्णऽपि वावति सति । कुरुवृन्देषु कौरवव्यूहेषु क्रन्दत्सु स्दत्सु सत्सु च। सर्वे गन्धर्वभटा । अपिस्खर्य । गर्वेण दुरह्कारेण आयोधनधरणीमध्यभाज युद्धभूमव्यवर्तिन सुयोधन रश्मिभि पाशै अवबध्ग गर्जन्त निर्जरपथ आकाश प्रति रभसवी मन्द अनैषु प्रापयामासु । युधिष्ठिरादयोऽपि सुयोधनादीना बन्धन दृष्ट्वा हर्षमाप्नुयुरिति मन्दमनैषुरिति भाव । रभसवर्ज हषशून्यमिति दुर्यो वनविशेषणमिति केचित् ॥

 नयत्विति । वैरिषु शत्रुषु गन्धर्वेषु अमु दुर्योधन नाकमार्ग आकाश मार्ग प्रति नयत्सु सत्सु । विपिने अरण्ये विषाद दु ख भजन्तीति तद्भाजा तेषा कुरूणा कौरवाणा मुखानि (कर्तुणि) तत्तादृशि असध्शे व्रीलभरे लज्जाति शये सत्यपि । उत्तानभाव ऊर्ध्वतयावस्थान न जहु न मुमुचु । दु खेन मुखान्युन्नम्य मुहुर्मुहुरपश्यन् दुर्योधनमित्यर्थ । अत्र नमनकारणस्य लज्जाभ रस्य सत्त्वेऽपि तदनुदयवर्णनाद्विशेषोक्तिरलकार ॥ ५५ ॥


 तस्यान्त पुरसुभ्रुवो विगलितैर्बाष्पाम्बुभि पङ्किले
  मार्गे मन्दितवेगपादगतयो वक्ष स्खलत्पाणय ।
 आजग्मुस्तमजातशत्रुमजहत्कारुण्यमङ्ध्रिदूये
  कुर्वन्त्यो नमित हियैव पुरतो दत्तार्थसाह्य शिर ॥ ५६ ॥

 सगद्रदमेवमभिदधुश्च ॥

 सद्रष्टु तव पादमूलमधुना सर्वै सम बन्धुमि-
  र्देव भ्रातरमागत वनतले लेशेन हेतोर्विना ।
 पाप कश्चन गायको दिविषदा हा हन्त बद्धवा ह्ढ
  नि शङ्कै[७००]रुपवीणितो निजभटैरभ्र नयत्युच्चकै ॥ ५७ ॥
तदध न कण्ठभुवि रनुषाणा तवैव पाद शरण गतानाम् ।
वास्तव्यता मङ्गलसूत्रिकाया प्रसीद दातु प्रथमानकीर्ते ॥ ५८ ॥


 तस्येति । विशेषेण गलितै बाष्पाम्बुभि पङ्किले कर्दमवति मार्गे आरण्यके मन्दित वेग यस्यास्तादृशी पादयोर्गति गमन यासा ता । वक्षसि स्खलन्तौ प्रहरन्तौ पाणी यासा ता । उभयत्र दु खातिरेकादिति भाव । तस्य दुर्योनस्य अन्त पुरे सुभ्रुव स्त्रिय त आत्मीयभर्तृकृतराज्यभ्रश अथापि अजहृत् अविच्छिद्यमान कारुण्य दीनातिहरणरूप यस्य त अजातशत्रु वर्मराज प्रतीति प्रस्तुतोचितनिर्देशोऽयम् । पुरत प्रणामात्पूर्वमेव हिया लज्जया भङ्गजन्यया नैसर्गिकया च दत्तमर्वे साह्य सहायकृत्य यस्य तथोक्त शिर । अङ्ध्रिद्वये तत्पादयुग्मे नमित कुर्वन्त्य प्रणमन्त्य सत्य आजग्मु प्रापु । शरण गता इत्यथ । अत्राजहत्कारुण्यस्य कौरवीणा बर्मराजप्राप्तिहेतुत्वात् काव्यलिङ्गभेद । शार्दूलविक्त्रीडितम् ॥ ५६ ॥

 सगद्गदमिति । किच सगद्रद सदु खस्खलद्वाक्य यथातथा एव वक्ष्यमाणप्रकारेण । अभिदधु विज्ञापयामासु । ता इति शेष ॥

 विज्ञप्तिप्रकारमेवाह द्वाभ्याम्-सद्रष्टुमिति । अधुना अस्मिन्नहनि । हे देव स्वामिन्, तव पादमूल सम्यक् द्रष्टु सवैं बन्धुभि अस्मदादिभि सम आगत भ्रातरं युष्मदनुज दुर्योधन वनतले पाप दुरात्मा कश्चन दिविषदा गायक गन्धर्व हेतोर्लेशेन विना अपराधरूपकारणलेश विनापि । हा हन्तेत्यपि खेदे । दृढ बद्धा नि शङ्कै अकुतोभयै निरभटै गन्धवै उच्चकै गम्भीर यथा तथा उपवीणित वीणागानेन सह स्तुत सन् । अभ्र आकाश प्रति नयति । ‘ओदन पक्त्वा भुङ्क्ते’ इत्यादिवहुर्योवनस्यैव नयनकर्मत्वम् । शादूलविक्त्रीडितम्॥।५७॥

 तदिति । तत् तस्मात् कारणात् हे प्रथमानकीर्ते वर्धमानयश , तवैव।


 इति ताभिर्दानभाव पुरोधाय निवेदितस्य राज्ञो निदेशेन निर्गत्य सत्वरमनुधावता भ्रूदण्डमिव कोदण्डमपि कोपेन कुटिलीकुर्वता भीमप्रभृतीना क्ष्वेलितविस्फाराभ्या तत्क्षण वियखिल वि[७०१]कस्वरनिजगुणमासीत् ।

 [७०२]अर्जुनस्त्वेवमुवाच ॥

क गायका यूयमुपात्तवीणा क चापधुर्या कुरुवशभूपा ॥
अहो रणे चापलमीदृश व स्वमूलक वा परमूलक वा ॥ ५९ ॥
वृषाङ्कमौलेर्व्रणचिह्नदायी वने ज[७०३]नोऽस्मिन्वसतीति वार्ता ।
पपात कर्णे भवता न किचिद्यदीदृश साहसमातनुध्वे ॥ ६० ॥
  


त्वत्तुल्यस्य करुणाकरस्यान्यस्य लोके दुर्लभत्वादिति भाव । पाद शरण रक्षितार गताना प्राप्ताना स्नुषाणा भ्रातृवधूना न अस्माक कण्ठस्य भुवि देशे । मङ्गल सूत्रिकाया माङ्गल्यसूत्रस्य वास्तव्यता नैरन्तयण स्थिति दातु प्रसीद अनुग्रह कुरु ॥ ५८ ॥

 इतीति । इत्युक्तप्रकार दीनाना भाव दैन्य पुरोधाय अग्रे कृत्वा । सदै न्यमिति यावत् । ताभि दुर्योवनान्त पुरिकाभि निवेदितस्य विज्ञापितस्य राज्ञ धमराजस्य निदेशेन आज्ञया निर्गत्य पर्णशालातो बहिरागत्य सत्वर अनुसृत्य वावता कोपेन भ्रू दण्ड इव तमिव कोदण्ड चापमपि। त च त चेत्यर्थ । कुटिली कुर्वता बक्र कुर्वताम् । एकत्र भ्रुकुटीरचनेन, अन्यत्र गुणाकर्षणेन चेति भाव । भीम प्रभृति आदि येषा तेषा भीमार्जुननकुलसहदेवाना क्ष्वेलितविस्फा राभ्यासिंहनादचापनादाभ्या तस्मिन्नेव क्षणे तक्षणम्। धर्मराजाज्ञाक्षण एवेत्यर्थ । अत्यन्तसयोगे द्वितीया । अखिल वियत् आकाश विकस्वर प्रवृद्ध निज स्वीयश्च गुण शब्द यस्मिन् तादृश आसीत् । ‘निजमात्मीयनित्ययो ’ इति विश्व । ‘शब्दगुणकमाकाशम्’ इति तार्किका ।

 ‘अर्जुनस्त्वेवमुवाच इति क्कचित्पुस्तकेषु पाठ । एव वक्ष्यमाणप्रकारेण ।

 क्केति । उपात्ता हस्ते धृता वीणा यैस्ते । अनाघ्रातचापगन्धा इत्यर्थ । हे गायका , यूय क्क । चापधुर्या धनुर्धरीणा कुरवशभूपा वय क्क। अत रणे युद्धे ईदृश व युष्माक चापल तृष्णा स्व स्वीयायोचनमेव मूल यस्य तथोक्त तत्क वा उत पर परालोचन मूल यस्य तथोक्त वा । अहो इत्याश्चर्ये । अविवेक कृतत्दाश्चर्यम् । नेद वीणाभिर्गानम् , कितु शरै शरीरतक्षक युद्धमित्यर्थं । उपेन्द्रवज्रा ॥ ५९ ॥

 वृषेति । वृषाङ्कस्य शभोरपि मौलौ व्रणेन चिड्ल ददातीति दायी । जन


भीताधुनासौ न विसृज्यते चेत्तथात्र सनह्यतु गाण्डिवो मे ।
यथा महेन्द्र परिगृह्य वीणा स्वबाहुकीर्ति स्वयमेव गायेत् ॥ ६१॥
  

 इति विजयस्य वीरवादेन पुनरपि निवर्तमानैर्वीणामसेषु निवध्य बाणासनमेव [७०४]करे कूजयद्भिस्तैर्नभश्चरै सममेषा सकलवैमानिकपरिषदङ्ग रुझवितीर्णनिद्राभङ्गो महान्सगरोऽभूत् ॥

 गम्भीरगाण्डिवगुणाद्रलितै पृषत्कै-
  र्गण्डस्थले हृदि भुजे गमितव्रणास्ते ।
 गर्व विहाय चकिता गगनान्तराले
  गन्धर्वभावसदृश गमन वितेनु ॥ ६२ ॥


अर्जुन अस्मिन्वने वसतीत्युक्तप्रकारा वार्ता वृत्तान्त । हे गायका , भवता कर्णे किचित् स्खल्पमपि न पपात न प्रविष्टवती । भवद्भिर्न श्रुतेत्यर्थं । यत् यस्मात् ईदृश बङवा भ्रातुर्नयनरूप साहस अविचारितकृत्य आतनुध्वे कुरुध्वे । तस्मान्न पपातेति योज्यम् । अत्रोत्तरवाक्यार्थस्य पूर्ववाक्यार्थं प्रति हेतुत्वात् काव्यलिङ्गभेद ॥ ६० ॥

 भ्रातेति । किच असौ नीयमान मे भ्राता दुर्योधन अधुना न विसृज्यते चेत् न त्यज्यते यदि । युष्माभिरिति शेष । तर्ह्यत्र इदाना मे मम गाण्डीव चाप तथा सनह्यतु उद्युक्तो भवतु, यथा महेन्द्र देवेन्द्र स्वयो स्वीययो बाह्वो कीर्ति दानक्षात्रजन्या स्वयमेव वीणा परिगृह्य गयेत् स्तुवीत । मद्भाण्डिवो युष्मान्नि शेषीकरोतीत्यर्थ । अत्र इन्द्रकर्तृकवीणादानरूपाप्रस्तुतकार्यवर्णनेन गन्धर्ववधस्य प्रस्तुतस्य प्रतीते कार्यनिबन्धनाप्रस्तुतप्रशसाभेद । उपजाति ॥ ६१ ॥

 इतीति । इत्युक्तप्रकारेण विजयस्य अर्जुनस्य वीरवादेन पुनरपि निवर्तमानै प्रत्यागच्छद्भि असेषु भुजशिखरेषु वीणाम् । इति जात्येकवचनम् । निबध्य बाणासन चापमेव । नतु वीणामित्यर्थ । करे कूजयद्धि गुणाकषणेन टङ्कारयद्भि तैर्नभश्चरै सम गन्धर्वै सह एषा भीमादीना सकलाना वैमानिकाना देवसाध्यादीना परिषद समाजस्य अङ्गरुहेभ्य लोमभ्य वितीर्ण दत्त निद्राया भङ्ग उद्वोध येन तथोक्त । अत्याश्चर्यात्कृतरोमाञ्च इत्यर्थ । महान् सगर युद्ध अभूत् ॥ गम्भीरेति । गम्भीरस्य महत गाण्डिवस्य धनुष गुणातू मौर्व्या गलितै प्रयुक्तै पृषत्कै बाणै गण्डस्थले हृदि वक्षसि भुजे च गमितानि प्रापितानि व्रणानि येषा तथोक्ता ते गन्धर्वा गर्व युद्धाहकार विहाय चाकिता भीता सन्त गगनान्तराले आकाशमध्ये गन्धर्वभावस्य अश्वत्वस्य सदृश अनुरूप गमनम् । पला-



१९

वीणा समस्ता विजयेन कुत्ता गन्धर्व[७०५]सैन्याङ्गलिता निपेतु ।
आयुष्मती केवल[७०६]मालुलोके हस्ताग्रवीणा दिवि नारदस्य ॥ ६३ ॥
 एतावतीति युधि मार्गणचारशक्ति
  स्पष्टीबभूव सुरगायकपाण्डवानाम् ।
 तेषा ययु शरकुलानि हि लक्ष्यमात्र
 लक्ष्य विभिद्य पुनराययुरन्तमेषाम् ॥ ६४ ॥

 तत्र शक्त्रसुतस्य तादृश बिक्रभमभिनन्द्य कृतसधानेन गन्धर्वराजेन समार्पित पौरुषहीन[७०७]मिद न पुरस्करणीयमिति [७०८]बन्धनमिषेण पश्चादुपनीतबाहुयुगुल सुयोधनमादाय ते भीमादयो वसुधाधिपस्य सनिधि [७०९]प्रत्यनयन् ॥


यनामिति यावत् । वितेनु चक्रु । ‘वाजिवाहार्वगन्धर्व-' इत्यश्वपर्यायेष्वमर । अत्र गकारस्य बहूनामादित्वेन ग्रहणाच्छेकानुप्रास ॥ ६२ ॥

 वीण इति । विजयेन अजुनेन कृत्ता छिना अतएव गन्धर्वसैन्यात् गलिता समस्ता वीणा गान्वर्य निपेतु पतन्ति स्म । भुवीति शेष । परतु नारदस्य मुने हस्ताग्रे वीणा केवल महत्येवैका दिवि आकाशे आयुष्मती अच्छिन्ना सती आलुलोके दृष्टा । लोकैरिति शेष । अतिशयोक्ति ॥ ६३ ॥

 एतावतीति । सुरगायकाना गन्धर्वाणा पाण्डवाना च उभयेषा सबन्धिनी मागणाना चारे सचारणे शक्ति सामर्थ्य एतावती इयतीति युधि युद्धे स्पष्टीबभूव स्पष्टाभूत् । हि यत तेषा गन्धर्वाणा शरकुलानि बाणभृन्दानि लक्ष्यमात्र ययु शरव्य प्रापुरेव । न तु तद्भीत्या तदन्तिफमाययुरित्यर्थ । एषा पाण्डवाना शरकुलानि तु लक्ष्य विभिद्य अन्त एतत्समीप प्रति पुनराययु आगतानि । तत स्पष्टीबभूवेति योज्यम् । अत्र लक्ष्यप्राप्तिमात्रेण लक्ष्यभेदनपुनरन्तिकागम नाभ्या च गन्वर्वपाण्डवबाणसचारणशक्तयो स्वल्पत्वमहत्त्वानुमानादनुमानद्वयसजातीयत्वेन ससृष्टम् । उत्पतिता बाण अध पुन पतन्ति, अध पतिताश्च पुनर्वोत्पतन्तीति तत्तत्वम् ॥ ६४ ॥

 तत्रेति । तत्र तस्मिन् युधि तादृश असह्श शक्रसुतस्य अर्जुनस्य विक्रम पराक्त्रम अभिनन्द्य श्लाघित्वा कृत सधान सधि येन तेन गन्धर्वराजेन चित्रसेनेन समर्पित प्रत्यर्पित पौरषेण शौर्येण हीन शून्य इद भुजयुगुळ न पुरस्करणीय नाग्रे स्थापनीयमिति हेतो बन्धनस्य गन्धर्वकृतस्य मिषेण व्याजेन पश्चात् पृष्ठत उपनीत प्रापित बाह्वोर्युगुल येन तथोक्तमिव स्थितमिति गम्यसापह्नवो-


त वीक्ष्य तत्र तरुसावरण भजन्ती
 सा पार्षती सविधवल्लिपरम्परासु ।
हासै कराङ्गुलिबिलादसकृद्रलद्भि-
 राकालिकी कुसुमपङ्क्तिमिव व्यतानीन् ॥ ६५ ॥
वीरव्रातैस्त्रिभुवनत[७१०]ले वि[७११]क्ष्रुते न कुलेऽस्मि-
 [७१२]न्नुत्पद्य त्व बहुभिरनुजैरास्थितोऽप्याधिपत्यम् ।
एव भङ्ग किमिह भजसे वत्स नीचै प्रणीत
 राजन्याना परपरिभवो राजयक्ष्मा हि कीर्ते ॥ ६६ ॥
इत्थ निगद्य सरलेन युधिष्ठिरेण
 बन्धाद्वि[७१३]मुच्य बकविद्विषता विसृष्ट ।
मान च्युत मृगयमाण इवातिनम्रो
 वाचयमेन स ययौ महता बलेन ॥ ६७ ॥


त्प्रेक्षा । सुयोधन आदाय ते भीमादयो भीमार्जुननकुलसहदेवा वसुधाधिपस्य राज्ञो युधिष्ठिरस्य सनिधि समीप प्रत्यनयन् प्रापयन्ति स्म ॥

 तमिति । सा तथा तैरपकृतत्वेन प्रसिद्धा पार्षती द्रौपदी तरु वृक्ष आवरण भजन्ती कुर्वती सती तत्र राज्ञ समीपे त दुर्योधन वीक्ष्य करस्य वक्त्रे निहितस्य अङ्गुलीना बिलात् मध्यात् असकृत् बहुवार गलद्भि प्रसरद्भि हासै सविधवल्लीना समीपलताना परम्परासु पङ्क्तिषु। अकाले अपर्तुभवा आकालिकीं कुसुमपाङ्क्ति व्यतानीत् जनयामासेवेत्युत्प्रेक्षा । भृश जहासेत्यर्थ । महतामवमन्तारो दैवादवमान भजन्ति मरणादप्यविकमिति हासप्रकार ॥ ६५ ॥

 वीरेति । हे वत्स, त्व वीराणा लोकैकशूराणा कुरुपूरुप्रभृतीना व्रातै बृन्दै त्रिभुवनतलेऽपि विश्रुते प्रसिद्धे न अस्माक सबन्धिनि अस्मिन् वशे चान्द्रे बहुभिनवोत्तरनवत्या अनुजै सह उत्पय सभूय कि च आधिपत्य प्रभुत्वमपि आस्थित । चतुरङ्गबलसमेतोऽपि सन्नित्यर्थ । नीचै हीनै गन्धर्वै प्रणीत प्रापित एव परिदृश्यमानप्रकार भङ्ग पराभव इह इदानीम् । किमिति जुगुप्सायाम् । भजसे वहसे इति काकु । अनुचितमित्यर्थ । कुत । हि यस्मात्कारणात् । राजन्याना राज्ञा परै परिभव तिरस्कार कीर्ते राजयक्ष्मा क्षयरोग । कीर्तिनाशक इत्यर्थ । मन्दाक्रान्ता ॥ ६६ ॥

 इत्थमिति । सरलेन उदारेण युधिष्ठिरेण इत्थ उक्तप्रकार निगद्य उक्त्वा


य प्राय ब[७१४]हुमिच्छन्ति जना जीवितुमुत्सुका ।
उपाविक्षत्तमेवासौ पथि प्राणान्समुज्झितुम् ॥ ६८ ॥
 तस्मिन्व्रते स्वपनलब्धसुरारेिसाह्य-
  स्त्यागे तनोस्तदनु बन्धुतया निषिद्ध ।
 तस्माद्वनात्पुनरपि प्रतिपद्य धैर्य
  घुष्यद्वलो निववृते कुरुराजधानीम् ॥ ६९ ॥
  

तत्र खलु ।

कदापि मा बन्धय गायकैर्मामितीव हव्यैरसृतायमानै ।
सप्रीणयन्निन्द्रमथाभिमानी स पौण्डरीक क्त्रतुमाजहार ॥ ७० ॥
  


बकविद्विषता भीमेन बन्धात् गन्धर्वकृतात् विमुच्य मोचयित्वा विसृष्ट अनुज्ञात स दुर्योधन । च्युत मान मृगयमाण । विचिन्वन्निवेत्युत्प्रेक्षा । अतिनम्र सन् । वाचयमेन लज्जया परिहृतक्ष्वेलितवाधरवेण महता बलेन सह ययौ गतवान् ॥ ६ ॥

 यमिति । जीवितुमुत्सुफा चिरजीवनेच्छव जना य प्राय वय बहु अनेकवार्षिक इच्छन्ति । तमेव प्राय निरशनव्रत च । प्राणान् समुज्झितु त्यक्तु असौ दुर्योधन पथि मार्गे उपाविक्षत् प्रविष्टवान् प्रायोपवेश चक्रे । विशे कर्तरि लुड् । ‘प्रायो वयसि बाहुल्ये तुल्यानशनमृत्युषु' इति वैजयन्ती । अत्र प्रायशब्दश्लेषभित्तिकालब्धवयोनिरशनव्रतद्वयाभेदातिशयोक्तया दीर्घजीवन हेतोरेव सद्यो जीवननाशत्वरूपस्य व्याघातालकारस्योज्जीवनात् द्वयोरङ्गाङ्गिभावेन सकर । ‘स्यादूथाधातोऽन्यथाकारि क्रियेत चेत्' इति लक्षणात् ॥ ६८ ॥

 तस्मिन्निति । तदनु दुर्योधन तस्मिन् व्रते प्रायोपवेशे स्वपने स्वप्ने लब्ध सुरारीणा अलम्बुसादीना साह्य युद्धे साहाग्य येन तथोक्त सन् । बन्धुतया बन्धुसमूहेन तनोस्यागे विषये निषिद्ध निवारितश्च सन् । वैर्य प्रतिपद्य तस्माद्वनात् द्वैताख्यात् । पुनरपि धृष्यदूल शब्दायमानचतुरङ्ग सन् । कुरुराजबानी हस्तिनपुर प्रति निवपृते प्रत्यागतवान् ॥ ६९ ॥

 तत्र कुरुराजधान्याम् । खल्विति उत्तरेण सबध्यते । इतीद काचित्क गद्यमुत्तरत्र अथशब्देन सदर्भविद्धमपि व्याख्यातम् ॥

 कदेति । अथ कुरपत्तनप्राप्त्यनन्तर अभिमानी मानधन अतएव स दुर्यो धन हे इन्द्र, इत पर कदापि गायकै गन्धर्वे मा मा बन्धय इति अमृतवन्मधुरायमाणै अमृतायमानै हव्यै आज्यपुरोडाशादिभि इन्द्र सप्रीणयन् सतोषयन्निवेत्युत्प्रेक्षा । पौण्डरीक नाम क्रतु याग आजहार कृतवान् ॥ ७० ॥


 भूपोऽपि ता वनभुव प्रविहाय भेजे
  भूय स काम्पकतपोवनमण्डलानि ।
 किर्मीरनाशमुदिताखिलतापसौघ-
  स्वाध्यायघोषमुखरीकृतदिड्युखानि ॥ ७१ ॥
सृदुभिर्वनवल्लिकन्दमूलैर्विहितातिथ्यविधि स तत्र पार्थ ।
स्थितिमाचरति स्म हृष्टचेतास्तृणबिन्दोर्वचने तपोवने च ॥ ७२ ॥
 प्रासूत या सदसि पट्टपटीरसख्या
  सैषा समागतवतीति सकौतुकाक्ष्य ।
 वेणीधरामुटजसीमनि याज्ञसेनी
  विस्मित्य वल्कलवस ददृशुर्गृहिण्य ॥ ७३ ॥
  


 भूप इति । स तादृगपकारिण्यपि करणाकरत्वेन प्रसिद्ध भूप धर्मराजोऽपि ता वनभुव दैतवनप्रदेश प्रविहाय । किर्मीरस्य रक्षस नाशेन भीमकृतेन मुदि तस्य तुष्टय । अकुतोभयस्येति यावत् । अखिलतापसाना ओघस्य मुनिसधस्य स्वाध्यायधोषै वेदाध्ययनकोलाहलै मुखरीकृतानि शब्दायमानानि दिशा मुखानि अग्रभाग येषा तानि काम्यके नाम वने तपोवनाना आश्रमाणा मण्डलानि समूहान् भूय भेजे पुन प्राप्तवान् ॥ ७१ ॥

 मृदुभिरिति । तत्र काम्यकतपोवनेषु स पार्थ वर्मराज भृदुभि कोमलै सप्रति पूर्व दत्तैर्वा वनव्रल्लीना कदै मूलग्रन्थिभि मूलैश्च विहित कृत आतिथ्यविधि अतिथिपूजा यस्य तथोक्त सन् । तत्रत्यैर्मुनिभिरिति शेष । तृण बिन्दोर्नाम मुने वचने अत्र स्थेयमित्याज्ञारूपे तपोवने तदाश्रमे च स्थितिं आज्ञानतिलङ्धन वास च आचरति स्म कृतवान् । औपच्छन्दसिकम् ॥ ७२ ॥

 प्रासूतेति । या द्रौपदी सदसि ध्तसभाया असख्या पट्टपटी कौशेयानि प्रासूत अजनयत् सैषा द्रौपदी समागतवतीत्युक्तप्रकारेण सकौतुकानि द्रष्टुमुत्सुकानि अक्षीणि यासा ता सकौतुकाक्ष्य गृहिण्य मुनिपत्य । उटजसीमनि पर्णशालाया वेणीधरा दु शासनवधपर्यन्त धृतवेंणीं वल्कल बस्ते परिधत्ते निजमायेति वल्कलवस अतएव याज्ञसेनी द्रौपदी विस्मित्य आश्चर्यं कृत्वा । ददृशु । असख्येयकौशेयजनन्या अप्यहो नियमाय वल्कलधारणमित्याश्चर्येणापश्यन्नित्यर्थ । अत्र पट्टपटीजनन्या वल्कलधारणस्य विशेषणगल्या साश्चर्यदर्शन प्रति हेतुत्वात्काव्यलिङ्गभेद ॥ ७३ ॥


तत्तादृशे करेऽस्या विविधवनभव कन्दमूलोपहार
 दातु लज्जापयोधेस्तलमभिममृशुर्धर्मदारा मुनीनाम् ।
यस्य स्पर्शानुभावाद विरतमुदितै[७१५] पायसैरेव दिव्यै
 किचिद्भाण्ड वनान्ते तनुमतिथिजनस्यातनोदन्यथार्थाम् ॥ ७४ ॥
 [७१६]दिशि दिशि मृगयायै तेषु यातेषु जातु
  स्वयमुटजमवाप्त सोम[७१७]केन्द्रात्मजाया ।
 लपनशशिमहिम्ना लङ्धयामास वेला
  तरलितमकराङ्कस्तत्क्षण सिन्धुराज ॥ ७५ ॥
  


 तदिति । त तमिव पश्यतीति तादृक्ष । कञ्प्रकरणे ‘क्सोऽपि वाच्य ' इति क्से ‘व्रश्च-' इत्यादिना षत्वे षढो क सि’ इति कत्वे ‘आदेशप्रत्यययो 'इति षत्वम् । ‘आ सर्वनाम्न’ इति दीर्घश्च । तस्मिन् वक्ष्यमाणप्रभावेणासदृशे अस्या द्रोपद्या करे विविध वनेभव चेति वैवक्षिकविशेषणविशेष्यभावात् समास । कन्दमूलमेव उपहार अशन दातु मुनीना वर्मदारा वर्मपत्र्य । लज्जैव पयोधि तस्य तल अधोभाग अभिममृशु स्पृशन्ति स्म । अतिलज्जिता बभूवुरित्यर्थ । यस्य द्रौपदीकरस्य स्पर्शान योऽनुभाव माहात्म्य तस्मात् अविरत अक्षय यथा तथा उदितै आविभूतै दिव्यै अमानुषै पायसै परमान्नैरेव नतु शाकपाकादिभिरित्यर्थ । किचित् अतिखल्पमपि भाण्ड अर्कदत्त पात्र वनान्ते अतिथिजनस्य तनु शरीर अन्यथा किचित्त्वविरुद्ध अर्थ महत्त्वात्मक यस्यास्तथोक्ता अतनोत् चक्त्रे । तत्तादृक्ष इति सबन्व । अत्रोत्तरवाक्यार्थस्य लज्जापयोधिमज्जनहेतुत्वात्काव्यलिङ्गभेद । अस्य चात्यौदार्यवर्णनात्मकोदात्तालकारेण सहैकवाचकानुप्रवेशसकर । स्पर्शानुभावाविरतान्नोदययोर्हेतुहेतुमतोरुक्त्यात्मकेन हेत्वुलकारेण चाप्युक्त एव सकर इति च प्राहु ॥ ७४ ॥

 दिशीति । जातु कदाचित् तेषु युधिष्ठिरादिषु सर्वेषु मृगयायै मृगया कर्तु इति । ‘क्त्रियार्थ-'इत्यादिना चतुर्थी । दिशि दिशि प्रतिदिश यातेषु गतेषु सत्सु । उटज पर्णशाला अवाप्त प्राप्त सिन्धुराज सैन्धव समुद्रश्च । ‘देशे नदविशेषेऽव्धौ सिन्धुर्ना सरिति स्त्रियाम्' इत्यमर । एकत्र सिन्धुर्देशोऽपरत्र सरिदिति विवेक । सोमकेन्द्रात्मजाया द्रौपद्या लपन मुखमेव शशी चन्द्र तस्य महिम्ना प्रभया तत्क्षण सद्य तरलित मफराङ्क मन्मथ यस्य तथोक्त सन्। आकुलितग्राइचिह्लश्च वेलामयादा कूल च लङ्धयामास अतिक्त्रान्तवान्। ता बलाद्रृहीतवानित्यर्थ । अत्र चन्द्रचन्द्रिकया आकुलितग्राह समुद्रस्य कूललङ्घनरूपमर्थान्तरं ध्वनिरेव न श्लेष । ‘सर्वत्राद्यद्वये नान्त्ये’ इति तन्निषेधात् । मालिनी ॥ ७५ ॥


 तत क्रन्दन्तीं कुररीमिव नि[७१८]न्दन्तीमेना पुरस्ताधिरोप्य सूतकरतोत्रण्डाध्यापितवेगतन्त्रपारीणरथ्येन घनतरज[७१९]धनपयोधरभाराक्त्रमणविनम्री[७२०]कृतपूवेभागतया पार्थदर्शनशङ्कया निकुब्जीभूयेव धावता शताङ्गेन निमिषचूषितपरीणाहवनीपथ जयद्रथ पुनरष्याश्रमपदमाश्रित्य निशमितप्रमदावार्तेन [७२१]पार्थेन दावार्तेनेव पूर्वजेन नियुक्तौ जटारिकिरीटिनौ रोषविद्रुमलताकिसलयैरिव लोचनै शरासन वि[७२२]कीर्य [७२३]मृगयानिवृत्तमात्रेण चरणेन द्रुतमन्वद्रवताम् ॥

 तत [७२४]क्षणादेव कर्णपूरव[७२५]नकुसुमसौरभजिघ्रत्सिञ्जिनीकेन धनजयेन


 तत इति । तत प्रहणानन्तर कुररी उत्क्रोशपक्षिणीमिव कन्दन्ती निन्दन्ती ‘किमनुचितमेव करोषि कुलाबम विक्, त्वाम्’ इति कुत्समाना एना द्रौपदी पुरस्तात् रथस्य पूर्वभागे अधिरोप्य उपवेश्य सूतस्य सारथे करे तोत्रदण्डेन कशया अध्यापितस्य शिक्षितस्य वेगस्येव तन्त्रस्य शास्रस्य पारीणा पारगता । अतिवेगवन्त इति यावत् । रथस्य वोढार रथ्या अश्वा यस्य तेन घनतरस्य अतिमहत जघनपयोधरस्य कटिपुरोभागस्य कुचयोश्च भारस्य आक्रमणेन व्याप्त्या विशेषेण नम्रीकृत भुमीकृत पूर्वभाग अग्रदेश यस्य तस्य भाव तत्ता तया हेतुना पार्थाना मृगयाय। प्रति निवर्तमानाना दर्शनस्य शङ्कया वितर्केण भयेन वा निकुब्जीभूय हस्वीभूय धावता पलायमानेनेव स्थितेनेत्युत्प्रेक्षा । शताङ्गेन रथेन निमिषेण पक्ष्मपातमात्रकालेन चूषित अतिक्रान्त परिणाहो विशाल वनीपथ अरण्यमार्ग येन त जयद्रथ सैन्धवम् । उद्दिश्येत्यर्थ । आश्रमपद प्रति पुनरप्याश्रित्य प्राप्य । निशमिता श्रुता प्रमदाया द्रौपद्या वार्ता सैन्धवेनापहरणरूपा येन तेन। अतएव दावेन वनाग्निना आर्तेन पीडितेनेव स्थितेनेत्युत्प्रेक्षा । पूर्वजेन ज्येष्ठेन युधिष्ठिरेण। पूर्वमागतेनेति भाव । नियुकौ प्रेरितौ जटारि भीम किरीटी अर्जुनश्च उभौ । रोष एव विद्रुमलता तस्या किसलयै पल्लवैरिव स्थितैरित्युत्प्रेक्षा । लोचनै शरासन चाप विकीर्य । सैन्धववधाय क्रोवारुण दृष्टवेत्यर्थ । मृगयाया निवृत्तमात्रेण आगतेनैव । नतु क्षण विश्रान्तेनेत्यर्थ । चरणेन द्रुत शीघ्र अन्वद्रवता अन्वधावताम् । उत्प्रेक्षान्नयस्य सजातीयस्य ससृष्टि ॥

 तत इति । तत अनुवावनानन्तर क्षणादेव कर्णपूरस्य कर्णावतसस्य वनकुसुमस्य सौरभ परिमल जिघ्रन्ती सिञ्जिनी मौर्वी यस्य तेन । आकर्णाकृष्टवनुपर्गुणेनेत्यर्थ । वनजयेन अर्जुनेन सपत्राकृत पुङ्क्तपर्यन्तमन्तर्मग्नबाणीकृत । अत


सपत्राकृतो धृतत्रासतया विनय [७२६]विपर्ययो विद्यामिव कृष्णा विमुच्य कृतपलायन स दुर्मेधा पुर प्रधावितेन मागधविरोधिना रुरुधे ॥ कचे गृहीत्वा भुवि पातितस्य कठोरचारित्रपरस्य शत्रो । सताडने मारुतिरात्मपाणे सच्छात्रयामास पद च वामम् ॥ ७६ ॥

 सौवीरभर्तुरथ मूर्धनि पञ्चचूडा
  कलृप्ता क्षुरेण पवनात्मभुवा विरेजु ।
 इङ्गालधूमकलिका इव शाम्यतोऽन्त-
  स्त्रासाम्बुभि स्मरशरानलपञ्चकस्य ॥ ७७ ॥
 विमतमनुजनीत वीक्ष्य भूप स्मितास्य
  कृतनतिशिरस त केशभारे हृतेऽपि ।


एव दुर्मेधा दुष्टबुद्धि स सैन्धव धृत त्रास भय येन तस्य भावस्तत्ता तया हेतुना कृष्णा द्रौपदी विनयविपर्यय विनयराहित्य विद्यामिव विमुच्य व्यक्त्वा कृतपलायन सन् पुर स्वतोऽप्यग्रे प्रधावितेन मागधस्य जरासधस्य विरोधिना भीमेन रुरुधे निरुद्ध । रुधे कर्मणि लिट्। यत्तु ‘सापत्रपीकृत ’ इत्य पपाठ कल्पयित्वा ‘लज्जान्विततया कारित ’ इति विनयविपर्यय विनयरहित पुरुष ” इति च मृसिंह प्रललाप, तदबोधात् कर्णपूरेत्याद्यर्जुनविशेषणवैयर्थ्यापत्तेर्विपर्ययशब्देन व्युत्पत्त्यन्तर विना तद्वतो बोधायोगात् । व्युत्पत्त्यन्तरे च क्लिष्टत्वदोषापत्तेश्चेति विद्वच्छिखामणिभिराकलनीयम् । ‘सपत्रनिष्पत्रादतिव्यथने’ इत्यनेन करोतियोगे डाजूविधानात्सपत्राकृत इति रूपम् ॥

 कच इति । मारुति भीम कठोरे अतिनिन्धे चारित्रे कर्मणि परस्य सक्तस्य अतएव कचे केशे । जात्येकवचनम् । शिखायामिति वा गृहीत्वा भुवि पातितस्य शत्रो सैन्धवस्य सम्यक् ताडने विषये । आत्मन पाणे वाम पद च सच्छात्रयामास सहाध्यायिन चक्त्रे । पाणिना पादेन च ताडितवानित्यर्थ ॥ ७६ ॥

 सौवीरेति । अथ ताडनानन्तर सौवीरो देशविशेष तस्य भर्तु राज्ञ सैन्धवस्य मूर्धनि पवनात्मभुवा पवमानभुवा भीमेन (कर्त्रा)क्षुरेण बाणविशेषेण करणेन । कृल्प्ता निर्मिता पञ्चचूडा शिख त्रास एव अम्बूनि जलानि तै अन्त मनसि शाम्यत निर्वाण गच्छत स्मरशराणा ये अनला अग्नय तत्पश्च कस्य । इङ्गालेभ्य सिक्ताङ्गारेभ्यो ये यूमकलिका कुड्नलाकृतिधूमा त इवेत्युत्प्रेक्षा । विरेजु ॥ ७७ ॥

 विमतमिति ।भूप धर्मराज अनुजाभ्या भीमार्जुनाभ्या नीत निकट प्रापित केशे यो भार केशसचयश्च तस्मिन् हृते सत्यपि कृता नति नम्रत्व


 त्वदसुहरणमार्गे दु शलैवार्गला न
  क्कचिदपि कुरु मैव कुत्सितेत्युत्ससर्ज ॥ ७८ ॥
दीनधी स तपसा हिमशैले दृक्पथ पुरहराद्रृहयालो ।
आददे वरमथो विजयौ द्वावन्तरेण युधि पाण्डवरोधम् ॥ ७९ ॥
 पार्थाश्च कृच्छादुत्तीर्णा पार्षती प्राप्य रेमिरे ।
 हेमन्तात्पद्मिनी मुक्ता हेलेरिव कराङ्कुरा ॥ ८० ॥
 [७२७]तत्रान्तरे ज्वलितवर्णवपु कदाचि-
  दङ्गेषु शब्द इव कर्णमवाप्य रात्रौ ।
  [७२८]भासापति कृतनमस्करणाय तस्मै
  प्रेम्णाशिष प्रणिजगाद यवीयसीं गाम् ॥ ८१ ॥


नमस्कारश्च येन तादृश शिर यस्य तथोक्तम् । लज्जाभयाभ्यामिति भाव । विमत शत्रु त सैन्धव वीक्ष्य स्मित मन्दहास आस्ये मुखे यस्य तथोक्त सन् । हे कुत्सित निन्ध, न अस्माक तव असूना प्राणाना हरणमेव मार्ग तस्मिन् । तत्प्रवृत्तावित्यर्थ । दु शला त्वत्पत्नी अस्मद्भगिनी च या सा अर्गला प्रतिबन्ध कैव । तद्वैधव्यभयान्न त्वा निहन्म इत्यर्थ । क्वचित् इत पर कुत्राप्येव कुत्सित परदारहरणादि मा कुरु । तत्र दु शलाया प्रतिबन्धकत्वासभवे सद्यो हन्युरेवेति भाव । इत्युक्वेति शेष । उत्ससर्ज विसृष्टवान् । अत्र विनापि नमनकारण केशभार तदुत्पत्तिवर्णनाद्विभावनालकार । मालिनी ॥ ७८ ॥

 दीनेति । अथो अनन्तर दीना खिन्ना धी मन यस्य तथोक्त स सैन्धव हिमशैले तपसा हेतुना दृक्पथ चक्षुर्विषयत्व गृहयालो ग्रहीतु । ‘स्पृहिगृहि-' इत्यादिना आलुच् । पुरहरात् शभो । द्वौ विजयौ जय अर्जुन च अन्तरेण विना युधि युद्धे पाण्डवाना शिष्टाना चतुर्णा रोव निरोधमात्रमेव वर लेभे प्राप्त वान् । अर्जुनस्य देवैरप्यजेयत्वात्तत्सहिताना रोधमात्रमप्यशक्यमेवेति भाव । स्वागता ॥ ७९ ॥

 पार्था इति । पार्थाश्च धर्मराजादयोऽपि कृच्छूात् कष्टात् सैन्धवकृतात् । उत्तीर्णो निर्मुक्ता पार्षर्ती द्रौपदी हेले सूर्यस्य करा अङ्कुरा इव अङ्कुतुल्य किरणा । ‘हेलिरालिङ्गने सूर्य’ इति विश्व । हेमन्तात् ऋतो मुक्ताम् । गतहिमबाधामित्यर्थ । पद्मिनीमिव प्रप्य रेमिरे चिक्रीडु । उपमालकार ॥ ८० ॥

 तत्रेति । तत्रान्तरे तस्मिन्नेव समये क्दाचित् रात्रौ ज्वलितवर्णं उज्ज्वलकान्ति वपु यस्य स उज्ज्वलाक्षरशरीरश्च भासापति सूर्य । शब्द घटादिपदमिव अङ्गेषु जनपदविशेषेषु करचरणादिषु च कर्ण राधेय श्रोत्र च अवाप्य। कृत


अहमहराधनाथाऽनुग्रहान्म पृथाया-
 मयि जननमगास्त्व वत्स कोशो गुणानाम् ।
तदिदमिह रहस्य शासन गृह्यता मे
 तनयकुशलयोगे तातपादा यतन्ते ॥ ८२ ॥
मुखसधानविश्लेषमुक्ते कवचकुण्डले ।
तवैते भूषणे शोभा तन्वाते परदुर्लभाम् ॥ ८३ ॥
एतानि [७२९]याचकमिह द्विजवेषगूढ़
 मा लब्धकामममराधिपति कृथास्त्वम्
आज्ञापथात्स्खलसि चेदणुमात्रमस्मा-
 द्वध्यो भविष्यसि सुखेन रणे रिपूणाम् ८४ ॥


नमस्करण नमस्कार येन तथोक्ताय तस्मे कर्णाय आशिष चिर जावेत्यादेराशीर्वादस्य यवीयसी कनिष्ठाम् तदनन्तरामिति यावत् । गा वाच वक्ष्यमाणा प्रेम्ण। पुत्रवात्सल्येन प्रणिजगाद उक्तवान् । श्लिष्टविशेषणेयमुपमा ॥ ८१ ॥

 उक्तप्रकार त्रिभिराह-अहमिति । अयि वत्स हे पुत्र, अह अह्न दिवसस्य अधिनाथ सूर्य गुणाना शौर्यौदार्यादीना कोश राशि त्व मे मम अनुग्रहत् पृथाया कुन्त्या जनन उत्पत्ति अगा प्राप्तवानसि । जातो ऽसीत्यर्थ तत् तस्मात् मत्पुत्रत्वाद्धेतो रहसि एकान्ते भव रहस्य इव वक्ष्यमाण मे शासन आज्ञा इह इदानी गृह्यताम् । त्वयेति शेष । नन्वपृष्ठे sपि किमिति वक्ष्यसीत्यत आह--तनयेति । तनयाना कुशलस्य क्षेमस्य योरे सघटने विषये तातपादा पूज्या पितर यतन्ते उद्योग कुर्वन्ति । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यास ॥ ८२ ॥

 मुखेति । अयि वत्स, मुखेत्युपलक्षणमन्तस्यापि । तथा च आद्यन्ताभ्य सधानविश्लेषाभ्या धारणमोचनाभ्या च मुक्ते रहिते। सहजत्वाहुर्जेयाद्यन्ते वजि तसयोजनवियोजने चेप्यर्थं । कवच कुण्डल च उभे एते भूषणे परैर्दूलंभ तव शोभा तन्वाते कुस्त । अत्र मुखसधानेत्यादिपदार्थस्य विशेषणगत्या अनन्य सामान्यशोभाकरणहेतुत्वात्काव्यलिगभेद ॥ ८३ ॥

 एतानीति । अयि वत्स, एतानि सहजकवचकुण्डलानि याचक याचिष्यमाणम ‘अकेनोर्भविष्यदाघमर्ण्ययो' इति कृद्योगे षष्ठीप्रतिषेध । अत्र 'याचक सन्तम्’ इति नृसिंहप्रलपित च्युतसस्कारदोषादुपेक्ष्यम् । द्विजवेषेण ब्राह्मणरूपेण गूढ प्रच्छन्नम् निजयाच्ञानर्हत्वादिति भाव । अमराधिपतिं इन्द्र त्व इह कवचकुण्डलयाच्ञा


 इत्थ निशम्य ता वाच राधेयो रचितस्मित ।
 हर्षादञ्जलिना साकमाददे प्रतिभाषितम् ॥ ८५ ॥
तवार्यमेति प्रथितेऽपि शब्दे ममार्य मेत्यार्थिजनेषु दानम् ।
निषेधरूपे निदधाति मार्गे पद कथ वा भवदीयजिह्वा ॥ ८६ ॥
 सतत सदर्थिसदसे बहु दातु
  सकुतूहलस्य पुरुषस्य जगत्याम् ।
 उदकोर्मिका करधृता हि विभूषा
  कनकोर्मिका तु परमङ्गुलिभार ॥ ८७ ॥
 दिवसेश य खलु शय प्रतिकर्तु
  धृतलालसो भवाति नार्थिषु दैन्यम्


विषये लब्धकाम मा कृथा मा कुर । वैपरीत्ये का हानिरत आह--आज्ञेति । अस्मात् आज्ञापथात् मच्छासनमार्गात् अणुमात्र अत्यल्पमपिस्खलसिचेत् लङ्धयसि यादि तदा रणे रिपूणा सुखेन अनायासेन वश्य हन्तु शक्य भविष्यसि ॥ ८४ ॥

 इत्थमिति । इत्थ उक्तप्रकारा ता वाच कवचकुण्डलानी द्राय भा देहीष्यात्मिका निशम्य श्रुत्वा राधेय कर्ण हर्षात् रचितम्मित कृतदरहास सन् प्रतिभाषित प्रत्युक्त अञ्जलिना साक नमस्कारेण सह आददे जग्राह । सनमस्कार प्रत्युक्तवानित्यर्थ ॥ ८५ ॥

 तवेति । हे आर्य, तव अर्यमा इत्यात्मके शब्दे दातृपुत्रकस्य दातुश्च वाचके प्रथिते सत्यपि अर्थिजनेषु याचकेषु विषये मम दान मास्त्विति निषेवरूपे दाननिधृत्त्यात्मके मार्गे वाक्यरूपे भवदीयजिह्वा पद पाद उञ्चारणात्मक कथ वेत्याश्चर्ये । निदधाति निक्षिपति । दान मा कुर्विति कथ वदतीत्यर्थ । दातृपुत्रकस्य खय दातु निषेधवाक्यस्य च विरूपयोर्घटनात्मको विषमप्रभेद ।’य कामयेत दानकामा मे प्रजा स्युरित्यसौ वा आदित्योऽर्यमा । य खछ वै ददाति सोऽर्थमा ' इति श्रुति ॥ ८६ ॥

 सततमिति । किच हे आर्य, जगत्या लोके सता साधूना अथिना याचकाना च सदसे सभायै बहु अपरिमित अर्थ दातु कुतूहलेन सहितस्य सकुतूहूलस्य पुरुषस्य करे धृता उत्सर्गार्थ निहिता उदकस्य ऊर्मिका हि धारेव विशेषण भूषा भूषण कनकमयी ऊर्मिका अङ्गुलीयक तु परमत्यन्त अङ्गुलीना भार भारहेतुर्हि । अत्र दानस्तुत्या तन्निषेधनिन्दाप्रतीतेर्योजस्तुल्यलकार । 'ऊर्मिका त्वङ्गुलीये स्याद्वास्त्री भङ्गितरङ्गयो’ इति वैजयन्ती । सुमङ्गलीवृत्तम् । ‘सजसा सगौ यदि सुमङ्गलिकेयम्' इति लक्षणात् ॥ ८७ ॥

 दिवसेति । हे दिवसेश सूर्य्, य शय पाणि । पञ्चशाख शय पाणि


 प्रतिपादयेत्स तु कथ पुरुषस्य
  [७३०]प्रतिकूलवर्णनिजनामपदार्थम् ॥ ८८ ॥
यश एव जन्मफलमात्मवतामिदमेषितव्यमतियत्नभरात् ।
अपि भूषित गुणगणैरपरैरयशस्विन न जगदाद्रियते ॥ ८९ ॥
व्यापृता वितरणोपनिषत्सु व्याहरन्ति हि विपश्चिदधीशा ।
स्पर्शनेन रहिताविति हेतोर्लुब्धक च कुणप च समानौ ॥ ९० ॥
 दृष्टे वनीपकजने वदन स्मितेन
  दानम्बुना करतल यशसा दिशश्च ।


इत्यमर । अर्थिषु याचकेषु दैन्य दारिद्य प्रतिकर्तु निराकर्तु धृत लालस महा भिलाष येन तथोक्त न भवति । खलु इति वाक्यालकारे। स शयस्तु प्रतिकूलौ वैपरीत्य गतौ वर्णौ शकारयफारौ यास्मिंस्तस्य निजनाम्न पदस्य यश शब्दस्य अर्थ कीर्ति पुरुषस्य कथ केन प्रकारेण प्रतिपादयेत् आर्जयेत् । न केनापि प्रकारेणेत्यर्थ । ‘सग्रहैकपर प्राय समुद्रोऽपि रसातले' इत्यभियुक्तोक्तेरदातु क्दापि न भवेत् कीतिरिति भाव । पूर्वोक्त वृत्तम् ॥ ८८ ॥

 तर्हि कीर्तिरेव भास्त्वित्यत आह-यश इति । आत्मवता देहभृता यश कीर्तिरेव जन्मन फल इति हेतो । इद यश यत्नस्य भरात अतिशयात् एषितव्य काङ्क्षणीयम् । यत जगत् लोक अपरै यशोभिन्नै गुणाना धैर्यशौर्यगाम्भीर्यादीना गणै भूषितमपि अयशस्विन कीर्तिशून्य पुरुष नाद्रियते नापेक्षते । प्रिय प्रजाना दातैव न पुनर्द्रविणेश्वर’ इत्युक्तत्वादिति भाव । अत्रोत्तरवाक्यार्थस्य यं जनावश्यकत्वहेतुत्वात् काव्यलिङ्गभेद । प्रमिताक्षरा ॥ ८९ ॥

 व्यापृता इति । किंच वितरणोपनिषत्सु दानवेदान्तेषु व्यापृता परिशीलका । दानमाहात्म्यसारसर्वस्वविद इति यावत् । विपश्चिदधीशा पण्डितश्रेष्ठा लुब्ध एव लुब्वक त कृपण कुणप शव च द्वावपि स्पर्शनेन दानेन स्पर्शेन च रहितौ शून्यौ इत्युक्तप्रकाराद्धेतो समानौ मिथस्तुल्यौ व्याहरन्ति कथयन्ति । हि प्रसिद्धौ । ‘स्पशो ना मारुते स्पर्शदानयो स्पर्शन तथा' इति वैजयन्ती । लुब्धोऽकीर्तिर्जीवन्नपि मृतकल्प एवेत्यर्थ । अत्र स्पर्शनस्य श्लेषभित्तिकाभेदाध्यवसितस्य सम्यकथनहेतुत्वात्पदार्थहेतुक काव्यलिङ्गमुपमैकवाचकानुप्रवेशसकीर्णम् ॥ ९० ॥

 दृष्ट इति । दाता वनीपकजने दृष्टे सति । ‘वनीपको याचनको मार्गणो याचकार्थिनौ' इत्यमर । स्वय प्रकृत्यैव । न तु कारणान्तरेणेत्यर्थ । विवश परवश सन् स्मितेन बदन दानाम्बुना करतल यशसा दिशश्च शुश्रीकरोति ताह्श प्रकृ-


 शुभ्रीकरोति विवश खयमेव दाता
  कस्तादृश प्रतिनिवर्तयितु क्षमेत ॥ ९१ ॥
वाञ्छामनाप्तेन वनीपकेन सहासवो दातृजनस्य यान्ति ।
तद्द्य शक्त्रार्चनया धृतासोर्भावी वधो मे परमो हि लाभ ॥ ९२ ॥
 [७३१]यढोष्ठीप्रतिहारभूतलशिला चिन्तामणि कल्पका
  यस्याराम[७३२]वृतिद्रुमाश्च सुरभि सा होमधेनु पुन ।
 तादृग्याचति चेदुपेत्य मघवा सपूर्य तत्कामना
  त्रैलोक्यस्थवदान्यससदुपरि स्यामेष मे निश्चय ॥ ९३ ॥



त्या दातार प्रतिनिवर्तयितु दानाद्वारयितु क् क्षमेत शक्न्नुयात् । न कोऽपीत्यर्थ । अत्र वाक्यार्थत्रयेण दातुर्दाननिवारणाशक्यत्वसमर्थनात्काव्यलिङ्गभेद । केवल प्रकृताना वदनकरतलदिशा धवलीकरणेनौपम्यगम्यकतुल्ययोगिताभेदश्चैकवाच कानुप्रवेशसकीणौ ॥ ९१ ॥

 वाञ्छामिति । किच दातृजनस्य असव प्राणा वाञ्छा मनोरथ अना सेन अप्राप्तेन वनीपकेन सह यान्ति निर्गच्छन्ति । मरणादप्यधिका जायतेऽप कीर्तिरित्यर्थ । ‘सभावितस्य चाकीर्तिर्मरणादतिरिच्यते' इत्युक्तत्वादिति भाव । तत् तस्मात् अद्य इदानीं शक्रस्य इन्द्रस्य अर्चनया कामितपूरणात्मिकया पूजया हेतुना धृतासो आगतप्राणस्य मे भावी कवचकुण्डलत्यागेन कालान्तरे शत्रुभि करिष्यमाण वध परम अतिकाम्य लाभ । हेिरवधारणे । अशुभस्य काल हरण कर्तव्यमिति प्रसिद्धेरिति भाव ॥ ९२ ॥

 यदिति । किच चिन्तामणिर्नाम कामधेन्वादिवत्कामितार्थद रन्न स यस्य इन्द्रस्य गोष्ठया आस्थानमण्डपस्य प्रतिहारभूतले द्वाराग्रदेशे शिला बद्ध पाषाण । कल्यका कल्पवृक्षा यस्य इन्द्रस्य सबन्धिन आरामस्य नन्दनस्य तिदुमा आवरणपृक्षा सा प्रसिद्धा सुरभि कामधेनु होमस्य पयसामिहो त्रस्य धेनु गौरिति । तादर्थ्ये षष्ठीसमास । भवतीति यथायोग योज्यम् । तादृकू चिन्तामणिकल्पवृक्षकामधेनुमान् मघवा इन्द्र उपेत्य मा प्रत्यागत्य याचति चेत् भिक्षते यदि । तस्य इन्द्रस्य कामना मनोरथ सपूर्य त्रैलोक्यस्थाना भुवन त्रये वर्तमानाना वदान्याना दातृणा या ससत् सभा तस्या उपरि अग्रभागे स्या वर्तेयम् । एष उक्तप्रकार मे मम निश्चय निष्कष । अत्र चिन्तामण्यादि भतोऽपीन्द्रस्य याञ्त्राप्रसङ्गेन तैरप्यपूरणीथस्तन्मनोरथ इति तत्पूरणस्य त्रैलोक्य स्थवदान्योपरितनहेतुत्वाद्वाक्यार्थहेतुक काव्यलिङ्गम् । शार्दूलविक्रीडितम् ॥ ९३ ॥


 वीक्ष्य वन्ध्यवचनोऽपि गुणज्ञो विस्मयाम्बुनिधिवीचिषु मग्न ।
 पद्मबन्धुरिति वादिनमेन पाटलस्मितरुचिर्गिरमूचे ॥ ९४ ॥

 [७३३]ये वस, भ[७३४]वतो भाषित क्षममेव [७३५]स्थूललक्षाणामभूदृश तु
तव मत पुनरपि मम रसना निदेशावशेषपथपा[७३६]न्था निर्मिमीते ॥

 [७३७]थवा त्व शुनासीरस्य मनीषितस्य पूरणात्पू[७३८]र्वमेव पूर्वदेवगर्वनिर्वापणक्षुर्वहतया कुलिशमपि चिरारूढक [७३९]लङ्काङ्कुरजर्जरितधाराशतमातन्वती तदीया शक्तिमादत्स्वेति ॥


 वीक्ष्येति । अथ इत्युक्तप्रकारेण वादिन वदन्त एन कर्ण वीक्ष्य वन्ध्य निष्फल वचनम् ‘मा पूरय मनोरथमिन्द्रस्य’ इत्यात्मक यस्य तथोक्तोऽपि गुणज्ञ । नतु गुणमेव दोषत्वेन ज्ञातेत्यर्थ । अतएव विस्मयस्य आश्रयस्यैव अम्बुनिधे वीचिषु तरगेषु मग्न । अतिविस्मित इत्यर्थ । पद्माना बन्धु सूय । पाटला श्वेतरक्ता अवरव्यापनादीषदरुणा । स्खत श्वेतेति यावत् । स्मितस्य रुचि यस्य तथोक्त सन् । गिर वाच वक्ष्यमाणा ऊचे उक्तवान् । व्रूज कर्तरि लिटि वच्यादेश । अत्र गुणज्ञत्वस्य अतिविस्मयहेतुत्वात् पदार्थहेतुकेन काव्यलिङ्गेन अङ्गेन विस्मयाम्बुनिधीति रूपक सकीर्णम् । तस्य च वचनस्य नैष्फल्यरूपप्रतिबन्ध कसत्वेऽपि तदुत्पत्तिवर्णनात्मिकया विभावनया ससृष्टि । स्वागता ॥ ९४ ॥

 अये इति । अये वत्स हे पुत्र, भवत तव सबन्वि भाषित वचन अप्यात्मवधमङ्गीकृत्येन्द्रस्य वाञ्छा पूरयिष्यामीत्यात्मक स्थूललक्षाणा बहुप्रदाना क्षम उपपन्नमेव । भवादृशानामिति शेष । हे पुत्र, अमूह्श उक्तविधम् । ‘अदसो ईशोर्योगे’ इत्याद्यत्वदीर्घयो ‘अदसोसेर्दादु दो म ’इति दस्य च मत्वम् । अस्य चोत्व च । तव मत प्राणात्ययेऽयनुज्झनीयमू । दानव्रत तु मम मे रसना जिह्वा पुनरपि । उक्तप्रकारादन्यथेत्यर्थ । निदेशावशेष आज्ञावाक्यशेष एव पन्था तत्पथ तस्मिन् पान्था गच्छन्तीम् । ‘पन्थो ण नित्यम्’ इणि णप्रत्यय , पन्थादेशश्च । ततष्टापू । 'पान्थीम्' इति पाठ प्रामादिक । निर्मिमीते करोति । निदेशशेष किचिद्वच्मीत्यर्थ ॥

 अथवेति । अयवा। उक्तार्थे असमतश्चेदित्यर्थ । इतीद काचित्क पाठम् ॥ त्वमिति । हे वत्स, त्व शुनासीरस्य इन्द्रस्य । ‘वृद्धश्रवा शुनासीर ’ इतीन्द्रपर्यायेष्वमर ।मनीषितस्य कामितस्य पूरणात् पूर्वमेव खय पूर्वदेवाना सुरद्विषा गर्वस्य निर्वापणे शमने धूर्वहतया भारवाहित्वेन हेतुना कुलिश वज्रायुधमपि चिरादारूढेन लग्नेन कलङ्काङ्कुरेण जर्जरित तुच्छित धाराणा कोटीना शत यस्य


 ततस्तथेति परमङ्गीकृत्य पश्यतस्तनूजस्य समक्षमचिरेण स मरीचिमाली चरमाचलशिखरपरिशील्यमानविहारमिहापि समाचचार ॥

 कतिपयदिने काले याते ततो मरुता पति   सदसि तनय भानोरेत्यार्थिचाटुशताकुले ।  कवचमतुल वाचायाचत्सकुण्डलमादरा-   दयमपि तथेत्युक्त्वा शक्ति ततो जगृहेऽद्भुताम् ॥ ९५ ॥

नकारमेते वहतो रिपु [७४०] ममेत्यमर्षभारादिव शत्रधारया । सुतो रवेर्दशन [७४१]कर्णवेष्टने स्वय समुत्कृत्य ददौ बिडौजसे ॥ ९६ ॥


तथोक्त आतन्वती कुर्वतीं तस्य इन्द्रस्य इमा तदीया शक्ति नाम आयुध आदत्स्व गृहादण । प्रत्युपकारद्वारेति भाव । इति निदेशावशेषपयपान्या निर्मि मीत इति पूर्वेणान्वय ॥

 तत इति । तत तथा इन्द्राच्छक्तिं गृह्णीयामिति पर भृश अङ्गीकृत्य पश्यतस्तनूजस्य कर्णस्य समक्ष प्रत्यक्ष एव स मरीचिमाली सूर्य चरमाचलस्य अस्त गिरे शिखरे परिशील्यमान क्रियमाण विहार क्त्रीडाम्। अस्तमयमिति यावत्। इह कर्णपुरोभागेsपि अचिरेण सत्वर समाचचार कृतवान् अन्तर्हितवान् ॥

 कतीति । तत अनन्तर कतिपयानि कानिचिद्दिनानि यस्मिन् तस्मिन् काले याते गते सति मरुता देवाना पति इन्द्र अर्थिना याचकाना चाटुशतै प्रिय वाक्यशतै आकुले सान्द्रे सदसि सभायाम् । 'स्त्रीनपुसकयो सद’ इत्यनुशासनात् नपुसकत्वम् । भानो सूर्यस्य तनय कर्ण एत्य प्राप्य अतुल सहजत्वाद सदृश कुण्डलाभ्या सहित सकुण्डल कवच वाचा देहीत्यात्मिकया अयाचत् भिक्षितवान्। याचते कर्तरि लड् । अय कर्णोऽप्यादरात् तथा दास्यामीति उक्त्वा तत याचमानकवचकुण्डलात् इन्द्रात् अद्भता लोकोत्तरा शक्ति आयुधविशेष जगृहे गृहीतवान् । हरिणण्लुतावृत्तम्-'रसयुगहयैश्छिन्ना न्सौम्रौ स्लगा हरिणप्लुता' इति लक्षणात् ॥ ९५ ॥

 नकारमिति ।एते दशनकर्णवेष्टने नफ़ार नाक्षर निषेधार्थक वहत बिभुत । खनान्मीति शेष । अत कारणात् मम दातु रिपू शत्रू इत्युक्तप्रका रात् अमर्षभारात् कोपातिशयादिवेत्युत्प्रेक्षा । रवे सुत कर्ण शत्रस्य असे धारया अञ्चलेन समुत्कृत्य उत्पाटय दशनकर्णवेष्टने कवचकुण्डले बिडौजसे । इन्द्राय स्खय ददौ दत्तवान् । ‘तनुत्र वर्म दशनम्', ‘कुण्डल कर्णवेष्टनम्’, 'बिडौजा पाकशासन’ इति सर्वत्रामर ॥ ९६ ॥


निशम्य तत्कल्पतरोर्ह्रिया च्युतैश्चिरार्जि[७४२]तैस्स्यागचशोभरैरिव ।
सुपर्वमुक्तै कुसुमैर्न केवल तदङ्गमङ्गाश्च सुगन्धयोऽभवन् ॥ ९७ ॥
जाग्रत्सु सर्वावयवेषु तस्य कर्णस्य कर्ण पुनरार्थिने स्वाम् ।
हिरण्मयी यद्विततार भूषा तन्नामसाम्य ध्रुवमत्र हेतु ॥ ९८ ॥
 आपृच्छय त तदनु नाकपति सुधर्मा-
  मासाद्य सिद्धमरुदप्सरसा समाजे ।
 प्राशसदस्य चरित सविधे सुरभ्या
  रोमन्थमष्यविगणय्य निशम्यमानम् ॥ ९९ ॥


 निशम्येति । तत् कर्णस्य सहजकवचकुण्डलदान निशम्य श्रुत्वा हिया लज्जया च्युतै गलितै । तादृग्दानस्य तत्राप्यसभवादिति भाव । चिरादार्जितै त्यागेन वितरणेन ये यशोभरा कीर्त्यतिशया कल्पत्रक्षीया तैरिव स्थितै सुपर्व भि देवै मुक्तै विसृष्टे कुसुमै पुष्पै तस्य कणस्य अङ्ग केवल शरीरमेकमेव सुगन्धि नाभवत्, कितु अङ्गाश्च अङ्गारयाश्च जनपदा अपि कर्णपाल्या सुगन्धय मनोहरगन्धा अभवन् अतिमहती पुष्पवृष्टिरासीदित्यथ । ‘अङ्ग गात्रान्तिकोपायप्रतीकेष्वप्रधानके । अङ्गो देशविशेषे स्यात्' इति विश्व । असबन्धे सबन्ध रूपातिशयोक्ति । बशस्थवृत्तम् ॥ ९७ ॥

 जाग्रत्स्वति । तस्य कर्णस्य सर्वषु अवयवेषु करचरणादिषु जाग्रत्सु विद्य मानेषु सखपि कर्ण पुन श्रोत्रमेव-स्वा स्वीया हिरण्मयी काञ्चनीम् । ‘दाण्डि नायन-'इत्यादिना निपात । भूषा कुण्डल आथिने इन्द्राय विततार दत्तवान् । इति यत् । अत्र कुण्डलदाने तेन कणेन सह नाम्ना कर्णेतिसज्ञया यत्साम्य तुल्यत्र तत् । तस्येति शेष । अत्रस्येत्यर्थं । हेतुर्युवमित्युत्प्रेक्षा । यद्यपि कर चरणादिभिरपि कवचदान कृत तदस्यापि तुल्यम्, इद त्वधिकमित्युत्प्रेक्षितमिति येयम् । अत्रोक्तोत्प्रेक्षया तन्नामासास्यमात्रस्यापि तथा दानहेतुत्वे किमु वक्तव्य तदाननैसर्गिकत्वम् इत्यर्थापत्तिप्रतीतेरलकारेणालकारध्वनि ॥ ९८ ॥

 आपृच्छयेति । तदनु कवचकुण्डलदानानन्तर नाकस्य स्वर्गस्य पति इन्द्र त कर्ण आपृच्छय गच्छामीत्युक्त्वा सुधर्मा देवसभा आसाध प्राप्य सिद्धाना नारदादीना देवयोनिविशेषाणा वा मरुता देवताना अप्सरसा च समाजे सधै अस्य कर्णस्य चरित तथाविध दानचारित्र सविधे समीपे सुरभ्या कामधेन्वा रोमन्थ चर्वितचर्वणमपि अविगणय्य दूरीकृत्य निशम्यमान क्षूयमाण यथा स्यात् तथा प्राशसत् प्रकर्षेण स्तुतवान् । शरीरमुत्कृत्त्य दानस्य तस्या अप्यसभवादिति भाव ॥ ९९ ॥


 तावत्पार्थास्तेऽपि पुन काम्यकसीमा
  हित्वा सधैर्भूविबुधानामनुयाता ।
 तीर्थव्रातान्विस्मृतपूर्वानवगाढु
  वध्वा सा[७४३]क द्वैतबनारण्यमवापु ॥ १०० ॥

 तत्र कदाचिदाश्रमद्वारि ‘हा [७४४] हा। महाभागा , सम होमसाधन[७४५]मरणिमपह्यय हरिणोऽयमि[७४६]तो धावति' इति बाष्पायमाणस्य कस्यचिदे[७४७]ग्रजन्मन शोकनिवारणाय चक्त्रीकृत्य चापमनुधावतस्तान्पार्था[७४८]न्पार्श्वलताताडनानुषक्तनवकिसलयजाळमु[७४९]त्प्लवनवेगपवनबहि[७५०]र्ज्वलदूह्निशिखाकन्दछमिवारणि वि[७५१]षाणया बिभ्राण कतिषुचित्पदेषु सुग्रह इव कतिषुचिदुरासद इव विचित्र[७५२]गति कोऽपि कृष्णसारे दूरमा[७५३]कृष्य स्वयमन्तरधात् ।


 तावदिति । तावत् तदानीं ते पार्था अपि काम्यस्य वनस्य सीमा हित्वा भूविबुधाना ब्राह्मणाना सधै अनुयाता सन्त पूर्व विस्मृतान् मार्गवशादिना असेवितान् तीर्थाना पुण्यसरसा व्रातान् समूहान् अवगाढुम् । तत्र स्नातु मित्यर्थ । पुनरपि दूतवन नाम अरण्य व वा साक द्रौपद्या सह अवापु प्राप्तवन्त । मत्तमयूरीवृत्तम्—'वेदै रन्ध्रैम्र्तौयसगा मत्तमयूरी’ इति लक्षणात् ॥ १०० ॥

 तत्रेति । तत्र दैतवने कदाचित् हे महाभागा महानुभावा पाण्डवा , मम होमस्य साधन अग्निमथनद्वारा कारण अरणि अपहृत्य अय हरिण कुरग इत मार्गात् वावाति । हा हेत्यतिखेदे। इति उक्तप्रकार आश्रमस्य द्वारि अप्रदेशे वाष्पायमाणस्य रुदत कस्यचित् अग्रजन्मन ब्राह्मणस्य शोकस्य निवारणाय चाप चक्त्रीकृत्य गुणाकर्षणेन कुण्डलीकृत्य अनुधावत ढ्रुतमनुगच्छत तान् पार्थान् पार्श्वयोरुभयोर्या लता तासा ताडनेन सघर्षणेन अनुषक्त लग्न नवाना किसलयाना जाल वृन्द यस्मिस्तम् । अतएव उत्पलवनेषु ऊर्ध्वलङ्घनेषु यो वेग तेन य पवन वायु तेन बहिर्व्वलन्त वह्निशिखाना अग्निज्वालाना कन्दला अङ्कुरा यस्मिन् तथोक्तमिव स्थितमित्युत्प्रेक्षा । अराणि अग्निमन्थनदार विषाणया क्ष्टङ्गेण बिभ्राण कतिषुचित्पदेषु पादन्यासेषु सुग्रह अनायासेन ग्रहीतु शक्य इव कतिषुचित्पदेषु दुरासद दुर्ग्रह इव विचित्रा आश्चर्या गतय यस्य


 [७५४] दनु ललाटतपनखपचहेलिधूलिभ्या द्यावापृथिवीभ्यामुदन्यावदान्यमहिम्नि दिनयोवने प्रा[७५५]दुर्भवति सति प्रकृतमर्थमिव पानीयमपि इतस्ततो विचिन्वद्भिरनुजै[७५६] सह कस्यचिद्विशालस्य वनशालस्य मूलमुव त[७५७]च्छायामण्डलमिव पाण्डव शनै शनैरुपससर्प ।

 तत्रानिले कमलगन्धिभिरुच्यमाना-
  माशा गतेषु सलिलाय चिरायितेषु ।
 भीमादिषु क्षितिभुजा परितप्य भेजे
  तेषा पदानुसरणादथ कापि वापी ॥ १०१ ॥


स कोऽपि दुर्जेय कृष्णसार कुरग दूर दूरदेश आकृष्य लाभाशया नीत्वा स्वय अन्तरधात् अन्तर्हितवन् ।

 तदन्विति । तदनु कृष्णसारान्तर्धानानन्तर ललाट तपतीति ललाटतप । नखान् पचतीति नखपच । शिर पाददाहिनाबित्यर्थ । हेलि सूर्य धूलि रज ययोस्ताभ्या धावापृथिवीभ्या आकाशभूमिभ्या उदन्याया पिपासाया वदान्य दाता महिमा प्रभाव यस्मिन् तम्मिन्। अतितृष्णाजनक इत्यर्थ । ‘उदन्या तु पिपासा तृट्' इत्यमर । दिनस्य अह्न यौवने मध्यभागे । मध्याह्नकाल इति यावत् । प्रकृतमर्थ अरणिमिव हरिणमिव वा। पानीय जलमपि इतस्तत विचिन्वद्भि अन्विषद्भि अनुजै भीमादिभि सह पाण्डव वर्मराज विशालस्य विस्तीर्णस्य कस्यचित् वने शालस्य पृक्षस्य मूलभुव मूलदेश प्रति तस्य वनशालस्य च्छायामण्डल अनातपबिभ्य इव शने शनैगत्यातपश्रमात् भन्द मन्द उपस सर्प समीप गतवान् । अत्र च्छायामण्डलपाण्डवयो शने शनैर्मूलोपसर्पणेनौपम्यस्य गम्यत्वात् तुल्ययोगिताभेद । अस्य च अरणिजलयोरन्वेषणेनौपम्य गमकतुल्ययोगिताभेदेन ससृष्टि ॥

 तत्रेति । तत्र पृक्षमूले कमलगन्विभि पद्मसौरभवाहिभि अनिलै वायुभि उच्यमानाम् । अत्रास्ते पह्निनीति सूच्यमानामित्यनुमानालकार । आशा दिश प्रति सलिलाय उदकमानेतुम् । इति ‘क्रियार्थ-'इत्यादिना चतुर्थी । गतेषु भीमा दिषु चतुषु चिरायितेषु चिरादप्यनागतेषु सत्सु । अय क्षितिभुजा धर्मराजेन परितप्य किमेषामत्याहित यतोऽद्यापि नागच्छन्तीत्यनुतप्य तेषा भीमादीना सबन्धिना पदाना पादनिक्षेपस्थानाना अनुसरणात् अनुसृत्य गमनात् । 'तत्कृत्य - ' इति ल्यब्लोपे पञ्चमी वा । कापि इय एतादृशीति दुर्जेया वापी दीर्घिका भेजे प्राप्ता । भजते कर्मणि लिट् ॥ १०१ ॥


 तस्यास्तटे कमलिनीदलपत्रपाणी-
  स्तान्पङ्क्तिशो निपतितानवलोक्य वीरान् ।
 बाष्पाम्वुभि प्रथमदर्शित[७५८]मार्गयेव
  तन्वा नृपस्य धरणौ सहसा निपेते ॥ १०२ ॥
स नृपतिर्ददृशेऽधिकवत्सल सपदि मूर्छितधीर्निभृताङ्गक ।
स्वयमपि प्रविभज्य तदा दशामनुभवन्निव तामनुजाश्रिताम् ॥१०३ ॥
 नासाविलोभनपटून्नवप[७५९]झगन्धा-
  नादाय तत्र मधुपैरनुसेव्यमाना ।
 वर्द्विष्णुचेतनम[७६०]मु वनवापिकाया
  कल्लोलमल्लपवना कलयाबभूवु ॥ १०४ ॥


 तस्या इति । तस्या वाप्या तटे तीरे कमलिनीदलानि पद्मपत्राण्येव पात्राणि जलभाजनानि पाण्योयेषा तान् पङ्क्तिश निपतितान् । मृत्वेति शेष । तान् भीमादीन् वीरान् अवलोक्य बाष्पाम्वुभि प्रथम पूर्व दशित मार्ग निपतनरूप यभ्यास्तथोक्तयेव स्थितयेत्युत्प्रेक्षा । नृपस्य धर्मराजस्य तन्वा शरीरेण धरणौ भुवि सहसा दु खवेगात् सत्वर निपेते पतितम् । पततेर्भावे लिट् ॥ १०२ ॥

 स इति । अधिक वत्सल भ्रातृशोकान्वित सपदि पतनक्षण एव मूछिता यी चेतना यस्य स । अतएव निभृतानि निश्चलानि अङ्गानि यस्य स तम । शैषिक कप्प्रत्यय । स नृपति अनुजै भीमादिभि आश्रिता दशा मरणावस्था प्रविभज्य समाश विभाग कृत्वा स्वयमप्यनुभवन्निवेत्युत्प्रेक्षा । ददृशे दृष्ट । तत्रत्यैरिति शेष । भ्रातृणा सामुदायके वस्तुनि समाशहारित्वस्मरणादिति भाव । दृशे कर्मणि लिट् । द्रुतविलम्बितम् ॥ १०३ ॥

 नासेति । तत्र तदानीं नासाया घ्राणस्य विलोभने तृष्णाजनने पढ़न् समर्थान् नवान् पद्मना गन्धान् आदाय मधुपै अलिभि अनुसेव्यमाना इति मान्धोक्ति । वने वापिकाया पूर्वोक्ताया कल्लोलमल्लाना श्रेष्ठतरङ्गाणा सबन्धिन पवना वायव असु मूर्च्छित धर्मराज वर्धिष्णु पुन प्राप्तिशीला चेतना सज्ञा यस्य तथोत कलयाबभूवु चकु । अत्र वायूना गुणसमृद्धे विशेषणगत्या नृपचेतनासघटनहेतुत्वात्पदार्थहेतुक काव्यलिङ्गम् । ‘आघ्राय’ इति पाठस्त्वसगतार्थत्वात् क्थचिदुक्तार्थलक्षणया योज्य ॥ १०४ ॥


 तत क्षणादेव किचिदु[७६१] द्रम्य परित शून्यशून्या दिशो द[७६२]शापि विलोकयमान शनै शनैरुपसृत्य शोकचञ्चलेन [७६३]कराञ्चलेन तान्पर्यायवृत्त्या [७६४]परामृश्य वनविहगमृगपानसौकर्याय सु[७६५]तरा दुरवतरा ता सर[७६६]सीमिव बाष्पधारामभिवर्षन्धर्मसूनुरेव विलपितुमारभत ॥

 वीरा भवद्विपदि दे[७६७]वपरम्परापि
  दूरेतरा प्रति परान्न गिरा प्रवृत्ति ।
 हा हा दशेयमिह वोऽद्य कुतोऽवतीर्णा
  मामन्तरेण भ [७६८]वता किमिद प्रयाणम ॥ १०५ ॥


 तत इति । तत चेतनाप्राप्त्यनन्तरम् । धर्मसूनु धर्मराज किचित् उद्र्म्य उत्थाय। क्षणात् । उत्थानक्षण एवेत्यर्थ । दिश दशापि परित शुन्यशून्या विलोक्यमान आत्मप्रियभ्रातृरहितत्वे अ यन्त सर्वार्थशून्यत्वेन पश्यन् सन् शन शनै उपसृत्य समीप प्राप्य शोकेन चञ्चलेन सफम्पन फ़्रराञ्चलेन अग्रहस्तेन तान् भ्रातृन् भीमादीन् पर्यायवृत्या कमश परामृश्य सस्पृश्य दुरवतरा अवतरितुमश क्यां तासरसी वापी वने अरण्ये विहगाना पक्षिणा मृगाणा च पानस्य सौकर्याय सौलभ्याय सुतरा सुखेनावतारितु शक्यामिवेत्युत्प्रेक्षा । ‘परिपूरयितुमिव’ इति पाठान्तरम् । बाष्पधारा अभितो ववर्ष । एव वक्ष्यमाणप्रकारेण विलपितु परिदे वितु आरभत उपक्रान्तवान् ॥

 बीरा इति । हे वीरा भीमादय , भवता युष्माक विपदि मरणे विपये देवाना परम्परा समूहोऽपि दूरेतरा अत्यन्तदूरे भवति । ‘किमेत्तिङव्ययघा दाम्वद्रव्यप्रकर्षे’ इत्येदन्तादव्ययात्तरप्याम् । परान् देवपरम्परात अन्यान् मनुष्या दीन् प्रति गिरा प्रवृत्ति किमवधिष्ठेति वाक्प्रसरण नास्त्येव । देवानामेव तथात्वे तदितरेषा का वातत्यर्थ । तथापि इह अत्र अद्य इदानीं व युष्माक इय दशा मरणावस्था । कुत क्स्माज्जनात् अवतीर्णा प्राप्ता । हा हेत्याश्चर्ये खेदे वा । किच मामन्तरेण मया विना भवतामिद प्रयाण परलोकयात्रा। किमिति कुत्सायाम् । अनुचितमेवेत्यर्थ । समसुखदु खभागिन सर्वदेव त्यागानहत्वादिति भाव । अत्र देवानामापत्क्रणाशक्तत्वे किभुत मनुष्याणामिति कैमुत्येन अर्थान्तरसिद्धथात्मकेन अथापत्यलकारेण मरणहेतो प्रसक्तयभावेऽपि तद्वर्णनात्मकविभावनात् द्वयोरङ्गाङ्गिभावेन सफर । यत्तु ‘भवतामापदि विषये दूरेतर-'इत्यपपाठ परिकल्प्य रक्षितुमशक्त-' इति व्यारयाय च अतएव 'परान् नरान् प्रति गिरा प्रवृत्ति


 दैव कठोरचरित दयया विहीन
  माद्रीसुतावहह मातृमुखानभिज्ञौ ।
 कन्दाङ्कुराणि च फलानि च भक्षयित्वा
  कान्तारसीमनि मयाचरितु न सेहे [७६९]॥ १०६ ॥
स्खयमव्रण एव यो भवान्व्रणमाधत्त हरस्य मस्तके ।
व्रणमायुषि पार्थ तस्य ते विदधाति स्म मृध विनैव क ॥ १०७
बरस द्वेषिनियुद्धजीवनभुज प्रख्यानिधे मारुते
 कर्णाकर्णिकया निशम्य भवता प्राप्तामवस्थामिमाम् ।


न नास्त्येव'इति विलिख्य देवानामप्यशक्य मनुष्या रक्षन्तीति वक्तुमवकाश एव नास्तीति भावार्थमाह नृसिह , तत् हा हा दशेयमिति तृतीयवाक्यार्थेन वीरा इति भीमादिनिर्देशेनच सगतमसगत वेति रसिका एवाकलयन्तु । पठन्तु स्वयद्राविडेनापि हाहेत्यस्य कटकटेयान्ध्रभाषया विवरण खस्य साहितीपारीणता प्रथयतीति ॥ १०५ ॥

 दैवमिति । दयया विहीन कृपया शून्य अतएव दैव विधि कटोरचरित दारुणकर्म यत यहैव मातु मुखस्य अनभिज्ञौ अद्रष्टारौ । तयो बाल्य एव तस्या भर्त्रानुमृतत्वादिति भाव । माद्य सुतौ नखुलसहदेवौ कान्तारसीमनि अरण्यदेशे कन्दाङ्कुराणि च फलानि च भक्षयित्वाभुक्त्वा मया सह चरितुमपि न सेहे। अहहेति खेदे । एतावन्मात्रमपि तत्तादृशमहाभोगिनो न क्षमत इत्यर्थ । परेषामादेहपात न शाम्यति मत्सर क्त्रूराणामिति भाव । तद्देवमिति योज्यम् । अत्रोत्तर वाक्यार्थेन दैवस्य दारुणकर्मत्वसमर्थनाव्यलिङ्गभेद । अत्रादौ नकुलसहदेवाववधीकृत्य राज्ञो विलाप वयस्तारतम्यकृतप्रेमतारतम्यप्रयुक्त इति ध्येयम् ॥ १०६ ॥

 स्वयमिति । हे पार्थ, य भवान् मृधे स्वयमव्रण व्रणरहित सन्नेव हरस्य शभो मस्तके शिरसि व्रण आवत्त अकरोत् । भवच्छब्दयोगात् 'शेषे प्रथम' इति प्रथमपुरुष । तस्य तादृक्प्रभावस्य ते तव आयुषि व्रण आयुषोऽन्तमित्यर्थ । भृघ युद्ध विनैव क विदधाति स्म । अचिन्यमहिमा हि स पुमानित्यर्थ । अत्र ‘खयमव्रण एव यो भवान्' इत्येव पाठ । ‘यो रणम्' इति पाठे मृधमित्यनेन पर्यायभङ्गाख्यदोष । पार्थ इति निर्देशानुसारेण त्वमित्यनुषजनीयत्वे आधत्तेति प्रथमपुरुषानुपपत्तिश्चेति । वैतालीयम् ॥ १०७ ॥

 वत्सेति । द्वेषिभि हिडिम्बादिभि सह नियुद्ध बाहुयुद्धमेव जीवन मृत्ति ययोस्तादृशौ भुजौ यस्य तस्य सबुद्धि हे तादृशभुज । हे प्रख्यानिधे कीर्त्यावास, हे मारुते वत्स भीम, भवता प्राप्त इमामवस्था कर्णात्कर्णान्तरप्राप्ति कर्णाकर्णि-


शोकेनानिशमेकचक्रनगरीभाजा च बाष्पायितु
 स्वस्त्रीयै सह सौबलस्य च मु[७७०]दा कोऽप्येष कालो [७७१]झभूत् ॥ १०८ ॥
 मय्यप्यसूनिह विमुञ्चति याज्ञसेनी
  सा श्वापदामिषमबुद्वगतिर्भवेन्न ।
 हा माद्रि कुन्ति युवयोर्वनभूमिरेव
  पुत्रप्रसूतिविपदो पदता प्रपेदे ॥ १०९ ॥
 कूटस्थशीतकरकुक्षिगत कुरग
  कुर्वन्स्वजातिकृतकोपरसातिरेकम् ।
 कोदण्डमप्यगणयन्कुलिशास्त्रसूनो
  क्कासौ स्थितो [७७२]बत मृग कुलहानये न ॥ ११० ॥


का तया तत्तज्जनार्णनपारपर्यतया निशम्य श्रुत्वा एकचक्रनगरी भजन्तीति तद्वामिना अनिश शोकेन च सौबलस्य शकुने स्वस्त्रीयै भागिनेयै दुर्योधनादि भि सह मुदा हर्षेण च वाष्पाणि नेत्रजलानि कारयितु बाष्पायितुम् । तान रोदयितु मेतान् मोदयितु चेत्यर्थ । एष काल कोऽपि विपरीत अभूत् आसीत् । अन शोक खान्तकबकान्तकनाशजन्य मोद खपैरमूलजन्य इति विवेक । अत्र भीमावस्थाकर्णनस्य विशेषणगत्या बाष्पोदयहेतुत्वात्काव्यलिङ्गभेद ॥ १०८ ॥

 मयीति । किच मग्यपि इह असून् प्राणान् विमुञ्चति सति सा पतिव्रता तिलकत्वेन प्रसिद्धा याज्ञसेनी द्रौपदी न अस्माक अबुद्ध गति यया सा तथोक्ता । अज्ञातास्मदुत्तान्ता सतीत्यर्थ । सापेक्षत्वेऽपि गमकत्वात्समास । न अस्माभि अबुद्धा अज्ञायमाना गति यस्यास्तथोक्ता सतीति वा । ‘क्तस्य च वर्तमाने' इति षष्ठी। अतएव श्वापदाना मासादमृगविशेषाणा आमिष मास भक्ष्य वा भवेत् । तैर्भक्ष्या भवेदित्यर्थ । हेति खेदे । हे कुन्ति, हे माद्रि, मातरो युवयो द्वयो वनभूमिरेव पुत्राणा अस्माक प्रसूते जननस्य विपद मरणस्य च द्वयो पदता स्थानत्व प्रपेदे । हेत्यत्रापि योज्यम् ॥ १०९ ॥

 कूटेति । कूटस्थ भृगवशस्य आदिम शीतकरस्य चन्द्रस्य कुक्षिगत मध्ये वर्तमान कुरग स्वया स्वीयया जात्या कुरङ्गत्वेन कृत कोपरसस्य अतिरेक येन तयोक्त मामप्यविगणरय अय भदाश्रयवशोच्छेद किमिति करोतीति कोपोद्रिक्त कुर्वन् सन् कुलिशास्त्रस्य वज्रिण सूनो अर्जुनस्य कोदण्ड गाण्डीवमपि अगण यन् अनाद्रियमाणश्च सन् । कुलिशास्त्रेती द्रनिर्देशात्पुत्रवत्सलस्येन्द्रस्य वज्रायुव मप्यगणयन्नित्यपि बोध्यम्। असौ अरणिहर्ता मृग न अस्माक कुलहानये वशच्छेद कर्तुम् । इति ‘क्रियार्थ-'इत्यादिना चतुर्थी । बतेति खेदे ।‘वनमृग 'इति


इत्थ विलप्य नृपतौ स्वयमप्यमीषा-
 मन्तस्य हेतुरिदमित्युदक सरस्या ।
पातु प्रवृत्तवति कोऽपि पुमानदृश्यो
 गम्भीरमाह गगनस्थित एव वाचम् ॥ १११ ॥
राजन्मदुक्तिसरणे प्रतिवाक्यदान
 देवोऽप्युपेक्ष्य जलमत्र न पातुमीष्टे ।
एते मदीयमवमत्य वचोऽवलेपा-
 त्पीताम्भस सपदि बिभ्रति दीर्घनिद्राम् ॥ ११२ ॥
तत्प्रत्युदीर्य [७७३]जलमत्र पिबेति वक्तु
 प्रश्नानसौ दिविचरस्य पटुत्तरै स्वै ।
प्रत्युद्ययौ बहुमतैर्वनदेवताना-
 मिन्दो करानिव तरङ्गकुलै पयोधि ॥ ११३ ॥


पाठ उक्तार्थालाभादुपेक्ष्य । क कुत्र स्थित । न जान इति योज्यम् । खेदमोदयो प्रस्तावे न्यूनपदत्वे निर्दोषत्वाभिमानात् । अत्र वैलापषट्कव्याख्यानयो नृसिंहास्मदीययो करुणारसपरिपोषतारतम्य सम्यक् स्वयमेवाकलयन्तु रसिका इति नोद्धटित ग्रन्थगौरवभियेति ॥ ११० ॥

 इत्थमिति । इत्य उक्तप्रकारेण नृपतौ धर्मराजे विलप्य इद एतत् सरस्युदक अमीषा भीमादीना भ्रातृणा अन्तस्य मरणस्य हेतुरिति । निश्चित्येति शेष । स्वयमपि सरस्या वाप्या उदक पातुम् । पीत्वा मर्तुमित्यर्थ । प्रवृत्तवति उद्युक्ते सति अदृश्य अतएव कोऽपि अचिन्त्यमहिमा पुमान् गगने स्थित सन्नेव वाच गम्भीर यथातथा आह ॥ १११ ॥

 तदुक्तिप्रकारमेवाह-राजन्निति । हे राजन्, मम सबन्धिन्या उक्तीना प्रश्नाना सरणे पड्क्तया प्रतिवाक्याना दान सघटन उपेक्ष्य । उत्तराण्यनुक्त्वेत्यर्थ । देवो ब्रह्मापि अत्र सरसि जल पातु नेष्टे न शक्नोति । अत एते त्वदनुजा अवलेपात् गर्वात् मदीय वच अवमत्य अनादृत्य पीत अम्बु जल यैस्तथोक्ता सन्त सपदि जलपानक्षण एव दीर्घनिद्रा मरण बिभ्रति । भृता इत्यर्थ ॥ ११२ ॥

 तदिति । तत् तस्मात् कारणात् प्रत्युदीर्य उत्तराण्युक्त्वा । मदुक्तिसरणेरिति शेष । अत्र सरस्या जल पिब इत्युक्तप्रकारेण वक्तु भाषमाणस्य दिविचरस्य यक्षस्य प्रश्नान् । ‘को मोदते’ इत्यादीन् प्रति । असौ युधिष्ठिर स्वै खीयै वनदेवताना बहुमतै ताभिर्बहुमन्यमानै पूर्ववन्निष्ठाषष्ठथौ । पटुभि उत्तरै


तदनन्तरम्
कटिलम्बितबल्कलो जटाल कमनीयस्मितबौतयज्ञसूत्र ।
कुशबईवतसित स देव कुरुराजस्य पुरोऽवतीर्य तस्थौ ॥ ११४ ॥
 स तु तत्र लोकातीतेन राकाशतमिवाकारयता निजेन तेजसा कुतडभलीकृतकरकमलयुग्म तमात्मसभब प्रेममेदुरमेवमवादीत् ॥
 अये वत्स, मा वर्ममवेहि ॥
 वि [७७४]मतजनवितीर्ण विविव " बिपिनल्केशमनुभवतो भवतो भाव
बुभुत्सुरेवमाचरिषम् ॥


प्रतिवाक्यै ‘पञ्चमेऽहनि षष्ठे वा शाक पचति स्वे गृहे । अनृणो ह्यपरप्रेष्य स रात्रिचर मोदते ॥’ इत्यादिभि । पयोधि समुद्र स्वै तरङ्गाणा कुलै वृन्दै इन्दो चन्द्रस्य करान् फिरणान् प्रतीव प्रत्युद्ययौ प्रत्युज्जगाम । उत्तराण्युवाचेत्यर्थ । उपमालकार । अत्र 'तत्प्रत्युदीर्य जलमत्र पिब’ इत्येव पाठ । ‘तत्प्रत्युदीर्य सलिल न पिब’ इति पाठे प्र युदीर्य सलिल पिब अन्यथा न पिबति व्याख्याय त्वेऽपि क्लिष्टत्वन्यूनपदत्वाख्यमधिक दोषद्वयमिति ॥ ११३ ॥

 तदनन्तरम्। इत्युत्तरेणान्वय ॥

 कटीति । कटौ ऊरूपरिभागे लम्बित धृत वल्कल येन स जटाल जटा वान कमनीय मनोज्ञ स्मित यस्य स चासौ धौतयज्ञसूत्र इति वैवक्षिकविशेषण विशेष्यभावात् बहुव्रीहिगर्भ कर्म वारय । कुशबहे दर्भपत्रै वतसित शिरसि भूषित स उक्तप्रभावेन प्रसिद्ध देव यक्षाकृति यम कुरुराजस्य धर्मराजस्य पुर अवतीर्यं । गगनादिति शेष । तस्थौ स्थितवान् ॥ ११४ ॥

स इति । स देव यमस्तु लोकान् सर्वान् अतीतेन अतिक्रान्तेन । सर्वातिशायि नेत्यर्थ । राकाणा पूर्णिमारात्रीणा शत आकारयता आह्वयतेव । अतिववले नेत्यर्थ । निजेन तेजसेवेत्युत्प्रेक्षा । कुडचजीकृत मुकुलीकृत करौ कमले इव तयो युग्म युगल यस्य तथोक्तम् । साञ्जलिबन्वमित्यर्थ । आत्मसभव पुत्र धर्मराज प्रति प्रेम्णा अनुरागेण मेदुर पूर्ण यथातथा एव वक्ष्यमाणप्रकारेण अवादीत् उक्तवान् । वदते कर्तरि लुद् ॥

 उक्तिप्रकारमेवाह-अये इति । अये वत्स हे पुत्र, त्व मा वर्म यम त्वत्पितर अवेहि जानीहि ।

 विमतेति । क्रिच विमतजनेन शत्रुजनेन दुर्योधनादिना वितीर्ण दत्तम् । प्रापि क्तमिति यावत् । विविध बहुविध ब्रिपिनक्लेश वनवासदु ख अनुभवत भवत तव भाव स्वभाव बोद्घु घर्म लङ्घते वा न वेति परीक्षितुमिच्छु बुभुत्सु । बुध्यते सन्नन्तादुप्रत्यय । एव भवदनुजविपत्तिकरणेन प्रकारेण आचरिष आचरितवानस्मि ॥


  तद्वहुधा परीक्षितेन भवत शीलेन समञ्जसेन प्रश्नोत्तरेण च

प्रसेदिवानस्मि । तस्मान्म[७७५]मानुग्रहेण स्वप्रान्निवृत्तैरिव भूयोऽप्युत्थितैरनुजन्मभि सह त्रयोदशीं शरद वे[७७६]षान्तरवन्त भवन्त कोऽपि न [७७७]जानीयादिति [७७८]वरमरणि च विस्मयविस्मारितनयनपरिस्पन्दनाय निजनन्दनाय प्रतिपाद्य स पुमानन्तर्दधे ॥

 तत्तादृशो भगवतो वचसा निकाम-
  मासाद्य मोदभरमाश्रममागतानाम् ।
 प्राप्तारणेर्द्बिजवरस्य शुचेव साक-
  [७७९]मन्त जगाम समयोऽपि महानमीषाम् ॥ ११५ ॥

 इत्यनन्तभट्टक् विकृतौ चम्पूभारते पञ्चम स्तबक ।


 तदिति । 'तत् तस्मात् बहुधा अनेकप्रकार परीक्षितेन भवत शीलेन खभावेन च समञ्जसेन समुचितेन भवत सबन्धिना प्रश्नाना मदीयाना उत्तरेण प्रतिवाक्येन च द्वाभ्या प्रसेदिवान् प्रसन्नोस्मि । तस्मात् प्रसन्नत्वाद्धेतो मम अनुग्रहेण प्रसादेन स्वप्रात् निद्रात निवृत्तै । प्रत्यागतै । प्रबुद्द्धैरिति यावत् । भूयोऽपि पुन उत्थितै लब्धजीवितैरित्यर्थ । अनुजन्मभि भ्रातृभि सह त्रयोदशी शरद सवत्सर सर्वमपि । अत्यन्तसयोगे द्वितीया । वेषान्तराणि अन्यवेषा सन्यासादय तद्वन्त भवन्त कोऽपि अतिनिपुणोऽपि न जानीयात् मा बुध्यतु । इत्युक्तप्रकार वर च त मृगवेषेणात्मनापहृत अराणि च । ब्राझणस्येति शेष । विस्मयेन आश्चर्येण विस्मारित विस्मृतवेन कारित । नयनयो परिस्पन्दन निमेषोन्मेषव्यापार । यस्य तस्मै । आश्चर्येण निश्चल्क्षायेत्यर्थ । निजाय नन्दनाय पुत्राय घमराजाय प्रतिपाद्य दत्त्वा स पुमान् दिव्यपुरुष अन्तर्दधे अन्तर्हितवान् अत्र वाञ्छिताभ्या भ्रातृजीवनारणिलाभाभ्या अधिकस्य अज्ञातवाससवत्सरें परदुर्जेयवेषान्तरलाभवरस्य वर्णनात्प्रहर्षणभेद । 'वञ्छितादधिकार्थस्य सिद्धिं चाहु प्रहर्षणम्’ इति लक्षणात् ॥

 तदिति । तत् तादृश । अनुपमस्वभावादिति भाव । भगवत यमस्य वचसा बरदानवाक्येन निकास अत्यन्त मोदभर सतोषातिशय आसाध प्राप्य आश्रम निज प्रति आगताना प्राप्ताना अमीषा पाण्डवाना सबन्धि महान् द्वादशवार्षिकत्वेन विस्तीर्ण समय वनवासशपथोऽपि प्राप्त तेभ्य लब्ध


२१

षष्ठः स्तबकः ।

 तदनु ते भरता व्यवधाश्रयाञ्चरमहायनलङ्क्षनकाङ्क्षिण ।
 अतिचिर रविभाण्डविव[७८०]र्धिताननुचरानिव तामटवीं जहु ॥ १ ॥

 तदन्वमी तदनु तचितवचनसाहसाधिगतवाहसाधिपवपुष नहुषमौ [७८१]दरदमन शमनाय चतुरर्णववारिकाङ्क्षिण पारिकाङ्क्षिण [७८२]अग-


अरणि येन तस्य द्विजवरस्य ब्राह्मणश्रेष्टस्य शुचा साक दु खेन सहैव अन्त समाप्ति जगाम । निस्तीर्णप्रतिज्ञा बभूवु । पाण्डवा , निस्तीर्णदु खश्च बभूव ब्राह्मण इत्यर्थ । अत्र पाण्डववनवासशपथब्राह्मणदु रवयो समाप्तिप्राप्त्या सहभावस्य सहृदयरञ्जकस्य वर्णनात् सहोक्तिरलकार । ‘सहोक्ति सहभावश्चेद्भासते जनरञ्जन ' इति लक्षणात् । एव तयो प्रकृतयो समाप्तिगमनेनौपम्यस्य गम्यत्वात्तुल्ययोगिताभेदश्च । द्वयोरनयोरभिन्नपदबोध्यत्वादेकवाचकानुप्रवेश सकर ॥ ११५ ॥

 इति श्रीसदाशिवपादारविन्दवन्दनकन्दलितानन्दसान्द्रस्य कुरविकुलचन्द्रस्य रामकवीन्द्रस्य कृतौ चम्पूभारतव्याख्याने लास्याख्याने पञ्चम स्तबक ॥

षष्ठ स्तबक ।

 अस्सिन्स्तबके अज्ञातवाषिकवृत्तान्त वर्णयन्ति–तू न्विति । तदनु वनवाससमयनिस्तरणानन्तर व्यवधाया आच्छादनस्य षान्तरस्येति यावत् । आश्रयात् स्वीकारात् । ‘अन्तर्धाव्यवधा-' इत्याच्छक्षर्यायेष्वमर । चरमस्य अन्तिमस्य हायनस्य अज्ञातवाससवत्सरस्य है; यापन काङ्कन्त इति काङ्क्षण अत एव ते स्थितवझ आचेर आ द्वादशसवत्सर रवे सूर्यस्य सबन्धिना भारतस्य अतीतेन अतिर्ण विवर्धितान् पोषितान् अनुचरान् परिचरानिव ता अटवी द्वैत आकारय जहु तत्त्यजु । अत्राज्ञातवासकाझ्या विशेषणगत्या वर्मराहेतुत्वत्पदार्थहेतुककव्य लिङ्गस्य परिजनाटव्यो प्रकृतयो त्या कस्य तुल्ययोगिताभेदस्य च दूयोरङ्गाङ्गिभावेन सकर । द्रुतविलम्बित वृत्तम् ॥१ ॥

 तदन्विति ।तदनु तदुभयत्यागानन्तर अमी पाण्डवा तस्य अगस्त्यस्य अनुचितेन । त प्रति वक्तुमनर्हेणेत्यर्थ । वचनसा सेन वाक्पारुष्येण हेतुना अधिगत प्राप्त बाहसा अजगरा नाड् सर्पविशेषा तदधिपस्य श्रेष्ठाजगरस्येव वपु यस्य तम् । अगस्त्यशापप्राप्ताजगरवमित्यर्थ नहुष नाम राजानम् । उद रैभवस्य औदरस्य दमनस अग्ने ।जठतानलस्येति यावत । शमनाय निवारणार्थ चतुर्णा अर्णवाना समुद्राणा वारि काङ्क्षन्द हेण । चतु समुद्रजलपायिन


स्त्यस्य कोपोदिताच्छापोदधेरुत्तरैरुत्तार्य तस्मादेव विस्मारितनिजविधि[७८३]दुर्विलसितया तया वरारोहया सह दु सहनिजधामापिधानवैदग्ध्यमभ्यसितुकामा इव ते [७८४]मात्स्यनगरस्य [७८५]नातिसमीपपितृवनगामिनी शमीमभजन् ॥

 क्त्रमेण मत्स्येन्द्रपुरोपकण्ठे करालमापु पितृकानन ते ।
 वधूद्रुहा भाविनि सूतजाना वधप्रदेशस्य दिदृक्षयेव ॥ २ ॥
 शमीतरौ तत्र निधाय शस्त्रममी तदन्तर्ज्वलदग्निकल्पम् ।
 जगाहिरे वेषमिवान्यमुञ्चैर्ध्वज विराटस्य पुर प्रवीरा ॥ ३ ॥


इत्यर्थ । पारिकाङ्किण मुने अगस्त्यस्य कोपेन उदितात् उत्पन्नात् शापात् अजगरत्वप्रापकादेव उदधे समुद्रात् उत्तरै तत्प्रश्नप्रतिवाक्यैरेव प्लवैरिति श्लिष्टरूपकम् । उत्तार्य तारयित्वा । शापान्मोचयित्वेत्यर्थ । तस्मात् विघिदुविलसितप्राप्ताजगरभावान्नहुषादेव चिस्मारित अशोचनीयत्वेन कारित निज च विधे दैवस्य दुविकसित वनवासदु खजनन यया तथोक्तया । महतामपि दुर्ल- ङ्घया दैवी गति , अतो मयापि न शाचनीयमेतदिति धैर्यावलम्बिनेत्यर्थ । तया वरारोहया द्रौपद्या सह दु सहस्य आच्छादयितुमशक्यस्य निजस्य धाम्न तेजस पिधाने आच्छादने विषये वैदग्ध्य कौशल अभ्यसितु कामो येषा तथोक्ता इवेत्युप्रेक्षा । मात्स्यनगरस्य विराटपुरस्य नातिसमीपे ईषहूरदेशे विद्यमान पितृवन श्मशान गच्छतीति तद्भामिनीम्। तत्र वर्तमानामित्यर्थ ।'श्मशान स्यात्पितृवनम्' इत्यमर । शमी नाम वृक्ष अभजन् प्रापु । अत्र च ‘वृषाकपि शमीगर्भो हव्यवाहो द्रुमाशन ’ इति वनजयकोशादौ लोके, ‘शमीगर्भादग्नि मध्नन्ति’ इति वेदे च, अग्ने शमीगर्भत्वेन प्रसिध्धा तद्रर्भवद्भजने तेजस्तिरोधानाभ्यसनहेतुत्वमुत्प्रेक्षितम्। ‘अजगरे शयुर्वाहस इत्युभौ', ‘सप्तार्चिर्दमुनाश्चित्र ', ‘तपस्वी तापस | पारिकाङ्क्षी वाचयमो मुनि’, ‘वरारोहा मत्तकाशिनी’ इति क्रमेण तत्तद्विशेषपर्यायेष्वमर ॥

 क्त्रमेणेति । ते पाण्डवा क्त्रमेण गमनपर्यायेण पादचारेण वा उपलक्षिता वध्वे द्रौपद्ये द्रुह्यन्तीति तद्रुहाम् । उत्तरत्रेति शेष । सूतजाना कीचकाना सब- न्धािनि भाविनि भविष्यति वधप्रदेशस्य। वधस्थानस्येत्यर्थ । द्रष्टुमिच्छा दिदृक्षा तयेवेत्युत्प्रेक्षा । मत्स्येन्द्रपुरस्य विराटनगरस्य उपकण्ठे समीपे कराल भयकर पितृकानन श्मशान आपु प्राप्तवन्त । उपेन्द्रवज्रा ॥ २ ॥

 शमीति । अमी प्रवीरा पाण्डवा तत्र श्मशाने शमीतरौ तस्य शमीवृक्षस्य


समत्वमुत्कर्षनिकर्षयो स्व सदर्शयिष्यन्निव धर्मसूनु ।
क्रमेण हस परमो हि[७८६] भूत्वा कङ्कत्वमापद्यत सद्य एव ॥ ४ ॥
पुरार्जुनस्येव यतित्वमेत[७८७]दस्यापि कामप्यपरा सपत्नीम् ।
सपादयेत्कि नु ममेति कृष्णा तथाविध वीक्ष्य नृप शशङ्के ॥५॥
त्रिदण्डकाषायकमण्डलूज्ज्वलो जपस्फुरद्दन्तपटो युधिष्ठिर ।
उपानह दारुमयी पदा स्पृशन्नुपासत्ससदि मेदिनीश्वरम् ॥ ६ ॥


अन्त मध्ये ज्वलत अग्ने कल्प तत्तुल्य शस्त्रम् । आयुधानीति जात्येकवचनम् । निधाय विन्यस्य अन्य खाभाविकादितर वेष सन्यासादिकमिव उञ्चै उन्नतानि ध्वजानि यस्मिन् तत् विराटस्य पुर जगाहिरे विविशु । अत्र वेषान्तरविराटपुरयो श्लेषभित्तिकया स्वीकारप्रवेशयो अभेदाध्यवसितेन गाहमानेनौपम्यस्य गम्यत्वात्केवलप्रकृतास्पदस्तुल्ययोगिताभेद ॥ ३ ॥

 समत्वमिति । धमसूनु युधिष्टिर उत्कर्ष निकषे अपकर्षे च द्वयोरपि स्व स्वीय समत्व अविकृतचित्तत्व सदर्शयिष्यन् प्रदर्शयितुमिच्छन्निवेत्युत्प्रेक्षा । क्रमेण सन्यासविशेषेण परम हस परमहसाश्रमी । पर्यायेण श्रेष्ठहस इति च । भूत्वापि सद्य तत्क्षणमेव कङ्कत्व कङ्क इति सज्ञा गृध्रभाव च आपद्यत प्राप्तवान् । उत्प्रेक्षाश्लेषद्वयोज्जीवितो विरोबाभास । ‘हसो विहङ्ग कर्मन्दिवृक्षभेदेषु भास्करे’ इति विश्व । उपजाति ॥ ४ ॥

 पुरेति । कृष्णा द्रौपदी तथाविध सन्यासवेष नृप वर्मराज वीक्ष्य पुरा सुभ द्राहरणसमये अर्जुनस्य यतित्वमिव अस्य नृपस्य एतत् यतित्वमपि अपरा सुभद्राया कामपि काचित् सपत्नी मम सपादयेत्किन्विति शशङ्के सभावयामास । उपमोज्जीवित उत्प्रेक्षालकार ॥ ५ ॥

 त्रिदण्डेति । तत त्रिभि दण्डे वद्धदण्ट काषाय वस्त्र कमण्डलुश्च त्रिभिरुज्ज्वल । तत्सहित इत्यथ । जपेन प्रणवजपेन स्फुरन्तौ चलन्तौ दन्तपटौ ओष्ठौ यस्य स युधिष्ठिर सन्यासाकृति दास्मया उपानह पादुका पदा पादेन स्पृशन् आरूढ सन् ससदि सभाया वर्तमान मेदिनीश्वर विराटभूप उपासदत् प्राप्तवान् । अत्र यत्याश्रयिण पुनगार्हस्थ्ययोग्यत्वाय त्रिदण्डसन्यासस्वीकार । एकदण्डसन्यासप्रच्यवने महाप्रत्यवायस्मरणात् । अत एव रावणार्जुनादीना तद्धारण तत्प्रच्यवन चाविगीतत्वेन तत्र तत्रोपन्यस्तमिति ध्येयम् । इद पद्यद्वय मूलक्रमे सदर्भविरोधात् व्यत्ययेन व्याख्यातम् ॥ ६ ॥


 दृष्टवा समुत्थितो मात्स्यो धृतग्रश्रयविस्मय ।
 तत्पादपासु फालान्ते चक्रे त पुनरासने ॥ ७ ॥
दुर्वोरगर्वासहनोऽथ भीमो द[७८८]र्वीकरादर्शितसूदभाव ।
शोणाधरालोलुपसूतसूनो प्राणानिलान्पा[७८९]रयितु किलासीत् ॥ ८ ॥
पितु सखाय परिपूज्यमेधैर्दिने दिने तृप्तिमिवोपनेतुम् ।
सूदाकृति सोऽपि ययौ विराट वृकोदरो वृत्तशरावपाणि ॥ ९ ॥
कुलशैलक्षृङ्ग इव जगमे तदा कुरुकुञ्जरे चलति कम्पन मुहु ।
वसुधैव तस्य न पुरस्य केवल वहति स्म कीचकभुजाष्यदक्षिणा ॥ १० ॥


 दृष्टवेति ।' त सभागत युधिष्ठिरसन्यासिन दृष्टवा धृतौ प्रश्रयविस्मयौ विनयाश्चर्यौ येन तथोक्त अतएव समुत्थित प्रत्युत्थित मात्स्य विराट तस्य सम्यासिन पादयो पासु रज फालान्ते शिरसि चक्रे। शिरसा नमस्कृतवानिति भाव । त पुन सन्यासिन तु आसने सिंहासने चक्रे । उपवेशितवानित्यर्थ । अत्र नमस्कृत्युपवेशनकिरिययोर्योगपद्यात्समुञ्चयालकार ॥ ७ ॥

 दुर्वीरेति । अथ युधिष्ठिरप्राप्त्यनन्तरम् । दुष्टा वीरा बकहिडिम्बादय तेषा गर्त्र न सहत इत्यसहन भीम शोणा वराया द्रौपद्या लोलुपस्य आसतक्तस्य सूतसूनो कीचकस्य प्राणरूपान् अनिलान् पारयितु पारण कर्तुम्। किलेत्युत्प्रेक्षा । दर्व्याखजयायायुक्त कर एव दर्वीकर सर्प तेन आदशित सूचित सूदस्य भाव पाचकत्वमेव सूदयति मारयतीति सूदस्य भाव मारकत्व येन तथोक्त सन्निति श्लिष्टपरम्परितरूपम् । उक्तोत्प्रेक्षासापेक्षमिति दूयोरङ्गाङ्गिभावेन सकर । इन्द्रवज्रा ॥ ८ ॥

 पितुरिति । परिपूज्य सम्यक्पूजनीय पितु वायो सखाय सुहृद अग्निमिति प्रस्तुतोचितनिर्देश । पितृसखस्य पितृकल्पत्वात्परिपूज्यत्वोक्ति । अत्र पितु सखयमित्यस्य व्यावर्तकविशेषणत्वेन परिपूज्य इत्यनेनाग्नेर्बोध सुलभ , तत पितु सखाय अतएव परिपूज्यमित्येव योजना। परंतु बालानुजिघृक्षया तथोक्तमिति ध्येयम् । दिने दिने प्रतिदिन एधै शुष्केन्धनै तृप्ति उपनेतुमिवेत्युत्प्रेक्षा । सूदस्येवाकृतिर्यस्य स स प्रसिद्ध वृकोदर भीमोऽपि वृत्त वर्तुल शराव विस्तृतास्य पात्र पाणौ यस्य तथोक्त सन् विराट नृप ययौ प्राप । उपजाति ॥ ९ ॥

 कुलशैलेति ।जगमे चरे कुलशेलस्य क्षृङ्गे शिखर इव स्थित इत्युत्प्रेक्षा । कुरुकुञ्जरे कौरवश्रेष्ठे भीमे सूदाकृतौ चलति आगच्छति सति तदा आगमनसमये तस्य विराटस्य पुरस्य सुबन्धिनी वसुधा भूमिरेव केवल भृश कम्पन मुहु न व-


 महानसेऽवतरतो जनस्य स पति कृत ।
 महानसेवत रतो मात्स्य स्वादुषु कर्मसु ॥ ११ ॥
स्त्रीत्वेन योग स्वलु वीरगर्ह्य पुस्त्वेन चान्त पुरवासविध्न ।
इतीव षण्ढत्वसवश्यभाव्यमादाय पार्थोऽपि जगाम मात्स्यम् ॥ १२ ॥
 कृतवसतिरसौ नृपस्य कन्या
  गृहभुवि नर्तयति स्म तालपाणि ।
 मधुकरमुखरो लता वनान्ते
  मलयगिरेरिव मारुतप्ररोह ॥ १३ ॥
मम ध्वजाङ्कस्य बिभर्ति सज्ञामसाविति प्रेमभरादुपेत ।
प्रसूनधन्वेव सुतोऽपि माध्रा मत्स्येन्द्रसागत्य ननाम मूर्ध्रा ॥ १४ ॥


इति स्म नाबिभ्रत् । कितु अदक्षिणा वाभा कीचकस्य भुजा बाहुरपि कम्पन वहति स्म । तस्य भाविमरणसूचकत्वेनेति भाव । अत्र विराटनगरकीचकभुजयोश्चलने नौपम्यस्य गम्यत्वाकेवलप्रकृतास्पद तुल्ययोगिताभेद । मञ्जुभाषिणी ॥ १० ॥

 महानस इति । स महान् भीम महानसे पाक्स्थाने अवतरत वर्तमानस्य जनस्य पाचकस्य पति कृत प्रभूकृत सन् । मात्स्येनेत्यर्थाल्लभ्यते । अत एव रत तस्मिन्ननुरक्त सन् । खादुषु स्च्येषु कमसु पाकेषु मास्य विराट असेवत सेवि- तवान् । रुच्यै पाकै तर्पयामासेत्यर्थ । आदिपादावृत्तिर्यमकभेद ॥ ११ ॥

 स्त्रीत्वेनेति । स्त्रीत्वेन योग सबन्ध । स्त्रीरूपधारणमिति यावत् । वीराण अस्मादृशा गर्ह्य निन्द्य । पुस्त्वेन योग पुरूपधारण व अन्त पुरे वासस्य विध्न प्रतिबन्ध । खत्वित्युभयत्रावधारणे । इति हेतोरिवेत्युत्प्रेक्षा । अवश्य प्रकृतप्रयोगित्वेन उर्वशीशापेन च अनिवार्य यथातथा भवितु योग्य भाव्य षण्ढत्वम् । स्त्रीत्वषुस्त्वाभ्यामन्यत् नपुसकत्वम् । आदाय स्वीकृत्य । पार्थ अर्जुनोऽपि मात्य जगाम विराट प्राप्तवान् ॥ १२ ॥

 कृतेति । ताल कास्यनिर्मितवाद्यविशेष नर्तकत्वसूचक पाणौ यस्य स असौ बृहन्नलाख्य षण्ढत्वधारी अजुन नृपस्य विराटस्य गृहभुवि कृता वसति स्थिति येन स तथोक्त सन् । कन्या उत्तराप्रभृती । मधुकरै अलिभि सुखर शब्दायमान वनान्ते मलयगिरे सबन्धी मारुतप्ररोह वाताङ्कुर लता मल्लिकादीरिव । नर्तयति स्म नाट्यमकारयत् । तच्छिक्षितवानित्यर्थ । उपमालकार । पुष्पिताग्रा ॥ १३ ॥

 ममेति । असौ विराट मम ध्वजे अङ्कस्य मीनस्य सज्ञा मत्स्येन्द्र इति नाम बिभर्ति इत्युक्तप्रकारात् प्रेम्ण भरात् अतिशयात् उपेत आगत प्रसूनधन्वा मन्मथ इव स्थित इत्युत्प्रेक्षा । माध्रा सुत नकुलोऽपि मत्स्येन्द्र विराट प्रति


त पश्यन्नकुल राजा तन्द्रालुर्ट्ट [७९०]ड्निमेषणे ।
निजा मत्स्येश्वराभिख्या निनाय प्रकटार्थताम् ॥ १५ ॥
कशा करे स बिभ्राण शशाङ्ककुलभूषणम् ।
मन्दुरापतिमातेने त दुरापपराक्रमम् ॥ १६ ॥
 अस्मत्तिरोधिवसते [७९१]र्भवितान्तहेतु-
  रेतद्दिनै कतिपयैरिति जानतेव ।
 पाण्डो सुतेन चरमेण च तस्य राज्ञो
  वृन्द गवा प्रजुगुपे पृथुकौतुकेन ॥ १७ ॥


आगत्य मूर्धा ननाम नमस्कृतवान् । अत्र मत्स्यानामिन्द्र इति व्युत्पत्तेरुभयत्र तुल्यत्वेऽपि एकत्र श्रेष्ठमत्स्य , अन्यत्र तन्नामकदेशाविप , इत्यर्थभेदो ग्राह्य । 'देशभेदे झषे मत्स्य ’ इति कोशत् ॥ १४ ॥

 तमिति । त नकुल पश्यन् अतएव दृशो नेत्रयो निमेषणे मीलने विषये तन्द्रालु प्रमादशील । निमेषरहित सन्निति यावत् । निजा मत्स्येश्वर मीनश्रेष्ठ इत्यात्मिका अभिरया सज्ञाशब्द ता प्रकट स्फुट अर्थ ‘सुरमत्स्यावनिमिपौ’ इति कोशप्रसिद्धानिमिषत्वरूप यस्यास्तस्या भाव तत्ता ताम् । अन्वर्थनामत्वमिति यावत् । ‘त्वतरोर्गुणवचनस्य ’ इति पुवद्भाव । निनाय प्रापयामासेवेत्युत्प्रेक्षा व्यञ्जकाप्रयोगाद्रम्या । अथवा नकुलावलोकनप्राप्तनिमेषराहित्यस्य तादृगन्वर्थताप्राराकटयप्रापणहेतुत्वात् पदार्थहेतुक काव्यलिङ्गमित्येकत्र कविसरम्भनिर्णायकाभावात् द्वयो सदेहसकर ॥ १५ ॥

 कशामिति । स विराट शशाङ्कस्य चन्द्रस्य यत्कुल वश तस्य भूषण दुराप शत्रुभि प्राप्तुमशक्य पराक्रम यस्य त कशा अश्वताडनीं करे बिभ्राणम् । प्राकृतिफस्वीयाश्वशिक्षणानेपुण्यद्योतनायेद विशेषणम् । अतएव परिकरालकार । एव सर्वत्र बोध्यम् । त नकुल मन्दुराया वाजिशालाया पतिं आतेने चक्रे । अत्र शशाङ्केति दुरापेति द्विकत्रिकयोरावृत्त्या लाटानुप्रासस्योक्तपरिकरस्य च दूयो शब्दार्थालकारयो काव्यप्रकाशिकोक्तदिशा एकवाचकानुप्रवेशसकर ॥ १६ ॥

 अस्मदिति । एतत् गोवृन्द कतिपयैर्दिनै अस्माक तिरोधिवसते अज्ञातवासस्य अन्तस्य समाप्ते हेतु भविता भविष्यति इत्युक्तप्रकार जानतेव स्मितेनेत्युत्प्रेक्षा । पृथुकौतुकेन चरमेण सर्वेषा कनिष्ठेन पाण्डो सुतेन सहदेवेन । चकार अप्यर्थे । तस्य राज्ञ विराटस्य सबन्धि गवा झृन्द प्रकर्षेण जुगुपे रक्षितम्। गोपायते कर्मणि लिट् । सहदेवो गोपवेष विराटनिदेशेन तद्रोकुल ररक्षेत्यर्थ ॥ १७ ॥


आगता नगरवासवाञ्छया देवतेव विपिनस्य पार्ष [७९२]ती ।
केलिपुष्पमिव दन्तकङ्कत बिभ्रती नृपवधूमुपागमत् ॥ १८ ॥

 सैरन्ध्रीरूपभाजोऽस्या जातिनैच्यान्नत शिर ।
 सुदेष्णायास्तु ता दृष्ट्वा सुन्दरी [७९३]व्रीलगौरवात् ॥ १९ ॥

 वनभुव इव माधवोदयश्री-
  र्मनुजपतेरवरोधयोषितोऽसौ ।
 अनुदिनमखिलालिळालनीयै-
  रलमकरोत्तिलकैरतीव दृश्यै ॥ २० ॥

अनन्तर [७९४]स्ववशा पाञ्चालसुता भृशमादृतकङ्कतमतिरसोत्पादन-


 आगतेति । नगरवासे पह्णणनिवासे वाञ्छया आगता विपिनस्य देवतेव स्थितेत्युत्प्रेक्षा । पार्षती द्रौपदी केल्या क्रीडार्थ पुष्पमिव स्थितमित्युत्प्रेक्षा । पूर्वसापेक्षेति सकर । दन्तमय क्ह्क्त केशसस्कारकयन्त्रविशेष बिभ्रती सती । ‘प्रसाधनी कङ्कतिका’ इत्यमर । सैरन्ध्रीत्वसूचकमिद विशेषणम् । नृपस्य विराटस्य वधू सुदेष्णा प्रति उपागमत् आगतवती । उक्तसकरपरिकरयो ससृष्टि । रथोद्धता ॥ १८ ॥

 सैरन्ध्रीति । सैरन्ध्र्या शिल्पकारिकाया रूप आकार भजतीति भाज । अस्या द्रौपद्या शिर जाते सैरन्ध्रीकुलस्य नैच्यात् अपकर्षाद्धेतो नत नम्र अभूत् । सुदेष्णाया विराटपत्न्या शिरस्तु ता सुन्दरीमिति प्रस्तुतोचितनिर्देश । द्रौपदी दृष्ट्वा व्रीलगौरवात् लज्जातिशयाद्धेतो नतमभूत् । ‘सैरन्ध्री परवेश्मस्था स्वचशा शिल्पकारिका' इत्यमर । अत्रोभयो शिरसो नमनेनौपम्यस्य गम्यत्वातुल्ययोगिताभेदस्य नमनहेतुनसनयो उक्तिरूपहेत्वलकारस्य च द्वयोरेकवाचकानुप्रवेशसकर ॥ १९ ॥

 वनेति । असौ सैरन्ध्रीररूपधारिणी द्रौपदी सनुजपते विराटस्य अवरोधयोषित अन्त पुराङ्गना माधवोदयक्ष्री वसन्ताभ्युदयलक्ष्मी वनभुव वनसीमा इव अखिलाभि आलीभि सखीभि अखिलैरलिभिश्च लालनीयै अतएव अतीव ह्श्यै भृश प्रेक्षणीयै तिलकै चित्रकै वृक्ष विशेषेश्च दिने दिने अनुदिन अलमकरोत् अलचकार । श्लिष्टसाधर्म्येयमुपमा । पुष्पिताग्रा ॥ २० ॥

 अनन्तरमिति । अनन्तर सर्वेषा विराटपुरावासानन्तरम् । स्ववशा स्वाय-


चणम [७९५]घिकशोभनाटनपाटबमाश्रितगन्धर्वकुलमाकलितगो[७९६]त्रान्तर प[७९७]ञ्चधा रूपभुञ्चयन्ती प[७९८]ञ्चापि पतीननुयातवती ॥

 विमतानपि तैर्जित्वा विवासमिव दायक ।
 अक्षेष्वकुरुतावृत्तिमवनीन्द्रेण धर्मभू ॥ २१ ॥

 एव तैस्तै [७९९]स्वकृत्यै [८००]सपादितशिर कम्प वय कृतमिव सततमनुभवता तेन[८०१] महीपतिना बहुमानिता पृथासुता यथा विवासनखेद् तथा तदीयमपि स्वरूपमितरे जनास्तत्र नाज्ञासिषु ।


त्ता । नतु परतन्त्रेत्यर्थ । शिल्पकारिकारिकापीति च अतएव पाञ्चालसुता द्रौपदी आदृता स्वीकृता कङ्कस्य भाव कङ्कता युधिष्ठिरत्वम् , आदृत कङ्कत प्रसावनी च यस्मिन् तथोक्तम् । ‘प्रसाधनी कङ्कतिका' इति कोशे कङ्कतशब्दात्स्वाये कप्रत्यये टापि च ‘प्रत्ययस्थात्-' इत्यादिना कात्पूर्वस्यात इत्वे च कङ्कतिकेति ग्राह्यम्। अतएव शिरसीव कङ्कतमवोढमूर्धजे’ इति माघप्रयोग । अत्यन्त रसाना मधुरादीना षण्ण क्ष्टङ्गारस्य च उत्पादनेन प्रसिद्ध तच्चणम्। एकत्रालकरणनैपुण्यात्, अन्यत्र पाकनैपुण्याच्चेति भाव । ‘तेन वित्तक्ष्चुञ्चुपूचणपौ’ इति प्रसिद्धार्थे चणप् । अधिकशोभया नाटने नाटयशिक्षणे पाटव सामर्थ्थ यस्मिस्तथोक्तम् , के शिरसि अधिक शोभाया भूषणमाल्याद्यलकरणजन्याया नाटने सयोजने पाटव यस्मिस्तथोक्तमिति च। आश्रित गन्धर्वाणा अश्वाना स्वपतीना च कुल मृन्द यस्मिस्त- थोक्तम् । आकलित आश्रित गोत्राया गोवृन्दस्य अन्तर मध्यदेश यस्मिस्तथोक्तम्, आकलित आश्रित गोत्रान्तर मालिनीत्यन्यन्नाम यस्मिस्तथोक्तमिति च। ‘गोत्रा गोनिचये भूम्या नाद्रौ श्रीकुलसज्ञयो' इति मेदिनी । अतएव पञ्चधा पञ्चप्रकार रूप सैरन्ध्रीवेप उदञ्चयन्ती प्रकटयन्ती सती। पञ्चापि पतीन् रूपान्तरमापन्नान् युधिष्ठिरादीन् अनुयातवती विडम्बयति स्म । ‘आर्तार्ते मुदिते हृष्टा' इत्यादिना पतिव्रताना पतिसमानवमस्मरणादिति भाव । अत्र स्ववशेति विशेषण स्य श्लेषभित्तिकाभेदाव्यवसितपञ्चविधरूपोदञ्चनसामर्थ्थाभिप्रायगर्भत्वात्परिकरस्य श्लेषभित्तिकाभेदाध्यवसायमूलातिशयोक्तेक्ष्च अङ्गाङ्गिभावेन सकर ॥

 विमतानिति । वर्मभू युधिष्ठिर तैरपि अत्रैरपि विमतान् दुर्योधनादीन् जित्वा विवास तेषा राज्यभ्रश दायक वितरिष्यमाण इवेत्युत्प्रेक्षा । अवनीन्द्रेण सह विराटेन सह अक्षेषु पाशकेषु । अक्षक्रीडायामिति यावत् । आवृत्तिं पौनपुन्येन खेलन अकुरुत चक्रे। बिवास दायक इत्यत्र ‘अकेनोर्भविष्यदाधमर्ण्ययो' इति कृद्योगे षष्ठीप्रतिषेध ॥ २१ ॥

 एवमिति । एव उक्तप्रकार स्वै खीयै तैस्तै कृत्यै अक्षक्रीडापाकनाट


 अथैकदा तत्र सुदेष्णाया प्रेषणेन मदनोत्सवासवाय बासवायतनसदृश वास[८०२]गृहमागता कौरवाधमकर[८०३]परिक्लेशादिव विवर्णेन वाससा[८०४]वगुण्ठिताङ्गी नरवशशिपरम्परासेवनलालसतयेव प्रपद्समुखीनलोचननीलोत्पला राजीवशङ्कयानुव्रजता राजहसेनेव राजतभाजनेन राजितकराञ्चला पाञ्चालसुता विलोक्य पञ्चेषुबाणवञ्चितविवेको मञ्चादुपसृत्य किचिदाकुञ्चितमौलि कीचको वा[८०५]चमुवाच ॥


नाश्वगोपालनै सपादित क्ष्लाधासु घटित शिरस कम्प वयसा चरमेण कृत शिर कम्पमिव सतत अनुभवता तेन महीपतिना विराटेन बहुमानिता सन्त पृथासुता युधिष्ठिरादय विवासेन राज्यभ्रशेन य खेद त यथा नाज्ञासिषु विसस्मरु तथा तेषामिद तदीय पृथासुतसबन्धि स्वरूप युधिष्ठिरत्वादिक्मपि इतरे जना पौरजानपदाश्च नाज्ञासिषु न जानन्ति स्म । जानाते कर्तरि लुड्। अत्र पाण्डवान तदितरेषा च तत्तदज्ञानेनौपम्यस्य गम्यत्वात्तल्ययोगिताभेद ॥

 अथेति । अथ अनन्तर एकदा कदाचित् तत्र विराटनगरे मदनोत्सवस्य सुरतार्थ आसवाय मद्यमाहर्तुमिति ‘क्रियार्थ-' इत्यादिना चतुर्थी । सुदेष्णाया विराटपत्न्या प्रेषणेन हेतुना वासवस्य इन्द्रस्य आयतनेन गृहेण सदृश वासगृह केलीगृह प्रति आगता कौरवाधमस्य दु शासनस्य करेण य परिक्लेश आकषजनितदु ख तस्सादिवेत्युत्प्रेक्षा । विवर्णेन गतशोभेन । मलिनेनेति यावत् । वाससा वस्त्रेण अवगुण्ठित आच्छादित अङ्ग यस्यास्ताम्। नखानामेव शशिना चन्द्राणा परम्पराया पङ्क्ते सेवने लालसतया अनुरागेणेवेत्युत्प्रेक्षा। प्रपदस्य पादाग्रस्य समुखीने अभिमुखे लोचने एव नीलोत्पले यस्यास्ताम् । पातिव्रत्येन पादाग्रनिहितदृष्टिमित्यथ । राजीवशङ्कया पह्नभ्रमेण अनुव्रजता अनुसरता राजहसेनेव स्थितेनेति भ्रान्तिमदुज्जीवितोत्प्रेक्षा । राजतेन रजतविकारेण भाजनेन पात्रेण राजित दीप्त कराञ्चल अग्रहस्त यस्यास्ताम्। पाश्चलसुता द्रौपदी विलोक्य पञ्च इषव बाणा पुष्पमया यस्य तेन मन्मथेन वञ्चित अपहृत विवेक कृत्याकृत्यविचार यस्य स अत एव कीचक सुदेष्णाभ्राता मञ्चात् शयनात् उपसृत्य समीपमागत्य किचित् आकुञ्चित अवनमित मौलि शिर येन तथोक्त । गृहीतविनय सन्नित्यर्थ । वाच वक्ष्यमाणा उवाच । अत्र केवलोत्प्रेक्षाया रूपकोत्प्रेक्षासकररूपकाङ्गाङ्गिभावसकरस्य भ्रान्तिमदुत्प्रेक्षासकरस्य च त्रयाणा ससृष्टि ॥


इदमेव हि सद्य भद्रभद्र यदिदानीं तव मार्दवज्ञमङ्ध्रे ।
अयमप्यहमस्मि धन्यधन्यो हरिणाक्षि त्वदपाङ्गगोचरो य ॥२२॥
नतगात्रि यदागमेन मा नयसे मोदगिरेरधित्यकाम् ।
चिरपुण्यफलोदयश्रिया दिवसो वै[८०६]जननस्तदेष मे ॥ २३ ॥
 अन्वर्थता मालिनि तेऽभिधाया
  कुतो न जागर्त्यधुना कचेषु ।
 [८०७]तस्या प्रतीपोदितवर्णपङ्क्ते-
  रर्थोऽथ वालकरण ह्यमीषु ॥ २४ ॥


 इदमिति । हारिणस्य कुरङ्गस्येव अक्षिणी यस्य स्तस्या सबुद्धि हे हरिणाक्षि द्रौपदि, इद सद्म एतद्रहमेव मद्रृहेष्विति शेष । भद्रभद्र अत्यन्तशुभसपन्नम् । ना न्यदित्यर्थ । हिरवधारणे । यत मद्रृहमिदानीं तव अङ्द्रे मार्दव सौकुमार्य जानातीति तज्ज्ञम्। भवच्चरणन्यासधन्यमित्यर्थ । किच अय अहमपि धन्यधन्य अत्यन्त भाग्यवानसि । उभयत्र वीप्साया द्विर्भाव । यत योऽह तव अपाङ्गस्य नेत्रान्त भागस्य गोचर विषयोऽस्मि । त्वत्कटाक्षवीक्षितोऽस्मीत्यर्थ । अत्र द्वितीयचतुर्थचाक्याथान्या भद्रखधन्यखातिशययो समर्थनाद्वाक्यार्थहेतुककाव्यलिङ्गद्वय- ससृष्टि । औपच्छन्दसिकम् ॥ २२ ॥

 नतेति । किच है नतगात्रि धनस्तनभारनम्राङ्गि, त्व यत् यस्मात् कारणात् आगमेन स्वयमेवात्रागमनेन मा मोदस्य सतोषस्यैव गिरे अद्रे अधित्यका ऊर्ध्वदेश नयसे प्रापयसे । सान्द्रानन्दतुन्दिल करोषीत्यर्थ । तत् तस्मात् एष ईदृशसतोषदायक दिवस वासर मे मदीयाना चिरपुण्याना अनेकजन्मसुकृताना य फलस्य उदय उत्पत्ति तस्य श्रिया समृद्धीना वैजनन प्रसूतिदिवस भवति । ’घटो नीलघट’ इत्यादिवद्विधेयकोटावधिकावगाहनान्न बोधानुपपत्ति 'सूतिमासो वैजनन ’ इति कोशे मासशब्द पक्षदिवसादेरप्युपलक्षक इति ध्येयम्। ‘फलाङ्कुर-'इतिपाठेऽप्युक्त एवार्थ । (अत्राप्युत्तरवाक्यार्थहेतुक काव्यलिङ्गम् ॥२३॥

 अन्वर्थतेति । मालिनीति द्रौपद्या सैरन्ध्रीरूपाया नाम। किच हे मालिनि, ते त्वदीयाया अभिधाया मालिनीति सज्ञाशब्दस्य अन्वर्थता माला अस्या अस्तीति व्युत्पत्तिसिद्ध मालारूपोऽवयवार्थ । कचेषु केशेषु । त इत्यत्राप्यनुषज्यते। अधुना कुतो हेतो न जागर्ति न स्फुरति। अथवा मालाधारणे विचारो न कार्य एवेत्यर्थ । हि यस्मात् कारणात् तस्या त्वदीयाया सबन्धिन्या प्रतीप विलोम यथा तथा नीलिमा' इत्येवमुदितानामुच्चारिताना वर्णाना उक्ताना अक्षराणा पङ्क्ते नीलिमेत्यात्मिकाया अर्थ नैल्यमेव अमीषु कचेषु अलकरण भूषण भवति । तत् तस्मादिति योज्यम् ।


बाह्वोरनङ्गदत्वस्य बाले ते कारणे उभे ।
एक तयोस्तु लावण्यमितरन्नावगम्यते ॥ २५ ॥
 अरम्यभाव भजते जगत्या-
 मद्धेषु किचिद्विकलोऽपि लोक ।


निसर्गसुन्दराणा भारायैव भूषणानीति भाव । अत्र माल्य कुतो न धृतमिति खोक्तस्यैव नैल्यसत्ताविचारणेनाक्षिप्तत्वादाक्षेपालकार । ‘आक्षेप स्खयमुक्तस्य प्रतिषेधो विचारणात्’ इति लक्षणात् ॥ २४ ॥

 बाहोरिति । किच हे बाले, ते तव बाह्वो अनङ्ग मन्मथविकार दत्त कुरत इत्यनङ्गदैौ, अङ्गदाभ्या केयूराभ्या रहितौ अनङ्गदौ च । तयोर्भाव अनङ्गदत्व द्विविवस्य तस्य कारणे अपि उभे द्वे भवत । के इत्यत आह-एकमिति । तयो कारणयो दूयो मध्ये एक कारण तु लावण्य शोभानैगनिग्यम् । ‘मुक्ताफलेषु च्छायायास्तरलत्वमिवान्तरा । प्रतिभाति यदङ्गेषु तल्लावण्यमिहोच्यते ॥' इति निरु त्या अवगम्यते दृश्यते । मयेति शेष । तथा च लावण्यरूपकारणसत्त्वादुचितमेवैकविधमनङ्गदत्वमनयोरिति भाव । इतरत् द्वितीय कारण गर्भधारण तु नावगम्यते इति परिहासोक्ति । अत्र ‘दर्शने दौहृदातौं च द्वयोरासीदनङ्गदा' इति तृतीयस्तबके ग्रन्थकृतैव लावण्यगर्भधारणयो श्लेषभित्तिकाभेदाध्यवसितेऽनङ्गदत्वे कारणत्वेनोपन्यस्तत्वात् इतरत् गभधाणमिति व्याख्याने नास्मासु चोद्यावकाश । अत्र यद्यप्यङ्गदराहित्येऽपि लावण्यस्य कारणत्व वक्तु शक्यम्, तथापि ‘न कान्तमपि निर्भूष विभाति वनिताननम्’ इति रसिकसमाजप्रसिद्धथा उद्दीपनविभावविधया क्ष्टङ्गारे भूषणधारणस्यात्यावश्यकत्वादुक्तस्यैव गर्भधारणस्य तत्र कारणत्व ग्रन्थकृदभिप्रेतमिति ध्येयम् । अत्र लावण्यानङ्गदानयो हेतुहेतुमतोरुक्त्या हेत्वलकारस्य विनापि कारण गर्भधारण अङ्गदराहित्यरूपकार्यस्य वर्णनाद्विभावनायाश्च अङ्गदराहित्यानङ्गदानयो श्लेषभित्तिकाभेदाध्यवसायमूलातिशयोक्तेश्च तिसृणा ससृष्टि । यत्तु ‘मन्मथप्रदान एव कारणद्वयम्’ इति, ‘मन्मथप्रदानाङ्गदराहित्ययो क्रमेण कारणद्वयम्’ इति च द्विधा व्याख्याय प्रथमे मन्मथप्रदस्य लावण्यस्यानङ्गदानकार्योपक्षीणत्वेन एकस्य कारणस्य कार्यद्वयोत्पादनासमथत्वेन च त्वद्वाहोर्म न्मयप्रद्त्व निष्कारणमेवेत्यर्थ । तथा च तव बाहुरलकार विनापि मन्मथोद्रेककर इति द्वितीयो लोके भर्तुराहित्य अङ्गदादिधारणाभावे कारण मयि भर्तरि सति किमर्थमझदधारण न कृतमिति च पृष्टवानिति च भावार्थवाह नृसिंह , तत् किं केन सगतमिति सहृदया एवाकलयन्तु, पर त्वीदृशस्याप्यविदुरूहस्य चम्पूभारतस्य व्याख्याने प्रवृत्त्या सर्वतो बलवतीं मन्यामहे स्वात्मसभावनामिति ॥ २५ ॥

 अरम्येति । किंच हे बाले,जगत्या लोके लोक जन अङ्गेषु करचरणादिषु । कस्मिंक्ष्चिदिति शेष । किंचित् ईषन्मात्रेणापि निकल न्यून सन् अरम्यस्य असु-


[८०८]सदृश्यसे त्व निखिलेन बाले
 मध्येन हीनापि मनोज्ञमूर्ति ॥ २६ ॥
न पल्लवस्तन्वि न विद्रुमश्च
 ताम्रोऽधरोऽय तव बिम्बमेव ।
चन्द्रो यदि स्यात्तव वक्रमेत
 च्चन्द्रस्य बिम्य सहज हि लोके ॥ २७ ॥
कान्ते तवाननमिद कमलावलीषु
 स्रष्ट पुरा सरसि विस्मृतमेव धात्रा ।
पश्चाद्विचि[८०९]न्तितवता तदुपान्तभागे
 [८१०]सदृश्यते विरचित खलु हसपाद ॥ २८ ॥


न्दरस्य भाव अरम्यत्व विरूपत्व भजते प्राप्नोति । त्व तु निखिलेन यावता मध्येनाङ्गेन हीना शून्यापि सती मनोज्ञा रम्या मूति शरीर यस्यास्तथोक्ता सदृश्यसे । ‘निरीक्ष्यसे’ इति वा पाठ । उभयत्रैक एवार्थ । मयेति शेषश्च । अत्रारम्यत्वकारिण यावन्मध्यवैकल्यस्य तद्विरुद्धरम्यत्वसाधकत्वेन वर्णनादूयाघातालकार । यावन्मध्यवैकल्यासबन्धेऽपि तत्सबन्धरूपातिशयोक्तत्युज्जीवित इति द्वयोरङ्गाङ्गिभावेन सकर । तेन लोकैकविलक्षणं भवदीयलावण्यमिति प्रतीतेरलकारेण वस्तुध्वनि ॥ २६ ॥

 नेति । किच हे तन्वि, ताम्र अरुण तव अय अधर न पल्लव न विद्रुश्च कितु बिम्ब बिम्बफलमेव मण्डलमेवेति च । कथमेतदत आह-चन्द्र इति । तवैतद्वक मुख चन्द्र स्याद्यदि । हिरवधारणे । तर्हि-चन्द्रस्यैव बिम्ब मण्डल बिम्ब फल च सहजम् । नान्यस्येत्यर्थ । अत्र मुखचन्द्रयोर्मेदेऽप्यभेदातिशयोक्तिरेका । अस्मिन्नेव वाक्यार्थे मुखस्य बिम्बवत्ता साहजिकत्वसिद्धये मुख चन्द्र यदि स्यादित्यूहात्मक सभावनालकार । दूयोश्चैकवाचकानुप्रवेशसकर । तेन च युक्तयुपन्यासरूपेणा वरे विद्रुमत्वपल्लवत्वे निषिध्य बिम्बत्वारोपरूपाया हेत्वपहुतेरुज्जीवना- दनयोरङ्गाङ्गिभावेन सकर ।इद तु रहस्य मण्डलबिम्बफलयो श्लेषभित्तिकाभेदाध्यवसायमूलाया अतिशयोक्तौ सत्यामेव हेत्वपहुते प्रचारेणैतयोरङ्गाङ्गिभावेन सकरस्यैवोक्तसकरोज्जीवितत्वात्सकरयोरेव दूयोरङ्गाङ्गिभावेन सकर इति । यत्तु ‘बिम्बशब्दस्य श्लिष्टार्थत्वादुत्तरार्धेनार्थान्तरन्यासरूपेण तस्य मण्डलार्थकत्वसमर्प णमेव करोति’ इति उत्तरार्धावतरणिका नृसिंहो विकिलेख, तत्तस्य ‘नालकारोऽत्र लिरव्यते इत्यत्र व्यञ्जनागमलकारमौढथ विशदयतीति २७ ॥

 'कान्ते इति । किंच हे कान्ते, तवेदमानन मुख सरसि पद्माकरे कमलाना


कूपस्य तीरे निवसन्नपाय को वा न धत्ते वद् कोमलाङ्गि । त्वन्नाभिकूपस्य व[८११]सन्हि तीरे न दृश्यते सप्रति मध्यभाग ॥ २९ ॥

अक्षीणवक्रशशिसेवनलाभतोषा-
 दालिङ्गितामिव मिथो रजनेस्त्रियामीम् ।
त्रेधा विभज्य रचिता वहसेऽ[८१२]ध वेणीं
 क सिहसहननमूहयितु वियुक्तम् ॥ ३० ॥


आवलीषु पठ्क्तिषु । तन्मध्य इत्यर्थ । स्रष्टु निर्मातु पुरा सृष्टिकाले वात्रा ब्रह्मणा विस्मृतमेव । पश्चात् कमलसृष्टथनन्तर विचिन्तितवता असृष्ट्वैवाहो मालिनीमुख किमित्येतान्येव सृष्टानीत्यालोचितवता अतएव धात्रा विरचित निर्मित हस पाद विस्मृतमन्यत्र निमाय अत्रैतद्विस्मृतमिति सूचको लिपिविशेष हसाना पादन्यासश्च तासा कमलावलीना उपान्तभागे समीपदेशे सदृश्यते । लोकैरिति शेष । तदुपान्तभागे विरचित इति वा योजना । खल्वित्यवधारणे । अत्र विस्मृतिसूचकलिपिविशेषस्य हसचरणन्यासस्य च दूयो श्लेषभित्तिकाभेदाध्यवसायमूला तिशयोक्तयनुप्राणित कमलावल्य वातृविस्मृतमालिनीमुखरहिता हसपादव त्त्वादित्यनुमानालकार इति द्वयो सकर ॥ २८ ॥

 कूपस्येति । किच हे कोमलाङ्गि, कूपस्य तीरे निवसन् निवास कुर्वाण को वा जन अपाय उपद्रव उत्पतन न वत्ते न प्राप्नोति । सर्वोऽपि धत्त एवेत्यर्थ । बद त्व ब्रहि । वाक्यार्थ कर्म । सामान्येनोक्तमर्थ विशेषेण समर्थयति-त्वदिति । हि यस्मात्तव नाभेरेव कूपस्य तीरे वसन् मध्यभाग सप्रति न दृश्यते । मयेति शेष । अत्रार्थान्तरन्यासेन नाभेरतिगाम्भीर्यप्रतीतेरलकारेण वस्तुध्वनि । अत एवात्र नाभिवर्णनमात्रे तात्पर्यान्नारम्यभावमित्यनेन पौनरुक्तयम् । ‘त्वन्नाभिकूपस्य वस न्हि तीरे' इत्येव पाठ । ‘तटेनिवासी’ इति पाठे तीरपदार्थस्य तटपदेन परामर्शे पर्यायभङ्गाख्यदोष इति ॥ २९ ॥

 अक्षीणेति । किच हे मालिनि, त्रेधा त्रिविध विभज्य भङ्गीकृत्य रचिता अतएव अक्षीणस्य सर्वदा पूर्णस्य वक्रस्यैव शशिन सेवन भजन तल्लाभेन यस्तोष सतोष तस्मात् मिथ अन्योन्य आलिङ्गिता आश्लिष्टा रजने रात्रे सबन्धिनी त्रयाणा यामाना समाहार त्रियामामिव स्थिता वेणी केशपाश सिंहस इनन वराङ्गरूपसपन्न क वन्य अद्य वियुक्तम् । त्वयेति शेष । ऊहयितु अनुमातुम्। लोकैरिति भाव । वहसे । प्रोषिते भर्तरि वेणीवारणस्मरणादत्रेय केनचिदन्येन वियुक्ता वेणीधारणादित्यनुमानालकार । त्रियामत्वोत्प्रेक्षया ससृष्ट प्रथमचतुर्थया मयो पूर्वार्धपश्चार्धदूयस्यहन्येव परिगणनाद्रात्र्यास्त्रियामत्वमिति क्षीरस्वामी॥३०॥


सुदति बहुपरागधूसरापि त्वमपहरस्यधुना मनो मदीयम् ।
रतिरिव हरकोपदह्यमानस्मरतनुधूम[८१३] लवावृताखिलाङ्गी ॥ ३१ ॥
त्वामुल्लसद्विम्बफलाधरा मे मामप्यनङ्गशुगमर्दित ते ।
विशङ्कमस्मिन्वि[८१४]जने प्रदेशे पद्मनने पातुमय हि काल ॥ ३२ ॥

 इति तस्य तादृश वचनमाक[८१५]र्ण्यापि चित्तचम्पकमञ्जरीचञ्चरीकायमाणपञ्चशरवि[८१६]कारा पाञ्चाली गिरमिमा स्मररागतिमिरकौमुदीमुदीरयामास ॥


सुदतीति । शोभना दन्ता यस्या सवृद्धि हे सुदति, बहुना सान्द्रेण परा गेण रजसा धूसरा मलिनापि त्व हरस्य शभो कोपेन । तत्प्रसारितफालनयनानलेनेत्यथ । दह्यमानाया स्मरतनो मन्मथशरीरस्य सबन्धिन धूमस्य लवै लेश्त्रै आवृत अङ्ग यस्यास्तथोक्ता रति मन्मथपत्नीव अधुना मदीय मन अपहरसि। अत्र द्रौपद्यास्तथाविधरत्युपमया कीचकस्य हरकोपदह्यमानमदनोपमाया तया च तस्येवास्यापि सनिहितायुरवसानस्य च प्रतीतेरलकारेणालकारवस्तु द्वयध्यनि । ‘अर्था प्रोक्ता पुरा तेषामर्थव्यञ्जकतोच्यते’ इति काव्यप्रकाशे त्रिविधस्याप्यर्थस्य व्यञ्जकत्वप्रतिपादनाह्यङ्गयस्यालकारस्य वस्तुच्यञ्जकत्व नानु पपन्नम् । पुष्पिताग्रा ॥ ३१ ॥

 विवक्षित चार्थमावेदयति-त्वामिति । किच हे पद्मानने, मे मम उल्लसन्, बिम्बफलमिव अधरो यस्यास्ता त्वा पातुम् । त्वदधरमास्वादयितुमित्यर्थ । ते तव अनङ्गाशुगै मन्मथबाणै मदित पीडित मामपि अस्मिन्विजने प्रदेशे एकान्ते विशङ्क नि शङ्क यथातथेति पदद्वय पूर्वत्रापि योज्यम् । पातु रक्षितु अयमेव काल । हिरेवकारार्थ । अहो देशकालावप्युक्ताथऽनुकूलावित्यावयोर्भग्यमनन्यादृशमिति भाव । अत्र बिम्बाधरत्वानङ्ग बाणमर्दनैकान्तै तत्काले पानावसरत्वसमर्थनादने कपदार्थहेतुकस्य काव्यलिङ्गस्य बिम्बाधरेत्युपमाया श्लेषभित्तिकालब्धपानरक्षणाभेदाध्यवसायमूलातिशयोक्ते उक्तक्रियाद्वययौगपद्यात्मकसमुच्चयस्य च चतु र्णामेकवाचकानुप्रवेशसकर ॥ ३२ ॥

 इतीति । इति उक्तप्रकारेण तादृश स्मरविकारकृत तस्य कीचकस्य तस्य कीचकस्य आकण्र्यापीत्यपिना किमुतानाकर्णन इति ध्वन्यते । चित्तस्यैव चम्पकमञ्जर्या चम्पकगुच्छस्य चञ्चरीक भृङ्ग इवाचरतीति चञ्चरीकायमाण । दूरीभूत इति यावत् । पञ्चशरस्य मन्मथस्य सबन्धी विकार यस्यास्तथोक्ता पाञ्चली द्रौपदी स्मग्रागस्य मन्मथविकारस्येव तिमिरस्य कौमुदी चन्द्रिकाम्। तन्निरसनी इति परम्परितरूपकम् । इमा वक्ष्यमाणा गिर वाच उदीरयामास उक्तवती । अत्र तादृग्वचनाकर्णन रूप-


 अन्त पुरेषु विहरन्नयि कीचक त्व
  सैरन्ध्रये स्पृहयसीति विगर्ह्य[८१७]मेतत् ।
 रम्येषु कल्पकुसुमेषु चरन्द्विरेफो
  रज्येत कि पितृवनद्रुमगुच्छिकायाम् ॥ ३३ ॥
[८१८]प्रत्याय्यते चपलता प[८१९]तिपत्नीषु या हठात् ।
इष्टार्थसिद्धे प्रागेव दिष्टान्त दोग्धि सा नृणाम् ॥ ३४ ॥
गन्धर्वा सन्ति मे कान्ता बाधते यान्स्मरोऽनिशम् ।
स्वामिख्या खास्त्रसख्याच वहन्तीतीर्ष्यया किल ॥ ३५ ॥


सामग्रीसत्त्वेऽपि स्मरविकारानुदयवर्णनविकारात्मकविशेषोक्त्या स्सरविकारस्य कारितवाक्कथनसमर्थना त्मकपदार्थहेतुककाव्यलिङ्गोज्जीवनात्तयोरङ्गाङ्गिभावेन सकर रूपकेण सस्कृष्ट । तेन च लोकोत्तरमस्या पातिव्रत्यमिति प्रतीतेरलकारेण वस्तुध्वनि ॥

 अन्तरिति । अयि कीचक, अन्त पुरेषु विहरन् अन्त पुरस्त्रीभि सह क्रीडन् त्व सैरन्ध्रये दास्यै स्पृहयसि ता कामयसीत्येतत् सैरन्ध्रीस्पृहण विशेषेण गर्ह्य निन्द्यम् । तत्र दृष्टान्तयति--रम्येष्विति। रम्येषु लोकोत्तरमकरन्दसौरभादिना मनोज्ञेषु कल्पस्य वृक्षस्य कुसुमेषु चरन् रसान् अनुभवन् द्विरेफ भ्रमर पितृवनद्रुमस्य श्मशानवृक्षस्य गुच्छिकाया पुष्पगुच्छे रज्येत अनुरक्तो भवेत् किम् । न रज्येतैवेत्यर्थ । अत्र सैरन्ध्रीश्मशानतरुमञ्जर्यो लोकनिन्द्यत्वेन बिम्बप्रति बिम्बभावात् दृष्टान्तालकार --–‘चेद्विम्बप्रतिबिम्बत्व दृष्टान्तस्तदलकृति' इति लक्षणात् ॥ ३३ ॥

 प्रत्याय्यत इति । किच हे कीचक, या चपलता पराङ्गनानुरक्ति पतिपत्नीषु पतिव्रतास्वपि विषये हठात् बलात् प्रत्यारयते सक्राम्यते।नृभिरित्यर्थाल्लभ्यते । सा पतिव्रताविषयकतृष्णा इष्टस्य कामितस्य अर्थस्य सिद्धे प्राक् पूर्वमेव दिष्टान्त मरण दोग्वि जनयति । अनुचितकर्मारम्भस्य मृत्युद्वारेषु परिगणनादिति भाव । अत्रेष्टार्थसमुद्यमादनिष्टावाप्तिवर्णनात् तृतीयविषमप्रभेद । ‘पतिपत्नी पतिव्रता' इति स्त्रीभेदेषु, 'दिष्टान्त प्रलयोऽत्यय’ इति चामर ॥ ३४ ॥

 ननु पतिपत्नीषु लोलत्व मृतिदायमस्तु । सैरन्ध्र्या त्वयि साधारणाया लोलत्वान्न कापि मम हानिरत आह--गन्धर्वा इति । किच हे कीचक, मे मम गन्धर्वा गन्धर्वसज्ञा कान्ता पतय सन्ति । यान् मत्कान्तान् स्वस्य अभिख्या शोभा स्वस्य अस्राणा बाणाना सरया पञ्चत्व च एते वहन्ति । इत्युक्तप्रकारया


दोष्मतामवतसास्ते स्वरूप नैव केवलम् ।
गोपायन्त्यप्रमादेन परेभ्यो मा च मानिन ॥ ३६ ॥
तदध पथि वामेऽस्मिन्सप्रतिष्ठास्यसे यदि ।
ते तु त्वा चारयिष्यन्ति दक्षिणे विधृतक्रुध ॥ ३७ ॥
इत्यूचुषी सा महिषी कुरूणा शेमुषीमती ।
सद्यो निववृते तस्माच्चित्तवृत्तिरिवात्मन ॥ ३८ ॥
यथा यथास्या धावन्त्या रिङ्खणेन पदोर्युगम् ।
तथा तथा रुषारुण्य तस्याधत्त दृशोरपि ॥ ३९ ॥
  


ईर्ष्यया । किलेति सभावनायाम् । अक्षमयेवेत्युत्प्रेक्षा।स्मर मन्मथ अनिश सर्वदा बाघते,तथा चाहमपि पतिपत्नीति मयि लोलत्वमुक्तफल जनयत्येवेति भाव ॥३५॥ ननु 'विशङ्कमस्मिन्विजने प्रदेशे’ इत्युक्तत्वादिहाद्य का तञ्चिन्तेत्यत आह- दोष्मतामिति । किच हे कीचक, दोष्मता बाहुबलशालिना अवतसा शिरो भणय । लोकोत्तरबाहुवीर्या इति यावत् । ते मत्पतय गन्धर्वा परेभ्य स्वेषा रूप आकारमेव केवल मुख्य यथा तथा न गोपायन्ति न रक्षन्ति । परैर्हश्या न भवन्तीत्यर्थ । अज्ञातवाससमयादिति भाव । कितु मानिन प्रशस्तमानवन्त । प्रशसायामिनि । अतएव ते अप्रमादेन पुरेभ्य दु शीलभ्य भवादृशेभ्य च मामपि गोपायन्ति । मत्पतयोऽदृश्या अत्रैव वर्तमाना इत्यर्थ ॥ ३६ ॥

ननु सिहबल मा वराकास्ते कि कुर्वन्तीत्यत आह--तदिति । किच हे कीचक, तत् तस्मात्। तेषामत्रैव वर्तमानाद्धेतोरित्यर्थ । अस्मिन् उक्तविधे अतएव वामे अनुचिते सव्ये च पथि मार्गे परदाराभिमर्शनरूपे । अद्य त्व सप्रतिष्ठास्यसे यदि सचारिष्यसि चेत्।सप्रतिपूर्वात्तिष्ठते कर्तरि लृट् तड् मध्यम । तहि ते मत्प तय गन्धर्वास्तु विधृता कुत् क्रोध यैस्तथोक्ता सन्त त्वा दक्षिणे यमपुरानुसा- रिणि मार्गे चारयिष्यन्ति गमयिष्यन्ति । मारयिष्यन्तीत्यर्थ ॥ । ३७ ॥ इतीति । इति उक्तप्रकारेण ऊचुषी भाषमाणा अतएव शेमुषीमती सद्- सद्विवेचकत्वेन प्रशस्तबुद्धिमती। प्रशसाया मतुप् ।‘वी प्रज्ञा शेमुषी मति’ इति बुद्धिपर्यायेष्वमर । सा कुरूणा महिषी कृताभिषेकपत्नी द्रौपदी। ‘कृताभिषेका महिषी’ इत्यमर ।आत्मन खस्य चित्तवृत्तिरिव तस्मात् । कीचकात्। त विहायेति ल्यब्लोपे पञ्चमी। सद्यो निबनते प्रतिनिधृत्तवती । वर्तते कर्तरि लिट्। अत्र द्रौपदी- चित्तवृत्त्यो कीचकान्निवृत्त्या सादृश्यस्य गम्यत्वात्तुल्ययोगिताभेद ॥ ३८ ॥

यथेति । धावन्त्या कीचकभयाहुत गच्छन्त्या अस्या द्रौपद्या पदो पादयो युग द्वन्द्व रिङ्खणेन स्खलनेन प्लुतगमनेन । दृढविक्षेपेणेति यावत् आरुण्य यथा यथा


१ ‘अपि धृतक्रुध ’ इति पाठ • २ ‘अचिषी’ इति पाठ

कृष्णा ततस्तेन कृतान्तभासा केशे गृ [८२०]हीता भुवि पातिता सा
पर्यायबद्बोद्यमविश्रमाभ्या पद्भथा कराभ्यामपि पर्यभावि ॥ ४० ॥
अहारभीत्येव तदा मृगाक्ष्या नाडया काचिद्यान्तरधत्त सज्ञा ।
उद्गम्य सा दूरगते प्रहर्तर्युद्धाटयामास दृशौ चिराय ॥ ४१ ॥
  

 तदनु शनै शनैरुत्तस्थुषी धरातलपरागधूसरिमतिरोहितदीधितितया वासरापलपितमहौषधिलतेव विलुलितचूर्णकुन्तलतया चक्रवाताकुलीकृतवालपूलिकाच‘अपलापितमहामहौषधि’ इति पाठभरीमृगीव सूतान्ववायजनपदस्य प्रथमामीतिबाधामिव बाष्पधारामुत्सृजन्ती कचिदपि[८२१] शरणमलभमाना सा याज्ञसेनी मन्द मन्द तदेव भ[८२२]वनमभिजगाम ॥


आधत्त अबिभ्रत् तथा तथा तस्य कीचकस्य दृशोर्युग नेत्रद्वन्द्वमपि स्षा कोपेन मामप्यवधीरयतीय वराकीत्यात्मकेन आरुण्य आवत । अत्रापि पादयुगनेत्रयुगयो आरुण्यधारणेनौपम्यस्य गम्यत्वात्केवलप्रकृतास्पदस्तुल्ययोगिताभेद ॥ ३९ ॥

 कृषणेति । तत कोपोदयानन्तर कृतान्तस्य यमस्येव भा रूप यस्य तेन कीचकेन । केशे इति जात्येकवचनम् । गृहीता भुवि पातिता सा कृष्णा द्रौपदी पर्यायेण क्रमेण बद्धौ स्वीकृतौ उद्यम ताडनोद्योग विश्रम विश्रान्तिश्च तावुभौ याभ्या ताभ्या पभ्धा पादाभ्या कराभ्यामपि हस्ताभ्यामपि पर्यभावि तिरस्कृता । प्रथम पभ्धा पश्चात् कराभ्यामेव क्रमेण ताडयते स्मेत्यर्थ । क्रुद्धा कि कि न कुर्वन्तीति भाव ॥ ४० ॥

 प्रहारेति । मृगाक्ष्या द्रौपद्या या सज्ञा चेतना तदा प्रह्राराद्भीत्येवेत्युत्प्रेक्षा । क्कचित् दुर्जेयाया नाड्या जीवधातौ अन्तरवत्त अन्तर्हिता अभूत् , सा सदा प्रहर्तरि ताडके कीचके दूर गते सति चिराय उद्गम्य नाडया बहिरागत्य दृशौ द्रौपद्या नेत्रे उद्धाटयामास उन्मोलयामास । कीचकप्रहारमूर्च्छिता चिरात् सज्ञामुपलभ्य द्रौपदी लोचने उन्मीलितवतीत्यथ ॥ ४१ ॥

 तदन्विति । तदनु नेत्रोन्मीलनानन्तर शनै शनैरुत्तस्थुषी उत्थिता वरातलस्य भूमिप्रदेशस्य परागेण य धूसरिमा मालिन्य तेन तिरोहिता आच्छादिता दीधिति कान्ति यस्यास्तस्या भाव तत्ता तया वासरेण अट्ला अपलपित तिरोहित मह तेज यस्या सा महौषधिलता ज्योतिर्लतेव स्थिता विलुलिता स्रस्ता चूर्णकुन्तला अलका यस्यास्तस्या भाव तत्ता तया चक्रवातै आवर्तवायुभि आकुलीकृता वालपूलिका लोमसचय यस्या सा चमरी नाम मृगीव स्थिता । सूतस्य कीचकस्य अन्ववाय वश एव जनपद देश तस्य प्रथमा ईतिबाधा


दृष्ट्वा ता ज्ञातवृत्तान्तो देव्या गेहे चरञ्जन ।
नयनाम्भो विमुमुचे न तु किचन भाषितम् ॥ ४२ ॥
साय महानसशय शनकैर्ययौ सा
 भीम रह पृथुशरावकृतोपधानम् ।
धूमाधिरोहमलिन वसन वसान
 नीलाम्बुवाहपरिवीतमिवाचलेन्द्रम् ॥ ४३ ॥
निश्वस्य दीर्घमियमन्तिकमावसन्ती
 स्पृष्टेन [८२३]बाष्पमुकुलै कुचयो स्खलद्भि ।
बुद्धेन तेन किमिद व्यसन तवेति
 पृष्टा सगद्गदमुवाच विषण्णचेता ॥ ४४ ॥


अतिवृष्टिमिव स्थिता बाष्पधारा उत्सृजन्ती वर्षन्ती क्कचित् कुत्रापि शरण रक्षितार अलभमाना अप्राप्नुवन्ती सा कीचकताडिता याज्ञसेनी द्रौपदी तदेव भवन सुदेष्णान्त पुरं प्रति मन्द मन्द अभिजगाम प्राप्तवती । उत्प्रेक्षात्रयस्य ससृष्टि । ‘अतिदृष्टिरनावृष्टि शलभा मूषिका शुका । अत्यासन्नाश्च राजान षडेता ईतय स्मृता ॥’ इति ॥

 ह्ष्ट्वेति। ता तथाविधा द्रौपदी दृष्ट्वा ज्ञात वृत्तान्त कीचकताडनरूप येन तथोक्त देव्या सुदेष्णाया गेहे अन्त पुरे चरन् जन परिजन नयनाम्भ बाष्प विमुमुचे ववर्ष । किचन एकमपि भाषित वचन तु न मुमुचे । नोवाचेत्यर्थ । सुदेष्णाभयादिति भाव ॥ ४२ ॥

 सायमिति । अथ सा द्रौपदी सायम् । रात्रावियर्थ । पृथुना शरवेण पात्रविशेषेण कृत उपधान शयनशिरोदेश्यतूलदिनिर्मितयन्त्रविशेषो यस्मिन्कर्मणि तत्तथा महानसे पाकस्थाने शेते इति शयम् । निद्रालुमित्यर्थ । धूमस्य अधिरोहेण व्यापनेन मलिन वसन वस्र वसान दधत अतएव नीलेन अम्बुवाहेन मेधेन परिवीत वेष्टित अचलेन्द्र शैलराजमिव स्थितमित्युत्प्रेक्षा । भीम प्रति रह एकान्ते शनकै मन्द ययौ । अन्यथा परैविज्ञेयतापत्तेरिति भाव ॥ ४३ ॥

 निश्वस्येति । विषण्ण दुखित चेत यस्या सा अतएव दीर्घ यथा तथा निश्वस्य अन्तिक आवसन्ती समीपे वर्तमाना । ‘उपान्वध्याड्वस' इत्याड्पूर्वाद्वसतेराधारस्य कर्मत्वम् । इय द्रौपदी कुचयो स्खलद्भि बाष्पाणि मुकुलानीव तै स्पृष्टेन सिक्तेन अतएव बुद्धेन जागृतवता तेन भीमेन अपि तन्वि, तवेद व्यसन किम्। कुत इत्यर्थ । इति उक्तप्रकारेण पृष्टा सती सगद्रद दु खस्खलिताक्षरं यथा तथा उवाच ॥ ४४ ॥


किमद्य मे दु खमपत्रपा का को वीरपत्नीत्वपदेऽभिमान ।
सर्व गत कीचकनीचषिङ्गाद्ध[८२४] त्वा कच ताडनमाप्तवत्या ॥ ४५ ॥
 मयि दु खेन घुष्यन्त्या मत्याधिपसभान्तरे ।
 तथ्यस्येव यतेरासीद्धर्मसूनोरुपेक्षणम् ॥ ४६ ॥
 बुभुक्षते न जीवन्ती मारितामेव मा नृप ।
 कल्याण खलु तत्तस्य कङ्कभावभृतोऽधुना ॥ ४७ ॥
 तस्यैवाज्ञापथेऽजस्र च [८२५]रता स्खलन विना ।
 भवता खलु नि शङ् प[८२६]रामर्श्या कचेऽपरै ॥ ४८ ॥


 किमिति । हे वीर, कीचक इति नीच षिङ्ग विटाधम तस्मात् कच हृत्वः तत्करे समप्ये ताडनमाप्तवत्या । केशेषु गृहीत्वा तेन ताडिताया इत्यर्थं । मे मम दु ख नाम किम् , अपत्रपा लज्जा नाम का, वीराणा पत्नीत्वपदे भार्यात्वस्थाने अभिमानो नाम क । सर्वत्र किशब्दो निन्दायाम् । ‘कि वितर्के परिप्रश्ने क्षेपे निन्दापवादयो ’ इति विश्व । सर्व उक्तत्रयमन्यत् कुलशीलादिक च गतमेव अत्र कीचताडनेन सर्वलोपसमर्थनात्काव्यलिङ्गभेद ॥ ४५ ॥

 मयीति । किच हे वीर, मयि दु खेन घृष्यन्त्या कीचको मा तताड त्रायध्वमित्युच्चै क्रन्दन्त्या सत्या मत्स्याधिपस्य विराटस्य सभान्तरे आस्थानमण्डपमध्ये धर्मसूनो वर्मराजस्य तथ्यस्य अकृत्रिमस्य यते सन्यासिन इव उपेक्षण औदासीन्य आसीत् । तथ्ययतेर्दारिकसुखदु खोपेक्षास्मरणादिति भाव ॥ ४६ ॥

 बुभुक्षत इति । किच हे वीर, नृप धर्मराज जीवन्तीं मा न बुभुक्षते न भोक्तुमिच्छति न पालयितुमिच्छतीति च । पुन कितु मारिता केनचिन्निहतामेव मा बुभुक्षते इति यत् तत् तथा काङ्क्षण द्विविधमपि अधुना अश्च कङ्कस्य भाव कह्त्व गृध्रुत्व कङ्कसज्ञिक सन्यासविशेष च बिभर्तीति तद्भृत तस्य नृपस्य कल्याण शुभ खलु । गृध्रस्य शवलाभात् यतेर्दारोपेक्षास्मरणाच्चेयुभयत्र भाव । अधुना अज्ञातवाससमये वङ्कभावभृत तस्य तत् कल्याण खलु । अन्यथा अज्ञातवासप्रतिज्ञाभङ्गापत्तेरिति भाव इत्यपि प्राहु । पालनभोजनार्थकाद्भुजे सन्न- न्ताल्लटि बुभुक्षत इति रूपम् । अत्र कङ्कत्वमारणकाह्वयो सन्यासदारोपेक्षयोश्चा नुरूपयो घटनवर्णनात्समालकारद्वयम् । तत्र प्रथम युध्रयत्यो श्लेषभित्तिकाभेदाध्यवसायमूलातिशयोक्तयनुप्राणित इति तयोरङ्गाङ्गिभावेन सकर । अस्य च द्वितीयस्य च एकवाचकानुप्रवेशसकर इति सूक्ष्मदृशाकलनीयम् ॥ ४७ ॥

 तस्येति । किंच हे वीर, तस्य घुष्यन्तीं मामुपेक्षितवत धर्मराजस्यैव आज्ञैपन्था मार्ग तस्मिन् स्खलन प्रमाद विना अजस्र सतत चरता । तदाज्ञामी-


दु शासनादष्य[८२७]धिकापराध सूतात्मजोऽय न निहन्यते चेत् ।
आद्ये कचग्राहिणि नाशितेऽपि समायुषौ वेणिमवेहि मा च ॥ ४९ ॥
अय बलीयानिति ते मतिश्चेदन्यत्र मा कापि नयस्व भीरुम् ।
अज्ञातवासेऽप्यनुभूयमाने रक्ष्य हि शील कु[८२८]लपालिकानाम् ॥ ५० ॥
   


षदप्यनुल्लङ्घय वर्तमानेनेति समुदायार्थ । भवता प्रयोजकर्त्रा अतएव उदासितव्येनेति शेषात् । अपरै दु शासनकीचकादिभि अह कचे केशेषु नि शङ्क निसशय यथा तथा परामर्श्या ग्राहयितव्या खलु इति काकु । त्वयापि तादृशेनाज्ञातवास भङ्गभीत्या कृच्छेऽतिवतमानाहमुपेक्षणीयैव किलेति साक्रोशोक्ति । अत्रापि ज्येष्ठानुसारिताया तदुपेक्षितद्रौपदीकेशपरामशोर्पेक्षायाक्ष्च कारणस्य कार्यस्य चानुरूपवर्णनाद्वितीयसमप्रभेद । यत्तु ‘नि शङ्का परामृश्ये’ इत्यपपाठे भ्रमेण नि शङ्का स्ववशा कचेऽपरै परामृश्ये सतीत्युत्तरेणैकवाक्यतया व्याख्यातवानृसिह , तत्तस्यैवासबद्धप्रलापिनो हृद्यम् । पर तूक्तपाठोऽपि मृशतौ णिजथमन्तर्भाव्य नि शङ्क गाहयिष्य इति कर्मणि लट सगमनीय (?) ॥ ४८ ॥

 कि बहुनेति विवक्षितार्थमाह--दु शासनादिति । हे वीर, दु शासनात् दुर्योधनानुजादपि अधिक सपादकरताडनेन गुरू अपराब केशग्रहरूप यस्य तथोक अय सूतात्मज कीचक न निहन्यते चेत् त हिस्यते यदि । त्वयेति शेष । आधे प्रथमे कचग्राहिणि दु शासने नाशिते मारिते सत्यपि वेणी दु शासनवधावधिपूर्व बद्धा मा च उभे अपि सम आयुर्ययोस्तथोक्ते अवेहि जानीहि । दुशासने हतेऽपि तद्वधाय बद्धा वेणी अकृते तु कीचकवधे नैव मोक्ष्यामीत्यर्थ ॥ ४९ ॥

 अयमिति । किच हे वीर, अय कीचक वलीयान् मत्त । बलिष्ठ इत्युक्प्रकारा ते तव मतिक्ष्चेत् निश्चयोऽस्ति यदि तहि भीरु व्रतभङ्गभयशीला मा अन्यत्र इतोऽन्यस्मिन् कापि कुत्रचित् कीचकदुज्ञेयदेशे नयस्व । त देश प्रापयेत्यर्थ । नन्बङ्गीकृत्यापि व्रतभङ्ग अज्ञातवासभङ्गभयेनात्रैव स्थास्यतामित्यत आह--हि यस्मात् कारणात् अज्ञातवासे अनुभूयमाने अनुष्ठीयमाने सत्यपि कुल पालिकाना कुलस्त्रीणाम् । ताभिरित्यर्थ । शील सदाचार रक्ष्य तत इति योज्यम् । ‘रमणीजनानाम्' इति पाठेऽनुप्राप्तसत्त्वेऽपि विशेषपरताश्रयणेन लक्षणादोष । ‘निष्प्रयोजनलक्षणाया नेयार्थत्वदोष’ इत्यालकारिका । अत्र शीलसरक्षणावश्यकत्ववाक्यार्थेन द्रौपद्य अन्यत्र नयनसमर्थनात् काव्यलिङ्गभेद ॥ ५० ॥


श्रुत्वा वधूगिर[८२९]मिति स्वपनोपनीत
 शोणत्वमक्ष्णि पुनरुक्तयतो रुषापि ।
तस्याधरोष्ठमुदवेपत निर्गमिष्य-
 त्क्रूराधरावलिविमर्दनशङ्कयेव ॥ ५१ ॥

हिडिम्बकिर्मीरवृहद्रथात्मभूबकादिह[८३०]त्यास्तरतस्त्रपाम्बुधौ ।
निमज्जनायैव[८३१] भुजस्य मेऽधुना सृजस्यमु कीचकसूदनोद्यमम् ॥ ५२ ॥
गदापि सा तिष्ठतु मे गभीरा नियुद्धमात्र मयि निर्मिमाणे ।
क मेघवाह क मालवाह क तार्क्ष्यवाह क महोक्षवाह ॥ ५३ ॥


 श्रुत्वेति । इत्युक्तप्रकारा वध्वा द्रौपथा गिर वाच श्रुत्वा स्वपनेन निद्रया। उपनीत प्रापित अधिण नेत्रे शोणत्व आरुण्य स्षा कोपेन पुनरुक्तयत द्विगुणीकुर्वत तस्य भीमस्य अवरोष्ठमपि निर्गमिष्यता बहिरागामिना क्रूराक्षराणा परुषवचनाना आवल्या पद या विमर्दनात् सघट्टनात् या शङ्का भय तयेवेत्युत्प्रेक्षा। उदवेपत चकम्पे। रुषैवेति भाव। अत्रौष्ठशब्दस्य नपुसकत्व मृग्यामिति “तस्याधर समुदवेपत ’ इति पाठ समञ्जस । वेपते कर्तरि लट् ॥ ५१ ॥

 इत पर श्लोकद्वय सदर्भञ्चै व्यययेन व्यारयायते-- हिडिम्बेति । हे तन्वि, हिडिम्बकिर्मीरौ असुरौ, बृहद्रथात्मभू जरासध , बकोऽसुर , हे आदिर्येषा तेषा दुरात्मना हत्या वधान् तरत वीर्णवत । तत्कर्तुरिति यावत् मे मम सबन्धिन भुजस्य त्रपा झुलवधजन्या लज्जैवाम्युधि समुद्र तस्मिन निमज्जनाय । मज्जयितुमेवेत्यर्थं तुमर्थाचञ्च’ इत्यादिना चतुर्थी।अधुना अमु कीचकस्य क्षुद्रस्य सूदने मरणे विषये उद्यम उद्योग सृजसि जनयसि । तत्तादृग्बलिन हन्तु ममातिलज्जाकर नीचस्य कीचकस्य हननमित्यर्थ । अत्र कीचकहननः लज्जाब्धिमज्जनयो हेतुहेतुमतोरुक्तिरूपो हेखलकार । तरणेन हत्याना महास मुद्रत्वरूपणात्मकैकदेशरूपकेण ससृष्ट त्रपाम्बुधाविति शुद्धरूपकेणोज्जीवितथेति रहस्यम् ।यत्त्वत्र ‘हत्या तरत’इत्यविसर्गपाठभ्रमेण हत्या हननेन तरत तीर्णवत त्रपाम्बुधिमिति विभक्तिपरिणामेन अनुषज्यते इति नृसिंहप्रलपितम्, तत्तस्य । चित्रम् । यत तथानुषञ्जने भीमस्य त्रपाम्बुधे क्षुद्रवधजन्यस्य पूर्वं सत्त्वेन प्रतीत्या पतत्प्रकषदोषापत्तेरिति । वशस्थम् ॥ ५२ ॥

 तदेव कीचक्वधतुच्छत्व व्यञ्जनया स्फुटयति--गदेति । गभीर महासारा अतएव सा प्रसिद्धा गदापि तिष्ठतु आस्तामित्यनादरोक्ति हे तन्वि, नियुद्धमात्र बाहुभ्यामेव युद्ध मयि निर्मिमाणे मुर्वति सति मेघवाह इन्द्र क्क कुत्र । भवेदिति सर्वत्र योज्यम् । मरालवाह ब्रह्मा क्क । तार्क्ष्र्यवाह विष्णु के । महोक्षवाह महेश्वर क । सर्वेऽपि भीता पळायन्त एवेत्यर्थ । अत्र


 तथाप्यौदास्यमेतस्मिन्न[८३२]नौपयिकमेव मे ।
 क्षोदीयानपि बध्यो हि कुलस्त्रीधुड् महीयसाम् ॥ ५४ ॥
 अये तन्वि कि बहुना ।
तस्यासृजा यावकिताडिध्र[८३३]मस्थ्ना चूर्णेन कर्पूरमयाङ्गरागाम् ।
[८३४]कीर्तिमष्याप्यभिलिप्तनेत्रीमलकरिष्ये मम वीरलक्ष्मीम् ॥ ५५ ॥
वीरश्रिय शिल्पमिद मयोक्त यथार्थभावादनुभूय सद्य ।
सैरन्ध्रिकाचारविनोदनेऽपि तवानुसारेच्छुमवेहि भा त्वम् ॥ ५६ ॥


विनैव गदा बाहुयुद्धमात्रेण इन्द्रादीना पलायनवस्तुना का गणना कीचकस्येत्य र्थान्तरापत्त्यात्मार्थापत्त्यलकारप्रतीते वस्तुनालकारध्वनि । उपेन्द्रवज्ञ्रा ॥५३॥

 ननु तर्हि मिहो जम्बुकमङ्कमागतमपि त्यक्त्वा निहन्ति द्विप सर्वं कृच्छूगतोऽपि वाञ्छति जन सत्त्वानुरूप फलम्’ इति न्यायमेवाङ्गीकरोषि । नेत्याह- तथापीति । तथापि । कीचकवधस्य लज्जाकरत्वेऽपीत्यर्थ । एतस्मिन् कीचक सूदने विषये औदास्य उपेक्षा मे मम अनौपयिक अयुक्तमेव । हि यस्मात्कारणात् । क्षोदीयान् अतिक्षुद्रोऽपि कुलस्त्रीभ्यो दुह्यतीति कुलस्त्रीध्रुक् महीयसा महात्मनाम् । बलशालिनामिति यावत् । वध्य हन्तव्य दारापहर्तुराततायित्वेन तद्वधस्य कर णीयत्वेन च स्मरणादिति भाव । तस्मादौदास्यमनौपयिकमेवेति सबन्ध । सामान्येन विशेषसमर्थनरुपोऽर्थान्तरन्यास । यत्तु ‘तथापि यद्यपीत्यर्थ । एत स्मिन् कीचके मे अतिबलशालिन अनपायिक अपायप्रद न भवत्येव, तथापि वध्य एवेत्यर्थान्तरन्यासेनाह--तथाहि । महीयसा अभिमानित्वेन श्रेष्ठाना क्षो दीयान् वरिष्ठोऽपि बलवानपीत्यर्थ 'क्षेपिष्ठक्षोदिष्ठप्रेष्ठगरिष्ठ-' इत्यमर ।’ इति नृसिहस्य विवरणम् , तत्तस्यापपाठात् सदर्भप्रलापशीलस्य न चोद्यम् । परतु कोशमप्यपार्थथाचक्र इत्यागृहीणम । यत क्षेपिष्ठक्षोदिष्ठप्रेष्ठवरिष्ठस्थविष्ठबहिष्टा क्षिप्रक्षुद्राभीप्सितपृथुपीवरबहुप्रकर्षार्था' इति क्रमेण क्षेपिष्ठक्षोदिष्ठादीना शब्दाना प्रकृष्टक्षिप्त प्रकृष्टक्षुद्राद्यर्थकत्वेन क्रमेण गृहीताना पर्यायतास्फोरणादिति क्षुद्रशब्दात्प्रर्षार्थके ईयसुनि रेफलोपपूर्वगुणयो निष्पन्नस्य क्षोदीय शब्दस्य प्रकृष्टक्षुद्रार्थकत्वमव्याजसिद्धम् ॥ ५४ ॥

 अये इति । अग्रे तन्वि हे द्रौपदि, बहुनोक्तेन किं कार्यमित्युत्तरेण योज्यम् ।

 तस्येति । मम सबन्धिनी वीरलक्ष्मी तस्य कीचकस्य असृजा शोणितेन यावकितौ सजातलाक्षौ अङ्घ्री पादौ यस्यास्तथोक्ता किच तस्य अस्थ्ना कीकसाना चूर्णेन कर्पूरमय अङ्गराग विलेपन यस्यास्तथोक्ताम् । अपि च तस्य अकीर्त्या अपकीर्त्यैव मष्या अञ्जनेन अभिलिप्ते अभ्यक्ते नेत्रे यस्यास्तथोक्ता च अलकरिष्ये ॥ ५५ ॥

 वीरेति । अये तन्वि, इद उक्तविध मया उक्त कथित वीरश्रिय शौर्यल


त्वया पुनश्च स्मितपूर्ववाचा प्रत्युत्पतन्येव कटा[८३५] क्षखेलै ।
क्रीडा विधातु क्रियताममुष्य सकेतभूस्ताण्डवमण्डपोऽयम् ॥ ५७ ॥

इत्याश्वासितबत पत्युरनुमत्या पुनरा[८३६]गत्य नैपथ्यभवनमधिशयालोस्त[८३७]स्याश्चेतस पलायमानस्य भयभरस्य सापि विभावरीसहचरी बभूव ॥

 अन्येद्युरेत्य चपल पुन[८३८]रब्रवीत्ता
  सुभ्रु प्रसीद मयि तुल्यनिकारपात्रे ।
 केलीषु हार्दकलहेषु च केशकृष्टि
  पादहति च दधती कुरु वैरशुद्धिम् ॥ ५८ ॥


क्ष्म्या सबन्धि शिल्प अलकार यथार्थभावात् सत्य यथा तथा अनुभूय सम्यकू ह्ष्टवा त्व सद्य तत्क्षण सैरन्ध्रिकाया शिल्पकरिकाया सबन्धिना आचारेण अङ्गनालकरणरूपेण विनोदने क्रीडायामपि मा तव अनुसारेच्छु अनुसरणकामम् । ‘विंदुरिच्छु’ इति साधु । अवेहि जानीहि । स्वानुरूपचेष्टाया प्रेनौत्कव्यादिति भाव ॥ ५६ ॥

 त्वयेति । किंचेति वार्थे । त्वया पुनस्त्वथ । प्रत्युत्पतन्त्या स्वयमेवानुरा गेणागच्छन्त्येव क्टाक्षाणा खेलै प्रसारै सह स्भित पूर्व यस्यास्तया वाचा वाक्येन क्रीडा सभोग वध च विधातु कर्तृ अय ताण्डवमण्डप नर्तनशाला अमुष्य कीचकस्य सकेतभू क्रियताम् । अमुष्य क्रीडामिति वा योजना । तत्रागत हनिष्यामीति भाव ॥ ५७ ॥

 इतीति । इत्युक्तप्रकारेण आश्वसितवत दु खापनोदन कृतवत पत्यु भीमस्य अनुमया निदेशेन पुन आगत्य नैपध्यभवन अलकारशाला अधिशयालो तत्र निद्रायमाणाया तस्या द्रौपद्या चेतस चित्तात् पलायमानस्य भयभरस्य सा विभावरी रात्रिरपि सहचरी अनुयात्री बभूव । द्वयमप्यगच्छदित्यर्थ । अत एव तुल्ययोगिताभेद ॥

 अन्येद्युरिति । अन्येधु परस्मिन् दिने चपल कामाकुलचित्त स कीचक पुन एत्य द्रौपदीसमीपमागत्य ता द्रौपदी प्रति अब्रवीत् वक्ष्यमाणप्रकारेण उवाच । हे सुभ्रु हे सुन्दरभ्रूलते, तुल्यस्य निकारस्य अवमानस्य पात्रे मयि विषये प्रसीद। तुल्य निकार कथयति-केलीष्विति । केलीषु सुरतबन्धविशेषेषु हार्देन प्रेम्णा कलहेषु च क्रमेण केशाना कृष्टि आकर्षण पादभ्या आहति ताडन च दधती कुर्वती सती वैरस्य पूर्वस्मिन् दिने केशग्रहादिजन्यस्य शुद्धिं निर्यातन कुरु ॥ ५८ ॥


 पञ्च सन्तु धवास्तेभ्यो मुञ्च भीति मयि स्थिते ।
 पञ्चवक्रे धने दृष्टे कि चरेयु परे मृगा ॥ ५९ ॥
 मस्तकेऽञ्जलेिपद्मस्य मम सप्रति मा[८३९] निनि ।
 प्रसादृशसिन पाद् प्रयच्छ सहचारिणम् ॥ ६० ॥

 [८४०]त्थमतिवेल [८४१]प्रलपन्तमेन प्रत्यरुचिमुखसाचीकरणे त्रपाहेतुकतामभिनयन्ती सा कुन्तीरन्नुषा तृ[८४२]षाभिभूतेव वचनमिद् किचिदुदञ्चयाच[८४३] कार ॥

 अयि भद्र, जगदिदमारुद्र क्षुद्रयितु[८४४]मनिद्राणाय शम्बरद्रुह शासनमुद्रणाय दुह्यति को वा जन ॥


 ननूक्तमेव ‘पञ्च मे पतय सन्ति ते च न क्षमन्ते' इत्यत आह- पञ्चेति । अयि तन्वि, ते तव पञ्च धवा पतय सन्तु तिष्ठन्तु नाम । मयि सिंहबले स्थिते सति तेभ्य पतिभ्य भीतिं भय मुञ्च त्यज । तत्र दृष्टान्तयतिपञ्चेति । वने पञ्चवक्रे सिहे दृष्टे सति परे मृगा व्याघ्रादय चरेयु किम् । न चरेयुरेवेत्यर्थ । तथा च मा दृष्टवा ते पलायेयुरेवेति भाव ॥ ५९ ॥

 मस्तक इति । हे मानिनि, सप्रति मम मस्तके शिरसि अञ्जलेिपद्मस्य त्वत्प्रसादार्थ बद्धस्य प्रसादस्य शसिन सूचक पाद त्वश्वरणपद्म सहचारिण प्रयच्छ शिरसि निधेहि ॥ ६० ॥

 इत्थमिति । इत्थ उक्त प्रकारेण अतिवेल निर्भर्याद यया तथा प्रलपन्त अनर्थक भाषमाणम् । ‘प्रलापोऽनर्थक वच ' इत्यमर । एन कीचक प्रति अरुच्या जुगुसया यन्मुखम्य साचीकरण तिर्यक्करण तस्मिन् त्रपा लज्जैव हेतुर्यस्य तत्तस्य भाव तत्ता ता अभिनयन्ती प्रकाशयन्ती सा कुन्तीरत्रुषा द्रौपदी तृषा कामेन अभिभूता व्याप्तेव । न वस्तुतो व्याप्तेत्यर्थ । किचित् अत्यल्प इद वक्ष्यमाण वचन उदञ्चवयाचकार । उवाचेत्यर्थ ॥

 अयीति । अयि भद्र हे शुभशील, आरुद्र शिवमभिव्याप्य इद जगत् लोक क्षुद्रयितु स्वीयविकारेण तुच्छ कर्तु अनिद्राणाय जाग्रते शम्बरद्रुह मन्मथस्य सबन्धिने शासनमुद्रणाय आज्ञाचिह्नाय को वा जन द्रुह्यति तत् को वा लङ्घयति । न कोऽपीत्यर्थ । ‘क्त्रुधद्रुह-' इत्यादिना सप्रदानत्वम् ॥


 कि तु इयानेव प्रस्तुते व[८४५]स्तुनि विशेष ॥
स्त्रीपुसयोर्भावनटौ मिथो यौ पूर्वस्तयोर्व्रीडतिर पटेन
चिरायते स्पष्टयितु स्वरूप परस्तु तन्नोत्सहतेऽनुमन्तुम् ॥ ६१ ॥

कि बहुना

गीर्भिस्तवाद्य चतुराभिरुदस्यते भे
 गन्धर्वदण्डनभय त्वदवाप्तिविघ्न ।
तस्माद्भजस्व रतिसौख्यभराय रात्रौ
 भीमे स्थिते तमसि नर्तनगेहमध्यम् ॥ ६२ ॥
तथैव लीला तनवानि तत्र तल्पान्तसीमानमुपेयुषस्ते ।
भूयो यथान्त पुरिकाजनाना व[८४६]क्त्र न पश्येरतिसुन्दराणाम् ॥ ६३ ॥


 ननु तहि किमिति मा निराकरोषि इत्यत आह--किं त्विति । कि तु तच्छासनस्य अनुलङ्घत्वेऽपि प्रस्तुते वस्तुनि मान्मथे विकारे विषये विशेष तारतम्य इयान् एतावानेव ॥

 विशेष प्रपञ्चयति- रत्रीति । स्त्रिया पुसश्च स्त्रीपुसयो मिथ अन्योन्य भावौ अभिप्रायावेव नटौ नाट्यपात्रे यौ भवत , तयोर्दूयोर्मध्ये पूर्व प्रथम स्त्रीभावनट स्वरूप आकार स्पष्टयितु व्रीड लज्जैव तिर पट यवनिका तेन चिरायते विलम्बयति । पर पुभावनटस्तु स्वरूप स्पष्टयितु तत् व्रीडतिर पटेन विलम्बन अनुमन्तु अङ्गीकर्तु नोत्सहते न क्षमते । तुल्येऽप्यनुरागे पुर पुमान् लङ्घते वेलाम् , स्त्रीवनिच्छुरिव सर्वमनुभवन्ती न स्पन्दते मनागपि, इत्येतावानेव विशेष इति पूर्वेण योज्यम् ॥ ६१ ॥

 कि बहुना इत्युत्तरेणान्वय ॥

 गीर्भिरिति । अयि भद्र, बहुनोक्तेन कि कार्यम् । चतुराभि निपुणाभि तव गीर्भि वाक्यै ‘पञ्च सन्तु धवा -' इत्यादिभि त्वदवाप्ते भवत्सागत्यस्य विध्न प्रतिबाधक मे मदीय गन्धर्वे मत्पतिभि दण्डनाद्भय अद्य उदस्यते निराक्रियते । तस्मात् भयनिराकरणाद्धेतो रात्रो भीमे अतिसान्द्रे तमसि अन्धकारे स्थिते सति रतिसौरयस्य भराय अतिशयार्थं नर्तनगेहस्य मध्य भजस्व प्राप्रुहि । तदावयो सकेतस्थानमित्यर्थ । त्वदवाप्तिविघ्न मे मदीयेन गन्धर्वेण दण्डनभय अद्य चतुरा । न तु भीमसनिधानसमय हत्यर्थ । गीर्भि उदस्यते । न बलेनेत्यर्थ । तस्मात् पृथात्मकथनाद्धेतो तमसि भीमे भीमसेने मद्भूमिकामापन्ने स्थिते सति । शेषमुभयत्र सममित्यपि प्राहु ॥ ६२ ॥

 तथेति । किंच तत्र नर्तनगेहे तल्पस्य शरयाया अन्तसीमान चरमप्रदेश


एव मृगाक्ष्या वचनमाक्षिकस्य क्षौद्रषटलीभूतकर्णपुट प्रमोदा- र्णवजलमानुषायमाणहृदय सदनमासाद्य समालम्भनपूर्वेण सलि- लावगाहेन विरजीकृताङ्गोऽयमन्तरिव बहिरप्यवलिप्त , तत पर भगवति निजतनयप्रजावतीमनोरथसिद्धि सपादयितुमिव कम- लबन्धौ चरमसिन्धौ निमग्ने ध्वान्ते निरुध्यमानदिविषद- ध्वान्ते ध्वान्तकदम्बे सभृतसभोगसविधान कीचको नि र्वर्तितराजभोजनपरिवेषणकृत्येन पवमानसूनुना प्रविष्टपूर्व तदेव नर्तनमण्डपसगाहत ॥


तल्पस्य दारसौख्यस्य अन्तसीमान अवसान च । ‘तल्प शय्याट्टदारेषु' इत्यमर । उपेयुष प्राप्तवत ते तव लीला क्रीडा तथैव तनवानि करवाणि । कारकरणी- त्यन्तर्भावितणिजथश्च ग्राह्य । यथा भूय अतिसुन्दराणामपि अन्त पुरिकाज- नाना वक्र न पश्ये नालोकये । तथैवेति योज्यम् । सर्वातिशायिसौख्यलाभात् मरणाच्चेति भाव ॥ ६३

एवमिति । एव उक्तप्रकारस्य मृगाक्ष्या द्रौपद्या सबन्धिन वचनस्यैव माक्षिकस्य मधुन क्षौद्रपटलीभूतौ मधुच्छत्रीकृतौ कर्णपुटैौ यस्य स । ‘मधुगोलो मधुछत्र मधुपात्र क्षौद्रपटल च' इति हलायुध । अतिमधुर तद्वचनमाकर्ण- यन्नित्यर्थ । अतएव प्रमोद एव अर्णवे समुद्रे जलमानुषायमण नीरमनुष्यवदा- चरित हृदय मन यस्य तथोक । आनन्दसान्द्रहृदय इत्यर्थ । सदन गृह आसाद्य प्राप्य पूर्व समालम्भन गन्धरजोभिरङ्गानामुद्वर्तन नाम सस्कार थस्य तेन समालम्भनपूर्वेण सलिलावगाहेन स्नानेन विरजीकृत निर्मलित अङ्ग यस्य तथोक्त अन्त मनसीव बहि बाहेऽङ्गेऽपि अवलिप्त चन्दनेनानुलिप्त गवि- तश्च अय कीचक तत पर स्नानानुलेपनानन्तर भगवति कमलबन्चौ सूर्ये निज तनयस्य कर्णस्य प्रजावत्या भ्रातृजायाया द्रौपद्या मनोरथस्य कीचकवधरूपस्य सिद्धिं सपादयितुमिवेत्युत्प्रेक्षा । चरमसिन्धौ पश्चिमसमुद्रे निमग्ने । अस्त गते सती- त्यर्थ । ध्वान्ते अन्धकारे निरुध्यमान तिरस्क्रियमाण दिविषदा देवाना अध्वान्त आकाशप्रदेश येन तथोके सति । ‘ध्वान्तकदम्बे’ इति पाठ सिन्धौ बन्धाविति पूर्वानुन्नासवैरूप्यादुपेक्ष्य । सभृतानि सम्यग्गृहीताति सभोगस्य सविधानानि उपकरणानि स्नक्चन्दनताम्बूलादीनि येन तथोक्त सन् । निर्वर्तित कृत राज्ञ विराटस्य भोजने परिवेषणकृत्य भुक्तिपात्रे शाकान्नादिसमर्पण येन तेन पवमान- सूनुना भीमेन पूर्व प्रविष्ट प्रविष्टपूर्व तत् । द्रौपद्या सकेतत्वेन निवेदित यत्तदेवेत्यर्थ । नर्तनमण्डप नर्तनगेह अगाहत प्रविष्टवान् । अत्राङ्गाङ्गिभावेन सकीर्णम्य श्लिष्ट-


१ ‘सभारम्भण’ इति पाठ २ ‘तनुज’ इति पाठ ३ निमज्जमाने’, ‘निरु- ध्यमन’ इति पाठौ ४ ‘ध्वा तकदम्बे’ इति नास्ति कचित् ५ ‘भनिवर्तित इति पाठ ६ ‘पवन’ इति पाठ ७ गेहम्’ इति पाठ

 क सालभञ्जिकेवासि [८४७]भालिनि स्तम्भपार्श्वगा ।
 इत्यसौ भीमतल्पान्तमाससाद शनै शनै ॥ ६४ ॥

ततस्त व[८४८]ललोऽपि स्त्रैणसमुचितेन कण्ठस्वरेण मृदुलमेव जगा ।

 वधूशतमनादृत्य मामपेक्ष्य य[८४९]दागत ।
 तत्त्वा बहिर्गतप्राण मन्यते मे मनोऽधुना ॥ ६५ ॥

एवमुक्तवते वृकोदराय कीचक पुनरपि वाच मृदुपदामुप [८५०]था विद [८५१]धे ॥

 गन्धर्वानपि दयितास्तृणाय मत्वा
  मामेव रतिविधये प्रतीक्षसे यत् ।
 देवत्वादपि सुतनु त्वयाधुना मे
  मर्त्यत्व जगति महत्तर हि[८५२] कृल्प्ततम् ॥ ६६ ॥


परम्परितरूपकद्वयस्य श्लेषभित्तिकाभेदाध्यवसितावलेपेनान्तर्वाह्ययो औपम्यगमकस्य तुल्ययोगिताभेदस्य मनोरथसपादनोत्प्रेक्षाया सिन्धौबन्धावित्येकव्यञ्जनावृत्तिरूपधृत्त्यनुप्रासस्य ध्वान्तेऽध्वान्ते इति व्यञ्जनयुग्मापृत्तिरूपच्छेकानुप्रासस्य च अर्थालकारशब्दालकाराणा सजातीयविजातीयाना ससृष्टि ॥

 केति । असौ कीचक हे मालिनि, त्व सालभञ्जिका स्तम्भे कृत्रिमपुत्रिकेव। 'स्यात्सालभञ्जिका स्तम्भे’ इत्यमर । स्तम्भस्य पार्श्वगा पाक्ष्वे वर्तमाना सती कासि कुत्र वर्तसे इति । उक्तप्रकार वदन् सन्निति शेष । भीमस्य तल्पान्त शरयाया समीप प्र्ति शनै शनै आससाद प्राप्तवान् । उत्प्रेक्षा ॥ ६४ ॥

 तत इति । तत शरयाया समीपप्राप्तयनन्तर वलल अज्ञातवासे वलल नाना भीमोऽपि स्त्रैणस्य स्त्रीभावस्य स्मुचितेन कण्ठस्वरेण उपलक्षित त् कीचाक प्रति मृदुल सुकुमार यथा तथा एव वक्ष्यमानप्रकारेण जगाद उवाच ॥

 वध्विति । हे कीचक, त्व मामपेक्ष्य कामयित्वा वबूशत भार्याशत अनाहत्व उपेक्ष्य यत् य्स्मात् आगतईऽसी। तत् तस्मात् मे मदीय मन त्वा अधुना बहिगता मरयेव स्क्ता प्राणा यस्य तथोक्त निष्कान्त्प्रायप्राण च मन्यते तर्कयति । अत्र वधूशतत्यागपूवक आगमनेन भिर्गतप्राणत्वानुमानादनुमानालकार ॥ ६५ ॥

 एवमिति । एव उक्तवते पृकोदराय भीमाय पुनरपि मृदूनि अकुटिलानि पदानि शब्दा यस्यास्ता वाच कीचक उप्धा उपायन विदधे चकार ॥

 गन्धर्वानिति । हे सुतनु शुभगात्रि, त्व दयितान् प्राणप्रियान् गन्धर्वानपि


सुराधिकत्वेऽपि पदे वितीर्णे मह्म तवास्त्येव हि कृत्यशेष ।
कुरुष्व मेरोरधिके कुचे मा सुधाधिक पायय चाधरोष्ठम् ॥ ६७ ॥
 इत्थ स सान्त्ववचनोदयमर्घमञ्च-
  मारोदुमानमितपूर्वतनो स भीम ।
 भुष्टयाहतिं निटिलसीभ्नि चकार शत्रो-
  रायुर्लिपि शिथिलयन्निव धातृदत्ताम् ॥ ६८ ॥
 गम्भीरचेता स तु[८५३] कीचकोऽपि
  गन्धर्वबुद्धया प्रतिहन्तुमेनम् ।
 सद्यो भवित्र्या शवताद्शाया
  साधारणीमेव बबन्ध मुष्टिम् ॥ ६९ ॥


तृणाय मत्वा तृणमिव अनादृत्य । ‘मन्यकर्मण्यनादरे’ इति चतुर्थी । मर्त्य मा एव रातिविघये सभोगार्थ यत् यस्मात् प्रतीक्षसे निरीक्षसे, तत् तस्मात् मे मदीय मर्त्यत्व मनुष्यभाव देवत्वादपि महत्तर अतिक्ष्लाघ्य त्वया अधुना कलृप्त कृतम् । हिरवधारणे । वाक्यर्थहेतुक काव्यलिङ्गम् ॥ ६६ ॥

 सुरेति । किच हे सुतनु, त्वया सुरेभ्य अधिक्त्व यस्मिन् तस्मिन् पदे स्थाने मह्य वितीर्णे दत्ते सत्यपि तव कृत्यस्य कार्यस्य शेष अस्त्येव । हिरवधारणे । स क इत्यतस्तमाह--कुरुष्वेति । मेरो सुराद्रे अधिके कुचे मा कुरुष्व । आलिङ्गस्वेत्यर्थ । सुधाया अमृतात् अधिकम् । माधुर्येणेति भाव । अधरोष्ठ पायय । पिबतेर्ण्यन्तात्कर्तरि लोट् । देवेभ्योऽधिकस्य तदधिकावासाहाराधिक्यावश्यकत्वादिति भाव । अत्रालिङ्गनाधरपानप्रार्थनावाक्यार्थीभ्या कृत्यशेषास्तित्वसमर्थनादनेकवा क्याथहेतुक काव्यलिङ्गम् ॥ ६७ ॥

 इत्थमिति । इत्थमुक्तप्रकारेण सान्त्ववचनाना प्रियवाक्याना उदयेन उच्चरणेन सहित यस्मिन् तत्तथा अर्घमञ्च शयनार्धभाग आरोढु आनमिता इषदावार्जिता पूर्वतनु ऊर्ध्वकाय येन तस्य शत्रो कीचकस्य धात्रा दत्ता लिखिता आयुषो लिपिं शिथिलयन् मार्जयन्निवेत्युत्प्रेक्षा । स भीम निटिलसीम्नि शत्रो फालदेशे मुष्टयाहति ताडन चकार ॥ ६८ ॥

 गम्भीरेति । अथ गम्भीर सुखदु रवयोरविकृत चेत यस्य स अतएव स कीचकोऽपि । तुशब्दो वाक्यालकारे । गन्धर्व ताडितवानेष मालिनीपतिर्गन्धर्व इति बुध्या निश्चयेन एन गन्धर्व भीम सद्य प्रतिहन्तु प्रतिहर्तु भवित्र्या भाविन्या शवतादशया शवत्वावस्थाया । अपीत्येवकारोऽप्यर्थ । साधारणी समानाम् । न त्विदानीमेका तदानीमन्यामित्यर्थ । मुष्टि बबन्ध बद्धवान् । सुष्टि बद्धा म्रियन्ते मर्त्या इति प्रसिद्धम् ॥ ६९ ॥


जव भजन्तौ जयतर्षवन्तौ रुष वहन्तौ रुधिरं किरन्तौ ।
परस्पर तौ प[८५४]दुशब्दवन्तौ नियुद्धवन्तौ नितरामतान्तौ ॥ ७० ॥
अक्ष्वेलितारावमवीरवादमवीक्षकश्लाघनचाटुगुम्फम् ।
अनुच्चनिश्वासमहुक्रियाकमभूतपूर्व तदभून्नियुद्धम् ॥ ७१ ॥
 शिलीमुखैश्चित्तजचापजुष्टै-
  र्दत्तानि रन्ध्राणि दधन्निजाङ्गे ।
 समीरजातेन विधू[८५५]नितोऽपि
  स कीचको नैव चुकूज किचित् ॥ ७२ ॥


 जवमिति । तो भीमकीचकौ जव बलग भजन्तौ जये तर्पवन्तौ कामिनौ रष क्रोध वहन्तो रुधिर किरन्तौ क्षतेभ्य प्रसारयन्तों परस्पर पटव परषा शब्दा दारयामि मारयामीत्यादयोऽनयो सन्तीति तद्वन्तौ अतान्तौ अश्रान्तौ च सन्तौ नितरा नियुद्धवन्तौ । बाहुयुद्धशालिनौ बभूवतुरिति शेष । नियुद्धकैलिं निशि निमिमाते’ इति पाठोऽनुप्रासस्येकपादभङ्गारव्यदोषापत्ते वर्तमानार्थकलडन्तबाबाच्चोपेक्ष्य । एव ‘पट्टशौर्यवन्तौ’ इत्येव पाठ । अन्यथा ‘अक्ष्वेलितारावम्' इत्युत्तरश्लोकेन सदर्भविरोधापत्ते ॥ ७० ॥

 अक्ष्वेलितेति । न विद्यन्ते क्ष्वेलितारावा सिंहनादा यस्मिन् तथोक्तम् , अवीरवाद विगतात्मकत्थनम्, वीक्षकाणा प्रेक्षकाणा श्लाघनानि चाङ्गुम्फा प्रियवाक्यसदर्भाश्च न विद्यन्ते यस्मिन् तथोक्तम् । तदानी तद्देशस्य विजनत्वादिति भाव । अनुच्चा अनुद्धता निश्वासा यस्मिंस्तथोक्तम् , न विद्य ते हुक्रिया हुकारा यस्मिस्तत्कम् । शैषिक कप् । अतएव तत् भीमकीचकसबन्धि नियुद्ध बाहुयुद्ध पूर्व न भूत कदापि न जात अभूतपूर्व जगद्विलक्षण सत् अभूत् । अत्राक्ष्वेलितारावमित्याद्यनेकपदाथन तन्नियुद्धस्य जगद्वैलक्षण्यसमर्थनादनेकपदार्थहेतुक काव्यलिङ्गम् ॥ ७१ ॥

 शिलीमुखैरिति । चित्तजस्य मन्मथस्य चापे धनुषि पुष्पे च जुष्टै सहितै प्रीतैश्च शिलीमुखै बाणै अलिभिश्च। ‘अलिबाणौ शिलीमुखौ' इत्यमर । दत्तानि कृतानि रन्ध्राणि निजाङ्गे दधन्नपि समीरजातेन भीमेन वायुसमूहेन च विधूनित कम्पितोऽपि स कीचक वेणुविशेषश्च।‘वेणव कीचकास्ते स्युर्ये खनन्त्यनिलोद्धता’ इत्यमर । किचिदपि न चुकूज न दध्वानैव । ममारेत्यर्थ । अत्र शिलीमुखकृतरन्ध्रवायुजातधूननरूपसामग्रीसत्त्वे क्रूजनानुदयवर्णनात्मिकाया वि-


 तस्मिन्हते निपतिते बकवैरिमुष्टया
  रद्रेण तेन समकम्पि चलत्पताकम् ।
 पार्थाच्चिरेण परिशीलितमुत्तराधै
  कन्याजनैरभिविडम्बयतेव नाटयम् ॥ ७३ ॥

 [८५६]दनु तत्र मण्डपे पिण्डतया कृत तस्य दस्योस्तरस तरसा विलोक्य प्रहर्षवत्या पार्षत्या श्लाघापूर्वमाम्रातभुज कुरुव्याघ्रो निर्गत्य यथापुरमविकृतमानसो महानसोदर प्रविश्य सुखेनाधिशिश्ये ॥

 निपात्य मालिन्यपि तत्र शत्रु
  चक्रन्द भीत्येव चळाग्रपाणि ।
 निशम्य तत्कि किमिति ब्रुवाणा
  सर्वेऽपि तस्यावरजा स[८५७]मेयु ॥ ७४ ॥


शेषोक्तेश्चित्तजचापादिशब्दश्लेषभित्तिकाभेदाध्यवसायमूलातिशयोक्तयनुप्राणितत्वात् तयोरङ्गाङ्गिभावेन सकर ॥ ७२ ॥

 तस्मिन्निति । बकवैरिण भीमस्य मुष्टया । तत्प्रहारेणेत्यर्थ । हते अतएव तस्मिन् निपतिते सति तेन प्रसिद्धेण रङ्गेण नर्तनमण्डपेन उत्तरा विराटपुत्री आद्य (?) येषा तै कन्याजनै पार्थात् अजुनात् चिरेण परिशीलित अभ्यस्त नाटय अभिविडम्बयता सर्वत अनुकुर्वतेवेत्युत्प्रेक्षा । चलन्ती पताका यस्मिन् तथा समम्पि कम्पितम् । कम्पतेर्भावे लुड् ॥ ७३ ॥

 तदन्विति । तदनु तत्र मण्डपे नर्तनशालाया पिण्डतया पिण्डाकारेण कृत भीमेन घटित दस्यो शत्रो तस्य कीचकस्य तरस मास बिछोक्य प्रहर्षवत्या सतोषवत्या पाषत्या द्रौपद्या तरसा वेगेन श्लाधापूर्वे यथा तथा आघातौ चुम्बितो भुजौ यस्य स । तयोरेव तदभीष्टदायकत्वादिति भाव । कुस्व्याघ्र कौरवश्रेष्ठ भीम निर्गत्य नर्तनमण्डपाद्वहिरागत्य पुरेव यथापुर कीचकवधात्पूर्वमिव अविकृत हषादनुद्रिक्त मानस यस्य तथोक्त सन् । कीचकववस्याकिचित्करत्वादिति भाव । महानसस्य पाकगृहस्य उदर मध्य सुखेन अधिशिश्ये शयितवान् शीड वर्तरि लिट् ।

 निपात्येति । मालिनी द्रौपद्यपि तत्र रङ्गे शत्रु कीचक निपात्य पातयित्वा । भीमेनेति शेष । भीत्येव । न वस्तुतो भयेनेत्यर्थ । चल अग्रपाणि हस्ताग्र यस्यास्तथोता सती चक्रन्द रुरोद । क्रन्दे कर्तरि लिट् । तत् द्रौपदीरोदन निशम्य



विलोक्य त भ्रातरमात्तशोका मृत्युद्विपस्येव पिधानपिण्डम् ।
ज्यायानिवामी विदधु” स्थली तामस्त्रेण गुल्फद्वयसीं निजेन ॥ ७५ ॥
  

 ततस्ते सोदरविपत्तिनिमित्तमियमेवेति रोषरूषितचेतसो निवेशितशवपिण्ड[८५८]भारस्य मूर्तैर्भी[८५९]मस्य मुष्टिभिरिव नारिकेलफलैरु[८६०]परुध्यमानपार्क्ष्वस्य चरमविभानस्य स्तम्भदारुणि सदानिता कौन्तेयसीमन्तिनीं तिमिरमुदिरसौदामिनीमि करदीपिकाभिर्दीयमानचङ्कमावकाशेन पथा पितृवनमुपनीय स्वकीयविवेकसपत्त्या सह म[८६१]हत्या चित्यामत्याक्षु ॥


किमित्याहित किमत्याहितमिति ब्रुवाणा सन्त तस्य सर्वेऽप्यवरजा अनुजा समेयु समागतवन्त ॥ ७४ ॥

 विलोक्येति । अमी कीचकानुजा मृत्योरेव द्विपस्य गजस्य पिधानपिण्ड तृणच्छन्नकेवलमिव स्थितमिति रूपकोज्जीवितोत्प्रेक्षा । त भ्रातर कीचक विलोक्य आत्तशोका सन्त ज्यायान् ज्येष्ठ कीचक इव ता स्थलीं रङ्गप्रदेश निजेन अस्त्रेण बाष्पेण शोणितेण च गुल्फद्वयसी गुल्फप्रमाणा विदथु । तत्प्रमाणबाष्पजला चक्रुरित्यर्थ । ‘प्रमाणे द्वयसज्दघ्रञ्मात्रच ' इति द्वयसचि 'टिङ्ढाणज्-' इत्यादिना डीप् । अत्र कीचकस्य तदनुजाना च रङ्गे गुल्फप्रमाणास्रसपादनेनौपम्यस्य गम्यत्तुल्ययोगिताभेद । बाष्पशोणितयोरस्त्रशब्दश्लेषभित्तिकाभेदाध्यवसायमूलातिशयोक्तयुज्जीवित इति द्वयोरङ्गाङ्गिभावेन सकर ॥ ७५ ॥

 तत इति । तत ते कीचकानुजा सोदरस्य कीचकस्य विपत्ते मरणस्य निमित्त कारण इय द्रौपधेव इत्युक्तप्रकारेण रोषेण रूषित कलुषीकृत चेत येषा तथोक्ता सन्त निवेशित निक्षिप्त शवपिण्ड कीचकमासग्रन्थिरेव भार यस्मिस्तस्य मूत देहबारिभि भीमस्य मुष्टिभि तत्प्रहरैरिव स्थितै नारिकेलफलै उपरुध्यमाना सगता पार्क्ष्वाक्ष्चत्वार यस्य तस्य चरमविमानस्य शबरथस्य स्तम्भदारुणि सदानिता बद्धा कौन्तेयसीमन्तिना द्रौपदी तिमिरस्यत्र मुदिरस्य मेघस्य सबन्विनीभि सौदामिनीभि तडिद्भि करदीपिकाभि दीयमान चङ्कमस्य गमनस्य अवकाश यस्मिन् तेन पथा मार्गेण पितृवन श्मशानम् । ‘श्मशान स्यात्पितृवनम्' इत्यमर । उपनीय प्रापय स्वकीयया विवेकसपत्त्या सह महत्या चित्या चिताया अत्याक्षु पातयामासु । ‘घनजीमूतमुदिरजलमुग्धूमयोनय ', ‘तडित्सौदामिनी विद्युत्’ इति च मेघविद्युत्पर्यायेष्वमर । अत्र द्रौपदीविवेकसपदो त्यागक्रियाया साहित्यवर्णनात्सहोक्तिरलकार ॥


तावदेषा चकितचकिता ‘हा हा नाथ नाथ, जगत्प्राणभूत, विपत्समयबन्धो, सप्रति कान्ता रसवती परिगृह्य मुग्धामिमा कथ न गणयसि’ इत्यु[८६२]ङ्चैररोदीत् ॥

तत्रास्या रुदितस्वनैरथ जवादाकारितो मारुति
 [८६३]क्थ्योर्वायुबलादलातमहसामीषल्लभैर्मीलनै ।
ध्वान्ते गारुडभित्तिभङ्गिपिशुनेऽप्योघ द्विषा धावितु
 ज्येष्ठस्याध्वनि दिव्यदृष्टिमकरोहोर्दर्पसिद्धञ्जनै ॥ ७६ ॥


 तावदिति । तावत् सद्य एव चकितचकिता अतिभीता एषा द्रौपदा । हा हेत्थतिखेदे । हे नाथ लोकरक्षक, जगत प्राणभूत जीवितरूप, विपत्समये बन्धो, क्रमेण हे प्रिय, जगत्प्राणाद्वायो भवतीति वायुपुत्र। ‘जगत्प्राणसमीरणा' इति वायुपर्यायेष्वमर । विपद जरसैन्धवकृताया समये बन्धो इति च । त्व सप्रति रसवतीं अनुरागिणी कान्ता प्रिया भाषारमागौरीरूपाम् । अन्यत्र कान्ता रुच्या रसवतीं मधुरादिषड्रसधारिणी पाकक्रियामिति च परिगृह्य परिरभ्य स्वीकृत्य च मुग्धा नवोढा मूच्छिता च इमा मा कथ न गणयसि नाद्रियसे इत्युक्तप्रकार उच्चे तार अरोदीत् रुरोद । रुदे कर्तरि लुइ। अत्र प्रस्तुतजगदीश्वरप्रार्थनया प्रस्तुतभीमप्रार्थनाद्योतनाप्रस्तुताङ्करालकार । ‘प्रस्तुतेन प्रस्तुतस्य द्योतने प्रस्तु ताङ्कुर' इति लक्षणात् ॥

 तत्रेति । अथ तत्र चिताया अस्या द्रौपद्या रुदितखनै रोदनध्वनिभि जवात् आकारित आहूत मारुति भीम सक्थ्यो (सक्लो ?) ऊर्वो सबन्धिन वायो गतिवेगजनितस्य बलात् ईषल्लमै अत्यल्प प्राप्यै । दुर्लभैरिति यावत् । अलातस्य हस्तधृताङ्गारकाष्ठस्य महसा तेजसा मीलनै शान्तिभि उपलक्षित । ऊरुवेगजनितवायुबलजाज्वल्यमानालाततेजोविशिष्ट सन्निति यावत् । द्विषा उपकीचकाना ओघ गण गारुडभित्ते मरकतकुड्यस्य भङ्गि रीति तस्या पिशुने सूचके । तद्वदतिनिबिडे श्यामे चेत्यर्थ । ध्वान्ते अन्धकारेऽपि ज्येष्ठस्य कीचकस्य अध्वनि मरणरूपे धावितु वेगाद्रन्तु दोदपै बाहुबलैरेव सिद्धाञ्जनै दिव्ये अप्रतिहते दृष्टी लोचने यस्य तथोक्त अकरोत् । कीचकमिव सर्वास्तदनुजानपि अवधीदित्यर्थ । रूपकोपमाससृष्टि । अत्र’ ‘सक्थ्योर्वायुबलादलातमहसा सधुक्षतानुक्षणम्’ इति पाठ । वायुबलात् अनुक्षण प्रतिक्षण सधु क्षता प्रज्वलता अलातमहसा उपलक्षित इति पूर्वस्मादनतिरिक्ताथक सुगम । यथाश्रुतपाठस्तु बहुषु मूलपुस्तकेषु दृष्टत्वात् क्लिष्टत्वदोषदुष्टत्वेऽपि व्याख्यात इति ध्येयम् । शार्दूलविक्रीडितम् ॥ ७६ ॥


निपातितान्स्वेन निरीक्ष्य तत्र
 सूतान्स वीर सुमनायते स्म ।
उत्पातमुद्रा ब्रु[८६४]वता स्वपित्रा
 [८६५]तालानिवारण्यतले विरुग्णान् ॥ ७७ ॥
गन्धर्वभीरुषु जनेष्वितरेषु तत्र
 विष्वक्पलायनपरेषु विमुक्तबन्धा ।
कृष्णा च कीचकरिपुश्च कृतप्रशसा-
 वन्योन्यमभ्यगमता नगर पुनस्तौ ॥ ७८ ॥

 तत क्षणादेव सध्यारुणिमकरम्बितेनाम्बरमणिबिम्बेन परिचुस्व्यमाने शम्पायुधहरिदङ्गणे परितो रुधिर[८६६]वीचीमुचा पिशितपिण्डेन कृतानुषङ्ग रङ्ग विडम्बयति [८६७]सति शुचा निरस्तमौलिभिर्निग[८६८]लितवाग्भिर्निष्पन्दतनुभिर्निखिलैरपि पौरैर्नृपतिनिलयद्वार [८६९] निबिडितमभूत् ॥


 निपतितानिति । स वीर भीम स्वेन आत्मना तत्र श्मशाने निपातितान् अतएव उत्पातस्य दुर्निमित्तस्य मुद्रा चिह्न ब्रुवता सूचयता स्वपित्रा वायुना अरण्यतले विरुग्णान् उत्पाट्थ पातितान् तालान् तालवृक्षानिच स्थितान् सूतान् उपकीचकान् निरीक्ष्य सुमनायते स्म । सतुष्टचित्तोऽभूदित्यर्थ । शत्रुशेषनि शेषीकरणादिति भाव । अत्र निपातितोपकीचकावलोकनस्य विशेषणगत्या सतुष्टचित्तत्वहेतुत्वात्पदार्थहेतुक काव्यलिङ्ग तालानिवेत्युत्प्रेक्षया ससृष्टम् ॥ ७७ ॥

 गन्धर्वेति । तत्र श्मशाने गन्धर्वात भीमात् भीरुषु अत एव इतरेषु जनेषु विष्वक् अभित पलायनपरेषु सत्सु विमुक्त भीमेन मोचित बन्ध उपकीचककृत यस्या सा कृष्णा द्रौपदी कीचकरिपु भीमश्च तौ द्वावन्योन्य कृता प्रशसा स्तुति भवानेव वीर भवत्येव वीरपत्नीत्यादि याभ्या तथोक्तौ सन्तौ पुन नगर विराटपुर प्रति अभ्यगमता आगतवन्तौ । गमेरभिपूर्वात्कर्तरि लुड् । अत्र गन्धर्वभयस्य विशेषणगत्या जनाना पलायनहेतुत्वात् काव्यलिङ्गभेद ॥ ७८ ॥

 तत इति । तत द्रौपदीभीमयो पुरप्रवेशानन्तर क्षणादेव सध्याया प्रात कालिकाया सबन्धिना अरणिम्ना अरुणकान्त्या करम्बितेन व्याप्तेन अम्बरमणे सूर्यस्य बिम्बेन परिचुम्ब्यमाने सयुज्यमाने अतएव शम्पायुधस्य इन्द्रस्य हरिदङ्गणे दिक्प्रदेशे परितो रुधिरस्य वीचीर्मुञ्चन्तीति तन्मुचा पिशित पिण्डेन कीचकमाससमुद्रेन कृत अनुषङ्ग सबन्ध यास्मिंस्तथोक्त रङ्ग नर्तन-


वध्वस्तदा मण्डलशो निविष्टा रुन्धद्भिराशा रुरुदुर्विलायै ।
महत्सु दु खेषु विजृ [८७०]म्भितेषु मालिन्युपालम्भनमस्पृशद्भि ॥ ७९ ॥
तस्मिन्दिने सनिधिमागता सा कृष्णा दृश केकयराजपुत्र्या ।
मषीशलाकार्पणया विनापि सन्देतरामश्रुकणैरकार्षीत् ॥ ८० ॥
 तावद्युधिष्ठिरमुखा अपि वातजात-
  व्याधूतकीचककुलाकुलकोटिभागम् ।
 निर्यत्प्रियानयनवारिझरीपरीत
  सकेतशैलमधिरुह्य निशश्वसुस्ते ॥ ८१ ॥


मण्डप विडम्बयति अनुकुर्वति मति शुचा दु खेन निरस्त मौलि उष्णीषादि शिरोभूषण यैस्तै निर्गलिता त्यक्ता वाच यैस्तै वाचयमै निष्पन्दा निश्चला तनुर्येषा तै निखिलैरपि पैौरै नृपते विराटस्य निलयस्य गृहस्य द्वार निबिडित सान्द्रित अभूत् । पौरा सर्वे नृपमाक्ष्वासयितुमाजग्मुरित्यर्थ ॥

 वध्य इति । तदा वध्व पौरस्त्रिय मण्डलश वलयाकारेण निविष्टा सत्य महत्सु दुर्भरेषु दु खेषु विगृम्भितेषु सत्स्वपि मालिन्या द्रौपधा उपालम्भन निन्दा अस्पृशद्धि । गन्धर्वभयादिति भाव । आशा रन्धद्भि दिगन्तव्यापिभि विलापै परिदेवनै उपलक्षिता ररुदु । अत्रोपालम्भनहेतो कीचकवधस्य सत्वेऽपि तदनुदयवर्णनाद्विशेषोक्ति ॥ ७९ ॥

 तस्मिन्निति । तस्मिन्दिने कीचकवधदिवसे सनिधिं प्रत्यागता सा कीचकघातयितृत्वेन प्रसिद्धा कृष्णा केकयराजपुत्र्या सुदेष्णाया दृश नेत्र मषीशलाकाया अञ्जनकाष्ठस्य अर्पणया विनापि विन्यसन विनैव अश्रुकणै बाष्पबिन्दुभि मन्देतरा अनल्पाम् । तत्पूर्णामिति यावत् । अकार्षीत् चक्रे । इयमेव मन्द्रातहणा मृत्युरिति तया बाष्पायितमित्यर्थ । अत्र अक्ष्रुकारण अञ्जनशलाकाविन्यसन विनापि तदुदयवर्णनाद्विभावनालकार ॥ ८० ॥

 तावदिति । तावत् तावता कालेन युधिष्ठिरो मुख आदिर्येषा ते पाण्डवा अपि वातजातेन भीमेनैव वायुसमूहेन व्याधूताना निहताना कम्पिताना च कीचकाना सूतजानामेव वेणुविशेषाणामिति पूर्ववच्छिलष्टरूपकम्। कुलेन बृन्देन आकुल सकुल कोटिभाग अग्रदेश यस्य त निर्यन्त्या प्रियानयनवारिणा द्रौपदीबाष्पेणैव झर्या प्रस्रवणेन परीत व्याप्त सकेत अज्ञातवाससवत्सरशपथमेव शैल अधिस्हा प्रतिज्ञा निस्तीर्य निशश्वसु निश्वसितवन्त । कृच्छ्रादुत्तीर्णा विश्रम्य दीर्घ निश्वसन्तीति प्रसिद्धम् । समस्तवस्तुसावयवरूपकम् । यत्त ‘सकेते नृत्तमण्डपे’ इति नृसिह , तदबोधात् विशेषणदूयासागत्यापत्ते ॥ ८१ ॥


तदनु विदितवार्तो धार्तराष्ट्रश्चरेभ्य
 शुभगुणचरितेभ्य सूतजाना शतस्य ।
वसतिमरिजनाना मत्स्यभूपालपुर्यो
 हृदयमुकुरलग्नैर्हेतुभिर्निश्चिकाय ॥ ८२ ॥
अन्येद्युरङ्गेश्वरसौ[८७१]बलाभ्यामास्थाय गोष्ठीमधिप कुरूणाम् ।
भी[८७२]ष्माग्रगान्बन्धुजनान्विलोक्य गम्भीरमेव गिरमाबभाषे ॥ ८३ ॥

भो भो , विदित कि भबतामि[८७३]दम् । स[८७४]प्रति मात्स्यपुरे कामपि कामिनी कामयमान कीचकोऽपि[८७५], निशि तस्या पतिभिरदृश्यै पञ्चाभर्गन्धर्वैरनुरहसि स्वसख्यापदा[८७६]भिधेयमनीयत । तस्यै पुनरपि


 तदन्विति । तदनु पाण्डवानामज्ञातवासप्रतिज्ञानिस्तरणानन्तर धार्तराष्ट्र दुर्यो वन शुभानि गुणा गूढचरणेङ्गितज्ञानादथ चरितानि यथार्थवक्तृवादीनि च येषा तेभ्य चरेभ्य चरेभ्य सूतजाना शतस्य सबन्धिनी विदिता ज्ञाता वार्ता वधवृत्तान्त येन तथोक्त सन् हृदय मन एव मुकुर दर्पण तस्मिन् लग्नै सक्त्रान्ते । निश्चितैरिति यावत् । हेतुभि वक्ष्यमाणै कीचककामनीयसौन्दय तन्मरणादिभि मत्स्यभूपालपुर्या विराटनगर्या अरिजनाना पाण्डवाना वसति निचास निश्चिकाय निश्चितवान् । चिनोते र्क्तरि लिट्। विभाषा चे’ इत्यभ्या सात् परस्य कुत्वम् । अत्र शुभगुणचरितेभ्य इति विशेषणस्य तात्कालिकतदुक्तीना याथार्याभिप्रायगर्भत्वात्परिकरस्य हेतुभि पाण्डवस्थित्यनुमानस्य च द्वयोरङ्गा ङ्गिभावेन सकर ॥ ८२ ॥

 अन्येद्युरिति । अन्येद्यु परस्मिन् दिने कुरूणामधिप दुर्योधन । अङ्गेश्वरसोबलाभ्या कर्णशकुनिभ्या सह गोष्टी आस्थानी आस्थाय प्राप्य भीष्म अग्रग आदिम येषा तान् बन्धुजनान् विलोक्य एव वक्ष्यमाणप्रकारेण गिर वाक्य गम्भीर उच्चै आबभाषे उक्तवान् । इन्द्रवज्रा ॥ ८३ ॥

 भो भो इति । भो भो हे बन्धुजना । ‘अथ सबोधनार्थका । स्यु प्याट्र पाडङ्ग हे है भो ’इत्यमर । इद वक्ष्यमाण पाण्डववृत्तान्त भवता विदित युष्माभि ज्ञात किमिति परिप्रश्ने । सप्रति मात्स्यपुरे कीचक विराटश्याल कामपि अज्ञातनाभगोत्रा कामिनी कामयमान सन् अदृश्यै दुर्ज्ञेयै तस्या कीचककामित कामिन्या पतिभि पञ्चभि गन्धर्वे रात्रौ अनुरहसि एकान्ते स्वसख्याया पञ्चखस्य पद वाचक पञ्चत्वशब्द तस्य अभिधेय वाच्यम् । मरणमिति यावत् । अनीयत प्रापित । नयते कर्मणि लड्। पुनरपि । हेतेऽपि कीचक इत्यर्थ । तस्यै कामिन्यै द्रुह्यन्त चितिपातनरूप द्रोह कुर्वन्त तस्य कीचकस्य अनुजा आपि तथैव । तत्पतिभि पञ्चतामनीयन्तेत्यर्थ । इति उक्तप्रकारा इय


दुहान्तस्तदनुजा अपि तथैवेति काचिदिय किंवदन्ती कर्णात्कर्णमधिरोहति । एव चेदसशय सा चतुष्पथमण्ड[८७७]पस्तम्भसालभञ्जिकेव [८७८]सर्वजनकरपरामर्शभाजन पाञ्चाल[८७९]दुहिता । त[८८०]स्या पतिविडम्बका इति प्रवादभाजस्तेऽपि पुनरज्ञातवासिन परेतपतिपवमानपाकशासनाश्विना पारस्लैणेया । तेष्वपि द्वितीयेनैव बाहु[८८१]बलशालिना वधूद्रुहा निहस्त्रा भवितव्यम् । अहो सर्वत्र विशृङ्खलममीषा दौ शील्यम् ॥

तथाहि ।

देशे जरासधमुखैर्व्यरुन्धन्वनेऽपि किर्मीरहिडिम्बमुख्यै ।
गूढे निवासेऽपि च सूतपुतत्रै क नु स्थितास्ते कलह विनान्यै ॥ ८४ ॥


काचित् एका किवदन्ती जनवाद र्क्णात् एकस्य श्रोत्रात् कर्ण अन्यस्य श्रोत्र अधिरोहति प्राप्रोति । एव चेत् । उक्तवृत्तान्त स्याद्यदीत्यर्थ । सा कीचककामितकामिनी चतुष्पथे चतुर्भार्गमेलनदेशे यो मण्डप तस्य स्तम्भे सालभञ्जिका कृत्रिमपुत्रिकेव सर्वेषा जनाना करेण परामर्शनस्य स्पर्शनस्य भाजन पात्र पाञ्चालदुहिता द्रौपदी भवति असशयम् । तस्या कामिन्या पतिविडम्बका भर्तार इति प्रवादभाज ते पुन गन्धर्वास्तु अज्ञात बास एषामस्तीति अज्ञातवासिन परेतपते यमस्य पवमानस्य वायो पाकशासनस्य इन्द्रस्य अश्विनो आश्विनेययोश्च पञ्चाना परस्त्रिया कुन्त्या माद्याश्च पुत्रा पारस्त्रैणेया युधिष्ठिरभीमार्जुननकुलसहदेवा । कल्याण्यादित्वाङ्ढकि नडागम । अनुशतिकादित्वादुभयपदवृद्धि । भवन्ति असशयम् । तेष्वपि बाहुबलशालिना द्वितीयेन भीमेनैव वध्वै द्रुह्यन्तीति द्रुहा कीचकाना निहय्त्रा मारकेण भवितव्य असशयम्। अमीषा पाण्डवाना दौ शील्य दु स्वभाव सर्वत्र स्खदेशे परदेशे च विक्षृङ्खल निष्प्रतिबन्धकम् । अहो इत्याश्चर्ये ॥

 तथाहीत्युत्तरेणान्वय ॥

 देश इति । ते पाण्डवा देशे स्वस्थाने स्थिता सन्त जरासध मुख आदि येषा तै राजभि सह व्यरुन्धन् विरोध चळु । रुधे कर्तरि लड् । वने स्थिता सन्तोऽपि किर्मीहिडिम्बमुख्यै सह व्यरुन्धन् । किबहुना गूढे निवासे अज्ञातवासेऽपि च स्थिता सत सूतपुत्रै कीचकै सह व्यरुन्धन् । अत अन्यै सह कलह विना क च कुत्र वा स्थिता । न कुत्रापीत्यर्थ । अत्र सर्वत्र कलस्हभाव प्रति वाक्यार्थत्रयस्य हेतुत्वादनेकवाक्यार्थहेतुक काव्यळिङ्गम् ॥ ८४ ॥


अत्रैव स्थित्या वेषान्तरकञ्चुकै प[८८२]ञ्चभिरकिचनैरेतैर्वञ्चित खलु वृद्धो विराट इत्यभिधाय सुयोधनो राधेयेन सह कृतहस्ततालो वल्गद्धुजशिरवरभुच्चैर्जहास ॥

तत ।

सक्षोभे नगरस्य मत्स्यनृपतेर्योद्धु स्वय निर्गता-
 न्दृष्टवा तानवकीर्णिनो वितनुमो गच्छाधुना त्व पुर ।
इत्युक्त कुरुभूभुजा सदसि गा इर्तु त्रिगर्तेश्वर-
 स्तस्यै[८८३]वाप पुरी दिनावधिरिवार्यम्ण प्रतीची दिशम् ॥ ८५ ॥

 तत्र क्कचिदरुणतया निमग्नजमदग्निकुमारोष्णनिश्वासवेगविलुलित[८८४]विचित्रवीचीप्रपञ्चमिव स्य[८८५]मन्तपञ्चकम्, क्कचिन्नीलतया मदक-


 अत्रेति । वेषान्तर अन्यो वेष सन्यासादि कञ्चुक आच्छादक येषा तै अतएव पञ्चभि एतै अफिचनै दरिद्रै पाण्डवै । अत्र अस्मिन्नेव मत्स्यनगरे स्थित्वा वृद्ध । मन्दप्रज्ञ इति यावत् । अत एव वञ्चित । खल्विति वाक्यालकारे इत्यभिवाय एवमुक्त्वा सुयोधन राधेयेन कर्णेन सह कृतहस्तताल सन् वल्गती उन्नमती भुनयो शिखरे अग्रभागौ यस्मिंस्तथा उच्चै तार जहास हसितवान् । अत्र वृद्वभावस्य विशेषणगत्या वञ्चनहेतुत्वात्काव्यलिङ्गभेद ॥ तत इत्युत्तरेणान्वय

 सक्षोभ इति । तत पाण्डवा विराटपुरे गूढ वसन्तीति हेतो मत्स्यनृपते नगरस्य विराट्पुरस्य सक्षोभे सति । अस्माभिरिति शेष स्वय योद्धु निर्गतान् । सह्ता आश्रयरक्ष्यापरतन्त्रत्वादिति भाव । तान् पाण्डवान् ध्ष्टवा अवकीणिन भग्नाज्ञातवास तनन । ‘अवकीर्णी क्षतव्रत' इत्यमर । वितनुम कुर्म । किच अधुना हे सुशर्मन, त्व पुर सर्व गच्छ। गवाहरण के भाव । इति उक्तप्रकार कुरभूभुजा दुर्योधनेन सदसि सभाय उक्त पुन नाम देशविशेष तस्येश्वर सुशर्मा तस्य विराटस्य गा धेनू हर्तु तस्येव भवता अर्यम्ण सूयस्य सबन्धी दिनावधि । सायकालिकगतिरित्यर्थ । विराटपुट र आप प्राप्तवान्। सुशर्मा तत्पुर सूर्य अस्त च अवापेत्यर्थ । आप्नमीची दिशामिव । अत्र सुशर्म दिनावध्यो प्राप्स्या सादृश्यगम्यत्वातुल्ययोगिताभे र्क्व शार्दूलविक्रीडितम् ॥ ८५ ॥

 तत्रेति । तत्र सायकाले क्वचित् एकत्र अरुणतया अरुणवर्णत्वेन निम ग्नस्य जमदग्निकुमारस्य परशुरामस्य उष्णानाम् क्षत्रियेषु कोपादिति भाव । निश्वासाना वेगेन विलुलिता प्रवृद्धा विचित्रा वीचीप्रपञ्चा तरङ्गपरम्परा


ण्डूलवेतण्डशुण्डाघिधूनितविटपमालमिव त[८८६]मालकाननम् , कचिद्धबलतया मन्दरगिरिमथनविक्षोभितफेनकूटमिव क्षीरोदमध्यम्, उन्नमितलाङ्लम् उ[८८७]द्रमितहुकारम्, उ[८८८]ल्लितधूलीकम् , उहामघण्टारव

गोधन द[८८९]क्षिणेन पुर व्यग्रतरसै [८९०]न्येन तेन काल्यमान निशम्य सेनाकुम्भिकुलगभीरबृहितारम्भैर्मन्दिराग्रसिहप्रतिच्छन्दवृन्दमुखकन्दरमौननियम विभिन्दन् , अनुकूलपवमानपुरोनाटितपटैर्वैरिभट[८९१]जीविताहरणाय [८९२]वैवस्वतमिवाह्वयद्भि केतुदण्डै परिमोटितगगनतटिनी- तटविटपिवाटो विराटोऽपि रणप्रया[८९३]णारम्भ[८९४]माटीकत ॥

सख्याय यानेषु समारुरुक्षाकेलिस्पृशा कीचकबान्धवानाम् ।
अश्वप्रसङ्गेऽप्यभिधीयमानो गन्धर्वशब्दो गरलायते स्म ॥ ८६ ॥


यस्मितथोक्त स्यमन्तपञ्चक कुरुक्षेत्रे परशुरामनिहतक्षत्रियरुचिरमयहदपञ्चकमिव स्थितम्, क्वचित् नीलतया मदेन कण्डूलाना दर्पवता वेतण्डाना गजाना शुण्डाभि विधूनिता कम्पिता विटपमाला शाखापह्यय यस्मिस्तथोक्त तमालकानन तापिञ्छवनामिव स्थितम्, क्कचित् धवलतया मन्दरेण गिरिणा मथनात् विक्षोभितानि उत्थापितानि फेनाना कूटानि राशय यस्मिंस्तथोक्त क्षीरोदस्य कलशाब्धे मध्यमिव स्थितम्, उन्नमितानि लाङ्गूलानि येन तत्, उद्रयमिता उत्पा दिता हुकारा येन तत्, उल्ललिता उत्क्षिप्ता धूलय येन तत्कम् । उद्दामा तारा घण्टाना ग्रैवेयकाणा रवा यस्मिंस्तत्, गा एव धन दक्षिणेन पुर पुरस्य दक्षिणभागे व्यग्रतर ग्रहणे अतिप्रवण सैन्य यस्य तेन सुशर्मणा त्रिगर्तेश्वरेण काल्यमान् नोद्यमान निशम्य क्ष्रुत्वा सेनाया कुम्भिकुलस्य गजवृन्दस्य गम्भीरबृहिताना गर्जिताना आरम्भै उपक्रमै मन्दिराग्रेषु सौधशिखरेषु सिहप्रतिच्छन्दाना कृत्रिमसिंहाना बृन्दस्य मुखानि कन्दराणीव तेषा मौननियम विभिन्दन् । प्रतिध्वनयन्नित्यर्थं । अनुकूले पवमानै वायुभि पुर अग्रे नाटिता पटा येषु तै अतएव वैरिभटाना शत्रुयोधाना जीवितस्य आहरणाय आहर्तुमिति `तुमर्थाच भाववचनात्’ इति चतुर्थी । वैवखत यम आह्वयद्भिरिव स्थितै केतुदण्डं ध्वजै परिमोटित छिन्न गगनतटिन्या आकाशगङ्गाया तटयो विटपिना वृक्षाणा वाट समूह येन तथो विराटोऽपि रणप्रयाणस्य आरम्भ स्नाह आटीकत आचरितवान् । उत्प्रेक्षातिशयोक्त्यो सचुष्टि ॥

 सरयायेति । सख्याय युद्ध कर्तुमिति ‘क्रियार्थं-' इत्यादिना चतुर्थी । यानेषु वाहनेषु गजादिषु समारोदुमिच्छा समारुरुक्षा सैव केलि क्रीडा ता स्पृश


सभ्यैश्च सूदैश्व तुरङ्गिभिश्च [८९५]गोपैश्च विज्ञापितवीर्यभूभ्न ।
द्न्तानिवेन्द्रद्विरद स पार्थान्वीर[८९६] पुरोधाय रुरोध शत्रुम् ॥ ८७ ॥
 तृणकल्पमपि त्रिगर्तभूप तमुपेक्ष्यैव तदा गवा कुलानि ।
 सहदेवविलोकमात्रहर्षात्सहसा मात्स्यचमूसमीपमापु ॥ ८८ ॥
 मौर्वीकुशाङ्कितकरावथ बद्धपङ्क्ती
  [८९७]भत्स्यत्रिगर्तवसुधाधिपयोरनीकौ ।
 आध्मातशङखनिनप्रणव[८९८]प्रणाद्-
  मायोधनाध्ययनमद्भुतमारभेताम् ॥ ८९ ॥


न्तीति तथोक्ताना कीचकबान्धवाना सूतात्मजसबन्धिना वीराणा अश्वाना प्रसई आरोहणप्ररतावेऽपि । किमुत मालिनीप्रस्ताव इत्यपिशब्दार्थ । अभिधीयमान गन्धर्व इति शब्द अश्वस्यापि वाचक पद गरलायते स्म । कालकूटतुल्योऽभूदित्यर्थ । क्यङन्ताकर्तरि स्मयोगे लट्। 'वाजिवाहार्वगन्धर्व–’ इत्यश्वपर्यायेषु प्रसिद्धोऽपि हृदयशल्यायमानान्मालिनीभतीनेव सत्वरमुपस्थापयन् शब्द तेषा गरलप्रायोऽभूदित्यभिप्राय । उपमार्थापत्त्यो ससृष्टि । इन्द्रवज्ञ्रा ॥ ८६ ॥

 सभ्यैरिति । स वीर विराट सभ्यै सभाया साधुभिश्व सूदै पाचकैश्च तुरङ्गिभि अश्वारोहैश्च गोपै गोपालेश्च विज्ञापित क्रमेण निवेदित वीर्यभूमा शौर्यातिशय येषा तान् । तेषामेव प्रत्येक तैरासवत्सर परिचितत्वादिति भाव । पाथान् युधिष्ठिरभीमनकुलसहदेवान् इन्द्रद्विरद ऐरावत दन्तान् चतुर इव पुरोधाय अग्रे कृत्वा शत्रु सुशर्माण रुरोध रुद्धवान् ॥ ८७ ॥

 तृणेति । तदा सुशर्मणो निरोधसमये गवा कुलानि सहदेवस्य खपालकस्य विलोकमात्रेण दर्शनेनैव यो हर्ष तस्माद्धेतो तृणकल्प स्वग्रासतृणतुल्यमपि त त्रिगर्तभूप सुशर्माण तृणकल्पमपि तृणप्राय यथा तथैव । अपिरत्रैवकारार्थं । उपेक्ष्य अनाह्त्यैव सहसा सखर मात्यस्य विराटस्य चम्बा सेनाया समीप आपु - स्वजीवनादपि स्वपालके प्रेमौत्कटयादिति भाव । औपच्छन्दसिकम् ॥ ८८ ॥

 मौर्वीति । अय मौर्व्य शिञ्जिन्य एव कुशा तै अङ्कित सयुक्त कर ययोस्तौ। बद्धा पङ्क्ति पङ्क्तिशोऽवस्थान याभ्या तौ । मत्स्यवसुधाधिप विराट , त्रिगर्तवसुधाधिप सुशर्मा, तयो अनीकौ सैन्ये । आध्माताना मुखवायुपूरिताना शङ्क्ताना निनद ध्वनिरेव प्रणवप्रणाद ओंकारोच्चारण यस्मिस्तथोक्त आयोवन युद्धमेव अध्ययन वेदपाठ अद्भुत यथा तथा आरभेता आरब्धवन्तौ। रभते कर्तरि लड्। ‘प्रण्वप्रधान' इति पाठे तादृशप्रणव प्रधान प्रथमपठनीय यस्मिंस्तधथा तवेति क्रियाविशेषण समस्तवस्तुवर्ति सावयवरूपकम् ॥ ८९ ॥


 मत्स्येन्द्रमन्दिरमहानसभक्ष्यवृन्द-
  स्वच्छन्द्रभक्षणरहस्यवदावदेन ।
 क्ष्वेलारवेण वललस्य तदा रिपूणा
  चित्त न केवलमकम्पि दिशो दशापि ॥ ९० ॥
उदये समरस्य सैनिकानामुभयेषामसिधेनवो ववल्गु ।
नि[८९९]जनामपदापरार्धवाच्य निखिल ग्राहयितु च रक्षितु च ॥ ९१ ॥
तावदम्बरपथादभिगन्तुस्तामनीकधरणीं शमनस्य ।
कासराद्हरधीशतुरग कादिशीक इव दूरमयासीत् ॥ ९२ ॥


 मत्स्येन्द्रेति । मत्स्येन्द्रस्य विराटस्य मन्दिरे यन्महानस पाकस्थान तस्मिन् भक्ष्याणा पञ्चविधाना भृन्दस्य स्वच्छद यथेच्छ यथा तथा भक्षणस्य रहस्य मर्म । तज्जनितान्त सार इति यावत् । तस्य वदावदेन वक्त्रा । तत्र बह्ननेन भुक्त कथमन्य थास्यैव नाद इति तद्भक्षणस्वाच्छन्द्यसूचकेनेति यावत्। अत एवानुमानालकार । वललस्य भीमस्य क्ष्वेलारवेण सिंहनादेन तदा रिपूणा चित्त केवल मन एव नाकम्पि अफम्पितम्। कितु दशापि दिश अकम्पिषत । कम्पते र्क्मणि लुड्। अत्र रिपुहृदयाना दशदिशा च कम्पनेनौपम्पस्य गम्यत्वात्तुल्ययोगिताभेद पूर्वो'क्तानुमानेन ससृष्ट ॥ ९० ॥

 उदय इति । उभयेषा मात्स्यत्रैगर्ताना सेनिकाना बीराणाम् । 'सेनाया समवेता ये सैन्यास्ते सैनिका अपि’ इत्यमर । समरस्य युद्धस्य उदये आविर्भावे सति असिधेनव खङ्गा । यद्यपि ‘छुरिका चासिधेनुका’ इति कोशादसिधेनुपदस्य स्वल्पे खङ्ग विशेषे प्रसिद्धि , तथापि युद्धप्रकरणेन सामान्यपरत्वम्। यथात्रैव पार्थशब्दस्य अर्जुने प्रसिद्धस्य प्रकरणेन युधिष्ठिरादिपरत्वमिति ध्येयम् । निजस्य नामपदस्य असिधेनुरिति सहाशब्दस्य सबन्धिन अपरार्धस्य धेनुरित्युत्तरभागस्य वाच्य गोकुल निखिल नि शेष यथा तथा प्राहयितु त्रैगर्तैरपहारयितु रक्षितु मात्स्यै पालयितु चेत्यर्थ । ववल्गु चलन्ति स्म। उभयेऽपि खङ्गैयुध्यन्ते स्मेत्यर्थ । औपच्छन्दसिकम् ॥ ९१ ॥

 अथ दशभि सूर्यास्तमये वर्णयति तावदिति । तावत् तदानीमेव अम्बरपथात् आकाशमार्गात् ता अनीकधरणीं मात्स्यत्रैगर्तयुद्धभूमिं अभिगन्तु आग च्छत शमनस्य यमस्य कासरात् वाहनमहिषात् कादिशीक भयात्पलायत इवेत्युत्प्रेक्षा । अहरधीशस्य सूर्यस्य तुरग रथाश्व दूर अयासीत् गतवान्। अस्तगत सूर्य इत्यर्थ । याते कर्तरि लुङ् । अश्वमहिषयोर्नैसर्गिक वैरमिति प्रसिद्धम् । खागता ॥ ९२ ॥


पाटलीकृतपयोधरपङ्क्ति प्रादुरास शनकैरथ सध्या।
वासरस्य रजनेरपि सीम्नोर्मध्यभागकुरुविन्दशिलेव॥९३॥
 सध्या बभौ सा समरे भटौघौ
  बिम्ब विभिद्यादिति भीतिभारात्।
 विवस्वता विद्रवता विसृष्टा
  नभ स्यले दीप्तिरिवाग्निदेया॥९४॥
[९००]भ पयोधेर्नवविद्रुमकक्षी क्रमेण सध्या ऋशिमानमाप।
उद्यत्प्रकोपैरुभयैरनीकैर्विभज्य नीतेव विलोचनानी ॥ ९५ ॥
ध्वजिनीजनित रजोऽन्धकार त्वरित बान्धवकौतुकातिरेकात्।
परिरब्धुमिवान्धकारसघ परमार्थो रणचत्वर जगाहे॥ ९६ ॥


 पाटलीकृतेति । अथ सूर्यास्तमयानन्तर पाटलीकृता क्ष्वेतरक्तीकृता पयोघराणा मेघाना पङ्क्ति यया सा सध्या वासरस्य अह रजनेरपि रात्रेक्ष्च द्वयो सवन्धिन्यो सीन्मो अवधिपरिच्छेदकदेशयो मध्यभागे कुरुविन्दशिला पध्मरा गध्षदिवेत्युत्प्रेक्षा। शनकै त्र्कमेण प्रादुरास आविर्बभूव॥९६॥

 सध्येति । सा एवमाविर्भूता सध्या समरे युध्दे भटाना अपरावर्तिना ओप समूह बिम्भ मन्मण्डल विभिन्द्यात् विपाटयेत् इत्त्युक्तप्रकारात् भीति भारात् भयातिशखात् विद्रवता पलायमानेन विवखता सूयेण अग्रये देया रात्रि- दातव्या अत एव नभ स्थले आकाशे विसृष्टा निहिता दीप्ती प्रभेवेत्युत्प्रेक्षा। बभौ। भाते कर्तरि लिट्।अत्र सूर्यप्रभाया रात्रावग्नो प्रविशनमागनमसिद्धम्॥ ९४ ॥

 नभ इति । नभस आकाशस्वैव पयोधे समुद्रस्य नवाना विदुमाणा ष्री सपदिति परम्परितरुपकाम् । सध्या उद्यत्प्रकोपै अतएव उभयै अनीकै मात्स्य त्रैगर्तसैन्यै विभज्य सम विभाग कृत्वा विलोचनानि स्वस्वनेत्राणि नीति प्रापि सेवेत्युत्प्रेक्षा।क्मेण कशिमान कृशत्व आप आगात् । ननाशेत्यर्थ। अत्र लोचनाना प्रकोपादारुण्यगुणनिमित्ता सध्याप्रापणौत्प्रेक्षा पूर्वोक्तरूपकेण ससृष्टि ॥ ९५ ॥

 ध्वजिनीति । ध्वजिनीभ्या सेनाभ्या उमाभ्या जनित करितुरगरथपत्तिपदघष्टनोत्य रज एवान्धकार ध्वान्त बान्ववेन साजात्यकृतेन य कौतुकातिरेक हर्षातिशय तस्माध्देतो परिरब्धु आलिङ्गितुमिवेत्वुत्युप्रेक्षा। परमार्थ वास्तव अन्धकारसघ तमोराशि रणचत्वर युध्दाङ्गण त्वरित शीघ्र जगाहे प्रविवेश। अत्र रजस्तमसो 'अन्ध करोति लोकम्'इति व्युत्पत्तिसिध्द साजात्यकुतबान्धवमिति ध्येयम्। औपच्छन्दसिकम्॥९६॥


 सकोत्त्य पक्षानेकेषु सविशत्स्वपि पत्रिषु ।
 विस्तार्य पक्षानपरे विचेरुस्तत्र पत्रिण ॥ ९७ ॥
शरवर्षभयेन तत्र युद्धे सकले कङ्ककुले गतेऽपि दूरम् ।
प्रमद् दधदेक एव कङ्क परिबभ्राम सभीमपक्षपात ॥ ९८ ॥
 अन्योन्यपट्टसविघट्टभवै स्फुलिङ्गै
  राजिस्थले 'तिमिरकर्दमभाजि योधा ।
 आगामिनीषु समितिष्वधिक विधातु
  मासन्प्रतापनवबीजमिवावपन्त ॥ ९९ ॥
 नलिनीशबिम्बपथचारमलब्ध्वा
  बभसि भ्रमत्सु नववीरसुरेषु ।


 सकोच्येति । तत्र अन्वकारे एकेषु कतिषु पत्रिषु पक्षिषु पक्षान् गस्त सकोच्य मुकुलयित्वा सविशत्सु निलीयमानेषु सत्स्वपि । कुलायेष्विति भग्घ। अपरे कतिचित् पत्रिण पक्षिण बाणाश्च । ‘पत्रिणौ शरपक्षिणौ' इत्यमर । पक्षान् विस्तार्य विकासयित्वा तत्रैव विचेरु सवरति स्म । श्लेषसकीर्णो विरोधाभास ॥ ९७ ॥

 शरेति । तत्र युद्धे । तद्देश इत्यर्थ । शरवर्षभयेन बाणसपातभयेन सकले कङ्काना गृध्राणा कुले दूर दूरदेश गते सत्यपि प्रमद सतोष प्रकृष्टरणगर्व च दधत् वहन्नेव एक कङ्क गृध्र युधिष्ठिरश्च भीमेन भयकरेण पक्षयो पातेन गमनेन भीमस्य पक्षपातेन सभयकरणेन च सहित सभीमपक्षपात सन् परित सवत्र बभ्राम सचचार । अत्रापि पूर्ववद्विरोधाभास । औपच्छन्दसिकम् ॥ ९८ ॥

 अन्योन्येति । योधा उभये भटा अन्योन्यस्य पट्टसेभ्य खङ्गविशेषेभ्यः पट्टमानामिति वा विघठ्ठेन सघर्षेण विघट्टद्वा भवन्ति जायन्त इति भवै स्फुलिङ्गं अग्निकणै उपलक्षिता आगामिनीषु समितिषु युद्धेषु अविक उपचय विधातु तिमिर तम एव र्क्दम पङ्क भजतीति भाजि आजिस्थले युद्धक्षेत्रे प्रतापस्य नव बीज आवपन्त न्यस्यन्त इवेत्युत्प्रेक्षा । आसन् बभूवु । अत्र तिमिरस्य पङ्कत्वेन रूपणेन आजिस्थलस्य केदारत्वरूपणप्रतीतेरेकघतिरूपकालकार ॥ ९९ ॥

 नलिनीति । नवा वीरा अपरावर्त्यमृतभटा एव सुरा तेषु। देवभूय गतेषु योधेष्वित्यर्थ । नलिनीशस्य सूर्यस्य बिम्बे पन्था बिम्बपथ तस्मिन् चार गमन अलब्ध्वा अप्राप्य । तदा सूर्यस्यास्तगतादिति भाव । नभसि आकाश एव भ्रम-


 करपल्लवौ परिनिपीडय मृगाक्ष्य
  कळहाय नक्तमशपन्त सुराणाम् ॥ १०० ॥
रराज हैमी रथकेतुराजी रज्यत्पटा रक्तकणै प्रकीर्णौ[९०१]
आकर्ण्य युद्वद्भुतमर्धमार्गाद्रष्टु निवृत्ता चरमेव सध्या ॥ १०१ ॥

तत्र तावदरिशरनिकृत्तमत्तगजस[९०२]प्तिरथपतिकुलनवरक्तसिक्त रणचत्वरमनुभूय भूयसा रोषेण सवर्तसमवार्तिसममूर्तिर्हृदि नर्विनधूर्तधार्तराष्ट्रशासनवार्तस्त्रैग[९०३]र्त कैवर्त इव मत्स्यचक्त्रवर्तिनमाहर्तु मुहूर्तादुपावर्तत ॥


त्सु सत्सु । सुराणा मृगाक्ष्य अप्सरस कलहाय रात्र्या सह वाग्युद्ध कतुमिति 'क्रियार्थं-' इत्यादिना चतुर्थी । करौ पश्वाविव तो परिनिपीडय मिथो मेलयित्वा नक्त रात्रिं अशपन्त । अस्मद्धोगाय दुह्ययन्ती कियच्चिर विलम्बस इत्यादि परुषवाचोऽवदन्नित्यर्थ । सूयमण्डलगमनानुसारेण तेषा स्वगप्राव्त्या यावनक्त तर सभत्रादिति भाव । अत्र नववीरसुराणा गगने विलम्बसबन्धेऽपि तत्सबन्वो- क्तिनपातिशयोक्त सुराङ्गनाना रात्रिशपनासबन्धेऽपि तत्सबन्वरूपातिशयोक्तेश्च द्वयोरङ्गाङ्गिभावेन सकर । सुमङ्गली ॥ १०० ॥

 रराजेति । अय प्रकीण उत्क्षिप्ते रक्तकणै योधाना रुधिरबिन्दुभि रज्यन्त अरुगायमाना पटा पताकावत्राणि यस्या सा हेमी काञ्चनी रथेषु केतुना राजि पङ्क्ति युद्धाद्धुत आकण्य द्रष्टु अर्धमागात् मागमध्यात् निवृत्ता पुनरागता चरमा सध्या सायतनस येवेत्युत्प्रेक्षा । रराज ॥ १०१ ॥

 तत्रेति । तत्र युद्धे । तावदिति वाक्यालकारे । अरीणा शरे निकृत्ताश् छिन्नाना निजाना च इति विशेषणद्वय चतुरश्रेष्मपि योज्यम् । मत्ताना गजाना सतीना अश्वना रथाना सर्वत्र तदारूढाना चेत्यपि पत्तीना पादाताना च यानि कुलानि वृन्दानि तत्पङ्क्ति सबन्धि नव रक्ते सित आद्रित रणचखर युद्धाझण अनुभूय दृष्टा भूयसा महता रोषेण सवर्तसमवतिना प्रलयकालान्तकेन समा मूति शरीर यस्य तथोक्त । रोषभीषणाकृतिरित्यर्थ । हृदि मनसि नतिता पुन पुन स्मर्यमाणा धूर्तस्य वञ्चक्स्य धार्तराष्ट्रस्य दुयोधनस्य शासनवार्ता आज्ञावाक्य येन तथोक । त्रिगर्ताना नाम जनपदाना राजा त्रैगर्त सुशमा कैवर्त मत्स्यग्राहीव मत्स्य चक्रवर्तिन विराट मीनश्रेष्ठ च मुहूर्तात् अल्पकालात् आहर्तु ग्रहीतु उपावर्तत समीपमागतवान् क्ष्लिष्टविशेषणोपमाद्वयस्य मृत्त्यनुप्रासस्य चैक्वाचका नुप्रवेशसकर ॥


मानिनामचरमोऽथ सुशर्मा मध्यवार्तिनमनीकपयोधे ।
समुखो झटिति बन्धमनैषीत्स ज्यया रिपुमपत्रपया च ॥ १०२ ॥
 भूपे पराभवपदे युघि धर्मसूनो-
  र्भ्रूवल्लिकम्पकलिकासवतसयन्स ।
 मध्नन्बलानि रिपवे मरुत कुमारो
  मात्स्य विमुच्य विततार द्शा तदीयाम् ॥ १०३ ॥
विराटसैन्येषु मिषत्सु युद्धे त्रिगर्तनेतुर्हढबन्धनाय ।
कोदण्डयुक्तो गुण एव वत्र कर्ता च जज्ञे करण च जज्ञे ॥ १५४ ॥


 मानिनामिति । अथ विराटसमीपगमनानन्तर मानिना प्रशस्तमानाना अचरम प्रथम स सुशर्मा समुख विराटाभिमुख सन् अनीकस्य सैन्यस्यैव पयोधे मध्यवर्तिन रिपु विराट ज्यया धनुर्गुणेन झटिति सत्वर बन्ध अनैषीत् प्रापयामास । झटिति तत्क्षणमेव अपत्रपया लज्जया च बन्ध अनैषीत अतिलज्जित चक्रे । मानभङ्गादिति भाव । नयतेर्द्धिकर्मकात् कर्तरि लुड् । अत्र धनुर्गुणबन्धनव्यापरेणैवैकेन लज्जाबन्धनस्याप्यन्यस्योत्पत्तिवर्णनाद्विशेषालकारभेद । खागता ॥ १०२ ॥

 भूप इति । भूपे विराटे युधि युद्धे पराभवस्य पदे स्थाने । अवमानिते सतीति यावत् धर्मसूनो युधिष्ठिरस्य भ्रूरेव वल्ली तस्या कम्प आज्ञासूचक एव कलिका कोरक ता अवतसयन् शिरोभूषणीकुर्वम् । तदाज्ञा शिरसा वहन्नित्यर्थ । अतएव स प्रसिद्ध मरुत वायो कुमार भीम बलानि शत्रुसैन्यानि मश्नन् भजयन् सन् मात्स्य विराट विमुल्य बन्धान्मोचयित्वा तस्य विराटस्येमा तदीया दशा बन्धनावस्था रिपवे सुशर्मणे विततार दत्तवान् । अत्र भ्रूवल्लिकम्पे आरोप्यमाणाया कलिकाया अवतसीकरणोपयोगित्वात् परिणामालकार । बन्धनकर्तु बन्धनमित्यनुपसघटनात्मकसमालकारेण सकीर्ण ॥ १०३ ॥

 विराटेति । युद्ध युधि विराटसैन्येषु मिषत्सु स्वयकर्तुमशक्यत्वात्तूष्णी पश्यत्सु सत्सु त्रिगर्तनेतु सुशर्मण दृढ बन्धनाय कोदण्डेन चापेन युक्त सहित कोदण्डे युक्त योजितश्च गुण भीम एव मार्व्येवेति च कर्ता कारकश्च जज्ञे अभूत् । करण श्रेष्ठसाधन च जज्ञे । भीमो धनुर्गुणेन सुशर्माण बबन्धेत्यर्थ । अत्र कर्तुराख्यातेनाभिहितत्वात् प्रथमा, करणस्य अनभिहितत्वात् तत्र तृतीया चेति ध्येयम् । अत्रैकस्यैव तत्रापि गुणस्य कर्तुत्व करणत्व चाश्चर्यमिति भाव । अतएव विरोधाभास । गुणशब्दक्ष्लेषभित्तिकाभेदाध्यवसायमूलातिशयोक्त्यनुप्राणित इति तयोरङ्गाङ्गिभावेन सकर । ‘गुण प्रधाने रूपादौ भौर्व्या सूदे वृकोदरे’ इति विश्व ॥ १०४ ॥


तस्या निशाया तु तम कदम्बक
 निमीलनोन्मीलनयोर्ध्शा यथा ।
[९०४]इत्थ तयोर्मात्स्यसुशर्मणोस्तथा
 समानरूप फलमेव सदधौ ॥ १०५ ॥
विमानितो वायुभुवा विराटतो
 विमोचितो वर्मभुवा दयालुना ।
तया रजन्येव स सामिशेषया
 सम ध्वजिन्या निरगाद्यथागतम् ॥ १०६ ॥
व्याकृत्तशीर्षकरको विमलास्थिदन्तो
 रक्तहृढशुकधरो रथकेतुदण्ड ।
से[९०५]नाक्ष्याद्धृतशम स्वयमाजिरङ्ग
 कङ्कादिवाप चरमाश्रमसप्रदायम् ॥ १०७ ॥


 तस्यामिति । तस्या निशायारात्रौ तमस कदम्बक वृन्द दृशा लोकनेत्राणा सबन्धिनो निमीलनस्य उन्मीलनस्य च दूयोरपि सम।नरूप एकविधमेव फल इदमेत दिति वस्तुपरिच्छेदज्ञानशून्यत्वरूपम् । यथा सदवौ सघटयात्क्रे तथा तस्या निशाया युद्धमपि मात्स्यस्य विराटस्य सुशर्मणश्च द्वयोरपि समानरूपमेव फल बन्धनरूप सदधौ । अत्र तमोयुद्धयो प्रकृतयो समानफल्सदायखेनैौपम्यस्य गम्यत्वातुख्य योगिताभेद । शृत्त तु इन्द्रवशावशस्थमिश्रितोपजातिभेद ।‘स्यादिन्द्रवशा ततजैरसयुतै’ इति इन्द्रवशालक्षणम् । वशस्थलक्षण तूक्तम् ॥ १०५ ॥

 विमानित इति । वायुभुवा भीमेन विमानित । बद्ध इति यावत् । दयालुना करुणाशीलेन बर्मभुवा वर्मराजेन विराटत विराटात् विमोचित अनुज्ञापित । तदानी तस्य स्वप्रभुत्वादिति भाव । स सुशर्मा सामि अर्ध शेष यस्यास्तया। अर्धावशिष्टयेत्यर्थ । तथैव रजन्या रात्र्या यथागतम् । यस्मादागतस्त देशमुद्दिश्येत्यर्थ । ध्वजिन्या सम सेनया सह निरगात् निर्गतवान् । वशस्थम् ॥ १०६ ॥

 व्याकृत्तेति । व्याकृत्त छिन शीर्ष शिर एव करक कमण्डलु यस्य तथोक्त । अविमला शुभ्रा अस्थीन्येव दन्ता यस्य तथोक । रक्तह्रदा एव अकुशानि काषायचस्राणि वरतीति तद्धर ग्थकेतुरेव दण्ड यस्य तथोक्त । सेनाक्षयात् घृत शम युद्धोपरम एव अन्तरिन्द्रियनिग्रह येन तथोक्त । आजिरङ्ग युद्धदेश स्खयमपि कङ्कात् युधिष्ठिरात् चरमाश्रमस्य सन्यासस्य सप्रदाय आचार आप प्राप्तवानिवेत्युत्प्रेक्षा । समस्तवस्तुवर्तिसावयवरूपकोज्जीवितेति द्वयोरङ्गाङ्गिभावेन सकर ॥१०७॥


 तदनु [९०६]मुहुर्मुहुर्वललमेव केव[९०७]लमवलोकमाना बलशासनदिशायामोजायमानेन चन्द्रमसा [९०८]प्रसृताभिर्मदसहितकरिघटाविषाणाङ्गणप्रतिफलनशतगुणितधवलिमवीचिभिर्मरीचिभिर्दलितरणवि[९०९]मर्ददुर्दशाविराटस्य चमूरपि प्रतिनि[९१०]वर्तनहृष्यमाणगोधनवेगप्रभुतक्षीर[९११]धारापातशीतलितसिकताया पदव्या पक्ष्मपङ्किनिलीनेन समरभूरेणुभारेण नयननिमीलनशिल्पकल्पितबहुसाहाय्यकमुद्रया [९१२]निद्रया ता यामिनींं [९१३]पश्चार्धसीमान प्रत्यवीवहत् ।

इत्यनन्तभट्टकविकृतौ चम्पूभारते षष्ट स्तबक ।


 तदन्विति । तदनु युद्धोपरमानन्तर सुशर्मगमनानन्तरमिति वा वलल भीममेव केवल मुख्य यथातथा मुहुमुहु अवलोमाना पश्यन्ती विराटस्य चसू सेनापि बलशासनस्य इन्द्रस्य दिशाया प्राच्याम् । ‘आप चैव हलन्तानाम्’ इति वागुयनुशासनादाकारान्तत्वम् । ओजायमानेन प्रकाशमानेन। ओज शब्दस्तद्वत्पर । चन्द्र मसा चन्द्रेण प्रसृताभि प्रकटिताभि मदसहिताया मदयुक्ताया करिघटाया गजवृन्दस्य विषाणयो दन्तयो अङ्गणेषु प्रदेशेषु प्रतिफलनै सक्रमणै शतगुणिता । शतशब्दोऽनेक्त्वपर , अन्यथा तत्रत्यगजविषाणाना शत्वेन निर्णायकाभावात् धावल्यपरम्परासु शतगुणितत्वोक्तौ हेत्वनुपन्यासेन निर्हेतुत्वदोषापत्तिरिति ध्येयम् । तथा च अनेकधा आत्रता इत्यर्थ ।धवलिम्न क्ष्वैत्यस्य वीचय परम्परा यासा ताभि मरीचिभि किरण दलिता निरस्ता रणे विमर्देन मिथ सघर्षेण या दुर्दशा दुरवस्था श्रमरूपा यस्यास्तथोक्ता सती प्रतिनिवर्तनेन सुशर्मावरोधात् प्रत्या गमनेन हृष्यमाणात् सतुष्यत गोवनात् वेगेन गमनत्वरया प्रस्नुताना क्षरिताना क्षीराणा धारापातै शीतलिता सजातशैत्या सिकता यस्या तथोक्ताया पदव्या मार्गे पक्ष्मणा नेत्रपुटलोम्ना पङ्क्तिषु निलीनेन सलग्नेन समरभुवि युद्धभूमौ रेणोधूले भारेण अतिशयेनैव भारेणेति श्लिष्टरूपकम् । नयनयोनिमीलनशिल्पे मुकुलनव्यापारे विषये कल्पिता बही साहाय्यमुद्रा सहायताकरण यस्यास्तया निद्रया उपलक्षिता ता यामिनीं युद्धरात्रि अपरोऽर्व पश्वार्ध उत्तरभाग । ‘अपरस्यार्धे पश्चभावो वक्तव्य’ इत्यपरशब्दस्य पश्चादेश । तस्य सीमान अन्तभाग प्रति अवीवहत् प्रापयामास । ता रात्रि गमयामासेत्यर्थ । णिजन्ताद्वहते कर्तरि


लुड्। ‘च्लि लुटि’ इति च्लौ ‘णिश्रिद्रुस्त्रभ्य कर्तरि चड्' इति च्लेक्ष्चडि ‘चडि' इति द्वित्वे ‘सन्वल्लघुनि चङ्परेऽनग्लोपे’ इति सन्वद्भावे ‘सन्यत ’ इत्यभ्या साकारस्येत्वे ‘दीर्घो लघो’ इति तस्य दीर्घे चावीवहदिति रूपम् । अत्र मुहुर्मुहुर्बललमेव पश्यन्तीति विशेषणस्य विराटमोचनसुशर्मबन्धनसामर्थाभिप्रायगर्भखात्परिकरालकार । ‘अलकार परिकार साभिप्राये विशेषणे’ इति तलक्ष णात् वललमेव पश्यन्ती 'बल शासनदिशायाम्’ इत्यत्र वलेति वर्णद्वयस्य अव्य पेतव्यपेतात्मकावृत्तिश्रवणाच्छेकानुप्रास । द्वयोश्च काव्यप्रकाशिकोक्तदिशा एक वाचकानुप्रवेशसकर । विषाणा कणेति शतगुणितेति च णकारस्य त्रिवारमाद्यु तेर्पृत्त्यनुप्रासोऽस्य चोक्तसकरेण ससृष्टि ॥

इति कुरविकुलचन्द्रस्य रामकवीन्द्रस्य कृतौ चम्पूभारतव्याख्याने लास्याभिधाने षष्ठ स्तबक समाप्त ।


 आरूढे द्यामर्कबिम्बे परेधु
  साक सैन्यै सार्वभौम कुरूणाम् ।
 पार्थादेका बिभ्रदाहृत्य गोत्रा
  मात्स्याद्न्या त[९१४]त्पुर हर्तुमागात् ॥ १ ॥
[९१५]सुदूरमार्गश्रमविह्वलाङ्गी सेना समस्ता धृतराष्ट्रसूनो ।
आभीरवाटान्तिक एव तस्थौ सद्यो निरुद्धेव तदाज्यगन्धै ॥ २ ॥

 तावत्तस्य पादात सर्वाभिसारेण गाह गाह गवा व्रज व्रजगृहे प्रज[९१६]गृहे ।


 आरूढ इति । परेद्यु दक्षिणगोग्रहणदिवसात् परस्मिन् दिवसे अर्कबिम्बे सूर्यमण्डले द्या आकाश आरूढे ईषदूरमाक्रान्ते सति कुरूणा सार्वभौम दुर्योधन । पार्थात् धर्मराजात् एका गोत्रा भुव आहृत्य घृतेनापहृत्य बिभ्रदपि सन्। “नाभ्यस्ताच्छतु ’ इति नुन्निषेध । माव्स्यात् विराटादपीत्यपिरुभयत्राप्यध्याहार्य । ‘कमपराधलव मयि पश्यसि’ इत्यादाविव गम्यमानार्थत्वादप्रयोग । अन्या गोत्रा भुव गोसमूह च । ‘गोत्रा गोनिचये भूम्याम्' इति वैजयन्ती । हर्तु तस्य पुर विराटस्य पट्टण प्रति । सैन्यै चतुरङ्गै साकम् । ‘साक सना सम सह' इत्यमर । आगात् प्राप्तवान् । ‘प्रायो धनवतामेव धने तृष्णा गरीयसी । पश्य कोटिद्वयासक्त लक्षाय प्रवण बनु ॥' इति प्रसिद्धेरिति भाव । अत्र भूगोवृन्दयो क्ष्लेषभित्तिकाभेदाध्यवसायमूलातिशयोक्त्या दुष्पूरा बनवता वने तृष्णेति वस्तुन प्रतीतेरलकारेण वस्तुध्वनि । शालिनीमृत्तम् ॥ १ ॥

 सुदूरेति । सुदूरेण अतिदूरेण मार्गेण । मार्गगमनेनेत्यर्थ । य श्रम तेन बिहलानि श्रान्तानि अङ्गानि यस्यास्तथोक्ता । अतएव समस्ता धृतराष्ट्रसूनो दुर्योधनस्य सेना। आभीरवाटस्य गोपपल्लथा अन्तिके समीप एव । तस्या गोपपल्लस्य सबन्धिभि आज्यगन्धै धृतपरिमुलै. सद्य आगमनक्षण एव निरुद्धेवेत्युत्प्रेक्षा । तस्थौ अतिष्ठत् । परिमलाघ्राणस्य श्रमशामकत्व प्रसिद्धम् ॥ २ ॥

 तावदिति । तावत् तदानीमेव तस्य पादात पादचारि बल ब्रजगृहे गोपपल्लथा गाह गाह प्रविश्य प्रविश्य सर्वाभिसारेण सर्वोद्योगेन गवा व्रज वृन्द प्रकर्षेण जगृहे जग्राह ।


दुण्डाघाते दीयमानेऽपि योधैर्दुग्ध भूयो दोहशेष वहन्त्य ।
घोषाद्रावो नि सरन्ति स्म यत्नाग्दोभ्यो घोषो यत्नलेश विनैव ॥ ३ ॥
इतस्तत सभ्रममीयुषीणा गोपाङ्गनाना कुचदर्शनेन ।
निषादपङ्क्तिर्निजहस्तिम[९१७] स्तके सृणि नि[९१८]धातु क्ष्लथपाणिरासीत् ॥ ४ ॥
भीमसेनमिषजा शमितो यो दक्षिणे झटिति म[९१९]त्स्यपुरस्य ।
उत्तरेऽप्युदभवत्स तु पार्क्ष्वे प[९२०]क्षवात इव कौरव[९२१]बाध ॥ ५ ॥


 एण्डेति । योधै दुर्योधनभटै दण्डै लगुडै आधाते ताडने दीयमाने कृते सत्यपि दोहात् शेष अवशिष्ट भूय बहुल दुग्ध क्षीर वहन्त्य । ऊध स्खिति भाव । अतएव गाव यत्नात् । अतिकष्टादित्यर्थ । घोषात् गोपपल्लया नि सरन्ति स्म निर्जग्मु । घोष गोपपल्लीषु सक्षोभजनितहुकारावस्त्विति च (?)। ‘घोष सकुलनिध्वानगोपालाभीरपल्लिषु' इति विश्व । यत्नलेश अल्पमपि यत्न विनव नि सरन्ति स्म । जाता इत्यर्थ । अत्र घोषाद्रोनि सरणमान्द्यस्य दोहावशिष्टबहुलक्षीरधारणेन समर्थनात्पदाथहेतुक काव्यलिङ्गम् । एवमुत्तरवाक्यार्थे यत्न रूप कारण विनैव घोषनि सरणरूपकार्यवर्णनाद्विभावनालकार । अय च गोकुलसङ्कलारावयो घोषशब्दश्लेषभित्तिकाभेदाध्यवसायमूलातिशयोक्त्यनुप्राणित इति द्वयोरङ्गाङ्गिभावेन सकर । अस्य च पूर्ववाक्यार्थकाव्यलिङ्गस्य च स्फुटावगम्यवैलक्षण्यात्ससृष्टि ॥ ३ ॥

 इतस्तत इति । इतस्तत परित सश्रम भयेन भ्रम ईयुषीणा प्राप्ताना गोपाङ्गनाना कुचयो दर्शनेन हेतुना । निषादिना गजयन्तृणा पटिक्त निजाना इस्तिना गजना मस्तके मूध्रि । कुम्भद्वय इति यावत् । सृणि अङ्कुश निधातु श्लथौ निर्व्यापारौ पाणी हस्तो यस्यास्तयोक्ता आसीत् । गजकुम्भयो द्वित्वैकवृत्तित्वपीनत्वादिगुणसपतिकृतगोपाङ्गनाकुचभ्रमान्निषादिन नखोचितयोरनयो नाङ्कश पात्य इत्यालोच्य त तत्र परिजहुरित्यर्थ । अतएवोक्तभ्रान्तेविशेषणगत्या अङ्कुशप्रहारत्यागहेतुत्वात्पदार्थहेतुक काव्यलिङ्ग भ्रान्तिमदुज्जीवितमिति तयोरङ्गाङ्गिभावेन सफर ॥ ४ ॥

 भीमेति । मत्स्यपुरस्य दक्षिणे देशे सव्येतरपक्षे च य कौरवबाध गोग्रहणरूप । भीमसेनेनैव भिषजा वैधेन झटिति सत्वर शमित निवारित चिकि त्सितश्च स तु कौरवबाध पक्षवात वायुरोगविशेष इव मत्स्यपुरस्य उत्तरे पर्क्षेsपि सव्ये पक्षेऽपि उदभवत् आविर्बभूव । एकस्मिन् पक्षे शान्तस्य पक्षवायो परस्मिन् उदय प्रसिद्ध । उपमालकार । स्वागता ॥ ५ ॥


 वृत्त निवेदयितुमेतदतीव वेगा-
  दाधाव्य कश्चिदथ गोपयुवा विविग्न[९२२]
 रिङ्खत्पदा क्षितिपतेरिव घोषसीम्नि
  स्वस्यापि गा विमुमुचे नृपसूनुगोष्ठधाम् ॥ ६ ॥
औदास्य किमिद कुमार कुरवो गृहन्ति गास्तेऽखिला-
 स्वहोष्णो समयोऽयमाजिषु परैर्दुष्प्रापमाप्नु यश ।
देवीं केकय[९२३]नन्दना कुरू महावीरप्रसूमूर्धसु
 द्रगारोह रथ गृहाण च धनुर्धत्वाभ्यमित्रीणताम् ॥ ७ ॥


 वृत्तमिति । अथ उत्तरगोग्रहणानन्तर कश्चिद्रोपयुवा, न तु वृद्ध बालो वा । द्वयोरपि गतेिवेगपाटवासभवादिति युवेत्युक्तम् । विविग्न अतिदु खित सन् । एतत् वृत्त वृत्तान्त कौरवैर्गोग्रहण निवेदयितु ज्ञापयितु अतीव भृश वेगात् आश्राव्य धावित्रा घोषसीम्नि गोकुले रिङ्खन्ति प्रस्खलन्ति पदानि पादन्यासा शब्दाश्च यासा ता । क्षितिपते विराटस्य गा धेनुरिव स्वस्य आत्मन गा वाचोऽपि धेनूरपीति । नृपसूनो उत्तरस्य गोष्ठथा सभाया विमुमुचे त्यक्तवान् उक्तवाक्ष्चेत्यर्थ । अत्र प्रकृतानामेव धेनूना वाचा च श्लेषभित्तिकालब्धैक्यस्यागोदीरणद्विकस्खलपादन्यासगद्गदशब्दकत्वद्विकधर्माभ्या औपम्यस्य गम्यत्वात्ल्ययोगिताभेद । ‘खर्गेषुपशुवाग्वत्रदिनेत्रघृणिभूजले । लक्ष्यदृष्टयो व्रिया पुंसि' इत्यमरकोशाद्धेतूना वाचा च श्लेषभित्तिकाभेदाध्यवसायमूलातिशयोक्त्या सहैकवाचकानुप्रवेशेन सकीर्ण ॥ ६ ॥

 औदास्यमिति । हे कुमार उत्तर, इद औदास्य उदासीनलम् । उपेक्षेति यावत् । किम् । कुत इत्यर्थ । कुरव दुर्योधनादय अखिला ते तव गागृहन्ति अपहरन्ति । आजिषु युद्धेषु परै अन्यै दुष्प्राप दुर्मुभ यश आढ लब्धु तव दोष्णो अय समय अवसर । केकयनन्दना देवी सुदेष्ण खन्मातर महतीना वीरप्रवीरमातृणा मूर्धसु अग्रभागेषु कुरु । सचनस्य प्रापयेयर्थ । रथ द्वाकु सखर आरोह । धनुश्च य्हाण । अभ्यमित्रीणता शशून्प्रति गमन धत्ख स्वीकुरु । ‘यो गच्छत्यल विद्विषत प्रति । सोऽभ्यमित्रोऽभ्यमित्रीयोऽप्यभ्यमि त्रीण इत्यपि । ’ इत्यमर । ‘अभ्यमित्रच्छ च' इति चकारादनुवर्तमान खप्रत्यय । अत्रैकस्यैवोत्तरस्य कर्तृकारकस्य स्थापनाद्यनेकक्रियान्वयिखात्कारकदीपक नामालकार । ‘क्रमिकैकगताना तु गुम्फ कारकदीपकम्’ इति लक्षात् ॥ ७ ॥


[९२४]अकर्तृकाण्यध वशे कुरूणा
 पाण्डुस्नुषाया वसनानि सन्ति ।
आहृत्य नस्तानि दिशेति कन्या-
 स्तमभ्ययाचन्त कुतूहलिन्य ॥ १५ ॥

 तत्क्षण यातायातसरभसराजलेखवाहमुखश्रुत[९२५]बललभुजावलेपवृत्तान्तमोदमानसूदकुल [९२६]वीरपत्नीत्ववीरजननीत्वयुगपत्प्रसिद्धेर्वैजननो बासरोऽयमिति कात्यायनीजनसस्तूयमानसुदेष्ण मस्तकतलविन्यस्त[९२७]हस्तप्रवृद्धबल्लवया[९२८]षिदभययोचनावचनप्रतिशब्ददानद-


 अकर्तृकाणीति । न विद्यते कर्ता तन्तुवाय येषा तानि । ‘नधृतश्च’ इति कप् । तेषा भगवत्कारुण्येन खयमेवोत्पन्नत्वादिति भाव । पाण्डो स्नुषया द्रौपद्या वसनानि दु शासनापहृतवस्त्राणि अद्य कुरूणा वशे सन्ति तानि वत्राणि आहृत्य न अस्मभ्य दिश प्रतियच्छ । इत्युक्तप्रकार कन्या उत्तराद्या कुतूहूलिन्य अपूर्ववत्रकौतूहलवत्य सत्य । त युद्धसनद्धमुत्तर अभ्ययाचन्त याचितवत्य ॥ १५ ॥

 तदिति । तस्मिनेव क्षणे तत्क्षण उत्तरयात्राक्षण एव तत्पुर बिराटनगर यातायातयो गतप्रत्यागतयो रभसेन वेगेन सहिताना सरभसाना राज्ञ विराटस्य सबन्धिना लेखवाहना पत्रिकानेतृणा मुखै वचनै श्रुतेन शतेन बललस्य भीमस्य भुजयो अवलेपस्य गर्वस्य । पराक्रमस्येति यावत् । वृत्तान्तेन मोदमान सतुष्यत् सूदकुल पाचकवृन्द यस्मिन् तथोक्तम् । अय वासर वीरपत्नीलस्य वीरजननीत्वस्य च द्वयो युगपत् ऐककालिकाया प्रसिद्धे कीत वैजनन प्रसूतिदिवस इत्युक्तप्रकारेण कात्यायनीजनेन सम्यक्स्तूयमाना सुदेष्णा यस्मिस्तथोक्तम् । दक्षिणे गोग्रहे विराटस्येव उत्तरस्य उत्तरेऽपि ताभि जयसभावनादिति भाव । ‘कात्यायन्यशृऋद्धा या काषायवसनाधवा’ इत्यमर । मस्तकतले शिरसि विन्यस्तौ प्रणामार्थे निहितौ हस्तौ याभिस्तासा प्रवृद्धाना बल्लवयोषिता गोपाङ्गनाना सबन्धिना अभयस्य याचनावचनाना प्रार्थनावाक्याना प्रतिशब्ददाने प्रत्युत्तरदाने प्रतिध्वनिदाने च दक्षै समर्थै गवाक्षैरेव गवाक्षमात्रै उपल-


क्ष[९२९]गवाक्षमात्रोपलक्षित कुमारप्रया [९३०]णपरिहार्यमाणमातुलशतान्त पुरवधूटीनवविलापघोष तत्पुरमासीत् ॥

 लाजाभिवर्षी ललनासमाजो
  राज्ञ कुमाराय रथस्थिताय ।
 मुदाशिष मूल्यमिव व्यतानी-
  ज्जिद्युक्षिताना द्विषदशुकानाम् ॥ १६ ॥
आलेख्यदत्तै पुरुपैरुपेतामालोकयन्राजप[९३१]थे प्रतोलीम् ।
घे[९३२]टान्नुदन्तीं स रथे निबद्धान्पोटा पुरस्कृत्य पुराप्रतस्थे ॥ १७ ॥

 तदनु दक्षिणदिङ्मुखादुदयमान पवमानो [९३३]वृन्दारकमुक्तमन्दारकुसुमवर्षमन्दायितधूमगन्ध ब[९३४]ललस्य चिकुरबन्धमाघ्राय नि-


क्षितं दृश्यमानम् । उत्तर विना सर्वेषामपि वीराणा विराटेन सह गतत्वात् प्रतिश ब्दायमानान् गवाक्षान् विना प्रत्युत्तरदायकस्य कस्याप्यभावादिति भाव । कुमारस्य उत्तरस्य प्रयाणकाले परिहार्यमाण अमङ्गलाशङ्कया विसृज्यमान मातुलशतस्य कीचकशतस्य अन्त पुरे वधूटीना भार्याणा सबन्धिन नवस्य विलापम्य भर्तृशोकरोदनस्य घोष कोलाहल यास्मिस्तथोक्त च आसीत् ।

 लाजेति । ललनाना पौराङ्गनाना समाज समूह रथे स्थिताय राज्ञ विरा टस्य कुमाराय उत्तराय लाजान् शुभार्थे आचारलाजान् अभितो वषतीति तथोक्त सन् गृहीतुमिष्टाना जिद्युक्षितानाम् । गृह्राते सन्नन्तात्कर्मणि क्त । द्विषदशुकाना कौरववस्त्राणा मूल्य क्रयद्रव्यमिवेत्युत्प्रेक्षा । आशिष आशीर्वाद मुदा व्यतानी विस्तारयामास ॥ १६ ॥

 आलेख्येति । स उत्तर आलेख्ये चित्रे दत्तै युध्यमानत्वेन लिखितै पुरुषै उपेता सगता प्रतोलीं चतुष्पथमण्डप राजपथे राजमार्गे आलोकयन् ईदृशान्येव सर्वाण्यपि युद्धानीति तर्कयन् सन्नित्यर्थ । रथे निबद्धान घेटान् अश्वान् नुदन्तीं प्रेरयन्तीं पोटा स्त्रीपुसलक्षणा बृहन्नला पुरस्कृत्य पुरात् प्रतस्थे ॥ १७ ॥

 तदन्विति । तदनु उत्तरनिर्गमनानन्तर दक्षिणाया दिश मुखात् अग्रभागात् । मलयादिति यावत् । उदयमान आविर्भवन्निति शैत्योक्ति । पवमान वायु हृन्दारकै देवै मुक्ताना सुशर्मविजयसमये प्रसारिताना मन्दार कुसुमाना वर्षेण मन्दायित क्षीण धूमगन्ध महानसलग्न यस्य तथोक्त बललस्य चिकुरबन्ध वम्मिल्ल आघ्राय स्पृष्ठेति सौरभ्योक्ति । निशि राज्या


शि तस्य जयोरसव वि [९३५]ज्ञापयितुमवसर विचिन्वन्निव विराट्कुरुनन्मयो स्यन्दनसमीपे मन्दमन्दमस्पन्दत ।

[९३६]प्रस्वापितेभ्य परभूपतिभ्य सजातिवर्ग सुलभो रणेऽस्मिन् ।
भविष्यतीव प्रननर्त हृष्टा शताङ्गशाटी शतमन्युसूनो ॥ १८ ॥
 जले मत्स्यान्दधानोऽपि स्थले मत्स्यान्विलोकितुम् ।
  आगतोऽब्धिरिवानीक कुरूणा ददृशे तत ॥ १९॥
 सेहे जिष्णुर्न तत्रारे सेनाधूलि विसृत्वरीम् ।
  प्रायेण मानिना पुसा परागो न हि सह्यते ॥ २० ॥


तस्य भीमस्य स्वपुत्रस्य जयोत्सव विज्ञापयितु अवसरयुक्तकाल विचिन्वन् प्रतीक्षमाण इव । विराटनन्दनस्य उत्तरस्य कुरुनन्दनस्य अर्जुनस्य द्वयो । स्यन्दनस्य रथस्य समीपे मन्द मन्द अस्पन्दत चल ति स्म । गुणत्रयसमृद्ध पवन अनुकूल प्रवृत्त इत्यर्थे । अत्र दक्षिणदिङ्मुखादुदयमान इति विशेषणस्य भीमविजयवृत्तान्तविज्ञानाभिप्राथगर्भत्परिकरालकार । तेन च शुभसूचकपवभानमान्धे विजयवृत्तान्तविज्ञापनफलकावसरप्रतीक्षाप्रयुक्तत्वोत्प्रेक्षानुप्राणनात् द्वयोरङ्गाङ्गिभावेन सकर ।

 प्रस्वापितेभ्य इति । शत मन्यव क्र्तव यस्य तस्य इन्द्रस्य सूनो अर्जुनस्य । ‘मन्युर्दैन्ये क्रतौ क्रुधि’ इत्यमर ।शताङ्गे रथे शाटी ध्वजपट अस्मिन् रणे युद्धे प्रस्वापितेभ्यः प्रखापनात्रेण निद्रा प्रापितेभ्य परभूपतिभ्य शत्रुराअभ्य समाना अभिन्ना जाति वस्रत्वरूपा येषा तेषा वर्ग समूह सुलभ भविप्यतीति हेतो । हृष्टेवेत्प्रेक्षा । ननर्त नृत्यति स्म । अनुकूलवातेन चचाले त्यथं । ‘भविष्यतीतीव ननर्त इत्येव पाठ । ‘प्रणनर्त’ इति पाठे उत्प्रेक्षया गम्यत्वापात ॥ १८ ॥

 जल इति । तत कुरूणा अनीक कौरवसैन्यम् । जले मत्स्यान् मीनान् दधानोऽपि स्थले मत्स्यान् वैराटाश्च विलोकितु आगत अब्धि समुद्र इवेत्युत्प्रेक्षा । ददृशे । उत्तरार्जुनाभ्यामिति शेष । अत्र कुरुसैन्यस्य समुद्रत्वोत्प्रक्ष्या दारुणत्व दुरवगाहत्वादिवस्तुप्रतीतेरळकारेण वस्तुध्वनि ॥ १९ ॥

 सेह इति । तत्र तदानी जिष्णु अजुन अरे दुर्योधनस्य सबन्धिनीं विसृ त्वरौ सर्वतो व्याप्नुबन्तीं सेनाया धूलि पराग न सेहे न क्षमते स्म । तथाहि मानिना प्रशस्तमानवता पुसा पुरुषेण । परेषा आग अपराध पराग धूलिश्च न सह्यते न क्षम्यते । सामान्येन विशेषसमर्थनरुपोऽर्थान्तरन्यास । धूलीपराधयो श्लेषभित्तिकाभेदाध्यवसायमूलातिशयोक्तयाङ्गाङ्गिभावेन सकीर्ण ॥ २० ॥


तत्रारिसैन्यमवलोकितुरुत्तरस्य
 स्त्रीगोष्ठिकाजनि रणे निजवेश्मनीव ।
भीश्चित्तमश्रुलहरी नयन विमूर्च्छा
 बुद्धि च[९३७] वेपथुरुजा वपुरानशे यत् ॥ २१ ॥

व्यातन्वन्कुरव गले विरचयस्तालुन्यपा शोषण
 वृष्टीरक्ष्णि विवर्धयन्विपुलयन्द्या धार्तराष्ट्रारवै ।
सेवाय त्वरयन्धनजयगु[९३८]णस्यान्तर्बहि कम्पय-
 स्त्रासो मात्स्यसुते चकार चरित वण्णामृतूना क्रमात् ॥ २२ ॥


 तत्रेति । तत्र तदानी अरीणा कौरवाणा सैन्य अवलोकितु पश्यत उत्तरस्य निजवेश्मनिं स्वगृह इव रणे युद्धदेशेऽपि स्त्रीमयी गोष्ठिका सदैव अजनि आविर्बभूव । यत् यस्मात् भी भय तवृषा स्त्रीति सर्वत्र स्त्रीलिङ्गेन प्रतीति । चित आनशे व्याप्नोति स्म । अक्षुलहरी बाष्पधारा नयन आनशे । विशेषेण मूच्छों बुद्धिं आनशे । वेपथु कम्प एव रुजा रोग वपु शरीरं आनशे । उत्तरस्येति सर्वत्र योज्यम्। अत्रानेकवाक्यार्थेन स्त्रीगोष्ठीसमुदयसमर्थनात्काव्यलिङ्गभेद ॥२१॥

 ‘भीश्चित्तमानशे’ इत्युक्तम्, तामेव प्रपञ्चयति--व्यातन्वन्निति । गर्ने कण्ठे कुरव कुत्सितवनिम् । रोदनमिति यावत् । कुरुबकवृक्ष च व्यातन्वन् विस्तारयन् किसलयकुसुमादिभिर्वर्धयश्च। तालुनि काकुदे अपा जलाना शोषण निर्दवत्व विरचयन् कुर्वन् । अक्ष्णि नेत्रे वृष्टी बाष्पवर्षाणि विवर्धयन् । या आकाशेन्द्रिय क्ष्रोत्र आकाश च धार्तराष्ट्राणा दुर्योधनादीना नीलह- साना च आरवै कोलाहलै विपुलयन् । विदारयन्नित्यर्थं । धनजयस्य अर्जुनस्य गुणस्य गाण्डीवमौर्व्यो धनजयस्य अग्ने शुणस्य उष्णस्पर्शस्य च । सैवाया भजने । एकत्र कोव्यारोपणादौ अन्यत्र समीपावस्थाने चेति विवेक । त्वरवन् अन्त अन्तङ्गे बहि बाह्माङ्गे च कम्पयन् वेपथु कुर्वन् । मात्स्यसुते उत्तरे त्रास भय क्रमात् । षण्णामृतूना चरित वसन्ताधृतुषर्कचरित्र चकार प्रकटयति स्म । अत्र कुरवविस्तारीकरणादीना कुरववृक्षरोदनायो श्लेषभित्तिकया अभेदाध्यवसिताना षडृतुधर्माणा प्रकृतारमतया क्रमेण विन्यासाद्रत्नावस्यलकार –‘क्रमिक प्रकृतार्थाना न्यास रत्नावर्ली बिदु ’ इति लक्षणात् । स व श्लेषभित्तिकाभेदाध्यवसायमूलातिशयोत्तयनुप्राणित इति द्वयोरङ्गाभावेन संकर ॥ २२ ॥


अथ रथादवपलुत्य पुर प्रति पलायमानोऽयमुत्तर पश्चानुधाठय कचेषु गृहीतवते फल्गुनाय फल्गुना कण्ठरवेण प्राक्तनचित्रमिव प्रमुषितार्धवर्ण व[९३९]च एवमवादीत् ॥

कि चा चिकीर्षुरसि हन्त वृहन्नले त्व-
 मक्ष्णोर्न मान्ति कुरुराजबलान्यमूनि ।
सद्यो निवर्तय रथ समरेच्छयाल
 नेष्याम्यह निजगृहेष्ववशेषमायु ॥ २३ ॥
गा कालयन्तु सह वत्सकुलैरशेषै-
 र्धोषान्हन्तु कुरव प्रहरन्तु गोपान् ।
मह्य पलायनमहोत्सवमेव देहि
 प्राणेषु किचिदपि मे गुरुता न वेत्सि ॥ २४ ॥


 अथेति । अथ भयविकारानन्तर रथात् अवपलुत्य लङ्धित्वा पुर निज प्रति पलायमान अय उत्तर पश्चात् पृष्ठत अनुवाव्य । उत्तरस्याभिमुख धावने शत्रुभ्य स्खपृष्ठप्रदर्शनापत्तेरिति भाव । कचेषु केशेषु गृहीतवते । आत्मानमिति शेष । फल्गुनाय अर्जुनाय फल्गुना नि सारेण कण्ठस्य रवेण । हीनखरेणेति यावत् । ‘वाच्यवत्फल्ग्वसार च' इति शब्दार्णवे । प्रमुषितानि अस्फुटानि अर्धवर्णानि शब्दार्धभागा यस्मिन् तथोक्तम् । अर्धप्रमृष्टनीलपीतादिवर्णक च । अतएव प्राक्तन पुरातन चित्र आलेख्यमिव स्थित वच वाक्य एव वक्ष्यमाणप्रकारेण अवादीत् उक्तवान् । क्ष्लिष्टविशेषणेयमुपमा । सरूपोपमेति दण्डथनुयायिन ॥

 किमिति। हे बृहन्नले, त्व किंवा प्राणापहारि कृत्य चिकीर्षु कर्तुमिच्छुरसि । इन्तेति खेदे । अमूनि पुरोवतीनि कुरुराजस्य कुरुराजस्य दुर्योधनस्य बलानि चतुरङ्गाणि अक्ष्णो । वीक्षणस्येत्यर्थ । न मान्ति न मिलन्ति । अपारत्वादिति भाव । रथ सद्य इदानीमेव निवर्तय पुराभिमुख कुरु । समरेच्छया युद्धवाञ्छया अल वर्याप्तम् अवशेष गतावशिष्ट आयु निजगृहेष्वेव नेष्यामि गमयिष्यामि । युद्धाज्जीवितनाशो मम मा भूदित्यर्थ ॥ २३ ॥

 गा इति । कुरव दुर्योवनादय गा धेनू अशेषै वत्साना कुलै मृन्दै सह कालयन्तु नयन्तु । घोषान् गोपल्ली दहन्तु । गोपान् प्रहरन्तु । हे बृह न्नले, त्व मह्य पलायनमेव महोत्सवमेव देहि । मे मम प्राणेषु विषये गुरुता गौरव किंचित् ईषन्मात्रमपि न वेत्सि न जानासीत्याशोक्ति । पश्वादिभ्य प्राण एव मे गरीयानित्यर्थ ।‘आयुष क्षण एकोऽपि खर्णकोव्था न लभ्यते’ इति उक्तत्वादिति भाव ॥ २४ ॥


 मातुर्मुख मम पुर पुर ए[९४०]व तिष्ठ-
  त्युत्कण्ठितस्य नय तत्सविध कृपालो ।
 यावन्ति सन्ति मम कोशगृहे सवित्री
  तावद्भिरेव कनकैरभिषेक्ष्यति त्वाम् ॥ २५ ॥
 चित्रे युद्ध विलोक्याह चापलादेत्य वञ्चित ।
 तत्रासद्भिरिहोद्यद्वि क्ष्वेलाहेषितबृहितै ॥ २६ ॥
यथाह भूतल त्यक्त्वा रथमारुक्षमुच्छ्रितम् ।
तथा हृदन्तर मु[९४१]क्त्वा कण्ठ प्राणोऽधिरोहति ॥ २७ ॥

 इति ब[९४२]हु विलप्य प[९४३]दयो प्रणिपतन्त त नृपसुतमपराङ्गे करपुटेन मुहुरा[९४४] स्फालयन्सस्मित गिरम[९४५]मत्यपतिसुतोऽपि प्रवर्तयामास ॥


 मातुरिति । कि च उत्कण्ठितस्य मातृदर्शनोत्सुकस्य मम मातुर्मुख पुर पुर अग्रेऽग्र एव तिष्ठति । चक्षुषोर्बद्धमिव पश्यामीत्यर्थ । हे कृपालो करुणाशीले बृहन्नले, तस्या मातु सविध समीप प्रति मा नय प्रापय । एव चेदिति योज्यम्। ‘भीताद्युक्तिषु न्यूनपदत्व न दोषाय' इत्यालकारिका । मम कोशगृहे यावन्ति कनकानि सन्ति तावद्भिरेव कनकै सवित्री मन्माता वा अभिषेक्ष्यति । तवाभि- षेक करिष्यतीत्यर्थ । पुत्रदात्रे कि न देयमिति भाच ॥ २५ ॥

 एतावती चेद्धीतिस्तदा किमित्यागतोऽसीत्यत आह--चित्र इति । अइ चित्रे युद्ध विलोक्य चापलात् तद्वदेतदपीति भ्रमात् एत्य आगत्य । तत्र चित्रे असद्धि अविद्यमानै । अचेतनत्वादिति भाव । इह वास्तवयुद्धे उद्यद्भि जृम्भमाणै क्ष्वेलाभि वीराणा सिंहनादै , हेषितै अश्वाना कोलाहलै , बृहितै गजाना घींकारै , वञ्चित । प्राणसशयमापन्नोऽस्मीत्यर्थ । भ्रान्तस्य सर्वत्रैव नानुकूला प्रवृत्तिरिति भाव । अतएव विषमालाकार अनर्थोत्पत्तिरूप ॥ २६ ॥

 यथेति । अह भूतल त्यक्त्वा उच्छ्रित रथ यथा आरुक्ष आरूढवानस्मि । आङ्पूर्वाद्रुहे कर्तरि लुड्। तथा प्राण । ममेति शेष । हृद वक्षस अन्तर म यभाग मुक्त्वा कण्ठ हृदन्तरादुन्नत अधिरोहतीवेत्युत्प्रेक्षाव्यञ्जकाप्रयोगाद्रम्या। कण्ठगतप्राणोऽह जहीहि । मा पलायनायेत्यर्थ ॥ २७ ॥

 इतीति । इति इत्थ बहु नि सारवाक्य विलप्य पदयो प्रणिपतन्त नमस्कुर्वन्त त नृपसुत उत्तर अपराङ्गे पृष्ठे करपुटेन मुहुरास्फालयन्। मा भैषीरिति सशब्द परामृशन् सन् । अमर्त्यपते इन्द्रस्य सुत अर्जुनोऽपि गिर वाच सस्मित प्रवर्तयामास । उवाचेत्यर्थं ।


 उदितोऽसि विराटतभूपतेरूद्राद्धद्र कथ त्वमीहश |
 प्रवया अपि य कुतूहलात्परसैन्यैरधुनापि युध्यते ॥ २८ ॥
सारथौ गतभयेऽपि रथी त्व सगरे यदि बिभेषि रिपुभ्य |
मत्स्यकेकयभुवा भु[९४६] जभाजा मानकृन्तनमितोऽपि किमन्यत् ॥ २९ ॥
 वि [९४७]स्तार्य समदि विशृङ्खलवीरवाद्
  युद्धात्पमलायितवतोऽद्य तवाङगकम्य |
 अन्त पुरेषु हसतामबलाजनाना-
  माचार्य एव भविता कुचवल्गितानाम् ॥ ३० ॥


 उदित इति | हे भद्र, विपरीतलक्षणया अभद्र| कुलाधमेति यावत्| ईदृश रणभीरू त्व विराटभूपते महावीरस्य उद्रात् गर्भात् कथमुदितोऽसि जातोऽसि| कथशब्दोऽत्राश्चर्ये | 'कारणगुणा हि कार्यगुणानारभन्ते' इति प्रसिद्धे र्विरूद्धत्वादाक्ष्चर्यम् | प्रधया अतिवृद्धोऽपि य विराट परेषि शत्र्णा सैन्यै सह| अधुना अत्यन्तदृद्धमावेऽपीत्यर्थ | कुतूहलात् युध्यते | हिरवधारणे | अत्र तादृग्रणधीरादीदृग्रणभीरूत्पत्तिवर्णनाद्विकार्योत्पत्तिरूपो विषमप्रभेद | वैतालीयम् ॥ २८ ॥

 सरथविति| सारथौ मयि गत भय शात्रव यस्य तथोक्ते सत्यपि| रथी रथिक त्व सगरे रिपुभ्य शत्रुभ्य बिभेषि यदि| त्रस्यसि चेदित्यर्थ| इत तव शत्रुभयप्राप्तेरपि अन्यद्वस्तु भुज बाहप्रताप भजन्तीति तद्भाजा भत्स्यभुवा पितृवश्याना केकयभुवा मातृवश्याना द्वयेषामपि मानस्य कृन्तन छेद् | किमिति काकु | त्वत्पलायनमुभयकुलकीर्तिकरमित्यर्थ | 'पुन किम्' इति पाठस्तु पुन शब्देन अन्यदियि लक्षयित्वा कथचिधोज्य | स्वागता ॥ २९ ॥

 विस्तार्येति| समदि अन्त पुरस्त्रीसभाया विशृङ्कल निर्णिरोध वीरवादम्| 'षष्टोऽपि न कक्ष्चन पानण्डवोऽभूत्' हतीत्यादिवीरालाप वीरस्यैव वादमिति च| विस्तार्य उद्धोष्य| अद्य युद्धात्पलायितवत तव अड्गकम्प अन्त पुरेषु हसता एतावदेव तव वीर्यमिति परिहास कुर्वता अबलाजनाना सबन्धिना कुचयो वल्पनाना हासक्षोभजनितकम्पाना आचार्य उपदेष्टा भविता भविष्यत्येव| न तु न भविष्यतीत्यर्थ|युद्धे पलायित्वा गत वीक्ष्य सकुचक्षोभ हसिष्यन्तीति समुदायार्थ|अत्र स्त्रीणामेव तथा हासे किमुत पुरुषाणामित्यर्थान्तराक्षेपार्थापत्यलकार| तथा वस्तुना प्रतीयत इति वस्तुनालकारध्वनि ॥ ३० ॥


कियद्विषामशुकमाह्रुत ते सहोदरेणेति सखीभिरुक्ते ।
मानोत्तराथा भ्रुशमुत्तराया किमुत्तर व्रूहि तदुत्तर त्वम् ॥ ३१ ॥
जरठो जनकोऽपि मातुला शतमप्यन्तमगुस्त्वमेकक ।
यदि यासि न धैर्यमत्र ते न वशे [९४८]राज्यमिद् भविध्यति ॥ ३२ ॥
तदिद् विजहीहि साध्वस कुरु पाणौ तृणता कुरुष्वपि ।
तव मत्त्स्यपतेस्तु वाहिनीमुखभागे खलु वल्गन क्षमम् ॥ ३३ ॥


 कियदिति । हे उत्तरे,ते तव सहोदरेण उत्तरेण । द्विषा अशुक वस्त्राणीति जात्येकवचनम् । कियत् किमात्र आह्रुत आनीत इत्युक्तप्रकार स्त्री- भिरुक्त्ते प्रश्ने सति भूश नानेन उत्तराया क्ष्रेषेष्ठाया ।मनयुक्तप्रतिवाक्याया इति वा । उत्तराया त्वदनुजाया उत्तर प्रति वाक्य कि भवेदिति शेष । तत् उतराया प्रतिवाक्य हे उत्तर, त्व व्रूहि वद । त्वत्पलायन मानधनमिच्छिष्याद्वारा ममाप्यकीर्तिकरमिति भाव ॥ ३१ ॥

 जरठ इति । कि चेत्यप्यर्थ । तव जनक विराट जरठ अतिवृद्ध, मातुला त्वन्नत्रुभ्रातर शन कीचका अपि अन्त नाश अगु गता । इण कर्तरि लुड् । त्व च एकक् नि सार एकश्च । अल्पार्थे कन् । अत अत्र युद्धे वैर्य न यासि यदि न प्राप्नोषि चेत् तर्हि इद राज्य मात्स्य ते तव वशे प्रभुत्वे न भविष्यति न स्थास्यति । न केवलमुमववश्याना मानहानि, अपि तु तव राज्यहानिष्च भविष्यतीत्यर्थ ॥ ३२ ॥

 तदिति । तत् तस्मात् । पलायनस्य भयस्य वा वहुदोषाकरत्वाद्धेतोरित्यथे । डट् साध्वस भय विजहीहि त्यज । हातेर्विपूर्वाल्लोट् । 'ई हल्यधो' इत्यभ्यासाकारस्येत्वम्। पाणौ तृणता कार्मुक कुरू । गृहाणेत्यर्थ । कुरुषु दुर्योधनादिष्वपि विषये तृणता तृगभाव कुरु । कुरुनपि तृणकल्पत्वेन भावयेत्यर्थ । धैर्यशौर्याभ्यामिति भाव । 'तृणता स्यात्तृणत्वेऽपि तृणता कार्मुकेऽपि च'इति विश्च । कि चेति त्वर्थम् । मत्स्याना जनपदाना मीनाना च पते प्रभो । 'पति समास एव' इति धिसज्ञानियमात् डसि 'धेर्डिति' इति गुण पूर्वरुप च । तव वाहिनीना सेनाना नदीना च मुखभागे अग्रप्रदेषे वल्गन सचार क्षम उचितम् । खलुरामन्त्रणे । 'सेनान्धोस्तु वाहिनी' इत्यमर । अत्र पूर्वार्धे त्यागाधनेकक्रिया- यौगपध्याभिधानात्समुच्चय । उतरार्धे मत्स्यपतित्ववाहिनीमुखरूपसघटनवर्णनात्समालरकार । श्लेषभित्तिकाभेदाध्यवसायमूलातिषयोत्तयुज्जीवित इत्यनयोरङागाङ्गिभावेन सकर । अस्य च समुच्चयेन सस्रुष्टि, एकवाचका- नुत्रवेशेन सकरो वा । वैतालीयम् ॥ ३३ ॥


 इत्याश्वास्य पितृवनाटवीतमुपेत्य शमीविटपिकोटिसमाटीकितकिरीटशङ्कचापनिषङ्गो जयलक्ष्मीपरिणयनयोग्यता सपादयितुमिव खण्डितषण्ढभावोऽयमाखण्डलसुतो निजत [९४९]त्त्वव्याकरणशतधापल्लवितधाष्टर्येन तेनैव सुदेष्णापत्येन परिकल्पितसार[९५०]र्थ्यशिल्प रथम[९५१]धिरुह्य क्षणेन वारिनिधिपूरस्य वाडववह्निरिव सपत्नसैन्यस्य समुखीन बभूव ॥

ख्यातीतमवेक्ष्य कौरवबल तत्सव्यसाची पु[९५२]र-
 श्चापे तादृशि किचिदेव विदधे साचीभवन्ती दृशम् ।
पार्वत्या नि[९५३] जपट्टवस्त्रशकल रनेहद्वयार्द्र स्वय
 न्यस्य न्यस्य चिकित्सितव्रणशिरा देवोऽपि य श्लाघते ॥ ३४ ॥


 इतीति । इत्युक्तप्रकारेणाश्वास्य विशोक कृत्वा । तमिति शेष । उत्तरमित्यर्थ । पितृवनस्य श्मशानस्य सबन्धि अटवीतट अरण्यप्रदेश उपेत्य शमी विटपिन शमीवृक्षस्य कोटे अग्रात् समाटीकिता समानीता किरीट इन्द्रदत्त , शङ्ख् देवदत्त , चाप गाण्डीव , निषङ्गौ अक्षयतूणीरौ, ते सर्वे येन तथोक्त। जयलक्ष्म्या परिणयनस्य पाणिग्रहणस्य योग्यता सपादयितुमिवेत्युत्प्रेक्षा । खण्डित त्यक्त षण्ढभाव नपुसकत्व येन स । अय आखण्डलसुत अर्जुन । निजस्य तत्त्वस्य स्वरूपस्य पाण्डवत्वादे व्याकरणेन विवरणेन हेतुना शतबा शतप्रकार पल्लवित उत्पन्न धाष्टय धृष्टत्वम् । धैर्यमिति यावत् । तत् यस्य तथोक्तेन तेनैव य प्रथम रथिकस्तेनैव । यस्तथा भीतस्तेनैवेति वार्थ । सुदेष्णापत्येन उत्तरेण परिकल्पित सारथ्यशिल्प सारथिव्यापार यस्मिंस्त रथमधिरुह्य क्षणेन सपत्नसैन्यस्य शत्रुबलस्य वाडववहि बाडवानल वारिधिपूरस्य समुदप्रवाहस्येव समुखीन अभिमुख वर्तमान बभूव । उपमोत्प्रेक्षयो ससृष्टि ॥

 सख्येति । सव्यसाची अर्जुन । सख्यामत्येतीति सरयातीत असख्येय तत कौरवबल पुर अग्रे अवेक्ष्य तादृशि । शभोरपि शिरसि व्रणदायक इत्यर्थं । चापे गाण्डीवे साचीभवन्तीं तिर्यक्प्रसरन्तीं दृश इष्टिं किचित् ईषदेव । न तु पूर्णमत्यर्थ । विदधे अकरोत् । असख्येयमपि परबल मम गाण्डीवस्य क्रियान् विषय इतीषदालोकनाभिप्राय । अतएव परिकरालकार । तादृशीत्युक्तप्रभाव प्रपञ्चयति-पार्वत्येति । पार्वत्या गौर्या स्नेहयो घृतस्य प्रेम्णश्च द्वयेनार्द्रं निजस्य पद्मवस्त्रस्य शकल खण्ड स्वयमात्मना न्यस्य न्यस्य निक्षिप्य निक्षिप्य । आदराद्विरुक्ति । न त्वन्येन न्यासयित्वेत्यर्थ । चिकित्सित प्रतिकृत व्रण यस्मि-


नभसि प्रविसारि देवदत्ते नरदत्तध्वनित ततो दधाने ।
मुमुहुर्दूरदा मुमूर्द्धरश्चा रथिनश्चक्षुभिरे भटाश्च विभ्यु ॥ ३५ ॥
 पर्यायेणास्य गाण्डीव पातितज्य प्रकोष्ठयो ।
 गन्धर्वयुद्धमारभ्य कृत मौन समापयत् ॥ ३६ ॥

 अथ करतलद्वयमण्डपकृतताण्डवस्य गा[९५४]ण्डीवस्य विस्फारेण पाण्डवोऽयमिति निश्चित्य लीलानिस्तीर्ण[९५५]दुस्तरसधासिन्धुरय पुनरपि निर्बन्धुमागत इत्यधृष्यया निजेर्ष्यया रूक्षा विपक्षा पूर्वपक्षा सिद्धान्तमिव युद्धाय त पर्यवारयन् ।


स्तादृश शिर यस्य स देव शभुरपि य गाण्डीव श्लाघते किमुतान्य इत्यर्थापतिरूपेण वाक्यार्थन कौरवबलानादरसमथनाद्वाक्यार्थहेतुककाव्यलिङ्गाथापत्त्योरङ्गाङ्गिभावेन सकर । शादूलविक्रीडितम् ॥ ३४ ॥

 नभसीति । तत देवदत्ते अर्जुनशङ्खे नभसि आकाशे प्रकर्षेण विसारि व्यापृत नरेण अर्जुनेन दत्त आध्मानेन जनित ध्वनितम् । ध्वनतेर्भावे क्त । दधने सति द्विरदा गजा मुमुहु सभ्रान्ता बभूवु , अश्वा मुमूछु मूर्च्छो गता , रयिन रथिका चुक्षुभिरे क्षुभ्यन्ति स्म, भटाश्च बिभ्यु तत्रसु । देवदत्तघोषेण चतुरङ्गमपि कारवबलमुन्मादितमभूदित्यर्थ । अत्र भोहाद्यनेकक्रियायौगपद्यात्ममुच्चयालकार । औपच्छन्दसिकम् ॥ ३५ ॥

 पर्यायेणेति । अथ प्रकोष्ठयो हस्तमूलयो पातिता आकर्षणे प्रवेशिता ज्या मौर्वो यस्य स अस्य अर्जुनस्य गाण्डीव चाप गन्धवै चित्रसेनादिभि सह युद्धमारभ्य पर्यायेण क्रमेण कृत मौन नाम व्रत समापयत् त्यजति स्म । अर्जुनो गाण्डीव टकारितवानित्यर्थ । गन्धर्वैर्युद्धप्रभृति कुत्रापि युद्धाभावादिति भाव । अत्र गाण्डीवगुणटकारस्य मौनव्रतसमाप्तिरूपेण कथनात्पर्यायोक्तिरलकार-- 'पर्यायोक्त तु गम्यस्य वचोभङ्गथन्तरेण यत्' इति लक्षणात् ॥ ३६ ॥

 अथेति । अथ करतलयो द्वयमेव मण्डप रङ्ग तस्मिन् कृत ताण्डव गुणाकर्षणाविमोचनव्यापार यस्य तस्य । अर्जुनस्य सव्यसाचित्वादिति भाव । गाण्डीवस्य विस्फारेण गुणटकारेण । ‘विष्फारो धनुष स्वान ' इत्यमर । अय पुसेवर्ती पाण्डवोऽजुन इति निश्चित्य अनुमीय अय अर्जुन लीलया अनायासेन निस्तीर्ण अतिक्रान्त दुस्तर तरितुमशक्य सधा अज्ञातवासप्रतिज्ञैव सिन्धु समुद्र येन तथोक्त सन् पुनरपि निर्बन्धु निरोङद्धम् । राज्यायेति शेष । आगत इत्युक्तप्रकारया आधृष्यया दुर्निवारया निजया ईर्ष्थया मानसविकारेण गुणेष्वपि दोषारोपात्मकेन रूक्षा कलुषा विपक्षा शत्रव त अर्जुन पूर्वयक्षाः


विजयस्य रथे ततो निपेतुर्वि[९५६]मतानामिषव पर सहस्रा ।
जनमेजययागवेदिमध्ये जगता भीतिकरा इवाहिसघा ॥ ३७ ॥
 जम्भद्विषोऽपि तनयो जगदेकवीरो
  जन्य समारभत जुम्भयितु महीय ।
 प्रत्यर्थिरक्ततटिनीरन्नपनै शराणा
  भेत्स्यन्निवाथ पितृकाननवासदोषम् ॥ ३८ ॥
चलदश्वरथद्विपोत्थरेणून्वरणस्रङमधुभि प्रणीय शान्तिम् ।
सुखदृष्टरणा यथा भवेयु सुरवामा गगने तथा स[९५७]
मेय् ॥ ३९ ॥


प्रतिवादिवाक्योपन्यासा सिद्धान्त ग्रन्थकत्रभिमताथमिव युद्धाय योद्ध दूषितु चेति । ‘तुमर्थाच्च भाववचनात्’ इति चतुर्थी । पयवारयन् सर्वतो निरुन्धन्ति स्म । अत्र गाण्डीवटकारेण अजुनानुमानादनुमानालकारेण ईष्याहेतुकपरिवारणसमर्थनात्मककाव्यलिङ्गोज्जीवनात् द्वयोरङ्गाङ्गिभावेन सकर । अस्य च करतलद्वयमण्डपेति परम्परितरूपकेण सवासिन्धुरिति केवलरूपकेण सिद्धान्तमित्युपमया च ससृष्टि । उपमया चाजुनप्राबल्यकौरवदोबल्ययो प्रतीतेरलकारेण वस्तुध्वनिरित्यपि प्राहु ॥

 विजयस्येति । तत परिवारणानन्तरम् । पर सहस्रा सहस्त्रेभ्यो ऽधिका विमताना शत्रूणा इषव बाणा विजयस्य अजुनस्य रथे जगता भीतिकरा भयकरा अहिसघा सर्पसमूहा जनमेजयस्य पारिक्षितस्य राज्ञ सबन्धिन्या यागवेदेर्मध्ये वहिकुण्ड इव निपेतु । अत्राप्युपमया कौरवबाणाना सद्यो नश्वरत्वप्रतीतेरलकारेण वस्तुध्वनि । औपच्छन्दसिकम् ॥ ३७ ॥

 जम्भेति । अथ जगत्येक मुख्य वीर । वैवक्षिकविशेष्यभावात् समास । जम्भद्विष इन्द्रस्य तनय अर्जुनोऽपि शराणा निजबाणाना पितृकानने श्मशाने यो वास तेन यो दोष अशुचित्वरूप त प्रत्यर्थिना शत्रणा रक्ततटिनीषु शोणितनदीषु स्नपनै अभिषेचनै भेतु क्षालितु इच्छन् भेत्स्यन्निवेति फलोत्प्रेक्षा । महीय क्ष्लाध्य जन्य युद्ध जम्भयितु प्रकटयितु समारभत उपक्रा- न्तवान् ॥ ३८ ॥

 चलदिति । चलद्भि धावद्भि अक्ष्वै रथै द्वैिश्च उत्था उद्धृता रेणू धूली ता वरणस्रजा खयवरार्थपुष्पमाल्याना मधुभि मकरन्दरसै शान्तिं क्षय प्रणीय प्रापग्य खय सुख अनावरण यथातथा दृष्ट रण याभिस्तथोक्ता यथा भवेयु तथा सुरवामा अप्सरस गगने आकाशे समेयु मिलन्ति स्म । अत्र युद्धे निश्चित्य नूतनवल्लभप्राप्तिं गृहीतवरणस्रजो गगने सजग्मुरित्यर्थं ।


कौन्तेयकर्णद्वितयोपकण्ठमौहूर्तिकावेदितजैत्रयात्रै ।
आशातशल्यै रुरुधेऽथ भल्लैराशा कुबेरस्य च वैरिणा च ॥ ४० ॥
 उद्धारसधिपरिमुक्तिषु मार्गणाना-
  माधे उभे अपि तदा तिसृषु क्रियासु ।
 सायुज्यमापतुरिवान्तिमया समीके
  चक्रीकृते धनुषि शक्तसुतेन तेन ॥ ४१ ॥
युद्धसीम्नि [९५८]भृतगर्वविप्रुषो मू[९५९]र्च्छितान्कटकनि सृताम्भस ।
तत्र लक्ष्यमकरोत्स कुञ्जरास्तस्य तात इव शैलसचयान् ॥ ४२ ॥


अत्र रणरेणो वरणमाल्यरसक्षयणासबन्धेऽपि सबन्धोस्तिरूपाया अतिशयोक्ते अजुनहनिष्यमाणवीरभटाना असख्येयत्वरूपवस्तुव्यञ्जकाया रसक्षयणयोर्हेर्वेतुहेतुमतोऽतिरूपस्य हेत्वकारस्य च द्वयोरेकवाचकानुप्रवेशसकर ॥ ३९ ॥

 कौन्तेयेति । अथ कौन्तेयस्य अर्जुनस्य सबन्धिन कर्णद्वितयस्य श्रोत्रयुग्मस्य उपकण्ठाभ्या समीपाभ्यामेव मौहूतिकभ्या ज्यौतिषिकाभ्या आवेदिता ज्ञापिता जैत्रयात्रा येषा तै । आर्णाकृष्टगुणमुक्तैरित्यथ । सव्यसाचित्वात्कर्णद्वितयेऽपीत्युक्तम् । आ समन्ताच्छातानि तीक्ष्णानि शल्यानि बाणाग्राणि येषा तै भमल्लै बाणविशेषै । कुबेरस्य आशा उत्तरदिक्, वैरिणा कौरवाणा आशा गोग्रहणतृष्णा च, द्वयमपि रुरधे निरुद्धा भग्ना च । अत्र कुबेरदिश कौरवतृष्णायाध श्लेषभित्तिकाभेदायवसितेन रोधेनौपम्यस्य गम्यत्वात्तुत्ययोगिताभेद ॥ ४० ॥

 उद्धारेति । तदा समीके युद्धे तेन शक्रसुतेन अजुनेन । धनुषि गाण्डीवे चक्रीकृते गुणाकर्षणेन मण्डलीकृते सति । मार्गणाना बाणाना सबन्धिनीषु उद्धार निषङ्गादादानम् , सधि सधानम्, परिमुक्ति प्रयोग , तासु तिसृषु क्रियासु । निर्धारणे सप्तमी । तासा मध्य इत्यर्थ । आधे उभे प्रथमद्वितीये उद्धारसधानक्रिये द्वे अपि अन्तिमया मोचनक्रियया सह सायुज्य एकीभाव आपतु प्राप्ते इवेत्युत्प्रेक्षा । लाघवातिशयादज्ञेयादानसधान शराणा भोचनमेव सर्वैर्ददृश इत्यर्थ ॥ ४१ ॥

 युद्धेति । कटावेव कटकौ कुम्भौ ताभ्या नि सृतानि निर्गतानि अम्भासि मदजलानि येषा तथोक्तान् । अन्यत्र नितम्बनिभृतनिझीरोदकान् । अतएव ध्ता धृता गर्वस्य अहकारम्य विघ्ष यैस्तथोक्तानिव स्थितानित्युद्रेक्षा । तत्र युद्धसीम्नि रणभुवि मूर्च्छिछतान् व्याप्तान् कुञ्जरान् गजान् स अर्जुन तस्य अर्जुनस्य तात पिता इन्द्र शैलाना सचयान् समूहानिव लक्ष्य शरव्य अकरोत् ।


 काण्डैरपातयदध करिमण्डlलाना
  शुण्डा प्रचण्डतरदोर्युधि पाण्डुसूनु ।
 निद्रास्यता निखिलवैरिमहीपतीना-
  मुत्पादयन्निव पृथूरपधानपङ्क्ती ॥ ४३ ॥
विशालरन्ध्र विजयास्त्रदत्त देहस्य मध्ये दधतो महान्त ।
स्कन्दस्य शत्त्या क्षतमेखलस्य क्रौञ्चस्य लीला करिणो विवव्रु ॥ ४४ ॥
 आधोरणस्य शिरसा पततार्वमागे
  सधानभाजि दिवमुत्पतिते कबन्धे ।
 न्यस्य स्त्रज सुरवधूर [९६०]थ बद्धमौना-
  त्तस्माद्भि[९६१]या दिवि पलायत दूरमेका ॥ ४५ ॥


गजानवधीदित्यथ । उपभोत्प्रेक्षयो ससृष्टि । यत्तु भुजगर्वविघ्षामुच्छूितान्' इत्यपपाठे भ्रमेण भुजयो गर्वविप्रुषा गर्वातिशयानामित्यर्थ । ‘उच्छ्रितान् उनतान्’ इति नृसिंहप्रलपितम् , तत्कि केन सगतमिति सहृदया एवाकलयन्तु । रथोद्धता ॥ ४२ ॥

 काण्डैरिति । प्रचण्डतरौ अतिभीषणौ दोषौ बाहू यस्य स । ‘भुजबाडू प्रवेष्टो दो’ इत्यमर । पाण्डुसूनु अर्जुन निद्रस्यता अग्रे स्वापनास्त्रेण शयन कृरिष्यता निखिलाना वैरिमहीपतीना शत्रुराजाना पृथू स्थूलायता उपधानाना उपबर्हणा पक्तटी । शिरोभागक्षिप्यतूलादिनिमितयत्रविशेष उपधानम् । उत्पादयन् जनयन्निवेत्युत्प्रेक्षा । युधि युद्ध काण्डै बाणै । ‘काण्डोऽस्त्रीदण्डबाणार्ववर्गावसरवारिषु' इत्यमर । कारिमण्डलाना गजवृन्दाना शुण्डा करान् अथ भूतले अपातयत् पातितवान् ॥ ४३ ॥

 विशालेति । महान्त करिण गजा देहस्य मध्ये विजयस्य अर्जुनस्य अस्त्रेण बाणेन दत्त कृत विशाल विस्तीर्ण रन्ध्र दधत सन्त स्कन्दस्य कुमारखामिन शक्त्या नाम आयुधेन क्षता रन्ध्रिता मेखला मध्यदेश यस्य तस्य कौञ्चस्य नाम पर्वतस्य लीला विवक्षु खीचक्त्रु १ अत्र अन्यलीलाया अन्यत्रासभवेन तत्सदृशलालाक्षेपादसभच यमसवन्धनिबन्वनो निदर्शनाल्कार ॥ ४४ ॥

 आधोरणस्येति । एका काचित् सुरवधू देवाङ्गना दिव आकाश प्रति उत्पतिते किच पतता आधोरणस्य गजारूटस्य शिरसा । अर्जुनबाणच्छिन्नेनेति शेष । अर्घमार्गे मार्गमध्ये सधान सबन्ध भजतीति तद्धाजि कबन्धे अपमूर्धकलेवरे कस्मिश्चित् स्रज वरणमाल्य न्यस्य निक्षिप्य । नवसुरभ्रान्त्येति भाव । अथ निक्षेपानन्तर बद्ध मौन येन तस्मात् । अचेतनत्वेन गतसलापात-


तुङ्गा गजाश्च जवनास्तुरगाश्च [९६२] शूरा
 योधाश्च तेन निहता भुवमाशु जग्मु ।
निद्रास्यतो निबिडमत्र [९६३]नरेन्द्रसघा-
 त्प्रागेव सम्यगवकाशजिघृक्षयेव ॥ ४६ ॥

[९६४]गङ्गा सिता रविसुताप्यसिता पिशङ्गी
 चक्रे तयो सहचरी च पुरा विधात्रा ।
[९६५]शीणा रुचा न तटिनीति किलार्जुनेन
 बाणालिभि शतमसृक्सरिता वितेने ॥ ४७ ॥


स्मात् । उतविंबकबन्धात् भिया भयेन दिवि आकाशे दूरं पलायत धावति स्म । अत्र मौनजन्यभयस्य विशेषणगत्या पलायनहेतुत्वात्पदाथहेतुककाव्यलिङ्गस्य भ्रान्तिमदुज्जीवितत्वात् द्वयो सकर । यत्तु ‘गतप्राण दृष्ट्वा लज्जावती बभूवेत्यर्थ ’ इति मृसिंह , तदनाघ्रातशङ्करगन्धस्य तस्य न चोद्यम् । त्रासेन सचारिण लज्जोदयस्य लोकशास्त्रोभयविरुद्धत्वादिति ॥ ४५ ॥

 तुङ्गा इति । तुङ्गा उन्नता गजाश्च, जवना जत्राधिका तुरगा अश्वाश्च, शूरा शौर्यशालिन योधाश्च, तेन अर्जुनेन निहता छिन्ना सन्त । अत्र युद्धभूमौ निबिड सबाध यथा तथा निद्रास्यत अग्रे प्रस्वापनास्त्रेण शयिष्यत । नरेन्द्राणा राज्ञा सघात् प्राक् पूर्वमेव सम्यक् असबाध यथा तथा । अवकाशस्य शयनस्थलस्य प्रहीतुमिच्छया जिघृक्षयेवेत्युत्प्रेक्षा । भुव प्रत्याशु जग्मु । सबाधे सति नरेन्द्रापेक्षया दुर्बलानामवकाशस्य दुर्लभत्वादिति भाव ४६

 गद्रेति । पुरा सृष्टिकाले विधात्रा ब्रह्मणा गङ्गा नाम सिता श्वेता तटिनी नदी चके स्थ । रविसुता यमुना नाम असिता नीला तटिन्यपि चक्रे । तयो गङ्गा यमुनयो सहचरी सखी सरखती नाम पिशङ्गी पिङ्गला । गौरादित्वात् डीप् । तटिनी चक्रे । रुचा कान्त्या शोणा रक्ता काचित्तटिनी न चक्रे । इति किल उक्तप्रकाराद्धेतोरिवेत्युत्प्रेक्षा । अर्जुनेन बाणाना आलिभि पङ्किभि । अस्रक्सरिता रक्तनदीना शत वितेने सृष्टम् । अत्र ‘गङ्गा सिता रविसुताप्यसिता पिशङ्गगी चक्रे तयो सहचरी च पुरा विधात्र इत्येव पूर्वार्धम् । द्वितीयान्तपाठे तु विरिश्चेनेति व्यत्ययतोऽनुषङ्ग , चक्रे इत्यस्य स्थलत्रये कर्तरि एकत्र कर्मणि च प्रयोगमाश्रित्यान्वयायोगश्च । यद्यपि शोणो नद विधात्रा दृष्ट एव, तथापि न स नदी । अतएव ‘ शोणा रुचा न तटिनी’ इत्युक्तम् ॥ ४७ ॥


कर्णे केति गवेषणस्य विषये गान्धारनाथे पुन-
 नैिर्गन्तु धृतदिग्भ्रमे वि [९६६]कलितच्छत्रेऽपि दुर्योधने ।
द्रोणेऽपि क्षपितध्वजे कृतधनुर्भद्रेऽपि तस्यात्मजे
 मूछले सरित सुतेऽपि युधि सा भ[९६७]म्लौ कुरूणा चमू ॥ ४८ ॥

वीणामुनीन्द्रो विजयस्य युद्ध नीरन्ध्रभावेन निरीक्षमाण ।
आनन्दजैरश्रुभिरेव चक्रे हस्तार्पितैराङ्गिककृत्यमभ्रे ॥ ४९ ॥
विस्मयार्णवविभावरीविभु वीक्ष्य वीक्ष्य विजयस्य विक्रमम् ।
उत्तमाङ्गमखिलाप्सरोगणैरुर्वशीनभसि साप्यकम्पयत् ॥ ५० ॥


 कर्णेति । तत युधि युद्धदेशे । इद सर्वत्र योज्यम् । कर्णे राधेये च कुत्रास्त इत्युक्तप्रकारस्य गवेषणस्य अन्वेषणस्य विषये पात्रे । पलायिते सतीति यावत् । गान्धारनाथे पुन शकुनौ तु निर्गन्तु अन्यत्र यातु धृत दिशा भ्रम प्राच्यादे प्रतीच्यादिज्ञान येन तथोक्ते सति । दुर्योधनेऽपि विकलित छिन्न छत्र यस्य तथोक्ते सति । द्रोणेऽपि क्षपित नाशित ध्वज यस्य तथोक्ते सति । तस्य द्रोणस्य आत्मजे अश्वत्थाम्नयपि कृत धनुष भङ्ग भेद यस्य तथोक्ते सति । सारित गङ्गाया सुते भीष्मेऽपि मूच्छास्यास्तीति मूच्छले साति । सा कुरूणा चमू सेना मम्लौ म्लानाभूत् । अत्र पलायनाद्यनेकक्रियायौगपद्यात्समुचयालकार । शादूलविक्रीडितम् ॥ ४८ ॥

 वीणेति । वीणाप्रियो मुनीन्द्र वीणामुनीन्द्र नारद । शकपाथिवादित्वात्समास । विजयस्य अजुनस्य युद्ध नीरन्ध्रभावेन अविच्छेदभावेन निरीक्षमाण पश्यन् सन् अभ्रे आकाशे हस्तयोरर्पितै । हस्ताभ्या गृहीतैरित्यर्थ । आनन्दाज्जातै आनन्दजै अश्रुभि बाष्पजलैरेव । अहिभव आहिक कृत्य मध्याह्नानसध्यावन्दनादिकार्य चक्रे । असबन्धे सबन्धरूपातिशयोक्ति । इन्द्रवज्रा ॥ ४९ ॥

 विस्मयेति । विस्मय आश्चर्यमेव अर्णव समुद्र तस्य विभावरीविभु चन्द्रम् । इति परम्परितरूपकम् । अत्याश्चर्यप्रवर्धकमित्यर्थ । विजयस्य अजु नस्य विक्रम वीक्ष्य वीक्ष्य । आदरात् द्विरुक्ति । सा मनोरथभङ्गात् द्वेषित्वेन प्रसिद्धा उर्वश्यपि अखिलाना अप्सरसा गणै सह उत्तमाङ्ग शिर अकम्पयत् । क्ष्लाघयामासेत्यर्थ । अत्र अपिशब्दसूच्यतादृक्प्रद्वेषवत्या उर्वश्यापि श्लाघने किमुतान्यैरित्यर्थान्तराक्षेपादर्थापत्यलकार । रथोद्धता ॥ ७० ॥


वपुरस्रसात्कृतबता सुभटाना
 वरणस्रजे विबुधवारवधूभ्य ।
कुसुमात्यये किसलयान्यपि दत्वा
 क्षुपतामवाप कुलिशायुधशाखी ॥ ५१ ॥
बाहवो प्रवृष्टकुसुमस्य ततो निलिम्पै[९६८]
 प्रस्वापनास्त्रमहिमातिशयेन तस्य ।
निद्रायते स्म निखिळा पृतना रिपूणा
 युद्धावतीर्णमपनेतुमिव श्रम स्वम् ॥ ५२ ॥

 [९६९]तत स बीभत्सु परिषत्समानीतव[९७०]धूपरिभवानुरूपफलप्रदित्सयेब सारथिना द्वि[९७१]षतामपहरितविविधपरिधानो गुरुप्रभृतिष्व[९७२] मीषु दिवा स्वापो मा भूदिति कृपया मन्यमान इव पुनरपि तदस्त्र क्षणादेव सजहार ॥


 वपुरिति । वपु निजदेह अत्रेभ्य अर्जुनबाणेभ्य सा कृतवता अर्पितवताम् । ‘तदधीनवचने च' इति सात्प्रत्यय । सुभटाना सुरीभूताना बरणार्थे स्त्रजे माला कर्तुम् । इति क्रियार्थ-'इत्यादिना चतुर्थी । कुलिशायुधस्य इन्द्रस्य शाखी कल्पवृक्ष कुसुमानामत्यये व्यये सति किसलयानि पल्लवान्यपि विबुधवारवधूभ्य दत्त्वा क्षुपता हस्वशाखित्व अवाप प्राप्तवान् । ‘हखशाखाशिफ क्षुप' इत्यमर । अत्र कल्पवृक्षस्य स्खल्पशाखित्वासबन्धेऽपि सबन्धोक्तेरतिशयोक्ति । तया चाजुननिहतारिवीराणामसुख्येयत्वप्रतीतेरलकारेण वस्तुध्वनि । सुमङ्गलीवृत्तम् ॥ ५१ ॥

 बाह्वोरिति । तत निलिम्पै देवै प्रकर्षेण वृष्टानि मुक्तानि कुसुमानि यस्य तथोक्तस्य तस्य अर्जुनस्य बाह्वो सबन्धिन प्रस्वापनास्रस्य महिमातिशयेन निखिला रिपूणा पृतना सेना युद्धादवतीर्णे प्राप्त स्व स्वीय श्रम अपनेतु निवार यितुमिवेत्युत्प्रेक्षा । निद्रायते स्म शिश्ये । अत्रोक्तोत्प्रेक्षा प्रस्वापनास्रमहेिमातिशग्र प्रत्यहेतोरपि अर्जुने रणश्रमशामकस्य सुरतरुकुसुमवर्षस्य हेतुत्वोक्तिरूपप्रौ- ढोक्तयलकारेणोज्जीवितेति द्वयोरङ्गाङ्गिभावेन सकर ॥ ५२ ॥

 तत इति । तत स बीभत्सु अर्जुन रिपुसेनानिद्रानन्तर परिषदि सभाया सम्यक् आनीत प्रापित य वधूपरिभव द्रौपदीतिरस्कार वत्रापहाररूप तस्यानुरूपस्य अनुगुणस्य फलस्य प्रदातुमिच्छा प्रदित्सा तयेवेत्युत्प्रेक्षा । सारथिना उत्तरेण विद्विषा कौरवाणा अपहरितानि विविधानि नानाजातीयानि परिधा-


अथ दृश परिमृज्य कराञ्चलैररुणिता परिमीलनमुद्रया
प्रकटितास्यबिलै प[९७३] टुनृम्भणात्प्रबुबुधे कुरुरा[९७४]जचमूश्चिरात् ॥ ५३ ॥

 पूर्वप्रयोगमुदिता इव तस्य बाणा
  निद्रा द्विषत्सु निखिला ददुरेव दीघर्क़ाम् ।
 पश्चात्प्रयुक्तममुनाहमितीव रोषा-
  त्प्रस्वापन तु विततार न तादृशीं ताम् ॥ ५४
 स तु वपुरनुशोच्य धार्तराष्ट्र
  समिति विराट्सुतापनीतचे[९७५]लम्
 कुलिशभृदनुजीविदत्त बन्धा
  कुशलममन्यत घोषवाटयात्राम् ॥ ५५ ॥


नानि अधोवस्त्राणि येन तयोस्त सन् यद्वा परिधानशब्दोऽत्र परित बत्त इति व्युत्पत्या वस्रमात्रपर । तेन उत्तरीयादे सत्वे किमिति 'ध्वजपटशकलाग्रै कृळ्प्तकौपनकृत्या ’ इत्युत्तरग्रन्थो न विरुध्यत इति ध्येयम् । अमीषु पुरोवतिषु गुरुप्रभृतिषु द्रोणाचार्यादिषु विषये। कृपया दिवा अहि स्वाप निद्रा मा भूत् । तस्य महादोषत्वस्मरणादिति भाव । इत्युक्तप्रकार मन्यमान आलोचयन्निवेत्युत्प्रेक्षा । क्षणादेव तदस्त्र प्रस्वापन पुनरपि सजहार उपसहृतवान् । उत्प्रेक्षा द्वयस्य ससृष्टि ॥

 अथेति । अथ अस्त्रोपसहारानन्तरम् परिमीलनमुद्रया सुकुलनावस्थया अरुणिता सजातारुण्या दृश नेत्राणि कराञ्चलै अग्रकरै परिमृज्य सघृष्य पटुजूम्भणात् जुम्भाकरणाद्धेतो प्रकटितानि विवृतानि आस्यानि वक्राणि बिलानीव तै उपलक्षिता कुरुराजचमू दुर्योधनसेना चिरात् प्रबुबुधे प्रबुद्धा । बुध्यते कर्तरि लिट्। स्वभावोक्ति । द्रुतविलम्बितम् ॥ ५३ ॥

 पूर्वेति । तस्य अर्जुनस्य निखिला बाणा पूर्वे प्रथमत प्रयोगेण मुदिता इवेत्युत्प्रक्षा । द्विषत्सु दीर्धामेव निद्रा ददु । मरण चक्रुरित्यर्थ । अहमेक तु अमुना अर्जुनेन पश्चात् सर्वेभ्योऽप्यनतर प्रयुक्त इत्युक्तप्रकाराद्रोषादिवेत्यु त्प्रेक्षा । प्रखापनमस्त्र द्विषत्सु तादृशी दीर्घा ता निद्रा न विततार न ददौ । मानिता एव प्राणात्ययेनापि प्रभो कृत्य निर्वहन्तीति भाव । प्रस्वापनास्त्रेण नैकोऽपि इत इत्यर्थ । उत्प्रेक्षाद्वयस्याङ्गाङ्गिभावेन सकर ॥ ५४ ॥

 स इति । स धार्तराष्ट्र दुर्योधनस्तु समिति युद्धे विराटसुतेन उत्तरेण अप नीते चेले अन्तरीयोत्तरीये यस्मिन् तथोक्त वपु निजशरीर अनुशोच्य दृष्ट्या परिखिद्य कुलिशभृत इन्द्रस्य अनुजीविभि मृत्यै गन्धर्वै दत्त बन्व यस्या ता धोषवाटयात्रा गोकुलप्रयाण कुशल क्षेम अमन्यत । ततोऽप्यवमानकरीय


पराञ्चि कर्तु वनान्यनीशा
 पश्चाद्विमर्देन नभस्यमयं ।
निरीक्ष्य नग्नान्नृपतीन्हिर्ता
 निमीलाज्ञ नयन निनिन्दु ॥ ५६ ॥

इति परिभवलक्ष्म्या सभृता भोगमुद्रा
 तनुभिरभिदधाना स्थास्नुभिर्नग्नभावे ।
ध्वजपटशकलाग्रै क्कृप्तकौपीनकृत्या
 सुबलदुहितृपुत्रा स्वा पुरी प्रत्यगच्छन् ॥ ५७ ॥


यात्रेति सभावितवान् । अत्रोभयो घोषवाटयात्रात्वेऽपि अत्र कुशलतररूपानर्योत्पत्तिवर्णनाद्विषयप्रभेद । एव तत्र बन्धस्य दोषस्यापि गुणत्वेन वर्णनाल्लेशाळकारश्च । द्वयोरेकवाचकानुप्रवेशसकर पुष्पिताग्रा ॥ ५५ ॥

 पराञ्चीति । अमय अप्सरस नग्नान् विवस्त्रान् नृपतीन् दुर्योधनादीन् निरीक्ष्य ह्रिया लज्जया आर्ता खिन्ना सत्य अतएव वदनानि मुखानि पराञ्चि पराडभुखानि कर्तु पश्चात् पृष्ठभागे नभसि आकाशे विमर्देन बहुसधसबाधेन हेतुना अनीशा अशक्ता सत्य निमीलन निमेष न जानातीति निमीलनाज्ञम् । निमेषशून्यमित्यर्थ । नयन नेत्रेन्द्रिय स्खीय निनिन्दु निन्दन्ति स्म । अत्र नग्ननृपावलोकनस्य लज्जा प्रति तस्याश्च वदनपराङ्भुख्योद्यम प्रति च हेतुत्वात्पदार्थहेतुक काव्यलिङ्गद्वयमङगाङ्गिभावेन सकीणम् । एव पाश्चात्यभागसमर्दस्य वदनपाराङ्मुख्यकरणाशक्तिं प्रति तस्याश्च नेत्रनिमीलनोद्यम प्रति तन्मीलनराहित्यस्य नेत्रनिन्दन प्रति च हेतुत्वादुतविधमेव काव्यलिङ्गत्रयमङ्गाङ्गिभावेन सकीर्णम् । अत्र च प्राथमिक विमर्देन पारापुष्यकरणाशक्त्यसबन्धेऽपि सबन्धोक्तिरूपयातिशयोक्तया सहैकवाचकानुप्रवेशेन सकीर्णम् । त्रयाणामपि सकराणा पुनरङ्गाङ्गिभावेन सकर इति सुधीभिरनुसधेयम् ॥ ५६

 इतीति । इत्युक्तप्रकारम् । नन्नभावे वस्त्रराहित्ये स्थास्त्रुभि तिष्ठन्तीभि । वस्त्रंशन्याभिरित्यर्थ । तनुभि शरीरै परिभवलक्ष्म्या अर्जुनकृतावमानसमृध्द्या स्त्रीलिङ्गेन स्त्रिया च सभृता सपादिता भोगमुद्रा सभोगावस्था अनुभूतिं च अभिदवाना ज्ञापयन्त सुबलदुहितु गान्धार्या पुत्रा दुर्योधनादय ध्वजपटाना शकलाग्रै ल्कृप्त निर्मित कौपीनकृत्य यैस्तथोक्ता सन्त । स्वा स्वीया पुरीं हस्तिननगर प्रत्यगच्छन् प्रत्यागता । अत्र दिगम्बरदस्य अर्जुनकृतावमानानुमापकत्वात् अनुमानालकार ! मालिनीवृत्तम् ॥ ५७ ॥


 तदनु हरिदङ्गणविशृङ्खलविक्ष्रमितविजयशङखरवो निजायुधनिक्षेपरक्षिषु भूत[९७६]कुटुम्बेषु [९७७]नवरुधिराजलिपान[९७८]तृप्तिकिलिकिलितमनुभवितुकाम इव पुनरपि पितृवनमेत्य वरुनिहितशस्रसभार पुरा [९७९]त्सहायातेषु गुणेषु आवामेव तव रणाद्भुतदर्शन प्रतिवाञ्चिते इति उपालब्धुमिव कृ[९८०]तसानिध्याभ्या क्लैब्यसारथ्याभ्या भू[९८१]य कृतानुषञ्जन कुरुकुञ्जरो भूमिजयमेव जगाद ॥

कुमार कोशीकुरु केशपाश मुखेऽश्रुणो मार्जय पातमार्गम् ।
तूण्या सम दोष्णि निधेहि चाप राशेरुपर्यास्स्व रथे पटानाम् ॥५८॥
बधान धैर्यं वद बन्धुगोष्ठथामात्मानमेवारिजयस्य हेतुम् ।
मातु पितुर्वा धुरि मत्रिणा वा मा तत्त्वगन्ध मम सूचयेति ॥५९॥


 तदन्विति । तदनु कौरवगमनानन्तर इरिता दिशा अङ्गणेषु प्राङ्गणेषु विशृङ्खल निष्प्रतिबन्धक यथा तथा विश्रमित व्याप्त विजय शङ्खरव देवदत्तनिनद यस्य स निजाना आयुधाना निक्षेप न्यास रक्षन्तीति रक्षिषु भूताना पिशाचाना कुटुम्बेषु नवै रुधिराञ्जलिपानै तृप्तै यत्किलिकिलित कलकलध्वनि त अनुभवितु श्रोतु कामो यस्य तथोक्त इव स्थित इत्युत्प्रेक्षा । पुनरपि पितृवन श्मशान एत्य तरौ शमीवृक्षे निहित न्यस्त शत्राणा आयुधाना सभार समूह येन तथोक्त । पुरात् विराटनगरात् सहायातेषु सहागतेषु गुणेषु आवा द्वे एव तव सबन्धिनो रणाद्भुतम्य दर्शन प्रतिवञ्चिते इत्युक्तप्रकार उपालब्धु निन्दितु कृत सानिध्य याभ्या तथोक्ताभ्यामिव स्थिताभ्यामित्युत्प्रेक्षा । क्लैब्य नपुसकत्व सारथ्य च ताभ्या भूय पुनरपि कृत अनुषञ्जन सबन्ध यस्य स कुरुकुञ्जर अर्जुन भूमिंजय इत्युत्तरस्यैव नामान्तरम् । त प्रत्येव वक्ष्यमाणप्रकारेण जगाद उक्तवान् । उत्प्रेक्षाद्वयस्य ससृष्टि ॥

 उक्तिप्रकारद्वाभ्यामाह-कुमारेति । हे कुमार उत्तर, केशपाश शिथिलकचभार कोशीकुरु । बन्धयेत्यर्थ । मुखे अक्षुण बाष्पस्य पातमार्गे धारपद्धतिं मार्जय । दोष्णि निजबाहौ चाप तूण्या सम निषङ्गेण सह निधेहि निक्षिप। रथे पटाना कौरवांशुकाना राशेरपरि आस्ख उपविश । रथिकत्वेन तिष्ठत्यर्थ ॥ ५८ ॥

 बधानेति । धैर्यं बधान चित्ते स्थापय । बन्धूना विराटादीना गोष्ठया सभाया आत्मानमेव अरीणा कौरवाणा जयस्य हेतु वद ब्रहि । मातु सुदेष्णाया धुरि अग्रे वा पितु विराटस्य धुरि वा मन्त्रिणा धुरि वा मम तत्त्वस्य पाण्डवत्वादे गन्ध लेशमपि मा सूचय वचनेङ्गिताभ्या मा ज्ञापय । इति जगादेति पूर्वेणान्वय । ‘गन्धो गन्धक आमोदे लेशे सबन्धगर्वयो’ इति विश्व ॥ ५९ ॥



 अथ तथेत्यभ्युपगम्य क्षतजपङकारणितनेमिरेखैर्द्विषदौ[९८२]त्पातिकालातचकैरिय परिभ्रमद्भिश्चक्रै सक्रीडता शताङ्गेन [९८३]पथि गच्छन्नप्रेसरघो[९८४]टकखुरपुटकुट्टनत्रुटितधरणीतलोच्चलितरजोभाराक्रमणविनम्री[९८५]कृतपक्ष्मणापि [९८६]कुरुकुलजैत्रोऽयमिति विस्मयबलविस्तारितेन चक्षुषा वृहन्नलाामप्यनादृत्य मुहुर्मुहुरापिबद्भि पौररैनुगम्यमानोऽयमुत्तरो नलकूबर [९८७]ह्ववालका स्वा नगरी ग्रविश्य परस्परोपमर्दनद्विगुणितबन्दिवादित्रघोषेण महता राजमार्गे[९८८]णोपलक्षित पितु सभामभिजगाम

तान्येव पुष्पाणि त एव धूपास्ते केतवस्ते मणितोरणाद्वा ।
पुत्रस्य तस्यापि पुरोपचारा बभूवुरग्रे जयिन पितुयें ॥ ६० ॥


 अथेति । अथ अर्जुनोत्तयनन्तरम् । तथेति । यथा भवतोक्त सर्व तत्तथा करिष्यामीत्यर्थ । इत्युक्तप्रकार अभ्युपगम्य अङ्गीकृत्य क्षतजपङ्केन रक्तकर्दमेन अरुणिता सजातारुण्या नेमिरेखा चक्रान्ताय पट्टिका येषा तै । अतएव द्विषता औत्पातिकै दुनिमित्तजन्यै अलातचकै अङ्गरचकैरेिव स्थितैरित्यु- त्प्रेक्षा । परिभ्रमद्रि चक्रै रथाङ्गै सक्रीडता गच्छता शताङ्गेन रथेन उपलक्षित । “शताङ्ग स्यन्दनो रथ ,’ ‘चक्र रथाङ्ग तस्यान्ते नेमि स्त्री स्यात्प्रधि पुमान्’ इति सर्वत्राप्यमर । पथि मार्गे नगरगामिनि गच्छन् अग्रेसराणा रथपुरोयायिना घोटकाना अश्वाना खुरा पुटा इव तै कुट्टनेन सघर्षणेन त्रुटिताया विदारिताया धरण्या भूमे तलात् उच्चलितस्य उद्भतस्य रजोभारस्य परागपुञ्जस्य आक्रमणेन विनीकृतानि पक्ष्माणि यस्य तथोक्तेनापि । रजसा यो भार तेनावनत्रीकृतपक्ष्म णापीति वा । अय अस्मद्राजकुमार कुरुकुलस्य दुर्योधनादिन्दस्य जैत्र । इति उक्तप्रकारेण विस्मयबलेन आश्चर्यातिशयेन विस्तारितेन विधृतेन चक्षुषा इन्द्रियेण बृहन्नला सारथित्वेन अग्रे स्थितामपि अनादृत्य मुहुर्मुहु आपिबद्भि निरीक्षमाणै पौररैनुगम्यमान अय उत्तर स्खा खीया नगरीं पुरीं नलकूबर कुबेरपुत्र अलव तत्पुरीमिव प्रविश्य परस्पर अन्योन्य उपमर्दनेन मेलनेन द्विगुणित द्विरावृत्त बन्दिना स्तुतिपाठकाना वादित्राणा वीणावेणुमृदङ्गताळादीन च घोष सङ्कलशब्द यस्मिस्तथोक्तेन महता विस्तीर्णेन राजमार्गेण उपलक्षित पितु विराटस्य सभा आस्थानमण्डप अभिजगाम प्राप्तवान् ॥

 तानीति । जयिन दक्षिणगोग्रहजयशालिन पितु विराटस्य अग्रे प्रथमम्।


तत्राचनीन्द्र प्रणत कुमारमस्त्रैर्दूयैरा[९८९]र्द्रतनुत्रमाजौ ।
दोर्भ्या द्विषद्वन्धनखेदभाग्भ्यामपि प्रमोदाडृढमालिलिङ्ग ॥ ६१ ॥

पार्थोऽप्युपानीय रथस्य गर्भात्पार्श्वस्थितायै पितुरुत्तरायै ।
प्रा[९९०]दत्त पट्टाशुकमात्मसूनो पाणिग्रहार्थ किल मन्त्रवास ॥ ६२ ॥

 आचेटमन्यमखिल पटमासुदेष्ण-
  भन्त पुराय स विभज्य ददौ कुमार ।
 सैरन्ध्रये न तु मलीमसवाससेऽपि
  सचिन्त्य ता बहुपटप्रभवावलग्नाम् ॥ ६३ ॥


पूर्वाह्न इति यावत् । यानि पुष्पाणि, ये खूपा , ये केतव ध्वजा , ये मणिमयास्तो रणाङ्काश्च पुरे प्पचारा बभूवु । जयिन उत्तरगोग्रहशालिन पुत्रस्य तस्योत्तरस्य । पश्चदिति शेष । अपराह्न इत्यर्थ । तानि पुष्पाण्येव, ते घूपा एव, ते केतव एव, ते मणितोरणाङ्का एव, पुरोपचारा वभूवु जयद्वयस्यैकाह्वपि विलम्पाभावादिति भाव ॥ ६० ॥

 तत्रेति । तत्र आस्थानमण्डप अवनीन्द्र विराट प्रणत नम्र द्वयै द्विविधै अस्त्रे प्रथम रोदनजन्यै बाष्पै पश्चात् शत्रुशरक्षतिजन्यै शोणितैश्व आर्द्र सिक्त तनुत्र कवच यम्य तयोक्तम् । ‘अस्रमश्रुणि शोणिते’ इति विश्व । कुमार उत्तर आजौ युद्धे द्विषता सुशर्मणा बन्धनेन य खेद श्रम त भजत इति भाग्भ्यामपि दोर्भ्या बाहुन्या प्रमोदाद्धेतो दृढ यथा तथा आलिलिङ्ग आलिबि तवान् । प्रेमपरवशा न गणयन्ति निज श्रममिति भाव ॥ ६१ ॥

 पार्थ इति । पार्थ अर्जुनोऽपि रथस्य गर्भात् मध्यात् पट्टाशुक शात्रव उपानीय आदाय आत्मसूनो अभिमन्यो पाणिग्रहार्थ मन्त्रवास क्लेिति सभावनाथाम् कन्यानिश्चयकालिकवस्त्रमिवेत्युत्प्रेक्षा पितु पार्श्चे स्थितायै उत्तरायै ददौ ॥ ६२ ॥

 जाचेटमिति । स कुमार उत्तर अन्य उत्तरायै अर्जुनदत्तादितर अखिल पटं वस्त्राणीति जात्येकवचनम् । आसुदेष्ण सुदेष्णामारभ्य आचेट दासीजन पर्यन्त अन्त पुराय । अन्त पुरजनायेत्यथ । ददौ । मलीमस मलिन वास वस्त्र यस्यास्तथोक्ताया अपि सैरन्ध्रये द्रौपधै तु ता द्रौपदी बहूना पटना प्रभव उत्पत्तिस्थान अवलग्न मध्यदेश यस्यास्तथोक्ता सचिन्त्य स्मृत्वा न ददौ । पट कचिदिति शेष । अनुचितत्वादिति भाव । अत्र बहुपटोत्पादकत्वेन द्रौपदी भव्यचिन्तनस्य विशेषणगत्या तस्ये वस्रदानप्रतिषेधहेतुत्वात्पदाथहेतुक काव्यलिङ्गम् ॥ ६३ ॥


 विनार्जुन पाण्डुसुतान्समाजे
  विस्मित्य विस्मित्य विलोकमानम् ।
 जिघ्रन्विराटश्चिकुरेषु सूनु
  जगाद विन्यस्य निजासनार्धे ॥ ६४ ॥
निपात्य पार्थान्कान्तारे नि सपत्रत्वमीयुषाम् ।
कण्ठेग[९९१]डूयसे वत्स कौरवाणा त्वमेकक ॥ ६५॥
 नव्य गुरु भुवि। न मार्गितुमुत्तराया
  सरक्ष्य सूतमपि तादृशि सप्रहारे ।
 जन्मर्क्षजीवदिनयोगफल च दातु
  कन्यासु वत्स कथमेत्य कुरून्व्यजेष्ठा ॥ ६६ ॥


 विनेति । समाजे सभाया अर्जुन विना अर्जुनवर्ज्यान् पाण्डसुतान् यमराजभीमनकुलसहदेवान् अर्जुनोक्तवेषान्तरच्छन्नान् विस्मित्य विस्मिय आश्चर्यं गत्वेत्यादराद्विरुक्ति ! विलोकमान सूनु उत्तर विराट निजासनावे विन्यस्य उपवेश्य चिकुरेषु । मूर्धनीत्यर्थ । जिघ्रन् सन् जगाद वक्ष्यमाणप्रकारेणोक्तवान् ॥ ६४ ॥

 निपात्येति । पार्थान् कान्तारे अरण्ये निपात्य पातयित्वा । धूतव्याजेनेति भाव । नि सपत्नत्व शत्रुशून्यत्व ईयुषा प्राप्ताना कौरवाणाम् । हे वत्स, त्व एकक एक एव कण्ठेगडूयसे कण्ठविवररोधिकिण इवाचरसि । पार्थास्तु पश्चापि मिलिखा तथा भवन्ति नतु प्रत्येकमित्यहो वीयातिशयस्तवेत्यथ । अतएव व्यतिरेकालकारो व्यङ्गय । उपमा समानगा क्षौती द्वयोरेकवाचकानुप्रवेशसकर ॥ ६५ ॥

 नव्यमिति । किच हे वत्स, उत्तराया त्वद्भगिन्या नव्य बृहन्नलातो नूतन गुरु नाटयाचार्य भुवि न मार्गितु अनन्वेषितुम् । तस्या गुस्शोक वारयितुमित्यर्थ । कन्यासु उत्तराप्रभृतिषु विषये जन्मर्क्षेण जन्मनक्षत्रेण सह जीवदिनस्य बृहस्पतिवासरस्य योगेन यत्फल वस्त्रलाभ तत् दातु च तादृशि दुस्तरे सप्रहारे युद्धे सूत बृहनलामपि सरक्ष्थ कुरून् दुर्योधनादीन् कथमित्याश्चर्ये । व्यजेष्ठा जितवानसि । अत्र गुरुशोकवारणस्य सूतरक्षणेन नूतनवस्त्रदानस्य कौरवजयेन सह क्रमेणान्वयाथयासख्यालकार । ‘अध्वा भोजनपालस्य विघा धन्न वराङ्गना । मृत्युश्चेति क्रमाज्जन्मर्क्षार्कादिदिनयोगत ॥' इति ज्यौतिषिका ॥ ६६ ॥


 इति प्रमोदचञ्चलेन पाणिना परामृश्य चरमाङ्ग पुन पुनरनुयुञ्जानाय ताताय सौदे [९९२]ष्णेयोऽपि त्रपाप्रवाहाभिमुखमवस्थातुमपारयन्निव वि[९९३]वलितकधरो गिरमेव विज्ञापयामास ।

 रोद प्रसरि ध्वनित मया चक्रे धुरि द्विषाम् ।
 यावान्मे वेगसनाहस्तावास्तत्र प्रदार्शित ॥ ६७ ॥ ।
 अहमेको रणे तस्मिन्नपरैरननुष्टिताम् ।
 रथिसारथिपत्तित्वे रचयामि स्म कर्तृताम् ॥ ६८ ॥
दे[९९४]व, कि बहुना ।
 अपार्थ कर्म मे नासीदाहवे यदरानिषु ।
 पुरो विजय[९९५]माधाय पुनरागा पु[९९६]रीमिमाम् ॥ ६९ ॥


 इतीति । इति उक्तप्रकारेण प्रमोदेन चञ्चलेन क्म्पमानेन पाणिना चरमाङ्ग पृष्ठभाग पुन पुन परामृश्य पुन पुनरनुयुजानाय पृच्छते ताताय पित्रे विराटाय। सुदेष्णाया अपारयन् सौदेणेय उत्तरोऽपि त्रपा लज्जैव प्रवाह तस्याभिमुख अव स्थातु अपारयन्' अशक्रुवन्निवेत्युप्रेक्षा । विवलिता व्यावतिता कधरा ग्रीया येन तथोक्त सन् एव वक्ष्यमाणप्रकारेण गिर वाच विज्ञापयामास विज्ञापितवान् ॥

 रोद इति । हे तात , मया रोदसो दिवि भुवि च प्रसारि व्यामुवत् । ‘द्यावाभूमी च रोदसी’ इत्यमर । ध्वनित सिहनाद रोदन च द्विषा धुरि अग्रे चक्रे कृतम् । करोते कर्मणि लिट् । उत्साहाद्भयाच्चेति भाव । मे मम वेगे पराक्रमे पलायने च य सनाह उद्योग यावानस्ति तावान् वेगसनाह तत्र शक्रूणामग्रे प्रदशित । मयेति योज्यम् ॥ ६७ ॥

 अहमिति । किच तस्मिन् रणे अहमेक एव । नान्य कश्चिदित्यर्थ । अपरे अन्यै अननुष्ठिता अकृताम् । अनुचितत्वात् स्वप्नेऽप्यकरणीया चेत्यथ । रथित्वे सारथित्वे पतित्वे चेत्यर्थ । पुरनिर्गमनप्रवेशयो युद्धे पलायनवस्त्राहरणयो श्रेति विवेक । कर्तृता अधिकार रचयामि स्म अकरवम् । रथी सारथि पाद चारी चाभवमित्यर्थ । अत्र वाच्यकक्ष्याया अनेफ्रसाध्ये कमत्रये एकस्य प्रकृत्त्या पराननुष्ठित्वसमर्थनात्काव्यलिङ्गभेद ॥ ६८ ॥

 देव, कि बहुना । उक्तेनेत्युत्तरेणान्वय ॥

 अपार्थमिति । हे देव खामिन्, बहुनोक्तेन कि प्रयोजनम् । न किमपी त्यर्थ । यत् यस्मात् आहवे युद्धे अरातिषु शत्रुषु विषये मे मम सबन्धि कर्म


इति तादृशी तस्य वचनचातुरीं निशन्य[९९७] दुरोदरविहा[९९८]रप्रहारवेद्नामष्यविगणय्य तरलितेन शिरसा [९९९]क्ष्घयमाने यतीन्द्रे वासरविरामशसिन यामशङ्खरवमाकर्ण्थ यथोचित सभास्तारान्विसृज्य मेदिनीपतिमोंदेन सुदेष्णाप्रासादमाससाद ॥

सुतावलोकेन नरेन्द्रसुश्रुव-
 क्ष्च्युताखिलाश्रुष्वपि सोदरात्ययात् ।
विलोचनाङ्गेष्वतिवृष्टिसपदे
 विभाण्डकापत्यविजृम्भणायितम् ॥ ७० ॥


युद्ध सारथ्य च अपगत अर्थ प्रयोजन यस्मात्तयोक्त पायेन रहित च नासीत् तस्मात् कारणत्' पुर अग्रे विजय जय अर्जुन च आबाय विन्यस्य इमा पुरी प्रति पुन आगा आगतवानस्मि । कर्म निष्फल चेत्पार्थो न चेञ्च जीवन्न पुनरा गच्छेयमेवेत्यर्थ ॥ ६९ ॥

 इतीति । इत्युक्तप्रकारा तादृशी शब्दशक्तिमूलव्यञ्जनया वास्तवाथप्रका शिका वचनाना चातुरी नैपुण्य निशम्य श्रुत्वा यतीन्द्रे युधिष्ठिरै दुरोदरविहारे धूतक्रीडाया प्रहारेण विहायोत्तरप्रशसा बृहन्नलाप्रशसया कुपितविराटकृतपाशकताडनेन या वेदना तामप्यविगणरय अनादृत्य तरलितेन कम्पितेन शिरसा श्लाघयमाने अभिनन्दयति सति मेदिन्या भूमे पति विराट वासरबिरामस्य सायकालस्य शसिन सूचक यामाना चतुर्णा सबन्धिन शङ्खरव आकर्ण्य सभा स्तारान् सभाजनान् यथोचित तत्तदर्होपचार यथा तथा विसृज्य अनुज्ञाप्य मोदेन पुत्रजयजन्यसतोषेण उपलक्षित सुदेष्णाया उत्तरस्य मातु सबन्धिन प्रासाद सौध आससाद प्रविवेश । पुत्रेण सहेति शेषः ॥

 सुतेति । सोदराणा कीचकाना अत्ययात् नाशाद्धेतो च्युतानि गलितानि अखिलानि नि शेषाणि अक्ष्रूणि बाष्पजलानि येषु तथोक्तेष्वपि नरेन्द्रसुभ्रव सुदेष्णाया विलोचनेषु अङ्गा अङ्गारया जनपदा इवेत्युपमितसमास । उपमा प्रायपाठात् तेषु अतिवृष्टिसपदे समृध्धै सुत्तस्य उत्तरस्य अवलोकेन दर्शनेन विभाण्डकापत्यस्य ऋष्यशृङ्गमुने विजृम्भणेन आविर्भावेनेव आचरित तद्विजृम्म् णायितम् । कृजन्तात्कर्तरि क्त । ऋष्यशृङ्गागमेनाङ्गदेशेष्विव उत्तरावलोकेन सुदे प्णानेत्रयोरानन्दबाष्पाणा अतिपृष्टिरासीदित्यर्थ । ऋष्यशृङ्गागमान्महती वृष्टिर्भ वतीत्यागमप्रसिद्धम् । अत्रानन्दबाष्पवृष्टिसुतावलोकनयो कार्यकारणयोस्क्ते र्हेत्वलकार । तस्य चोपमया सहैकवाचकानुप्रवेशसकर । वशस्थम् ॥ ७० ॥


 अन्येद्युरात्मजमुखादभीषा [१०००]याथार्थ्यमवगम्य चकितच[१००१]कित कुटुम्बेन सह सचिवान्पुरस्कृत्य सभामागतो विराटो नामान्तरसनिधानादिव हायनमेकमनुपसर्पद्भि स्वै स्वैर्वेषै प्रकृतिमापन्नेन सोंदर्यजनेन समुपास्यमानस्य युधिष्ठिरस्य चरणनलिनयो पलीतभावुकेन मौलिना मरालयुवकेलिमुल्ललयाचकार ॥

तदा नुनोद स्मितपाण्डुरिम्णा तप सुतोsक्षक्षतिहेतुमुग्रम्।
महेन्द्रसुनोर्द्यशि शोणिमान मात्स्यस्य चित्तेsपि च नीलिमानम् ॥ ७१ ॥


 अन्येद्युरिति। अन्येद्यु परस्मिन् दिवसे आत्मजस्य मुखात् वचनात् अमीषा कङ्कदिसज्ञाना पाण्डवाना यातार्थ्य तत्त्व पाण्डवत्वयुधिष्ठिरत्वादिक अवगम्य ज्ञात्वा चकितचकित सेवापचारादिभि भीतभीत । वीप्साया द्विर्भाव। कुटुम्बेन कलत्रपुत्रादिना सह सचिना मन्त्रिण पुस्कृत्य सभा प्रत्यागत विराट नामान्तराणा कङ्कबललाधन्यसताना सनिधानात् सागत्यादिवेत्युत्प्रेक्षा। एक हायन सवत्सर अनुपसर्पद्भि समीपमागच्छद्भि स्वै स्वे प्रत्येक स्वीये वेषै रूपै प्रकृति स्वभाव आपन्नेन प्राप्तवता सोदर्यजनेन अनुजजनेन। भीमादिभिरिति यावत्। समुपास्यमानस्य सेव्यमानस्य युधिष्ठिरस्य। चरणे एव नलिने कमले तयो पलितभावुकेन धवलीभूतेन शिरोस्हेण। 'आढ्यसुभग-' इत्यादिना सशि खित्वात् 'अरूद्विषत्-' इत्यादिना मुम्। मोलिना शिरसा। मराल्यून तरुणहसस्य केलिं लीला उल्ळलयाचकार प्रकाश यामास। प्रणनामेत्यर्थ। अत्र अन्यलीलाया अन्यत्रासभवेन तत्सध्शलीलाक्षे पान्निदर्शनालकार। चरणनलिनयोरिति रूपकीज्जीवित इति द्वयोरङ्गाङ्गिभावेन सकर। स चोत्प्रेक्षया ससृष्ट॥

 तदेति। तदा विराटप्रणामसमये तपस यमस्य सुत विर्मराज स्मितस्य पाण्डुरिम्णा धावल्येन हेतुना अक्षक्षति पाशकप्रहारव्रण एव हेतुर्यस्य त उग्र भयकर महेन्द्रसूनो अर्जुनस्य धशि नेत्रे शोणिमान विराटे क्रोधेनारुण्य नुनोद निरस्तवान्। किच अक्षक्षतिहेतु निजकृतपाशकप्रहारजन्य उग्र इतिकर्तव्यतामौ ढ्येन भयकर मात्स्यस्य विराटस्य चित्ते नीलिमान भयान्वत्वरूप मालिन्य नुनोद। अत्राजुनविराटाभ्या वर्मराजस्मितनैर्मल्येन तदन्त प्रसादानुमानादनुमानालकार। वमराज स्मितधाव ल्यव्याप्त्या अर्जुनलोचनारुण्यविराटमानसमालिन्यत्यागपूर्वक वैशद्यत्राप्तिरूपतद्गुणालकारद्वयेनाङ्गाङ्गिभावसकीर्णेन प्रतीयत इत्यलकारेणालकारध्वनि। एवममर्षत्यागशान्त्योरर्जुनविराटगतयोरसलक्ष्यत्र्कमव्यङ्गययोरङ्गाङ्गिसावेन सकरश्च। अस्य चोक्तव्यङ्गयानुमानालकारसापेक्षत्वात् द्वयो सलक्ष्यासलक्ष्यत्र्कमव्यङ्ग्ययोरङ्गाङ्गिमावेन सकर इत्यल प्रपन्चेन प्रपञ्चेन ॥ ७१ ॥


 मात्स्यस्तत प्रमुदितो महितेऽहि कन्या
  शौरौ समेयुषि सहाखिलबन्धुवर्गै ।
 मृद्वी शिरीषकुसुमादपि पार्थसूनो
  सीमाशिलामतनुत प्रथमाश्रमस्य ॥ ७२ ॥
तथोपचार विदधे सुदेष्णाजानि स पार्थेषु समाधवेषु ।
तमेव गान्धारपति यथा ते जानीयुरत्यन्तकृतोपकारम् ॥ ७३ ॥
 अथोल्लास्य कुरूनेतान्हरिर्मात्स्यपुराद्ययौ ।
 मन्दारप्रमुखान्क[१००२]ल्पान्वसन्त इव नन्दनात् ॥ ७४ ॥

 इत्यनन्तभट्टकविकृतौ चम्पूभारते सप्तम स्तबक ।


 मात्स्य इति । तत अनन्तर मात्स्य विराट प्रमुदित सतुष्ट सन् शौरौ श्रीकृष्णे अखिलबधुवगै सह समेयुषि प्राप्तवति सति महिते चन्द्रतारादिगुणसपत्त्या ऋष्ये आह्लि वासरे कस्मिंश्चित् शिरीषस्य कुसुमादपि भृद्वीं सुकुमारा कन्या उत्तरा पार्थसूनो अभिमन्यो प्रथमाश्रमस्य ब्रह्मचर्यस्य सीमाशिला अवधिदेशदृषद अतनुत चक्रे । अभिमन्यवे कन्या प्रायच्छदित्यर्थ । अत्र शिरीषकुसुमसुकुमार्या परषसीमाशिलात्ववर्णनाद्विरूपघटनात्मकविषमप्रभेद । एव पत्नीत्वस्य व्यङ्गस्य ब्रह्मचयसीमाशिलात्वेन भङ्गयन्तरेण कथनात्पर्यायोत्तयलकार । द्वयोक्ष्चैक्याचकानुप्रवेशसकर ॥ ७२ ॥

 तथेति । सुदेष्णा जाया यस्य स सुदेष्णाजानि स विराट । माधवेन' कृष्णेन सहितेषु समाधवेषु पार्थेषु वर्मराजादिषु विषये उपचार पूजा तथा विदधे चक्रे यथा ते सकृष्णः पार्था त धूतेन सर्वस्व हृत्वा तादृग् दु खदायिन गान्धारपति शकुनिमेव अत्यन्त कृत उपकर येन तथोक्त जानीयु भावयेयु । शकु तिना राज्याद्भ्रशने ईदृग्विराटोपचारस्य प्रसत्त्यभावादिति भाव । अत्र शकुन्यपकारस्य गुणत्ववर्णनादेशालकार । एव विराटेनोपकृताना शकुनावुपकारसभावनादसगत्यकार । द्वयोश्च पूववत्सकर । 'विरुद्ध भिन्नदेशत्खकार्यहेत्वोरसगति ’ इत्यसगतिलक्षणम् । लेशलक्षण तूक्तम् ॥ ७३ ॥

 अथेति । अथ विराटोपचारानन्तर हरि श्रीकृष्ण एतान् कुरून् युधिष्टिरादीन् उल्लस्य सतोषयित्वा मात्स्यपुरात् । मन्दरप्रमुखान् कल्पान् सुरवृक्षान् उल्लास्य किसलयकुसुमादिभि प्रकाशयित्वा वसन्त माधव नन्दनादिव । यायै प्रस्थितवान् । पूर्णोमालाकार ॥ ७४ ॥

 इति श्रीसदाशिवपदारविन्दवन्दनकन्दलितानन्दसान्द्रस्य कुरविकुलचन्द्रस्य रामकवीन्द्रस्य कृतौ चम्पूभारतव्याख्याने लास्याख्याने सप्तमस्तबकाविवरण समाप्तमासीत् ॥


अष्टम स्तबक ।

तावत्पाण्डुसुतेन कौतुकवता कर्तु प्र[१००३]कोष्ठालणे
 ज्यामेका युधि नर्तकीं भुजभुवि स्थास्नु चिरस्यापराम् ।
आहूता क्षितिपा विराटनगरी सैन्यद्विपैरुन्मदै
 प्रावृडासरसरसचया इव घनै प्रापुर्महाद्रेस्तटीम् ॥ १ ॥
 सेनाना यावती पार्थो युद्धायाक्षौहिणीर्दधौ ।
 धार्तराष्ट्रश्चतासृभिस्तावतीरधिका पुन ॥ २ ॥
उक्ताध्ववृत्तान्तमुवाच शल्य पार्थस्ततो भानुसुतस्य युद्धे ।
आक्षेपवाचा हृदय वितक्षन्नन्वर्थतामाचर मातुलेति ॥ ३ ॥


 तावदिति । तावत् तदानीं प्रकोष्ठस्य कूर्पराधोभागस्य अङ्गणे अग्रभागे । हस्त इति यावत् । ‘प्रकोष्ठ कूर्परादव' इत्यमर । कूर्परो बाहुम यग्रन्थि । एका ज्या शिञ्जिनी युधि युद्धे नर्तकी चञ्चलाम् । आकर्षणविमोचनाभ्यामिति भाव । कथं अपरा अन्या ज्या भुवम् । ‘ज्या मौर्वीमातृभूमिषु’ इत्युभयत्रापि विश्व । भुजभुवि बाहुदेशे स्थास्नु स्थिरतरा कर्तृ च कौतुकवता कुतूह्लवता पाण्डो सुतेन धर्मराजेन आहूता चारसचिवादिद्वारा आकारिता क्षितिपा राजानस्तत्तद्देश्या उन्मदै सैन्यद्विपै सैन्यगजै उपलक्षिता विराटनगरी प्रापृडवा सराणा वाषिकदिनाना सचया समूहा घनै मेधैस्पलक्षिता महाद्रेस्तटी तट मिव प्रापु । उपमालाकार । यत्त्वत्र ‘प्रकोष्ठाङ्कणे’ इत्यत्र ‘प्रकोष्टे विस्तृतकरे’ इति नृसिंहेन कोशलेखनम् , तदबोधात् । यत प्रकोष्ठे विस्तृतकरे हस्तो मुष्टया तु बद्धया । सरन्ति स्यादरत्निस्तु निष्कनिष्ठेन मुष्टिना ॥’ इत्यादिना विस्तृतकरे प्रकोष्ठे हस्त बद्धया मुष्टया तु स हस्त रन्ति निप्कनिष्ठेन मुष्टिना अरन्तिरिति मानविशेषनिर्णयायैव तत्र प्रकोष्टग्रहणात् तदर्थनिर्णयस्त्वस्मल्लिखित एवेति स्पष्ट कोशार्थकोविदानामित्यस्मसदावेशेन । शार्दूलविक्रीडितम् ॥ १ ॥

 सेनानामिति । पार्थं धर्मराज युद्धाय युद्ध कर्तुमिति क्रियाथ-' इत्यादिना चतुर्थी । यावती सेनाना अक्षौहिणी । यत्सरयाकाक्षौहिणी सेना इत्यर्थ । दधौ सगृहीतवान् । चतसृभिरधिकास्तावती सप्त । सेनानामक्षौहिणीस्तु एकादशेत्यर्थ । धार्तराष्ट्र दुर्योधन दवौ । अत्र वर्मराजाक्षौहिणीना सप्तत्व प्रसिध्या प्राह्यमिति न न्यूनपदत्वदोष ॥ २ ॥

 उक्तेति । तत उभयो सेनासग्रहानन्तर पाथ वर्मराज उक्त अध्वनि वृत्तान्त उपचारपरितुष्टेन स्वेन दुर्योधनस्य साह्यकरणवरदानरूप येन तथोक्त शल्य प्रति हे मातुल मातृसोदर, व आसमन्तात् क्षेप निन्दा यस्यास्तया वाचा । निन्दाप्रतिपादकवाक्येनेत्यर्थ । ‘क्षपो बिलम्बे निन्दायाम्’ इति विश्व । युद्धे कर्णा-


अथ भा[१००४]गिनेयेषु वत्सलतया सत्यसगरस्तथेति प्रतिश्रुत्य ।
 भद्राय तव मा विद्धि निद्रामुचमिति ब्रुवन् ।
 मद्राधिपो ययौ पार्थात्स द्राग्दुर्योधनान्तिकम् ॥ ४ ॥
[१००५]तदनन्तरम् ।
साह्याय युद्धे सरसीरुहाक्ष वरीतुका[१००६]मस्य बलारिसूनु ।
अजातशत्रोरवतसयन्गा तुङ्गध्वजा द्वारवतीमयासीत् ॥ ५ ॥


जुनयुद्धसमये भानुसुतस्य कर्णस्य हृदय मन वक्षश्च वितक्षन् छिदन सन् अन्वर्थता शल्य इति साथनामक्त्व आचर कुरुष्व । आत्मन इति शेष । चरते प्रार्थनाया लोट्। ‘वा पुसि शल्य शङ्कुर्ना इत्यायुधविशेषपयायेष्वमर । इत्युक्तप्रकारेण उवाच । प्रतिज्ञातङयाधनसाह्यस्य शल्यस्य प्रतिभङ्गभयेन । तावन्मात्र तमयाचतेत्यर्थ । महत, मात्मविपत्तावपि परे भङ्गासरक्षणीया एवेति भाव । यतु ‘मा नास्ति तुला तवार्जुनेन साम्य यस्य' इति व्युत्पत्तिसिद्धमन्वर्थत आचरेत्यन्वर्थच मातुलसज्ञाया एवाह नृसिद्द , तन्न । आयुधसाध्यतक्षणबोधकस्य वितक्षन्निति पदस्य स्वारस्यभङ्गापत्ते । परतु मातुला इतीति तन्त्रेण च्छेदमाश्रित्य हे कर्ण, तव अर्जुनेन तुला साम्रा मा नास्ति इत्युक्तप्रकारया आक्षेपवाचेति योजयितु शक्यमिति प्राहु ॥ ३ ॥

 अथेत्याद्युत्तरेणैकवाक्यम्

 भद्रायेति । अथ युधिष्ठिरप्रार्थनानन्तर सत्य सगर प्रतिज्ञा यस्य तथो- क्तोऽपीत्यपिरप्रक्तोऽपि ‘कमपराधलव मयि पश्यसि’ इत्यादाविव योज्य । मद्राधिप शल्य भगिन्या अपत्येषु भागिनेयेषु धर्मराजादिषु वत्सलतया प्रेम्णा तया सूर्यसुतस्य हृदयमाक्षेपवाचा तक्षिष्यामीति अभ्युपगम्य अङ्गीकृत्य । ‘प्रतिमृत्य’ इति पाठेऽप्युक्त एवार्थं । हे पार्थ, तव भद्राय मा निद्रा सुचतीति तथोक प्रवण विद्धि जानीहि इति ब्रुवन्' सन् पार्थात् धर्मराजा दुर्योधनस्य अन्तिक समीप प्रति द्राकू सत्वर ययौ गतवान् लात। लाटानुप्रास ॥ ४ ॥

 तदनन्तरमित्युत्तरेणान्वय ॥

 साझ्धायेति । तदनन्तर शल्यगमनानन्तर बलारे इन्द्रस्य सूतु अर्जुन सरसीरुहाक्ष श्रीकृष्ण युद्धं सात्याय परीतु कामो यस्य तस्य अजातशत्रो धर्मराजस्य गा वाच उक्तार्थिका अवतसयन् शिरसि कुर्वन् सन् तुङ्गानि उन्नतानि वजनि यस्या ता द्वारवतीं द्वारकानगर प्रति अयासीत् प्राप । शृते कर्तरि लुड्। ‘वरीतुकामो बलवैरिसूनु ’ इत्यर्जुनविशेषणतया पाठान्तरम् ॥ ५ ॥


 तत्र चिरदृष्टस्य कु[१००७]रुकुजरस्य कुजरकुमारकोमलचक्रमविलासस्य
तस्य विलोकनाय [१००८]वीथीषु जना सखीबभूवु ।
हेतु सुभद्राहरणे तदीया यतित्वशु[१००९]द्धि हृदि कुर्वतीनाम् ।
गवाक्षमार्गै कृतवीक्षणाना स्त्रीणा मुखेन्दो स्मितचन्द्रिकाभूत् ॥६॥
दौवारिकैस्तत्र स दत्तमार्गो निद्रायमाणस्य निकेतमध्ये ।
शौरेरुपायाच्चरणोपधान त[१०१०]त्स्यन्दिसिन्धुच्युतकूर्मशोभम् ॥ ७ ॥
 यस्याधिमौलिसविध प्रथम समेत्य
  तिष्ठन्कुरूद्वहसुतो युधि साह्यमर्थी ।
 रेजे परीक्षितुमिवोत्सुकता दधान-
  स्तत्कुन्तले निजमनस्यपि वक्रिमाणम् ॥ ८ ॥


 तत्रेति । तत्र द्वारकाया कुजरकुमारस्य कारिफलभस्येव कोमल सुकुभार चक्रमविलास गमनविलास यस्य तथोक्तस्य चिरात् दृष्टस्य अतएव तस्य कुरुकुजरस्य अर्जुनस्य विलोकनाय । त विलोकितुमित्यर्थ । जना वीथीषु सघीबभूवु ॥

 हेतुमिति । सुभद्राया हरणे हेतु तस्य अर्जुनस्य इमा तदीया यतित्वस्य शुद्धि नैर्मल्यम् । विपरीतलक्षणया कपटयतित्वमित्यर्थ । हृदि मनसि कुर्वतीना आलोचयन्तीना अतएव गवाक्षाणा मागै रन्ध्रमार्गै कृत वीक्षण अजुनदर्शन याभिस्तासा स्त्रीणा द्वारकाङ्गनाना मुखस्यैव इन्दो चन्द्रस्य स्मितमेव चन्द्रिका अभूत् । अयमेव स कपटसन्यासीसुभद्रामपहृतवान् इति स्मेरानना बभूवुरित्यर्थ । अत्रार्जुनकपटसन्यासचिन्तनतदवलोकनयो विशेषणगत्या हसनहेतुत्वादनेकप- दार्थहेतुककाव्यलिङ्गस्य परम्परितरूपकेण सहैकवाचकानुप्रवेशसकर ॥ ६ ॥

 दौवारिकैरिति । तत्र तदानी दौवारिकै द्वारपालै दत्तमार्ग । अन्त प्रविष्ट इत्यर्थ । सोऽर्जुन निकेतस्य शयनगृहस्य मध्ये निद्रायमाणस्य स्वपत । शौरे कृष्णस्य सबन्वि तस्मात् कृष्णचरणात् स्यन्दिन्या प्रवहन्या सिन्धो गझया च्युतस्य गलितस्य कूर्मस्येव शोभा यस्य तथोक्त तमिव स्थितमित्युत्प्रेक्षा । चरणस्य उपधान उपबर्ह वर्तुलमुपायत् तत्समीप प्राप्तवान् ॥

 यस्येति । युधि युद्धे साह्य सहयता अर्थी याचिव्यमाण । ‘अकेनोभविष्यदाधमर्णयो ’ इति कृद्योगे षष्ठीप्रतिषेध । अतएव प्रथम अर्जुनात्पूर्वमेव समेत्य आगत्य यस्य शौरे' मौले शिरस सविधे समीपे अधिमौलिसविधम् । विभक्त्यथऽव्ययीभाव । तिष्ठन् बर्तमान कुरूद्वह्रस्य धृतराष्ट्रस्य सुत दुर्योधन निजे मनसि {{rule}]

निमीलनालिङ्गितनेत्रयुग्मो निष्पन्देहो नितरा बभौ य।
स्खध्यानशैलीसुखमास्थिताना तपस्विना सघामियानुकुर्वन् ॥ ९ ॥
 देवीकुचाद्विरुरुचे घुसृणेन कलृप्त
  सक्त कपोलफलके[१०११] मकरो यदीये ।
 स्वाङ्कध्यजारिज[१०१२]यिने विजयाय सिद्धि
  विश्राणयेति निगदन्निव कर्णमूले ॥ १० ॥
पाश्चात्यपाथोनिधिपार्श्वभागे सपूर्य कुक्षि सलिलस्य पूरै ।
सजातियूथाच्युतिमाश्रितस्य क्रम द्धौ यो घनशावकस्य ॥

तत प्रबुद्धेन तेन देवेन तयो क्र[१०१३]मेण प्र[१०१४]थमाभ्यागमनदर्शनाभ्या


तस्य शौरे कुन्तले कचेऽपि द्वयो वक्रिमाण कौटिल्यम्। तत्तारतम्यमिति यावत् । परीक्षितु उत्सुकता औत्सुक्य दधान इवेत्युत्प्रेक्षा । रेजे ॥ ८ ॥

 निमीलनेति । निमीलनेन निमिषेण आलिङ्गित सगत नेत्रयोर्युग्म यस्य तथोक्त निष्पन्द निश्चल देह यस्य स य शौरेि खस्य आत्मन ध्यानशैल्या विगलितवेद्यान्तरमैक्यानुसधानेन यमुख ब्रह्मानन्द तदास्थिताना प्राप्तवता तपस्विना योगिना सध अनुकुर्वन्निवेत्युत्प्रेक्षा । नितरा बभौ रेजे ॥ ९ ॥

 देवीति । देव्या रुक्मिण्या कुचात् यस्य शौरे सबन्धिनि यदीये कपोल फलक इव तस्मिन् सप्त चुम्बनसमये लग्न घुसृणेन कुडिक्षमेन कलृप्त लिखित मकर मकराकृति रेखा स्व अङ्क यस्मिन् तादृश ध्वज यस्य तस्य मन्मथस्य अरे शभो जयिने विजयाय अर्जुनाय सिद्धिं काहिक्षतार्थसाफ्त्य विश्राणय ददस्व इति कर्णमूले निगदन् विज्ञापनिवेत्युत्प्रेक्षा। विरुरुचे रराज । ‘मीनध्वज इति पाठ प्रकृतमकरे विज्ञापनोत्प्रेक्षया असगतर्थकत्वादुपेक्ष्य । मीनकेतन इत्यत्र मत्स्यजातित्वान्मकर एव मीन इत्यमरव्याख्यानात् । क्थचित्सगमनेऽपि पर्यायभङ्गाख्यदोषापत्तिरिति ॥ १० ॥

 पाश्चात्येति । य शौरि पश्चाद्भव पाश्चात्य पश्चिम पाथोनिधि समुद्र तस्य पार्श्वभागे सलिलस्य पूरै प्रवाहै कुक्षि सपूर्य सजातीना सकुल्याना मेघाना यूथात् वुन्दात् च्युतिं भ्रश आश्रितस्य प्राप्तस्य धनशावकस्य मेघबालकस्य क्रम रीति दधौ धृतवान् । अत्रान्यक्रमस्य अन्यत्रासभवेन तत्सदृशक्रमाक्षेपादसभवद्धमसबन्धनिबन्धनो निदर्शनालकार । यस्येयादिश्लोकचतुष्टये यच्छब्दस्तस्य शौरेरिति पूर्वश्लोकेऽ वेतीति ध्येयम् ॥ ११ ॥

 तत इति । तत दुर्योधनार्जुनागमनानन्तर प्रबुद्धेन तेन देवेन कृष्णेन तयो


कृत्यसाम्य हृदिकृत्य [१०१५]रणाङ्कणे गृहीतहेतीना नवकोटिसख्यावता गोपकुमाराणा कदम्बेन केनचिदशेन केवलसनिधानेन स्वेनापि केनचिदशेन परिपूरितघनमनोरथौ सुयोधनधनजयौ स्वावासकटकभुवमासेदतु ॥

सेनागजेन्द्रमसौरभवीचिवेग-
 निर्धृतगोग्रहणसयुगपूतिगन्धम् ।
सवीक्ष्य मत्स्यवसुधेन्द्रपुरोपकण्ठ
 शौरिश्च शक्रतनयश्च ननन्दतुस्तौ ॥ १२ ॥
दृष्ट्वा निवृत्य वदतो युधि पाण्डवाना-
 मुत्साहमुग्रमथ सजयतो निशम्य ।
वातैर्विनापि मणिसौधतले निवास
 कुवेन्नकम्पत भृश कुरुवशकेतु ॥ १३ ॥


दुर्योधनस्य अर्जुनस्य च द्वयो क्रमेण प्रथम अभ्यागमनेन प्रथम दर्शनेन च द्वाभ्या हेतुभ्या कृत्ये सात्यकरणे विषये साम्य तौल्य हृदिकृत्य । मनसि निधि त्येत्यथ । रणाङ्कणे गृहीतहेतीना धृतायुवाना नवकोटिरूपा सख्या एषामस्तीति तद्वता गोपकुमाराणा नारायणगोपालारयाना कदम्बेन बृन्देन । तदात्मकेनेत्यर्थ । एवमग्रेऽपि । केनचिदशेन एकेन भागेन केवल निरायुध यथा तथा सनिधानेन समीपे वर्तमानेन स्वेनापि केनचिदशेन च परिपूरित घनमनोरथ साह्यकरणरूप ययोस्तौ सुयोधन धनजयौ दुर्योधनार्जुनौ स्खस्य स्खस्य च आवास निरासभूता कटकभुव हास्तिनपुरप्रदेश मात्स्यपुरप्रदेश च आसेदतु प्राप्तवन्तौ ॥

 सेनेति । शौरि कृष्णश्च शक्रतनय अर्जुनश्च तैौ सेनासु धर्मराजसहायार्थमागतेषु सैन्येषु गजेन्द्राणा मदस्य दानजलस्य सोरभवीचिभि परिभलपरम्पराभि वेगेन निधृत निरस्त गोग्रहणे सयुगस्य गोग्रहणनिमित्तकयुद्धस्य सबन्धी पूति गन्ध दुर्गन्व हतकरितुरगरथकपदातिकलेवरजन्य यस्मिन् तथोक्त मत्स्यबसुधेन्द्रपुरस्य विराटनगरस्य उपफष्ठ समीपदेश सम्यङ् वीक्ष्य ननन्दतु । अत्र तादृ क्पुरोपकण्ठदर्शनस्य विशेषणगत्या आनन्दहेतुत्वात्पदार्थहेतुक काव्यलिङ्गम ॥ १२ ॥

 दृष्ट्वेति । अथ कृष्णार्जुनागमनानन्तर दृष्ट्वा पाण्डवान् विलोक्य निवृत्य पुनरागत्य वदत कथयत सजयत सजयात् । पाण्डवतत्वजिज्ञासया प्रेषितादिति शेष । युधि युद्धे विषये पाण्डवाना धर्मराजादीना सबन्धिन उग्र भयकर उत्साह वीररस निशम्य श्रुत्वा कुरुवशस्य केतुरिव केतु । तद्वप्रख्यापक इत्यर्थ । धृतराष्ट्र कुरूणा सबन्धि वशकेतु वेणुकाण्डबद्धध्वज इत्यपि । मणिमये सौधतले निवास


पाण्डो सुताय वसुधा प्रविभज्य दित्सो
 प्रज्ञादृशो रहसि सान्त्वपथोपदिष्टम् ।
दुर्योधनस्तु वचन न चकार कर्णे
 कर्णे स्वमेव वचन मधुर चकार ॥ १४ ॥

 तदनु दिने दिने समुपचीयमाननानाविधनरपतिकुलचतुरङ्गबलकलकलानप्यभिभवद्भि कङ्ककाकसालावृक[१०१६]जम्बुकरटितै कटूकृतनिकटयो कुरुविराटपुटभेदनयो [१०१७]कतिपयदिनैरेव पञ्च खलु वीरा कौ[१०१८]रवसाम्राज्यलक्ष्मीमभिवीक्ष्य स्थातुमवशिष्येरन्निति किव[१०१९]दन्या क्षितिपति क्षीणधैर्यो दीनाक्षरे[१०२०]णसहोदरसमक्ष स[१०२१]रसीरुहाक्षमेवमाचचक्षे ।


कुर्वन्नपि सन् वातैर्विनापि वायुभिर्विनापि भृश अकम्पत कम्पितवान् । अत्र पुत्रविपत्तिभयकृतस्य धृतराष्ट्रकम्पस्य तत्सूचकोत्पातिकध्वजकम्पस्य च द्वयो प्रकृतत्वात्केवलप्रकृतास्पद श्लेषालकार । तद्वहिरवस्थानशीतमारुतधूननरूपकारणाभावेऽपि कम्पनरूपकार्योदयवर्णनाद्विभावनालकारश्च द्वयोरभिन्नपदबोध्यत्वादेकवाचकानुप्रवेशसकर ॥ १३ ॥

 पाण्डोरिति । पाण्डो सुताय धमराजाय वसुधा भूमिं प्रविभज्य अर्धाश विभाग कृत्वा दातुमिच्छो दित्सो प्रज्ञादृश अन्वस्य धृतराष्ट्रस्य सबन्धि रहसि सान्खपथेन साममार्गेण उपविष्ट बोधित वचन तु दुर्योधन कर्णे श्रोत्रे राधेये च न चकार नाङ्गीकृतवान् । न श्रावितवाक्ष्चेत्यर्थ । कितु स्व स्वीय मधुर वचनमेव कर्णे चकार । धृतराष्ट्रोक्त दूरीकृत्य कर्णेन दुर्मन्त्रिणा सह दुरालोचन कृतवानित्यर्थ । ‘परेतकल्पा हि गतायुषो नरा हित न गृहन्ति सुहृद्भिरीरितम् इत्य- भियुक्ता इति भाव ॥ १४ ॥

 तन्विति ।तदक्षु दिने दिने समुपचीयमानानाम्। आगत्य सखीभवतामित्यर्थ । नानाविधाना क्षत्रियम्लेच्छकिरातादिजातीना नरपतीना राज्ञा कुलस्य बृन्दस्य यानि चतुरङ्गाणि बलानि करितुरगरथिक्पदातिरूपाणि तेषा कलकलान् कोलाहल- रवानपि अभिभवद्धि आच्छादयद्भि कङ्काना गृध्राणा काकाना सालावृकाणा शुना जम्बुकाना क्षृगालाना रटितै दुर्घोर्षे । ‘सालावृका कपित्र्कोष्टुक्ष्वान' इत्यमर । कुरुपुटभेदने हास्तिनपुरे विराटपुटभेदने मत्स्यपुरे च द्वयो कटुकृता कर्णकठोरीभूता निकटा समीपदेशा ययोस्तथोक्तयो सतो । कतिपयै खल्पसख्यै-


एतावतो बन्धुजनान्निहत्य किं लब्धया कृष्ण भु[१०२२]वानया मे ।
सकन्दमूलानि सनिर्झराणि न किं ममाद्यापि वनानि तानि ॥१५॥
सतापकाले सति [१०२३]सर्वमम्भ पतत्यधस्तादिति हि प्रसिद्धि ।
जिह्वा विहायाध जल मुहुर्मे दृष्टि समारोहति चित्रमेतत् ॥ १६ ॥
गलत्समीरैर्गजकर्णतालैर्नटत्पटेभ्यो नगरध्वजेभ्य ।
तनूरिदानीं मम तान्तकान्तिराकम्पनाम्नायमसावधीते ॥ १७ ॥


रेव दिनै । न तु पक्षमासादिभिरिसर्थ । पञ्चवीरा धर्मराजादय । कुरूणामिमा कौरवी साम्राज्यलक्ष्मी अभिवीक्ष्य स्थातुमवशिष्येरन् खलु । ततोऽन्ये सर्वेऽपि वीरा नक्ष्यन्तीत्यर्थ । इत्युक्तप्रकाराया किवदन्त्या लोकप्रवादे । किवदन्ती जनश्रुति' इत्यमर । प्रवहन्त्या सर्वत्र वर्धमानाया सत्या क्षीण धैर्य यस्य तथोक्त क्षितिपति धर्मराज सहोदराणा भीमादीना समक्ष तेषु शृण्वत्सु सत्तिति यावत् । दीनेन दु खगद्गदेन अक्षरेण वाक्येन उपलक्षित । सरसीरहाक्ष श्रीकृष्ण प्रति एव वक्ष्यमाणप्रकारेण आचचक्षे उक्तवान् । चक्षे कर्तरि लिट् ॥

 एतावत इति । हे कृष्ण, एतावत इयत्सख्यान् बन्धुजनान् निहत्य रणे घातयित्वा रब्धया अनया भुवा । राज्येनेत्यर्थ । कि प्रयोजनम् । न किमपी त्यर्थ । सकन्दमूलानि सनिर्झराणि जलप्रवाहसहितानि । भोक्तु पातुमिति क्रमेण शेष । तानि पूर्वमुषितानि वनानि अरण्यानि अद्यापि भम न सन्ति किम् । सन्त्येवेत्यर्थ । महता खदु खमेव परदु खाच्छ्रेय' इति भाव ॥ १५ ॥

 सतापेति। सर्व नानाविधमपि अम्भ जल सम्यक्तपतीति सतापस्तस्य काले ग्रीष्मादौ सति वर्तमाने सति अधस्तात् पतति इति हि इत्येव प्रसिद्धि । न तूर्ध्वमित्यर्थ । अद्य प्रकृते तु तस्मिन् सत्यपि जल जिह्वा विहाय त्यक्खा मे मम दृष्टिं ऊर्ध्व स्थिता मुहु । नतु सकृदित्यर्थ । समारोहतीति यत् तदेतत् चित्रम् । बन्धुनाशमनुचिन्तयत सतापेन शुष्यति जिह्वा बाष्पायते च दृष्टिरि त्यर्थ । अत्र जलाधोगमनकारणसतापकालविरुद्धतर्वगमनकार्योत्पत्तिवर्णनात् विरुद्धकार्योत्पत्तिरूपो विषमप्रभेद ॥ १६ ॥

 गलदिति । हे कृष्ण, इदानी तान्तकान्ति सतापात् म्लानप्रभा मम असौ तनू शरीरम् । 'स्त्रिया मूर्तिस्तनुस्तनू' इति शरीरपर्यायेष्वमर । गलन्त प्रस रन्त समीरा वायव येभ्यस्तै गजाना कर्णा ताला व्यजनानीव ते नटन्त कम्पमाना पटा पताका येषा तेभ्य नगरध्वजेभ्य आसमन्तात् कम्पन वेप थुमेव आम्नाय वेद अधीयते अभ्यसति । तद्वदत्यन्त कम्पत इत्यर्थः । बन्धुवि पत्तिचि तनादिति भाव ॥ १७ ॥


आनन्दयित्रीमखिलस्य जन्तोरन्त क्षमा स्वामपहाय मोहात् ।
बन्धुप्रणाशाद्वहुदु खदोग्ध्र्यै बहि क्षमायै स्पृहयामि धियम् ॥ १८ ॥
गतिर्न मेऽन्या गरुडध्वज त्वया विनाधुनास्या विपदो विधूतये
वनानलार्चिर्वलयावृतिस्थितेर्बलाहकात्कि शरण मृगीशिशो ॥ १९ ॥
बहुमि किमिहापरै प्रलापैर्बहिरन्तश्च वदामि तुल्य[१०२४]भावम् ।
कुकुराधिपबन्धुभिर्मम स्वै कुरु सधि कुरुवशभूतये त्वम् ॥ २० ॥
इति ब्रुवन्त यदुनायकोऽब्रवीद्युधिष्ठिर योगिविचिन्त्यवैभव ।
महीपते यद्भवता समीरित महात्मना युक्तमिद्' भवादृशम् ॥ २१ ॥


 आनन्दयित्रीमिति । हे कृष्ण, अखिलस्य जन्तो प्राणिमात्रस्य आनन्द यित्री आनन्द कुर्वन्तीं स्खा खीया अन्त मनसि क्षमा क्षान्तिगुण मोहाव राज्यलोभकृतात् अज्ञानात् विहाय बन्धुप्रणाशाद्धेतो बहुदु खस्य दोग्ढ्यै जन यिश्यै बहि बाह्यायै क्षमाये भूम्यै स्पृहयामि इच्छामि यत ततो मा धिक् । निन्द्योऽहमित्यर्थ । अत्र बन्धुनाशाङ्गीकारपूवक राज्यकाद्वाक्यार्थेनात्मनिन्द नसमर्थनाद्वाक्यार्थहेतुक काव्यलिङ्गम् ॥ १८

 गतिरिति । हे गरुडध्वज, अस्या प्रकृताया मे मदीयाया विपद बन्धु क्षयरूपाया विधूतये निवारणाय त्वया विना त्वत्तोऽन्या गति अधुना नास्ति । वनानलस्य दावाग्ने अर्चिर्वलयेन ज्वालामण्डलेन आवृता वेष्टिता स्थिति यस्य तस्य मृग्या शिशु तस्य बळाहकात् मेघात् विना । मेघ विहायेति ल्यब्लोपे पञ्चमी वा । शरण रक्षक किम् । तदन्यन्नास्त्येवेत्यर्थ । अत्रोपमानोपमेयवा क्यार्थयो द्वयोरविद्यमानत्वरूपैकसामान्यकलाप्रतिवस्तूपमालकार वाक्ययो रेकसामान्ये प्रतिवस्तूपमा मता इति लक्षणात् । वशस्थम् ॥ १९ ॥

 बहुभिरिति । कुकुरा यादवविशेषा तेषामधिपेति सबुद्धि ।हे कृष्ण, बहुभि अपरै अन् प्रकार्यं निरर्थकवचनै इह इदानीं कि प्रयोजनम् । न किमपीत्यर्थं । बहि बाह्ये अन्त मनसि च शक्तौ व्यञ्जनाया चेति वा । तुल्य अभित्र भाव अभिप्राय यस्मिस्तद्यथा भवति तथा वदामि कृत्य कथयामि कुरुवशस्य भूतये श्रेयसे मम स्वै स्खरै बन्धुभि सह सधि त्व कुरु । औपच्छन्दसिकम् ॥ २० ॥

 इतीति । इत्युकप्रकारेण ब्रुवन्त वदन्त युधिष्ठिर प्रति योगिभि स्वात्मनि चित्तलयविद्भि विचिन्त्य ध्येय वैभव माहात्म्य यस्य तथोक्त यदुनायक कृष्ण हे महीपते युधिष्ठिर, भवता यत्समीरित कथित इद वचन भवादृशा त्वत्तुल्पाना महात्मना युक्त उचितमेव इत्यब्रवीत् । अत्र माहात्म्यस्य वशश्रेय प्रवणताभि प्रायगर्भत्वात्परिकरालकार्। एव माहात्म्यसम्यग्वचनयो अनुरूपघटनवर्णनात् समालकारश्च । द्वयो ससृष्टि । वशस्थम् ॥ २१ ॥


सरिदात्मजशासितोऽपि सन्स दुरध्व न जहाति कौरव ।
इति चिन्तयतो ममाधुना हृदि सिद्धि खलु सशयेशया ॥ २२ ॥
 प्रयते तथापि नृप सघि[१०२५]लब्धये।
  प्रयतेन्द्रियैर्मुवि पणायितस्य ते ।
 फलति कचिन्न फलति कचित्क्रिया
  प्रविधातुरेष नहि दोषशीकर ॥ २३ ॥
 इत्थ निगद्य मधुरस्मितमीक्षमाणो
  भीमस्य वक्रमपि दारुकनीतमग्रे।
 आरुह्य रत्नरथमाश्रितरक्षीला-
  कूलकषो हरिश्गात्कुरुराजधानीम् ॥ २४ ॥


 सरिदिति । किंतु हे युधिष्ठिर, स कौरव दुर्योधन सारिदात्मजेन भीष्मेण शासित सन्मार्गे प्रवर्तितोऽपि सन् दुरध्व असन्मार्ग न जहाति न त्यजति । इत्युक्तप्रकारेण अधुना चिन्तयत सधिकार्थमालोचयत मम हृदि मनसि सिद्धि सधिसाफल्य सशये भवेद्वा न भवेद्बेति सदेहे शेते वर्तत इति शया भवतीति योज्यम् । अत्र कुरुपितामहभीष्मशासनलङ्घनचाक्यार्थस्य सधिसिद्धिसशयास्पद त्वहेतुत्वाद्वाक्यार्थहेतुक काव्यलिङ्गम् । वैतालीयम् ॥ २२ ॥

 प्रयत इति । तथापि । यद्यपि सिद्धि सशयास्पदा तथापीत्यर्थं । हे युधिष्ठिर, प्रयत्तानि लोभमोहादिभ्यो गृहीतानि इद्रियाणि चक्षुरादीनि येषा तै महात्मभि पणायितस्य सस्तुतस्य । ‘ईडितशस्तपनायितपणायितप्रणुतपनितप णितानि’ इति स्तुतिपर्यायेष्वमर । ते तव सधे लब्धये लाभाय । दुर्योधनादिभि सहेति शेष 1 प्रयते उद्युञ्जे । क्रिया कार्योद्योग क्वचित् कुत्रचित्कार्यं विषये फलति सिद्धिं करोति । कचित्तु न फलति । एष कचित्फलाभाव । प्रविधातु कार्यकर्तु दोषस्य शीकरो लेशोऽपि नहि न भवत्येव । ‘यन्ते कृते यदि न सि ध्यति कोऽत्र दोष’ इति न्यायादिति भाव । अत्र उत्तरवाक्यार्थत्रयेण सशया स्पदसिद्धिमत्सधिप्रयत्नसमर्थनादनेकवाक्यार्थहेतुक काव्यलिङ्गम् ॥ २३ ॥

 इत्थमिति । आश्रितान् रक्षतीति रक्षिण्या लीलाया विलासस्य कूलकष पारदृश्वा । तत्परिपूर्ण इति यावत् । हरि श्रीकृष्ण इत्थ उक्तप्रकारेण निगद्य धर्मराज प्रत्युक्त्वा भीमस्य वक्त्र मुखमपि मधुर सुकुमार स्मित यस्मिंस्ख़त्तथा ईक्षमाण सन् । अत्र दरहासो भीमस्यानभिमत सधिरिति सूचयति । अथ अग्रे दारुकेण सारथिनानीत प्रापित रत्नमथ रन्रमथ रथ आरुह्य कुरुराजधानींं हास्तिनपुरं अगात् प्राप्तवान् ॥ १४ ॥


[१०२६]वलोकयन्नथ पुरप्रतोलिकामनिमेषमौरनतानिरन्तराम् ।
मृद्वरानतेषु स दुरासद परैर्यदुराज एषविदुरालययौ ॥
 तमसा कुलानि सकलानि दर्शन
  सति सद्य एव शमयन्महामहा ।
 स विवेश तत्र विदुरस्य मन्दिर
  चरमाद्रिकन्दस्म[१०२७]भीभामिव् ॥ २६ ॥
कुसवैरिणि समेयुषि गेह क्षत्तुरा [१०२८]तिशयिकं मदनृत्तम्
[१०२९]साक्षिपा गमयति स्म पुरारे साध्यताण्डवविधेरवलेपम् ॥ २७ ॥
 विरतेरुचित विशुद्धमह्नो
  विविमाधाय पितृष्वसु सकाशे ।


 अवलोकयन्निति । अय हास्तिनपुरस्रायनन्तर आनतेषु प्रणतेषु विषये मृदु कृपार्द्र परै आनतेभ्योऽन्यै शत्रुभिर्वा दुरासद प्राप्तुमशक्य स एष यदुराज श्रीकृष्ण अनिमेषया कृष्णावलोकनार्थ निर्निमेषनेत्रया पौरजनतया पुरवासिजनसमूहेन निरन्तरा सबाधा पुर हास्तिनपुरस्य प्रतोलिका रथ्या अव लोकयन् सन् विदुरस्याल्य गृह य्ह प्रति ययौ गच्छति स्म । लाटानुप्रास । मञ्जुभाषिणी ॥ २५ ॥

 तमसामिति । महत् लोकोत्तर सह तेज यस्य तथोक्त । अतएव स कृष्ण दर्शने सति सद्य एव सक्लानि तमसा पापाना अन्धकाराणा च कुलानि बृन्दानि । ‘तमोऽन्धकारे स्वर्भानावघे शोके गुणान्तरे’ इति विश्व । शमयन् नाशयन् सन् । तत्र हास्तिनपुरे विदुरस्य मन्दिर गृह अभीशुमान् सूर्य चरमाद्रे अस्ततैलस्य कन्दर दीमिव विवेश प्रविष्टवान् । अत्र कृष्णसूर्ययो प्रवेशेनौप म्यस्य गम्यत्वात्केवलप्रकृतास्पदस्तुल्ययोगिताभेद । ‘अशुमानपि’ इति पाठेऽ प्युत एवालकार । परतु वाक्यभेदमात्रम् ॥ २६ ॥

 कसेति । कसस्य वैरिणि कृष्णे गेह गृह प्रति समेयुषि प्राप्तवति सति अतिशयात् सर्वोत्कर्षाज्जात आतिशयिक क्षत्तु विदुरस्य मदस्य सतोषस्य नृत्त नाटयम् । ऋद्धिरिति यावत् । ‘मदो रेतसि दर्पे च हर्षद्विरददानयो’ इति विश्व । पुरारे शभो सबन्धिन सध्याया भवस्य साध्यस्य ताण्डवविधे नाव्यक्रियाया अवलेप गर्व सक्षिपा सक्षेप गमयति स्म प्रापयामास । आनन्दसान्द्रोऽभूदित्यर्थ । `गतिबुद्धि-' इत्यादिना अणिर्तु कर्मत्वम् । उपमालकार । ‘तस्य मुष्णाति सौभाग्यम् ’ इत्यादौ दण्डिना तदभिधानादिति । खागता ॥ २७ ॥

 विरतेरिति । अहो विरते सायकाळस्य उचित करणीय विशुद्ध पावन


वसतोऽस्य निशैव सा [१०३०]समाप्ता
 वसुदेवात्मभुव कथा न तास्ता ॥ २८ ॥

 [१०३१]अथ वि[१०३२]रताया निशीथिन्यामिव पृथाकथाया दीनद्युतिषु तारकाकलापेष्विव प्रदीपेषु विजृ[१०३३]म्भितेषु शकुन्तिभिरिव वन्दिभि कलकलेषु विकसितेषु नलिनेष्विव नयनेषु [१०३४]चञ्चरीकेष्विव पौरजनेषु उत्पलादिव राजमन्दिरान्महोत्पल प्रतीव विदुरमन्दिरमागतेषु विरोचन इव कमललोचन प्राचीनगिर्यङ्कादिव पर्यङ्कादुत्तस्थौ

समाप्य सध्यौपयिक स कृत्य समापयिष्यन्नथ शार्ङ्गधन्वा ।
अलकृताङ्गो विदुरस्य हस्तमालम्ब्य मन्द निरगान्निकेतात् ॥ २९ ॥
 


विधं कर्म सध्यावन्दनादिक आधाय कृत्वा पितृष्वसु कुन्या सकाशे सनिधौ वसत वर्तमानस्य अस्य वसुदेवात्मभुव कृष्णस्य सा निशा प्रवेशरात्रिरेव समाप्ता विरताभूत् । तास्त कथास्तु त्रिदशकवाषिय न समाप्ता अभूवन् । तयोरिति शेष । कृष्णकुन्त्योरित्यर्थ । चिरादृष्टयोरिष्टजनयो स प्रेमसलाप स्वर्गादप्यतिशेत इति भाव । औपच्छन्दसिकम् ॥ २८ ॥

 अथेति । अय निशीथिन्या रात्राविव पृथाकथाया कुन्तीसलापे विरताया समाप्ताया सत्याम् । द्वयोरपि समाप्तयो सत्योरित्यथ । एवमग्रेऽपि । ‘पृथासुत क्थायाम्’ इति पाठे पाण्डवसबन्धिकथायामित्यर्थ ।कृष्णकथ्यमानायामिति शेष । तारकाणा नक्षत्राणा क्लापेषु समूहेष्विव प्रदीपेषु दीपेषु दीना म्लाना धुति शोभा येषा तथोक्तेषु सत्सु । शकुन्तिभि पक्षिभिरिव बन्दिभि स्तुतिपाठकै कलकलेषु कोलाहलरवेषु विजृम्भितेषु प्रकटितेषु सत्सु । नलिनेषु पझेष्विव नयनेषु लोकलोचनेषु विकसितेषु सत्सु । चञ्चरीकेषु भृङ्गेष्विव पौरेषु जनेषु । उत्पलात् कुवल यादिव राजमन्दिरात् राज्ञ धृतराष्ट्रस्य मन्दिरात् महोत्पल कमल प्रतीव विदुरस्य मन्दिर प्रति आगतेषु सत्सु विरोचन सूर्य इव कमललोचन श्रीकृष्ण प्राचीनगिरे उदयशैलस्य अङ्कात् तटादिव पर्यङ्कात् शयनात् उत्तस्थौ उत्थितवान् । अत्र पृयाकथानिशीथिनीद्विकादीना प्रकृतानामेव विरत्यादिना घर्मेणौपम्यस्य गम्यत्वाकेवलप्रकृतगोचराणा तुल्ययोगिताना ससृष्टि ॥

 समाप्येति । अथ उत्थानानन्तर अलकृतानि निद्रावसरपर्यस्तवस्त्रभूषणादीना यथापूर्वमवस्थापनेन विभूषितानि अङ्गानि यस्य तथोक्त स शाङर्गधन्वा


 [१०३५]दनु निखिलमहरारम्भकृत्यमवसाय्य बालातपेन बलाहक

इव घुसृणमसृणितेन पटीरपङ्केन चर्चितकलेवर पङ्केरुहशङ्किनीमिरञ्चललिखितराजहसराजिभिरवकृष्यमाणेनेव पीताम्बरभागेन परिचुम्बितप्रपदपल्लवो निजोदरान्तरानवकाशतया [१०३६]बहिर्निर्गतेर्जगदण्डशिशुभिरिव मुक्ताफलै प्रत्युप्तमेखलामुखभागो वर्षाहेमन्तसमययोरप्यविनश्वर लक्ष्मीलीलाकमलमुप[१०३७]श्लोक्रितुमागतेन दिनमणिबिम्बेनेव कौस्तुभेन देदीप्यमानभुजान्तरो दनुजपरिषदु[१०३८]त्पातरक्तपरिवेषेणेव पद्मरागकेयूरेण परिमण्डितभुज[१०३९]दण्डो


श्रीकृष्ण सध्याया प्रात कालिकाया औपयिक युक्त कृत्य वन्दनादिक समाप्य कृत्वा सधे कुरूणा पाण्डवै सह सवानस्य औपयिक कृत्य धृतराष्ट्रादिभि सह आलोचनमपि समापयिष्यन् करिष्यमाण सन् विदुरस्य हस्त आलम्ब्य गृहीत्वा निकेतात् शयनगृहात् मन्द सविलास यथा तथा निरगात् बहिरागतवान् ।“तमसा कुलानि-इत्यादिश्लोकपञ्चक गद्यमेकं च बहुषु मूलपुस्तकेषु सदर्भविरुद्धक्रम दृष्ट यथासदभानुरोध व्यारयातामिति ध्येयम् ॥ २९ ॥

 तदन्विति । तदनु शयननिर्गमनानन्तर निखिल अह वासरस्य आरम्ने आदौ । प्रात काल इति यावत् । यत् कृत्य स्नानसध्यावन्दनादिक तत् अवसारय समाप्य बालातपेन बलाहक मेघ इव घुसृणेन कुङ्कुमेन मसृणितेन मिश्रितेन पटीरपङ्केन चन्दनेन चर्चित लिप्त कलेवर देह यस्य तथोक्त पङ्केरुह अरुणकमलमिव शङ्कन्त इति शङ्किनीभि अञ्चले अन्तभागे लिखिताभि चित्रिताभि राज हसाना राजिभि पङ्किभि अवकृष्यमाणेन अधोनीयमानेनेव स्थितेन पीताम्बरस्य भागेन प्रान्तदेशेन परिचुम्बित स्पृष्ट प्रपद पादाग्र पल्लवमिव यस्य तथोक्त । निजस्य उदरस्य कुक्षे अन्त मध्ये न विद्यते अवकाश येषा तेषा भाव तत्ता तया हेतुना।असख्येयत्वादिति भाव । बहि निर्गतै जगदण्डाना ब्रह्माण्डाना शिशुभिरिव स्थितै मुक्ताफ़्लै प्रत्युप्त सधटित मेखलाया काञ्चया मुखभाग अग्रदेश यस्य तथोक्त । वर्षासमये च द्वयोरपि अविनश्वर अक्षीणशोभमित्यर्थ । प्रभावादिति भाव । लक्ष्म्या वक्ष स्थिताया लीलाकमल उपश्लोकितु स्तोतु आगतेन दिनमणे सूर्यस्य बिम्बेनेव स्थितेन कौस्तुभेन रत्नेन देदीप्यमान भुजान्तर वक्ष यस्य तथोक्त । तदनुजपरिषद राक्षसकुलस्य उत्पातेन दुनिमित्तेन रक्तपरिवेषेणेव स्थितेन पद्मरागमयेन केयूरेण अङ्गदेन । ’उत्पातालातचक्ररक्तपारिवेषाभ्यामिव केयूराभ्याम्’ इति पाठान्तरम् । परिमण्डितौ अलकृतौ भुजौ दण्डाविव यस्य


निर्गत्य सुयोधनदुर्वासिताया नगरभुव [१०४०]स्पर्शन परिहर्तुमिव [१०४१]द्वारि

सविनयमु[१०४२]पागतेन दारुकेण सयोजितमणिपादुक किंचि[१०४३]दवनमितपूर्वकायेण विदुरेण वितीर्यमाणहस्तावलम्बो गुरुकृपप्र‘[१०४४]मुखैर्ब्रह्रसघै प्रतिपाद्यमाना जयाशिष शिरसा प्रतिगृह्वान [१०४५]कुशलप्रश्नकोरकितमोद्वाभ्या कुरुराजदेवव्रताभ्या सदनाभिगमनाय [१०४६]सप्रार्थ्यमानश्चिरतरावसर प्रतिपालयतामक्षौहिणीपतीनामञ्जलि[१०४७]कमवनावलिमवलोकनेन सभावयमानो मुकुन्दो बन्दिवृन्परिपठयमानकसादिवि[१०४८]जयबिरुदावलि[१०४९]प्रबन्धबन्धुरेण मङ्गलकुसुमगन्धसपन्धीकृतपुष्पधयझकारसहचरवादित्रघोषेण मेघवर्जमुन्मिषन्तीभि सौदामिनीभिरिव कनकवेत्रलताभि [१०५०]कुलीकृतेन महता राजपथेन सुयोधनादिभिश्चतुर्भिरध्यासेतपूर्व सभामण्डप शनै शनैरवजगाहे ॥


तथोक्त । निर्गत्य द्वारपर्यन्तमागत्य सुयोधनेन खलेन दुर्बासिताया निवासान र्हीकृताया नगरभुव हास्तिनपुरभूमे स्पशन परिहर्तुमिव द्वारि द्वार एव । नतु प्राङ्गण इयर्थ । सविनय यथा तया उपागतेन दारुकेण सयोजिते सघटिते मणिमये प्रादुके यस्य तथोक्त । किचित् अवनमित विनयात् प्रह्वीकृत पूर्वकाय येन तेन विदुरेण वितीर्यमाण दीयमान हस्तावलम्ब यस्य तथोक्त । गुरु द्रोण कृपश्व द्वौ प्रमुखौ प्रधानौ येषा ते ब्रह्मसघै ब्राह्मणकुले प्रतिपाद्यमाना कियमाणा जयाशिंष शिरसा प्रतिगृह्णान शिरोवनतिपूर्वक स्वीकुर्वाण कुशलप्रश्नै कोरकित सजातकोरक । प्रवर्धित इति यावत् । मोद सतोष ययोस्ताभ्या कुरुराजदेवव्रताभ्या धृतराष्ट्रभीष्माभ्याम् । यत्तु ‘कुरुराजो दुर्योधन ’इति, तन्न। ‘सुयोधनादिभिश्चतुर्भिरध्यासितपूर्वम्’इत्युत्तरग्रन्थेन सदर्भविरोधात्। सदनाभिगमनाय निजगृह प्रति आगन्तुमिति । ‘तुमर्थाच्च भाववचनात्’ इति चतुर्थी। सम्यक् प्राथ्थैमान चिरतरं अत्यन्तविलम्बेन अवसर नमस्कारसमय प्रतिपालयता निरीक्षमाणाना अक्षौहिणी पतीना अक्षौहिणीसख्यसेनानायकाना अजीनामेव कमलवनाना आवलि पक्तङि अवलोकनेन दर्शनेन सौरतेज प्रसरणात्मकेन सभावयमान बहुमन्यमान मुकुन्द श्रीकृष्ण बन्दिना स्तुतिपाठकाना वृन्देन परित पठयमानै कसादीना खलाना विजयस्य सबन्धिभि बिरुदावलीभि नाम प्रबन्धे बन्धुरेण व्याप्तेन । शब्दायमानेनेति यावत् । मङ्गलकुसुमाना आचारार्थ विकीर्णपुष्पाणा गन्धसपदा परिमलसमृध्द्य अन्धीकृताना पुष्पयाना मत्ताना भृङ्गाणा झकारै सहचर मिश्र


 द्वा[१०५१]र समेयुषि हरावथ तत्र गोष्टथा
  सर्वै सम नरपति सहसोदतिप्ठत् ।
 पूर्वाचलाश्रयिणि पूषणि पद्मपङ्क्ते
  सौरभ्यपूर इव षट्चरणैरनेकै ॥ ३० ॥
तत्रातितुङ्गे तरसोपनीते रत्नासने य रचितोपवेश ।
पुरोहितैरग्रभुवि [१०५२]प्रदिष्टा पूजामुपादत्त पुमान्पुराण ॥ ३१ ॥
सभान्तरे तत्र समग्रकान्तिं सवीक्ष्य सवीक्ष्य सरोरुहाक्षम् ।
नरेन्द्रवर्ज नगरीजनेषु न कस्य बाभून्नयनप्रमोद ॥ ३२ ॥


वादित्राणा वीणावेणुमृदङ्गतालादीना घोष कोलाहल यस्मिंस्तथोक्तेन मेघवर्ज यथा तथा समुन्मिषन्तीभि स्फुरन्तीभि सौदामनीभि विद्युद्भिरिव स्थिताभि कनकमयीभि वेत्रलताभि कञ्चुकिधृताभि आकुलीकृतेन नि सार्यमाणप्रेक्षकपौ रसकुलितेन महता विस्तीर्णेन राजपथेन उपलक्षित चतुभि सुयोधन आदि येषा तै दुर्योधनदु शासनशकुनिकर्णै पूर्व अध्यासित उपविष्ट अध्यासितपूर्व सभामण्डप आस्थानीं शनै शनै अबजगाहे प्रविवेश । उत्प्रेक्षाससृष्टि । एत द्रद्यस्यादौ ‘अन्येधु ’ इति पाठोऽसगतार्थत्वादुपेक्ष्य ॥

 द्वारमिति । अथ हरौ श्रीकृष्णे' द्वार प्रति समेयुषि प्राप्तवति सति तत्र आस्थानमण्डपे नरपति दुर्योधन सहसा सत्वर गोष्टया समाजात् सर्वै सभ्यै सम पूषणि सूर्ये पूर्वाचल उदयशैल आश्रयिणि प्राप्तवति सति पझाना पङ्क्ते अनेकै षट्चरणै भृडै सम सौरभ्यपूर परिमलप्रवाह इव उदतिष्ठत् प्रत्युस्थितवान् । पूर्णोपमालकार । ‘द्वार समेयुषि हरावथ तत्र गोष्ठया सर्वै सम नरपति सह सोदतिष्ठत् । पूर्वाचाश्रयिणि पूषणि पद्मपङ्क्ते सौरभ्यपूर इव षट्चरणैरनेकै ॥ इतीद पद्य बहुषु मूलपुस्तकेषु न दृष्टमित्यत्र लिखितम् ॥ ३० ॥

 सभेति । तत्र तदानी आस्थाने तरसा द्रुत उपनीते समीप प्रापिते अतितुङ्गे अत्यु न्नते रत्रमये आसने रचित कृत उपवेश येन स । अय पुराण पुमान् पुरा णपुरुष श्रीकृष्ण अप्रभुवि पुरोहितै प्रदिष्टा निवेदिता पूजा अर्ध्यपाद्यादिक उप(दत्त खीकृतवान् ॥ ३१ ॥

 समेति । तत्र तदानी सभाया अन्तरे मध्ये समग्रा सपूर्णा कान्ति सौन्दर्य यस्य तथोक्त सरोरुहाक्ष श्रीकृष्ण स्वीक्ष्य सवीक्ष्य । आदराद्विरुक्ति । नरेन्द्रेण दुर्योधनेन वर्ज यथा तथा । तदितरेषु नगरीजनेषु। पौराणा मध्य इत्यर्थ । कस्य वा जनस्य नयनप्रमोद नेत्रानन्द नाभूत् । तमेक विना सर्वस्याप्यभूदेवेत्यर्थ । पाण्डवपक्षपातिनो हरेर्द्वेष्यतया तन्निरीक्षण न तस्यानन्दकरमिति भाष । यहु ‘नरेन्द्रवर्जे धृतराष्ट्रवर्जम्' इति व्याख्याय अन्धत्वान्न तस्यानन्दोऽभूदिति भा


भद्रा[१०५३] सनादुपनत पदपल्लवाग्र
 सवाहयत्युपगते विदुरे दयार्द्र ।
सामाजिके बुधजने सति दत्तकर्णे
 प्रज्ञाट्टश [१०५४]नृपमभाषत पद्मनाभ ॥ ३३ ॥
अल्पैरहोभिरधियुद्धमवेक्ष्य नह्यय-
 ञ्चन्द्र कुल तव सुतै सह पाण्डवानाम् ।
सधि विधातुमधुना समये विधेय
 प्राप्तोऽहमस्मि भरतर्षभ ते सकाशम् ॥ ३४ ॥
शतेन सधस्व तनूभवाना कुन्तीकुमारान्कुशलोदयाय ।
 कल्लोलजालेन कलिन्दजाया गङ्गातरङ्गानिव गेयकीर्ते ॥ ३५


इति, तन्न । दर्शनानन्दयो समानकर्तृक्त्वबोधक सवीक्ष्येति ल्यबन्तेन तौभयत्र वृतराष्ट्रस्य प्रसक्तयभावस्फोरणादिति ॥ ३२ ॥

 भद्रेति । दयया आर्द्र मधुरस्वभाव में पद्म नाभौ यस्य स श्रीकृष्ण । भद्रासनात् रत्नसिंहासनात् उपनत अव प्रसारित पदे पल्लवे इव तयोरप्र भाग उपगते समीपस्थिते विदुरे सवाहयति मृदु मर्दयति सति । सामाजिके सभ्ये बुधजने दत्तौ किमेष कथयिष्यतीति सावधानौ कणौं यस्य तथोक्ते सति च प्रज्ञादृश अन्ध नृप धृतराष्ट्र प्रति अभाषत उक्तवान् । वक्ष्यमाणप्रकारे- णेति भाव ॥ ३३ ॥

 अल्पैरिति । हे भरतर्षभ धृतराष्ट्र, अल्पै पञ्चषै अहोभि वासरै अधियुद्ध युद्धे चन्द्रस्येद चान्द्र कुल नहक्षयत् नाश गमिष्यत् । अन्योन्यकलहादिति भाव । अवेक्ष्य ज्ञात्वा अधुना अस्मिन् समये विधातु कर्तु योग्य विधेयम् । अन्यथा(दा) तु कृतेनापि (१) तेन प्रयोजनाभावादिति भाव । तव सुतै दुर्यो- धनादिभि सह पाण्डवाना सधिं अन्योन्यानुकूल्य विधातु ते तव सकाश समीप प्रति अह प्राप्तोऽस्मि ॥ ३४ ॥

 शतेनेति । हे गेयकीर्ते स्तव्यकीर्ते धृतराष्ट्र, तव तनूभवाना पुत्राणा शतेन सह कुन्तीकुमारान् धर्मराजादीन् कलिन्दजाया यमुनाया कल्लोलाना महातरङ्गाणा जालेन समूहेन सह गङ्गायास्तरङ्गानिव कुशलस्य अन्योन्यक्षेमस्य उदयाय आविर्भावाय सधख सधिं कुरु । अत्रोपमया कुरुपाण्डवाना दौर्बल्यवमल्ययो प्रतीतेरलकारेण वस्तुध्वनि ॥ ३५ ॥


पादारविन्दे प्रणती शिरोमि शत शत सादरमर्पयन्त ।
पाण्डो कुमाराश्च भवन्तमेव विज्ञापयन्ति स्म विनीतपूर्वम् ॥३६॥
 जाता वने वयममी भवदङ्कभूमौ
  वृद्धिं गता शिरसि शासनमादधाना ।
 निस्तीर्णसगरपयोनिधय [१०५५]स्त्वयाद्य
  स्थाप्या यथाशमवनेरवने वने वा ॥ ३७ ॥
 बाल्ये वनान्तजनुषा मम पाण्डवाना-
  मेकापि रक्षणविधौ न बभूव धात्री ।
 इत्येव शोत्र्कमनिश हृदये दधान-
  स्तस्यास्तु नार्धमपि सप्रति दित्ससि त्वम् ॥ ३८ ॥


 पादेति । कि च पाण्डो कुमारा वमराजादय भवन्त त्वा प्रति पादा रविन्दे शिरोभि शत प्रत्येक शतसख्या प्रणती नमस्कारान् सादर यथा तथा अर्पयन्त कुर्वन्त सन्त विनीति विनय पूर्वे यस्मिस्तत्तथा। एव वक्ष्यमाणप्रकारेण विज्ञापयन्ति स्म विज्ञापितवन्त । मन्मुखेनेति भाव । यत्त शत शत दशसहरत्रमिति, तत्र । तथा सति ‘सख्यार्थे द्विबहुत्वे स्त ’ इत्यनुशासनात् प्रणतीरिति बहुवचनान्तविशेष्यवाचकानुरोधेन शतशतानि इत्येव प्रयोग स्यात् । ‘विंशत्याद्या सदैकत्घे’ इत्यनुशासनाच्च न यथोक्तव्याख्यानविरोध इत्यपीति ध्येयम् ॥ ३६ ॥

 विज्ञापनप्रकारमेवाह द्वाभ्याम्-जाता इति । वने जाता उत्पन्ना भवत तव अङ्कभूमौ उत्सङ्गदेशे वृद्धिं गता शासन आज्ञा भवदीया शिरसि आदधाना बिभ्राणा निस्तीर्ण अतिक्रान्त सगर वनवासाज्ञातवासप्रतिज्ञैव पयोनिधि समुद्र यैस्तथोक्ता । अमी एवभूता वय त्वया अद्य यथाश अवने भूमे अवने रक्षणे वा । राज्ये वेति यावत् । स्थाप्या स्थापितुमर्हा वने वा स्थाप्या । उभयमपि त्वदधीनमित्यर्थ । पित्राज्ञाया दुर्लङ्घत्वादिति भाव ॥ ३७ ॥

 बल्य इति । वनान्ते अरण्यमध्ये जनु जन्म येषा तेषा मम मदीयाना पाण्डवाना रक्षणविधौ पोषणक्रियाया विषये एकापि धात्री उपमाता न । बभूव । इत्युक्तप्रकार शोक उपमात्रभवकृतमेव अनिश हृदये दधान व तस्या थाच्या भूमे उपमातुश्च सप्रति इदानीं न दित्ससि दातु नेच्छसीति काकु । किंतु दित्सस्येवेत्यर्थ । अत्र वने धात्रीमात्राभावशोचनस्य स्वसमक्ष अर्धधात्रीदानावश्यक्त्वहेतुत्खास्पदार्थहेतुक काव्यलिङ्गम्। तच्चोपमातृभुवो धात्रीशब्दक्ष्लेषभित्तिकालब्धाभेदाध्यवसायमूलातिशयोक्तयुज्जीवितमिति तयोरङ्गाङ्गिभावेन सकर ।


इत्थ ब्रुवाण यदुवीरमेन निश्वस्य दीर्घे नृपतिर्बभाषे ।
व्यरसिष व्यध्वममु विमुञ्च विमुञ्च वत्सेत्यनुशास्य शौरे ॥३९॥
 मधुमथन निमीलिता मुनीन्द्रे
  मम जननी खलु पुत्रवत्सला सा ।
 मुखमहमनवेक्ष्य मूर्खसूनो-
  र्मुदमधिकामधुना यया दधामि ॥ ४० ॥
 स्वयमपि न विबुध्यते सुतोऽय
  सुमतिजनस्य शृणोति नापि वाचम् ।
 कुरुकुलकुशलाडुराभिवृद्भयै
  गुणगणवारिनिधे गतिस्त्वमेव ॥ ४१ ॥


“धात्री स्यादुपमातापि क्षितिरप्यामलक्यपि’ इति नानाथरत्नमालायाम् । इति विज्ञापयन्ति स्मेति पूर्वेणान्वय ॥ ३८ ॥

 त्थमिति । इत्थ उक्तप्रकार ब्रुवाण पाण्डवविज्ञापना कथयन्त एन यदुवीर श्रीकृष्ण प्रति नृपति वृतराष्ट्र दीर्घ यथा तथा निश्वस्य हे वत्स दुर्योधन, अभु व्यध्व दुर्मार्ग पाण्डववैररूप विमुञ्च विमुञ्च त्यज त्यज । इत्यादराद्विरुक्ति । इत्युक्तप्रकारेण अनुशास्य शिक्षयित्वा हे शौरे श्रीकृष्ण, अह व्यरसिष विरत- वानस्मि । शान्तवानस्मीत्यर्थ । इति बभाषे उक्तवान् ॥ ३९ ॥

 मधुमथनेति । किच हे मधुमथन मधुनामकदैत्यनाशक कृष्ण, सा प्रसिद्धा मम जननी अम्बिका पुत्रे मयि वत्सला खलु दयालु सत्येव मुनीन्द्रे व्यासे विषये निमीलिता मुकुलितनेत्राभूत् । यया पुत्रदायिनि सुनी द्रे भीलि ताक्ष्या जनन्या अह अन्धत्वेन जात इत्यर्थ । मूर्खस्य स्वत अविवेकिन परैर्बोधित अश्रोतुश्च सूनो दुर्योधनस्य मुख अनवेक्ष्य अधुना अधिका निरवाधिं मुद आनन्द दधामि धारयामि । तत्ताट्टक् दु खात् । आन्ध्यादषि डु खायते पुत्रस्य मौर्ख्यमित्यर्थ । अत्र किमुत्तरवाक्यार्थेन पुत्रवात्सल्यसमर्थनाद्वाक्या र्थहेतुक काव्यलिङ्गम् । उत आन्ध्यस्य दोषस्यैव सतोषजनकत्वेन गुणत्ववर्णनाल्लेशालकार । इत्युभयत्र साधकसाम्यादेकत्र बाधकाभावाच्च द्वयो सदेहसकर । पुष्पिताग्रा ॥ ४० ॥

 पुत्रमौर्ख्य विशदयति-स्वयमिति । अय सुत दुर्योधन स्वय आत्मनापि न विबुध्यते । शोभना कार्याकार्यविवेचिका मति आगामिगोचरबुद्धि यस्य तस्य जनस्य भीष्मविदुरादे वाचमपि न शृणोति । नानुतिष्ठति इत्यर्थ । अत हे गुणगणवारिनिधे श्रीकृष्ण, कुरुकुलस्य कुशलमेवाङ्रर तस्याभिवृध्धै । त्वमेव गति । नान्य इत्यर्थ । तथा च त्वमेव नयभयाभ्यामिदानीं संधिं धट- येति भाव । वृत्त पूर्ववत् ॥ ४१ ॥  इति सि[१०५६]द्धान्तितवति बद्धाञ्जलौ राजनि निजासनार्धनिवेशि[१०५७]तकरतलतया किचिदुन्नमितवामभुजशिखरेण [१०५८]गण्डमण्डले निमज्जितमकरकुण्डल क[१०५९]टिचलनकन्दलितकाञ्चनपटमर्म[१०६०]रारबमीषत्कधरा विनिवर्त्य

कलृप्तस्मित रविभुवा कृतहस्तताल
 दु शासनेन धुरि दूषितसाधिपक्षम्।
कर्णोपकण्ठचलितावरमातुलास्य
 कौरव्यमाह कुरुससदि कसवैरी ॥ ४२ ॥
पृथासुतेभ्य पृथिवी तदीया पुनार्दिशेति ब्रुवतो गुरोर्गाम् ।
अशृण्वत पौ[१०६१]रब ते कथ वा सभूतिरेषा शशिनोऽन्ववाये ॥ ४३ ॥


 इतीति । इत्युक्तप्रकार बद्धाञ्जलौ राजनि धृतराष्ट्रे सिद्धान्तितवति प्रकृतकार्य निश्चितवति सति । निजस्य आसनस्य रत्नपीठस्य अर्धे मध्ये निवेशित निक्षिप्त करतल येन तस्य भाव तत्ता तया हेतुना किचित् उन्नमितेन वामभुजस्य शिखरेण अग्रभागेन गण्डमण्डले वामकपोलमध्ये निमज्जित प्रवेशित मकराकृतिकुण्डल यस्मिन् तत्तथा । कटे नितम्बस्य चलनेन तिर्यग्व्यावर्तनेन कन्दलित सजात काञ्चनपटस्य पीताम्बरस्य मर्मरारव मर्मरेतिशब्द यस्मिस्तत्तथा । ईषत् किचित् कधरा ग्रीवा विनिवर्त्य अम्यावर्त्य इत्युत्तरेणान्वय ॥

 कलृप्तेति । कसवैरी कृष्ण रविभुवा कर्णेन सह कृता हस्ताभ्या ताला मिथस्ताडनानि यस्मिंस्तत्तथा कलृप्त निर्मित स्मित येन तम् । बुरि अग्रे दु शासनेन भ्रात्रा दूषित निन्दित सधिपक्ष सधिना साध्य यस्य तम् । कर्णस्य श्रोत्रस्य उपक्ण्ठे मूले चलित गूढसधिपक्षदूषणेन कम्पित अवर यस्य तादृश मातुलस्य शकुने आय वक्त्र यस्य तथोक्तम् । कौरव्य दुर्योधन प्रति कुरुससदि कौरवसभायाम् । शृण्वन्त्या सत्यामिति शेष । आह वक्ष्यमाणप्रकारेण उवाच ॥ ४२ ॥

 पृथेति । हे पौरव दुर्योधन, पृथासुतेभ्य धर्मराजादिभ्य तेषामिमा तदीयाम् । न तु त्वदीयमित्यर्थ । पृथिवी भूमि शृतेनापहृता पुन प्रतिज्ञाप्रकार दिश प्रयच्छ इत्युकप्रकारेण ब्रुवत कथयत गुरो पितु गा वाक्य अशृण्वत उक्लङ्द्यत ते तव सबन्धिनी एषा पित्राक्षोल्लङ्घिनी सभूति जन्म शशिन चन्द्रस्य अन्ववाये वशे क्थ वेत्याश्चर्यं । अभूदिति योज्यम् ॥ ४३ ॥


 तत्तादृश शृणु महत्तव वशवृत्त
  पूरुर्ददौ नववय पितुरात्तजीर्ण
 त्यक्त्वाश्रम पितृमुदे तृणवद्वितीय
  देवव्रतोऽयमिह तिष्ठति धीरधीर ॥ ४४ ॥
 कितवोक्तिभि कि[१०६२]सलित स कर्णयोत्
  सफलो भवेत्तव तदा मनोरथ ।
 हरिनन्दनेन युधि पातित धनु-
  हेरमस्तकान्न पुनस्मन्ममज्ज चेत् ॥ ४५ ॥
दश कुरूणा महितोऽयमस्मिन्धर्तु कलङक चतुरौ खलु द्वौ ।
एकत्र कोटौ रजनेरधीश परत्र मन्ये प[१०६३]रुषो भवाश्च ॥ ४६ ॥


 ननु चन्द्रवश्येनापि लङ्घयता पित्राज्ञेत्यत आह-तदिति । हे कौरव, तत् तादृश अनुपम अतएव महत् क्ष्लाध्य तव सबन्धिन वशस्य वृत्त चारित्र शृणु । येन राज्ञा यूय पौरवा इति रयाता स पूरुर्नाम राजा चन्द्रवश्य पितु ययातित आत्ता जीर्णा जरा येन तथोक्त्त् सन् । नव वय यौवन स्वीय ददौ । तस्मा इति शेष । कालान्तरीय तत्तिष्ठतु । आधुनिकमेव पश्येत्याह- त्यक्त्वेति । धीराणामपि धीर असदृशधैर्यशाली अतएव अय देवव्रत भीष्म पितु शन्तनो मुदे सत्यवतीलाभसतोषाय द्वितीयमाश्रम गार्हस्थ्यम् । दारपरि प्रहमिति यावत् । तृणवत् तृणमिव त्यक्त्वा इह इदानीं अत्र च तिष्ठति । नतु यदा कदा वा यत्र कुत्र वेत्यर्थं ॥ ४४ ॥

 नयेनोक्त्वा भयेनाह-कितवेति । किच है कौरव, कर्णयो कितवस्य अक्षविद्यानिपुणस्य शकुने उक्तिभि दुर्बोधनै किसलित सुजातपलव । उत्पन्न इति यावत् । ‘किसालय किसलय किसाल किसल किसम्’ इति श्रीहर्ष । स पाण्डवसर्वस्यापहरणविषयकत्वेन प्रसिद्ध तव सबन्धी मनोरथ काम तदा सफल भवेत् । यदि कैराते हरिनन्दनेन अर्जुनेन पातित तान्ति निवे- शित धनु गाण्डीव हरस्य मस्तकात् शिरस पुन नोन्ममज्ज चेत् नोत्थित यदि तदा भवेदिति सबन्ध । गाण्डीवमेव तेभ्य सर्वस्ख ददाति । किं त्वयेति भाव । अत्र किसलितत्वफलितत्वारोपेण मनोरथस्य वृक्षत्वारोपप्रतीतेरेक्देशवर्ति रूपकम् । मञ्जुभाषिणी ॥ ४५ ॥

 वश इति । अय कुरूणा वश महित लोकैक्पूज्य यद्यपि तथापि अस्मिन् वशे एकत्र कोटौ अरौ । आदिभाग इति यावत् । क्लङ्क चिह्न अपवाद च र्घतु रजने रात्रे अधीश चन्द्रश्च, परत्र कोटो अन्त्यभगे कलङ्क अपवाद चिह च धर्तु परुष निर्दय भवाश्च द्वौ चतुरौ निपुणौ खल्विति मन्ये । ‘कल- ङ्कोऽङ्कापवादयो ’ इत्यमर ॥ ४६ ॥


बन्धूपदिष्ट न शृणोषि वत्स सधानमस्मिन्न तवाद्य दोष
गन्धर्व[१०६४]राजेन कृत वनान्ते बन्ध पुनर्मुक्तवता हि तेषाम् ॥४७ ॥
 

इति नि[१०६५]गदितवति भगवति क्रोधन सुयोधनोऽपि गिरमिमामु[१०६६]ज्जगार।

[१०६७]अये नन्दनन्दन, केवल विराटतनयाश्रयलाभेन कृतकृत्य[१०६८]मन्यमानाना कुन्तीभुवा च बहुभिर[१०६९]क्षौहिणीपतिभिरनुक्षणमावेद्यमाना[१०७०]ञ्जलिधोरणी[१०७१] मवलोकयितुमप्यलब्धावसराणामस्माक च किं वा सधान कि वा तव दूतकृत्य कि वा मया देयमीदृग्विध मुधायासमवधूय य [१०७२]थागत गन्तव्यमिति ।


 बन्ध्विति । हे वत्स शिशुचत्कर्तव्यानभिज्ञ, त्व बन्धुभि उपदिष्ट वोवित सधान सघि न शृणोषि नाङ्गीकारोषीति यत् अस्मिन् स यनङ्गीकारे विषये अद्य तव दोष अपराव न भवति । कितु वनान्ते द्वैतवनमध्ये गन्धर्वराजेन चित्रसेनेन कृत बन्ध त्वदीय पुनर्मुक्तवता मोचितवता तेषा हि पाण्डवानामेव दोष भवति । अत्र क्रमेण दोषगुणयो बन्धूक्त्तध्यनङ्गीकारबन्धमोचनयो गुणत्वस्य दोषत्वस्य च वर्णनाल्लेशालकारदूय अङ्गाङ्गिभावेन सकीर्णम् ॥ ४७ ॥

 इतीति । इत्युक्त्तप्रकारेण भगवति श्रीकृष्णे निगदितवति उक्तवति सति क्त्तोवन कुपित सुयोधन दुर्योधनोऽपि इमा वक्ष्यमाणा गिर वाक्य उज्जगार उक्तवान् ।

 अये इति । नन्दो नाम कश्चिद्रोपाल तस्य नन्दन पुत्र तस्य सबुद्धि अये नन्दनन्दन हे श्रीकृष्ण, इत्यामन्त्रण गोपालाना मौढथप्रसिद्धिमनुरुध्येति ध्येयम् । विराटतनयया उत्तरया अभिमन्यवे दत्तया आश्रय विराटरूप तल्लाभेन । केवल तलाभमात्रेण स्त्रीमूलकाश्रयोपजीवनेनेत्यर्थ । विराटतनय उत्तर रणभीरु स एवाश्रय तल्लाभेनेति वा । उभयथापि मौढयोद्धाटनम् । कृत ' कृत्य मन्यमानाना आत्मान कृताथ सभावयताम् । ‘आत्ममाने खश्च’ इति खशि खित्वात् ‘अरद्विषत्-' इत्यादिना मुम् । कुन्तीभुवा धर्मराजादीना च । अत्र ‘कुन्तीभुबा’ इति पाठ स्त्रैणेयत्वप्रकाशोक्ति । अनुक्षण बहुभिरक्षौहिणीप तिभि आवेद्यमाना विज्ञाप्यमान अञ्जलिधोरणी नमस्कारपरम्परा अवलो कयितुमपि अलब्ध अवसर अवकाश यैस्तेषामस्माक च उभयेषा सधान सधि किवा कीदृश । अनुचित एवेत्यर्थ । प्रबलान दुर्बलै सह सधे लोकवेदोभयदूषितत्वादिति भाव । तव दूतकृत्य कि वा । मया देय दातव्य कि वा । ईदृशी विधा प्रकार यास्मिस्तथोक्तम् । मधायास निरर्थक्श्रम


आकर्ण्य तच्चकितचेतसि नम्रवक्त्ते
 कर्णौ पिधाय नृपतौ करसपुटाभ्याम्।
मत्वा तृणाय मधुवैरिणमप्यळद्धथ
 गोष्ठया जवेन निरगात्कुरुराजसूनु ॥ ४८ ॥

 तदनु दनुजारातिरेष रोषस्मितलेशरूषिताधरस्तादृशेन तस्यावलेपवचनेन भिया विहस्तान्भुदा निरस्तान्समस्तानपि सभास्तारान्पु[१०७३]रस्तान्निरीक्ष्य पुनरपि वाचमेव ज[१०७४]गाद ॥

धराभुजा कि तटिनीभुवा कि मयाधुना किं वसतापि दूत्ये ।
पथिार्य दातु प्रभवेद्धरित्री गदैव सा गन्धवहस्य सूनो ॥ ४९ ॥


अवधूय त्यक्त्वा यथागत आगमन यथा निष्फल तथेत्यर्थ । गन्तव्यम् । त्वयेति शेष । इति गिर उज्जगारेति पूर्वेणान्वय । अत्र स्त्रैणोपजीवनकैन्लेयार्थगोपालदूत्यवत्स्तुना तदीयदूल्य त्वदनुगुणमेवेत्यनुरूपसधटनात्मकसमाळकारप्र तीते वस्तुनालकारध्वनि ॥

 आकर्ण्येति । तत् दुर्योधनस्य दुरुक्त आकर्ण्य चकित भीत चेत यस्य तस्मिन् अतएव नृपतौ धृतराष्ट्रे । करौ सपुटे इव ताभ्या कर्णौ पिधाय आच्छाद्य नम्र नत वक्र मुख यस्य तथोक्त्ते सति । कि र्क्तव्यतामौढथेनेति भाव । कुरुराजसूनु दुर्योधन अलङघय लोकत्रयेणाप्यनतिक्रमणीय मधुवैरिण श्रीकृष्णमपि । किमुतान्यानित्यर्थं । तृणाय मत्वा । तृणभिवानादृत्येत्यर्थं । ‘मन्यकर्मण्यनादरे’ इति चतुर्थी । जवेन वेगेन गोष्ठया सभात निरगात् निर्गतवान् । मूर्खाणा न क्कापि विवेकावकाश इति भाव ॥ ४८ ॥

 तदन्विति । तदनु दुर्योधननिर्गमनानन्तर एष दनुजाराति श्रीकृष्ण । तादृशेन कि वा सधान इत्यादिविधेन तस्य दुर्योधनस्य अवलेपवचनेन साहकारवाक्येन यो रोष क्त्तेव तेन य स्मितलेश हासलव तेन रूषित व्याप्त अधर यस्य तथोक्त्त सन् । भिया क्षत्रियलोकमात्रविपत्तिभयेन विहस्तान् व्याकुलान् मुदा सतोषेण निरस्तान् त्यक्तान् । तच्छून्यानिति यावत् । समस्तानपि सभास्तारान् सभ्यान् पुरस्तात् अग्रे निरीक्ष्य दृष्ट्वा पुनरपि वाच एव वक्ष्यमाणप्रकारेण जगाद उक्तवान् ॥

 धरेति । अधुना धराभुजा धृतराष्ट्रेण कि कार्यम् । तटिनीभुवा भीष्मेणापि किम् । दूत्ये वसता वर्तमानेन मयापि किम् । अस्माभिस्तु पार्थाय धरित्री न दाष्यत एवेत्यर्थं । परतु सा दुर्निवार्यत्वेन प्रसिद्धा गन्धवहस्य वायो सूनो भीमस्य गदैव पार्थाय धर्मराजाय धरित्री भूमिं दातु दापयितु प्रभवेत् समर्था भवेत् ॥ ४९ ॥


 शौरेस्ता वाचमाकर्ण्य साध्वसाक्रान्तचेतस ।
 जोषभाव सभास्तारा युगपद्दधुरुत्तरम् ॥ ५० ॥
बहि स समन्नय बळावालिलैप्तैस्त्रिभि सहायैर्धृतराष्ट्रसूनु।
गन्धर्वराजेन कृता दृशा स्वा गदाग्रजन्मानमियेष नेतुम् ॥ ५१॥
 श्रुत्वा तत्कुपितो हरि स्वयससावेकोऽपि सर्वात्मक-
  स्ताराभिर्नवभिर्ग्रहौर्निबिडिता शैलैर्घर्वनै सागरे ।
 पेट[१०७५]या भूषणमञ्जरीमिव धृता कुक्षौ जगन्मण्डलीं
  जङ्थालामतनोत्सभाजिरजुषा दृक्पङ्क्त्तिघण्टापथे ॥ ५२ ॥


 शौरेरिति । ता उक्त्तविधा शौरे वाच आकर्ण्य साध्वसेन भयेन आक्रान्त चेत येषा ते सभास्तारा सभ्या युगपत् एकदा जोषभाव तूष्णीमवस्थानमेव उत्तर प्रतिवाक्यमिति क्ष्लिष्टरूपकम् । दधु चक्त्तु । भीता सर्वे न किंचिदवदन्नित्यर्थ । ‘तूष्णीं जोष भवेन्मौने’ इति वैजयन्ती ॥ ५० ॥

 बहिरिति । स गोष्ठया निर्गत धृतराष्ट्रसूनु दुर्योधन बलेन चतुरङ्गेण शौर्येण वा अवलिप्तै गर्वितै त्रिभि सहायै कर्णशकुनिदु शासनै सह समञ्य आलोच्य गदस्य यादवभेदस्य अग्रजन्मान ज्येष्ठ श्रीकृष्ण गन्धर्वराजेन चित्रसे नेन कृता स्खा खीया दशा बन्धनावस्था नेतु प्रापितु इयेष इच्छति स्म । त बखुमालोचितवानित्यर्थ । सर्वतोमुख हि दौरात्म्य खलानामिति भाव ॥५१॥

 श्रुत्वेति । सर्वेषा प्राणिन आत्मैवात्मक जीवरूप , सर्व चराचरात्मक प्रपञ्च ' आत्मा खरूप यस्येति वा। । ‘सर्व खल्विद ब्रह्म’ इति श्रुते । अतएव स्खयमेकोऽपि असौ हारि श्रीकृष्ण तत् दुर्योधनदुरालोचित श्रुखा । दुर्योधनादावन्तर्यामितया वर्तमानत्वादिति भाव । कुपित क्रुद्ध सन् ताराभि अश्विन्यादिभि , नवभि ग्रहै सूर्यादिभि , शैले मेर्वादिभि , वनै नैमिषादिभि सागरै क्षीरोदादिभि , निबिडिता सान्द्रिता कुक्षा धृताम् । अतएव पेट्या मञ्जूषाया धृता भूषयाना कटकमुकुटादीना मन्जरी समूहमिव स्थिताम् । जगता भूरादिलोकान मण्डली समूहम् । सभाया अजिर प्राङ्गण जुषन्त इति जुषा सभ्याना दृशा नेत्राणा पङ्क्त्तिरेव घण्टापथ राजमार्ग तस्मिन् जङ्गला अतिवेगेन वर्तमानाम् । तनेत्रविषयामित्यर्थ । अतनोत् चक्रे । विश्वरूप सघ प्रदर्शितवानित्यर्थ । उपमालकार । शार्दूलविक्रीडितम् ॥ ५२ ॥


 तस्मिन्नङ्गुष्ठमात्रे[१०७६] नव इव मुकुरे वीक्ष्य सर्व प्रपञ्च
  विस्मेरा सिद्धविद्याधरसुरनि[१०७७]करा पुष्पवृष्टीर्व्यमुञ्चन् ।
 सान्द्र मोहान्धकार सकलमुनिजन समदाश्रूणि भीष्म
  क्षत्ताक्ष्णो [१०७८]पक्ष्मकम्प [१०७९] कुरुपुरजनताप्रेम दुर्योधनेऽपि ॥ ५३॥
अस्याट्टहासध्वनिरादिपुसो विशृङ्खल व्योम्नि विजृम्भमाण ।
दिक्पालसौधावलिजालकानामध्यापकत्व बिभराबभूव ॥ ५४ ॥
 सस्तूयमानचरितस्य जनैस्त्रिलोकी
  साधारणीकृतकृपस्य हरे प्रसादात् ।
 चक्षुष्मता समधिरुह्य धुर मुहूर्त
  भूयस्ततोऽप्यवततार स भूमिपाळ ॥ ५५ ॥


 तस्मिन्निति । अङ्गुष्ठमात्रे ‘अङ्गुष्ठमात्र पुरुष ” इत्यादिश्रुतिसिद्धाङ्गुष्ठपरिमितमाने तस्मिन् सर्वात्मके श्रीकृष्णे परब्रह्मणि नवे निर्मले मुकुरे दर्पण इव सर्व चराचरात्मक प्रपञ्च वीक्ष्य विस्मेरा विस्मयान्विता सिद्धाना विद्यावराणा न देवयोनिविशेषाणां सुराणा च निकरा वृन्दानि पुष्पाणा वृष्टी व्यमुञ्चन् । सकलमुनिजन सान्द्र मोहमेव अन्धकार व्यमुञ्चत् । भीष्म सैमदाक्षूणि आन न्दबाष्पाणि व्यमुञ्चत् । क्षत्ता विदुर अक्ष्णो पक्ष्मणो कम्प निमेषोन्मेषरूप व्यमुञ्चत् । कुस्पुरे हास्तिननगरे जनता जनसमूह दुर्योधने प्रेमापि व्यमुञ्चत् । प्रेमत्याग ‘अपन्थान तु गच्छन्त सोऽदरोऽपि विमुञ्चति ’ इति न्यायादिति भाव । अत्रानेकक्रियायौगपद्यात् ’ समुच्चयालकार । अत्र सुरनिकर पुष्पवृष्टिं मुमोचेति ‘समदादक्ष्रु’ इति चैव पठनीयम् । यथाश्रुतपाठे तु कर्तृकर्मक्रियाणा विभिन्नसख्याकत्वेन प्रक्रमभङ्गाख्यदोष इति ध्येयम् । स्रग्धरा ॥ ५३ ॥

 अस्येति । अस्य विश्वरूपिण आदिपुस प्रथमपुरुषस्य श्रीकृष्णस्य अट्टहासभ्वनि उच्चैर्हास किलकिलशब्द व्योम्नि आकाशे विशृङ्खल निष्प्रतिबन्ध यथा तथा विजृम्भमाण सन् । दिक्पालाना इन्द्रादीना सौधावलीषु हर्म्यपड्क्त्तिषु जालकाना गवाक्षाणा अध्यापकत्व अध्ययनाचार्यत्व बिभराबभूव वहति स्म । तानि प्रत्यध्वनयदित्यर्थ । ‘भीक्ष्री-'इत्यादिना क्ष्लुवद्भावत् भृञोऽभ्यास ॥५४॥

 सस्तूयमानेति । जनै लोकत्रयवासिभि सस्तूयमानानि कीर्त्यमानानि चरित्राणि दुष्टनिग्रहशिष्टानुग्रहरूपाणि यस्य तस्य । त्रयाणा लोकाना समाहार त्रिलोकी । ‘द्विगोश्च’ इति डीप् । तस्या साधारणीकृता अवैषम्य प्रापिता कृपा दया येन तस्य । अतएव हरे श्रीकृष्णस्य प्रसादात् । स अन्धत्वेन प्रसिद्ध


ओजस्तवेदमुपसहर माधमेति
 घुष्यत्सु सत्सु गुरुभीष्मपुरोगमेषु ।
घोर विहाय निमिषेण कुशेशयाक्षो
 गोपीदृशा कुतुकहेतुमवाप रूपम् ॥ ५६ ॥

 ततस्तादृश नि[१०८०]रूपमान तस्य महिमानमनुभूय चरितार्थो मुनि[१०८१] सार्थ शान्तमूर्ति तमेवमस्तौषीत् -----

 भगवन्, महात्मभिरपि योगिभिरविदितप्रभावाय तस्मै भ[१०८२]वते नम ।


भूमिपाल वृतराष्ट्र । चक्षुष्मता सनेत्राणा धुर रीतिम् । चक्षुष्मत्तामिति यावत् । मुहूर्त अल्पकाल समधिरह्य प्राप्य भूय तादृग्महिमान भगवन्त दृष्ट्वा पुनरपि तत चक्षुष्मद्रीते अवततार अपक्रान्तवान् । अन्धो बभूवेत्यर्थ । आजन्मन कचिदपि अनवलोक्य अवलोक्य चाद्य जगन्मय भगवन्त पुनरन्यावलोक्नस्याति जुगुप्सितत्वादिति भाव । अत्र त्रिलोकीत्यादिविशेषणस्य तत्तादृक् अपराधिदुर्या । धनजनकत्वेऽपि धृतराष्ट्रस्य चक्षुर्दानौचित्याभिप्रायगर्भत्वात्परिकराळकार ॥५५॥

 ओज इति । हे माधव श्रीकृष्ण, तव वय इद विश्वात्मक विश्वभयकर च ओज रूप उपसहर सक्षिप । इत्युकप्रकारेण गुरु द्रोण भीष्मश्च दौ पुरोगमौ प्रधानौ येषा तेषु सत्सु सज्जनेषु घुष्यत्सु उच्चै शब्दायमानेषु सत्सु कुशेशये कमले इव अक्षिणी यस्य तथोत श्रीकृष्ण । ‘शतपत्र कुशेशयम्' इति कमल पर्यायेष्वमर । निमिषेण क्षणेनैव घोर जगद्भयक्र रूप विश्वाकार विहाय गोपीना गोपाङ्गनाना दृशा नेत्राणा कुतुकहेतु कौतूहलकारण रूप चतुर्मुजादि विशिष्टमाकार अवाप आप्तवान् । प्रसन्ने भगवति कि दुर्लभ महता इति भाव । अत्र गोपीडक्कुतुत्ववस्तुना अतिमूढाना तासामेव नयनानन्दकरत्वे किमुतान्येषा इत्यर्थापत्त्यलकारप्रतीते वस्तुनाळकारध्वनि ॥ ५६ ॥

 तत इति । तत उक्तरूपस्खीकारानन्तर तादृश तद्विध अतएव निरुपमान असदृश तस्य भगवत महिमान प्रभाव अनुभूय दृष्ट्वा चरितार्थ कृतार्थं मुनीना सार्थ सध । शान्ता लोकलोचनानन्दकरी मूतिर्यस्य तथोक्त त श्रीकृष्ण एव वक्ष्यमाणप्रकारेण अस्तौषीत् स्तुतवान् । स्तौते कर्तरि लुड् ॥

 भगवन्निति । हे भगवन् श्रीकृष्ण, महान् ब्रह्मात्मैक्यानुसधानात्तदैक्यावाप्त्या अपरिच्छिन्न आत्मा चित्प्रतिबिम्ब जीव येषा तथोक्त्तै । योग ब्रह्मणि मनोलयजनक साख्यतारकमनस्कनामभि (९)प्रसिद्ध एषामस्तीति योगिभिरपि अविदित अज्ञात प्रभाव सामर्थ्य जगज्जन्मादिकर्तृत्व यस्य तथोक्ताय तस्मै भवते तुभ्य नम । इतीदमग्रिमदशक्ष्लोक्येकवाक्यम् ॥


दुग्धाम्बुराशितनयानयनद्वयेन
 तुल्याकृतित्वमहिमानमिवोपगन्तुम् ।
मत्स्यत्वमेत्य भुवि य सुरवैरिनीता
 मध्येसमुद्रमनवीनगर्विचिये ॥ ५७ ॥
मन्थानशैलमपि मार्गरुध हिमाशोध
 वर्चीकणै सदृशमङ्गविषक्तभाग्भि ।
काये बभार चरमे कमठाकृतिर्ये
 जीवातुमुद्रमयितु जळधे सुराणाम् ॥ ५८ ॥
दष्ट्राग्रवर्ति किटिवेषधरस्य यस्य
 क्ष्मामण्डल कु[१०८३]वलयाङ्करकोमलाभम् ।
ऊर्ध्वप्रसृत्वरबकावलिकावलीढ-
 प्रावृट्पयोदवलयस्य बभार लीलाम् ॥ ५९ ॥


 दुग्धेति । यो भवान् दुग्धाम्बुराशितनयाया महालक्ष्म्या नयनयोर्दूयेन तुल्या आकृति मूर्ति यस्य तस्य भाव तत्त्वमेव महिमा विलास त उपगन्तु प्राप्तुमिवेत्युत्प्रेक्षा । मत्स्यत्व मीनरूप एत्य खीकृत्य भुवि लोके सुरवैरिणा सोमकेन नीता अपहृता अनवीना अकृत्रिमा गवी श्रुतिवाच मध्येसमुद्र समुद्रस्य मध्ये । ‘पारे मध्ये षष्ठ्या वा’ इत्यव्ययीभाव । विचिक्थे अन्वेषितवान् । चिनोतेर्विपूर्वात् कर्तरि लिट् ॥ ५७ ॥

 मन्थानेति । यो भवान् जलधे क्षीरसमुद्रात् सुराणा देवाना जीवातु जीव नौषध अमृत उद्गमयितु जनयितु कमठस्य कूर्मस्येव आकृति रूप यस्य तथोक्त्त सन् हिमाशो चन्द्रस्यापि मार्गं रुणद्धीति तद्रुधम्। तावदुन्नतमपीत्यर्थ । मन्थानशैल मन्दरार्द्रि अङ्गे विषक्त्तिं सबन्व भजन्तीति भाभि । वीचीना क्षीराब्धितरगाणा कणै लेशै चुरामे काये पृष्ठे बभार धृतवान् । बिभर्ते कर्तरि लिट् ॥५८॥

 दथेति । किटे वराहस्येव वेष रूप वरतीति धरस्य वराहरूपिण यस्य भवत दष्ट्राया अग्रे वर्तत इति वर्ता । कुवलयाङ्कुरस्य नीलोत्पलदलस्येव कोमला आभा नैल्य यस्य तथोक्त्त क्ष्मामण्डल भूमण्डलम् । ऊर्क्ष्व प्रसृत्वराया गच्छन्या बकाना आवालिकाया पङ्क्त्तौ अवलीढस्य सक्त्तस्य प्रावृट्पयोदवलयस्य वार्षिकमेघमण्डलस्य लीला बभार । ‘बकोटघट-' इति पाठेऽप्युक्त्त एवार्थ । अत्रान्यलीलाया अन्यत्रासभवेनौपम्याक्षेपादसभवद्धर्मसबन्धनिबन्धनो निदर्शनालकार । यत्तु ‘वराहदष्ट्राया शुभ्रत्वात् भूमेश्च कृष्णत्वात् तथा दृष्टान्तोक्त्ति’ इति नृसिंह , तत्तस्यानालकारिकता स्फोटयति । ’चेद्विम्बप्रतिबिम्बत्व दृष्टान्तस्तदलकृति’


[१०८४]न्द्रद्विपो मदगजस्य हिरण्यनाम्नो
 भेद् रसस्य पिशितस्तबकावलीनाम् ।
जिज्ञासमान इव यो धृतसिहभाव
 स्त[१०८५]म्भदुदेत्य नस्वरैस्तमुरभाङ्क्षीत् ॥ ६० ॥
याच्ञाप्रतारणवशादधियज्ञ[१०८६]शाल
 यो वामनत्वमवलम्ब्य बलि निगृह्णन् ।
दु ख सता स्वभिव खर्वतम सुख च
 स्वीय पदक्रममिवोन्नतमाततान ॥ ६१ ॥
सृष्टौ पुरा मुखभुजोरुपदे मुरारे-
 रङ्ग द्वितीयसभजत्किमु वन्ध्यभावम् ।


इत्युक्तलक्षणस्यात्र प्रसक्त्यभावात् ‘असभवद्वस्तुसबन्ध उपमार्थो निदर्शना' इति लक्षणस्य यथोकानुगामित्वाच्चेति ॥ ५९ ॥

 इन्द्रेति । यो भवान् इद्रस्य द्विष शत्रो हिरण्येति नाम यस्य तस्य । हिरण्यमिति हिरण्यकशिपुरिति नामैकदेशे नामग्रहणम् । मदगजस्येति रूपकम् । पिशितस्तबकावलीना मासपिण्ङ्डीना सबन्धिन रसस्य आस्वादस्य भेद विशेष जिज्ञासमान ज्ञातुमिच्छु सन्निवेत्युत्प्रेक्षा उक्तरूपकानुप्राणिता । धूत सिंहस्येव भाव रूप येन तथोक्त्त सन् । स्तम्भात् प्रह्रादस्पर्धया हिरण्यकशिपुनिर्दिष्टात् उदेत्य आविभूय नखरै नखै त हिरण्यनामकमदगज उरसि वक्षसि अभाङ्दीत् भञ्जितवान् । भजे कर्तरि लुड् ॥ ६० ॥

 याच्ञेति । यो भवान् यज्ञशालाया अधियज्ञशाल याच्ञया त्रिपदमात्रभू भिक्षया प्रतारणस्य वञ्चनाया वशात् पारतन्त्र्याद्धेतो बलिं नाम दानव निगृहन् निग्रहिष्यनिति वर्तमानसामीप्ये वर्तमाननिर्देश । वामनत्व वामनरूपम् । ‘खर्वो हस्वश्च वामन' इत्यमर । अवलम्ब्य स्वीकृत्य । स्व आत्मानमिव सता दुख खर्चतम अत्यन्तहस्वम्, सता सुख च स्वीय पदक्रम पादविन्यासमिव उन्नत अत्यन्तदीर्ध आततान अकरोत् । आङ्पूर्वात्तनोते कर्तरि लिट् । अत्र प्रकृतयो भगवच्छरीरसज्जनदु खयोरतिहखीकरणेन तत्पदक्रमतत्सुखयोश्चात्युन्नतीकरणेन चौपम्यस्य गम्यत्वात्केवलप्रकृतगोचरतुल्ययोगिताभेदद्वयस्य सदृष्टि ॥ ६१ ॥

 सृष्टाविति । यस्य भवत परशुरामरूपिण सबन्धिषु आहवेषु युद्धेषु करे ताण्डवित नर्तित कुठार परशुर्नामायुधविशेष पुरा प्राथमिकाया सृष्टौ मुरारे श्रीमहाविष्णो सबन्धिनि मुखे भुजे ऊरौ पदे च। तेषा मध्य इत्यर्थ । प्राण्यङ्गत्वादून्दैकवद्भाव । द्वितीय अङ्ग भुज । वन्ध्यस्य भाव वन्ध्यत्वम् । क्षत्रि-


इत्येव सशयमशेषजनस्य चक्रे
 यस्याहवेषु करताण्डवित कुठार ॥ ६२ ॥
क्ष्वक्ष्रर्मुनेरजनि यस्य पदाब्जधूलि-
 [१०८७]त्क्रुष्टमीशधनुराप शरव्यकृत्यम् ।
यस्मा द्धियाब्धिरपि कम्पमकम्पमागा-
 द्यत्प[१०८८]त्रिणा विघस एव विभीषणोऽभूत् ॥ ६३ ॥
हन्यामह युधि रिपूनहमेव हन्या-
 मित्येव यन्मुसललाङ्गलयोर्विवाद ।


याजननमिति यावत् । अभजत् प्राप । क्रिम्विति स्फुटाथ । अव्ययानामनेकार्थकत्वाभिधानात् । अन्यथा कथ न क्षत्रिया न दृश्येरन्नित्यर्थं । इत्युक्तप्रकार सम्यक्छेते अर्थान्तरमत्रेति व्युत्पत्त्या सशय अर्थापत्तिज्ञान नि क्षत्रियान्यथानुपपत्तिकल्पितम् अशेषस्य जनस्यैव । न तु यस्यस्यचिदित्यर्थ । चक्रे । ‘ब्राह्मणोऽस्य मुखमासीद्दाहू राजन्य कृत । ऊरू तदस्य यदूशैय पन्था शूद्रो अजायत ॥' इति श्रुत्यपेक्षया नि क्षत्रियान्यथोपपत्ते हेतोर्बलीयस्त्वादिति न च वेदाऽप्रामाण्यज्ञानेन बौद्धत्वापत्ति । कविनिरङ्कुशन्यायस्यैव शरणीकरणीय त्वात् । अतएव माघफाव्ये यमुनावर्णनप्रस्तावे-‘‘व्यक्त्त बलीयानिति हेतुरा गमादपूरयत्सा जलधि न जाह्नवी । गाङ्गौघनिर्भस्मितशभुकन्वरासवर्णमर्ण कथमन्यथास्य तत् ॥' इत्युक्तम् । सा यमुनेत्यथ । इत्यल प्रसक्त्तानुत्रसक्त्या । अत्र क्षत्रियकुळनिर्मूलनस्य भगवद्ध्जवन्ध्यत्वरूपेण वर्णनात्पर्यायोक्त्यलकारस्य अर्थापत्तिप्रमाणालकारस्य च द्वयोरेकवाचकानुप्रवेशसकर ॥ ६२ ॥

 क्ष्वक्ष्रूरिति । यस्य भवत राघवरूपिण पदाब्जस्य धूलि मुने गौतमस्य क्ष्वक्ष्रू पतंजननी अजनि अभूत् । तत्स्पर्शान्मुक्तशापा पतिमगच्छदहल्येत्यर्थ । येन भवता कृष्टमीशवनु शरव्यस्य लक्ष्यस्य कृत्य भङ्गम् । अपभग्न आसी दित्यर्थे । यस्माद्भवत भिया अब्धि तादृग्गाम्भीर्यशाली । कम्प आग्नेयास्त्र प्रयोगकाले क्षोभम्, अकम्पमपि उपायचिन्तनकाले नै शब्द्याय निस्तरगीभूय अचाञ्चल्य च । आगात् प्राप्तवान् । ‘हस्तेनाब्धि स्तम्भितवान्वीचीकोलाहलो- द्धतम् इति सेतुमाहात्म्ये । हस्तेन । हस्तसज्ञयेत्यर्थे । यस्य भवत पत्रिण बाणाना विघस भोजनशेष विभीषण एव अभूत् । तदितरे सर्वेऽपि राक्षसा निहतास्तैरित्यर्थ । अत्र तृतीयपादवाक्यार्थे विरोधाभासेन पर्यायोक्त्यलकारत्रयस्य इतरवाक्यत्रयाथघटकस्य ससृष्टि ॥ ६३ ॥

 हन्यामिति । यस्य भवत बलरामरूपिण सबन्धिनो मुसललाङ्गलयो


यस्याम्बर निजरुचिप्रतिमल्लवर्ण
 यत्षष्ठसस्करणमासवपानमाहु ॥ ६४ ॥
य स्तन्यपानसमये [१०८९]बत पूतनाया
 प्राणानपि प्रविदधे परमोदशम् ।
नाकाधिपस्य वनभूरपि येन सद्यो
 नारीमुदे कृतनखप[१०९०]चधूलिरासीत् ॥ ६५ ॥
वार्यस्तपोधनवरेण्यमन खलीनै-
 स्तृण्या मुहु कवलञ्जगदार्तिरूपाम् ।
नीचान्विघातुमसुरान्निजङ्गतुल्या-
 न्कोपादुदेष्यति चय कुहनातुरग ॥ ६६ ॥


आयुबाविशेषयो युधि रिपून् अहमेव हन्या मारयेयम्, अहमेव हन्याम्, इत्युक्त्तप्रकार एव विवाद कलह अभूत् । यस्य अम्बर निजाया रुचे सिताया प्रतिमल्ल विरोधी वर्ण असितरूप यस्य तथोक्तम् । यस्य षष्ठ सस्करण अन्नप्राशनसस्कार आसवपान सुरापान आहु । लोका इति शेष । गर्भाधानसीमन्तपुसवनजातनामकरणान्नप्राशनचौलोपनयनादीना षोडशर्मणा अन्नप्राशन षष्ठमितत्वेन निदिष्टमिति ध्येयम् ॥ ६४ ॥

 य इति । य कृष्णरूपी भवान् पूतनाया कसप्रेषितासुर्या सबन्धिन स्तन्यस्य स्तनक्षीरस्य पानसमये । प्राणान् पूतनाया इति योज्यम्। परम तत्कालौचित्यादतिश्रेष्ठ उपदश व्यञ्जनविशेषमपि प्रविदधे चक्रे । बतेत्याश्चर्ये । ‘चरम--' इति पाठे भोजनावसानिकेत्यर्थ । नाकाधिपस्य इन्द्रस्यापि वनभू नन्दनवनप्रदेश नार्या सत्यभामाया मुदे सतोष कर्तुमिति क्रियार्थ-' इत्यादिना चतुर्थी । येन कृता नखपचा पारिजातापहरणप्रविष्टसौरतेजसा अत्युष्णा धूलि यस्या तथोक्ता आसीत् ॥ ६५ ॥

 वार्य इति । तपोधनाना वरेण्यानि वीतभोहत्वेन क्ष्लध्यानि मनास्येव स्वलीनानि वक्रबन्धनायोयन्त्राणि तै वार्य ग्राह्य जगत लोकस्य आर्तिस्पा पीडात्मिका तृण्या तृणसहतिं भुहु क्वलयन् नाशयन् । कुहनातुरग कपटाश्वरूपी यो भगवान् कोपात् नीचान् खलान् असुराशान् म्लेच्छादीन् निजशृङ्गात्या तुल्यान् तत्क्ल्पान् नष्टान् विधातु कर्तृ उदेष्यति क्ल्यन्ते आविर्भविष्यति । सर्वत्र यच्छब्द ‘तमै भवते’ इति पूर्वतनगद्यगतेनान्वयात्तत्रतत्र ‘शेषे प्रथम’ इति प्रथमपुरुष इति ध्येयम् ॥ ६६ ॥


एतै स्तवैर्दष्टमना यथायैर्मन्दस्मितश्रीमधुराधरोष्ठ ।
पीठादुदस्थादथ पीतवासा मेरोर्नितम्बादिव मेघशाव ॥ ६७ ॥
 आस्थानाद्वहिरेत्य कैटभरिपुर्गाङ्गेयमालिङ्गय त
  पक्ष्चार्धे परिमृश्य भूपमितरानापृच्छय सर्वान्कुरून ।
 आघ्रायातिचिरेण मूर्ध्नि विदुर युक्त शताङ्ग हयै-
  रारूढोऽभिययौ विराटनगरीमन्त स्मरन्पाण्डवान् ॥६८॥
 श्रुत्वा तत परमत पुरुषोत्तमाते
  फेनायमानरणसनहनाब्धिपूरा ।
 आराधयन्विधिवदस्त्रगण श्मशाने
  पीता वमन्तमिव कान्तिमिषेण धूम्याम् ॥ ६९ ॥


 एतैरिति । एतै उक्तबिधे यथार्धै । न त्वारोपितैरित्यर्थ । स्तवै हृष्ट सतुष्ट मनो यस्य स । अतएव मन्दस्मितस्य दरहासस्य श्रिया कान्स्या मधुर मनोज्ञ अधरोष्ठ यस्य स । पीत वास वस्र यस्य स श्रीकृष्ण । अथ मुनिस स्तत्रानन्तर पीठात् मेघशाव तरुणमेघ मेरो नितम्बात् कटकादिव । उदस्थात् उस्थितवान् । उत्पूर्वातिष्ठते कर्तरि छुट् । उपमालफार ॥ ६७ ॥

 आस्थानादिति । कैटभस्य दैत्यस्य रिपु श्रीकृष्ण आस्थानात् सभाया । ‘सभासमितिससद । आस्थानी क्लीबमास्थान स्त्रीनपुसकयो सद ॥’ इत्यमर । बहिरेत्य त भगवद्भक्त्या प्रसिद्ध गङ्गाया अपत्य गाङ्गेय भीष्मम् । ‘स्त्रीभ्यो ढक्’ इति ढक् । आलिङ्गय भूप धृतराष्ट्र पश्चार्धे ऊर्ध्वकये परिमृश्य सस्पृश्य । इतरान् भूपादन्यान् सर्वान् कुरून् सोमदत्तादीन् आपृच्छथ गमनप्रश्न कृत्वा । विदुर मूर्ध्नि अतिचिरेण आघ्राय परिचुम्ब्य। पुत्रवत् वात्सल्यादितिभाव । हयै अक्ष्वै सैन्यादिभि युक्त्त शताङ्ग रथ आरुढ सन् विराटनगरी प्रति अन्त मनसि पाण्डवान् स्मरन् सन् । अभिययौ प्रतस्थे । शार्दूलविक्रीडितम् ॥ ६८ ॥

 श्रुत्वेति । तत पुरुषोत्तमात् श्रीकृष्णात् । हास्तिनपुरागतादिति शेष । परस्य शत्रो दुर्योधनस्य मतम् ‘सूच्यग्र न प्रदास्यामि पाण्डवेभ्यो भुव स्थलम् इति पक्ष क्षुत्वा । फेनायमान अतिप्रवर्धमान रणसनहनयुद्धोद्योग एवाब्धिपूर समुद्रप्रवाह येषा तथोक्ता ते पाण्डवा कान्तािमिषेण नित्यरूपव्याजेन श्मशाने पीता कवलिता धूम्या चिताधूमस वसन्त उद्भिरन्तमिव स्थित अस्राणा आयुधाना गण विधिवत् यथाशात्र आराधयन् पूजयामासु । आङ्पूर्वाद्धे कर्तरि लड। अत्र प्रवर्धमानरणसनाहस्य विशेषणगल्याहति स्वेष्टदेवताभूतास्त्रपूजनहेतुत्वात्काव्यलिङ्गभेद वमन्तमिति सापह्नवोत्प्रेक्षया रणसनाहनाब्धिपूरेति रूपकेण च ससृष्ट ॥ ६९ ॥


 [१०९१]त्रान्तरे ।

तत पर जहुकुमारिकायास्तटीवने कृत्यविदा पुरोगा।
पृथा तपस्यन्तमवाप क[१०९२]र्ण कर्ण प्रवृत्तिस्तु न किचिदस्या ॥ ७० ॥
कमनीययशोभरे तनूजे कवचोत्कर्तनक[१०९३]र्कशाङ्गकेऽपि ।
नलिनान्मृदुल नरेन्द्र[१०९४]पत्या नयन तत्र चिर[१०९५]ण सचचार ॥ ७१ ॥
स तत्र पूत परमामिषेकैस्तपोवसाने तपनस्य सूनु ।
श्रोत्रे वितेने शुचिमक्षमाला नेत्रे च राज्ञीं निक[१०९६] ट प्रपन्नाम् ॥ ७२ ॥
 विनते पदयोरनन्तर विहिताशी परिरभ्य त सुतम् ।
 परिहर्तुमुवाच पञ्चतामुभयी धर्मसुतादिसूनुषु ॥ ७३ ॥


 तत्रान्तर इति । तत्रान्तरे तस्मिन्नेव काल इत्युत्तरेणान्वय ॥

 तत इति । तत पर आयुधारावनानन्तर कृत्यविदा कर्तव्यकोविदाना मध्य इति निर्धारषष्ठी। पुरोगा श्रेष्ठा। पृया कुन्ती । जहुकुमारिकाया गङ्गया तटीवने तीरोद्याने । तपस्यन्त तप कुर्वन्त कर्ण पुत्र अवाप । अस्या प्रवृत्ति आगमनवार्ता तु किचित् ईषदपि कर्ण श्रोत्र तस्य नावाप । योगाद्दह्मणि लीनस्य मनस सबन्धाभावादित्यर्थ ॥ ७० ॥

 कमनीयेति । कवचस्य सहजस्य उत्कर्तनेन इन्द्राय दातु उत्पाटनेन कर्कशानि व्रणकिणै परुषाणि अङ्गान्येव अङ्गकानि यस्य तथोक्तेऽपि कमनीय लोकैकमनोहर यशोभर कीर्त्यतिशय यस्य तस्मिन् । किच तनूजे आत्मसभवे तत्र कर्णे नलिनात् कमलादपि मृदुल सुकुमार नरेन्द्रपत्या कुन्त्या नयन चिरेण। न तु क्षणमित्यर्थ । सचचार । पुत्रवात्सख्यात्पुन पुनरपश्यदित्यर्थ । प्रेम नात्मव्यथा चिन्तयतीत्यर्थ । यत्त्वत्र ‘तत्र गङ्गातटे कवचोत्कर्तनेन इति नृसिह- व्याख्यानम्, तन्न। उक्तस्वरस्यायोगात्प्रत्युत दूरान्वय , कवचोत्कर्तने गङ्गातटपृत्ति- त्वप्रतीत्यापत्तिश्चेत्याद्यनुसधेयम् । अत्र तादृड्मृदुलयनाताद्द्क्कठिनाङ्गयो घटनाया वैरूप्याद्विरूपघटनात्मको विषमप्रभेद । पुत्रवात्सल्ययशोभरसमर्थितकर्कशाङ्ग- मृदुनयनसचारात्मक्काव्यलिङ्गभेदश्च द्वावप्येकवाचकानुप्रवेशेन सकीर्णौ ॥ ७१ ॥

 स इति । परमै पावनै अभिषेकै गङ्गास्नानै पूत पवित्र तत्र तीरे तप- स्यन् स तपनस्य सूर्यस्य सूनु कर्ण । तपस अवसाने समाप्तौ । शुचिं शुद्धा अक्षमाला जपमालिका श्रोत्रे वितेने निहितवान् । निकट समीप प्रपन्ना गता राज्ञीं राजपत्नी कुन्तीं च नेत्रे वितेने । अपश्यदित्यर्थ ॥ ७२ ॥

 विनतेरिति । राझी पदयो विनते प्रणामात् अनन्तर विहिता कृता


 अयि वत्स रवेरनुग्रहादजनिष्ठा मयि भाग्यमार्थिनाम्।
 तनुरक्षणमात्रकारिणौ तव राधा '[१०९७]तिरथौ न जन्मभू ॥ ७४ ॥
जहीहि राधातनयत्वबुद्धि सहैव दुर्योधनसौहृदेन ।
गृहाण वाण्या सह धर्म्यया मे सहोदरान्धर्मतनूजमुख्यान् ॥ ७५ ॥
यस्मैकस्मैचन त्व सहजकवचद प्रार्थनातुल्यकाल
 मातु साक्षान्निदेशे मम सुफरतमे मा कृथा मन्दभावम् ।
पाराडयुख्य विधत्ते गुरुजनवचनानु[१०९८]ष्ठिते यस्य चेतो
 धिक्शब्दस्याभिधेय जगदिदमखिल दोग्धि तस्मै [१०९९] सुखेन ॥ ७६ ॥


आशी आयुष्मान् भव वत्सेत्यादि यया तथोक्ता सती त सुत कर्ण परिरभ्य आलिङ्गय। धर्मसुतादिषु युधिष्ठिरादिषु सूनुषु पुत्रेषु विषये उभर्यी द्विविवा पञ्चता पञ्चत्वख्या मरण च परिहर्तुं उवाच वक्ष्यमाणप्रकारेणावदत् । कर्णेन सागत्ये तेषा षट्रत्वसरया लोकैकावध्यत्व च भवतीति भाव । वैतालीयम् ॥ ७३ ॥

 अयीति । अयि वत्स हे पुत्र, आथिना याचकाना भाग्य त्व मथि रवे सूर्यस्य अनुग्रहात् प्रसादात् अजनिष्ठा जातोऽसि । जने कर्तरि लुड्। तनो रक्षणमात्र बाल्ये त्वच्छरीरपोषणमेव कुरुत इति कारिणौ । राधा च अतिरथश्च सूतदम्पती द्वौ तव न जन्मभू उत्पत्तिस्थान न भवत । वृत्त पूर्वोक्तमेव ॥ ७४ ॥

 जहीहीति । अयि वत्स, त्व राधाया तनयत्वबुद्धिं दुर्योधनेन सौहृदेन सख्येन सहैव जहीहि त्यज । धर्मतनूज धर्मराज मुरय प्रथम येषा तान् धर्मराजभीमार्जुननकुलसहदेवान् सहोदरान् सोदरान् । घर्मादनपेतया धर्म्यया । मे मदीयया वाण्या वाचा सह गृहाण अङ्गीकुर । मद्वाक्य युधिष्ठिरादौ सौभ्रात्र च नातिक्रमणीयमित्यर्थ । अत्र राधातनयत्वबुद्धिदुर्योधनसौहृदयोस्त्यागेन वाणीयुधिष्ठिरादिसौदर्ययो ग्राह्यत्वेन चौपम्यस्य गम्यत्वातुल्ययोगिताद्वयस्याङ्गाङ्गिभावेन सकर ॥ ७५ ॥

 यस्मा इति । अयि वत्स, यस्मैक्स्मैचन अनात्मबान्धवाय इन्द्राय प्रार्थ नाया तुल्यकाल यस्मिस्तथा याच्यासमकालमेव सहज क्कच ददातीति तथोक्त त्व साक्षात् जननादेव मातु मम सबन्धिनि सुकरतमे अत्यनायासेन कर्तु शक्ये । नतु कवचदन इवोत्कर्तनदु खसाध्य इति यावत् । निदेशे आज्ञाया विषये मन्दस्य भाव मौढथ मा कृथा मा कुर। ‘सुत सुतराम्’ इति पाठे निदेशकरणकवचदानयो सुकरत्वदुष्करत्वप्रतीतिदौलभ्यमिति ध्येयम् । किच यस्य चेत गुरुजनवचनस्य मातु पितुर्वा आज्ञाया अनुष्ठिते करणे विषये ।


 इति दशनकिरणव्याजान्तक्ष्चि[११००] ररक्षित [११०१] तदश स्तन्य प्रकाशयन्त्या इव कुन्त्या निदेश कर्ण कर्णदेशा[११०२] ध्वनीन विधाय साकमञ्जलिना समुचितमुत्तर [११०३] बबन्ध ॥ ,

भोजा[११०४]न्ववायो भुवने प्रतीत कुल कुरूणा च तथा दूयेऽस्मिन् ।
तवाम्ब [११०५]जन्मोपयमश्च चेद्वौ त्वय्येव जागर्त्युचितज्ञभाव ॥ ७७ ॥

अङ्गदूय मे परिपालनीयमङ्ग त्वया शूरजनाग्रगेण ।
एव वशे मे विततान यस्तत्तस्यापि सख्य किमुपेक्षणीयम् [११०६] ॥ ७८ ॥


पराङ्चुखस्य भाव पाराङ्धुरय औदासीन्य विधत्ते वहति । तस्मै पुत्राय इद अखिल जगत् धिगिति शब्दस्य अभिधेय अर्थम् । निन्दामिति भाव । सुखेन । विशृङ्खलमित्यर्थ । दोग्धि करोति । ‘विड् निर्भत्सननिन्दयो' इत्यमर । यत्त्वत्र श्लोके ‘यस्मैकस्मैचन पुरुषायेन्द्रायेत्यथ ’ इति व्याख्याय ‘इन्द्रस्य स्वभ र्तृत्वात् नाम्ना तद्रहणमयुक्तमिति तथा व्यपदेश’ इति नृसिह , तन्न । अयि वत्स, रवेरनुग्रहादिति मूलासागत्यापत्ते । रवेरपि तद्वद्भर्तृत्वेन तस्यापि तत्र नाम्ना व्यपदेशानौचित्यादिति ॥ ७६ ॥

 इतीति । इत्युक्तप्रकार अन्त स्तनगर्भे चिराद्रक्षित निहित तस्य कर्णस्य अश भाग स्तन्य स्तनक्षीर दशनकिरणाना दन्तकान्तीना व्याजात् प्रकाशं यन्स्या बहि प्रसारयन्त्या इव स्थिताया इत्युत्प्रेक्षा सापह्नवा च । कुन्त्या निदेश आज्ञावाक्य कर्ण कर्णदेशे श्रोत्रमार्गे अध्वनीन गच्छन्त विधाय । तच्छुत्वेत्यर्थ । समुचित उभयलोकक्ष्लध्य उत्तर प्रतिवाक्य अञ्जलिना साक बबन्व । साञ्जलिबन्ध प्रत्युक्त्त्वानित्यर्थ ॥

 भोजेति । भोजाना यादवविशेषाणा अन्ववायो वश भुबने प्रतीत प्रख्यात । कुरूणा कुल च तथा भुवने प्रतीतम् । हे अम्ब मात , अस्मिन् द्वये भोजवशे कुरुवशे च क्रमेण तव जन्म उत्पत्ति उपयभ विवाहश्च द्वौ चेत् अभूता यदि, तर्हि त्वयि उचितज्ञ कर्तव्यकोविद भाव अभिप्राय जागर्ति स्फुरत्येव । गुणानामुभयवशशुद्धिनियतत्वादिति भाव । अत एवानुमानालकार । उभयचशशुध्द्या उचितज्ञत्वानुमानादिति ॥ ७७ ॥

 तत किमत आह--अङ्गद्वयमिति । अङ्ग हे कर्ण, शूरजनाना अग्रगेण अग्रेसरेण त्वया मे मदीय अङ्गम्य शरीरस्य अङ्गदेशस्य च द्वय परिपालनीयम् । भुजाभ्यामिति भाव । एव उक्तप्रकारेण । उक्त्वेति शेष । य दुर्योधन तत् अङ्गद्वय मे मम वशे अधीनत्वे विततान अकरोत् । मदघीन कृतवानित्यर्थ ।


परस्य लोकस्य गतेर्हि विन्न कृतज्ञतामेव वदन्ति सन्त ।
सा न स्पृशेन्मामधुना यथा त्व तथाप्रसादम्ब कृपार्द्रचि [११०७]त्ता ॥ ७९॥
 इतिवादिनो रविसुतस्य मानस
  न निवर्तते स्म धृतराष्ट्रनन्दनात् ।
 अपि तु स्वकीयतनयान्महाभुजा-
  दनवाप्य काममियमेव केवळम् ॥ ८० ॥

इत्यनन्तभट्टक्कविकृतौ चम्पूभारतेऽष्टम स्तबक ।


तस्य तादृगुपकारिण तथा विश्वस्तस्य दुर्योधनस्यापि सरय उपेक्षणीय कि अनादरणीय किम् । नानादरणीयमेवेत्यर्थ । अत्र तादृगुपकारबिश्वासवाक्यार्थन दुयोधनसरयानुपेक्षणीयसमर्थनात्काव्यलिङ्गभेद ।‘कथं खया’ इति पाठोऽनुप्रासभझाडुपेक्ष्य ॥ ७८ ॥

 परस्येति । सन्त परस्य लोकस्य स्खर्गकस्य गते कृतमुपकार हन्ति विस्मरतीति कृतघ्न तस्य भाव कृतघ्नतामेव । नान्यमित्यथ । विन्न वदन्ति । सा कृतघ्नता अधुना मा यथा येन प्रकारेण न स्पृशेत् न प्राप्नुयात्, तथा हे अम्ब, कृपार्द्रचित्ता दयार्द्रचित्ता सती त्व पसीद अनुगृहाण । ‘कृतघ्ने नास्ति निष्कृति ’ इति तस्या प्रायश्चित्तस्याप्यस्मरणादिति भाव ॥ ७९ ॥

 इतीति । इतिवादिन उक्तप्रकारेण वदत रवे सुतस्य कर्णस्य मानस मन धृतराष्ट्रस्य नन्दनात् दुर्योवनात् न निवर्तते स्म न न्यवर्ति।अपितु कितु । इय कुन्त्येव काम मनोरथ केवलम् । ईषदपीत्यर्थ । अनवाप्य अलब्ध्वा महान् भुज तद्वल यस्य तस्मात् खकीयात् तनयात् कर्णात् निवर्तते स्म । मङ्जुभाषिणी ॥ ८० ॥

इति श्रीसदाशिवपदारविन्दवन्दनकन्दलितानन्दसान्द्रस्य कुरविकुलचन्द्रस्य रामकवीन्द्रस्य कृतौ चम्पूभारतव्याख्याने लास्यारयाने अष्टमस्तबकविवरण समाप्तमासीत् ॥


अथोभये ते कुरवो रणाय स्वनामधेयो[११०८]पपदप्रसिद्धम् ।
क्षेत्र व्यगाहन्त निरुद्धापार्क्ष्वा शताङ्गमातङ्गतुरगयोधै ॥ १ ॥

 हिरण्वत्यास्तत्र त्रिदशविनुतायास्त[११०९]टरुह-
  प्रसूनाना गन्धैर्मथितपथिखेदा । करिघटा ।
 कृतज्ञत्वेनेव[१११०] स्वयमपि [११११]मदाम्भोधिलहरी-
  र्ददुस्तस्यै बह्वीरतिसुरभिगन्धी प्रियसखी ॥ २ ॥

 अस्मज्जन्मभुव समानभिधया सप्तापि सिन्धूनिमा-
  न्नेष्यामो वयमद्य शोषणमिति स्फीताभ्यसूया इव।
 सेनासैन्धवपङ्क्त्त्य खुरपुटैर्दीप्रभुरप्रोपमै-
  भूमेरुद्विखितात्त[१११२]लादजनयन्भूयो रजोमण्डलम् ॥ ३॥


 अथेति । अथ कुन्तीगमनानन्तर ते प्रसिद्ध उभये कुरव पाण्डवा धार्तराष्ट्राश्च रणाय युद्ध कतुमिति ‘क्रियार्थं-' इत्यादिना चतुर्थी । शताङ्गै रथे , मातीङ्गै गजै , तुरगै अक्ष्वै , योधै पदातिभिश्च निरुद्धा सगता पार्श्वाक्ष्चत्वारो येषा तै तथोक्ता सन्त । स्वेषा नामधेय कुरुरिति सज्ञाशब्द उपपद पूर्वपद यस्य तेन कुरुक्षेत्रमिति शब्देन प्रसिद्ध व्यवहृत क्षेत्र व्यगाहन्त विविशु ॥ १ ॥

 हिरण्वत्या इति । तत्र कुरुक्षेत्रे करिण गजाना घटा बृन्दानि । त्रिदशै देवै विनुताया स्तुताया हिरण्वत्या नाम नद्या तत्रत्याया तटरुहणा तीरट्टक्षाणा यानि प्रसूनानि कुसुमानि तेषा गन्धै मथित निरस्त पथिखेद मार्गश्रम येषा तयोक्ता सन्त । कृतज्ञत्वेन उपकारस्मरणेन हेतुना स्वयमपि अतिसुरभि भृश प्राणतर्पण गन्ध यासा ता अतिसुरभिगन्धी बी अनेझ मदाम्भोधे दानजलसमुद्रस्य लहरी । लक्षणया प्रवाहान् । तस्यै हिरण्वत्यै । प्रियसखी ददुरिवेत्युत्प्रेक्षा । शिखरिणीवृत्तम् ॥ २ ॥

 अस्मदिति । नत्र सिन्घौ नाम देशे भवा सैन्धवा अश्व सेनासु तेषा पङ्क्त्तय अस्माक जन्मभुव सिन्धुदेशस्य अभिधया नाम्ना समास्तुल्यान् । तन्नामकानिति यावत् । इमान्’ सप्तसिन्धून् समुद्रानपि वयमद्य शोषण नेष्याम प्राप यिष्याम । इत्युक्तप्रकारेण स्फीता प्रवृद्धा अभ्यसूया कोप यासा तथोक्त्ता इवे त्युत्प्रेक्षा । दीमा उजवळा । क्षुर्नै खङ्गभेदै उपमा सादृश्य येषा तै खुरा पुढानीव तै उल्लिखितात् निष्पिष्टात् भूमेस्तलात् भूय बहुल रजोमण्डला धूलिम-


तेषा कुरूणा कलहोदयात्प्राग्रथस्वनाना करिबृहितानाम् ।
आशामशेषा स्ववशे विधातुमन्योन्यमासीत्कलहो महीयान् ॥४॥
 नाम्ना वो[१११३] नवमग्रहस्य समता सोढास्महे हे[१११४]वय
  तुङ्गत्व न सहेमहीत्यतिरुषा सनाह[१११५]धुर्या इव ।
 उद्दण्डा अपि केतवो ददृशिरे स्थान ग्रहाणामति-
  क्रम्य स्यन्दनवृन्दमौलिकलिता मध्येनभस्वत्प[१११६]थम् ॥ ५ ॥
महीपतीना पटमन्दिराणि मार्ग सुराणा लिलिहु शिरोमि ।
वय हि दूष्याणि शुचीभमेत्यभ्रापगावारिमिमङ्क्षयेव ॥ ६ ॥


ण्डल अजनयन् उत्थापयन्ति स्म । 'देशे नदविशेषेऽब्धौ सिन्धुर्ना सरिति स्त्रियाम्' इति विश्व । शादूलविक्रीडित वृत्तम् ॥ ३ ॥

 तेषामिति । तेषा कुरूणा पाण्डवधार्तराष्ट्राणा क्लहस्य युद्धस्य उदयात् प्राक् आरम्भात् पूर्वमेव अशेषा आशा दिश स्ववशे विधातु कर्तु रथस्वनाना करिबृहिताना च अन्योन्य महीयान् दुनिवार कलह आसीत् । रथनेमिघण्टागजकोलाहलै दशापि दिश सान्द्रा बभूवुरित्यर्थ । अत्र दिक्परिपालनव्यापनयो क्ष्लेषभित्तिकाभेदाध्यवसायमूलातिशयोक्त्या ‘ससर्गजा दोषगुणा भवन्ति’ इति प्रसिद्धतादृशकौरवसबन्धित्वकृताशेषराज्याभिलाषहेतुककलहोत्प्रेक्षाप्रतीतेर लकारेणालकारध्वनि ॥ ४ ॥

 नाम्नेति । अपि किचेत्यर्थ । स्यन्दनवृन्दस्य रथकटथाया मौलिषु अग्रेषु कलिता घटिता ऊर्ध्वा दण्डा येषा ते उहण्डा केतव ध्वजा । हे ग्रहा सूर्योदय , वय व युष्माक मध्ये नवमस्य ग्रहस्य केतो समता साम्य नाम्ना नाममात्रेण सोढास्महे क्षन्तास्महे । सहे कर्तरि लुट्। तुङ्गत्व औन्नत्य तु न सहेमहि न क्षमेमहि । व इत्यत्रापि योज्यम् । सहे कर्तरि लिड्। इत्युक्तप्रकारथा अतिरूषा भृश क्रोधेन सनाहधुर्या रणोघुक्त्ता इवेत्युत्प्रेक्षा । ग्रहाणा नवानामपि स्थान मण्डल अतिक्रम्य मध्येनभस्वत्पय महावायुपथस्य मध्ये ददृशिरे दृष्टा । लोकैरिति शेष । उक्त्तो त्प्रेक्षानुप्राणितातिशयोक्त्यलकार असबन्धे सबन्धरूप ॥ ५ ॥

 महीपतीनामिति । महीपतीना उभयेषा राज्ञा पटमयानि मन्दिराणि (कतृणि) हि यस्मात्कारणात् वय दूष्याणि अपरिशुद्धानि । दूष्येति सज्ञावन्ति च । ‘दूष्याद्य वन्नवेश्मनि’ इत्यमर । तस्मात् कारणाच्छुचीभवेम परिशुद्धानि भवेम । इत्यालोच्येति शेष । अभ्रापगाया आकाशगङ्गाया वारिणि मिमक्ष्हया मड्क्त्तु स्नातु इच्छयेवेत्युत्प्रेक्षा । शिरोभि शिखरभागै सुराणा मार्ग आकाश लिलिहु पस्पृशु । अत्राप्यतिशयोक्त्ति पूर्ववत् ॥ ६ ॥


 तत क्षणादेव विशालविनिर्मितवीथीसहस्रवि[१११७]राजमानविशङ्कटविपेणि[१११८]विविधपण्याहरणविमर्दसहक्रयिकलोक विटकुलानुसार्य[१११९]माणवारविलासिनीजन[११२०]निबिडवेशवाट विशिखाकृपाणकुन्तशक्ति[११२१]प्रमुखविविधायुधसरकारपरवशयोधसबाब तत्कुरै[११२२]क्षेत्र कुरूनगरमित्र बभूव ॥

 तत्र ताब[११२३]डु श।सन्नाग्रज ‘भगवन्, अस्मिन्नुपतस्थुषि वीरभुजविनोदकाले त्व बि[११२४]वाहविमुखोऽपि मदर्थ प्रत्यर्थपार्थिवान्नि[११२५]हन्तु पृतनाधिपत्यलक्ष्मी[११२६]मुपयच्छस्व’ इति चिज्ञा[११२७]प्य पितामहस्य च[११२८]रणयो प्रणिपपात ।


 तत इति । तत राझा पटमन्दिरनिर्माणानन्तर क्षणादेव विशाल विस्तीर्ण यथातथा विनिर्मिताना रचिताना वीथीना सहस्त्रै विराजमान विशङ्कटासु विशालासु विपणिषु पण्यवीथिषु विविधाना नानाजातीयना पण्याना । ऋग्य वस्तूना आहरणे ग्रहणसमये विदै समर्द सहन्त इति तत्सहा क्रयिकलोका क्त्रेतृजना यस्मिन् तथोक्तम् । विटाना कुलेन भृन्देन अनुसार्यमाणेन वारवि लासिनीजनेन वेश्याजनेन निबिडा सान्द्रा बेशवाटा वेश्यानिवासा यस्मि स्तथोक्तम् । विशिखा बाणा , कृपाणा खङ्गा , कुन्ता , शक्तय प्रमुखा येषा तादृशाना विविधाना आयुधाना सस्फारे शाणोत्तेजनाया परवशै प्रवणै योवै सबाध सकट तत् प्रसिद्ध कुरुक्षेत्र कुस्नगरस्य हास्तिनपुरस्य मित्र तुल्य बभूव । उपमालकार ।

 तत्रेति । तत्र तावत् तदानीमेव दु श सनस्याग्रजो दुर्योधन हे भगवन् भीष्म, त्व विवाहे विषये विमुख पराङ्युखोऽपि उपतस्थुषि सन्निहिते अस्मिन् वीराणा भुजविनोदकाले बाहुपराक्रमक्रीडासमये मदर्थं मम कृते प्रत्यर्थिन पार्थिवान् शत्रुराजान् प्रत्यर्थिना पाण्डवाना सबन्विन पार्थिवान् सह्यायान्। नतु प्रत्यथिन इति च । निहन्तु पृतनाना सेनाना आधिपत्यलक्ष्मी उपयच्छख परिगृहीष्व इति विज्ञाष्य पितामहस्य भीष्मस्य चरणयो प्रणिपपात नमस्कृतवान् ।


दुर्योधने विशति मौलिभुवा पद स्व
 शूराग्रणीष्वचरम सुरसिन्धुसूनु ।
अर्धक्षणा[११२९]दरिभटास्त्रिदिवे विधास्य-
 न्नध्यक्षतापदमविक्षनीकिनीनाम् ॥ ७ ॥
पार्था[११३०]श्च ते द्रुपदनन्दनमाशु चक्रु
 सेनान्यमुद्धतविरोधिवनानि दुखुम् ।
वह्नि प्रतापकपटान्निजजन्मकाले
 सक्त भुजे वहति य सतत ज्वलन्तम् ॥ ८ ॥

अर्थ सदसि महारथपरिगणनकथायामर्धरथोऽयमिति जा[११३१]ह्वीयेन निह्रुतपौरुषतया रोषचिह्नितवदनरोचिरह्मापति[११३२]सूनुरह्राय [११३३]तस्यावधिमेव निजहेतेरधारणस्यापि साधारण प्रतिजज्ञे ॥


 दुर्योधन इति । शूराणा अग्रणीषु श्रेष्ठेषु अचरम प्रथम सुरसिन्वो सूनु गाड्गेय भीष्म दुर्योधने मौलिभुवा किरीटप्रदेशेन स्व खीय पद चरण विशति नमस्कुर्वंति सति । अर्धक्षणात् क्षणार्धात् अरिभटान् त्रिदिवे खर्गे विधस्यन् करिष्यन् सन् । हनिष्यन्निति यावत् । अनीकिनीना सेनाना अध्यक्षतापद प्रमुत्व स्थान अविक्षत् प्रविष्टवान् । सेनाधिपतिर्बभूवेत्यर्थ । विशे कर्तरि लुड् ॥ ७॥

 पार्था इति । ते पार्थाश्च द्रुपदस्य नन्दन वृष्टघुम्न । सेना नयतेि गमय तीति सेनानी त सेनान्य सेनाधिपति आशु चक्त्रु य धृष्टधुम्न निजस्य जन्मन वह्निकुण्डादुत्पत्ते काले सक्त ज्वलन्त वहि अग्नि उद्धतान् गर्वितान् विरोधिन शत्रूनिव वनानि दग्धु प्रतापस्य कपटात् व्याजात् भुजे सतत वहति त द्रुपदनन्दनमिति योज्यम् । अपह्नवालकार ॥ ८ ॥

 अथेति । अथ सदसि सभायाम् ‘आत्मान सारथि चाश्वान्रक्षन्युध्यति यो नर । स महारथसज्ञ स्यात्’ इत्युक्तलक्षणलक्षिताना महारथाना परिगणनकथया सख्याप्रसङ्गे । अय कर्ण जामदग्न्यब्राह्मणशापादिपराभूत अर्घरथ इत्युकप्रकार जाह्नवीयेन भीष्मेण निह्रुत तिरस्कृत पौरुष शौर्य यस्य तस्य भाव तत्ता तया हेतुना रोषशब्देन तत्कार्यं लक्ष्यते । भ्रुकुट्यादिना चिह्नित वदनस्य रोचि तेज यस्य तथोक्त अह्नापत्यु सूर्यस्य सूनु कर्ण तस्य भीष्मस्य अवधिं मरणमेव निजाया हेते आयुवस्य सबन्धिन अधारणस्य अप्रहणस्यापि साधारण तुल्य अह्याय सत्वर प्रतिजज्ञे । भीष्म निधनपर्यन्त आयुध न धारयामीति प्रतिज्ञातवानित्यर्थ । ‘अवसाने परिच्छेदे साम्नि काले बलेऽवधि इति रत्नमालायाम् ॥


 इदं प्रतिपद्य विद्यमान मानधन सुयोधनम् ’वत्स, मा भैषी ।

महाभुजानापि रिपुमहीभुज सख्ये खरतरविशिखमुखेन खा[११३४]दयामि’ इति पितामह [११३५]आश्वासयामास ॥

 तदनन्तरम् ।

 अभ्रापगातनयपार्षतनन्दनाभ्या-
  [११३६]मग्नावनौ तिलकिता धृतकार्मुकाभ्याम् ।
 उच्चावच निजनिज बिरुद वहन्तो
  युद्धाय तस्थुरुभयेऽपि कुरुप्रवीरा ॥ ९ ॥

 जेता पुरामिव त[११३७]दा जलजातयोनि
  [११३८]पत्रीश्वराग्रजमिव प्रथमो ग्रहाणाम् ।
 अग्रे वि[११३९]धाय यदुनायकमात्ततोत्र
  पार्थो रथी प्रधनभूमिमवाप वीर ॥ १० ॥


 इदमिति । इद कर्णप्रतिज्ञात प्रतिपद्य श्रुत्वा खिद्यमान दु खायमान मान धन सुयोधन हे वत्स दुर्योधन, मा भैषी कर्णदुष्प्रतिज्ञात भय माप्रुहि । महान् श्लाध्य भुज बाहुपराक्रम येषा तान् रिपुमहीभुज शत्रुभूपान् सख्ये युद्धे खरतरेण अतितीक्ष्णेन विशिखमुखेन बाणेनैव वक्त्रेण खादयामि । भिन्द्यामित्यर्थ । इत्युक्तप्रकारेण पितामह आश्वासयामास आश्वासितवान् ॥

 तदनन्तरमित्युत्तरेणान्वय ॥ ९ ॥

 अभ्रेति । घृत कार्मुक धनु याभ्या ताभ्याम् । अभ्रापगातनयेन भीष्मेण पार्षतनन्दनेन धृष्टघुम्नेन द्वाभ्यामग्रावनौ अप्रदेशौ । तिलकिता अलकृता । उभयेऽपि कुरुप्रवीरा कौरवा पाण्डवाश्च उच्चावच अनेकविव निजनिज प्रत्येक स्वीय बिरुद जयचिह्न छत्रचामरादि वहन्त सन्त युद्धय युद्ध कर्तु तस्थु । सन्नद्धा बभूवुरित्यर्थ ॥

 जेतेति । तदा युद्धारम्भकाले वीर पार्थ अर्जुन आत गृहीत तोत्र अश्वताडन येन तथोक्त्त यदुनायक श्रीकृष्ण पुरा त्रिपुराणा जेता जयी सदाशिव जलजातयोनि ब्रह्माणमिव । प्रहाणा प्रथम सूर्य पत्रीश्वरस्य गरुडस्य अग्रज अनूरु अग्रे रथस्य अग्रभागे विधाय कृत्वा । सारथीकृत्येति यावत् । रथी रथमारूढ सन् प्रधनभूमि युद्धभूभि अवाप प्राप्तवान् । उपमादूयससृष्टि ॥ १० ॥


 सचिन्त्य भीष्ममुखबन्धुजनस्य हानि
  सतापिन समरसीमनि शक्रसूनो ।
 बाष्पाम्बु चक्षुरधिक श्वसित मुखेन्दु-
  र्धैर्यं मन करतल च मुमोच चापम् ॥ ११ ॥

बलारिसूनु वसुदेवसूनुर्वचोभिराश्वास्य चिरेण तैस्तै ।
असासहि पावकजाठराग्नेरग्राहयत्तत्र पुन शरासम् ॥ १२ ॥

 देवव्रतस्य जयकेतनचिहताल-
  श्यामप्रभावलिरदृश्यत दूरदीर्घा ।
 सख्या सुतस्य समरे भुजवीर्यलक्ष्मीं
  सवीक्षितु रविसुतेव नभोऽधिरूढा ॥ १३ ॥

युद्धारम्भभटार्भीटीपिशुनतामुद्द।मयन्तस्तदा
 नि साणादिभजैत्रवाद्यनिनदा निर्धृतशब्दान्तरा ।
श्रान्ति क्षेप्तु००मिवातिदूरपदवीसपादितामम्बुधे-
 र्वेलाशैलमहागुहासु विविशुर्याप्तासु धाराधरौ ॥ १४ ॥


 सचिन्त्येति । समरसीमनि युद्धदेशे भीष्मो मुख आदि यस्य तस्य बन्धुजनस्य हानि क्षय सचिन्त्य आलोच्य सतापिन खिद्यत शक्रसृनो अजुनम्य चक्षु नेत्र अधिक बाष्पाम्बु मुमोच । मुखमिन्दुरिव सुखेन्दु अधिक श्वसित मुमोच । मन अधिक धैर्य मुमोच करतल च अधिक चाप मुमोच । आधिक्यमेकत्र द्वये बहुत्व अन्यत्र क्ष्रैष्टयमिति विवेक । शकसूनोरिति चतुष्वैपि योज्यम् । अत्रानेकक्रियायौगपद्यात् समुच्चय ॥ ११ ॥

 बलेति । तत्र तदानी वसुदेवसूनु श्रीकृष्ण तैस्तैरत्माध्वनीनै वचोभि गीतावाक्यै विरेणाश्वस्य निर्दु खीकृत्य पावकस्य अग्ने सबन्धिन जाठराग्ने औदरानलस्य असासहि असोढारम्। खाण्डववनसमर्पणेनाग्निश्रुनिवारकमित्यर्थ । कृद्योगात्कर्मणि षष्ठी । शरास गाण्डीव पुन अग्राहयत् ग्राहयति स्म ॥ १२ ॥

 देवव्रतेति । देवव्रतस्य भीष्मस्य सबन्धिनी दूरदीर्घा अत्यायता जयकेतने विजयध्वजे चिह्नतालस्य तलाकृतिलाञ्छनस्य श्यामप्रभाण नीलकान्तीता आवलि परम्परा समरे युद्धे सरया गङ्गाया सुतस्य भीष्मस्य भुजवीर्यलक्ष्मी सम्यग्वीक्षितु नभ आकाश अधिरूढा रविसुता यमुनेव अदृश्यत । लोकैरिति शेषः । उत्प्रेक्षा ॥ १३ ॥

 युद्धेति । तदा युद्धारम्भे भटाना आर्भट्या शौर्यव्यापारस्य पिशुनता सूचन उद्दामयन्त प्रकटयन्त निर्घृतानि अन्तर्धापितानि शब्दान्तराणि अन्यशब्दा


 सग्रामदुन्दुभिरवन्नश्रवणेन देवा
  सर्वे [११४०]कव्वाटघटितानि गृहाणि कृत्वा ।
 आदाय नन्दनवनादभिषेक्तुमाजौ
  वीरान्प्रसूनचयमष्यभजन्विहाय ॥ १५ ॥

सति घर्मजले मिथो विमर्दात्सकल तदूपनेतुमङ्गकेभ्य ।
मघवत्प्रमुखा सुरा बभूवुर्मरुतोऽपि स्वयमात्ततालवृन्ता ॥ १६ ॥

तत्र ताव[११४१]रिगणौ शनै शनै सगतौ सधनुषौ सर्गजितौ ।
पूर्वपश्चिममरुत्प्रचोदितौ पुष्करे [११४२]घनघनाघनाविव ॥ १७ ॥

धावत्स्यन्दनकेतनाशुकमरुदूयाधूतमन्दाकिनी
 बिन्दूनामपि सैन्य [११४३]कुजरघटाशुण्डासमुत्थायिनाम् ।


यैस्ते । नि साण जयभेरी आदिम येषा तेषा जैत्राणा जयावहना वाद्याना निनदा शब्दा । अतिदूरया पदव्या । मार्गगमनेनेत्यर्थ । सपादिता लब्बा श्रन्ति श्रम क्षेप्तु परिहर्तुमिवेत्युत्प्रेक्षा । बाराधरै मेधै व्याप्तसु । अम्बुधे समुद्रस्य बेलाशैल चक्रवालाद्रि तस्य महतीषु गुहासु विविशु विशन्ति स्म । उक्त्तोत्प्रेक्षानुप्राणिता असबन्धे सबन्धरूपातिशयोक्ति । शार्दूलविक्रीडितम् ॥ १४ ॥

 सग्रामेति । देवा इन्द्रादय सर्वे सग्रामे इदुभीना भेरीणा रवश्रवणेन भाकाराकर्णनेन गृहाणि कवाटैर्घटितानि कृत्वा आजौ युद्धे वीरान् पौरुषशालिन अभिषेक्तु नन्दनवनात् प्रसूनाना पुष्पाणा चय राशिं अपि आदाय गृहीत्वा विहाय आकाश अभजन् प्रापु ॥ १५ ॥

 सतीति । मधवान् इन्द्र प्रमुख येषा ते सुरा । मिथ अन्योन्य विम र्दाद्धेतो धर्मजले स्वेदे सति । तत् घर्मनल अङ्गकेभ्य अवयवेभ्य सक्ल नि शेष यथा तथा । व्यपनेतु क्षेप्तु स्वय मरुतो वायवोऽपि देवाक्ष्चेति च । आत्तानि गृहीतानि तालवृन्तानि व्यजनानि यैस्तथोक्ता बभूवु । यद्यपि पार्थिवानामेव स्वेद न तैजसाना तथापि प्रौढोक्त्या तथोक्तमिति ध्येयम्। औपच्छन्दसिकम् ॥ १६ ॥

 तत्रेति । तत्र तदानी कुरुक्षेत्रे वा । सधनुपौ सचापौ सेन्द्रचापौ च । सगर्जितैौ ससिंहनादौ सस्तनितौ च । तावुभयेऽरिगणौ शत्रुसघौ । पुष्करे आकाशे। पूर्वमरुता प्राग्वायुना पश्चिममरुता प्रत्यग्वायुना च प्रचोदितैौ प्रेरितौ घनौ महान्तौ घनाघनौ मेघाविव शनै शनै सगतौ बभूवतु । उपमालकार । रथोद्धता ॥ १७ ।।

 अथ नवभिर्गजयुद्धमाह-धावदिति । स्फुटया शरदि ताराणा नक्षत्राणा


दानाम्भ पृषतामपि स्फुटशरत्ताराक्रुतिस्पर्धिना
 भेद ग्राहयितु शशाक गगने भृङ्गानुरोघक्रम ॥ १८ ॥
आसाद्य द्विपमाहवे रदपथेनारुह्य तीक्ष्णासिना
 यन्तार विनिपात्य र्स ट्टहसित स्कन्धे विधाय स्थितिम् ।
कुम्भास्फालनकारिण रिपुभट दृष्ट्वा दिवौक स्त्रिया
 कस्याश्चित्कुचकुम्भयो कठिनयो कण्डूरखण्डाभवत् ॥ १९॥
 कश्चिद्गज प्रतिभटेन करे विलूने-
  


आकृत्या स्वरूपेण सह स्पर्धन्त इति स्पधिनाम् । उभयत्र विशेषणम् । धावता वेगेन गच्छता स्यन्दनाना रथाना केतनेषु ध्वजेषु अशुकाना पताकापटाना सबन्धिभि मरुद्भि व्याधूताना च्याविताना मन्दाकिन्या आकाशगङ्गाया बिन्दूनामपि । सेनासु समवेताना सैन्याना कुजरघटाना गजबृन्दाना शुण्डाभि करै समुत्थाप्यन्त इति समुत्थायिना दानाम्भस मदजलस्य पृपता बिन्दूनामपि उभयेषा भेद मिथो वैलक्षण्य ग्राहयितु ज्ञापयितुम् . जनानामिति शेष । गगने भृङ्गाणा अनुरोधकम अनुसरणरीति । शशाक समर्थोऽभूत् । अत्र तादृशोभयबिन्दूना भृडगानुस मिथो वैलक्षण्यस्फूर्या विशेषकालकार । ‘वैशेष्यस्ऋतौं विशेषक’ इति तत्क्षणात् । स च ‘ताराकृतिस्पर्धिनाम्' इत्युपमयोज्जीवित इति द्वयोरङ्गाङ्गिभावेन सकर । शार्दूलवि क्रीडितम् ॥ १८ ॥

 आसाघेति । आहवे युद्धे द्विप शत्रुगज आसाद्य सनिधाय रदपथेन दन्तमार्गेण आरुह्य तीक्ष्णेन असिना खड्गेन यन्तार गजारूढ विनिपात्य पातयित्वा । अङ्हसितेन सहित यथा तथा साट्टहसितम् । स्कन्धे गजस्य स्थितिं विधाय । कुम्भयो आस्फालन सशब्द करस्पर्श करोतीति कारिण रिपुभट शत्रुयोध दृष्ट्वा कस्याश्चिद्दिवौक स्रिया देवाङ्गनाया सबन्विनो कठिनयो कुचौ कुम्भाविव तयो अखण्डा अविच्छिन्ना कण्डू खर्जू अभवत् । अय चेदेतयोरुचितोऽस्य कर इति हृष्यत्कुचाभूदित्यर्थ । अत्र तादृग्वीरदर्शनस्य विशेषणगत्या कुचकण्डूदयहेतुत्वात्पदार्थहेतुकस्य काव्यलिङ्गस्य कंडवदबन्धेऽपि सन्धोक्तिरूपातिशयोश्च द्वयोरङ्गिभावेन सकर । वृत्त पूर्वोक्त्तमेव ॥ १९ ॥

 कश्चिदिति । कश्चिद्रज प्रतिभटेन रिपुवीरेण (कर्त्रा ) असिना ( करणेन ) करे शुण्डाया आमूळभाग मूलदेशपर्यन्त विलूने विच्छिन्ने सत्यपि


 क्षिप्र प्रगृह्य रदनेन निषादिहस्ता-
  [११४४]त्स्रस्त सृणि पुनरदाकुशलाय तस्मै ॥ २० ॥
भसितलेपसितौ करिणावुभौ युधि परस्परदत्तरदौ मुखे ।
हरिरवेक्ष्य वहत्यपि वाहने सरभस निदधे सकला दृश ॥ २१ ॥
 भि[११४५]न्नैकदन्तमुसल प्रतिदन्तिधाता-
  त्कुम्भाग्रलक्ष्यकुटेलाड्कुचन्द्ररेख ।
 कश्चिद्भिरीशसमता कलयन्करीन्द्र
  सारूप्यभागिव गणाधिपतेर्विरेजे ॥ २२॥
कश्चिन्निर्गत्य वेगारिनृपतिबलेऽपातयत्स्वामिन स्व
 तत्र स्फन्थाधिरूढ विमतमपि तथाधत्त नीत्वा स्वसैन्यम्।


नमित नमीकृत अग्रकाय पूर्बकाय येन तथोक्त्त सन् निषादिन यन्तु हस्तात् स्रस्त गलित सृणि अङ्कुश रदनेन दन्तेन क्षिप्र सत्वर प्रगृह्य आदाय कुशलाय क्षेमार्थम् । उभयोरपीति शेष । तस्मै निषादिने पुनरदात् दत्तवान् । अत्राङ्कुशादासबन्धेऽपि सबन्धोक्तिरूपातिशयोक्ति ॥ २० ॥

 भसितेति । भसितस्य भस्मन लेपेन सितौ क्ष्वेतीभूतौ युधि युद्धे सुखे परस्पर दत्तौ रदौ दन्तौ याभ्या तौ उभौ करिणौ गजौ अवेक्ष्य । चतुर्दन्तत्वेन तन्सुखमवलोकयेत्यर्थ । हरि इन्द्र वहति आत्मनाधिरूढेऽपि वाहने ऐरावते सकला दृश नेत्रसहस्त्र सरभस यथा तथा निदधे निहितवान् । ममैरावत कि तत्र गत इति भ्रान्त भयात् किमत्र नास्तीति सत्वर तमालोकितवानित्यर्थं । भ्रान्तिमदलकार ॥ २१ ॥

 भिन्नेति । प्रतिदन्तिन शत्रुगजस्य घातात् दन्तप्रहारात् भिन्न भग्न एक दन्तो मुसलमिव यस्य स कुम्भस्य अग्रे उपरिभागे लक्ष्या दृश्या कुटिला चक्रा अङ्कुशेन चन्द्ररेखा तदाकृतिव्रण अङ्कुश चन्द्ररेखेवेति वा यस्य स कश्चित्करीन्द्र गजश्रेष्ठ गिरिशस्य शभ्गे पर्वतेन्द्रस्य समता सारूप्य औन्नत्येन तौख्य च कलयन् स्वीकरिष्यमाण सन्। वर्तमानसामीप्ये वर्तमान निर्देश । गणाधिपते विघ्रराजस्य सारूप्य भजतीति भागिवेत्युत्प्रेक्षा । विरेजे । आदा विति शेष । क्रममुक्तिरत्र विवक्षितेति ध्येयम् । उक्त्तोत्प्रेक्षाक्ष्लेषोपमोज्जीवितेति तयोस्तस्याक्ष्चङ्गाङ्गिभावेन सकर ॥ २२ ॥

 कश्चिदिति । दु साध्य असाध्य रोब निवारण यस्य तथोक्त । अत एव कश्चित्करिकलभ तरुणगज दूर यथा तथा धूत परास्त अङ्कुश येन तथोक्त सन् । युधि वेगात् निर्गत्य । स्वबलादिति भाव , अरिनृपतिबले शत्रुसैन्ये स्व खीय स्वामिना यन्तार यत्र अपातयत् पातितवान् । तत्र अरिनृ


 इत्थ दु साधरोधो युधि करिकलभो दूरधूताङ्कुश स-
  न्विज्ञमन्य निषादिद्वयमपि विदधे[११४६] हासपात्र जनानाम् ॥२३॥
 इस्तेन हस्तमथ दन्तयुगेन दन्तौ
  कर्णौ च कर्णयुगुलेन पदे च पद्भथाम् ।
 वालेन वालमभिहत्य च वारणौ द्वौ
  तुल्याङ्गयुद्धमतिशिक्षित[११४७]मादधाताम् ॥ २४ ॥
निषादिनो दन्तिशिरस्यधोमुख निपातिताङ्गा लगुडस्य ताडनै ।
व्यथापनोदाय मदस्य सौरभ विनम्य जिघ्रन्त इवालुलोकिरे ॥ २५ ॥
 तीक्ष्णे प्रत्ययार्थभल्लैरस्यपहृतशिरसा हस्तिपाना शरीरा-
 दुत्क्रान्ता प्राणवाता करिमदपयसा सौरभीमुद्वहन्त ।


पतिबले स्कन्धे स्वीये अधिरूढम् । गजचर्यानैपुण्यसाहसादिति भाव । विमत शत्रु यन्तारमपि स्व स्वीय सैन्य नीत्वा प्रापरय । तथा उक्त्तप्रकार आधत्त चक्रे । तत्रापातयदित्यर्थ । इत्थ उक्तप्रकारेण । विज्ञ मनुते आत्मानमिति विज्ञमन्य पण्डितमन्य मूर्ख निषादिनो यत्रो द्वयमपि स्वीय परकीय च जताना । सर्वेषा हासस्य पात्र विदधे चक्रे । मदान्वो न परेषामेवाननुकूल चेष्टते । किंतु स्वेषामपीति भाच । अत्र दु साधरो वत्वादिना यन्तृपातनसमर्थनात्काव्य लिङ्गभेदद्वयेन वाक्यार्थरूपेण यन्तुद्वयपरिहाससमर्थनात् वाक्याथहेतुककव्यलिङ्गस्य असबन्धे सबन्धरूपातिशयोक्तेक्ष्चैकवावाचकानुप्रवेशसकर । स्रग्धरा ॥२३॥

 'हस्तेनेति । द्वौ वारणौ गजौ हस्तेन हस्त शुण्डया शुण्डा अभिहत्य प्रहृत्य । आदाविति शेष । अथ अनन्तरम् । इदमग्ने सर्वत्र योज्यम्। दन्तयुगेन दन्तौ दन्तयुग अभिहत्य । इदमपि तथैव योज्यम् । कर्णयुगलेन च कर्णो । पभ्धा च पदे पादौ । वालेन च वालम् । एव अत्यन्त शिक्षित तुल्य अविशेष अङ्गैर्थूद्ध आदधाता अकुस्ताम् । ‘आदधाते’ इति वर्तमानार्थकलडन्तपाठ सदर्भविरोधादुपेक्ष्य । स्वभावोक्त्ति ॥ २४ ॥

 निषादिन इति । निषादिन गजारूढा लगुडस्य प्रतिगजकरगृहीतदण्डस्य ताडनै दन्तिन गजस्य शिरसि कुम्भोपरि अधोमुख निपातितानि अङ्गानि ऊर्ध्वकाया येषा तयोक्त्ता सन्त व्यथाया दण्डताडनवेदनाया अपनोदाय चारणाय । ता अपनोदितुमिति “तुमर्थाच्च भाववचनात्’ इति चतुर्थो वा । मदस्य दानजलस्य सौरभ परिमल विनम्य प्रह्वीभूय जिघ्रन्त इवेत्युत्प्रेक्षा । आलुलोकिरे दृष्टा । जनैरिति शेष । वशस्थम् ॥ २५ ॥

 तीक्ष्णैरिति । तीक्ष्णै प्रत्यथिना शत्रुणा भल्लै बाणविशेषै अपहृतानि


 पायपाय कपोलस्थळकुचकलशस्खेदवारिप्रवाह
  चक्रु समर्दभाजा दिवि सुरसुदृशा तालवृन्तस्य कृत्यम् ॥२६॥
अश्वावुभौ तस्थतुरग्रपादावुत्क्षिप्य युद्धामिमुखीभवन्तौ ।
परस्परस्योपरिहेतिपातात्स्यसादिनौ त्रातुमिवोध्र्वकायौ ॥ २७ ॥
 [११४८]एकैव वैरिभटखङ्गवरस्य धारा
  धारासु पञ्चसु सतीष्वपि कचिद्श्वम् ।
 स्कन्धे विभिद्य तदसूनितरैर्दूरापा-
  ञ्जग्राह नाल्पमपि तत्क्षतजाम्बुलेशम् ॥ २८ ॥


छिन्नानि शिरासि तेषा तेषा हस्तिपाना गजारोहाणा शरीरात् उत्कान्ता निर्गता प्राणात्मका वाता वायव करिमदपयसा गजमदजलाना सौरभी परिमलपरम्परा उद्वहन्त सन्त । दिवि आकाशे समर्घभाजा सुरसुदृशा अप्सरसा कपोलस्थलयो कुचौ कलशाविच तयोश्च स्वेदचारीणा श्रमजलाना प्रवाह पायपाय हृत्वा हृत्वा तालनृन्तस्य व्यजनस्य कृत्य चतक्त्रु । अत्र अन्यकृत्यस्य अन्यत्रासभवेन तत्सदृशकृत्याक्षेपात् असभवद्धर्मसबन्धनिबन्धनो नि- दर्शनालकार । असबन्धे सबन्धरूपातिशयोक्तिश्चैकवाचकानुप्रवेशेन सकीर्णम् । स्रग्धरा ॥ २६ ॥

 अथ चतुर्भिरश्वयुद्ध वर्णयति--अश्वाविति । उभौ अश्वौ अग्रपादौ पूर्व पादौ उत्क्षिप्य उदृध्त्य युद्धे अभिमुखीभवन्तौ सन्तौ स्खौ स्वीयौ सादिनौ तौरगिकौ परस्परस्योपरि । शरीर इत्यथ । हेत्यो अन्योन्यायुधयो पातात् त्रातु रक्षितुम्। त पारिहर्तुमिति यावत् । ऊर्ध्व सादितिरोधानाय ऊर्ध्वीकृत काय याभ्या तथोक्ताविवेत्युत्प्रेक्षा । तस्थतु स्थितवन्तौ ॥ २७ ॥

 एकेति । वैरिभटस्य शत्रुवीरस्य य खङ्गवर खङ्गश्रेष्ठ तस्य वारा तीक्ष्णाग्र एकैव स्वय एकापि सती कचिदश्व शात्रव पञ्चसु धारासु तीक्ष्णाग्रेषु आस्कन्दितादिगतिविशेषेषु च सतीष्वपि । ‘धारानस्त्राग्राम्बुसतत्या सैन्याग्नेऽश्वगतिष्वपि’ इति वैजयन्ती । स्कन्धे ग्रीवामूलदेशे विभिद्य भित्त्वा इतरैर्दूरापा प्राप्नुमश क्याम् । पातु दुर्लभामिति यावत् । दुर्लभ आप अपा समूह येषु तानि इति वा तस्य अश्वस्य असून् प्राणान् पञ्च जग्राह गृहीतवान् । कि चातएव तस्याश्वस्य क्षतजमेवाम्बु रक्तजल तस्य लेश लव अल्प ईषदपि न जग्राह । जुथुप्सितत्वादिति तैक्ष्ण्यातिशयादिति च भाव । अत्र एकस्या घारापञ्चकवदश्वभेदवर्ण- नात्कारणासाकल्येऽपि कार्योत्पत्तिरूपो विभावनाभेद । एव लोकैकदुर्लभजलवत्प्राणग्राहिण्यो जुगुप्सितरक्त्ताम्बुत्यागस्य आनुरूप्यात्समालकारश्च। द्वयोरपि क्ष्लेषोज्जीवितयो समृष्टि २८ ॥


 समरभुवि वभासे सादिनो भूषणाना
  मरकतमणिभासा मध्यग कश्चिदश्व ।
 सकलभटविमर्दैश्चञ्चलाद्भि[११४९]न्नवाहा-
  न्निपतित इव रथ्यो नेतुरह्मा शताङ्गात् ॥ २९ ॥
 आयोधना [११५०]ङ्कणजुषामसृगापगाना-
  मावर्तगर्भ[११५१]पतिता कुणपा हयानाम् ।
 सबभ्रमुर्विहितपूर्वपाददाना
  शिक्षाविशेषमिव मण्डलचङ्क्त्तमेषु ॥ ३० ॥
धन्वी धानुष्क [११५२]मारासिभृतमान्सिमान्कुन्तिन कुन्तधारी
 चक्रास्त्र चक्रहेतिर्गदिनमपि गदापाणिरन्योन्यमेत्य ।
स्वस्वास्त्राणा प्रयोगे दृढपरिचितयो हन्तृवध्यत्वशैली-
 साधारण्ये प्रतिष्ठाम[११५३]भिविदधुरमी द्वन्द्वयोधाग्रगण्या ॥ ३१ ॥


 समरेति । सादिन तौरगिफस्य भूषणाना कटकमकुटादीना ये मरकतमणय गारुत्मतानि तेषा भासा श्यामप्रभाणा मध्य गच्छति प्राप्नोतीति मध्यग । ताभि श्यामीभूत इत्यर्थ । कश्चिदश्व सकलाना बहूना भटाना अपरावृत्यमृ- ताना विमदै निर्गमनजन्यै चञ्चलात् कम्पितात् अतएव भिन्न मुक्तबन्धन वाह रथ्य यस्य तस्मात् । अद् नेतु सूर्यस्य शताङ्गात् रथात् समरभुवि युद्ध- देशे निपतित रथ्य रथाश्व इवेत्युत्प्रेक्षा । बभासे रराज । मालिनी ॥ २९ ॥

 आयोधनेति । आयोधनाङ्गणजुषा युद्धदेशगताना असृगापगाना रक्तन दीना आवर्तगर्मेषु जलश्रममध्येषु पतिता हयाना अश्वाना कुणपा शवानि । मण्डलचङ्क्त्रमेषु च चक्राकृतिगतिविशेषेषु विषये पूर्व शिक्षाकाळे विहित अभ्यस्त विहितपूर्व शिक्षाविशेष उपाददान स्वीकुर्वाणा इवेत्युत्प्रेक्षा । सबभ्रमु भ्रमन्ति स्म ॥ ३० ॥

 अथैकेन पादातयुद्धमाह-धन्वीति । अथ स्वस्य स्वस्य सबन्धिना अस्वी- यान स्वीयानामिति वा अस्त्राणामायुवाना प्रयोगे प्रहरणे विषये दृढा अवि स्मृता परिचित अभ्यास येषा तथोक्ता । अत एव अमी द्वन्द्व अनुरूप यथातथा युध्यन्त इति द्वन्द्वथोवा तेषा अग्रगण्या श्रेष्ठा वन्वी धनुर्धर धानुष्क धनुर्धरम्, असिमान् खङ्गधर असिभृतम्, कुन्तधारी कुन्तिनम्, चक्र हेति आयुव यस्य स चक्रास्रम् , गदा पाणौ यस्य स गदिनमपि । अन्योन्य


पृष्ठम्:चम्पूभारतम्.pdf/३६५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/३६६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/३६७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/३६८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/३६९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/३७० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/३७१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/३७२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/३७३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/३७४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/३७५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/३७६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/३७७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/३७८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/३७९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/३८० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/३८१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/३८२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/३८३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/३८४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/३८५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/३८६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/३८७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/३८८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/३८९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/३९० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/३९१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/३९२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/३९३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/३९४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/३९५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/३९६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/३९७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/३९८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/३९९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/४०० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/४०१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/४०२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/४०३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/४०४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/४०५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/४०६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/४०७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/४०८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/४०९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/४१० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/४११ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/४१२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/४१३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/४१४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/४१५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/४१६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/४१७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/४१८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/४१९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/४२० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/४२१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/४२२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/४२३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/४२४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/४२५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/४२६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/४२७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/४२८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/४२९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/४३० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/४३१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/४३२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/४३३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/४३४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/४३५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/४३६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/४३७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/४३८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/४३९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/४४० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/४४१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/४४२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/४४३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/४४४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/४४५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/४४६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/४४७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/४४८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/४४९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/४५० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/४५१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/४५२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/४५३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/४५४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चम्पूभारतम्.pdf/४५५
  1. एतदनन्तरम् ‘नवनीतसुगन्धयो नखाङ्का नवनीपाङ्कुरनन्दनीयशोभा । कुशल
    कलयन्तु गोपिकानां कुचवास्तव्यकुटुम्बिताधुरीणा ।' इति क्षेपकः क्वचित्
  2. ’अभिहतस्य‘ अपि हतस्य इति च पाठ
  3. ‘विनिवारयन्ति’ इति पाठ
  4. ‘परिवाम्’ इति पाठ
  5. ‘अतस्थितिभ्’ इति पाठ
  6. शिक्षया ’ इत्यनन्तर ‘क्षणेन’ तत्क्षण’ च त्यधिक कचित्
  7. ‘भागतया’ इति पाठ
  8. ‘भोगावतीम्' इति पाठ
  9. ‘किल’ इति नास्ति कचिव
  10. ‘दृश्यते’ इति पाठ
  11. ‘किल’ इति नास्ति कचित्
  12. ‘अवनि' इति पाठ
  13. ’निदेवशवशमन्त्र ’ इतिं पाठ
  14. ‘करे’ इति पाठ
  15. ‘शकु तेश’ इति पाठ
  16. “कदाचन’ इति पाठ
  17. ‘तेजसि’ इति पाठ
  18. ‘रयविजित’ इति पाठ
  19. ‘वागुरोपकरणानुरोधैर्योधै ’ इति पाठ
  20. ‘अवजमाहे’ इति पाठ
  21. ‘मासळतमा’, मासलितमा’ इति च पाठ,
  22. निरासपर' इति पाठ
  23. ‘गीर्वाणगणचक्र’ इति पाठ
  24. ‘भृगश्च---- इति पाठ
  25. ‘भद्रतनयो ’ इति पाठ
  26. शलालिका' इति पाठ
  27. 'विषाणकर' इति पाठ
  28. 'अपि तच्चिर न' इति पाठ
  29. 'निजघान' इति पाठ
  30. विस्फ़ार’ इति पाठ
  31. ’मानससरोरविन्दुसदोहसौरभपारदृक्ष्वानो इति पाठ
  32. ’सौरभी सौरम्य इति पाठ
  33. 'तत्' इति नास्ति क्कचित्
  34. 'मन्दितजवि' इति पाठ
  35. 'रुचिरैर्गगन समुत्भतद्भि' इति पाठ
  36. 'दूरम्' इति पाठ
  37. 'अतिपपात' इति पाठ
  38. 'कचन' इति पाठ
  39. 'प्रथिम' इति पाठ
  40. सदानित’ इति पाठ
  41. ‘धरणीपतिना’ इति पाठ
  42. ‘चतुरङ्गम्' इति पाठ
  43. ‘सप्ताङ्गम्’ इति पाठ
  44. ‘व्यसृजस’ इति पाठ
  45. 'प्रसुध्व' इति पाठ
  46. 'पुरा खलु पिता मम' इति पाठ
  47. 'रचिकान्त' इति पाठ
  48. 'अतरङ्गरुचाम्' इति पाठ
  49. 'तरलयितु' इति पाठ
  50. 'यौवराज्याम्' इति पाठ
  51. 'निदेशात्' इति पाठ
  52. 'प्रतिहाय' इति पाठ
  53. 'श्रयद्भि' इति पाठ
  54. 'ममता' इति पाठ
  55. 'उपादिशत्' इति पाठ ।
  56. लेखलेखासु' इति पाठ
  57. ध्यानमात्रसाध्यसानिध्या' इति पाठ
  58. स्वस्वानुरूपनुणविभवान्' इति पाठ
  59. 'रति' इति पाठ
  60. 'तदनन्तरम्' इति नास्ति क्वचित्
  61. ’क्रीलाम्’ इति पाठ
  62. ’सभूत’ इति पाठ
  63. 'विकासमये' इति पाठ
  64. सृक्कयुगात्’ इति पाठ
  65. ’ललितै पृषद्भि’ इति पाठ
  66. ’पाण्डुसूनुषु’ इति पाठ
  67. ’अमिताबमार’ इति पाठ
  68. ’दोला ’ इति पाठ
  69. विधृतेयमये’ इति पाठ
  70. ‘निखिलनिलिम्प’ इति पाठ
  71. 'भृङ्गार' इति पाठ
  72. 'मनसि विचिन्त्य' इति पाठ
  73. 'अरण्याङ्गणषर-ण्याम्' इति पाठ
  74. 'तपोवनकुटिरपरिसरे'इति पाठ
  75. 'वासन्त्यामियम्'इति पाठ
  76. ‘दोलायमानम्न इति पाठ
  77. 'स्मरराजघाया' इति पाठ
  78. 'परिचिचीषयेव' इति पाठ
  79. 'मुहुर्मुहु' इति पाठ
  80. 'बिम्बचुम्बनाडम्बर' इति पाठ
  81. 'भाणितम्' इति पाठ
  82. 'मुषितम्' इति पाठ
  83. 'आरुरोह' इति पाठ
  84. ‘तदा’ इति पाठ
  85. ‘समवेत्य’ इति पाठ
  86. ‘विपातै ’ इति पाठ
  87. 'ततोऽनुमृतया सह तस्य'इति पाठ
  88. 'बहुविध' इति पाठ
  89. 'विदीर्यमाण' इति पाठ
  90. 'धैर्याय सोदर्य' इति पाठ
  91. 'धर्मजाय'इति पाठ
  92. 'सत्यां वैयात्येन' इति पाठ
  93. 'नयनांकुशम्','नियमांकुशम्' इति च पाठ
  94. 'शृङ्गसकुलम्' इति पाठ
  95. 'सदयो इति पाठ
  96. 'बल' इति पाठ
  97. 'तेषाम्' इति पाठ
  98. ’दुर्मनायमानो दुर्योधनो’ इति पाठ
  99. ’दुर्योधनो’ इति पाठ
  100. ’दुर्बो धमेध्मे इति पाठ
  101. ’अकुतोरोधाम्’ इति पाठ
  102. ’फालभागे’ इति पाठ
  103. 'सर्वेऽपि' इति पाठ
  104. चिर विहृत्य' इति पाठ
  105. 'वाटीषु' इति पाठ
  106. 'कुशलकुशीलवबालककुलपरिशीलित' इति पाठ
  107. 'मानसा' इति पाठ
  108. 'निभृतसमु' इति पाठ
  109. 'रशना' इति पाठ
  110. ’अपरेधु’ इति पाठ
  111. ’सग्धि’ जग्धि इति पाठ
  112. ’आरालिककरदापित इति पाठ
  113. ’लम्बिशिरसम्’ इति पाठ
  114. ’ह्रदि शूलम् ’ इति पाठ
  115. ’परिगणनदिनगणात्ययशकितै ’ इति पाठ
  116. ’हा’ इति नास्ति कचित्
  117. ’पृदाकुपरिवृढदापित’ इति पाठ
  118. 'पानादिशेष' इति पाठ
  119. 'परिपोषपात्र गात्र' इति पाठ
  120. 'सोदर' इति नास्ति कचित्
  121. 'थशसो' इति पाठ
  122. 'उपहारीचकार' इति पाठ
  123. ‘स्नेहभाव' इति पाठ
  124. ‘कोटीम्’ इति पाठ
  125. ‘शरासेषु’ इति पाठ
  126. ‘कयापि’ इति नास्ति कचित्,
  127. ‘पार्षद ’ इति पाठ
  128. ‘सस्मित ’ इति पाठ
  129. अरे’ इति पाठ
  130. ‘नाम' इति नास्ति क्कचित् ।
  131. 'क्षुरप्रवरप्राथेण्' इति पाठ
  132. 'मम मनसि व्यथां वितीर्णबताणवरशनावती इति पाठ
  133. 'ननु' इति नास्ति कचित्
  134. 'जड' इति पाठ
  135. पौरवान्ते वसता इति पाठ
  136. ‘पार्षद’ इति पाठ
  137. ‘परिवर्तन परमङ्गीकृत्य’ इति पाठ
  138. ‘उपयममेव’ इति पाठ
  139. ‘कृतक्रतुनिर्वर्तन पाठ
  140. ‘तटबन इति पाठ
  141. ‘तत ’ इति नास्ति कचित्
  142. ’अभ्यषिञ्चन्’ इति पाठ
  143. ’अवान’ इति पाठ
  144. ’न दनस्य’ इति पाठ
  145. ’पस्त्यम्’ इति पाठ
  146. ’अमित’ ’अय तभ्’ इति पाठौ
  147. ‘वास्तव्यो गिरा पौरजनमुवास्तव्यो' इति पाठ
  148. ‘सुखेन’, ‘सुखम्’ इति पाठ
  149. ‘आसिष्तेषु’ इति पाठ
  150. ‘तस्माद्रृहात् इति नास्ति कचित्,
  151. ’सक्ष्लधिरे’ इति पाठ
  152. ’सुनुम्’ इति पाठ
  153. 'धुरधर' इति पाठ
  154. 'वसति' इति नास्ति कचित्
  155. 'विधट्टन' इति पाठ
  156. 'कुलबद्ध' इति पाठ
  157. 'जगरविचक्षण' , 'विचक्षणजागर' इति पाठ
  158. 'सुखितेन' इति पाठ
  159. 'एना'इति पाठ
  160. xxxxxxxxxxxx
  161. 'वनमध्यात्' इति पाठ
  162. 'सदसि' इति पाठ
  163. 'कानिचित्' इति पाठ
  164. ’जगतीमिव’, ’नगरीमिव' इति पाठ
  165. ‘गृहम्’ इति पाठ
  166. 'उपेत्य ’ इति पाठ
  167. तनूजै ’ इति पाठ
  168. ‘अन्नराशे ’ इति पाठ
  169. 'निखिलै’ इति पाठ
  170. ‘उत्सङ्गभुवि पत्युरपत्य' इति पाठ
  171. ’उपगत’ इति पाठ
  172. ’कृत्या’ इति पाठ
  173. ‘कलयते' इति पाठ
  174. ‘मया ते’ इति पाठ ३ ‘तत्प्रीणनप्रणाशनयो ’ इति पाठ
  175. ‘अखिल' इति पाठ
  176. ‘अपि’ इति नास्ति कचित्
  177. शेखरान्न’ ‘पीवरान्न’ शीफरान्न’ इति च पाठ
  178. ‘क्ष्वेडितम् इति पाठ
  179. ‘भारमन्दित’ इति पाठ
  180. ‘सृक्कि’ इति पाठ
  181. ‘तत इति नास्ति क्चिकत्
  182. ‘नेश्राम्बु' इति पाठ
  183. वेदिकाया' इति पाठ
  184. ‘यूथ' इति पाठ
  185. ‘अपि’ इति नास्ति कचिव
  186. ‘सदन’ इति पाठ.
  187. ‘फाल्गुनकरत्रलिगतेन' इति पाठ
  188. ‘निशि’ इति नास्ति कचिव
  189. ‘समय’ इति नास्ति कचित्
  190. ‘तत्र खलु' इति पस्ति कचिव
  191. ‘दीप्तकुण्डधर’ हति पाठ
  192. 'अत्ययात्' इति पाठ
  193. 'समुपेत्य' इति पाठ
  194. 'पठिमिव' इति पाठ
  195. 'पुरुषेद्र' इति पाठ
  196. तदानीम्’ इति नास्ति कचित्
  197. क्षणास्' इति नास्ति कचित्
  198. 'सरमस' इति पाठ
  199. 'वचनन' इति नास्ति कचित्
  200. 'कुमारोअपि समा' इति पाठ
  201. 'अपर इव' इति पाठ
  202. भषितै ' इति पाठ
  203. एवम्' इति पाठ
  204. शशिनो इति पाठ
  205. ‘सुदृश ' इति पाठ
  206. ‘दृगन्तम्’ ‘ड्गशम्’ इति पाठ
  207. ‘मध्ययष्टिम्' इति पाठ
  208. द्रुतम्’इति पाठ
  209. ‘कार क्षिपा इति पाठ
  210. ‘अवलोक्य्' इति पाठ
  211. ‘मजुलमुख भासाम्’ इति पाठ
  212. 'मनिगण' इति पाठ
  213. 'मणिनिकायकोरकितै' इति पाठ
  214. 'बिम्बम्' इति पाठ
  215. 'सह' इति पाठ
  216. 'हुतवहम्' इति पाठ
  217. ‘अभ्युपहूता' इति पाठ
  218. स्फुरदिदिराप्रतिकृते ’ इति पाठ
  219. ‘व्यत्यास्यताम्’, ‘व्ययास्यताम्' इति पाठे
  220. ‘स्वै' ति पाठ
  221. ‘वेध’ इति पाठ
  222. ‘इव ते’ इति पाठ
  223. ‘ललितै ’ इति पाठ
  224. क्ष्वे ङितै ’ इति पाठ
  225. ’रौक्ष्यम् इति पाठ
  226. ‘नगर' इति पाठ
  227. ‘निर्वाय',‘निवार्य’ इति पाठ
  228. ‘निर्गत्वरेषु’ इति पाठ
  229. ‘एव’ इति पाठ
  230. ‘शङ्खम्’ इति पाठ
  231. ‘क्ष्वेडाम् इतेि पाठ
  232. ‘नादम्' इति पाठ
  233. ‘बाणगण निरुद्धय व्रण दिना तत्र रण महीय ’ इति पाठ
  234. ‘रथिक रथिको द्विरद द्विरदस्तरग तरग ’ इति पाठ
  235. विदधौ’ इति पाठ
  236. ‘कुकुशायुध’ इति पाठ
  237. ‘कृत’ इति पाठ
  238. निर्मितेर्ममर्माणोभयप्रसारिभि ’ इति पाठ
  239. “स्व” इति नास्ति क्वचित्
  240. ‘पट' प्रति पाठ
  241. 'अरिभीषणा ' इति पाठ
  242. 'च ' इति पाठ
  243. 'धन्विनाम् ' इति पाठ
  244. 'समाविशन्सूषिता ' इति पाठ
  245. वन्यशेष् ' इति पाठ
  246. 'वृष्टे राजकोंऽशम् ' इति पाठ
  247. 'उपनीय' इति पाठ
  248. 'भातात्' इति पाठ
  249. 'नरपतौ' इति पाठ
  250. 'अभजन्' इति पाठ
  251. 'वनीमवनी ' इति पाठ
  252. 'देशे प्रविश्य ' इति पाठ
  253. 'नयनपात्रेण' इति पाठ
  254. ' पारदृक्ष्चकर्मणा' इति पाठ
  255. 'स्वकर्मणा' इति नास्ति कचित्
  256. 'कामनीयकविलोकन' इति पाठ
  257. 'क्षमातलम्' इति पाठ
  258. 'करुविन्दमणिमन्दिरैरम्रलिहम्' इति पाठ
  259. 'तत्रमो' इति पाठ
  260. 'इरिप्रस्थम्' इति पाठ
  261. 'अधिष्ठाय' इति पाठ
  262. 'विनिवेद्य' इति पाठ
  263. 'अपारभूमा' इति पाठ
  264. 'निनाद' इति पाठ
  265. ‘तमङ्द्रियुग्मे' ति पाठ
  266. 'विरथि’ इति पाठ
  267. ’चपलै’ इति पाठ
  268. 'आवहेत् इति पाठ
  269. ‘परिपुष्टासु' इति पाठ
  270. 'स्ख्याकान्' इति पाठ
  271. ‘प्रक्षिपेदिति' इति पाठ
  272. "एतदनन्तरम्" "इति नारदसवाद्" इति कचित्
  273. "इमान् इति पाठ
  274. 'हासयति इति पाठ
  275. राज्ञो गृहीताभ्यनुझो' इति पाठ
  276. 'कल्कल-लघनाय' इति पाठ
  277. रथानुसारणीस्- इति पाठ
  278. ‘उत्सेहे’ इति पाठ
  279. ‘कण्ठकान्ति ’ इति पाठ
  280. ‘भणितवैदूग्धीम्’ इति पाठ
  281. ‘भालस्य’ इति पाठ
  282. ‘तत्र तत्र स तस्य’ इति पाठ
  283. ‘खर’ इति नास्ति कचिव
  284. ‘तरलसरल इति पाठ
  285. ‘पफ़्उल्यमान' इति पठ
  286. ‘कलिताभिषेकः इति पाठ
  287. ‘निजइति पध कचिन्नास्ति
  288. ‘अक्ष्णां-' इति पब क्कचिन्नास्ति
  289. ‘वर्तयामास’ इति पाठ
  290. ‘कालेन-' इति पद्य कश्चिन्नास्ति
  291. ‘ह त महता' इति पाठ
  292. ‘अपि’ इति पाठ
  293. ‘अभ्रलिहा' इति पाठ
  294. 'मणलूर् ----' इति पध्र क्कचिन्नास्ति
  295. ‘अभाव्' इति पाठ
  296. अय श्लोको न दृश्यने क्कचित्
  297. इति तत्र दिनानि कानिचित्’ इति पाठ
  298. ‘सीत्कारम्’ इति पाठ
  299. ‘कपोले’ इति पाठ
  300. ‘काठिनतरतत्कराङ्गुलि’ इति पाठ
  301. ‘उच्चालित’ इति पाठ
  302. ‘न्यक्कार इति पाठ
  303. ‘विततार चेतसे’ इति पाठ
  304. ‘वेदिषु’ इति पाठ
  305. अत्र ‘पापापनोदे’ इति, ‘पापापनुयै' इति, ‘गोपृलग्नम्’ इति च क्ष्लोकक्रम कुत्रापि 'पापापनुत्यै’ इति श्लोक पापापनेदे’ इति श्लोकस्य पाठान्तर कल्पित तत्र
  306. प्रथिने इति पाठ
  307. ’स्पृष्टवत’ इति पाठ
  308. नियमावगाह' इति पाठ
  309. ‘कलरवै ’ इति पाठ
  310. ‘म मथे' इति पाठ
  311. अप्यवरुझ’ इति पाठ
  312. ‘स्वस्व’ इति पाठ
  313. ‘मह’ इति पाठ
  314. रैवतकगिरे’ इति पाठ
  315. अविष्य’ इति पाठ
  316. पृथक्पृथक्’ इति पाठ
  317. ‘तरुण इति पाठ
  318. युग’ इति पाठ
  319. ‘भावनाभिज्ञम्’ इति पाठ
  320. ‘अवशेष ” इति पाठ
  321. ‘जनै पूरित’ इति पाठ
  322. ‘एहि’ इति नास्ति कचित्
  323. ‘कन्या त पुरे इति पाठ
  324. ‘सुनुवा’ इति पाठ
  325. ‘चित्तभुवा’ इति पाठ
  326. ‘प्रसर्पवु’ इति पाठ
  327. ‘अधरोष्ठम्’ इति पाठ
  328. ‘उज्जिहानम्' इति पाठ
  329. ‘पुष्यत्सु” इति पाठ
  330. ‘पुलकाङ्कुराणि’ इति पाठ
  331. “श्वेत” इति पाठ
  332. ‘त कुहुनास यातिन' इति नास्ति क्कचित्
  333. ‘सगमे' ति पाठ
  334. ‘शिरसा यदवाप्यते रसो’ इति पाठ
  335. ‘भाले' इति पाठ
  336. ‘निपीतपूर्वै ’ इति पाठ
  337. ‘लक्षणैश्च' इति पाठ
  338. ‘अय यतिं ’ इति पाठ
  339. ‘पेटक' इति पाठ
  340. त्र्कमेण इति नास्ति कचित्
  341. ’च’ इति नास्ति कचित्
  342. ‘नामपर ’ इति पाठ
  343. ‘भवेत्' इति पाठ
  344. ‘तरलनयन' इति पाठ
  345. अवनमय ती’ इति पाठ
  346. ‘तु तस्या’ इति पाठ
  347. 'तातमिव' हति पाठ
  348. ‘बसत सामन्तराजमबन्धितथा’ इति पाठ
  349. ‘सुतोपन्ति’ इति पछ
  350. ‘कतिचिहिनानि’ इति पाठ
  351. रत एव दूराव' इति पाठ
  352. ‘मुद्रणा’ इति पाठ
  353. 'निटिले' इति पाठ
  354. 'सविधे' इति पाठ
  355. 'हि' इति पाठ
  356. ‘अभिमुख’ इति पाठ
  357. ‘कठोर’ इति पाठ , ‘कठोरिम’ इति नास्ति क्कचित्
  358. ‘भगवती तामेव' इति पाठ
  359. वेग’ इति पाठ
  360. ‘सुविलोकितुकामयेव’ इति पाठ
  361. ‘अतानीत्' इति पाठ
  362. ‘विनिवर्तित” इति पाठ
  363. "गर्हित" इति पाठ
  364. "विम्ब्रा" इति पाठ
  365. "एव" इति पाठ
  366. ‘आवतकुलजवा’ इति पाठ
  367. ‘अवलुम्पन्’ इति पाठ
  368. ‘कुचयुगलानि ’ इति पाठ
  369. ‘कनक' इति नास्ति कचिव
  370. विदलयम्मास’ इति पाठ
  371. ‘यम स्वसु ’ इति पाठ
  372. ‘आश्लेष’ इति पाठ
  373. 'प्रतिवधू' इति पाठ
  374. 'सगमशर्माणि'इति पाठ
  375. 'वसित'इति पाठ
  376. 'कनकलता' इति पाठ
  377. 'कोरकाणीव'इति पाठ
  378. 'कशित'इति पाठ
  379. 'काशीकर'इति पाठ
  380. ‘दत्त' इति पाठ
  381. ‘घन’ इति पाठ
  382. ‘तदाशिषो ’ इति पाठ
  383. याचते’ इति पाठ
  384. ‘भणिति’ इति पाठ
  385. ‘जवनिका’ इति पाठ
  386. ‘नटीभवत्’ इति पाठ
  387. ‘खण्डवस्य ’ इति नास्ति कचित्
  388. ‘गडुत्व च' इति पाठ
  389. ‘निवेद्य' इति पाठ
  390. ‘स्वयमपेक्षित, ‘स्वयमपेक्ष्य’ इति पाठ
  391. ‘जयाप्तै ’ इति पाठ
  392. ‘केतनाङ्कम्’ इति पाठ
  393. ‘तूणौ’ इति पाठ
  394. ‘असकृत्’ इति पाठ
  395. ‘अपि’ इति पाठ
  396. ‘इव’ इति पाठ
  397. 'चण्डतरस्य' इति पाठ
  398. 'कुण्डलनम्' इति पाठ
  399. 'उपकण्ठम्' इति पाठ
  400. 'द्र्मेषु' इति पाठ
  401. 'पत्रोच्चयाय' इति पाठ
  402. दुमेषु इति नास्ति कचित्
  403. 'पकित्रम्' इति पाठ
  404. केषुचिदम्कायमनै’ इति पाठ
  405. ‘प्रोधञ्चटचटात्कारै’ इति पाठ
  406. ‘सवत ’ इति पाठ
  407. ‘मुहूर्तम्’ इति नास्ति कचित्
  408. ‘धुसदा’ इति पाठ
  409. “हे जन' इति पाठ
  410. ‘मयमान ’ इति पाठ
  411. ‘बाहो’ इति पाठ
  412. ‘स्फुटयाबभूव’ इति पाठ
  413. ’क्षतिनि सृतासृजा’ इति पाठ
  414. ‘मग’ इति नास्ति क्कचित्
  415. ‘दीप्तइति पाठ
  416. अनेके’ इति नास्ति कचित्
  417. ‘इल्यवाहोऽपि’ इति पाठ
  418. वने' इति पाठ
  419. 'शरशाला’ इति पाठ
  420. 'निवत्य’ इति पाठ
  421. ‘शातमुखेन' इति पाठ
  422. ‘विदलिता चक्त्रे' इति पाठ
  423. ‘विदलिता चक्त्रे' इति पाठ
  424. 'विनय' इति पाठ
  425. ‘दूरतरापसपणम्' इति पाठ
  426. ‘अधिपतिम्' इति पाठ
  427. ‘अभियते’ इति पाठ
  428. ‘आगत्य’ इति पाठ
  429. ‘आहर्तुमनस ’ इति पाठ
  430. ‘साक्षात्’ इति नास्ति कचित्
  431. 'प्रभवान्याम्' इति पाठ
  432. ‘स्वपालयितारमिव’ इति पाठ
  433. 'मागधान्' इति पाठ
  434. 'अधिगम्य' इति पाठ
  435. 'हर्षित' इति पाठ
  436. 'देहबलसपदम्' इति पाठ
  437. 'जरासध' नास्ति क्क्चित्
  438. 'पृथ्वीनाथमुपेत्य' इति पाठ
  439. 'अतितिक्षुतया' इति पाठ
  440. बक’ इति नास्ति कचित्
  441. भुजकीर्ते ’ इति पाठ
  442. ‘जरासध' इति नास्ति कचिव.
  443. ‘समीरकुमार' इति पाठ
  444. ‘एषाम्' इति पाठ
  445. ‘परि' इति नास्ति कुचित्
  446. ‘घटयाबभूव’ इति पाठ
  447. ‘इव’ इति पाठ
  448. ‘विस्मृतानि’ इति पाठ
  449. ‘क्त्रमविद्भिरथर्विजां समाजै” ’ इति पाठ
  450. 'आस्सातुम्' इति पाठ
  451. 'नीर्गलना' इति पाठ
  452. 'इविषामशोषा' इति पाठ
  453. 'त्रिपथा इति पाठ
  454. 'निमच्यमाणेन' इति पाठ
  455. 'निवार्हभारेण' इति पाठ
  456. ’इव’ इति कचित्
  457. ’युग्म’ इति पाठ
  458. चिरसन् इति पाठ
  459. आसाघ इति पाठ
  460. 'बहिरिव सदुपेत्य ' इति पाठ
  461. 'समाप्ती' इति पाठ
  462. 'रणसीमनि दामघोषिम् इति
  463. 'पौरजनस्यापि', 'स्वपौरलोचनस्यापि' इति पाठ
  464. 'अनुभावयितुमना' इति पाठ
  465. एतदनन्तरम् 'तत' इति कचित्
  466. ‘विधूनानो' इति पाठ
  467. ‘रसातलम्’ इति पाठ
  468. 'निधाय' इति पाठ
  469. ‘तेषु’ इति पाठ
  470. बधो” इति पाठ
  471. ‘तपस्यातनु’ इति पाठ
  472. ‘मादृशाम्' इति पाठ
  473. ‘च' इति नास्ति कचित्
  474. ‘परस्परस्य' इति पाठ
  475. ‘परिणयनपथा’ इति पाठ
  476. एतदनन्तरम् 'इति’ इति क्कचित्।
  477. 'कल्पितकैतव' इति पाठ
  478. 'धर्मानुज' धर्मात्मज' इति पाठौ
  479. 'एकैक' इति पाठ
  480. 'मौक्तिकजलकै' इति पाठ
  481. 'समनीनयत्' इति पाठ
  482. ‘आहित' इति पाठ
  483. ‘राज्ञ ’ इतिपाठ
  484. ‘ता' इति पाठ
  485. 'बाल्' इति पाठ
  486. ' भूय प्रापाक्षदेविभि' इति पाठ
  487. 'चारिम्' इति पाठ
  488. 'इश्' इति पाठ
  489. 'गुण इव तृतीये ' इति पाठ
  490. ‘सनिधिरमध्यम’ इति पाठ
  491. वाच्य इब ग्रहविशेष’ इति पाठ
  492. ‘अचिरात्' इति पाठ
  493. ‘अनुज्ञया’ इति पाठ
  494. ‘प्राप्तवत्सु' इति पाठ
  495. ‘रत्नमयाक्ष्च’ इति पाठ
  496. “कोशान्’ इति पाठ
  497. ‘तत्रान्तरे’ इति नास्ति क्कचित्
  498. ’धरणिम्’ इति पाठ
  499. ‘वगों’ इति पाठ
  500. ‘आकषणभयोद्विदु' इति पाठ
  501. ‘जालक' इति नास्ति कचित्
  502. 'भरात्’ इति पाठ
  503. ‘अपहर्तुम्' इति पाठ
  504. ‘तमुच्चकै इति पाठ
  505. ‘यदुपते ’ इति पाठ
  506. ‘नव्यो' इति पाठ
  507. ‘चित्रकूट ’ इति पाठ
  508. ‘तस्य’ इति पाठ’
  509. ‘चैलानि’ इति पाठ
  510. ‘कर्षणो' इति पाठ
  511. ‘विचलत्' इति पाठ
  512. ‘च्छदानीव' इति पाठ
  513. 'यतत इति पाठ
  514. 'निर्मुक्तता' इति पाठ
  515. 'अयि' इति नास्ति कचित्
  516. 'आस्फ़ालितदर्शिते' इति पाठ
  517. 'निजसबिथ येव' इति पाठ
  518. 'आहूतमाश्रोऽयम्' इति पाठ
  519. 'निवर्तित' इति पाठ
  520. 'आद्याक्षरम्' इति पाठ
  521. 'स' इति पाठ ।
  522. ‘न युक्तम्’ इति पाठ
  523. ‘देवु” इति पाठ
  524. सीमनि’ इति पाठ
  525. ‘सजानय’ इति नास्ति वचिव्
  526. ‘वनानि’ इति पाठ
  527. शष्कु लिकापथेन' इति पाठ
  528. ‘गम्भीरे’ इति पाठ
  529. ‘उपासकजनादाहृतानि’ इति पाठ
  530. ‘उदीरितै ' इति पाठ
  531. ‘कुडम्बिनी’ इति पाठ
  532. कुशलमिव इति पाठ
  533. ‘इव’ इति नास्ति कचिद्
  534. ‘तत्र’ इति नास्ति कचित्
  535. ‘ते’ इति नास्ति कचिद्
  536. ‘किम्मीर' इति पाठ
  537. ‘चिरम्' इति पाठ
  538. ‘पङ्झिम्’ इति पाठ
  539. ‘इव' इति पाठ
  540. “अस्मात्’ इति पाठ
  541. ‘निपीत’ इति पाठ
  542. ‘नृप्त्या’ इति पाठ
  543. ‘माध्वी’ इति पाठ
  544. ‘निधातुम्’ इति पाठ
  545. ‘रोषित ’ इति पाठ
  546. 'पत्र’ इति पाठ
  547. अक्षगण ’ इति पाठ
  548. ’कुर्वन्’ इति पाठ
  549. ’कृपा’ इति पाठ
  550. प्रविधाव इति पाठ
  551. ’प्रोघम्य’ इति पाठ
  552. ‘विशेषकाङ्कौ’ इति पाठ
  553. ‘विलासचूडौ’ इति पाठ
  554. ‘भूषानदीतटरुह’ इति पाठ
  555. ’वरस्य’ इति पाठ
  556. ‘सनिधानम्’ इति पाठ
  557. ‘वेषविरचनाकुलै ’ इति पाठ
  558. ‘पारिषद’ इति पाठ
  559. ‘लम्बायमान’ इति पाठ
  560. ‘पातिनीभि ’ इति पाठ
  561. ‘शुद्धतरीभिव’ इति पाठ
  562. ‘द्वततर' इति पाठ
  563. ‘वनगुल्मिषु’ इति पाठ
  564. 'श्वापदानि’ इति पाठ
  565. ‘शावकानुधाव्यमानषार्ष्णिभागौ प्रशमिततुहिनजडिमोदूगेन भाविनि पदे पदे बनदेवताभी रच्यमानतरूप्रसवास्तरणेन हिमवत ’ इति पाठ
  566. आत्रक्मत ’ इति पाठ
  567. विशेषप्रति’ इति पाठ
  568. ‘आरण्यैरन्यै’ इति पाठ
  569. ‘आलोक्यमानौ’ इति पाठ
  570. ‘पल्लव’ इति नास्ति कचित्
  571. ‘सममभिवृष्यमाण’ इति पाठ
  572. ‘सविनयम्’ इति पाठ .
  573. 'भक्ष्य' इति पाठ
  574. अनुधावन् ' इति पाठ
  575. ‘त’ इति पाठ
  576. ‘क्षणम्’ इति पाठ
  577. ‘एवम्’ इति नास्ति क्कचित्
  578. ‘बश ’ इति पाठ
  579. ‘त्वया’ इति नास्ति कचिव
  580. ‘इव' इति नास्ति कचित्
  581. ‘ईदृशम्’ इति पाठ
  582. 'यक्कार’ इति पाठ
  583. ‘कुल' इति नास्ति कचित्
  584. 'गिर कामपि' इति पाठ
  585. ‘सधि’ इति पाछ
  586. ‘सदिव्यम्’ इति पाठ
  587. ‘सइसा’ इति पाठ
  588. 'इषु’ इति पाठ
  589. ‘सूनो ’ इति पाठ
  590. ‘पुन ’ इति पाठ
  591. 'कुपित' इति पाठ
  592. ’नदी’ इति पाठ
  593. ‘तत्र स’ इति पाठ
  594. ‘तस्यैव देवस्य’ इति पाठ
  595. ‘उत’ इति नास्ति बचित्
  596. ‘तिष्ठ’ इति नास्ति कचित्
  597. ‘वृषभवाहनम्’ इति पाठ
  598. ताडनात्' इति पाठ
  599. बाहुना।’ इति नास्ति कचित्
  600. ‘कण्ठनालौ’ इति पाठ
  601. ‘सिद्धमुनि’ इति पाठ
  602. निबद्ध’ इति नास्ति कचित्
  603. तीरवण’ इति पाठ
  604. वीचि” इति पाठ
  605. ‘पटुतरभागे’ इति पाठ
  606. ‘चेतनाचरित , 'आपतितचेतना’ इति पाठ
  607. ‘शनै शनै ’ इति पाठ
  608. ‘घण्टभरणघणघणात्करण’ इति पाठ
  609. ‘परिकल्पित’ इति पाठ
  610. ‘युगनखरेखाङ्कुर’ इति पाठ
  611. ‘पल्ययनाङ्कोपरि’ इति पाठ
  612. ‘एकचरण’ इति पाठ
  613. ‘दर्पसमुल्ल्लन’ इति पाठ
  614. ‘सुखबद्धकनकशृङ्खले’ इति पाठ .
  615. ‘भृङ्गिरिट्नाि’ इति पाठ
  616. ‘पीडितम्' इति पाठ
  617. निकरै ’ इति पाठ
  618. भसित’ इति पाठ
  619. ‘तुम्बरु' इति पाठ
  620. 'रक्षा' इति पाठ
  621. ‘मधुझरीमिषेण’ इति पाठ
  622. ‘अनुबध्यमानावयवमास भ्नावतसितशशि’ इति पाठ
  623. ‘गलित’ इति पाठ
  624. ‘सहिष्णुनेबपाठ इति पाठ
  625. ‘तटरुहनिमेषविटपि’ इति पाठ
  626. ‘पुलकप्ररोह ’ इति पाठ
  627. ‘देवदेव' इति पाठ
  628. ‘पाणिपल्लपस्य’ इति पाठ
  629. ‘रणवेदना’ इति पाठ
  630. ‘हृष्ट ' इति पाठ
  631. अपि’ इति पाठ
  632. ‘सुधामधुरिमधुरीण’ इति पाठ
  633. ‘तत्क्षणम्' इति पाठ
  634. ‘सनिधाय' इति पाठ
  635. ‘अक्ष्ण ’ इति पाठ
  636. 'अथ इति नास्ति कचित्
  637. 'अस्त्रविधाशिक्षापरिसमाप्तौ' इति पाठ
  638. 'सुर' इति पाठ
  639. 'गम्भीरनीरपूररक्षितरक्ष' इति पाठ
  640. 'रव' इति पाठ
  641. 'अभिषेणनवत' इति पाठ
  642. 'क्षिप्रै' इति पाठ
  643. निवर्तमानोऽय नभस' इति पाठ
  644. प्रमादादापतितेन' इति पाठ
  645. 'स्फाटिक' इति पाठ
  646. 'जननिधन' इति पाठ
  647. ‘प्रथम पाशुपतेन इति पाठ
  648. 'वृत्तम्' इति पाठ
  649. 'जनै' इति पाठ
  650. 'आ तरेण' इति पाठ
  651. ‘परिधूनितश्रम ’ इति पाठ
  652. ‘नीतमससइिमटवी’ इति पाठ
  653. ‘असासङि’ इति नास्ति कचित्
  654. ‘पत्तन' इति पाठ
  655. ‘उपनताम्’ इति पाठ
  656. अय श्लोक कचिन्न दृश्यते
  657. भय श्लोक कचित्र दृश्यते
  658. 'वाचा तया’ इति पाठ
  659. 'कपाट' इति पाठ
  660. ‘बभूव’ इति पाठ
  661. एतदनन्तरम्--
    ‘आ बालधेररिमहागृहदाहशौण्डादा चौषधाचलधृतिस्थपुटात्किरीटात् ।
    अङ्गेष्वजातचलनोऽप्यखिलेषु भीममालोक्य मन्दमधरोष्ठपुटे चकम्पे ।'
    इति श्लोक कचिद्दृश्यते
  662. ‘जरसा' इति पाठ
  663. ‘एवम्’ इति पाठ
  664. ‘अभिलषित प्रार्थये’ इति पाठ
  665. एतदनतरम्--
  666. ‘विनयविस्मबव्रीडा इति पाठ
  667. ‘सजनितम्’ इति पाठ
  668. लेखवाइम्’ इति पाठ
  669. ‘तावकी ता’ इति पाठ
  670. ‘दिविषदामपि’ इति पाठ
  671. 'अदघाटीव भ्रातु' इति पाठ
  672. ‘साइभिन्' इति पाठे
  673. 'अवलम्बिततया ’ इति पाठ
  674. ‘लोहितानाम्' इति पाठ
  675. ‘चिरतरम्’ इति पाठ
  676. ‘भुव’ इति नास्ति कचित्
  677. ‘ताम्’ इति नास्ति क्कचित्
  678. ‘कुलीकृते’ इति पाठ
  679. एतदनन्तरम् ‘इति सौगन्धिकाहरणम्’ इति कचित्,
  680. ‘अटति’ इति पाठ
  681. ‘दुर्घट ’ इति पाठ
  682. ‘अपदिशा’ इति पाठ
  683. ‘ सीमनि दूरम्' इति पाठ
  684. ‘त्रिदिव’ इति पाठ
  685. ‘नृपति सहजै सम भहाद्वे ' इति पाठ
  686. ‘खलु मानी’, किल मानी’ इति च पाठ
  687. ‘अस्य’ इति पाठे
  688. ‘अवतीर्णम्’ इति पाठ
  689. ‘तूर्णम्’ इति नास्ति कचित्
  690. ‘चिरम्’ इति पाठ
  691. ‘क्ष्वेडया’ इति पाठ
  692. ‘सपदि” इति पाठ
  693. ‘जीविनो' इति पाठ
  694. ‘विंषाकवर्गेम्’, ‘विषक्तवषम्’ इति च पाठ
  695. ‘च' इति नास्ति कश्चित्
  696. ’धरणि' इति पाठ
  697. “रज्जुभि ’ इति पाठ
  698. ‘मार्गाम्’ इति पाठ
  699. ‘तादृशे त्रीडभरे’ इति पाठ
  700. ‘बास्तव्यता’ इति पाठ
  701. ‘विकस्वरम् ' इति पाठ
  702. ‘अजुनस्त्वेवमुवाच' इति नास्ति क्कचित्
  703. ‘अजुन ' इति पाठ
  704. ‘करे’ इति नास्ति कन्चित्
  705. ‘बभूवु’ इति पाठ
  706. ‘आस लोके' इति पाठ
  707. ‘परिहीनम्’ इति आठ
  708. ‘बन्धमिषेण इति पाठ
  709. 'अधिरोपयामासु ’ इति पाठ
  710. भवै ” इति पाठ
  711. ‘सस्तुते’ इति पाठ
  712. ‘उद्भूय त्वम्’ इति पाठ
  713. 'विमोच्य’ इति पाठ
  714. ‘बहु मन्यते’ इति पाठ
  715. ‘स्याद्विविध’ इति पाठ
  716. एतत्पूर्वम् ‘तत्रान्तरे’ इति काचित्
  717. ‘सोम के द्रस्य पुत्र्या ’ इति पाठ
  718. ‘रुदतीम्’ इति पाठ
  719. ‘तज्जघन’ इति पाठ
  720. “भूत’ इति पाठ
  721. पार्थेन इति नास्ति कचित्
  722. ‘अवकीय’ इति पाठ
  723. ‘मृगयाविहारनिवृत्त'इति पाठ
  724. ‘अन्वदुद्रुवताम्' इति पाठ
  725. ‘वन' इति नास्ति कश्चित्
  726. विचमिव विनयविपयय ’ इति पाठ
  727. अत्रान्तरे’ इति पाठ
  728. ‘भासानिधि ’ इति पाठ
  729. ‘याचितुम्’ इति पाठ
  730. ‘प्रतिलोम' इति पाठ
  731. 'यद्रेह' इति पाठ
  732. 'महीरुहश्च' इति पाठ
  733. ‘अथि’ इति पाठ
  734. ‘भवता’ इति पाठ
  735. स्थूललक्ष्याणमीदूश तव’
  736. ‘पान्थिनीम् ’ इति पाठ
  737. ‘अथवा’ इति कश्चिन्न
  738. ‘प्रागेव’ इति पाठ
  739. ‘कलङ्काकुल' इति पाठ
  740. रिपु' इति पाठ
  741. ‘दर्शन’ इति पाठ
  742. ‘तद्विततार इति पाठ
  743. ‘सार्धम्' इति पाठ
  744. ‘हा’ इति नास्ति कचित्
  745. 'अरणिम्’ इति नास्ति कचित्
  746. ‘इतस्तत’ इति पाठ
  747. ‘गृहमेधिन' इति पाठ
  748. ‘पार्थम्’ इति नास्ति कचित्
  749. ‘उत्प्लुत्य धावनवेग’ इति पाठ
  750. ‘ज्वलितगर्भवहि' इति पाठ
  751. ‘विषाणयो’ इति पाठ
  752. ‘चित्रगति ’ इति पाठ
  753. ‘अपाकृष्य' इति पाठ
  754. ‘तदनतरम्’ इति पाठ
  755. “महिमनि’ इति पाठ
  756. ‘प्रादुभवति सति’ इति नास्ति क्कचित्
  757. ‘तच्छाय’ इति पाठ
  758. ‘माग एव’ इति पाठ
  759. ‘पुष्प’ इति पाठ
  760. ‘इम नबवापिक्राया ’ इति पाठ
  761. ‘उत्थाय’ इति पाठ
  762. ‘दशायि इति नास्ति कचित्
  763. ‘पाणिना ताभ्रा तृन्' इति पाठ
  764. ‘परिमृश्य ' इति पाठ
  765. ‘सुतरा’ इति नास्ति कचित्
  766. ‘सरसीं परिपूरयितुमिब’ इति पाठ
  767. ‘दूरापराप्रति नरान्न गिरा’ इति पाठ
  768. 'किमिद भवता’ इति पाठ
  769. 'रणे' इति पाठ
  770. ‘सुदे’ इति पाठ
  771. ‘अभवत्’ इति पाठ
  772. ‘वनभृग ’ इति पाठ
  773. ‘सलिल तु’ इति पाठ
  774. एतत्पूर्वम् ‘सप्रति’ इति क्कचित्
  775. ‘मदनुग्रहेण' इति पाठ
  776. ‘रूपातर इति पाठ
  777. विजानीयात्' इति पाठ
  778. ‘बर च तभरर्णि' इति पाठ
  779. ‘अतर्जगाम’ इति पाठ
  780. ‘अमी” इति नास्ति कश्चित्
  781. 'दमुन ' इति पाठ
  782. ‘अगस्त्यस्य इति नास्ति कचित्
  783. ‘दुर्विलसादासादितवरा वरारोइया तया सह’ इति पाठ
  784. ‘ते’ इति नास्ति क्कचित्
  785. ‘अनतिसमीपगामिनी पितृवनशमीम्' इति पाठ
  786. ‘अपि' इति पाठ
  787. ‘अस्यातिकामस्यपरा' इति पाठ
  788. ‘दवींकरो” इति पाठ
  789. माययितुम्' इति पाठ
  790. ‘विरोधिविरते ’ इति पाठ
  791. ‘अत्र हेतु ' इति पाठ
  792. ‘वीक्ष्यैनाम्' इति पाठ
  793. 'त्रीडपीडनात्' इति पाठ
  794. ‘स्ववशा भ्रमादूत’ इति पाठ
  795. ‘अधिगत’ इति पाठ
  796. ‘गोश्रापलाप’ इति पाठ
  797. पञ्चानामपि’ इति पाठ
  798. पाञ्चालनृपतिसुता पश्चापि’ इति पाठ
  799. ‘कृतै ’ इति पाठ
  800. ‘सपादितम्' इति पाठ
  801. अनेन' इति पाठ
  802. ‘गेइम्’ इति पाठ
  803. ‘परिक्लेशदु खादिव’ इति पाठ
  804. ‘अवकुण्ठिताङ्गीम्' इति पाठ
  805. नीचा वाचम्’ इति पाठ
  806. ‘फलाङ्कुर' इति पाठ
  807. 'अस्या ' इति पाठ
  808. ‘निरोक्ष्यसे त्व तु विचित्रमेत मध्येन’ इति याठ
  809. ‘विचिन्तनवता’ इति पाठ
  810. 'सलक्ष्यते’ इति पाठ ।
  811. ‘तटेनिवासी’ इति पाठ
  812. 'त्रिवेणीम्' इति पाठ
  813. ’लवाविलाखिलाङ्गी’ इति पाठ
  814. ‘विजन' इति पाठ
  815. ‘अपि’ इति नास्ति कचिव्
  816. विकारिका' इति पाठ
  817. ‘अपि’ इति पाठ
  818. ‘प्रतायते’ इति पाठ
  819. “पतिवत्वोषु’ इति पाठ
  820. ‘गृहीत्वा’ इति पाठ
  821. ‘चमर इति पाठ
  822. ‘भूपतिभवनम्’ इति पाठ
  823. ‘बाष्पसलिलै’ इति पाठ
  824. ‘धृत्वा कचे’ इति पाठ
  825. ‘चलता’ इति पाठ
  826. “परामृश्ये’ इति पाठ
  827. ‘अधिकोऽपराधे' इति पाठ
  828. ‘गृहिणीजनानाम्’ इति पाठ
  829. ‘इमाम्' इति पाठे
  830. ‘हत्या तरत ' इति पाठ
  831. 'इव' इति पाठ
  832. ‘अनौपायिकम्’ इति पाठ
  833. 'अस्त्राम्' इति पाठ
  834. ‘अकीर्तिमष्याथब् विलिप्तनेत्राम्’ इति पाठ
  835. ‘जालै ” इति पाठ
  836. ‘आपत्य’ इति पाठ
  837. ‘अस्या ’ इति पाठ
  838. ‘आश्वसत्ताम्’ इति पाठ
  839. ‘भामिनी’, ‘मालिनी' इति च पाठ
  840. ‘इति' इति पाठ
  841. प्रतिजुगुप्प्तया' इति पाठ
  842. ‘तृष्णा’ इति पाठ
  843. ‘चक्रे’ इति पाठ
  844. ‘अनिद्राणस्य’ इति पाठ ।
  845. ‘वस्तुनि” इति नास्ति कचित्
  846. ‘वक्र नः पश्येर्न पुन स्पृशेश्च' इति पाठ
  847. 'मानिनि इति पाठ
  848. 'बल्लवोऽपि इति पाठ
  849. 'यदागम ' इति पाठ
  850. 'उपायनम् इति पाठ
  851. 'आददे' इति पाठ
  852. ’प्रक्लृप्तम्’इति पाठ
  853. ‘च' इति पाठ
  854. ‘पटुशौर्यवन्तौ नियुद्धकेलिं निशि निर्मिमाते’ इति पाठ
  855. ‘सुधूनितोऽपि’ इति पाठ
  856. ‘तदनु' इति नास्ति कचिव
  857. ‘समीयु ’ इति पाठ
  858. ‘भरस्य’ इति पाठ
  859. भीममुष्टिभि ’ इति पाठ
  860. ‘उपवध्यमानस्य' इति पाठ
  861. ‘महत्या’ इति नास्ति कश्चित्
  862. ‘उच्चकै ” इति पाठ
  863. सवथ्नोर्वातबलातमइसामीषल्लभोन्मीलनै ' इति पाठ
  864. ‘दधता’ इति पाठ
  865. ‘तरूनिव’ इति पाठ
  866. 'षीची’ इति नास्ति कचित्
  867. सति’ इति नास्ति कचित्
  868. ‘निगलित् इति पाठ
  869. ‘निबिडम् इति पाठ ,
  870. 'अपि जृम्भितेषु’ इति पाठ
  871. ‘सौबलिभ्याम्' इति पाठ
  872. ‘भीमादिमान्’ इति पाठ
  873. ‘अपीदम्’ इति पाठ
  874. ‘सप्रति खलु’ इति पाठ
  875. ‘अपि’ इति नास्ति क्कचित्
  876. ‘अभि धेयताम्’ इति पाठ
  877. ‘मण्डपिका’ इति पाठ
  878. ‘सर्वकरावमश’ इति पाठ
  879. ‘मुता’ इति पाठ
  880. ‘तेऽपि पुनरशातवासिन परेतपतिपवमानपाकशासनाधिना पारलैणेयास्तस्या पतिविडम्बका’ इति पाठ
  881. ‘बर्’ इति नास्ति कचिद्
  882. 'पञ्चभि' इति नास्तिक्कचित्
  883. तत्र दक्षि णेन पुर व्यग्रतरसै येन काल्यमान कचित् ' इति पाठ
  884. 'विचित्र' इति नास्ति क्कइ
  885. 'शम त', 'स्यमन्तक' इति च पाठ
  886. ‘सालवनम्” इति पाठ
  887. भथनपरिक्षोभित ’ इति पाठ
  888. ’उल्लसित' इति पाठ
  889. ‘दक्षिणेन पुर व्यग्रतरसयेन तेन काल्यमान’ इति नास्ति वचित्
  890. ‘सैन्थपरिवर्तेन’ इति पाठ
  891. ‘जीवितहरणाय’ इति पाठ
  892. ‘केतनदण्डै' इति पठ
  893. ‘आरभटीम्’ इति माठ
  894. ‘अटीकत’ इति पाठ
  895. पैौरैश्च' इति पाठ
  896. धीर’ इति पाठ
  897. 'मात्स्य' इति पाठ.
  898. प्रधान' इति पाठ
  899. ‘निजनामपरार्धवाच्यमेतत्’ इति पाठ
  900. 'दिवस्यले' इति पाठ २ 'आगात्' इति पाठ
  901. ‘शरनिकरनिकृत्त' इति पाठ
  902. ‘सप्तिकुलपत्तिनव’ इति पाठ
  903. “त्रिगत' इति पाठ
  904. ‘युद्धम्’ इति पाठ
  905. ‘सेनाक्षधूग्धृतशश्र ’ इति पाठ
  906. ‘मुहूर्ते मुहुरविरल वळल्मेव’ इति पाठ
  907. ‘अवलोकमाना वलमाना' इति पाठ
  908. ‘प्रसृतैमदकरटिघटाविषाणाड्कुरप्रति’ इति पाठ
  909. ‘विमदभटक्ष्रमदुर्दशा । इति पाठ
  910. ‘निवतनवेगइर्षमाणगोधनपय प्रस्रवणधारा’ इति पाठ
  911. ‘निमीलनेन’ इति पाठ
  912. ‘लोचनयोर्निमीलन’ इति पाठ
  913. पाश्चात्यमीमानमत्यवी- वइत्' इति पाठ
  914. ‘तत्पुरे’ इति पाठ
  915. ‘बिदूर’ इति पाठ
  916. ‘जगृहे’ इति पाठ
  917. ‘भस्ते’ इति पाठ
  918. 'विधातु' इति पाठ
  919. ‘तस्य पुरस्य’ इति पाठ
  920. ‘पक्षघात' इति पाठ
  921. ‘वेध ’ इति पाठ
  922. ‘विषण्ण ’ इति पाठ
  923. ‘नन्दिनीं’ इति पाठ
  924. ‘अकृत्रिमाणि’ इति पाठ
  925. ‘बल्ल्वभुजलतालावलेप’ इति पाठ
  926. “वीरपन्तीवीरजननीति तव’ इति पाठ
  927. इस्तपछवतल्लजवृद्ध” इति पाठ
  928. 'याच्ञा’ इति पाठ
  929. ‘गवाक्षोपलक्षितम्' इति पाठ
  930. ‘प्रयाणकाल’ इति पाठ
  931. ‘पथ’ इति पाठ
  932. “घोषान्' इति पाठ
  933. ‘बृन्दारकन्दमुक्त’ इति पाठ
  934. ‘बललचिकुर’ इति पाठ
  935. ‘विजयाय विज्ञापयितु’ इति पाठ
  936. ‘भविष्यतीति प्रणमत’ इति पाठ
  937. ‘प्रवेपथु’ इति पाठ
  938. ‘पुदस्य’ इति पाठ
  939. ‘वचनम्' इति पाठ
  940. ‘एत्य इति पाठ
  941. त्यवत्वा' इति पाठ
  942. ‘बहुधा’ इति पाठ
  943. ‘पाद ' इति पाठ
  944. ‘अमरपतियुत' 'अमराधिपसुत ’ इति च पाठ
  945. ‘आपृश्यालिङ्गयन्’ इति पाठ
  946. 'बलभाजां मानकर्तनभितोऽपिपुन किम्' हति पाठ
  947. 'विस्तीर्य' हति पाठ
  948. 'राष्ट्रम्' इति पाठ
  949. व्याकरणात्’ इति पाठ
  950. ‘सारथि’ इति पाठ
  951. ‘आरुझ’ इति पाठ
  952. ‘पुन ' इति पाठ
  953. ‘निजवस्त्रपट्ट' इति पाठ
  954. ‘गाण्डिवस्य विस्फारेण पार्थोऽयम्’ इति पाठ
  955. ‘विस्तर इति पाठ,
  956. ‘स्ववीर्यम्’ इति पाठे
  957. “समीयु ’ इति पाठ
  958. ‘भुजगर्विणा विषामुच्छूितान्'
  959. ‘भुजगवविप्रुषामुच्छूितान्’ इति च पाठ
  960. ‘अथ लब्ध', ‘अवबद्ध’ इति च पाठ
  961. ‘मयात्' इति पाठ
  962. ‘वीरा ' इति पाठ
  963. ‘नृपेन्द्र' इति पाठ
  964. ‘गङ्गां सिता रविसुतामसिता पिशङ्गी चक्रे तयो सहचरीं च पुरा द्विरिंचि' इति पाठ
  965. ’शोण कृता' इति पाठ
  966. ‘शकलित ’, ‘विगक्तित इति च पाठ
  967. 'मम्ले' इति पाठ
  968. ‘सति दलान्यपि' इति पाठ
  969. ‘पृतना निखिला' इति पाठ
  970. 'निजबधू' इति पाठ
  971. ‘विद्विषा’ इति पाठ
  972. ‘अमीषु' इति नास्ति कचित्
  973. ‘परिनृम्भणाव’ इति पाठ
  974. ‘चमूचरै शति पाठ
  975. ‘चैलम् इति पाठ
  976. ‘कुटुम्भकेषु' इति पाठ
  977. ‘नवसमररुधिर ’ इति पाठ
  978. ‘परितृप्ति’ इति पाठ
  979. ‘समायातेषु’ इति पाठ
  980. ‘भूयोऽपि ल्कैम्य' इति पाठ
  981. ‘भूय’ इति नास्ति कचित्
  982. ‘औत्पातिककालचत्र्कै ’ इति पाठ
  983. ‘परिगच्छन्' इति पाठ
  984. गोघटा' इति पाठ
  985. ‘भूत' इति पाठ
  986. ‘कुरुभट' इति पाठ
  987. ‘अलकामिव स्वा पुरीम्’ इति पाठ
  988. ‘उपलक्षित' इति नास्ति कचिव
  989. ‘तदा’ इति पाठ
  990. ‘दिदेश', '"यादत्त’ इति च पाठ
  991. गलूथसे’ इति पाठ
  992. तत्र' इति पाठ
  993. ‘विनम्रीभूत’ इति पाठ
  994. ‘अये देख’ इति पाठ
  995. 'आदाय’ इति पाठ
  996. ‘इमा पुरीम्’ इति पाठ
  997. ‘आकर्ण्थ’ इति पाठ
  998. विहार इति नास्ति कचित्
  999. श्लाघमाने’ इति पाठ
  1000. 'याथात्म्यस्' इति पाठ
  1001. 'चकितम्' इति पाठ ३ 'प्रत्यासन्नेन' इति पाठ
  1002. वृक्षान्’ इति पाठ
  1003. ‘प्रकोष्ठाङ्गेण’ इति पाठ
  1004. ‘मागिनेय' इति पाठ
  1005. ‘तत ’इति पाठ
  1006. ‘कामो बलवैरिस्तु ’ इति पाठ ,
  1007. ‘कुरुकुजरस्य’ इति नास्ति रचित्
  1008. ‘वीथीवीथीषु , ‘बीथीषु वीथीषु' इति च पाठ
  1009. 'बुद्धिम् ' इति पाठ
  1010. ‘तद्भर्म’ इति पाठ
  1011. मीनध्वजा' इति पाठ
  1012. ‘जयिन ' इति पाठ
  1013. ‘क्रमेण’ इति नास्ति ऋचित्
  1014. ‘प्रथमागमन’ इति पठ
  1015. ‘रणाङ्गणे’ इति पाठ
  1016. ‘जम्बूककदम्बकरटितै ' इति पाठ
  1017. ‘कतिपयै ’ इति पाठ
  1018. ‘पौरव' इति पाङ ,
  1019. ‘किंवदया प्रवहत्य सस्यम्’ इति पाठ
  1020. क्षीनाक्षर ’ इति पाठ
  1021. ‘सरोरुहाक्षमेव व्याचचक्षे’ इति पाठ
  1022. 'अधुना' इति पाठ
  1023. 'षमम्' इति पाठ
  1024. ‘भाव ' इति पाठ
  1025. सिद्धये’ इति पाठ
  1026. अय श्लोक केषुचित्पुस्तकेषु न दृश्यते
  1027. ‘अमीषुमानपि’ इति पाठ
  1028. ‘आतिशयित भदनृत्यम्’ इति पाठ
  1029. ‘सक्षय’ इति पाठ
  1030. ‘समाप्नोत्' इति पाठ
  1031. ’अथ’ इत्यादि ‘निकेतात्’ इत्य व कचिन्नास्ति
  1032. ‘विगतायां रचयामिव पृथासुतकथायाम्’ इति पाठ
  1033. ‘जृम्भितेषु’ इति पाठ
  1034. ‘उत्पळादिव महोत्पळ राजनगराद्विदुरमन्दिरमागतेषु चञ्चरीकेष्विव सारिकेषु विरोचन इव कमलविलोचन प्राचीनगिरेरिव पयङात् इति पाठ
  1035. ‘अपरेयुरखिल, ‘अयेयुरखिल’ इति च पाठ
  1036. ‘बहिर्बनै ’ इति पाठ
  1037. ‘उपश्लोकथितुम्' इति पाठ
  1038. ‘औत्पातिक’ इति पाठ
  1039. ’बाहुदण्डो द्वारि’ इति पाठ
  1040. ‘सस्पशनम्’ इति पाठ
  1041. ‘द्वारि’ इति नास्ति कचित्
  1042. ‘आगतेन' इति पाठ
  1043. ‘किंचिदेव' इति पाठ
  1044. मुखै’ इति पाठ
  1045. ‘ब्राह्मणै ’ इति पाठ
  1046. ‘चिरमवसर' इति पाठ
  1047. ‘वनजावलिम्’ इति पाठ
  1048. ‘वध’ इति पाठ
  1049. ‘प्रज धनम्' इति पाठ
  1050. आङ्कलितेन' इति पाठ
  1051. अय क्ष्लोक केषुचित्पुस्तकेषु न दृश्यते
  1052. ‘प्रदत्ता’ इति पाठ
  1053. ‘अवनतम्' इति पाठ
  1054. ‘गिरम्' इति पाठ
  1055. स्त्वयाघ ’ इति पाठ
  1056. ‘सिखान्तवति’ इति पाठ
  1057. 'विनिवेशित’ इति पाठ
  1058. ‘गण्डमण्डल' इति पाठ
  1059. ‘कटितटचलन’ इति पाठ
  1060. ‘ममरमीषत्’ इति पाठ
  1061. ‘कौरव'इति पाठ
  1062. ‘किमलितश्च' इति पाठ
  1063. पुरुषो’ इति पाठ
  1064. अय क्ष्लोक केषुचित्पुस्तकेषु न दुश्यते
  1065. ‘प्रगदित ’, ‘गदित’ इति च पाठ
  1066. ‘उज्जहार’ इति पाठ
  1067. ‘अरे’ इति पाठ
  1068. ‘भयानाम्’ इति पाठ
  1069. ‘अक्षौहिणीभि ’ इति पाठ
  1070. अञ्जली’ इति पाठ
  1071. ‘अवलोकितुम्’ इति पाठ
  1072. ‘भवता यथा' इति पाठ
  1073. ‘पुरस्तात्' इति नास्ति कचित्
  1074. ‘व्याजहार ' इति पाठ
  1075. ‘पेटी’ इति पाठ
  1076. ‘सस्मेरा’ इति पाठ
  1077. ‘सदस पुष्पवृष्टिम्’, ‘सदस पुष्पवषम्’ इति च पाठ
  1078. “पक्ष्मपात’ इति पाठ
  1079. ‘फरि’ इति पाठ
  1080. ‘तस्य निरुपमान’ इति पाठ
  1081. ‘सार्थं समुपसृत्य’ इति पाठ
  1082. प्रम बते भवते भगवते’ इति पाठ
  1083. ‘कुवलयाकर' इति पाठ
  1084. ‘इन्द्रद्विषन्' इति पाठ
  1085. ‘उपेत्य ' इति पाठ
  1086. ‘वाटम्’ इति पाठ
  1087. ‘उत्कृष्ट इति पाठ
  1088. ‘पत्रिणो’ इति पाठ
  1089. ‘सति’ इति पठ
  1090. ‘पद’ इति पाठ
  1091. ‘अत्रा तरे’ इति पाठ
  1092. ‘कणे’ इति पाठ
  1093. ‘जजराङ्गके’, ‘झझराङ्गके' इति च पाठ
  1094. ‘पु या ’ इति पाठ
  1095. ‘सवनाभिषेके’ इति पाठ
  1096. ‘निकट' इति पाठ
  1097. अधिरथौ’ इति पाठ
  1098. ‘अनुष्ठितैौ’ इति पाठ
  1099. ‘मुखेन' इति पाठ,
  1100. ‘चिरकालरक्षित’ इति पाठ
  1101. ’तदश’ इति पाठ
  1102. ’अध्वनीत’ इति पाठ
  1103. ‘आबबन्ध’ इति पाठ
  1104. ‘भोजा वयो यो भुवनप्रतीत ’ इति पाठ
  1105. जमोपयमोत्सवौ चेत्' इति पाठ
  1106. ‘कर्ण इति पाठ
  1107. चित्ते’ इति पाठ
  1108. ‘उपपद’ इति पाठ
  1109. ‘तटतरु’ इति पाठ
  1110. ‘एव’ इति पाठ
  1111. ‘मदाम्भोठहरिभि ’ इति पाठ
  1112. ‘स्थळात्’ इति पाठ
  1113. ‘बा’ इति पाठ
  1114. ‘अमी’ इति पाठ
  1115. ‘धूर्या’ इति पाठ
  1116. ‘पदम्' इति पाठ
  1117. ‘विराजमान' इति पाठ
  1118. ‘विपणिविस्तरितविविध’ इति पाठ
  1119. ‘वार’ इति नास्ति कचित्
  1120. निबिडित’ इति पाठ
  1121. ‘प्रासतोमरप्रमुख’ इति पाठ
  1122. ‘तावत्’ इति नास्ति कचित्
  1123. विनोदन’ इति पाठ
  1124. ‘विहितविवाह' इति पाठ
  1125. ‘विनिहन्तु’ इति पाठ
  1126. ‘उपयमस्व’ इति पाठ
  1127. विशापितस्य इति पाठ
  1128. ‘चरणनलिनयो ’ इति पाठ
  1129. ‘रिपुभटान्' इति पाठ
  1130. ‘तु’ इति पाठ
  1131. ‘जाह्नवेयेन’ इति पाठ
  1132. ‘कुमार ’ इति पाठ
  1133. ‘युधि तस्य ' इति पाठ
  1134. ‘खदिष्यामि’ इति पाठ
  1135. ‘प्रसादयामास' इति पाठ
  1136. ‘अग्रावनी’ इति पाठ
  1137. ‘पुरा' इति पाठ
  1138. ’पक्षीश्वरा’ इति पाठ
  1139. ‘निधाय’ इति पाठ
  1140. ‘कपाट’ इति पाठ
  1141. ‘रिपुगणैौ ’ इति पाठ
  1142. ‘नवघना’ इतेि पाठ
  1143. ‘सिन्धुर’ इति पाठ
  1144. ‘स्रस्ता’ इति पाठ
  1145. ‘भग्नैक इति पाठ
  1146. ‘पदौ’ इति पाठ
  1147. ‘आदधाते’ इति पाठ
  1148. ‘एकैक’ इति पाठ ।
  1149. ‘बिम्भभेदे’ इति पाठ
  1150. ‘अङ्गण’ इति पाठ
  1151. ‘गत’ इति पाठ
  1152. ‘अगात्' इति पाठ
  1153. ‘अथ विदधु ’ इति पाठ
  1154. ‘बमाणम्’ इति पाठ
  1155. ‘आस्पृशन्’ इति पाठ
  1156. 'परीतु’‘परेतु’ इति च पाठ
  1157. ‘असौ’ इति पाठ
  1158. ‘मुरजित्' इति पाठ
  1159. ‘च' इति पाठ
  1160. ‘विभ्रमयांचकार' इति पाठ
  1161. ‘खण्डकै ’ इति पाठ
  1162. मोषण’ इमि पाठ
  1163. ‘समापृच्छन’ इति पाठ
  1164. ‘वारवनिताजनता' इति पाठ
  1165. ‘आपतित’ इति पाठ
  1166. ‘कूजित’ इति पाठ
  1167. ‘वेगादापतित’ इति पाठ
  1168. ‘विपर्यस्तास्तविकटकुटविश्ङ्कट (विटङ्क) विप्रकीर्णमुक्ता’ इति पाठ
  1169. ’अथ’ इति नास्ति कचित्
  1170. ‘ब धुरयाक्त्रे' इति पाठ
  1171. 'भुजलता' इति पाठ
  1172. 'पुनरसौ' इति नास्ति कचित्
  1173. 'आरोहति सति' इति पाठ
  1174. 'गाण्डीविना' इति पाठ
  1175. 'समीक्ष्य' 'विलोक्य' इति च पाठ
  1176. 'अपसार' इति पाठ
  1177. 'दूर' इति पाठ
  1178. 'अबदारित' इति पाठ
  1179. 'शा तनव शातमना स्वा त' इति पाठ
  1180. बभ्राजे’ इति पाठ
  1181. ‘कोप’ इति पाठ
  1182. ‘तमिम शयित’ इति पाठ
  1183. ’प्रपन्ने' इति पाठ
  1184. ‘प्रथमा” इति पाठ
  1185. ‘परा' इति पाठ
  1186. ‘उदित’ इति पाठ
  1187. ‘त्र्क्षषभ' इति पाठ
  1188. ‘भूमृतम्’ इति पाठ
  1189. ‘रथद्विपश्यावृतैौ’ इति पाठ
  1190. ‘महोत्साहौ’ इति पाठ
  1191. ‘कीर्णे' इति पाठ
  1192. ‘समदाट्टहासौ’ इति पाठ
  1193. ‘सस्फालना’ ‘सस्फालिता' इति च पाठ .
  1194. ‘असोढा’ इति पाठ
  1195. ‘शायिनि’ इति पाठ
  1196. ‘मिदे’ इति पाठ
  1197. ‘सर्वेऽपि नरेद्रा’ इति पाठ
  1198. पेटक’ इति पाठ
  1199. ‘स्पर्धाभरास्तक्षक इति पाठ
  1200. ‘चिर' इति पाठ
  1201. ‘परस्पर ' इति पाठ
  1202. ‘अषतिष्ठन्’ इति पाठे
  1203. “वषै इर्ति पाठ
  1204. ‘तत ’ इति पाठ
  1205. ‘रथरक्षिण ’ इति पाठ
  1206. “वीक्षमाणेन माधवेन' इति पाठ
  1207. 'तुरगेण प्लवग' इति पाठ
  1208. ‘दुर्निरोधरथचर्यमाचाय'इति पाठ
  1209. काङ्क्ष्ति इति पाठ
  1210. ‘अपि धनजयाविल्युझमशब्दौ’ इति पाठ
  1211. ‘भुवनेषु’ इति पाठ
  1212. ‘तूणी' इति पाठ
  1213. ‘प्रतिभटाभिमुख’ इति पाठ
  1214. स्वकटकस्य सीमान’ इति पाठ
  1215. ‘प्रसङ्गे’ इति पाठ
  1216. रथमथ' इति पाठ
  1217. निखाय’, ‘विधाय' इति पाठ
  1218. युद्धवा' इति पाठ
  1219. ‘वराङ्ग इति पाठ
  1220. ‘द्वेट्टसेना’ इति पाठ
  1221. ‘कोपात्’ इति पाठ .
  1222. “दळया’ इति पाठ
  1223. ‘निबिड ' इति पाठ
  1224. ‘दत्तानि द्र’ इति पाठ
  1225. ‘उन्नमय्य’ इति पाठ
  1226. ‘दूर ससप द्विषता बलौघ’ इति पाठ
  1227. ‘अम्बुपूरा’ इति पाठ ।
  1228. ‘धावतो’ इति पाठ
  1229. ‘ध्वजिनीचर’ इति पाठ
  1230. ‘समाकुल' इति पाठ
  1231. ‘तो’ इति नास्ति कचित्
  1232. ‘तत’ इति नास्ति कचित्
  1233. ‘इन्तु' इति पाठ.
  1234. ‘दयिनस्य’ इति पाठ
  1235. कृत्य इति पाठ
  1236. ‘क्रौञ्चाचलात्' इति पाठ
  1237. ‘भाल' इति पाठ
  1238. ‘आदधाव’ इति पाठ
  1239. ‘हस्तिना’ इति पाठ
  1240. ‘पार्थसैनिका’ इति पाठ
  1241. ‘तादात्विकमनोरथ इति पाठ
  1242. ‘भवदभिधामिदानी स्मरणपथमारोपय चेतसा सावधानेन' इति पाठ
  1243. ‘च' इति पाठ
  1244. ‘पयोरुङ' इति पाठ
  1245. “अनुविचित्य’ इति पाठ
  1246. ‘युद्धरङ्गम् इति पाठ
  1247. क्ष्लोकोऽय कच्चिन्न दृक्ष्य
  1248. ’लक्ष्य’ इति पाठ
  1249. ‘प्रतिपद्य इति पाठ
  1250. ‘शायि” इति पाठ
  1251. ‘पह्ययूहगर्भ’ इति पाठ
  1252. ‘तस्मिन्’ इति नास्ति कचित्
  1253. ‘च्छित्त्वा’ इति पाठ
  1254. ‘कुरुराजगोष्ठया’ इति पाठ
  1255. ’अथो’ इति पाठ
  1256. तदेष्या’ इति पाठ
  1257. ‘निपीतनिव’ इति पाठ
  1258. ‘पटात्' इति पाठ
  1259. ‘कृणाति स्म शरेण’ इति पाठ
  1260. ‘तदनु तत्र तयो सेनयो ’ इति पाठ
  1261. ‘तदानी खलु जगति नियमि’ इति पाठ
  1262. ‘ब्यपेत’ इति पाठ
  1263. निज’ इति नास्ति कचिव
  1264. 'तदाक्ष्रु' इति पाठ
  1265. 'सूनोश्च' इति पाठ
  1266. ‘प्रतिश्रवम्’ इति पाठ
  1267. ‘समरेष्वभीरिति’ इति पाठ
  1268. ‘भगवता पाणिमित्रतोत्रेण पद्म’ इति पाठ
  1269. शूरजनबाष्प इति पाठ
  1270. ‘द्वारतले' इतिव पाठ
  1271. ‘मानसमागणगरुड इति पाठ
  1272. ‘सैन्धवै ’ इति नास्ति कचित्
  1273. रुद्ध' इति पाठ
  1274. ‘पत्तिभिश्च' इति पाठ
  1275. ‘पअव्यूहस्य’ इति पाठ
  1276. ‘प्रणिहित’ इति पाठ
  1277. ‘मेघमण्डल' इति पाठ
  1278. ‘दीपे’ इति पाठ
  1279. खिधति’ इति पाठ
  1280. ‘हृष्यते’ इति पाठ
  1281. धनु ’ इति पाठ
  1282. ‘सह’ इति पाठ
  1283. ‘वङ्ग’ इति पाठ
  1284. ‘जित्वा तौ’ इति पाठ
  1285. रिपु' इति पाठ
  1286. ’उभौ’ इति पाठ
  1287. ‘च' इति पाठ
  1288. ‘भयानक” इति पाठ
  1289. ‘भूमौ’ इति पाठ .
  1290. बभूव’ इति पाठ
  1291. ‘अयन’ इति पाठ
  1292. ‘सुत’ इति पाठ
  1293. विसरम्’ इति नास्ति कचित्
  1294. ‘दलित’ इति पाठ
  1295. ‘सम भ्रामयामास’ इति पाठ
  1296. ‘यौगपद्या’ इति पाठ
  1297. ‘आसाथ’ इति पाठ
  1298. श्रीकृष्णे निज’ इति नास्ति कचित्
  1299. ‘आदिश्य निहतु' इति पाठ
  1300. ’विदधाने’ इति पाठ
  1301. ’आस्त’ इति पाठ
  1302. ‘सह निजवदनमुढास’ इति पाठ
  1303. ‘अस्त्रेण’ इति पाठ
  1304. ‘इतीव सि धुराजस्य’ इति पाठ
  1305. ’यपातयत्' इति पाठ
  1306. ‘हृष्ट' इति पाठ
  1307. निधननिदानतया इति पाठ
  1308. ‘गम्भीर’ इति पाठ .
  1309. ‘एतदाकण्य’ इति पाठ
  1310. ‘समरवैज्ञानिक' इति पाठ
  1311. ‘नागर्या’ इति पाठ
  1312. ‘रणोत्सव' इति पाठ
  1313. ‘अपि' इति पाठ
  1314. ‘आर्थ’ इति पाठ
  1315. ‘हसितै ’ इति पाठ
  1316. ‘बिभ्युश्चक्षुरमी’ इति पाठ
  1317. 'प्रापु ’ इति पाठ
  1318. ‘एव' इति पाठ
  1319. ‘हि’ इति पाठ
  1320. ‘भि दीपालै ’ इति पाठ
  1321. ‘वर्षे ' इति पाठ
  1322. ‘नगानाम्’ इति पाठ
  1323. ‘छित्वा नमशेष' इति पाठ
  1324. ‘स्वस्वक्षय’ इति पाठ
  1325. ‘सतानादातस्थ’ इति पाठ
  1326. ‘धार्तराष्ट्रस्य ' इति नास्ति कचित्
  1327. ‘सप्राथन' इति पाठ
  1328. निभेघ' इति पाठ
  1329. ’यक्षिपत्, पातयामास’ इति च पाठ
  1330. ‘प्रबलप्रसिद्धे’ इति पाठ .
  1331. ‘योध' इति पाठ
  1332. ‘सत्र' इति नास्ति कचित्
  1333. ‘उत्पादयितुम्’ इति पाठ
  1334. “अतिरेक इति पाठ
  1335. ‘कुरु’ इति पाठ
  1336. दिशा’ इति पाठ
  1337. ‘आकाश’ इति पाठ
  1338. ‘दशदिश’ इति पाठ
  1339. ‘ब्याकोचमाने* इति पाठ
  1340. ‘कोपेन' इति पाठ
  1341. ‘द्रुपदविराट' इति पाठ
  1342. ‘शलाल' इति पाठ
  1343. ‘अग्निवेश्येन इति पाठ
  1344. ‘कुर्वाते’ इति पाठ
  1345. ‘अतिवृद्धत्व, ‘समृद्ध’ इति च पाठ
  1346. ‘पांचाळयोरहपूर्विकया’ इति पाठ
  1347. ‘सति’ इति नास्ति कचित
  1348. ‘बारविलासिनीना'इति पाठ
  1349. विडौज ‘इति पाठ
  1350. ‘दु समाध’ इति पाठ
  1351. निवात इति पाठ
  1352. ‘विभङ्ग’ इति पाठ
  1353. ‘शरीरेव' इति पाठ
  1354. ‘नाशदशां’ इति पाठ
  1355. ‘समाविवेश’ इति पाठ
  1356. ‘निरोध’ इति पाठ
  1357. ‘प्रपञ्चत्’ इति पाठ
  1358. ‘अलीक इति पाठ
  1359. ‘भवसा’ इति नास्ति कचित्
  1360. ‘वायुवासव' इति पाठ
  1361. ‘प्रधनसनिकृष्टधृष्टघुम्नवरूथिनी’ इति पाठ
  1362. ‘प्रचेता इव’ इति पाठ
  1363. ‘कुरुसेनाधिपति’ इति पाठ
  1364. ‘द्विपानाम्’ इति पाठ
  1365. ‘इति’ नास्ति कचित्
  1366. ‘ता इति नास्ति कचिव
  1367. ‘पातयता’ इति पाठ
  1368. निपातिते’ इति पाठ
  1369. ‘निगदित” इति पाठ
  1370. ‘मोह इति पाठ ,
  1371. ‘अवलोक्य’ इति पाठ
  1372. ‘हृष्टधी ’ इति पाठ
  1373. घुम्नोऽपि’ इति पाठ
  1374. ‘वधस्मृति’ इति पाठ
  1375. ‘अभिहन्तु’ इति पठ
  1376. ‘कचे’ इति पाठ
  1377. ‘तम्’ इति पाठ
  1378. ’यस्मिन्’ इति पाठ
  1379. ‘नासा ’ इति पाठ
  1380. ‘आभात्तदानीम्' इति पाठ
  1381. ‘समीपयातो व सरोजबन्धु ’ इति पाठ
  1382. ‘व्यधत्त’ इति पाठ
  1383. ‘पट्टिशखेटशक्तिशरास’ इति पाठ
  1384. ‘प्रसृत्वरै’ इति पाठ
  1385. रध्या’ इति पाठ
  1386. ‘आश्व’ इति पाठ
  1387. ‘प्रकम्पित’ इति पाठ
  1388. ‘भिदा’ इति पाठ
  1389. ‘चालनीव इति पाठ
  1390. ‘स्तुति’ इति पाठ
  1391. ‘न च' इति पाठ
  1392. “सुरद्रुवग’ इति पाठ
  1393. ’त तादृश’ इति पाठ
  1394. ‘सव्येतर’ इति पाठ ‘मुरये’ इति पाठ
  1395. ‘आतिरेकम्’ इति पाठ
  1396. ‘बुभुक्षितै ’ इति पाठ
  1397. ‘विपरिस्फुरत्' इति पाठ
  1398. परेघु ‘अपरेघु ’ इति पाठ
  1399. ‘सत्’ इति नास्ति क्कचित्
  1400. ’पर’ इति नास्ति वचित्
  1401. ‘राधातनथेन’ इति पाठ
  1402. ’सबहुमान' इति नास्ति कचित्
  1403. ‘नेपथ्य' इति पाठ
  1404. ‘तदनन्तरम्' इति पाठ
  1405. ‘प्रचण्ट’ इति पाठ
  1406. ’कोशलम्’ इति पाठ
  1407. ‘पयोधौ’ इति पाठ
  1408. ‘पयोधौ’ इति पाठ
  1409. ‘अपि च' इति नास्ति कचित्
  1410. दीप्ताखिल इति पाठ
  1411. ‘ताम्' इति पाठ
  1412. बाचम्’ इति पाठ
  1413. ‘पवाया’ इति नास्ति कचित्
  1414. ‘पत्र” इति पाठ
  1415. वाशिकेन” इति पाठ
  1416. निकुङ्जम् इति पाठ
  1417. ‘मत्वा’ इति पाठ
  1418. ‘जीवित’ इति पाठ
  1419. ‘त्र्क्ष्भुक्षकुमारे पक्ष’ इति पाठ ।
  1420. ‘वर्जम्' इति पाठ
  1421. ‘अभाणीत्' इति पाठ
  1422. ‘करणत्व' इति पाठ
  1423. पटौ’ इति पठ.
  1424. ‘जघटाते’ इति पाठ
  1425. ‘अदृश्यत’ इति पाठ
  1426. ‘तदनु’ इति नास्ति कचित्
  1427. ‘तत्र तयो सेनयोरुभयोरपि परस्पर इति पाठ
  1428. ‘शीकरनिकरान् ’ इति पाठ
  1429. ‘वम तीभिरिव’ इति पाठ
  1430. ‘उत्पादन', ‘उत्पतन इति च पाठ
  1431. ‘एव’ इति नास्ति कचित्,‘अपि’ इति पाठ
  1432. वलयै ‘ इति पाठ
  1433. ‘अतिविशाळयितु’ इति पाठ
  1434. ‘दूर दूरम्’ इति पाठ
  1435. ‘कणमभ्यागतै ,‘कर्णाम्यर्णमभ्यागतै इति च पाठ
  1436. ‘परिचिक्षिषया’ इति पाठ..
  1437. ‘दूर दूरम्’ इति पाठ
  1438. ‘प्रविसार यद्भि इति पाठ
  1439. ‘शोणे ’ इति पाठ
  1440. ‘सविदाय’ इति पाठ
  1441. ‘भयानक' इति पाठ
  1442. ‘शायनिक समीकमभूत’ इति पाठ
  1443. एतत्पूवम् ‘तदनन्तरम्’ इति कचित्
  1444. ‘धुर्य ’ इति पाठ
  1445. ‘दुरापम्' इति पाठ
  1446. ‘बुद्वुदाभ्यामिव' इति पाठ
  1447. ‘कलित’ इति पाठ
  1448. ’घनतरपरिधविघट्टनविपाटित’ इति पाठ
  1449. ‘समरसीमा’ इति पाठ
  1450. ‘गुल्फ’ इति पाठ .
  1451. ‘भीकरारवौ' इति पाठ
  1452. ‘पाणितया' इति पाठ
  1453. ‘निरीक्ष्य'इति पाठ
  1454. ‘समर’ इति पाठ
  1455. ’प्रावतयितु’ इति पाठ
  1456. ‘भारेण’ इति पाठ
  1457. ’धरणि” इति पाठ .
  1458. ‘निजां च' इति पाठ
  1459. ‘न्यधित’ इति पाठ
  1460. ‘याचकजनेषु’ इति पाठ
  1461. ‘सरोद्धति’, ‘तरोन्नति इति च पाठ
  1462. ‘अपि’ इति पाठ
  1463. ‘अपस्ना' इति पाठ
  1464. ‘भारमाली’ इति पाठ
  1465. ‘तम्’ इति पाठ
  1466. ‘मदेन' इति पाठ
  1467. ‘अवगम्य' इति पाठ
  1468. ‘निषक्त’, ‘अनुषक्त’ इति चपाठ
  1469. ‘रचितगूढा इति पाठ
  1470. ‘स्यमन्तपञ्चकसामन्त' इति पाठ
  1471. ‘स्वरित' इति पाठ
  1472. ‘वचनानि' इति पाठ
  1473. ‘सरिज्झरीषु ’ इति पाठ
  1474. ‘नव' इति पाठ
  1475. ‘जातस्य इति पाठ
  1476. ’अनोतै’ इति पाठ
  1477. ’अङ्कितात्' इति पाठ
  1478. ‘अधीत ’ इति पाठ
  1479. परुषाणि मारुति’ इति पाठ
  1480. ’धीर’ इति नास्ति कचित्
  1481. ‘कलहायितु’ इति पाठ
  1482. ‘जायते खछ यदाख्यथनिश’ इति पाठ
  1483. प्रमद्राति, ‘विमद्राति’ इति च पाठ
  1484. ‘शकलित इति पाठ
  1485. ‘प्रति’ इति नास्ति कचित् :
  1486. ‘चारिक’ इति पाठ
  1487. ‘त राजन इति पाठ
  1488. ‘सविता’ इति पाठ
  1489. ‘तत परम्’ इति पाठ
  1490. 'गुरुसुतचूडामणेराहरणाय' इति पाठ
  1491. ‘पद प्रतस्थे’ इति पाठ
  1492. ‘विजिग्ये” इति पाठ
  1493. ‘कुरुभूपति’ इति नास्ति क्कचित्
  1494. ‘उल्लोलित’ इति पाठ
  1495. ‘हे प्राणा ’ इति नास्ति क्कचित्
  1496. ‘आगम्य’ इति पाठ
  1497. ‘आचरन्ति’ इति पाठ
  1498. 'चिकुरहस्तान्’ इति नास्ति केचित्
  1499. ‘तूर्णमवतीर्णै’ इति पाठ
  1500. ‘पूरितार्यै ’ इति पाठ
  1501. ‘परिदेवनरवै’ इति पाठ
  1502. ‘अभिगम्यमान’ इति पाठ
  1503. ‘निपतितेषु परि’ इति पाठ
  1504. ’परिमुक्त’ इति पाठ
  1505. ‘कुसुम’ इति पाठ
  1506. ‘अपि परिलुण्ठस कुरुभूप’ इति पाठ
  1507. ’अथ' इति पाठ
  1508. ‘सममाइवभुवमागम्य' इति पाठ
  1509. ‘अय जन इति पाठ
  1510. ‘पतन्तम् इति पाठ
  1511. ‘धमात्जम’ इति पाठ
  1512. ‘निवतयामास’ इति पाठ
  1513. ‘सुधाग्धि' इति पाठ
  1514. ‘पुर’ इति पाठ
  1515. ‘सूमै’ इति पाठ
  1516. ‘न्यधु ’ इति पाठ
  1517. ‘विधाय’ इति पाठ
  1518. बीभत्सुना’ इति पाठ
  1519. “करणोपकारेण’ इति पाठ
  1520. ‘कचिद्विपमौप’ इति पाठ
  1521. ‘शारद्राकार्वरी’ इति पाठ
  1522. ‘आगम्य’ इति पाठ
  1523. ‘पुर’ इति नास्ति कचित्
  1524. ‘फलक’ इति नास्ति क्कचित्
  1525. ‘मङ्गळवाद्य' इति पाठ
  1526. ‘पुरीम्' इति पाठ
  1527. ‘बिम्बानीव दीपाडुराणि’ इति पाठ
  1528. ‘आर्तिक्य’ इति पाठ
  1529. ‘सुरमिते’ इति पाठ .
  1530. ‘क्रमादागत’ इति पाठ .
  1531. अथ' इति पाठ
  1532. ‘कृत्यज्ञ पाण्डवोऽसौ' इति पाठ
  1533. ‘सदधानो” इति पाठ
  1534. 'वसुधाप्यमूम्यम्'इति पाठ
"https://sa.wikisource.org/w/index.php?title=चम्पूभारतम्.pdf&oldid=154271" इत्यस्माद् प्रतिप्राप्तम्